तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६१४ तैत्तिरीये आरण्यके
ग्रै॒ष्मावे॒वास्मा॑ ऋ॒तू क॑ल्पयति⁽१७⁾ । ⁽१८⁾सम॒ग्निर॒ग्नि- ना॑ गतेत्याह॑ । अ॒ग्निर्च्यैवैषोऽग्निना॑ स॒ङ्गच्छ॑ते⁽१८⁾ । ⁽१९⁾स्वाहा॑ सम॒ग्निस्तप॑सा गतेत्याह॑ । पूर्व॑मे॒वादि॑तं । उत्त॑रेणाभिगृ॑णाति⁽१९⁾ । ⁽२०⁾ध॒र्त्ता दि॒वो वि॑भा॒सि रज॑सः पृथि॒व्या इत्या॑ह । वा॒र्षि॒कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ⁽२०⁾ । ⁽२१⁾हृ॒दे त्वा मन॑से त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति⁽२१⁾ ॥ ६ ॥
⁽२२⁾दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वै- मान् लो॒कान्त्सन्द॑धाति⁽२२⁾ । ⁽२३⁾विश्वा॑सां भुवां पत॒ इत्या॑ह । है॒म॒न्ति॒कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति⁽२३⁾ । ⁽२४⁾दे॒व॒श्रूस्त्वं दे॑व घर्म दे॒वान् पा॒हीत्या॑ह । शै॒शि॒रावे॒- वास्मा॑ ऋ॒तू क॑ल्पयति⁽२४⁾ । ⁽२५⁾तपो॒जां वाच॑म॒स्मे नि- य॑च्छ दे॒वायुव॒मित्या॑ह । या वै मेध्या॒ वाक् । सा त॑पो॒जा । तांमे॒वाव॑रुन्धे⁽२५⁾ ॥ ७ ॥
| १८ | एतन्मन्त्रस्य भाष्यं | ४४६ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| १९ | ,, | ४४७ | ,, |
| २० | ,, | ४४८ | ,, |
| २१ | ,, | ४४८ | ,, |
| २२ | ,, | ४४६ | ,, |
| २३ | ,, | ४४६ | ,, |
| २४ | ,, | ४५० | ,, |
| २५ | ,, | ४५० | ,, |
५ प्रपाठके ६ अनुवाकः। ६१५
(२६)गर्भो॑ दे॒वाना॑मि॒त्याह॑ । गर्भो॒ ह्येष दे॒वानां॑(२६) । (२७)पि॒ता म॑ती॒नामि॒त्याह॑ । प्र॒जा वै म॒तयः॑ । तासा॑- मे॒ष एव पि॒ता । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमाह॑(२७) । (२८)पतिः॑ प्र॒जाना॑मि॒त्याह॑ । पति॒र्ह्येष प्र॒जानां॑(२८) । (२९)म॒तिः क॑वी॒नामि॒त्याह॑ ॥ ८ ॥
म॒तिर्ह्येष क॑वी॒नां(२९) । (३०)सं दे॒वो दे॒वेन॑ सवि॒- त्रार्ऽय॑तिष्ठ॒ सं सूर्ये॑णारु॒क्तेत्याह॑ । अ॒मुञ्चै॒वादि॒त्यं प्र॑व॒र्ग्यञ्च॒ संशा॑स्ति(३०) । (३१)आयु॑र्दास्त्वम॒स्मभ्यं॑ घर्म वर्चो॒दा अ॒सीत्याह॑ । आ॒शिष॑मे॒वैतामाशा॑स्ते(३१) । (३२)पि॒ता नौ॑ऽसि पि॒ता नो॑ बो॒धीत्याह॑ । बो॒धय॑त्ये॒वै- न॑म्(३२) । (३३)नवै॒तेऽव॑का॒शा भ॑वन्ति । प॒त्न्यै दश॑मः । नव॒ वै पुरु॑षे प्रा॒णाः ॥ ९ ॥
नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॑-
२६ एतन्मन्त्रस्य भाष्यं ४५० पृष्ठे द्रष्टव्यं ।
| २७ | ,, | ४५१ | ,, | | २८ | ,, | ४५१ | ,, | | २९ | ,, | ४५१ | ,, | | ३० | ,, | ४५२ | ,, | | ३१ | ,, | ४५२ | ,, | | ३२ | ,, | ४५२ | ,, | | ३३ | ,, | ४५५ | ,, |
4 F
६१६ तैत्तिरीये आरण्यके
म॒वरु॑न्धे(२२) । ^{(२४)}य॒ज्ञस्य॒ शिरो॑ऽच्छिद्यत । तद्दे॒वा हो- त्रा॑भिः प्रत्य॑दधुः । ऋ॒त्विजो॒ऽवे॑क्षन्ते । ए॒ता वै होत्रा॑ः । होत्रा॑भिरेव य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति^{(२४)} ॥ १० ॥
^{(२५)}रु॒चितमवे॑क्षन्ते । रु॒चिता॑द्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जानाँ॒ सृष्ट्यै॑^{(२५)} । ^{(२६)}रु॒चितमवे॑क्षन्ते । रु॒चिता॑द्वै प॒र्जन्यो॑ वर्षति । व॒र्षुको॑ प॒र्जन्यो॑ भवति । सं प्र॒जा ए॑धन्ते^{(२६)} । ^{(२७)}रु॒चितमवे॑क्षन्ते । रु॒चितं॒ वै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति^{(२७)} ॥ ११ ॥
