तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
१२० (१.३.४) तैत्तिरीयब्राह्मणम् तदानीं नाऽऽलभेतैत्यर्थः । आलम्भस्य व्यवधाने कारणमाह- म॒रुतो॑ य॒ज्ञम॑जिघा ँ स॒न्प्रजाप॑तेः । तेभ्य॑ ए॒तां मारु॒तीं व॒शामार॑भत । तयै॒वैना॑नशमयत् इति । सप्तदशप्रजापतिरूपो, यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः । तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान् । प्राजापत्यानां संज्ञपनकालं विधत्ते- मारु॒त्या प्र॒चर्य॑ । तान्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑म॒यित्वा (४) ए॒तैः प्र॑चरति । य॒ज्ञस्याघा॑ताय, इति । प्रचर्य मारुत्य वशाया वपां हुत्वेत्यर्थः । सप्तदशानां वपानां सह प्रचारं विदधाति- एक॑धा व॒पा जु॑होति । एक॑दे॒वत्या॑ हि । ए॒ते । अथो॑ एक॑धैव यज॑माने वी॒र्यं॑ दधति, इति । विधत्ते- नै॒वारे॑ण स॒प्तद॑शशरावेणैत॒र्हि प्र॑चरति । ए॒तत्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशूनामे॒व च्छिद्र॒मपि॑दधाति, इति । नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदशसंख्याकैः शरावैर्निरुप्तः सप्तदशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत् । एष एव चरु पशुपुरोडाशस्थानीयो तेषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि । किंच वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं भवति । सारस्वस्या मेष्याङ्गप्रचारस्य कालविशेषं विधत्ते- सा॒र॒स्व॒त्यात्त॒मया॑ प्र॑चरति । वाग्वै सर॑स्वती ।
तैत्तिरीयब्राह्मणम् (१.३.५) १२१ तस्मा॑त्प्रा॒णानां॒ वागु॑त्त॒मा । अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञं प्र॒तिष्ठा॑पयति । प्र॒जाप॑ति॒र्हि वाक्, इति । सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत् । सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः । यस्मात्सारस्वत्या उत्तमत्वं तस्माल्लोकेऽपि सस्वती रूपा वाक्प्राणापानचक्षुःश्रोत्रादीनां मध्य उत्तमा, सभामध्ये विद्वदयात्यादेर्वाग्मिनः प्रागल्भ्यदर्शनात् । किंच प्रजापतेः सरस्वतीपतित्वात्तद्भेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन प्रजापतावेव यज्ञः समापितो भवति । सारस्वत्या मेष्याः किं (कं) चिद्गुणं विधत्ते- अप॑न्नदती भवति । तस्मा॑न्मनु॒ष्या॑: स॒र्वां॒ वाचं॑ वदन्ति (५), इति । अपतितदन्तोपेता मेषी कार्या । लोकेऽप्यपतितदन्ताः पुरुषाः सर्वाक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति । अ॒ति॒रा॒त्रम॒न्तरि॑क्षम॒क्थ्यै॑न प्र॒जाप॑तिः शमयित्वोत्त॒मया॒ प्रच॑रति॒ षट् र्चं । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ तृतीयाध्याये पञ्चमोऽनुवाकः । तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधय निरूपिताः । अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाहरामः । तत्र प्रथममन्त्रस्य विनियोगं बौधायन आह- ‘दीक्षणीया निर्वप्स्यन्सावित्रं जुहोति- दे॒वं स॑वि॒तः प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः । के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति नः ॥ स्वाहेति, दीक्षाहुतीर्होमन्सावित्रं जुहोति, प्रायणीया निर्वप्स्यन्सावित्रं जुहोति” इति । हे सवितर्देव प्रेरकान्तर्यामिन्नस्मदीयं वाजपेययज्ञं प्रवर्तय, यज्ञपतिं यजमानं भगयानुष्ठानरूपायैश्वर्याय । दिवि भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनो विज्ञानानि शोधयति स्म सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत् (शोधयतु)। वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिन्कर्मणि वाचमस्माभिः
१२२ (१.३.५) तैत्तिरीयब्राह्मणम् पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्सादयतु । अनेन मन्त्रेण होमं विधत्ते- सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मण पुर॒स्ता॑त्, इति । तदेतद्बौधायनेनैवोदाहृतम् । तत्तत्कर्मादौ होममुपपादयति- कस्तद्द्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ । स॒वि॒तृप्र॑सूत एव यथापूर्वं॒ कर्मा॑णि॒ करोति॑, इति । बद्धक्रमैश्चौदकप्राप्तैः प्रत्यक्षविहितैश्चोदकस्य वाजपेयस्य यदङ्गं पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः । सावित्रहोमे तु कृते सविता प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति प्रतिकर्म । तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते- सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तत्सेतुं यज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति । उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं कृतवान्भवति । अस्य मन्त्रस्यचतुर्थपादे स्वदनस्यान्नविषयस्य वाग्विषयत्वमुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे- वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति न् इत्या॑ह । वाग्वै दे॒वानां॑ पुरा॒ऽन्न॑मासीत् । वाच॑मे॒ वास्मा॒ अन्नँ॑ स्वदयति (१), इति । स्तुत्या देवैस्तू (वानां तृ)प्तत्वाद्वाचौ देवान्नत्वम् । कल्पः-"रथ एव दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति तमुपसादयति- इन्द्र॑स्य वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् " इति । वार्त्रघ्नो वैरिघाती योऽमिन्द्रस्य वज्रः, हे रथैवं त्वमसि । त्वया. सहकारिणा सहितोरथं यजमानो वृत्रं वैरिणं वध्यात् । रथवाहने
