भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र-

श्लोक १४१] प्रथमाह्निकम् । १८१ शिकाक्रमात् इति - आवृत्तिनिर्ह्रासितारतम्यमन्दादि- प्रायत्वात् ॥१४०॥ ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्ण- त्वं च ? इत्याशङ्क्याह विश्वभावैकभावात्म- स्वरूपप्रथनं हि यत् । अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥१४१॥ विश्वेषां नीलसुखादीनां भावानां य एको भावः- प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र- धाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य यत्प्रथनम् - अविकल्पवृत्त्या साक्षात्करणं, तत् एव अणूनां परं पूर्णं पारमेश्वरं ज्ञानं, तत एवं-विधात् पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्, अपरं - चित्स्वरूपप्रथाविरहादपूर्णं, बहु - वक्ष्यमाण- प्रकारेण अनेकप्रकारम् इत्यर्थः ॥१४१॥ तदेव बहुप्रकारत्वं दर्शयति तच्च साक्षादुपायेन तदुपायोदिनापि च ।

१८४ श्रीतन्त्रालोकः । प्रथमानं विचित्राभि- र्भङ्गीभिरिह भिद्यते ॥१४२॥ तत् इति परमपरं वा ज्ञानं । साक्षादुपायेन इति शाम्भवेन । तदेव हि अव्यवहितं परज्ञानावाप्तौ निमित्तं, स एव परां काष्ठां प्राप्तश्चानुपाय इत्यु- च्यते । अत एव अनुपायः इति नोपायनिषेधमात्रम् इति वक्ष्यते । तस्य शाम्भवस्य उपायः शाक्तः, आदिशब्दात् तस्यापि उपाय आणवः । भिद्यते इति औपचारिकं भेद्मेति इत्यर्थः ॥ १४२ ॥ न केवलमेवं, यावदन्यदपि एतद्वैचित्र्ये निमित्त- मस्ति इत्याह तत्रापि स्वपरद्वार- द्वारित्वात्सर्वशोंशशः । व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥१४३॥ स्वेन, यथा-शाम्भवेन शाम्भवम्, अत एव स्वपरलक्षणेन द्वारेण, द्वारि सोपायम् । सर्वशः इति- पं० ६ क० पु० उपायविधिनिषेधमात्रेति पाठः । पं० ६ ख० पु० औपाधिकं भेदमिति पाठः ।

श्लोक १४४] प्रथमाह्निकम्। १८३ पूर्णात्मना। अंशश इति - अपूर्णेन। व्यवधान इति - साक्षादुपायत्वाभावात्। एवं प्रथमं तावदुपायस्त्रेधा- शाम्भवादिभेदात्, तेषां च द्वारद्वारिभावेन प्रत्येकं द्वैधे षट्, तत्रापि प्रत्येकं पूर्णत्वापूर्णत्वेन द्वैधे द्वादश, तेषां च प्रत्येकं व्यवहिताव्यवहितत्वेन द्वैधे चतुर्विं- शतिः। व्यवधानं च बहुभिर्विजातीयैः, इति भेदानां भूयस्त्वम् ॥१४३॥ ननु ज्ञानं तावदुपैयतया प्रतिज्ञातम् इति, तत्र उपायेन केनचिद्भाव्यं, स च न ज्ञानमेव - उपेयत्वात्, नापि अज्ञानं - तदनौपयिकत्वात् तस्य, इति किं नाम उपायस्वरूपम् ? इत्याशङ्क्याह ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते । ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥१४४॥ किं तु तत्सूक्ष्मं वैकल्पिकस्थूलशाक्तादिज्ञानवि- लक्षणं मतम् इति संबन्धः। अत एव परं - शाम्भ- पं० १० क० पु० तावदनौपाधिकत्वादिति पाठः। पं० १२ क० पु० चाप्युपायो य इति, ख० पु० चाभ्युपेय इति पाठः।