^{(२८)}अ॒धीयन्तो॒ऽवे॑क्षन्ते । सर्व॒मायु॑र्यन्ति^{(२८)} । ^{(२९)}न पत्न्यवे॑क्षेत । यत् पत्न्यवे॑क्षेत । प्र॒जाये॑त । प्र॒जां त्व॑स्यै॒ निर्द॑हेत् । यन्नावे॑क्षेत । न प्र॒जाये॑त । नास्यै॒ प्रजां निर्द॑हेत् । तिर॒स्कृत्य॒ यजु॑र्वाचयति ॥ प्र॒जाय॑ते । ना- स्यै॒ प्रजां निर्द॑हति^{(२९)} । ^{(४०)}त्वष्ट्री॑मती ते सपेयेत्या॑- ह । स॒पाद्घि प्र॒जाः प्र॒जाय॑न्ते^{(४०)} ॥ १२ ॥
| ३४ | एतन्मन्त्रस्य भाष्यं | १५५ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| ३५ | ,, | १५६ | ,, |
| ३६ | ,, | ४५६ | ,, |
| ३७ | ,, | ४५६ | ,, |
| ३८ | ,, | ४५७ | ,, |
| ३९ | ,, | १५७ | ,, |
| ४० | ,, | ४५७ | ,, |
५ प्रपाठके ७ अनुवाकः। ६१७
ऋ॒तवः॑(१), हि शिरः॑(२), सर्व॑पृष्ठे प्र॒वृण॒क्ति(३), अ॒नि॒प॒द्यमा॑न॒मित्या॑ह(४), ग॒तेत्या॑ह(५), शा॒र॒दावे॒- वास्मा॑ ऋ॒तू क॑ल्पयति(६), रु॒न्धे(७), क॒वी॒नामि॒- त्या॑ह(८), प्रा॒णाः(९), प्रति॑दधाति(१०), भव॑न्ति(११), वाच॒यति॒, चत्वा॑रि च(१२), ॥ अनु० ६ ॥
अथ सप्तमोऽनुवाकः ।
^(१)दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒- वाना॑मध्व॒र्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह॒ यत्यै॑^(१) । ^(२)आद॑दे॒ऽदि॑त्यै॒ रास्ना॑सी॒त्या॑ह य॒जुष्कृत्यै॑^(२) । ^(३)इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॒- स्यै दे॒वना॑मानि । दे॒वना॑मै॒वैना॒माह्व॑यति^(३) । ^(४)अ॒- सावे॒ह्यसा॑वे॒ह्यसा॑वे॒हीत्या॑ह । ए॒तानि॒ वा अ॒स्यै मनु॑- ष्यना॒मानि॑ ॥ १ ॥
१ एतन्मन्त्रस्य भाष्यं ४६० पृष्ठे द्रष्टव्यं ।
२ ,, ४६० ,,
३ ,, ४६१ ,,
४ ,, ४६१ ,,
4 F 2
६१८ तैत्तिरीये आरण्यके
म॒नु॒ष्य॒नामै॑रे॒वैना॒माह्व॑यति^{(४)}। ^{(५)}षट् सम्प॑द्यन्ते। षड् वा ऋ॒तव॑:। ऋ॒तुभि॑रे॒वैना॒माह्व॑यति^{(५)}। ^{(६)}अदित्या उ॒ष्णीष॑मसीत्या॑ह। यथा य॒जुरे॒वैतत्^{(६)}। ^{(७)}वा॒युर॑स्यै॒ड इत्या॑ह। वा॒युदै॑व॒त्यो वै वत्स॑:^{(७)}। ^{(८)}पूषा त्वापाव॑सृजत्वित्या॑ह। पौष्णा वै दे॒वत॑या प॒शव॑: ॥ २ ॥
स्वयै॒वैनं॑ दे॒वत॑या॒पाव॑सृजति^{(८)}। ^{(९)}अ॒श्विभ्यां॑ प्रदा॑पयेत्या॑ह। अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑। ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति^{(९)}। ^{(१०)}यस्ते॑ स्त॒नः श॑शय इत्या॑ह। स्तौत्ये॒वैनां॑^{(१०)}। ^{(११)}उस्र॑ घ॒र्मꣳ शि॑ङ्क्षो॒स्रं घ॒र्मं पा॑हि घ॒र्माय॑ शिङ्क्ष्वेत्या॑ह। यथा॑ ब्रूयाद॒मुष्मै॑ दे॒हीति॑। ता॒दृगे॒व तत्^{(११)}। ^{(१२)}बृह॒स्पति॑स्त्वा॒ऽसीद॒त्वित्या॑ह ॥ ३ ॥
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॑:। ब्रह्म॑णै॒वैना॒मुप॑सी-
| ५ | एतन्मन्त्रस्य भाष्यं | ४६२ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| ६ | ,, | ४६२ | ,, |
| ७ | ,, | ४६२ | ,, |
| ८ | ,, | ४६३ | ,, |
| ९ | ,, | ४६३ | ,, |
| १० | ,, | ४६४ | , |
| ११ | ,, | ४६४ | ,, |
| १२ | ,, | ४६५ | ,, |
५ प्रपाठके ७ अनुवाकः। ६१६
