उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
१२ उत्तररामचरित [ १-१६ रामः-वन्दस्व देवि दिव्यास्त्राणि । ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्राः शरदस्तपांसि । एतान्यपश्यन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥ सीता-णमो एदाणं । नम एतेभ्य । रामः-सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति । सीता-अणुगहिदह्नि । अनुगृहीतास्मि । लक्ष्मणः-एष मिथिलावृत्तान्तः । सीता-अम्महे दलन्तणवणीलुप्पळसामलणिणिद्धमसिणसोहमाणमंस- ळेण देहसोहग्गेण विम्हअत्थिमिवताददीसन्वसोम्मसुन्दरसिरी अणादररडि- देसंकरसरासणो सिहण्डमुद्धमुहमण्डलो जणउत्तो आलिहिदो । अहो दलनवनीलोत्पलश्यामलास्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मय- स्तिमिततातदृश्यमानसौम्यसुन्दरधीरनादरखण्डितशङ्करशरासन शिखण्डमुग्ध- मुखमण्डल आर्यपुत्र आलिखित । लक्ष्मणः-आर्ये पश्य पश्य । सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति । गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥ तानि प्रसिद्धानि । रहस्यैः शरसन्धानमोक्षणोपसंहारादिमन्त्रैः सहितानि जृम्भकानामस्त्राणि । मित्रं सखायम् । उपसंक्रान्तानि प्राप्तानीति या- वत् । तेन विश्वामित्रेण ॥ ब्रह्मादय इति ॥ १५॥ ब्रह्महिताय ब्राह्मणसाद्याय । स्वानि स्वीयानि ॥१५॥ नम एतेभ्यः । त्वत्प्रसवं त्वत्सुतम् । अनुगृ- हीतास्मि । अहो आश्चर्यं ॥ दलितनवनीलोत्पलश्यामलास्निग्धमसृणमासलदेह- सौभाग्येन विस्मयस्तिमिततातनगरजनदृश्यमानसोमसुन्दरश्री अनायासखण्डि तशङ्करशरासन शिखण्डमुग्धमण्डनः आर्यपुत्र आलिखित । 'मसृक् स्निग्धं' इत्यमरोक्ते स्निग्धमसृणयोरेकार्थता, तदपि असमबाणहृदिच्छालभ- जिकाप्रथमोल्लूप्रणयप्ररूढप्रेमादीनामिव स्निग्धमसृणयोस्तत्त्वानुमद्विम्बाऽश न्तरभेदो द्वयथा कल्पनीय । सर्वथैवमूढम् । मांसलं सान्द्रम् । सोमवत् श्रीः शोभा 'सोमवत्प्रियदर्शन' इति रामायणे । अनायासेन लीलया । 'शिखण्डो बर्हचूडयो' इत्यमरः । खण्डितेत्यत्र केचन शिवद्रोहिण पाषण्डा- परिहसन्तो दन्तान् दर्शयन्ति, तत्तुच्छम् ॥ रावणदुर्वहोऽपि शक्त्या हतो लक्ष्मण यथा भक्त्याय हनुमते लघुरभवत् तथा शिवलिंगप्रतिष्ठातेति 'अत्र पूर्वं महादेव प्रसादमकरोत्प्रभुः' इत्यादिबचनेन शिवगीतोक्तरिजादीक्षानुग्रहेण च शिष्य- १ 'सर्वथैतानि' इति क. २ 'सुदिन' इति घ-य, 'सुद्विद' इति ग.
