भारतकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

८० श्रीतन्त्रालोकः । 'दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः । दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता ।।' इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव 'तथापि' 'तत्' अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि '..................प्रारब्धेकं न शोधयेत् ।' इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात् 'तस्य' वर्तमानशरीरस्य 'अन्ते स्फुटं व्यज्यते' '..................देहपाते शिवं व्रजेत् ।' इत्याद्युक्त्या साक्षात्कारात्म स्फुरति इत्यर्थः । आदिशब्दाच्च शेषवृत्त्या ग्रहणं, न तु तीव्रतरशक्ति- पातादेः, तद्धि दीक्षायां निमित्तम् इति तद्दहनेनै- वास्य ग्रहः सिद्धः, न चास्मिन्दीक्षातोऽन्यत्किंचि- न्मुक्तौ निमित्तम् । तदुक्तं 'तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात् । दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।' पं० ५ क० पु० प्रारब्धं केन शोधयेदिति पाठः । पं० १० ख० पु० तीव्रतमशक्तिपातादेव इति पाठः । पं० ११ ख० ग० पु० तद्दहनेनैवास्य ग्रह इति, न चान्यस्मिन्दीक्षेति च पाठः ।

श्लोक ४४] प्रथमाह्निकम् । ८१ इति । तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेत्, येनास्य तत्कालमेवापवर्गः । तदुक्तं 'तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ।' इति दीक्षानिरपेक्षमेव पुनरेतत् मुक्तौ निमित्तम् इति न संभाव्यम्, एवं श्रुतिविरोधः स्यात् । 'तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः । सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम् ॥' इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितः, अन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं संगच्छताम् इत्यलं बहुना ॥ ४३ ॥ ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्, तत्कथं 'जीवन्नेव विमुक्तोऽसौ' इत्याद्युक्तम् इत्या- शङ्क्याह बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । विलीयते तदा जीवन्- मुक्तिः करतले स्थिता ॥ ४४ ॥ पं० ३ क० पु० तत्क्षणादपव्यज्यत इति पाठः । पं० ६ ख० पु० संस्कारपरिपाकत इति पाठः । पं० ८ क० पु० पुनर्वाक्यक्रियेति ख० पु० पुनर्वाक्ये क्रिया इत्यादिरूपः पाठः । ११

८२ श्रीतन्त्रालोकः । 'बौद्धज्ञानेन' इति परमेश्वराद्वयशास्त्रश्रवणाद्यु- द्भूतेन । तदुक्तं 'गुरुणैव यदा काले संप्रदायो निरूपितः । तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् ॥' इति । एतच्च दीक्षिताधिकारेणैव ज्ञेयम्, नहि अकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकारः इति कुतस्त- दवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात् । तदुक्तं 'अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् ।' इति । न च अप्रध्वस्तपौरुषाज्ञानस्य अनेन किंचि- द्भवति इत्युक्तप्रायम्, अन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात्-साध्यस्यार्थस्य अत एव स्रष्टुरभावात्, अत एव दीक्षायां शिथिला- स्थत्वं न वाच्यं, तस्या एव मुक्तिं प्रति मूलकारण- त्वात् । एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मु- खमपि न तदैव मुक्तिप्रदं - देहान्ते तदभिव्यक्तेरुक्त- त्वात्, इदं पुनस्तदैव इति ततोऽस्य प्राधान्यमपि कटाक्षितम् ॥ ४४ ॥ पं० ५ क० पु० दीक्षाधिकारेणैवेति पाठः ।

श्लोक ४५ ] प्रथमाह्निकम् । ८३ न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव- दन्यदपि इत्याह दीक्षापि बौद्धविज्ञान- पूर्वा सत्यं विमोचिका । तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥ इह ‘सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।’ इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य ‘शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।’ इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः ‘शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।’ इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥ न चैतदस्मदुपज्ञमेव इत्याह पं० ३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः । पं० ६ क० पु० शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।