१८४ श्रीतन्त्रालोकः । वम् इत्यर्थः । अत एव 'इच्छात्मकम्' इत्युक्तम् । शाक्ताण्वयोर्हि ज्ञानक्रियात्मकत्वं भवेत् इति भावः ॥ १४४ ॥ ननु एवमपि कथमेकस्यैव उपायोपेयभावः संगच्छते ? इत्याशङ्क्याह उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविभ्रमः । एषैव च क्रियाशक्ति- र्बन्धमोक्षैककारणम् ॥ १४५ ॥ स्थौल्यं — चिदानन्दैकघनपरसूक्ष्मस्वरूपनिमज्जना- दनन्तग्राह्यग्राहकात्मना भेदेन उल्लसनं, तत्कृतोऽयं भ्रमः — यत् 'इदमुपेयम्' अयमुपाय' इति । वस्तुतो हि परप्रकाशात्मा शिव एव उपेयः, स च सर्वत एवा- वभासते — तस्य क्वचिदपि अनपायात् । अत एव नात्र उपायानां किंचित्प्रयोजनम् — अज्ञातज्ञापकत्वात् तेषाम् । तदुक्तम् 'अपरोक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते । यैरूपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते ॥' पं० १७ क० पु० प्रकटस्थिते इति पाठः ।

श्लोक १४६ ] प्रथमाह्निकम् । १८५ इति । अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते । ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ? इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति - तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् । तेन परमेश्वर- स्फार एवायम् इत्याशयः । अत एवायं तथात्वेन अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह 'बन्धमोक्षै- ककारणम्' इति । यदुक्तं 'सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥' इति ॥ १४५ ॥ ननु एवमपि अत्र किं नाम उपायतया संमतम् ? इत्याशङ्क्याह तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । यत्स्फुरेत्प्रकटं साक्षा- त्तदिच्छाख्यं प्रकीर्त्तितम् ॥ १४६ ॥ तत्र - एवं सति, आद्ये - प्राथमिकालोचनज्ञानात्मनि, पं० १७ क० पु० प्राथमिककाले च ज्ञानात्मनीति पाठः । २४

१८६ श्रीतन्त्रालोकः । अत एव निर्विकल्पोत्थे, अत एव भिन्नस्य परामृश्यस्य अनुल्लासात् स्वपरामर्शे - स्फुरत्तामात्ररूपे यत् प्रकटं स्फुरेत्, साक्षात्कारात्मतया यत् स्फुरणं तत् साक्षात् इच्छाख्यं प्रकीर्तितम् - उपायान्तरनिरपेक्षत्वात्, अव्यवधानेच्छाशक्तिस्फाररूपः शाम्भवाख्य उपाय उक्तः इत्यर्थः ॥ १४६ ॥ एतदेव दृष्टान्तोपदेशेन स्फुटीकर्तुमाह यथा विस्फुरितदृशा- मनुसंधि विनाप्यलम् । भाति भावः स्फुटस्तद्व- त्केषामपि शिवात्मता ॥ १४७ ॥ भूयो भूयो विकल्पांश- निश्चयक्रमचर्चनात् । यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ १४८ ॥ तथैव 'आत्मैवेदं सर्वम्' इत्येवमात्मनो विक- पं० १ क० पु० निर्विकल्पोत्थे इति, ग० पु० निर्विकल्पैकनामनि इति प्रथमः पाठः । पं० ३ क० पु० साक्षात्कारतयेति पाठः ।

श्लोक १४६ ] प्रथमाह्निकम् । १८७ ल्पस्य आत्मानात्माख्यांशद्वयाक्षेपित्वेऽपि प्रतियोगि- निषेधपूर्वको योऽयं पौनःपुन्येन अंशरूपो निश्चयः तस्य यत् क्रमेण चर्चनं - यथायथं स्फुटताभावित्वादिना संस्करणं, ततो यत् विकल्प्यमानमात्मस्वरूपपरा- मर्शम् ‘इत्थमेव इदम्’ इत्येवं प्रतीतिमभिन्नां - साक्षात्कारात्मतामभ्येति, तज्ज्ञानोपायं विदुः- ज्ञानशक्तिस्फारात्मकं शाक्तमुपायं जानीयुः इत्यर्थः । तु-शब्दः पूर्वस्माद्व्यतिरेचकः । इह हि विकल्प एव क्रमेण निर्विकल्पतामेति इत्युक्तम् । तत्र पुनर्निर्विकल्पतयैव साक्षात्करणं रूपम् , अत एव च अनयोर्द्वारिद्वारभावः ॥१४७॥१४८॥ यत्तु तत्कल्पनाक्लृप्त- बहिर्भूतार्थसाधनम् । क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥१४६॥ तथा तत् आत्मस्वरूपं क्रियोपायमाम्नातं - क्रिया- शक्तिस्फारात्मकाणवोपायसमधिगम्यं सर्वागमेषु पं० १ क० ग० पु० द्वयापेक्षितत्त्वेऽपीति पाठः । पं० ३ क० पु० संस्फुरणमिति पाठः । पं० १७ ख० पु० समाधिगम्यमिति पाठः ।