१-१८ ] उत्तररामचरितं १३ रामः—सुश्लिष्टमेतत् । जनकानां रघूणां च सम्बन्धः कस्य न प्रियः । यत्र दाता ग्रहीता च स्वयं कौशिकनन्दनः ॥ १७ ॥ सीता—एदे क्खु तत्कालिदगोदाणमङ्गला चत्तारो भादरो विआहिद- क्खिदा तुम्हे । अह्मो जाणामि तस्सिं जेव्व पदेसे तस्सिं जेव्व काले वत्तामि । [एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरो विवाहदीक्षिता यूयम् । अहो जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते ।] रामः—एवम् । समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि गौतमार्पितः । अयमांगृहीतकमनीयकङ्कण- स्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥ लक्ष्मणः—इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः। सीता—वच्छ इअं वि अवरा का । [वत्स इयमप्यपरा का ।] लक्ष्मणः—( सलज्जास्मितम् । अपवार्य ) अये ऊर्मिलां पृच्छत्यार्या । भवतु । अन्यतः सञ्चारयामि । ( प्रकाशम् ) आर्ये द्रष्टव्यमेतत् । अयं च भगवान्भार्गवः । नप्तृबालस्य रामस्य दयानिविर्जगदीश्वर शण्डवार्हविष्णुब्रह्माद्यप्यरावणदुर्वह- शरासनोऽभूदिति प्रामाणिका । अत एव ‘बालक्रीडनमिन्दुशेखरधनुर्भङ्गादवधि’ इति भगवान् बोधायनः । ‘श्रीमत्- शितिकण्ठस्य कुल हि दुरतिकमम्’ इत्युत्तररामायणे च विप्रहृवदर्शस्य रामस्यैव वाक्यं इति दिक् । सुतरां स्निग्धं युक्तमित्यर्थः ॥ जनकानां रघूणामिति ॥ १७॥ यज्ञसबन्धे । तथा च 'जनक देहि कन्या गृहाण राम' इति वक्तुं कारयितुं च स्वयं स एव एव सर्व- शतश्च इति भावः ॥१७॥ एते खलु तत्कालकृतगोदानमङ्गलाश्चत्वारोऽपि भ्रातरो विवाहदीक्षिता यूयम् । कालकृतेति ध्वनिः । अह्मो जानामि तस्मिन्नेव काले वर्ते इति । एवं बाढमित्यर्थः ॥ समयस्स वर्तत इति ॥१८॥ यत्र समये । आदरागृहीतथासी कमनीयकङ्कण इति विवेकः । अयमागृहीतेति ध्वनिः ॥ ॥ १८ ॥ आर्या सीता । माण्डवी भरतपत्नी श्रुतकीर्तिः शत्रुघ्नपत्नी । इयमपरा का । 'रहोऽन्येन सहोक्तौ स्यादपवार्यं जनान्तिकम्' इति लक्ष- णात् प्रकृते वन्येन सह भाषणाभावात् कवे प्रमादः । अपवारि 'स्वमनसा १ 'द्रष्टव्यमेतद्' न-च; 'दृष्टमेतद्' इति घ. २ 'सुगृहीत' इति प-घ. ३ 'सटरामि' इति घ. ३ उ०
१४ उत्तररामचरितं [ १-२० सीता—( ससम्भ्रमम् ) कंपिदह्मि । कम्पितास्मि । रामः—ऋषे नमस्ते । लक्ष्मणः—आर्ये पश्य पश्य । अयमसावार्येण ( इत्यर्धोक्ते ) रामः—( साधिक्षेपम् ) अयि वत्स बहुतरं द्रष्टव्यम् । अन्यतो दर्शय । सीता—( सस्नेहबहुमानं निर्वर्ण्य । ) सुट्ठु सोहसि अज्जउत्त एदिणा विणअमाहप्पेणं । सुष्ठु शोभसे आर्यपुत्र एतेन विनयमाहात्म्येन । लक्ष्मणः—एते वयमयोध्यां प्राप्ताः । रामः—( सास्रम् ) स्मरामि हन्त स्मरामि । जीवत्सु तातपादेषु नवे दारपरिग्रहे । मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥ इयमपि तदा जानकी पतनविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलै- र्दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम् । ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै- रकृत मधुरैरङ्गानां मे कुतूहलमङ्गलैः ॥ २० ॥ लक्ष्मणः—एषा मन्थरा । रामः—( सत्वरमन्यतो दर्शयन् । ) देवि वैदेहि सह' इति द्वयया समाधेयम् । 