भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

आह्निकानां समभ्यस्येत्

२८८ श्रीतन्त्रालोकः । किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥२८४॥ आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । सप्तत्रिंशत्सु संपूर्णा- बोधो यद्भैरवो भवेत् ॥२८५॥ किं चित्रमणावोऽप्यस्य दृशा भैरवतामियुः । इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥२८६॥ विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् । द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥२८७॥ विश्वचित्प्रतिबिम्बत्वं परामर्शोदयक्रमः । मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥२८८॥

श्लोक २६२ ] प्रथमाह्निकम् । २८६ विकल्पसंस्क्रिया तर्क- तत्त्वं गुरुसतत्त्वकम् । योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥२८९॥ संविच्चक्रोदयो मन्त्र- वीर्यं जप्यादि वास्तवम् । निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥२६०॥ बुद्धिर्ध्यानं प्राणतत्त्व- समुच्चारश्चिदात्मता । उच्चारः परतत्त्वान्तः- प्रवेशपथलक्षणम् ॥२६१॥ करणं वर्णतत्त्वं चे- त्याणवे तु निरूप्यते । चारमानमहोरात्र- संक्रान्त्यादिविकल्पनम् ॥२६२॥ पं० १० घ० पु० समुच्चारस्तदात्मना इति पाठः । ३७

२६० श्रीतन्त्रालोकः । संहारचित्रता वर्णा- दयः कालाध्वकल्पने । चक्रभिन्मन्त्रविद्याभि- देतच्चक्रोदये भवेत् ॥२६३॥ परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥२६४॥ कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । वस्तुधर्मस्तत्त्वविधि- र्जाग्रदादिनिरूपणम् ॥२६५॥ प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते । कलास्वरूपमेकत्रिं- पञ्चाद्यैस्तत्त्वकल्पनम् ॥२६६॥ वर्णाभेदक्रमः सर्वा- धारशक्तिनिरूपणम् । पं० १८ क० पु० शक्तिविकल्पनमिति पाठः ।

श्लोकः ३०० ] प्रथमाह्निकम् । २६१ कलाद्यध्वविचारान्त- रेतावत्प्रविविच्यते ॥२६७॥ अभेदभावनाकम्प- ह्रासौ त्वध्वोपयोजने । संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥२६८॥ अनपेक्षितसिद्धिश्च तिरोभावविचित्रता । शक्तिपातपरीक्षाया- मेतावान्वाच्यसंग्रहः ॥२६९॥ तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमगो स्थितम् ॥३००॥ शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । पं० ११ क० पु० तिरोभावाद्यपगमे इति पाठः ।

२८२ श्रीतन्त्रालोकः । सामान्यन्यासभेदोऽर्घ- पात्रं चैतत्प्रयोजनम् ॥३०१॥ द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥३०२॥ विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । देहपूजा प्राणबुद्धि- चित्स्वध्वन्यासपूजने ॥३०३॥ अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥३०४॥ अस्त्रार्चा वह्निकार्यं चा- प्यधिवासनमग्रिमम् । पं० ५ क० घ० पु० प्रवेशोऽध्यञ्चरूपं चेति पाठः । पं० ९ क० पु० बुद्धिचेष्टाध्ववेति पाठः ।

श्लोकः ३०६ ] प्रथमाह्निकम् । २६३ तर्पणां चरुसंसिद्धि- र्दन्तकाष्ठान्तसंस्क्रिया ॥३०५॥ शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणाम् । स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥३०६॥ समयित्वविधावस्मि- न्स्यात्पञ्चदश आह्निके । मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥३०७॥ अग्नितृप्तिः स्वस्वभाव- दीपनं शिष्यदेहगः । अध्वन्यासविधिः शोध्य- शोधकादिविचित्रता ॥३०८॥ दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥३०६॥