तैत्तिरीयब्राह्मणम् (१.३.५) १२३ काष्ठविशेषे स्थापिते गमनाय सजीकर्तुं तस्य रथस्य तस्मात्काष्ठादवरोहणं विधत्ते- इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॒घ्न इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै, इति । कल्पः-“अथैनं धूर्गृहीतमन्तर्वेद्याम्यावर्तयन्ति- वाज॑स्य नु प्रस॒वे मा॒तरं॑ म॒हीमदि॑तं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषत् ” इति । दक्षिणवेदिश्रोण्यन्त रथवाहनादवरोपितं रथं सौमिकवेदिमध्ये प्रादक्षिण्येनाऽऽनयेदित्यर्थः । वाजस्य नु, अन्नस्यैव प्रसव उत्पत्तिनिमित्तं मातरमन्नस्य निर्मात्रीं महीं वेदरूपां पृथिवीमदितिं नामाखण्डनीयामेव वचसास्तुत्या करामहे कुर्मः । यस्यां पृथिव्यामिदं सर्वं भूतजातं प्रविश्यावतिष्ठते तस्यां पृथिव्यां नोऽस्माकं धर्म धारणं सविता देवः साविषदनुजानातु । अनेन मन्त्रपाठेन भूमिं तदाश्रितं जगञ्च जगञ्च स्वाधीनत्वेन संपादयतीत्येवं व्याचष्टे- वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । य॒ज्ञैवेयम् । य॒ज्ञास्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॑ऽ भिषि॑च्यते, इति । न केवलं बलं तयोः स्वाधीनत्वं किंत्वेतस्मिन्नुभयस्मिन्भूम्यां तदाश्रिते जने च राजत्वेनाभिषिक्तो भवति । कल्पः-“अथाश्वानपल्पूलयति- अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमु॒पामुप॑ प्र॒शस्ति॑ष्वश्वा॑ भव॒थ वाजिनः” इति । पल्पूयति जले प्लावयति । शरीरं प्रक्षालयतीत्यर्थः । अप्सु मध्ये यन्मृत्युनिवारकं रोगनिवारकं च सारं वर्तते (तन्न) हे वाजिनोऽन्नवन्तोऽश्वा अपां संबन्धिन्यीषूत प्रशस्तिष्वमृतत्वभेषजत्व- सदृशीष्वन्यास्वपि गुणवत्प्रशंसासु यूयं संबद्धा भवथ । विधत्ते- अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमित्यश्वा॑नपल्पूलयति । अ॒प्सु वा अश्व॑स्य॒ तृतीयं॒ प्रवि॑ष्टम् । तद॑नुवे॒न्वव॑प्लवते । यद॒प्सु
१२४ (१.३.५) तैत्तिरीयब्राह्मणम् प॑ल्पूलय॑ति (२) । यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे, इति । स्नपयितुं प्रवशितोऽप्यश्वः स्वेच्छया क्रीडञ्जलस्योपरि प्लवते । तत्रेद्रमुत्प्रेक्षते । अप्सुयोनिर्वा अश्व इति श्रुतेरश्वजन्मकाले गर्भसंबन्धि तृतीयमंशजातं जलेऽवस्थितं भवति । यथा मनुष्यगर्भे तद्वत् । अत एव हि मनुष्या नवप्रसूताया योषितो गर्भस्थानं समाधातुं बहुभिरौषधैश्चिकित्सां कुर्वन्ति । एवं च सत्ययमप्यश्वस्तदंशजातमन्वेवेन्कामयमानोऽनु प्रायेणावप्लवते । यथा विनष्टद्रव्यमचिन्वन्पुरुषो जले पुनः पुनर्मज्जन्नुत्तिष्ठति तद्वत् । एवं च सत्यध्वर्युः प्लावयतीति यत्तेनाप्सु प्रविष्टमश्वावयवजातं तत्सर्वं संपादितवाम्भवति । प्रकारान्तरेण प्लावनविधिं स्तौति- बहु॒ वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒प्सु प॑ल्पूलय॑ति । मेध्य॑मे॒वैना॑न्करोति, इति । अश्वः खलु पृथिव्यां यत्र क्वाप्यशुचिप्रदेशे विपरिवर्तमानो बहुविधममेध्यमयज्ञार्हमुच्छिष्टादिकमुपगच्छति, अतोऽध्वर्युः प्रक्षालनेनाश्वान्यज्ञयोग्यानेव करोति । कल्पः-“अथ दक्षिणं योग्यं युनक्ति- वा॒युर्वा॒ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तवि॑ ँशतिः । ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॒स्मिञ्ज॒यमार्धुः” इति । योग्यं रथयोक्तुमर्हमश्वम् । वायुश्च मनुश्च पञ्चविंशतिसंख्याका गन्धर्वाश्चेति मिलित्वा सप्तविंशतिसंख्याका ये पुरुषास्ते सर्वेऽग्रेऽस्मत्तः पूर्वं रथे संयोजितवन्तस्ते पुनः सर्वे पृष्ठसंमार्जनाद्युपचारैणास्मिन्नश्वे वेगं संपादितवन्तः । वायुस्त्वामयोजयन्मनुस्त्वामयोजयदिति पृथग्वाक्यकरणं तयोर्मुख्यत्वज्ञापनार्थम् । अहं युनज्मीत्यभिप्रायः । अहं युनज्मीति । पाठं परित्यज्य वायुर्वा त्वेति पाठस्याभिप्रायमाह- वा॒युर्वा॒ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता॰ वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन् । ताभि॑रे॒वैना॑न्युनक्ति । सर्व॑स्यो जित्यै, इति । योजयितॄणां देवानामनुग्रहाद्यज्ञस्योत्कर्षेण जयो भवा[...] विधत्ते-
तैत्तिरीयब्राह्मणम् (१.३.५) १२५ यजु॑षा युनक्ति॒ व्यावृत्यै॑ (३), इति । अनुप् छन्दस्तादृग्रूपोऽपि वायुर्वा त्वेति मन्त्रो यजुर्वेदपठित्वा- द्यजुरित्युपचर्यते । लौकिके रथे मन्त्रमन्तरेणाश्वयोजनादत्र समन्त्रकत्वेन व्यावृत्तिर्भवति । कल्पः-“अथास्य पृष्ठं मर्मृज्यते- अपांनपादाशुहे॑म॒न्य ऊ॒र्मिः क॒कुद्मान्प्रतूर्तिर्वा॒जसा॑तम॒स्तेना॒यं वाजं॑ सेत्” इति । मर्मृज्यते पुनः पुनः संमार्ष्टि । हेऽपांनपात्प्लवनकाले जलस्य कालुष्यापादनादविनाशयितराशुहेमंस्तीव्रगन्तस्तादृश हेऽश्व जल य ऊर्मिः ककुद्वान्ककुदिवोन्नतः प्रतूर्तिर्निमज्जन प्रसक्तस्योपद्रवस्य प्रकर्षेण हिंसको वाजसातमः सस्योपकारित्वेनातिशयेनान्नप्रदस्तेन त (त्व) त्पृष्ठलग्नेनोर्मिणाऽस्माकं वाजमन्नं सेत्साधय । विधत्त- अ॒पांनपादाशुहे॑म॒न्निति॑ संमा॒र्ष्टि । मे॒ध्याने॒वैना॑न्करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जि