८४ श्रीतन्त्रालोकः । ज्ञानाज्ञानगतं चैतद्- द्वित्वं स्वायम्भुवे रुरौ । मतङ्गादौ कृतं श्रीमत्- खेटपालादिदैशिकैः ॥४६॥ तदुक्तं श्रीस्वायम्भुवे 'अथात्ममलमायाख्यकर्मबन्धविमुक्तये । व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते ॥' इति । 'अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम् । तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः ॥ तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता ।' इति च । श्रीरुरवापि 'यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः । गुरुतन्त्रानुज्ञातदीक्षासिच्छिन्नसंशयाः ॥' इति । 'न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः । प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः ॥ पं० १ क० पु० ज्ञानाज्ञानकृतमिति पाठः । पं० १३ ख० पु० जयन्तीति पूर्वतनः पाठश्च दृश्यते, क० पु० मन्त्रतन्त्र- विशारदा इति च पाठः । पं० १४ क० पु० दीक्षाविच्छिन्नसंशया इति पाठः । पं० १६ क० पु० न मीमांसा विचार्या वा मन्त्रस्वल्पधियेति पाठः ।

श्लोक ४६ ] प्रथमाह्निकम् । ८५ सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः । शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥' इति च । श्रीमत्तङ्गेऽपि 'ततः स भगवानीशः स्फुरन्माणिक्यशेखरः । वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥ प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् ।' इति । 'शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥ शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् । अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥' इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रह- णम् । तदुक्तं तत्र 'बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् । तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥ बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् । यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥ पं० १ ख० पु० सर्वे वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः पाठोऽस्ति । पं० २ क० पु० शिवात्मकमिदं कृत्वेति पाठः । पं० १५ ख० पु० बौद्धमक्षतमिति पाठः ।

प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो-

८६ श्रीतन्त्रालोकः । ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत् ।' इति । पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्या- वदस्य बौद्धं ज्ञानं पूर्वभावि न स्यात्, येनास्य ततोऽपि प्राधान्यमुक्तम् ॥ ४६ ॥ एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियात् इति तदेव मूलकारणत्वादिह प्रधानम् इत्याह तथाविधावसायात्म- बौद्धविज्ञानसम्पदे । शास्त्रमेव प्रधानं य- ज्ज्ञेयतत्त्वप्रदर्शकम् ॥ ४७ ॥ 'संपदे' इति तां जनयितुम् इत्यर्थः। यतो 'ज्ञेयस्य' नीलसुखादेः 'तत्त्वं' प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वं, तस्य प्रदर्शकम् पराद्वयो- पदेशकारित्वात्तदभिधायकम् इत्यर्थः । अत एव चास्य तद्प्रदर्शक तया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम् ॥ ४७ ॥ पं० ३ ख० पु० बौद्धमपि ज्ञानमिति पाठः । पं० ११ ग० पु० प्रधानं यन्ज्ञेयतत्त्वप्रकाशकमिति पाठः ।

श्लोक ४९ ] प्रथमाह्निकम् । ८७ ननु भवत्वेवम्, अत्र पुनः किं निमित्तं यत्पौंस्ना- ज्ञाननिवृत्तौ देहान्ते मुक्तिः, बौद्धाज्ञाननिवृत्तौ तु तदैव इत्याशङ्क्याह दीक्षया गलितेऽप्यन्त- रज्ञाने पौरुषात्मनि । धीगतस्यानिवृत्तत्वा- द्विकल्पोऽपि हि संभवेत् ॥ ४८ ॥ 'धीगतस्य' इति अज्ञानस्य । 'विकल्पो हि' भेद- प्रथात्मकः स चैव अख्यातिरूपत्वादज्ञानम् इति बहूक्तम् ॥ ४८ ॥ ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातम् इत्याशङ्क्याह देहसद्भावपर्यन्त- मात्मभावो यतो धियि । देहान्तेऽपि न मोक्षः स्या- त्पौरुषाज्ञानहानितः ॥ ४९ ॥ पं० २ क० पु० देहान्ते निवृत्तिरिति पाठः । पं० ६ क० पु० निवृत्तत्वादिति पाठः । पं० ९ क० ख० पु० सा चैवेति पाठः । पं० १३ क० पु० देवसद्भावेति पाठः ।