सूत्रक्लृप्तिस्तत्त्वशुद्धिः

२६४ श्रीतन्त्रालोकः । सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् । अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥ जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः । इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥३११॥ कलावेत्ता कृपाणयादि- न्यासश्चारः शरीरगः । ब्रह्मविद्याविधिश्चैव- मुक्तं सद्यःसमुत्क्रमे ॥३१२॥ अधिकारपरीक्षान्तः- संस्कारोऽथ तुलाविधिः । इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥३१३॥ पं० ९ क० पु० कालाववेत्तेति पाठः । पं० १३ क० पु० अधिकारिपरीक्षातः संस्कार इति पाठः ।

श्लोकः ३१७ ] प्रथमाह्निकम् । २६५ मृतजीवद्विधिर्जालो- पदेशः संस्क्रियागणः । बलाबलविचारश्चे- त्येकविंशान्हिके विधिः ॥३१४॥ श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥३१५॥ परीक्ष्ताचार्यकरणं तद्गतं हरणं मतेः । तद्विभागः साधकत्व- मभिषेकविधौ त्वियत् ॥३१६॥ अधिकार्यथ संस्कार- स्तत्प्रयोजनमित्यदः । चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७ ॥ पं० १५ क० पु० चतुर्विंशतियागाख्ये इति पाठः ।

प्रकाशे वस्तुसंग्रहः ॥३१८॥

२८६ श्रीतन्त्रालोकः । प्रयोजनं भोगमोक्ष- दानेनात्र विधिः स्फुटः । पञ्चविंशाह्निके श्राद्ध- प्रकाशे वस्तुसंग्रहः ॥३१८॥ प्रयोजनं शेषवृत्ते- र्नित्यार्चा स्थण्डिले परा । लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥३१९॥ पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने । नैमित्तिकविभागस्त- त्प्रयोजनविधिस्ततः ॥३२०॥ पर्वभेदास्तद्विशेष- श्चक्रचर्चा तदर्चनम् । गुर्वाद्यन्तदिनाद्यर्चा- प्रयोजननिरूपणम् ॥ ३२१ ॥ पं० ६ क० पु० इयद्वाच्यमिति पाठः ।

श्लोकः ३२५ ] प्रथमाह्निकम् । २६७ मृतेः परीक्षा योगीशी- मेलकादिविधिस्तथा । व्याख्याविधिः श्रुतविधि- र्गुरुपूजाविधिस्त्वियत् ॥३२२॥ नैमित्तिकप्रकाशाख्ये ऽप्यष्टाविंशाह्निके स्थितम् । अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥३२३॥ अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः । दीक्षाभिषेकौ बोधश्चे- त्येकोनत्रिंश आह्निके ॥३२४॥ मन्त्रस्वरूपं तद्वीर्य- मिति त्रिंशे निरूपितम् । शूलाब्जभेदो व्योमेश- स्वस्तिकादिनिरूपणम् ॥३२५॥ पं० ६ ग० पु० विधिर्मौनिविधी रहस्येति पाठः । ३८

२६८ श्रीतन्त्रालोकः । विस्तरेणाभिधातव्य- मित्येकत्रिंश आह्निके । गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ ३२६ ॥ कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । इत्यादि न केवलमेवं, यावत् अन्यदपि अस्य माहात्म्यं स्यात् इत्याह 'इति सप्ताधिकां, संप्रका- शने' इत्यन्तम् । इह ग्रन्थकृता तत्त्वतः समस्तव्य- स्तत्वेन सप्तत्रिंशदाह्निकानि उपनिबद्धानि इति । यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण सर्वमस्ति, तथा इहापि वक्ष्यमाणम् इत्युक्तं 'सर्व- स्योद्देशनं क्रमात्' इति। परोपाये इति - शाम्भवोपाये, अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं, तच्च भेदाभावे सति भवेत्, स च वाच्यवाचकात्मनो विश्वस्य संविदेकरूपत्वे सति स्यात्, तत्र वाच्यात्मनो विश्वस्य चित्प्रतिबिम्बत्वेन सामान्यविशेषात्मतया पं० १६ ख० पु० विश्वस्य विश्वचिदिति पाठः ।