ँस॑रिष्य॒तः, इति । पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम् । किंच धावनार्थायः सप्तदशशरपातपरिमिताया भूमेरवधिराजिस्तं प्रति सरिष्यन्ति गमिष्यन्ति तान्गमिष्यतोऽश्वान्पृष्ठसंमार्जनरूपणोपलालनेनस्तौत्येव प्रोत्साहयत्येव । कल्पः-“अथ रथमभिप्रेति- विष्णो॑ः क्रमो॑ऽसि॒ विष्णो॑ः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि, इति । तदेतद्यजमानकर्म । तथाचाऽऽपस्तम्ब-“विष्णोः क्रमऽसीति रथं यजमानोऽभ्येति इति । यजमानस्य मम हे प्रथम प्रक्रम त्वं विष्णोर्व्यापनशीलस्य जगदीशवरस्य त्रिविक्रमावतारस्य प्रक्रमोऽसि प्रथमपदप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम त्वं क्रान्तं विष्णोर्द्वितीयपदप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम त्वं विक्रान्तं विष्णोः पराक्रमेण जितं त्रिविष्टपमसि । विधत्ते- विष्णु॑क्र॒मान्क्रम॑ते । विष्णु॑रि॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति॒, इति । कल्पः-“अथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ” इति । पक्षसी पार्श्वौ ।
१२६ (१.३.५) तैत्तिरीयब्राह्मणम् पाठस्तु-अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वान्तं॒ वाता॑ग्रम॒नुसं॒चर॑न्तौ दू॒रे हे॒तिरिन्द्रि॑यावा॒न्पत॒त्री ते नो॑ऽग्नयः॒ पप्र॑यः पारयन्तु” इति । रथमभितो यावङ्कौ लक्षणभूतौ पार्श्वविशेषौ, न्यङ्कौ नितरां लक्षणभूतौ चक्रविशेषौ । अत एवाऽऽपस्तम्ब आह-“अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति पक्षसी वा” इति । ध्वान्तं ध्वन्युपेतं वाताग्रं वायोरपि पुरोदेशं शीघ्रतया वायुमप्यतिलङ्घ्यानुक्रमेण संचरन्तौ तादृग्भ्यामुभाभ्यामग्नयो नोऽस्मान्पारयन्तु धावनावधिं पारयन्तु । कीदृशा अग्नयः पप्रयोऽपेक्षितमर्थं पूरयितारः । येऽग्नयो दूरे हेतिरित्यादिनामोपेतास्ते । एतन्मन्त्रगतमग्निपदं रथावस्थदेवतापरत्वेन व्याचष्टे । वै॒श्व॒दे॒वो वै रथ॑: । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावि॒त्याह॑ । या एव दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ एव नम॑स्करोति । आ॒त्मनोऽना॑र्त्यै॒ इति॑ । दूरे हेतिरित्यादिनामका अग्नयोऽत्र विश्वेदेवाः । तद्वाहनरूपोऽयं रथः । पारयन्त्विति प्रार्थनैव नमस्कारस्तेन नमस्कारेण तदीयं रथमारूढस्यापि स्वस्याऽऽर्तिर्न भवति । वेदनं प्रशंसति- अश्मा॑रथं भावुकोऽस्य॒ रथो॑ भवति । य ए॒वं वेद॑ (४) , इति । स्व॒दय॑ति प्लू॒प्लूय॑ति॒ व्यावृत्यै॒ अना॑र्त्यै॒ द्वे च॑ । शमयुक्तो रथः शमरथो मन्दगतिः । अशमरथः शीघ्रगती रथः । तच्छीलोऽस्य वेदितूं रथो भवति । अत्र विनियोगसंग्रहः- देव होमोऽत्र कर्माऽऽदाविन्द्रस्य रथमाहरेत् । वाजस्य वेदिमध्ये तमभ्यावर्त्तयते रथम् ।। अप्प्वश्वान्प्लावयेद्वायुर्युनक्ति तुरगं रथे । अपां तदश्वपृष्ठानि मार्ष्टि विष्णो रथं व्रजेत् ।। अङ्कौ रथे मृशेत्पक्षावष्टौ मन्त्रा इहोदिताः ।। इति । अथ मीमांसा । प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्-
तैत्तिरीयब्राह्मणम् (१.३.५) १२७ यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ उपादेयविधेयत्वगुणत्वाख्यत्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रतिं ॥ त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः । वाजपेयेति शब्दोऽपि कर्मनामाग्निहोत्रवत् ।। (इति) । वाजपेयेन स्वाराज्यकामो यजेतेत्यत्र वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र गुणः । सुराग्रहाणामनुष्ठेयत्वात् ननु गुणत्वे वाजपेयगुणवता यागेन स्वाराज्यं भावयेदित्येवं मत्वर्थलक्षणा प्रसज्यते । मैवम् । सकृदुच्चरितस्य यजेतेत्याख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकाराद्वाजपेयद्रव्येण स्वाराज्याय यजेतेत्येवमुभयसंबन्धः । ननु गुणसंबन्धे सति वाजपेयेन गुणेन यागं कुर्यादिति यजेः कर्मकारकत्वं भवति। फलसंबन्धे तु यागेन स्वाराज्यं संपादयेदिति करणकारकत्वम् । ततः कथमुभयसंबन्ध इति चेन्नायं दोषः । यजेः साधारणत्वेन द्विरूपत्वसंभवात् । यजेतेत्यत्र प्रकृत्या याग उक्तः प्रत्ययेन भावनोक्ता । तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्व करणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्यैव करणत्वस्यैव वा साक्षादभिधायिका काचिदसाधारणविभक्तिः श्रूयतेऽतः साधारणस्य यजेरुभाभ्यां गुणफलाभ्यां युगपत्संबन्धे सति यथोचितं संबन्धविशेषः पर्यवस्यति । एवं तन्त्रेण संबन्धाङ्गीकरणे वाजपेयद्रव्येण यागं कुर्यादित्यस्यार्थस्य लभ्यमानत्वाद् गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनः-राक्षिप्यतामिति प्राप्ते ब्रूमः । यजेस्तन्त्रणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं विधेयत्वं गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेत्यपरं त्रिकम् । तत्रोद्देस्यत्वादयः स्वाराज्यफलनिष्ठाधर्मा उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठाः । फलमुद्दिश्य यजिरुपादीयते, फलमनूद्य याजिर्विधीयते । फलं प्रधानं यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानसापेक्षाविषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानत्वाकारः। तावुभौ मनःशरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयस्य कथनं विधिः । फलयागयोः साध्यसाधनरूपतया प्रधानत्वोपसर्जनत्वे । एवं