दति^{(१२)}। ^{(१३)}दानव स्थ पेर॒व इत्या॑ह। मेध्या॑ने॒वैना॑न् करोति^{(१३)}। ^{(१४)}विष्व॑ग्दृ॒तो लोहि॑ते॒नेत्या॑ह॒ व्यावृत्यै॑^{(१४)}। ^{(१५)}अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्वस्व पूष्णे पि॑न्वस्व॒ बृहस्पत॑ये पिन्व॒स्वेत्या॑ह। ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्यः पिन्व॑ते^{(१५)}। ^{(१६)}इन्द्रा॑य पिन्व॒स्वेन्द्रा॑य पिन्व॒स्वेत्या॑ह। इन्द्र॑मे॒व भा॒गधेये॑न॒ समर्ध॑यति^{(१६)}। ^{(१७)}द्विरिन्द्रा॒येत्या॑ह ॥ ४ ॥
तस्मा॒दिन्द्रो॑ दे॒वता॑नां॒ भूयि॑ष्ठ भा॒क्तमः॑^{(१७)}। ^{(१८)}गाय॒त्रोऽ॑सि त्रैष्टु॒भोऽसि॒ जागतमसीति॑ शफो॒पय॑मानाद॒त्ते। छन्दो॑भिरे॒वैना॒नाद॑त्ते^{(१८)}। ^{(१९)}सहौजॊ॑ भा॒गेनाप॑मे॒हीत्या॑ह। ऊर्ज॑मे॒वैनं॑ भा॒गम॑कः^{(१९)}। ^{(२०)}अ॒श्विनौ॒ वा ए॒तद्य॒ज्ञस्य॒ शिरः॒ प्रति॑दध॑तावब्रूतां। आवाभ्या॑मेव पू॒र्वाभ्यां॒ वष॑ट् क्रियाता॒ इति॑। इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्येत्या॑ह। अ॒श्विभ्या॑मे॒व पू॒र्वा-
| १३ | एतन्मन्त्रस्य भाष्यं | ४६५ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| १४ | ,, | ४६५ | ,, |
| १५ | ,, | ४६६ | ,, |
| १६ | ,, | ४६६ | ,, |
| १७ | ,, | ४६६ | ,, |
| १८ | ,, | ४६७ | ,, |
| १९ | ,, | ४६८ | ,, |
| २० | ,, | ४६८ | ,, |
६२० तैत्तिरीये आरण्यके
भ्यां॒ वष॑ट् करोति॑ । अथो॑ अ॒श्विना॑वेव॒ भाग॑धेयेन॒ समर्ध॑यति^(२०) ॥ ५ ॥
^(२१)घ॒र्मं पा॑त वसवो॒ यज॑ता॒ वडि॑त्याह । वसू॑नेव॒ भाग॑धेयेन॒ समर्ध॑यति^(२१) । ^(२२)यद्वष॑ट् कु॒र्यात् । या॒तया॑मास्य वषट्का॒रः स्यात् । यन्न वष॑ट् कु॒र्यात् । रक्षां॑सि य॒ज्ञꣳ ह॑न्युः । वडि॑त्याह । प॒रोक्ष॑मेव॒ वष॑ट् करोति । नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति । न य॒ज्ञꣳ रक्षां॑सि घ्नन्ति^(२२) ॥ ६ ॥
^(२३)स्वाहा॑ त्वा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टिवन॑ये जुहो॒मीत्या॑ह । यो वा अ॑स्य पु॒ण्यो र॒श्मिः । स वृ॑ष्टिव॒निः । तस्मा॑ ए॒वैनं॑ जुहोति^(२३) । ^(२४)मधु॑ ह॒विर॑सी॒त्या॑ह । स्व॒दय॑त्ये॒वैनं॑^(२४) । ^(२५)सूर्य्य॑स्य॒ तप॑स्त॒पेत्या॑ह । य॒था य॒जुरे॒वैतत्^(२५) । ^(२६)द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑गृह्णामी॒त्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॒ परि॑गृह्णाति^(२६) ॥ ७ ॥
| २१ | एतन्मन्त्रस्य भाष्यं | ४६६ | पृष्ठे द्रष्टव्यं |
|---|---|---|---|
| २२ | ,, | ४६९ | ,, |
| २३ | ,, | ४७० | ,, |
| २४ | ,, | ४७० | ,, |
| २५ | ,, | ४७१ | ,, |
| २६ | ,, | ४७१ | ,, |
५ प्रपाठके ७ अनुवाकः। ६२१
(२७)अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छामीत्या॑ह । अ॒न्तरि॑क्षेणैवै॑नमु॒र्पय॑च्छत । न वा ए॒तं म॑नु॒ष्यो॑ भ॒र्तुमर्ह॑ति^(२७) । (२८)दे॒वानां॑ त्वा पि॒तॄणा॒मनु॑मतो॒ भर्त्तु॑ꣳ शकेय॒मित्या॑ह । दे॒वैरे॒वैनं॑ पि॒तृभिरनु॑मत॒ आद॑त्ते^(२८) । (२९)वि वा ए॒नमे॒तद॑र्धयन्ति । यत् प॒श्चात् प्र॒वर्ज्यं॑ पु॒रो जुह्व॑ति । तेजो॑ऽसि॒ तेजोऽनु॒प्रेहीत्या॑ह । तेज॑ ए॒वास्मि॑न् दधाति^(२९) । (३०)दि॒वि॒स्पृङ्मा मा॑ हिꣳसीर॒न्तरि॑क्षस्पृङ्मा मा हि॑ꣳसीः पृथि॒वि॒स्पृङ्मा मा॑ हिꣳसीरि॒त्याहाहि॑ꣳसायै^(३०) ॥ ८ ॥