श्लोकः ३२६ ] प्रथमाह्निकम् । २६६ द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदय- क्रममन्त्रार्थभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेक- रूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः । शाक्तस्य च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुप- योगित्वम् — तर्कस्य च शुद्धविद्यात्मतया भेदभावक- मायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेर- नादरः तत एवाविकल्पसंस्कारस्य दाढ्यात् संवि- च्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यं, तथामर्श एव च वास्तवं जप्य्यादि, अत एव च संविदि भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः साक्षात्तदौपायिकत्वम् इत्येतदस्माभिः — स्पष्टत्वात् पं० ५ क० पु० स चाहन्ताद्यालोचनद्वारेणेति, ख० पु० स चोपायाद्यालो- चनेति पाठः ।

आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह

३०० श्रीतन्त्रालोकः । ग्रन्थविस्तरभयात् अग्रे च निर्णयिष्यमाणत्वात् न प्रातिपद्येन व्याख्यातम् इति स्वयमेव अवधार्यम् ॥ २८४-३२६ ॥ ननु एकीकाराह्निकादौ किमिति न अनुजोद्देशः कृतः ? इत्याशङ्क्याह द्वात्रिंशत्तत्वादीशाख्या- त्प्रभृति प्रस्फुटो यतः ॥ ३२७॥ न भेदोऽस्ति ततो नोक्त- मुद्देशान्तरमत्र तत् । द्वात्रिंशं तत्त्वं स्वरूपं यस्य तन्मुद्राह्निकं, तस्मात् द्वात्रिंशसंख्यादनन्तरं यत् ईशाख्यं त्रयस्त्रिंशमेकीका- राह्निकं तत आरभ्य भेदस्य प्राधान्याभावात् अनुज उद्देशो न कृतः इत्यर्थः ॥३२७॥ ननु यद्यतः प्रभृति भेदो नास्ति तत्किमिति आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह मुख्यत्वेन च वेद्यत्वा- दधिकारान्तरक्रमः ॥३२८॥

श्लोकः ३३० ] प्रथमाह्निकम् । ३०१ एतदुपसंहरन्नन्यदवतारयति इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥३२६॥ अस्य इति-उद्दिष्टस्य प्रमेयजातस्य ॥३२६॥ इदानीमाह्निकार्थमेव संचिनोति आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्ति- व्रातं तस्य स्वरूपं स च निज महस- श्छादनाद्वद्धरूपः । आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह य- त्संग्रहेणार्थ एषः ॥३३०॥ इह आत्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः पं० ४ क० पु० लक्षणापेक्ष्या तत्र इति पाठः । पं० १० ग० पु० निजमहिमाच्छादनाद्वन्द्वरूपः इति पाठः । पं० १३ क० पु० स चास्य इति पाठः ।

३०२ श्रीतन्त्रालोकः । संविद्रूप एव प्रकाशः स्वरूपं, संविच्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् । अत एव च 'शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।' इत्याद्युक्तयुक्त्या तस्य आत्मनः क्रोडीकृतानन्त- शक्तिकं स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अति- दुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य — अ- नन्यसाधारणस्य ज्ञत्वकर्तृत्वलक्षणस्य, महसो गोप- नात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन् '............शिव एव गृहीतपशुभावः ।' इत्याद्युक्तयुक्त्या 'बद्धः' इत्युच्यते, एवमपि तस्य आ- त्मनः प्रत्यावृत्त्या 'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित्..................॥' इत्याद्युक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इ- यान् परिकरः । तदाह 'स चायम्' इत्यादि, स चायं मोक्षः — तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य पं० ८ ग० पु० महिम्नो गोपनादिति पाठः ।

श्लोकः ३३० ] प्रथमाह्निकम् । ३०३ ‘रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृताज्झितः ।’ इत्याद्युक्तयुक्त्या चित्रस्वभावस्य, यद्वा ‘तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥’ इत्यादिनीत्या चित्राकारस्य ‘अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः । पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥’ इत्याद्युक्त्या चित्रः शाम्भवाद्यावेशात्मा प्रकटितः, इह इति – अस्मिन्नाह्निके । ययोर्बन्धमोक्षयोः संग्रहेण संक्षेपेण एषोऽर्थः प्रकटितः इत्यनेनैव संबन्धः ॥३३०॥ ननु आत्मनः स्वरूपप्रथनमेव ‘मोक्षः’ इत्युक्तम्, आत्मा चैक एव अखण्डः इति तत्प्रथात्मनो मोक्षस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते पं० ३ क० पु० तेनाजडविभागस्येति, संज्ञित इति च पाठः । पं० ५ ख० पु० चित्रस्वभावस्य इति पाठः । पं० ८ क० पु० इत्याद्युक्तयुक्त्या इति पाठः ।