१२८ (१.३.५) तैत्तिरीयब्राह्मणम् सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते । तथा यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभाव- पर्यालोचनायां यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति । ततो यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति विरुद्धत्रिकद्वयमापद्येत् । ननु तर्हि माभूत्तन्त्रेणोभयसंबन्धः । पृथक्संबन्धाय यजिरावर्त्यतामिति चेन्न । वाक्यभेदप्रसङ्गात् । द्रव्येण यागं कुर्यादित्येकं वाक्यम् । यागेन फलं कुर्यादित्यपरम् । तस्माद्वाजपेयशब्दो न गुणविधायकः किंतु यथोक्तं द्रव्यं निमित्तीकृत्याग्निहोत्र-शब्दवत्कर्मनामधेयम् । द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्- आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता । एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत् ॥ आख्यातमात्रं नो मानं संख्यया बहुकर्मता । आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥ पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् । विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥ बहुत्वोपेतपशुभिर्देवयोगादभिन्नता । रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥ देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः । बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा ॥ (इति) । तिस्र आहुतीर्जुहोतीति श्रूयते । तत्र जुहोतीत्येतदाख्यातं समिधो यजतीत्यादिवन्नाभ्यस्तं किंतु सकृदेवाऽऽम्नातम् । तत एकमिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति प्राप्ते ब्रूमः । किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् । नाऽऽद्यः । वाक्यांशस्य पदमात्रस्य प्रमितिजन्रकत्वाभावात् । द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन कर्मबहुत्वं गम्यते । प्रयाजानां तु पूर्वमेव संख्या वरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वतद्धितः पूर्वकर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् । तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् इदं त्वत्रोदाजहार । सप्तदश प्राजापत्यान्पशूनालभत
तैत्तिरीयब्राह्मणम् (१.३.५) १२९ इति । अत्र प्रजापतिर्देवता येषां पशूनां त प्राजापत्या इति तद्धितव्युत्पत्तौ बहुत्वोंपेताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवताैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म । या तु सप्तदशेति संख्या सा पशुद्रव्यगता, नतु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मान्न कर्मभेदमापदयतीति प्राप्ते ब्रूमः । अत्र प्रजापतिर्देवता यस्य पशोः स प्राजापत्य इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपदिकार्थस्य प्रजापतिदेवता- विशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्ति- बहुवचने । तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तावत्तद्धितोत्पत्तिवेलायामन्वयो नास्ति । कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः । एवं सति प्राजापत्येत्यनेन तद्धितान्तप्रातिपदि- केनैकपशुद्रव्यकमेकदेवतोपेतं यागस्य रूपं समर्थ्यते । तादृशानां च रूपाणां बहुत्वाय बहुवचनम् । बहुत्वविशेषश्च सप्तदशेति निर्दिश्यते । तस्मादत्र संख्यया कर्मभेदः । एवं च सत्येमे वक्ष्यमाणं सप्तदशपशूनामै कादशिनपशुगणविकृतित्वमुपपद्यते । पञ्चमाध्यायस्य प्रथमपादे चिन्तितम्- उपाकृतानां किं सप्तदशानां यूपबन्धने । क्रमो नास्त्यस्ति वा नास्ति नियामकविवर्जनात् ।। आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि । क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियमिका ।। ( इति) । वाजपेये सप्तदश प्राजापत्यान्पशूनालभत इति विहितानां पशूनामुपाकरणनियोजनादयः संस्काराः कर्तव्याः। तत्रेदृशे पशावुपक्रम ईदृशे च समाप्तिरिति नियमकारिणः शास्त्रस्याभावादेच्छिकेन क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः । उपाकृतानां यूपे नियोजनं संस्कारान्तरं कर्तव्यम् । तदानीमीदृशः पशुः प्रथमं नियोक्तव्य इति क्रमनियमकारिणां श्रुत्यर्थपाठानामाभावान्नास्ति क्रमनियम इति चेन्मैवम् । उपाकरणे यः क्रमः स्वीकृतस्तस्यैव नियोजनादिसंस्कारेषु स्वीकर्तव्यत्वाच्छ्रुत्यर्थपाठ इव प्रथमप्रवृत्तिरपिक्रमं नियन्तुमर्हति । प्रवृत्या बुद्धिस्थस्य क्रमस्य त्यागकारणाभावात् । प्रवृत्तिकक्रमस्वीकार प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये पश्वन्तरेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति । तच्चव्यवधानं सप्तदशेतिविधिबलादभ्यनुज्ञातम्। प्रवृत्तिकं क्रमं परित्यज्य पश्वन्तराणां पूर्वनियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियते तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात् । तत्तु नाभ्यनुज्ञातम् । तस्मात्प्रवृत्त्या क्रमो नियम्यते । तत्रैव द्वितीयपादे चिन्तितम्-
काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं
१३० (१.३.५) तैत्तिरीयब्राह्मणम् वाजपेये किमेकैकपशोः सर्वसमापनम् । सर्वेष्वेवैकधर्मो आद्यः साहित्यसिद्धये ॥ धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते ॥ (इति) । वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरण- नियोजनादि संस्काराः सर्वे समापनीयाः । तथा सति साङ्गं प्रधानं कर्मव्यमिति प्रयोग वचनेनावगतं धर्माणां साहित्यं प्रसिध्यति । चोदकोऽपि धर्मसाहित्यं प्रापयति । प्रकृतावुपाकरणनियोजनादीनां साहित्यदर्शनात् । तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते ब्रूमः । सप्तदश प्राजापत्यान्पशूनालभत इति वचनात्पशुसा- हित्यमवगतम् । तत्र प्रबलं प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापितत्वात् । धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं किंतु प्रयोग वचनेन परिकल्प्यंते यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपय धर्मवैकल्येन साङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ धर्मसाहित्यवचनमनुष्ठीयते । तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद् दुर्बलम् । तस्माद्वैश्र्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्यनेन प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं धर्मसाहित्यं न विरुध्यते । एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणा- मनुष्ठितत्वात् । दशमाध्यायस्य चतुर्थपादे चिन्तितम्-- प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः । अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम् ॥ पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा । कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः ॥ (इति) । वाजपेये श्रूयते । सप्तदश प्राजापत्यान्पशूनालभत इति । तैरेतैः प्राकृतपशूनामाग्नेयादीनां बाधः स्यात् । कुतः पशुत्वलिङ्गात् । नहि पशुशब्दो ग्रहशब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते ब्रूमः । किमत्र प्रकृतपश्वनुवादेन सप्तदशसंख्या प्रजापतिर्देवता चेति गुणद्वयं विधीयते, आहोस्विद्विशिष्टमन्यत्कर्म । नाऽऽद्यो वाक्यभेदापत्तेः । द्वितीये तु न पशुशब्दो लिङ्गम् । ततोऽत्र ग्रहन्यायो योजनीयः । किंचावरोधनमेवाऽऽम्नायते-“ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो ऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते ।
तैत्तिरीयब्राह्मणम् · (१.३.५) १३१ अग्निष्टोममेव तेनाव॒रुन्धे॑ । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्याऽतिरात्रम् । मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान्यशुभिरेवावरुन्द्धे'' इति । अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादि- पशुतद्भावस्य सिद्धवदनुवादात्समुञ्चयोऽवगम्यते । एकादशाध्यायस्य द्वितीयपादे चिन्तितम्- प्रजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः । पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः ।। (इति) । वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण वसाहोमो भिद्यत इति चेन्मैवम् । प्रजापति एव सप्तदशानां पशूनां देवता तथा पाकोऽपि सहैव क्रियते । प्रदानस्यापि पाक उपलक्षणम् । प्रदानेऽपि साहित्यमस्ति . कालश्चैको याज्याया अर्धर्चान्तस्य तत्कालत्वेन चोदकातिदेशात् । शक्यते च सह होमः तस्मात्तन्त्रम् । तत्रैव चतुर्थपादे चिन्तितम्- प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः । भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः ।। (इति ) । वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्याद्वयशूलस्य वपाश्रपण्याश्च भेदः स्यात् । कुतः । तत्तत्पश्वङ्गानां भिन्नत्वात् । मैवम् । पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात् । तस्मात्तन्त्रम् । तत्रैव तृतीयपादे चिन्तितम्- प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः । ऊर्ध्वं वा विकृतौ वोत परस्मात्सर्वसोमतः ।। आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः । श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः ।। पशवो नहि सोमस्य विकारा अविशेषतः । उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम् ।। (इति) । वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः । तत्र तावदयं प्रयोगक्रमः। तृतीयसवने प्रथममार्भवः पवमानः । ततो वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः । ततोऽ शस्त्रेष्ववशिष्टेषु सोमग्रहेषु प्रचीर्णेष्वग्निष्टोमसाम ऊर्ध्वमुक्थ्यादयः सोमविकारा इति । एवं स्थिते प्राजापत्यपशूनामार्भवकाले प्रचारः । कुतः । प्रकृतौ तस्य पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः । उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वं कालो विधीयते । यदि