'आत्मगतं स्वगत' इति वा पाठ साधु । ऊर्मिला लक्ष्मणस्य पत्नी । भार्गवः जामदग्न्य । कम्पितास्मि । सा- धिक्षेपमिति—स्वोत्कर्षं परानुत्कर्षञ्च न श्रोतव्य इति भावः । शोभते आ- र्यपुत्र एतेन विनयमाहात्म्येन । 'पाल्यमानानां' इति पाठ साधु ॥ जी- वत्सु तातपादेष्विति ॥ १९ ॥ नः अस्माकम् ॥ १९ ॥ पतनविरलै- रिति ॥ २० ॥ मध्ये मध्ये दन्ताना पतनेन विरलेः श्लैषामन्तरैरिति भाव । मन्दः स्वल्प आलोकः द्योतः यस्मिन्मुखे । ललितललितैरिति वीप्साया द्विरुक्ति भृशं ललितैरित्यर्थः । ज्योत्स्नाप्रायैः चन्द्रिकाप्रचुरै- तद्वच्छीतलै सुखकरैश्चेति भाव । विभ्रमो विलास । अकृत चकार । मधुरैः मनोज्ञै । मुग्धा सुन्दरीति परिहासः । मुदैत्यर्थः । 'शृगपरस्नु- १ 'भीदम्हि' इति घ-घ २ 'माहम्मेण' इति क. ३ 'नूतने दारसंग्रहे न ४ 'प्रतनु' इति घ-छ-क. ५ 'कुद्दरै.' इति न. ६ 'लहानाम्' इति न ७ 'अनुचरमन्यतो गत्वा' इति घ-घ.
१-२३ ] उत्तररामचरितं १५
इङ्गुदीपादपः सोऽयं शृङ्गवेरपुरे पुरा । निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥ लक्ष्मणः—( विहस्य । स्वगतम् ।) अये मध्यममाम्बावृत्तमन्तरितमार्येण । सीता—अम्मो एशो जडासंजमणवुत्तन्तो । अहो एष जटासंयमन- वृत्तान्तः । लक्ष्मणः—पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेष्वाक्षुभिर्धृतम् । धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥ २२ ॥ सीता—एसा पसण्णपुण्णसलिला भअवदी भाइरही । एषा प्रसन्नपुण्य- सलिला भगवती भागीरथी । रामः—देवि रघुकुलदेवते नमस्ते । तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे कपिलमहसांप्लोष्टान्पितुश्च पितामहान् । अगणिततनूतापं तप्त्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्भिःशिवादुदतीतरत् ॥ २३ ॥ सा त्वमस्य स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव । न्दरमूढयो' इति यादवः ॥ २० ॥ इङ्गुदीपादप इति ॥ २१ ॥ 'इङ्गुदी तापसतरुः' इत्यमरः । यत्र पादपं पादपप्रदेशे इत्यर्थः । यत्र शृङ्गवेर- पुरे इति केचित् । तन्न । सोऽयं पादप इति वाक्यविरोधात् । 'स्निग्धस्तुहृत्' इति वामनः ॥ २१ ॥ 'मध्यमयाम्बा कैकेयी । उत्तमयाम्बा नेति व्यज्यते । वृत्तं । वृत्तान्तं इति भ्रान्तः पाठः । वृत्तान्त इत्यमरः । अन्तर्हितमिति- मातृनिन्दा मा भूदिति भावः । एष जटासंयमनवृत्तान्त ॥ पुत्रसंक्रान्तेति ॥ २२ ॥ यद्वृद्धेष्वाक्षुभिरित्यादि सन्धिषडष्टकम् । अन्तर्ज्वलन्तिकिरीटेति प्राहु- र्द्वाक्षरेति च काव्यप्रकाशविद्धसालभञ्जिकाभारतचम्पूप्रयोगयोरदर्शनी- यम् । बाल्ये कौमारदशायाम् । आरण्यका वनवासिन. ॥ २२ ॥ एषा प्रसन्नपुण्यसलिला भगवती भागीरथी ॥ तुरगविचयव्यग्रइति ॥ २३ ॥ वि- चये अन्वेषणे । कपिल एव महः तेज . । तेन रुश्रा । रोषाद्धेतोः । १ 'स्पृष्टानम्भस्तैरदन्' इति न; 'स्पृष्टानोज्ज्वलितः' इति क. २ 'हृत्' इति घ. ३ 'आरण्यकं व्रतम्' इति घ-ड. ४ 'रोषात्' इति म. ५ 'पुरा प्रपितामहान्' इति घ-क; 'पितुः प्रपितामहान्' इति घ. ६ 'तनूताप' इति म; 'तनुतापं' इति घ-घ. ७ 'उददीधरद्' इति घ-घ; 'उदपीपरत्' इति क.