३०४ श्रीतन्त्रालोकः । तत्सद्भावाद्द्विमलमपि त- द्भाति मालिन्यधाम । यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ ३३१ ॥ तिमिरम् - आणवमलमेव मिथ्याज्ञानं भेदप्रथात्म- कम् अपूर्णं वेदनं, दृष्टेः पूर्णायाः संवित्तेः, असमान् - आत्मनि अनात्माभिमानादिरूपान् दोषान् जनयति इति मिथ्याज्ञानसद्भावात् विमलं पूर्णमपि तत् ज्ञानं मालिन्यधाम भाति - स्वस्वातन्त्र्यादपूर्णेन आत्म- ना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते, यत् पुनरुपेयत्वेन प्रेक्षणीयम् - अवश्यज्ञातव्यं परप्रमात्रे- कात्म पूर्णं ज्ञानं ‘नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहङ्कारधियौ च । योऽत्र ज्ञांशः सोऽस्म्यहमेव ............।’ पं० १३ क० पु० पुनरुपमेयत्वेनेति पाठः ।

श्लोक ३३१ ] प्रथमाह्निकम् । ३०५ इत्यादिनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत्, मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां दोषमुद्रां दूरं रुन्ध्येत् - आत्मन्येव आत्माभिमानेन तिरस्कुर्यात्, तत्र का नाम मालिन्यशङ्का तत्र सं- भावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो वापि न नाम कश्चिदस्ति इति का वा नाम तत्र वै- चित्र्यसंभावना स्यात् । अनेन चाभिप्रायेण 'संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छ्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ॥' इत्यादि अन्यत्र उक्तम् । अथ च तिमिरेण नेत्ररो- गविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादितं प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनि- तम् ॥३३१॥ इदानीमस्य शास्त्रस्य परं गाम्भीर्यं मन्यमानो ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथा- पं० ४ ख० पु० का नाम अग्रिमान्न संभावना न प्रभवेत् इति पाठः । ३६

३०६ श्रीतन्त्रालोकः । बोधेन यत्किंचित् उत्तानमेव अन्यथा उच्यते, तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह भावव्रात ? हठाज्जनस्य हृदया- न्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे । यस्त्वामाह जडं जडः सहृदयं- मन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥ हे भावव्रात-नीलाद्यर्थ ? आत्मनो हृदयं तेन आत्मतथ्यं रूपं गोपयित्वा जनस्य सर्वस्यैव वादिनो हृदयानि आशयान् बलात्कारेण आक्रम्य ‘अद्यास्मानसत: करिष्यति सतः किं नु द्विधा वाप्ययं किं स्थास्नुनुत नश्वरानुत मिथोभिन्नानभिन्नानुत । इत्थं सद्गदनावलोकनपरैर्भावैर्जगद्गर्तिभि- र्मन्ये मौननिरुद्धमानहृदयैर्दुःखेन तैः स्थीयते ॥’ पं० ७ ग० पु० सहृदयमन्योऽत्र दुःशिक्षित इति पाठः । पं० १७ ग० पु० दुःखमतः स्थीयते इति पाठः ।

श्लोक ३३२ ] प्रथमाह्निकम् । ३०७ इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे - नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदय- त्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिंचिज्ज्ञः, त्वां भावव्रातं, जडम् - अचेतनम् आह, अतोऽस्माभिरुत्प्रेक्ष्यते - यत् अमुष्य वादिनो वस्तुत- श्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात् भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दा- स्थाने स्तुतिः । भावानां हि वस्तुतश्चैतन्यमेव रूपम् अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अत- स्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥३३२॥ ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन पं० ६ क० पु० भावानां हि भावना वस्तुत इति पाठः ।