८८ श्रीतन्त्रालोकः । दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेत् इति तयोरभेदाद् बौद्धमप्यज्ञानमात्मन्युपचितं संभवेत् इति भावः । अत एव देहान्ते बुद्धावात्मग्रह- व्युपरमात् पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्षः इति युक्तमुक्तं 'तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्' इति ॥ ४६ ॥ एवं विकल्पोऽत्र संभवन्मुक्तौ व्यवधायकः इति न तदैव मुक्तिः, तस्य पुनरसंभवे सत्यपि देहे मुक्तिः इत्याह बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥५०॥ न चैतदप्रमाणकम् इत्याह 'इत्युक्तम्' इत्यादि ॥५०॥ विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् । इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥५१॥ पं० ५ क० पु० ततः शरीरान्ते इति पाठः ।

श्लोक ५२ ] प्रथमाह्निकम् । ८९ ‘इतर’ इति निर्विकल्पः । ‘तदैव’ इति देहसद्भावे इत्यर्थः । यदुक्तं तत्रैव ‘विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ।’ विकल्पहीनचित्तस्तु ह्यात्मानं शिवमव्ययम् ॥ पश्यते भावशुद्ध्या यो जीवन्मुक्तो न संशयः ।’ इति। इदानीं प्राक्प्रतिज्ञातं शास्त्रस्यैव प्राधान्यं निगमयति-इति इत्यादिना, ‘इतिशब्दः’ काकाक्षि- न्यायेन योज्यः, तेन श्रीनिशाटनग्रन्थसमाप्तौ हेतौ च व्याख्येयः । स च ‘ज्ञेयतत्त्वप्रदर्शकम्’ इत्यादिना प्रागप्युक्तः ॥ ५१ ॥ ननु किं नाम ज्ञेयस्य तत्त्वं यत्प्रदर्श्यमानं शास्त्र- प्राधान्यावगमकमपि स्यात् इत्याशङ्क्याह ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥५२॥ पं० १ ख० पु० देवसद्भावे इति पाठः । पं० ३ ख० पु० विकल्पहीणचित्तस्तु इति पाठः । पं० ६ क० पु० ज्ञेयतत्त्वप्रकाशकमिति पाठः । १२

९० श्रीतन्त्रालोकः । 'ज्ञेयस्य' नीलादेर्नीलतैव प्रकाशमानता न ताव- दात्मभूता, तथात्वे हि सर्वदैव सर्वान्प्रति च स्यान्न तु कदाचित्कंचित्प्रति इति सर्वेऽपि सर्वज्ञाः स्युः । अतश्च अस्य प्रकाशते, मम प्रकाशते इति प्रकाशात्मप्रमातृसं- लग्नैव सा युज्यते इति नासौ स्वातन्त्र्येण पर्यवसि- तस्वरूपो नीलादिः, शिव एव प्रकाशात्मकः प्रमाता, तदतिरिक्तस्य अन्यस्य भेदाभेदविकल्पोपहतत्वात्, अतश्च नीलादेर्ज्ञेयस्य प्रकाशमानत्वात् स एव पर- मार्थः इत्युक्तं 'प्रकाशात्मकः शिवः परं तत्त्वम्' इति । नन्वसौ स्वयमतथारूपोऽपि प्रकाशसंबन्धात्तथा भविष्यति इत्याशङ्क्याह 'नहि' इत्यादि । प्रकाश- संबन्धेनापि हि प्रकाशमानो नीलादिः स्वयं प्रकाश- रूप एव सन् प्रकाशते, नहि अप्रकाशरूपश्च प्रका- शते च इति स्यात्, नहि अश्वेतः प्रासादः श्वेतते, न चैवं वस्तुत्वमप्यस्य स्यात्, नहि प्रकाशरूपतामप- हाय अन्यद्वस्तु संभवेत् इति भावः ॥ ५२ ॥ पं० १ क० पु० नीलसुखादेरिति पाठः । पं० ५ क० पु० पर्यवस्थितरूपेति पाठः । पं० १२ क० पु० प्रकाशनरूपः प्रकाशते इति पाठः ।