(३१)सुव॑रसि॒ सुव॑र्मे यच्छ दि॒वं य॑च्छ दि॒वो मा॑ पाहीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते^(३१) । (३२)शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्र॑व॒र्ग्यः॑ । आ॒त्मा वा॒युः । उ॒द्यत्य॑वातनामा॒न्या॑ह । आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति^(३२) । (३३)अ॑नवा॒नं । प्रा॒णानाꣳ॒ सन्त॑त्यै^(३३) । (३४)पञ्चा॑ह ॥ ९ ॥
| २७ | एतन्मन्त्रस्य भाष्यं | ४७२ | पृष्ठे द्रष्टव्यं। |
|---|---|---|---|
| २८ | ,, | ४७२ | ,, |
| २९ | ,, | ४७३ | ,, |
| ३० | ,, | ४७३ | ,, |
| ३१ | ,, | ४७३ | ,, |
| ३२ | ,, | ४७५ | ,, |
| ३३ | ,, | ४७५ | ,, |
| ३४ | ,, | ४७५ | ,, |
६२२ तैत्तिरीये आरण्यके
पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति⁽³⁴⁾ । ⁽³⁵⁾अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह । अ॒सौ वा आ॑दि॒त्योऽग्निर्वसु॑मान् । तस्मा॑ ए॒वैनं॑ जुहोति⁽³⁵⁾ । ⁽³⁶⁾सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह । च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवा॑न् । तस्मा॑ ए॒वैनं॑ जुहोति । वरु॑णाय त्वाऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह ॥ १० ॥
अ॒प्सु वै वरु॑ण आ॒दित्य॑वान् । तस्मा॑ ए॒वैनं॑ जुहोति । बृ॒हस्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहेत्या॑ह । ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑ण ए॒वैनं॑ जुहोति⁽³⁶⁾ । ⁽³⁷⁾स॒वि॒त्रे त्वर्भु॑मते वि॒भुम॑ते प्र॒भुम॑ते वाज॑वते॒ स्वाहेत्या॑ह । सं॒व॒त्स॒रो वै स॑वि॒तर्भु॑मान् वि॒भुमा॑न् प्र॒भुमा॑न् वाज॑वान् । तस्मा॑ ए॒वैनं॑ जुहोति⁽³⁷⁾ । ⁽³⁸⁾य॒माय॑ त्वाङ्गि॑रस्वते पि॒तृम॑ते॒ स्वाहेत्या॑ह । प्रा॒णो वै य॒मोऽङ्गि॑रस्वान् पि॒तृमा॑न् ॥ ११ ॥
३५ एतन्मन्त्रस्य भाष्यं ४७६ पृष्ठे द्रष्टव्यं ।
३६ ,, ४७६ ,,
३७ ,, ४७६ ,,
३८ ,, ४७६ ,,
५ प्रपाठके ७ अनुवाकः। ६२३
तस्मा॑ ए॒वैनं॑ जुहोति^{(३८)}। ^{(३९)}ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता॑भ्यो जुहोति^{(३९)}। ^{(४०)}दश॒ सम्प॑द्यन्ते। दशा॑क्षरा वि॒राट्। अन्नं॑ वि॒राट्। वि॒राजै॒वान्नाद्य॒मव॑रुन्द्धे^{(४०)}। ^{(४१)}रौहि॒णाभ्यां॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑यन्। तद्रौ॑हि॒णयो॑ रौहिण॒त्वं। यद्रौ॑हि॒णौ भवत॑ः। रौहि॒णाभ्या॑मेव तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति^{(४१)}॥ ^{(४२)}अह॒र्ज्योति॑ः के॒तुना॑ जुषताꣳ सु॒ज्योति॒र्ज्योति॑षाꣳ स्वाहा॒ रात्रि॒र्ज्योति॑ः के॒तुना॑ जुषताꣳ सु॒ज्योति॒र्ज्योति॑षाꣳ स्वाहेत्या॑ह। आ॒दि॒त्यमे॒व तद॒मुष्मिँ॑ल्लो॒केऽह्ना॑ प॒रस्ता॑द्दाधार। रात्र्या॑ऽव॒स्ता॑त्। तस्मा॑द॒सावा॑दि॒त्यो॑ऽमुष्मिँल्लो॒केऽहो॑रा॒त्राभ्यां॑ धृ॒तः^{(४२)}॥ १२॥
मनु॒ष्य॑नामानि॑(१), प॒शव॑:(२), सीद॒त्वित्या॑ह(३), इन्द्रा॒येत्या॑ह(४), अर्द्धयति(५), घ्नन्ति(६), गृह्णाति(७), अहिꣳसाया॑(८), पञ्चाह(९), आ॒दि॒त्यव॑ते॒ स्वाहेत्या॑ह(१०), पितृ॒मान्(११), ए॑ति, च॒त्वारि॑ च(१२)॥