१३२ (१.३.५) तैत्तिरीयब्राह्मणम् प्रातः सवनमाध्यन्दिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्तीति योज्येत तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यादतस्तृतीय सवनगतसोमानामुपरीति वक्तव्यम् । यदि तत्र सर्वसोमानामुपरीति विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्यते । ततः प्रत्यासत्तये शस्त्रिणां वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः । उपरिष्टात्सो- मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत । तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्टोमे यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः। तस्य विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः । सोमविकाराणामेवायं कालःपशवस्तु न सोमविकारस्त- स्मादविशेषवचनानुसारेण प्राकृतानां वैकृताना च सर्वेषां सोमानामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः । तत्रैव द्वितीय पादे चिन्तितम्- पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि । कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत् ।। किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः । अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः ।। (इति) । वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते-“ तान्पर्यग्निकृ- तानुत्सृजति । ब्रह्मसाम्न्यालभते” इति । तेषु सप़्दशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन निषिध्यते । अश्वमेधे पर्यग्निकृतानारण्यानुत्सृजन्तीत्यत्र कर्मशेषनिषेधस्य संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणपर्यन्ताः समापनीयाः । आलम्भवचनेन च ब्रह्मसामकलेकर्मान्तरं विधीयत इति प्राप्ते ब्रूमः । कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किंच ब्रह्मसाम्न्यालभत इत्यत्र द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति । तस्मात्पर्यग्नि- करणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल उत्कर्षो विधीयते । तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभा विकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
तैत्तिरीयब्राह्मणम् (१.३.६) १३३ अथ तृतीयाध्याये षष्ठोऽनुवाकः । सप्तमे रथमन्त्रा वर्णिताः । अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते । कल्पः- “रथमातिष्ठति- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना ॰वा॒ज॒जिता॒ वाजं॑ जे॒षम्” इति । अतिष्ठत्यारोहेदित्यर्थः । वाजजिताऽन्नजयकारिणा बृहस्पति- नाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि । एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन व्याचष्टे- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वाजं॑ जे॒षमि॒त्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॑मु॒ज्जय॑ति, इति । कल्पः-“चात्वाले रथचक्रं निमित्तं ब्रह्माऽऽरोहति तमत एवानुमन्त्रयते दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं॒ नाक ꣳ रुहे॒यम् ” इति । निमिक्तं निखातस्य काष्ठस्याग्रे स्थापितं वर्षिष्ठमतिशयेन प्रवृद्धम् । पूर्वमन्त्रवद्व्याचष्टे- दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं नाकँ॑रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं नाकꣳ॑ रोहति, इति । विधत्ते- चा॒त्वा॒ले र॒थच॒क्रं निमि॑क्तꣳ रोहति । अ॒तो वा अङ्गि॑रस उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒वयज॑मानः सुव॒र्गं लो॒कमै॑ति, इति । अत उपरिस्थिताद्रथचक्रादुत्तमा उद्गततमाः । साक्षादेवाव्यव- धानेनैव ।
ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।
१३४ (१.३.६) तैत्तिरीयब्राह्मणम् विधत्ते- आवै॑ष्टयति । वज्रो॒ वै रथः॑ वज्रे॑णैव दिशोऽभिज॑यति (१), इति । ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिःप्रदक्षिणं पर्यावर्त येत् । रथस्य वज्रांशत्वाद्वज्रत्वम् । तच्चान्यत्राऽऽम्नातम्-‘ ‘स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयम्' अतो भ्राम्यमाणेन वज्ररूपेण रथचक्रेणैव सर्वासां दिशां जयो भवति । विधत्ते- वा॒जिनाँ॒ साम॑ गायते । अन्नं॒ वै वाजः॑। अन्न॑मे॒वाव॑रुन्धे, इति । वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नपदस्तु सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः स्पष्टयति- “औदुम्बर ँरथचक्रं ब्रह्माऽऽरोहति तमाह । वाजिना ँसाम गायेति तस्य चक्रं त्रिःप्रदक्षिणमावर्तयति । तत्राऽऽवर्त ( र्त्स्यः)माने ब्रह्मा गायति ” इति । कल्पः-“आघ्नन्ति दुन्दुभीन्संपवदन्ति वावः संप्रवदिता वाचोऽनुमन्त्रयते- इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् ” इति । यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मादिन्द्राय हे सभ्या ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत । अन्नविषये जयं प्रापयत । अयमिन्द्रो यजमानो वाजमन्नमजयिञ्जयतु । सोऽयं मन्त्र आपस्तम्बेन दुन्दुभिवादने विनियुक्तः-‘ इन्द्राय वाचं वदतेति दुन्दुभीन्सँ ह्वादयन्ति ” इति । तमेतं दन्दुभिघातं विधातुं प्रस्तौति- वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् । सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा॑द्दुन्दुभिः सर्वा॒ वाचोऽति॑वदति, इति । वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं तस्य प्रदेशादयं दुन्दुभिः सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति । विधत्ते-
ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां
तैत्तिरीयब्राह्मणम् (१.३.६) १३५ दुन्दुभी॒न्समा॑घ्नन्ति । प॒रमा वा ए॒षा वाक् (२) । या दु॒न्दु॒भौ । प॒र॒मयै॑व वा॒चाऽरां॒ वाच॒मव॑रुन्धे । अथो॒ वाच॑ ए॒व वर्ष्म॑ यज॑मा॒नोऽव॑रुन्धे, इति । मन्त्रगतमिन्द्रियपदं वाजमजयिदित्येतच्च व्याचष्टे- इन्द्रा॑य वाचं॑ वद॒तेन्द्रं॑ वाजं॑ जापय॒तेन्द्रो॑ वाज॑मजयि॒दित्य॑ह । ए॒ष वा ए॒तर्हीन्द्र॑ः । यो यज॑ते । यज॑मान ए॒व वाज॑मु॒र्जय॑ति, इति । कल्पः-"अथास्मा अश्वाजनिं प्रयच्छति- अश्वा॑जनि॒वाजि॑नी॒ वाजे॑षु वाजिनीवत्यश्वान्त्समत्सु॑ वाजय " इति । अस्मै यजमानाय । अश्वमजति क्षिपतीत्यश्वाजनी कशा । सा च विजयेनान्नप्रदत्वाद्वाजिनी । वाजिन्यो वेगवत्योऽश्वगतयस्ता अस्याः कशाया इति वाजिनीवती । यथोक्तगुणत्रयोपेते हे कशे वाजेष्वन्नेषु निमित्तभूतेषु सत्सु त्वमश्वान्समत्सु युद्धेषु वाजय गमय । अयं मन्त्रः स्पष्टत्वबुद्ध्योपेक्षितः । श्रीविधेयान्विधत्ते- स॒प्तद॑श प्र॒व्या॒धाना॒जिं धा॑वन्ति । स॒प्तद॑श स्तोत्रं॑ भवति । स॒प्तद॑श स॒प्तद॑श दीयन्ते (३) । स॒प्तद॑शः प्र॒जाप॑तिः । प्र॒जाप॑तेरा॒प्त्यै॑, इति । प्रकर्षेण बलाधिक्येन विध्यन्ते मुच्यन्ते बाणा यावत्परिमाणेषु देशविशेषेषु तावत्परिमाणा देशाः प्रव्याधास्ते च सप्तदशसंख्याकाः तेषामन्तेऽवधित्वद्योतनाय काचिदौदुम्बरी शाखा निखन्यते । तत्काष्ठयुक्तोऽवधिराजिः तत् पर्यन्तं रथारुढा धावेयुः । अस्मिन्वाजपेये सामवेदप्रसिद्धं यत्स्तोत्रंतत्सप्तदशसंख्याकावृत्तियुक्तं भवेत् । तदावृत्तिप्रकारस्त्वष्टमप्रपाठके समिधमातिष्ठेत्यस्मिन्ननुवाके ब्राह्मणोदाहरणेन स्पष्टीकरिष्यते । दक्षिणात्वेन दातव्यानां रथादीनां गोशतान्तानां द्रव्याणां मध्य एकैकद्रव्यं सप्तदशसंख्यायुक्तं दद्यात् । तञ्चाऽऽपस्तम्बो दर्शयति-"दक्षिणाकाले सप्तदश रथान्ददाति सप्तदशानासि सप्तदशाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः (सीः) सप्तदशाजाः सप्तदशाधीः सप्तदश वासांसि सप्तदश गवां शतानि" इति । यद्यपि स्तोमविशेषविधेर्देयद्रव्यसंख्याविधेश्च
१३६ (१.३.६) तैत्तिरीयब्राह्मणम् नायमवसरस्तथाऽपि गन्तव्यदेशविशेषसंख्याविधिप्रसङ्गेन तदुभयं विहितम् । तथा सत्येकेनैव सप्तदशः प्रजापतित्यनेनार्थवादेन विधित्रयस्य स्तोतुं शक्यत्वात् । कल्पः-“तया यथायुक्तमश्वानिक्षपति- “अर्वा॑ऽसि” इति दक्षिणं “सप्ति॑रसि” इति मध्यमं “वा॒ज्य॑सि” इत्युत्तरम्’ इति । अर्वादयोऽश्वजातिविशेषाः । तदेवाभिप्रेत्यान्य- त्राऽऽम्नायते-‘हयो देवानवहदर्वा सुरान्वाजी गन्धर्वानश्वो मनुष्यान् ” इति (वामदक्षिणयोरश्वयोर्मध्य ईषाद्वयं प्रसार्य तयोर्मध्ये सम्याख्यजातिविशेषोपेतमश्वं युञ्जय(ञ्जया) त् । त्रींस्तान्देवतात्रयरूपेण स्तौति- अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्याह॑ । अ॒ग्निर्व्वा अर्वा॑ । वा॒युः सप्ति॑ः। आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्दे॒वर॑थं युनक्ति, इति । पूर्वं यजुषा युनक्तीत्यत्र मंत्रो विहितः । इदानीं रथयोगं विधत्ते- पृ॒ष्टि॒वा॒हिनं॑ युनक्ति । पृ॒ष्टि॒वाही॒ वै दे॑वर॒थः । दे॒वरथ॑मे॒वास्मै॑ युनक्ति (४), इति । पृष्टिः पादत्रयोपेतो भोजनपात्रस्याऽऽधारस्तद्वदश्वैस्त्रिभिर्वहतीति पृष्टिवाही । अत एवोपरिष्टाद्वक्ष्यते-‘त्रयोऽश्वा भवन्ति रथश्चतुर्थः’ इति । कल्पः-“अथैतानाजिसृतो विख्यापयति- वाजिनो वाजं धावत मरुतां प्रसवे जय॑त॒ वि योजना॑ मिमीध्वमध्व॑नः स्कभ्नीत । काष्ठां गच्छत ” इति । हे वाजिनोऽश्वा वाजमन्नं संपादयितुं त्वरया धावत । मरुतामनुज्ञायां सत्यामन्नं जयत । विशेषेण बहून्यपि योजनानि मिमीध्वं शीघ्रधावनेन परिमितान्यल्पानीव कुरुत । किंचाध्वनो मार्गान्स्कभ्नीत स्कम्भयत शीघ्रगत्या पीडितान्कुरुत । काष्ठामध्वसमाप्तिमाजिशिरो गच्छत । अस्मिन्मन्त्रे प्रथमभागं प्रतीकत्वेनोपादाय चतुर्थभागे काष्ठाशब्दं व्याचष्टे- वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां॑ गच्छतेत्या॑ह । सु॒वर्गो॒ वै
तैत्तिरीयब्राह्मणम् (१.३.६) १३७ लो॒कः काष्ठां॑ । सु॒वर्ग॒मेव लो॒कं य॑न्ति, इति । दिग्विशेषं विधातुं प्रस्तौति- सु॒वर्गं॑ वा ए॒ते लो॒कं य॑न्ति । य आ॒जिं धाव॑न्ति, इति । विधत्ते- प्राञ्चो॑ धावन्ति । प्राङ्ङि॒व हि सु॑व॒र्गो लो॒कः, इति । प्राञ्चः पूर्वाभिमुखाः । ऐन्द्रत्वात्स्वर्गस्य प्राग्दिग्वर्तित्वम् । कल्पः-“अथ रथान्धावतोऽनुमन्त्रयते, बजे वाजेऽवत वाजिनो न इति चतसृभिरनुच्छन्दसम् ” इति । तंत्रेयमुक्तप्रथमाह- वाजे॑ वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋत॒ज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑, इति । हे वाजिनोऽश्वा वाजे वाजे तत्तदन्ननिमित्तं धनमिमित्तं च नोऽस्मानवत् । विप्रा ब्राह्मणवत्स्नानेन शुद्धा अमृता मरणरहिताः श्रमरहिता ऋतज्ञा ऋतं सत्यमस्य गंतव्यदेशं जानन्तस्तादृगश्वाभिमानिनो हे देवा अस्य मध्वः पिबत, धावनात्पूर्वं पश्चाच्चावघ्राष्यमाणं मधुसमानं नैवारचरुरसं पिबत । पीत्वा च मादयध्वं हृष्टा भवत । ततस्तृप्ताः सन्तो देवयानैः पथिभिराजिं प्रति यात । अथ द्वितीया- ते नो॒ अर्व॑न्तो हव॒नश्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिन॑, इति । तेऽश्वा अर्वन्तो गतिकुशला हवनश्रुतोऽस्मदाह्वानश्रोतारो