१८८ श्रीतन्त्रालोकः । उक्तम्। यतस्ताभिः-भेदप्रथामयीभिः कल्पनाभिः, कृतः-स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो योऽसौ उच्चारादिः अर्थः तत्साधनम्, तुशब्दो व्यति- रेके। शाक्ते हि विकल्प एव अर्थः, इह तु बाह्योऽपि इति, अत एव न तत्र उच्चारादिः। ननु उपाय- भेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तं 'भेदो नात्रापवर्गः' इति। स्वरूपप्रथनं हि अपवर्गः, तच्च सर्वैरेव हि द्वारद्वारिभावेन भवति, इति भावः॥१४६॥ ननु ज्ञानमेव उपायः इति सामान्येन प्रतिज्ञातं, तत्कथमाणवे क्रियोपायत्वमुक्तम् ? इत्याशङ्क्याह यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । रूढेर्योगान्ततां प्राप्त- मिति श्रीगमशासने ॥१५०॥ अन्या इति अर्थाज्ज्ञानात्, यतः तज्ज्ञानमेव रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्तं सत् तथा 'क्रिया' इति सर्वत्र अभिधीयते इत्यर्थः । पं० ४ क० पु० विकल्प्य एवार्थ इति पाठः ।

श्लोक १५३ ] प्रथमाह्निकम् । १८६ ननु अत्र किं प्रमाणम् ? इत्याशङ्क्योक्तम् 'इति श्रीगमशासने' इति, अर्थादुक्तम् इति शेषः ॥१५०॥ तत्रत्यमेव ग्रन्थं पठति योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥१५१॥ इति ॥ १५१ ॥ एतच्च स्वयमेव व्याचष्टे स्वचित्ते वासनाः कर्म- मलमायाप्रसूतयः । तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥१५२॥ सा देहारम्भिबाह्यस्थ- तत्त्वव्राताधिशायिनी । पं० ६ क० ग० पु० वासनाशान्त्यै इति पाठः । पं० १० ख० पु० स्वाचित्ते वासनेति पाठः ।

१६० श्रीतन्त्रालोकः । क्रिया सैव च योगः स्या- त्त्वानां चिल्लयीकृतौ ॥१५३॥ निमित्तम् इत्यनेन सप्तमी व्याख्याता । संवि- त्स्वभाविका इत्यनेन मतेर्ज्ञानार्थत्वमुक्तम् । सा मतिः ‘प्रणवेन तु तत्सर्वं शरीरोत्पत्तिकारणम् । न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया ॥’ इत्याद्युक्त्या शुद्धदेहारम्भीणि असाधारणानि, तथा बाह्यस्थानि ‘हेयाध्वानमधः कुर्वंत्रेचयेत्तं वरानने । यावत्सा समना शक्तिः…………… ॥’ इत्याद्युक्त्या तत्त्वदीक्षादिना साधारणानि तत्त्वानि अधिशयाना स्वचित्तवासनाशान्तिकारित्वात् क्रिया स्यात् । तथा सैव ‘योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना ।’ इत्याद्युक्त्या तत्त्वानां चिति योजनाद्योगः स्यात् इति नानयोर्ज्ञानातिरेकः इति युक्तमुक्तं ‘योगो नान्यः क्रिया नान्या’ इति ॥१५२॥१५३॥ पं० २ क० ख० पु० चिल्लयीकृता इति पाठः । पं० ६ क० पु० अधः कृत्यैति पाठः । पं० १६ क० पु० योगो नान्यक्रियेति पाठः ।