अनु० ७॥
३९ एतन्मन्त्रस्य भाष्यं ४७६ पृष्ठे द्रष्टव्यं ।
४० ,, ४७७ ,,
४१ ,, ४८७ ,,
४२ ,, ४७७ ,,
४ G
६२४ तैत्तिरीये आरण्यके
अथ अष्टमोऽनुवाकः ।
(१)विश्वा॑ आशा दक्षि॒णस॒दित्या॑ह । विश्वा॑नेव दे॒वान् प्री॑णाति । अथो॑ दुरि॒ष्ट्या ए॒वैनं॑ पाति^(१) । (२)विश्वांᳵ दे॒वान॑याडि॒हेत्या॑ह । विश्वा॑नेव दे॒वान् भाग॒धेये॑न समर्धयति^(२) । (३)स्वाहा॑कृतस्य घ॒र्म्मस्य॒ मधोः॒ पिवतमश्विनेत्या॑ह । अ॒श्विना॑वेव भाग॒धेये॑न॒ समर्ध॑यति^(३) । (४)स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भिरित्या॑ह । अ॒ग्नयै॒वैनं॑ घारयति । अथो॑ ह॒विरे॒वाकः॑^(४) ॥ १ ॥
(५)अ॒श्विना॑ घ॒र्म्मं पा॑तः॒ हार्द्दि॑वानम॒हर्द्दि॑वाभि॒रू॒तिभि॑रित्या॑ह । अ॒श्विना॑वेव भाग॒धेये॑न॒ समर्ध॑यति^(५) । (६)अनु॑ वां द्यावापृथिवी मं॑सातामित्याहानु॑मत्यै^(६) । (७)स्वाहेन्द्रा॑य स्वाहेन्द्राव॒डित्या॑ह । इन्द्रा॑य॒ हि पु॒रोहू॒यतै॑^(७) । (८)आश्राव्या॑ह घ॒र्म्मस्य॑ य॒जेति॑ । वषट्कृ॑ते
| संख्या | सन्दर्भ | पृष्ठ संख्या | विवरण |
|---|---|---|---|
| १ | एतन्मन्त्रस्य भाष्यं | ४७८ | पृष्ठे द्रष्टव्यं । |
| २ | ” | ४७६ | ” |
| ३ | ” | ४७६ | ” |
| ४ | ” | ४७६ | ” |
| ५ | ” | ४८० | ” |
| ६ | ” | ४८१ | ” |
| ७ | ” | ४८१ | ” |
| ८ | ” | ४८२ | ” |
५ प्रपाठके ८ अनुवाकः। ६१५
जुहो॑ति । रक्ष॑सामप॑हत्यै । अनु॑यजति स्वगाकृ॑त्यै^{(८)} । ^{(६)}घ॒र्म्मं पा॑तमश्विनेत्या॑ह ॥ २ ॥
पूर्व्वमे॒वादृ॑तं । उत्त॑रेणाभिगृ॑णाति^{(९)} । ^{(१०)}अनु॑ वां ॒द्यावा॑पृथिवी अ॒मꣳसातामित्या॒हानु॑मत्यै^{(१०)} । ^{(११)}तं प्राञ्चं॒ यथावत्स॒मौ दि॒वे नमः॑ पृथि॒व्या इत्या॑ह । यथा॒यजु॑रे॒वैतत्^{(११)} । ^{(१२)}दि॒वि धा॑ इ॒मं य॒ज्ञं य॒ज्ञमि॒मं दि॒वि धा इत्या॑ह । सु॒वर्ग॑मे॒वैनं॑ लो॒कं ग॑मयति^{(१२)} । ^{(१३)}दि॒वं ग॑च्छान्तरि॑क्षं गच्छ पृथि॒वीं ग॑च्छेत्या॑ह । ए॒ष्वेवैनं॑ लो॒केषु प्रति॑ष्ठापयति^{(१३)} । ^{(१४)}पञ्च॒ प्रदिशो॑ ग॒च्छेत्या॑ह ॥ ॥ ३ ॥
दि॒क्ष्वेवैनं॒ प्रति॑ष्ठापयति । दे॒वान् घ॑र्म्म॒पान् ग॑च्छ पि॒तॄन् घ॑र्म्म॒पान् ग॒च्छेत्या॑ह । उ॒भये॑ष्वे॒वैनं॒ प्रति॑ष्ठापयति^{(१४)} । ^{(१५)}यत् पिन्व॑ते । वर्षु॑कः प॒र्जन्यो॑ भवति ।
| ६ | एतन्मन्त्रस्य भाष्यं | ४८२ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| ९ | ” | ४८३ | ” |
| ११ | ” | ४८३ | ” |
| १२ | ” | ४८३ | ” |
| १३ | ” | ४८३ | ” |
| १४ | ” | ४८३ | ” |
| १५ | ” | ४८५ | ” |
१२६ तैत्तिरीये आरण्यके
तस्मा॑त् पिन्व॑मानः पु॒ण्यः॑^(१५) । ^(१६)यत् प्राङ् पिन्व॑ते । तद्दे॒वानां॑ । यह॒क्षि॑णा । तत् पि॑तॄणां ॥ ४ ॥
यत् प्रत्यक् । तन्म॑नु॒ष्या॑णां । यदुद॑ङ् । तद्रुद्राणां^(१६) । ^(१७)प्राञ्च॒मुद॑ञ्चं पिन्वयति । दे॒व॒चाकः॑^(१७) । ^(१८)अथो॒ खलु॑ । सर्वा॒ अनु॒ दिशः॑ पिन्वयति । सर्वा॒ दिशः॑ समर्धन्ते^(१८) । ^(१९)अ॒न्तः परि॑धि पि॑न्वयति ॥ ५ ॥