१६ उत्तररामचरितं [ १-२४ लक्ष्मणः-अयमसो भरद्वाजावेदितचित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम । रामः-( सस्नेहमवलोकयति । )¹ सीता-सुमरदि वा एदं पदेसं अज्जउत्तो । सरति वैतं प्रदेशमार्यपुत्र । रामः-अयि कथं विस्मर्यते । अलसललितमुग्धान्यध्वसम्पातखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि । परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ २४ ॥ लक्ष्मणः-एष विन्ध्याटवीमुखे विराघसंरोधः । सीता-अलं दाव एदिणा । पेक्खामि दाव अज्जउत्तसंहत्थघरिदतालव- म्तोदवत्तनिवारिदादप अत्तणो दक्खिणारण्णप्पवेसारम्भम् । अलं तावदेतेन । प्रेक्षे तावदार्यपुत्रसङ्ग्रहस्तधारिततालवृन्तातपनिवारितातपमात्मनो दक्षिणारण्य- प्रवेशारम्भम् । दुष्टान् दग्धान् । पितुः भगीरथजनकस्य । प्रपितामहान् सगरपुत्रान् । उदतीतरत् उत्तारयामास ॥ २३ ॥ अरुन्धतीव स्थिता सा प्रतिष्ठा लमिति ॥ अथवा-यथा अरुन्धती तथा सा त्वमित्यर्थ । शिवं मङ्गलं अनुध्यानं अनुचिन्तनं यस्या । 'वानप्रस्थं फलं पुष्पंत्तरपुष्पाद्धनस्पतिः' इत्यमरः ॥ सरति वा एनं प्रदेशमार्यपुत्र । अलसललितेति ॥ २४ ॥ यत्र प्रदेशे अध्वसम्पातखेदात् अलसानि आलस्ययुक्तानि जडानीति यावत् । स्वभावतस्तु ललितेन विलासेन मुग्धानि मनोज्ञानीत्यर्थः ॥ 'संपातो चातिपतनमतिपातोऽप्यतिक्रम ।' इति त्रिरूपः । अशथिलपरिरम्भैः दृढालिङ्गनै । संवाहनं मर्दनम् । अन्योन्यसंघट्टनवशादिति भाव । परि- मृदिताः क्लिष्टाश्च ता । 'मृणालं नपु' इति विक्रमार्कः । 'पाणौ मृणा- लीलता' इत्यसबाध्यातनिङ्कसाळमञ्जिकायाम् । तस्सादितरविस्मरणेऽपि नेदं विस्मर्यत इति भावः ॥ २४ ॥ अटवीमुखे वनपुर प्रदेशे ॥ अलमेतेन पश्यामि तावदार्यपुत्रसङ्ग्रहस्तधारिततालवृन्तातप( न्त ² )निवारितातपं आत्मन अग्रिभ्रव्या दक्षिणारण्यपविक्कतुम् ॥ तालवृन्तेति कवे प्रमाद । 'ता १ एतन्नास्ति ख-ग-पुस्तक्रयो . २ 'सजात' इति ख-घ-क ३ 'संवाद.' इति न. ४ 'भज्जउत्तहत्थ' इति ब-घ ५ 'तालेण्टा०' इति घ, 'ताल्लवे- ण्टादवत्त' इति व, 'तालवुन्तादवत्त' इति न. ६ 'अत्तणो अञ्चादिद दक्खिणार- ण्णदढिअचणम्' इति न.