श्लोक १५५ ] प्रथमाह्निकम् । १६१ ननु कथं ज्ञानमेव क्रिया भवेत् ? इति दृष्टान्तोप- दर्शनेन उपपादयति लोकेऽपि किल गच्छामी- त्येवमन्तः स्फुरैव या । सा देहं देशमक्षांश्चा- प्याविशन्ती गतिक्रिया ॥१५४॥ अन्तः आत्मनि 'गच्छामि' इति या स्फुरा- स्फुरणम् उद्यन्तृतात्मिका संवित्, सैव देहाद्या- विशन्ती वैवश्याविष्करणेन स्वमयतामापादयन्ती गमनक्रिया भवति, इति युक्तमुक्तं 'ज्ञानमेव हि तत्त्तथा' इति। गन्तुर्हि 'गच्छामि' इति स्फुरणायां सत्यां कर्तृ- करणकर्मात्मकशरीरपादग्रामाद्यावेशेन गमनक्रिया- संपत्तिः स्यात् ॥१५४॥ तदेवोपसंहरति तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥१५५॥ पं० १६ क० पु० ज्ञानमेव हि मोक्षायेति पाठः ।

१६२ श्रीतन्त्रालोकः । ततः इति क्रियाया ज्ञानात्मकत्वात् । तेन 'दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।' इत्यादिना क्रियाया अपि अपवर्गनिमित्तत्वमुक्तम् । एवं च युक्तमुक्तं 'ज्ञानं मोक्षैककारणम्' इति । तदाह 'युक्तं चैतदुदाहृतम्' इति ॥१५५॥ ननु 'स्वतन्त्रात्मातिरिक्तस्तु' इत्यादिना प्राक् आत्मज्ञानातिरिक्तो मोक्षो नाम न कश्चिदस्ति इत्युक्तम्, इति ज्ञानमेव विमोक्षाय इत्यनेन हेतुफल- भावोऽनयोरुच्यमानः कथं संगच्छते ? इत्याशङ्क्याह मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवि- न्नान्यत्तत्र तु याः पुनः ॥ १५६ ॥ क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि । असंविद्रूपतायोगा- द्धर्मिणश्चानिरूपणात् ॥ १५७ ॥ पं० १ क० पु० क्रियाया अपवर्गेति अपि शब्दहीनः पाठः । पं० १४ क० पु० क्रियाधिकाः शक्तय इति पाठः ।

श्लोक १५७ ] प्रथमाह्निकम् । १६३ ननु स्वरूपमेव नाम किं यस्यापि प्रथनं मोक्षः स्यात् ? इत्याह स्वरूपम् इति, तेन स्वस्य आत्मनो रूपं संविच्चैतन्यं, तस्य प्रथनं यथातत्त्वं ज्ञानं, स एव मोक्षः इति यथोक्तमेव युक्तं । यः पुनरयं हेतुफल- भाव उक्तः स काल्पनिक एव, न तात्त्विकः, यद्वक्ष्यति 'यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । न सा मुख्या....................॥' इति । अन्यत् इति संविदतिरिक्तम् इत्यर्थः । ननु आत्मनः संविदतिरिक्तं यदि रूपं नास्ति, तत्कथमस्य शक्त्यन्तरयोगित्वं स्यात् ? इत्याशङ्क्याह तत्र इत्यादि, तु-शब्दः चार्थे ॥ १५६ ॥ १५७ ॥ ननु 'पत्युर्धर्माः शक्तयः स्युः.............।' इत्याद्युक्त्या साक्षात्पत्युर्धर्मितया शक्तीनां च धर्मतया निरूपणं कृतम् इति धर्मिणश्च अनिरूप- णात् इत्यसिद्धोऽयं हेतुः ? इत्याशङ्क्याह पं० ३ क० पु० तथातत्त्वमिति पाठः । २५