तेज॒सोऽस्क॑न्दाय^(१९) । ^(२०)इ॒षे पी॑पिह्यूर्जे पी॑पिहीत्याह॑ । इष॑मे॒वोर्जं॒ यज॑माने दधाति^(२०) । ^(२१)यज॑मानाय पी॑पिहीत्याह॑ । यज॑मानायै॒वैतामा॒शिष॒माशा॑स्ते^(२१) । ^(२२)मह्यं॒ ज्यैष्ठ्या॑य पी॑पिहीत्याह॑ । आ॒त्मन॑ ए॒वैतामा॒शिष॒माशा॑स्ते^(२२) । ^(२३)त्वि॒ष्यै॑ त्वा द्यु॒म्नाय॑ त्वेन्द्रि॒याय॑ त्वा भूत्यै॑ त्वेत्याह॑ । यथा॒ यजु॒रेवैतत्^(२३) । ^(२४)धर्म्मा॑सि सु॒धर्म्मा॒ मैऽन्यस्मै॑ ब्रह्म॒णे धार॑येत्याह॑ ॥ ॥ ६ ॥
| संख्या | सन्दर्भ | पृष्ठ संख्या | टिप्पणी |
|---|---|---|---|
| १६ | एतन्मन्त्रस्य भाष्यं | ४८५ पृष्ठे | द्रष्टव्यं । |
| १७ | ,, | ४८५ | ,, |
| १८ | ,, | ४८५ | ,, |
| १९ | ,, | ४८५ | ,, |
| २० | ,, | ४८६ | ,, |
| २१ | ,, | ४८६ | ,, |
| २२ | ,, | ४८६ | ,, |
| २३ | ,, | ४८६ | ,, |
| २४ | ,, | ४८७ | ,, |
५ प्रपाठके ८ अनुवाकः । ६२७
ब्रह्म॑न्ने॒वैनं॑ प्रति॒ष्ठाप॑यति^(२४) । ^(२५)नेन्त्वा वात॑: स्कन्द्यादिति॑^(२५) ^(२६)यद्य॑भिच॒रेत्॑ । अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयाम्य॒मुना॑ स॒ह निर्ऋ॑थं गच्छेति॑ ब्रूयाद्यं द्विष्यात् । यमे॒व द्वेष्टि॑ । तेनै॑नंँ स॒ह निर्ऋ॑थं गमयति^(२६) । ^(२७)पू॒ष्णे शर॑से॒ स्वाहेत्या॑ह । या एव दे॒वता॑ हु॒तभा॑गाः । ताभ्य॑ ए॒वैनं॑ जुहोति^(२७) । ^(२८)ग्राव॑भ्यः॒ स्वाहेत्या॑ह । या ए॒वान्तरि॑क्षे वाच॑: ॥ ७ ॥
ताभ्य॑ ए॒वैनं॑ जुहोति^(२८) । ^(२९)प्र॒ति॒रेभ्यः॒ स्वाहेत्या॑ह । प्रा॒णा वै दे॒वाः प्र॑ति॒राः । तेभ्य॑ ए॒वैनं॑ जुहोति^(२९) । ^(३०)द्यावा॑पृथि॒वीभ्याँ॒ स्वाहेत्या॑ह । द्यावा॑पृथि॒वीभ्या॑मे॒वैनं॑ जुहोति^(३०) । ^(३१)पि॒तृभ्यो॑ घ॒र्मपे॑भ्यः॒ स्वाहेत्या॑ह । ये वै यज्व॑नः । ते पि॒तरो॑ घ॒र्मपाः॑ । तेभ्य॑ ए॒वैनं॑ जुहोति^(३१) ॥ ८ ॥
| २५ | एतन्मन्त्रस्य भाष्यं | ४८७ पृष्ठे | द्रष्टव्यं । |
|---|---|---|---|
| २६ | ,, | ४८८ | ,, |
| २७ | ,, | ४८९ | ,, |
| २८ | ,, | ४८९ | ,, |
| २९ | ,, | ४८९ | ,, |
| ३० | ,, | ४८९ | ,, |
| ३१ | ,, | ४९० | ,, |
१२८ तैत्तिरीये आरण्यके
(६२)रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहेत्या॑ह। रु॒द्रमे॒व भा॑गधेये॑न सम॑र्धयति(६२)। (६३)सर्व॑तः॒ समन॑क्ति। सर्व॑त एव रु॒द्रं निर॑वदयते(६३)। (६४)उद॑ञ्चं॒ निर॑स्यति। ए॒षा वै रु॒द्रस्य॒ दिक्। स्वाया॑मेव॒ दिशि॑ रु॒द्रं निर॑वदयते(६४)। (६५)अप॒ उप॑स्पृशति मेध्य॒त्वाय॑(६५)। (६६)नान्वी॑क्षेत। यद॒न्वीक्षेत॥ ६॥
चक्षु॑रस्य प्रमायु॑कः स्यात्। तस्मा॒न्नान्वीक्ष्यः॑(६६)। (६७)अपो॑परो माहो रात्रियै मा पाह्येषा ते अग्ने समि॒त्तया समि॑ध्यस्वाऽऽयु॑र्मे दा वर्च॑सा माञ्जीरित्या॑ह। आयु॑रे॒वास्मिन् वर्चो॑ दधाति। अपो॑परो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समि॒त्तया समि॑ध्यस्वाऽऽयु॑र्मे दा वर्च॑सा माञ्जीरित्या॑ह। आयु॑रे॒वास्मिन् वर्चो॑ दधाति(६७)। (६८)अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेत्या॑ह। यथा॒ यजु॑रे॒वैतत्(६८)।
| ६२ | एतन्मन्त्रस्य भाष्यं | ४६० पृष्ठे द्रष्टव्यं । |
|---|---|---|
| ६३ | ,, | ४६० ,, |
| ६४ | ,, | ४६० ,, |
| ६५ | ,, | ४६१ ,, |
| ६६ | ,, | ४६१ ,, |
| ६७ | ,, | ४६२ ,, |
| ६८ | ,, | ४६३ ,, |