प्रथम अङ्क: चित्रदर्शन (सीता-राम चित्रदर्शन)
१-२७ ] उत्तररामचरितं १७ रामः—एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि । येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५ ॥ लक्ष्मणः—अयमविरलानोकहनिबद्दनिरन्तरस्निग्धनीलपरिसरारण्यपरि- गद्धगोदावरीमुखरकन्दरः सततनिरिष्यन्दमानमेघमेदुरितनीलिमा जनस्था- नमध्यगो गिरिः प्रस्रवणो नाम । रामः—स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि । स्मरसि सरसनीरां तत्र गोदावरीं वा स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥ २६ ॥ किं च । किमपि किमपि मन्दं मन्दमातर्कयोगा- दविरलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोषो- र्नविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥ लक्ष्मणः—एषा पञ्चवट्यां शूर्पणखा । स्तन्तेऽथ' इत्यनुशासनात् 'तालव्योऽन्ते'ति कथनस्यैव न्याय्यत्वात् । 'भ- विहि' इति 'द्विवचने बहुवचनं' इति बहुत्वं 'भक्तिाहिं' इति च प्रमादः। 'अस्यादिषु छः' इति छलविधानात् 'अच्छिद्दं' इति साधीयान् पाठः ॥ एतानि तानीति ॥ २५ ॥ निर्झरिणीनां गिरिनदीनाम् । येषु तपो- वनेषु ॥ 'कव्यादिव्यानिधेयातिथ्यर्थेऽत्र साधुनि ।' इत्यमरः । यमिनः नियमवन्तः । गृहिणः गृहस्थाः ॥ २५ ॥ अनोकहनिबहाः वृक्षसङ्घाः । तैः निरन्तरं सान्द्रं यथा तथा, स्निग्धनीलानि मसृणानि श्यामलानि च तानि परिसरारण्यानि तैः परिसरारण्यतया सान्द्रायां गोदावर्या मुखराः यस्य पूर्वार्धमुपलक्षणम् चित्रे मुखरकन्दरत्वोपचारः इति बोध्यम् । अनि- ष्यन्दमानाः प्रस्रवन्तः ये मेघाः तैर्मेदुरितः निबिडीकृतः नीलिमा नील्यं यस्य ॥ स्मरसि सुतन्विति ॥ २६ ॥ लक्ष्मणेन प्रतिविहितेत्या- दिकं 'रतेर्गृहीतानु नयेन' इतिवत्समाधेयम् । वर्तितानि वर्तनानीत्यर्थः । द्वितीयपादादौ यमकमङ्गः । स्मरसीति त्रिः पुनरुक्तं च ॥ २६ ॥ किमपि किमपीति ॥ २७ ॥ किमपि अनिर्वाच्यं यथा तथा, किमपि किंचित् । १ 'शनिनो' इति घ-घ-क. २ 'मुखरन्दर.' इति न. ३ 'सरसदीराम्' इति घ-घ. ४ 'स्मरसि' इति घ-घ. ५ 'लक्ष्मः...शूर्पणखाविवादः' इति ग.
१८ उत्तररामचरितं [ १-२८ सीता—हा अज्जाउत्त एत्तिअं दे दंसणम् । हा आर्यपुत्र एतावत्ते दर्शनम् । रामः—अयि विप्रयोगत्रस्ते चित्रमेतत् । सीता—जहा तहा होदु । दुज्जणो असुहं उप्पादेइ । यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति । रामः—हन्त वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति । लक्ष्मणः—अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्ये विकलकरणैरार्यचरितै- रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् ॥ २८ ॥ सीता—( साश्रमात्मगतम् । ) अयि देव रहुकुलानन्द एव्व मम कार- णादो क्लिन्तो १ आसि । अयि देव रघुकुलानन्द एवं मम कारणात्क्लान्त आसीः । लक्ष्मणः—( रामं निर्वर्ण्य साकूतम् । ) आर्य किमेतत् । ईषदिति यावत् । मन्दं मन्दं शनैः शनैः । आसक्तियोगात् अभिनिवेश- सत्त्वे । अविरलितौ मिथो नीरन्ध्रीकृतौ कपोलौ यस्मिन् कर्मणि । अनुक्रमेण मदनावेशपारवश्यात्पूर्वोत्तरसम्बन्धाभावेनेत्यर्थः । एकैकदोष्णोः परस्परभुजयोः । अविदिताः गतयामाः अतिक्रान्तप्रहरा यस्याः । रात्रिरेव व्यरंसीत् विरामा । न तु सर्वावकदेशोऽपीति भावः ॥ २७ ॥ आर्यपुत्र एतावत्ते दर्शनम् । यथा तथा वा भवतु । दुर्जनः अशुभमुत्पाद- यति ॥ अथेदं रक्षोभिरिति ॥ २८ ॥ यथानन्तरं इदमेतत् । अथेदमिति वाक्यखण्ड । वृत्तं आचरितम् । 'वृत्तमाचरितातीतपद्यचारित्रवस्तुषु' इति मेदिन्याः । क्षालितं निःशेषितमपि वृत्तमित्यनुषज्यते । शून्ये सजातीयर- हिते । विकलकरणैः विवशेन्द्रियैः । आर्यस्य रामस्य चरितैः प्रहसितर- तैरित्यर्थः । अत एव ग्रावा शैलोऽपि रोदिति प्रतिध्वनिव्याजेनेत्युक्तम् । इतोऽपि न्येत्याह—वज्रस्य कुलिशस्य । हृदयं गर्भः । दलति स्फुटति । अपिः सम्भावनायाम् । तथा च कदाचिदचलवज्रादीना माऽव (२) सान् । न तु तेषा दुरात्मनामासीदिति भावः । 'हृदयं हृदि गर्भे च' इति पद्म- माला ॥ 'हन्त रोदिति शैलोऽपि वज्रगर्भोऽपि दीर्यते । प्रकम्पतेऽपि वि- ष्ण्दण्डमण्डलं रोदनेस्तव ॥' इति महानाटके मेघनादोत्पत्तौ भगवान् यो धायनः ॥ २८ ॥ अम्हो दिनकरकुलनन्दन एतावन्मम कारणात् क्लान्त आसीत् । एतावदिति क्रियाविशेषणम् । कारणात् हेतोः । निर्वर्ण्य १ 'वन्तो ' प-घ २ 'कन्द्रितोनि' इति प-घ क.
१-३०] उत्तररामचरितं १९ अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः । निरुद्धोऽप्यावेगः स्फुरदधरसापुटतया परेषांमुन्नेयो भवति च भेराध्मातहृदयः ॥ २९ ॥ राम —हन्त तत्काल प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया निसॊढः । दुःखानिर्मनसि पुनर्विवच्यमानो हृन्मर्मव्रण इव वेदनां करोति¹ ॥ ३० ॥ सीता—हद्धी हद्धी । अह वि अदिभूमिं गदेन रणरणएण अज्जउत्त सुण्ण विअ अत्ताणं पेक्खामि । हा धिक् हा धिक् । अहमप्यतिभूमिं गतेन रणरणकेना॑र्यपुत्रशून्यमिवात्मानं पश्यामि । लक्ष्मण—( स्वगतम् । ) भवत्वन्यत क्षिपामि । ( चित्रं विलोक्य प्रकाशम् । ) अयंतन्मन्द्वन्तरपुरातनवृत्तान्तस्य तन्त्रमस्तमातुलजटायुषश्चरित्र- विभोदाहरणम् । दृष्ट्वा ॥ अयं तावद्बाष्प इति ॥ २९ ॥ तावत् प्रस्तावरे । मुक्तामणीनां मणिनिकुरम्बानाम्, सर एकावली । मुक्तामगि पुनरुक्त इति रुचित् ॥ तन्न ॥ 'रत्नमूर्द्विशौरत्नवार्त मुक्तादिकेष्वपि च' इति अमरसिंहेनाभिधानात् 'मौक्तिकमणीत्यादि' इत्यस्याप्यातनिष्टसात्त्वभाविकायाम् । धरणी मुद्दिश्य । धरणी इति च पाठः । धरणीतनयेनेति लक्षणा । निरुद्ध आच्छा- दितोऽपि । 