१६४ श्रीतन्त्रालोकः । परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । शक्तीनां धर्मरूपाणा- माश्रयः कोऽपि कथ्यते ॥ १५८ ॥ यथा खलु काणादाः 'आत्मत्वाभिसंबन्धादात्मा।' इत्यादिना धर्मिरूपमात्मानं निरूप्य, 'तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म- संस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागाः।' इत्यादिना तत्समवेतम् आगमापायि भिन्नं धर्मजा- तम् अभ्युपागमन्, नैवमिह शक्तितद्वतोर्धर्मधर्मि- भावः कश्चिद् अभिधीयते । पर एव हि स्वतन्त्रो बोधस्तत्तदुपाधिवशात् तत्तच्छक्तिरूपतया व्यपदि- श्यते इति न वस्तुतः कश्चित् शक्तितद्वतोर्भेदः, यदुक्तं प्राक् पं० १ क० पु० पारमेश्वरेति, पाठः । पं० २ ख० पु० काणादिदृष्टेति च पाठः । पं० १० क० पु० आगमापायिभिन्नमित्येवं रूपः पाठः । पं० ११ क० पु० मप्यभ्युपागमन् इति, ख० पु० अप्युपागमन् इति पाठः ।

श्लोक १५६ ] प्रथमाह्निकम् । १६५ 'मातृकल्पते हि भावस्य तत्र तत्र वपुष्यलम् । को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥' इति ॥१५८॥ ननु यदि काणादादिदर्शनवत् इहापि धर्मधर्मि- भावस्य निरूपणं क्रियते, तदा को दोषः स्यात् ? इत्याशङ्क्याह ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा । एकः शिव इतीयं वा- ग्वस्तुशून्यैव जायते ॥१५६॥ यदि हि शक्तितद्गतोधर्मधर्मिभावन्यायेन वास्तव एव भेदः स्यात्, तदा 'इत्थं नानाविधैः रूपैः स्थावरैः जङ्गमैरपि । क्रीडया प्रसृतो नित्यमेक एव शिवः प्रभुः ॥' इत्यादौ 'एक एव शिव' इति इयमीश्वराद्वयप्रतिज्ञा- त्मिका वाक् अनेकेषां शक्तितद्वदात्मनाम् अर्थानां पं० ८ क० पु० भिन्नश्चेच्छक्तयस्ततः इति पाठः । पं० १२ ख० पु० स्यादित्याहेत्येवं पाठः । पं० १५ क पु० एक एव इतीयमिति ख० पु० इतीयमद्वयप्रतिज्ञात्मिकाने- केषामिति पाठः ।

१६६ श्रीतन्त्रालोकः । संभवाद् वस्तुशून्या - अभिधेयरहिता स्यात्, अद्वय- वादखण्डना भवति इति यावत् ॥१५६॥ ननु यदि वस्तुतः संवित्स्वभावः शिव एव एकोऽ स्ति, तत्कथमयं चिदादिनानाशक्त्यात्मा व्यवहा- रोऽन्यथा क्रियते ? इत्याशङ्काम् उपसंहारभङ्ग्या उपशमयितुमाह तस्मात्संवित्त्वमेवैत- स्वातन्त्र्यं यत्तदप्यलम् । विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥१६०॥ एतच्च निर्णीतपूर्वम् इति पुनरिह नायस्तम् । यथोक्तं 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ।' इति ॥१६०॥ इह 'आत्मज्ञानमेव मोक्षः' इति ज्ञानमोक्षयोः कार्यकारणभाव एव वस्तुतो नास्ति - इति 'नावश्यं कारणानि कार्यवन्ति भवन्ति' इति न्यायेन ज्ञानिनां

  • ० १ क० पु० अद्वयखण्डनेति पाठः ।

श्लोक १६१ ] प्रथमाह्निकम् । १६७ सत्यपि ज्ञानाख्ये कारणे कार्यात्मा मोक्षो न स्यात्- इत्यानिष्टापादनात्मायं प्रसङ्गो नाशङ्कनीयः ? इत्याह यतश्चात्मप्रथा मोक्ष- स्तन्नेहाशङ्क्यमीदृशम् । नावश्यं कारणात्कार्यं तज्ज्ञान्यपि न मुच्यते ॥१६१॥ ज्ञानिनो हि अवश्यभाविनी मुक्तिः इति भावः । अत एव च 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥' इति । तथा '................... ज्ञानी त्वात्मैव मे मतः ।' इत्यादि गीतम् ॥ १६१ ॥ ननु 'ज्ञानमेव विमोक्षाय ...............।' इत्यादिना ज्ञानमोक्षयोः कार्यकारणभाव उक्त एव, इति कथं नायं प्रसंगः ? इत्याह यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता ।