५ प्रपाठके ८ अनुवाकः। ६२६
(३९)ब्रह्मवादिनो॑ वदन्ति। होत॒व्य॑म॒ग्निहो॒त्रा३ न होत॒व्या३मिति॑ ॥ १० ॥
यद्यजु॑षा जुहु॒यात् । अय॑थापूर्वं॒माहु॑तीर्जुहुयात् । यन्न जुहु॒यात् । अ॒ग्निः परा॑भवेत् । भूः स्वाहेत्येव होत॒व्य॑म् । यथा॒पूर्व॒माहु॑तीर्जुहोति॑ । नाग्निः परा॑ भवति^(३९) । ^(४०)हुतग्ँ ह॒विर्मधु॑ह॒विरित्या॑ह । स्व॒दय॑त्ये॒वैनं॑^(४०) । ^(४१)इन्द्र॑त॒मेऽग्नावि॒त्याह॑ ॥ ११ ॥
प्रा॒णो वा इन्द्र॑तमोऽग्निः । प्रा॒ण ए॒वैनमिन्द्र॑तमेऽग्नौ जु॑होति^(४१) । ^(४२)पि॒ता नौ॑ऽसि॒ मा मा॑ हिग्ंसी॒रित्या॑हाहिं॑सायै^(४२) । ^(४३)अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒ वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते^(४३)। ^(४४)स्व॒धावि॑नो॒ऽशीम॑हि॒ त्वा मा मा॑ हिग्ंसी॒रित्या॑हाहिं॑सायै^(४४) । ^(४५)तेज॑सा॒ वा ए॒ते व्यृ॑द्ध्यन्ते । ये प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्रा॒श्नन्ति॑ । तेज॑ ए॒वात्मन्ध॑धते^(४५) ॥१२॥
३६ एतन्मन्त्रस्य भाष्यं ४६३ पृष्ठे द्रष्टव्यं ।
४० ,, ४६५ ,,
४१ ,, ४६५ ,,
४२ ,, ४६५ ,,
४३ ,, ४६५ ,,
४४ ,, ४६५ ,,
४५ ,, ४८५ ,,
| ६३० | तैत्तिरीये आरण्यके |
|---|
(४६)संव॒त्स॒रं न मा॒ꣳसम॑श्नीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नाऽस्य॑ राम उच्छि॑ष्टं पिबेत् । तेज॑ ए॒व तत् सꣳश्य॑ति^(४६) । (४७)दे॒वा॒सु॒राः सं॑य॒त्ता आ॑सन् । ते दे॒वा वि॑ज॒यमु॑पय॒न्तः । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॑ स॒न्दध॑त । यत्किञ्च॑ दिवाकी॒र्त्य॑म् । तदे॒तेनैव व्र॒तेना॑ऽगोपायन् ॥ तस्मा॑दे॒तद् व्र॒तं चर्य॑म् । तेज॑सो गोपीथा॒य । तस्मा॑दे॒तानि॒ यजूं॑षि वि॒भ्राज॑ : सौ॒र्येत्याहुः^(४७)। (४८)स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रातः सꣳसा॑दयति । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यं । ए॒ता वा ए॒तस्य॑ दे॒वता॑: । ताभि॑रे॒वैनं॑ सम॒र्धय॑ति^(४८) ॥ १३ ॥
अ॒कः(१), अ॒श्विनेत्या॑ह(२), प्र॒दिशो॒ गच्छेत्या॑ह(३), पि॒तॄणां(४), अ॒न्तःप॒रि॒धि पि॑न्व्यति(५), धार॒येत्या॑ह(६), वाचः॑(७), घ॒र्म्म॒पास्तेभ्य॑ ए॒वैनं॑ जुहोति(८), अ॒न्वीक्षे॑त(९), होत॒व्या३मिति॑(१०), अ॒त्रावि॒त्या॑ह(११), दध॑ते(१२), अगोपायत्, स॒प्त च॑(१३) ॥ अनु० ८ ॥
४६ एतन्मन्त्रस्य भाष्यं ४८६ पृष्ठे द्रष्टव्यं ।
४७ " " ४८६ "
४८ " " ४८७ "
५ प्रपाठके ६ अनुवाकः। ६३१
• अथ नवमोऽनुवाकः ।
^(१)घ॒र्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्यः॒ शुच॒मव॑यजते^(१) । ^(२)इ॒य॒त्यग्रे॑ जुहोति । अ॒थेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑यजते^(२) । ^(३)अनु॑ नो॒ऽद्यानु॑म॒तिरित्याहा॑नुम॒त्यै^(३) । ^(४)दि॒वस्त्वा॑ प॒र॒स्याया इत्या॑ह । दि॒व ए॒वैमाँल्लो॒कान् दा॑धार^(४) । ^(५)ब्रह्म॑णस्त्वा प॒र॒स्याया इत्या॑ह ॥ १ ॥
ए॒ष्वेव लो॒केषु॑ प्र॒जा दा॑धार^(५) । ^(६)प्रा॒णस्य॑ त्वा प॒र॒स्याया इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान् दा॑धार^(६) । ^(७)शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं यद्द॑क्षि॒णा प्रत्य॑ञ्चमुद॑ञ्चमुद्वा॒सये॑त् । जि॒ह्मं य॒ज्ञस्य॒ शिरो॑ हरेत् । प्राञ्च॑मुद्वा॑सयति । पु॒र॒स्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ २ ॥