'आवेगो भयसम्भ्रम ' इति अमरमाला । जनेषु योग्य उन्नेयः । आध्मातं पूरित विर( क ? )²र्धित हृदय येन ॥ २९ ॥ तत्काले प्रि- यजनेति ॥ ३० ॥ स वणी काल तत्काले प्रियजनस्य सीताया तीव्रो तीक्ष्ण प्रतिकृति रावणावहाररूप प्रतीकार । निसोट मर्षित । वि- शेपेण पच्यमान हृन्मर्मत्रण हृदयमर्मच्छिद्रा । 'मर्म तु ग्रन्थिदेपयो' दति रभस ॥ ३० ॥ हा धिक् हा धिक् अहमप्यतिभूमि गतेन रणरणकेन श्वायंपुत्रशून्यमिवात्मान पश्यामि । अतिभूमि आधिक्यम् । रणरणशब्दो औत्सुक्यप्रभवकॊ देशीय । य ( प ) हद्दीती महाराष्ट्रा । 'चरित्रमपि चारित्रम्' इत्युभयरूप ॥ हा तात निष्प्यूडेन्डाइसस्नेह । निर्व्यूढ निर्वाह
१ 'डे बाष्पोप ' इति च-प २ 'निराध्मात०' इति न ३ 'तनोति' न
२० उत्तररामचरितं [ १-३१ सीता—हा ताद णिव्वूढो दे अवधिसिणेहो । हा तात निर्व्यूढस्तेऽप- त्नेहः । रामः—हा तात काश्यप शकुन्तराज क्व नु खलु पुनस्त्वादृशस्य महत- स्तीर्थभूतस्य साधोः सम्भवः । लक्ष्मणः—अयमसो जनस्थानस्य पश्चिमतश्चित्रश्रवऽवाङ्गो३ दनुकव- न्धाधिष्ठितो दण्डकारण्यभागः । तदिदमृष्यमूकपर्वते मतङ्गाश्रमपदम् । इयं च श्रमणा नाम सिद्धा शबरतापसी । तदेतत्पम्पाभिधानं पद्मसिरः । सीता—एत्थ क्खि अज्जउत्तेण विच्छिण्णामरिसधीरत्तणं पमुक्तकण्ठं रण्णं आसि । यत्र किलायंयपुत्रेण विच्छिन्नामर्षधैर्य्य प्रमुक्तकण्ठं रुदितमासीत् । रामः—देवि रमणीयमेतत्सरः । पम्पाश्लोकः एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः । बाष्पाम्भःपरिपतनोद्गमान्तराले सन्दृष्टाः कुवलयिनो भुवो विभागाः ॥ ३१ ॥ लक्ष्मणः—अयमार्यो हनूमान् । सीता—एषो सो चिरणिव्वूढजीवलोअपत्तुद्धरणगुरुओवआरी महाणु- भावो मारुदी । एष स चिरनिर्व्यूढजीवलोकप्रत्युद्धरणगुरूपकारी महानुभावो मारुतिः । गत प्राणपर्यन्तमिति शेष ॥ तीर्थभूतस्य शुद्धप्रायस्य । जनस्थानं पश्चि- मतः जनस्थानस्य पश्चिमभागे इत्यर्थ । शबरेषु तापसी शबरीत्यर्थ ॥ यत्र किल आर्यपुत्रेण विच्छिन्नामर्षधैर्येण प्रमुक्तकण्ठं प्ररुदितमासीत् । धीर- मित्यत्र 'ई धैर्ये' इति, 'तुर्यधैर्यसौन्दर्याधैर्यपर्यन्तेषु र' इति च ईत्त्वं रत्वं च । रमणीय इति ध्वनि ॥ एतस्मिन्मदकल इति ॥ ३१ ॥ 'मलिना मलि- काक्षा' इत्यमरः । तेषा पक्षै व्याधूतानि कम्पितानि । स्फुरन्ति शोभमानानि उरुदण्डानि विपुलनालानि पुण्डरीकाणि येषु ते । बा- ष्पाम्भसां पतनोद्गयोरन्तराले अवान्तरदशायामित्यर्थ । विभागाः प्रदेशा ॥ ३१ ॥ अयमार्य इति पनि. ॥ एष स चिरनिर्व्यूढजीवलोक- प्रत्युद्धरणगुरुकोपकारो महानुभाव गुरुरेव गुरुकः स्वार्थे क । प्रत्युद्धरण- १ 'वीर्यस्य' ग-घ-क. २ 'जनस्थानपश्चिम' व-घ. ३ 'कुञ्जवान्नाम प- र्व्वतो' न. ४ 'तदिदममुष्य परिसरे' न. ५ 'सिद्धशबरी' व-घ. ६ 'मदा' न. ७ 'णिन्विण्णा' क-घ-च.