वाजिनोऽन्नवन्तो विश्वे सर्वेऽपि हवमाह्वानमस्मद्वचनं शृण्वन्तु । अथ तृतीया- मि॒तद्र॑वः सहस्रसा मेधसाता॒ सनि॑ष्यव॑ । म॒हो ये रत्न॒ ँसमि॑थेषु॒ । ज॒भि॒रे शं नो॑ भवन्तु वा॒जिनो॑ ह॒वेषु॑, इति । महान्तमपि पन्थानं मितमपामिव द्रवन्ति गच्छन्तीति मितद्रवः । सहस्रमाः सहस्रस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता यज्ञस्य प्रदातारः । सनिष्यवः सनिं द्रव्यदानमस्मास्विच्छन्तः । ईदृशा येऽश्वाः समियेषु संग्रामेषु महो रत्नमत्यधिकं शत्रोधनं जभ्रिरे जितवन्तस्ते वाजिनो नोऽस्माकं शं भवन्तु सुखकरा भवन्तु । अथ चतुर्थी- दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः॑ । जम्भ॑य॒न्तोऽहिं॒ वृक॒ ँ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यवन् । अमी॑वाः, इति । देवताता देवानर्हन्तीति देवतांतयः । मितद्रवः पूर्ववत् । स्वर्काः शीघ्रधावनेन सुष्ठावर्चनीयाः ते वाजिनोऽहिं वृकं रक्षांसि
१३८ (१.३.६) तैत्तिरीयब्राह्मणम् सर्पं वंदरण्याश्ववदवाधक्रान्नाक्षसाञ्जम्भयन्तः । वर्ण (वचन) व्यत्ययः । सनेमि क्षिप्रमेवामीवा रोगानस्मद्युयवन्नस्मत्तो वियोजितवन्तः । तदेवमध्यापकंसंप्रदायमनुसृत्य मन्त्रचतुष्टयं विभक्तम् । बोधायनाचार्यस्तु ते नो अर्वन्त इत्यादिर्वाजिनो हवेष्वित्यन्त एक एव मन्त्र इत्यभिप्रेत्य चतुर्थी मेषस्य वाजीत्यादिकामृचं चतुष्टयेऽन्तर्भावयामास । तदीयपाठस्तु- ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पि क॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑सन्तवीत्वत्प॒थामङ्गाँ॒स्यन्वाप॑नीफणत्, इति । ग्रीवायां कक्ष आस्ये च तत्तदुचितरजुविशेषैर्बद्धः । सन्नेष स्य वाज्येषोऽश्वः क्षिपणिं सुरण्यति कशां त्वरयति बहुधा बद्धत्वाद्वयं भञ्जयितुमितस्ततो न गच्छति, कशायास्त्वस्याः शीघ्रं धावतीत्यर्थः । दधिक्रा धारकान्मार्गावरोधकान्पाषाणादीनप्यतिक्रमन्क्रतुं सादिनोऽभि- प्रायमनुसन्तवीत्वत्सम्यगनुसंदधानः पथां मार्गाणामङ्गांसि लक्षणानि कुटिलानि निम्नोन्नतानि च वाज्यन्वापनीफणदनुक्रमेणोर्जितवं समत्वं चाऽऽ पादयंस्तुरण्यतीति पूर्वत्रान्वयः । कल्पः-‘स यद्यस्मै रथश्चेवमाचक्षते आग्नीध्र एतां जुहोत्युत स्मास्य द्रवतस्तुरण्यते ” इति । पाठस्तु- उ॒त स्मा॑स्य द्रवतस्तुर॒ण्यतः॑ प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॒ सहोर्जा त॑रित्रतः, इति । उत स्मापि च द्रवतो गच्छतस्तुरण्यतस्त्वरयतः प्रगर्धिनो ऽवधिं प्राप्तुं काङ्क्षतोऽस्याश्वस्याङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानमनुवाति गच्छन्तमश्वमनूत्क्षिप्तत्वेन दृश्यमानं गच्छति । कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव । यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यालंकाररूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यते । पक्षमात्रस्य पर्णमङ्कस्य दृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । ध्रजता गच्छतः श्येनस्येव दधिक्राव्णो धारकपर्वताद्यतिक्रामिण ऊर्जा सहात्यन्तबलेन सह तरित्रतो भृशं तरतोऽश्वस्येति योज्यम् । आपस्तम्बस्त्वेवमाह- “वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्रयतेऽग्निरेकाक्षरेणेति । धावत्सूर्जितीर्यजमानं वाचयति लक्षणं (?) प्राप्योदञ्च आवृत्त्य प्रदक्षिणमावर्तते मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्त्रयते ” इति । वाजिनो वि योजना वाजे वाजे त नों अर्वन्त इति चतस्रः । प्रधावतोऽनुमन्त्रणं विधत्ते- च॒तसृ॑भिरनुमन्त्रयते । च॒त्वारि॒ च्छन्दा॑ ँ सि ।
तैत्तिरीयब्राह्मणम् (१.३.६) १३९ छन्दो॑भिरे॒वैनां॑ ' सुव॒र्गं लो॒कं ग॑मयति (५), इति । गायत्री त्रिष्टुब्जगत्यनुष्टुबिति च्छन्दसां चतुष्टयम् । उदङ्मुखत्वेनाऽऽवृत्तिं विधत्ते- प्रवा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते (न्ते) । य आ॒जिं धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेने॑ लो॒कान्नर्य॑न्ति, इति । कल्प:-“रथविमोचनीयं जुहोत्या मा वाजस्य प्रसवो जगम्यात्' इति पाठस्तु- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू । आ मांऽऽगन्तां॑ पि॒तरा॑ मा॒तरा॑ चाऽऽमा॒ सोमो॑ अ॒मृत॑त्वा य॑गम्यात्, इति । वाजस्यान्नस्य प्रसव उत्पत्तिर्मां प्रत्याजगम्यादागच्छतु । द्यावापृथिव्यौ च विश्वशंभू कृत्स्नस्य जगतः सुखं भावयन्तौ (न्त्यौ) मामागच्छताम् । पितरा मातराऽस्मदीयः पिता च मा प्रत्यागन्तां चिरजीवित्वाय समागच्छताम् । किंच सोमश्चामृतत्वाय मम देवत्वजन्मने मां प्रत्यागम्यादागच्छतु । अपाम सोमममृता अभूमेति ह्यन्यत्र श्रुतम् । विधत्ते- र॒थ॒वि॒मो॒च॒नी॒यं जु॑होति॒ प्रति॑ष्ठित्यै, इति । रथविमोकेनाश्वानामायासं परिहृत्य स्वयं प्रतिष्ठितो भवति । मन्त्रे वाजप्रसवोक्तेरभिप्रायमाह- आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒ वै वाज॑: । अन्न॑मे॒वाव॑रुन्धे, इति । इतरैः षोडशरथैर्धावद्ध्यः कृष्णलदानं विधातुं प्रस्तौति-- य॒था लो॒कं वा ए॒त उर्जय॑न्ति । य आ॒जिं धाव॑न्ति (६), इति । ये रथान्तरवर्तिनं आजिं धावन्ति, एते यथा लोकं यथास्थानमुञ्जयन्ति यस्मिन्यस्मिन्स्थाने यों यों धावत्यसावसौ तत्तत्स्थानं जयतीत्यर्थः । विधत्ते--