श्लोक ५३ ] प्रथमाह्निकम् । ९१ एवं च न केवलं नीलादेर्ज्ञेयस्य भावस्य प्रकाश- मानत्वात्प्रकाशात्मकः शिवस्तत्त्वं यावत्तदभावस्या- पि इत्याह अवस्तुतापि भावानां चमत्कारैकगोचरा । यत्कुड्यसदृशी नेयं धीरवस्त्वेतादित्यपि ॥ ५३ ॥ यतो 'नास्त्यत्र घट' इत्येवंरूपापि बुद्धिर्बोधस्व- भावत्वात्कुड्यादिजडपदार्थविलक्षणा अत एव घटा- द्यभावोऽपि बुद्ध्यमानत्वात्परमानन्दैकघनबोधा- त्मकशिवस्वभाव एव इत्यर्थः । तदाहुः 'अबोधोऽपि बुद्ध्यमानो बोधात्मभूत ईश्वर एव ।' इति ॥ ५३ ॥ ननु सिद्धे प्रकाशे भावाभावरूपस्य ज्ञेयस्य तदे- कपरमार्थत्वं सिद्ध्येत्, स एव पुनः केन प्रमाणेन सिद्धः इत्याशङ्क्याह पं० ६ क० पु० घटाभावोपीति पाठः ।

प्रकाशो नाम यश्चायं

९२ श्रीतन्त्रालोकः । प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः ॥५४॥ अपूर्वार्थविषयं खलु प्रमाणं । यदाहुः ‘अनधिगतविषयं प्रमाणमज्ञातार्थप्रकाशो वा’ इति । प्रकाशस्य अपूर्वत्वेन प्रकाशो नास्ति सर्वदैव तस्य प्रकाशमानत्वेन ‘अनपह्नवनीयत्वात्’ इति व्यर्थं तत्र प्रमाणपरिकल्पनम् । तथाहि तदा तस्य अपूर्वत्वेन प्रकाशः स्यात्, यद्यसौ पूर्वमनधिगतत्वेन अप्रकाश- मानः स्यात्, तथाभावश्च तद्रहितपूर्वकालस्मृतौ सत्यां भवेत्, स्मृतिरपि एवंरूपमनुभवं विना नोत्प- द्यते, अनुभूतविषयासंप्रमोषात्मकत्वात्तस्याः, न च प्रकाशरहितत्वेन पूर्वकालमनुभवोऽस्ति, तस्यैवानु- भवस्य प्रकाशात्मकत्वात्, स एव हि प्रकाशः इति पं० ११ क० पु० तद्भावश्चेति पाठः । पं० १२ क० पु० एवंरूपानुभवमिति समस्तः पाठः । पं० १५ ख० पु० य एव हि प्रकाश इति पाठः ।

श्लोक ५५] प्रथमाह्निकम् । ९३ कथं पूर्वमपि तदभावः, अतश्च सर्वदास्य अवभास- मानत्वेन आदिसिद्धत्वात् न प्रमाणसव्यपेक्षा सि- द्धिः। स एव च 'प्रकाश एव प्रकाशकः प्रमाता' इति नीत्या परप्रमातृरूपः परमेश्वरः शिवः इति युक्त- मुक्तम् 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।' इति ॥ ५४ ॥ न केवलमेतत्सिद्धौ प्रमाणानामनुपयोगो यावत्प्र- त्युत एषां तदधीना सिद्धिः इत्याह प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । तेषामपि परो जीवः स एव परमेश्वरः ॥ ५५ ॥ इह वस्तूनां नीलपीतादीनां प्रकाशनिरपेक्षेण स्वस्वरूपेण तावत्स्वयमन्योन्यं वा न कश्चिद्विशेषः । नहि स्वात्मनि नीलं नीलं पीतं वा पीतम् । यदि- पं० १ ख० पु० सर्वमस्यावभासेति पाठः । पं० १४ ख० पु० नास्ति कश्चिद्विशेष इति पाठः । पं० १५ क० पु० यदि हि स्वात्मनि पीतं स्यात्पीतं नीलं वा नीलं तत्किमिव विरुद्धमिति पाठः ।