| १ | एतन्मन्त्रस्य भाष्यं | ४६६ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| २ | ,, | ५०० | ,, |
| ३ | ,, | ५०० | ,, |
| ४ | ,, | ५०१ | ,, |
| ५ | ,, | ५०२ | ,, |
| ६ | ,, | ५०३ | ,, |
| ७ | ,, | ५०३ | ,, |
4 H
६३२ तैत्तिरीये आरण्यके
प्रा॒ञ्चमुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदै॑ति^(७) । ^(८)श॒फोप॑यमा॒न् धृवि॑त्राणि॒ धृष्टी॒ इत्य॒न्व॑वहरन्ति । सा॒त्मान॑मे॒वैनँ॑ सत॒नुं क॑रोति^(८) । ^(९)सा॒त्माऽमुष्मिँ॑ल्लो॒के भ॑वति । य ए॒वं वेद॑^(९) । ^(१०)औदु॑म्बराणि भवन्ति । ऊर्जा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे^(१०) । ^(११)व॒र्त्म॑ना॒ वा॒ अन्वि॑त्य॒ ॥ ३ ॥
य॒ज्ञꣳ रक्षाँ॑सि जिघाँसन्ति । साम्ना प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सामप॑हत्यै^(११) । ^(१२)त्रि॒र्निध॑नमुपै॑ति । त्रय॑ इ॒मे लो॒काः । एभ्य॑ एव लो॒केभ्यो॒ रक्षाँ॒स्यप॑हन्ति^(१२) । ^(१३)पुरु॑षः पुरुषो॒ निधन॑मुपै॑ति । पुरु॑षः पुरु॒षो हि रक्ष॑स्वी । रक्ष॑सामप॑हत्यै^(१३) ॥ ४ ॥
^(१४)यत् पृ॑थि॒व्यामु॑द्वा॒सये॑त् । पृ॒थि॒वीꣳ शु॒चार्प॑येत् । यद॒प्सु । अ॒पः शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चार्प॑येत् । यद्वन॒स्पति॑षु । वन॒स्पतीँ॑ञ्छु॒चार्प॑येत् । हि- र॑ण्यं नि॒धायोद्वा॑सयति । अ॒मृतं॒ वै हिर॑ण्यं ॥ ५ ॥
| ८ | एतन्मन्त्रस्य भाष्यं | ५०३ पृष्ठे | द्रष्टव्यं । |
|---|---|---|---|
| ९ | ,, | ५०४ | ,, |
| १० | ,, | ५०४ | ,, |
| ११ | ,, | ५०४ | ,, |
| १२ | ,, | ५०४ | ,, |
| १३ | ,, | ५०५ | ,, |
| १४ | ,, | ५०५ | ,, |
५ प्रपाठके ६ अनुवाकः । ६३३
अ॒मृत॑ ए॒वैनं॒ प्रति॑ष्ठापयति॑⁽१४⁾ । ⁽१५⁾व॒ल्गुर॑सि॒ शं- युर्धाया॒ इति॑ त्रिः परि॑षि॒ञ्चन् पर्यै॑ति । त्रि॒वृद्धा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचं॑ शमयति॑⁽१५⁾ । ⁽१६⁾त्रिः पुनः॒ पर्यै॑ति । षट् सम्प॑द्यन्ते । षड् वा ऋ॒तव॑ः । ऋ॒तु- भि॑रे॒वास्य॒ शुचं॑ शमयति॑⁽१६⁾ । ⁽१७⁾चतु॑ःस्रक्ति॒र्नाभि॑- ऋ॒तस्येत्या॑ह ॥ ६ ॥ इ॒यं वा ऋ॒तं । तस्या॑ ए॒ष एव नाभि॑ः । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह⁽१७⁾ । ⁽१८⁾सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयं॑⁽१८⁾ । ⁽१९⁾अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्याप- नुत्त्यै॑⁽१९⁾ । ⁽२०⁾घ॒र्मैतत्तेऽन्न॑मे॒तत् पुरी॑ष॒मिति॑ द॒ध्ना मं- धुमिश्रे॑ण पूरयति । ऊ॒र्ग्वा अन्नाद्यं॒ दधि॑ । ऊ॒र्जैवैने॑- म॒न्नाद्ये॑न॒ समर्ध॑यति॑⁽२०⁾ ॥ ७ ॥ ⁽२१⁾अने॑शनायुको भवति । य ए॒वं वेद॑⁽२१⁾ । ⁽२२⁾र- न्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह । रू॒पमे॒वास्यै॑त-
| १५ एतन्मन्त्रस्य भाष्यं | ५०६ पृष्ठे द्रष्टव्यं । |
|---|---|
| १६ ,, | ५०६ ,, |
| १७ , | ५०६ ,, |
| १८ ,, | ५०७ ,, |
| १९ ,, | ५०७ ,, |
| २० ,, | ५०८ ,, |
| २१ ,, | ५०८ ,, |
| २२ ,, | ५०६ ,, |
4 ॥ 2