१८८ श्रीतन्त्रालोकः । न सा मुख्या, ततो नायं प्रसंग इति निश्चितम् ॥१६२॥ एतच्च निर्णीतचरम् इति नेह पुनरायस्तम् ॥१६२॥ एतदुपसंहरन्नन्यदवतारयति एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि । यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥१६३॥ ज्ञानस्वभावा इति क्रियाया ज्ञानाविनाभा- वित्वात् । यदुक्तं '...... ............न ज्ञानरहिता क्रिया ।' इति । स्थूलत्वम् इति अन्तर्ग्राह्यग्राहकात्मना भेदेन उल्हासात् । तेन इति स्थूलतावहनेन हेतुना । चित्रता इति तत्तद्ग्राह्यादिभेदवैचित्र्यात् ॥ १६३ ॥ अत एवाह क्रियोपायेऽप्युपायानां ग्राह्यबाह्यविभेदिनाम् ।

श्लोक १६४ ] प्रथमाह्निकम् । १६६ भेदोपभेदवैविध्या- न्निःसंख्यत्वमवान्तरात् ॥१६४॥ ग्राह्याः उच्चाराद्याः । बाह्याः कुण्डमण्डलादयः । उच्चारादयो हि ग्राह्यभूमिगताः बाह्यत्वेन अवसिता अपि चक्षुरादिबाह्येन्द्रियागोचरत्वात् प्रमात्रन्तरासा- धारणत्वाच्च न बाह्याः । कुण्डमण्डलादयः पुनर्बाह्ये- न्द्रियगोचरत्वात् साधारणयाच्च बाह्याः सन्तो ग्राह्याः इत्युक्तम् 'ग्राह्यबाह्यविभेदिनाम्' इति । एवं नियतभेदवत्त्वेऽपि एषामेव अवान्तरभेदात् भेदोपभे- दनानात्वात् निःसंख्यत्वं बहुप्रकारत्वम् इत्यर्थः । तथाहि - उच्चारस्य प्राणादिभेदात् प्रथमे पञ्च भेदाः, तत्रापि विन्दुनादादयो बहव उपभेदाः, एवमपि उच्चार्यमाणानां मन्त्राणामानन्त्यम् इत्यसंख्यभे- दत्वम् ॥१६४॥ एवं च 'यतो नान्या क्रिया नाम................।'


पं० २ ख० पु० निःसंख्यात्वमिति पाठः । पं० ५ क० पु० इन्द्रियगोचरादिति पाठः । पं० ६ ख० पु० एषामेवान्तरभेदादिति पाठः । पं० ११ क० पु० प्रथमं पञ्च भेदा इति पाठः ।

२०० श्रीतन्त्रालोकः । इत्यादिना उपक्रान्तं क्रियाया ज्ञानात्मकत्वं युक्त्या- गमाभ्यां निर्वाहितम् इत्येक एव ज्ञानात्मा मोक्षा- वाप्तावुपाय इति न उपायनानात्वम्, अत एव तत्फलभूते मोक्षेऽपि न कश्चिद्भेदः इत्याह अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे । उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥ १६५ ॥ यत्केचन सूरय इति शशङ्किरे इति संबन्धः । केचन सूरय इति भेदवादिनः । तत्र हि हेतुफल- योर्वास्तव एव भेदः इति हेतुभेदात् फलभेदोऽपि स्यात् । इह पुनः ‘प्रदेशो ब्रह्मणः सर्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।’ इत्यादिनीत्या ‘संविदेव सर्वम्’ इति को नाम हेतु- फलभेदः, काल्पनिकेऽपि हेतुफलयोर्भेदे ज्ञानात्मा एक एव उपायोऽभ्युपगतः इति उपायनानात्वस्यैव पं० १ ख० पु० ज्ञानात्मकत्वमिति पाठः । पं० १३ क० पु० प्रादेशोऽपीति, अविकल्पश्चेति च पाठः । पं० १५ क० पु० काल्पनिके हेत्विति अपिशब्दहीनः पाठः ।