९४ श्रीतन्त्रालोकः । नाम हि स्वात्मनि नीलं पीतं स्यात्पीतं वा नीलं, तत्किमिव न विरुद्धमापतेत् । अथ यथैव यत्प्रकाशते तथैव तत्स्वात्मनि परिनिष्ठितं स्यात् इति न नीलं पीतं, पीतं वा नीलम्, इति चेत्-एवं तर्ह्येषां स्वात्म- नि विशेषो न कश्चिदुक्तः स्यात्, अपि तु प्रकाशते इति-इति प्रकाश एवैषां रूपं तत्तन्नियतस्वरूपप्र- निष्ठानिबन्धनत्वात् जीवितं वितनुयात् येन नील- मिदं पीतमिदम् इति सिद्ध्येत् । स च नीलाद्युप- रागेण नियतरूपतामवलम्बमानः प्रमाणशब्दव्य- पदेश्यो भवेत् । न चास्य स्वात्मसिद्धिं प्रति अन्यद- पेक्षणीयं-प्रकाशरूपत्वात्, प्रकाशस्य च स्वपरप्रका- शकत्वात्, तथा-भूतोऽप्यसौ प्रकाशो विमर्शरूपतां विना नार्थस्य आत्मनो वा प्रकाशरूपतायां प्रति- ष्ठास्पदं स्यात्, नहि प्रकाशः इत्येवासौ स्वपरात्मनोः प्रतिष्ठापको भवेत्, एवं हि नीलमपि न नीलम् इत्येव कृत्वा तथा स्यात् । तस्मात्स्वपरप्रकाशता- पं० ४ क० पु० स्वात्मनि न कश्चिदर्थ इति पाठः । पं० ५ ख० पु० अपि तु प्रकाश इति पाठः । पं० १६ ख० पु० स्वप्रकाशात्मतासिद्धाविति पाठः ।

श्लोक ५६ ] प्रथमाह्निकम् । ९५ सिद्धौ तस्यापि अहंपरामर्शात्मा जीवितभूतः प्रका- शोऽभ्युपगमनीयो - येन सर्वं सिद्ध्येत् । यदुक्तं 'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।' इति । स एव च परप्रकाशात्मा परमेश्वरः शिवः इत्युक्तं 'तेषामपि परो जीवः स एव परमेश्वरः' इति ॥५५॥ एवमादिसिद्धत्वादस्य न केवलं साधकं प्रमाणम- किंचित्करं, यावद्बाधकमपि इत्याह सर्वापह्नवहेवाक- धर्माप्येवं हि वर्तते । ज्ञानमात्मार्थमित्येत- न्नेति मां प्रति भासते ॥५६॥ 'सर्वेषां' ज्ञातृज्ञानज्ञेयानाम् 'अपह्नवः' निराकरणं तत्र 'हेवाक' एव 'धर्मः' स्वभावो यस्यासौ बौद्धः । तत्र त्रयाभाववादिनो माध्यमिकाः । ज्ञातृज्ञेयाभाव- वादिनो योगाचाराः । ज्ञात्रभाववादिनो वैभाषिकाः । सोऽपि 'ह्येवं ज्ञानमात्मार्थम्' इत्येतत् मां संवेदन-

प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥५६॥

९६ श्रीतन्त्रालोकः । स्वभावत्वाद् विचारयितारं प्रति नेति भासते-नास्ति इति प्रतीतिरूपो वर्तते अवतिष्ठते इत्यर्थः, तेन आत्मादेर्निराकरणे साधने वापि अवश्यमेव साध- यिता पूर्वकोटावाञ्छितः सिद्धः । नहि साधयितार- मन्तरेण अर्थानां साध्यतैव स्यात्, स च स्वतः सिद्धः प्रकाशात्मा परमार्थरूपः परमेश्वरः शिव एव ॥५६॥ अतश्च तत्र व्यर्थमेव बौद्धस्यापि प्रमाणस्य परि- कल्पनम् इत्याह अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् । यत्तत्र के प्रमाणाना- मुपपत्त्युपयोगिते ॥ ५७॥ 'वस्तूनां' ज्ञातृज्ञानज्ञेयात्मनाम् 'आद्यम्' आद्य- सिद्धत्वात् 'ईदृशं' परप्रमातृरूपं 'तत्र' इति आदि- सिद्धे प्रमातरि । प्रमेयं खलु प्रमिएवत्प्रमाणमुच्यते, प्रमेयं च विभिन्नप्रकाशाधीनसिद्धिकमिदन्ताविमृश्यं पं० १ ख० पु० नास्तीति प्रत्येति रूपेति पाठः । पं० ६ क० पु० परमार्थरूप इति वाक्यं नास्ति । पं० ७ क० पु० व्यक्तमेवेति, प्रमाणस्यापरिकल्पनमिति च पाठः ।

श्लोकः ५८ ] प्रथमाह्निकम् । ९७ च भवति । न चैवंरूपत्वं प्रमातुर्येन प्रमाणपरिच्छेद्यः स्यात्, स हि अर्थपरिच्छेदादौ प्रवृत्तः स्वप्रकाश- रूपत्वान्न प्रकाशाद्भिन्नो, नापीदन्ताविमृश्यः - अहं- प्रत्यवमर्शमयत्वात्, स च यदि प्रमाणप्रमेयः स्यात् तत्रापि प्रमितिक्रियायां प्रमात्रा अपरेण भाव्यं, तत्रा- प्यन्येन इत्यनवस्थानं स्यात्, तस्मान्नात्र प्रमा- णस्य प्रवृत्तौ काचिदुपपत्तिः । यस्तु भावनोपदेशादौ 'सकृद्विभातोऽयमात्मा प्रमाता' इत्यादिरिदन्तया व्यवहारः स न वास्तवः - तत्र तस्य साक्षादप्रतीतेः, अहन्ताव्यवधानेन हि तत्रासौ प्रतीयते इत्यास्ताम्, एतद्धि पदे पदे वितनिष्यते । प्रमाणानुपयोग- स्त्वादिसिद्धत्वात् समनन्तरमेव दर्शितः, इति न पुन- र्वितानितः ॥ ५८ ॥ न केवलमत्र युक्तिरेवास्ति यावदागमोऽपि इत्याह कामिके तत एवोक्तं हेतुवादविवर्जितम् । पं० ३ ख० पु० अहंविमर्शमयत्वादिति पाठः । पं० ५ ख० पु० प्रमात्रन्तरेणेति पाठः । पं० ८ ख० पु० प्रमेत्यादिरिति पाठः । १३

९८ श्रीतन्त्रालोकः । तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥५६॥ परस्य तदपेक्षत्वा- त्स्वतन्त्रोऽयमतः स्थितः । ततः इति तत्र प्रमाणानामुपपत्त्युपयोगयोर- भावात्, हेतोः अनुमानस्य वादेन विवर्जितम् । अत एवाह-तस्य इत्यादि, परस्य प्रमाणादेः, अतः इति परानपेक्षत्वलक्षणाद्धेतोः ॥५६॥ एवमस्य परानपेक्षत्वायथा न प्रमाणान्यवच्छे- दकानि, तथा प्रमेयाण्यपि इत्याह अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥६०॥ नियता नेति स विभु- र्नित्यो विश्वाकृतिः शिवः । वशिनः स्वतन्त्रस्य इति विशेषणद्वारेण हेतुः । पं० ८ क० पु० परानपेक्षणाद्धेतोरिति पाठः । पं० ६ क० पु० यथा प्रमाणाद्यवच्छेदेति पाठः ।

श्लोकः ६२ ] प्रथमाह्निकम् । ९९ अत्रापीति परानपेक्षस्य, प्रकाशात्मनः शिवस्य हि देशकालाकारैर्भेदाभेदविकल्पोपहतत्वादवच्छेदाधा- नमशक्यम् इत्युक्तं - नियता न इति । अत एव च स एवंविधः इत्याह - विभुर्नित्यो विश्वाकृतिः इति । विभुः इति देशावच्छेदशून्यत्वात् । नित्य इति अतीतादिकालावच्छेदविगलनात् । विश्वाकृतिः इति चिदचिदाद्याकारवैचित्र्योल्लासकत्वात् ॥६०॥ एतदेव प्रपञ्चयति विभुत्वात्सर्वगो नित्य- भावादाद्यन्तवर्जितः॥६१॥ विश्वाकृतित्वाच्चिदाचि- त्तद्वैचित्र्यावभासकः ॥ अत एवास्यागमेषु नानारूपत्वमुच्यते इत्याह ततोऽस्य बहुरूपत्व- मुक्तं दीक्षोत्तरादिके ॥६२॥ तदेवाह पं० १ ख० पु० पेक्ष्यस्येति प्रकाशेति पाठः । पं० ५ क० पु० नित्य इति कलावच्छेदेति पाठः ।