रामः-दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः । यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ३२ ॥ सीता-वच्छ एसो कुसुमिदकअम्बतरुतण्डविभमहिणो किंनामधेओ गिरि जत्थ अणुभावसोहग्गमेत्तपरसेसधूमरसिरी मुहुत्तं मुच्छन्तो तुए पहदि- णेण अवलम्बिदो तरुतले अज्जउत्तो आलिहिदो । वत्स एष कुसुमितकदम्ब- तरुताण्डवितबर्हिणः किंनामधेयो गिर्यत्राद्भावसौभाग्यमात्रपरिशेषधूसरश्री- र्मुहूर्तं मूर्च्छन्त्वया प्रह्रदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः । लक्ष्मणः-सोऽयं शैलः ककुभसुरभिर्मास्यवान्नाम यस्मि- न्नीलः स्निग्धः श्यति शिखरं नूतनस्तोयवाहः । आर्येणास्मिन् रामः-विरम विरमतः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः ॥ ३३ ॥ लक्ष्मणः-अत परमार्येण तत्रभवता कपिराक्षसानां त्रासदाता- न्युत्तरोत्तराणि कर्माश्चर्याणि । परिश्रान्ता चेयमार्या । तद्विज्ञापयामि विश्राम्यतामिति । सीता-अज्जउत्त एदिणा चित्तदंसणेण पवुप्पन्नदोहलाए अत्थि मए विण्णप्पं । आर्यपुत्र एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया अस्ति मम विज्ञाप्यम् । रामः-नन्वाज्ञापय । मेव गुरुषु विपुल उपहार यस्य सोऽयं शोभत इति शेष ॥ दिष्ट्या सोऽयमित्यादि ॥ ३२ ॥ कृतिनः कृतकृत्या । कुशलानीति भुवनपक्षे ॥ ३२ ॥ वत्स एष कुसुमितकदम्बताण्डवितमयूर किंनामधेयो गिरिः । यत्राद्भावसौभाग्यमात्रपरिशेषधूसरधी मूर्छन् त्वया प्रह्रदितेनावलम्बितस्त- रुतले आर्यपुत्र आलिखित । कदम्ब्याः नीपवृक्षा । मोरो इति वक्तव्ये मऊरो इति कथन कवे प्रमाद । तथापि शेषसमस्कृतारि (ति) सूत्रेण दय नीयोऽयं प्रयोग । प्रकृष्टं रुदितं यस्य ॥ सोऽयं शैल इति ॥ ३३ ॥ अतः आर्येणास्मिन् इति वाक्यात् परं अन्यत् वक्ष्यमाणम् श्रोतुमिति शेष । स. अनिर्वाच्य । प्रत्यावृत्तः आगत इवेत्यर्थ । तृतीयचरणे राम इति व्यवधाने सतीप नाटकादौ न दोष इत्यालङ्कारियाणा समय । अत एव विक्रमचरिते-'देवाकर्णय' इति शुकवाक्यप्रस्तावान्तरे 'तिष्ठति पतगेति' १ 'सुन्दरसिरी' न. २ एतन्नास्ति क-घ-ब-पुस्तकेषु. ३ 'वरसेतस्मादि- रम' इति क-घ-ब. ४ 'पुनरपि' ब-घ. ५ 'विष्णावइज्ज' क-न.
२२ उत्तररामचरितं [ १-३४ सीता-जाणे पुणोवि पसण्णगम्भीरासु वणराइंसु विहरिस्सं पवित्रणि- म्मेळसिसिरावगाहां भअवदिं भाइरहिं ओगाहिस्सं त्ति । जाने पुनरपि प्रस- न्नगम्भीरासु वनराजिषु विहरिष्यामि पवित्रनिर्मलशिशिरावगाहा भगवतीं भा- गीरथीमवगाहिष्य इति । रामः-वत्स लक्ष्मण ! लक्ष्मणः-पृष्टोऽस्मि १ रामः-वत्स अचिरं सम्पादनीयोऽस्या दोहद इति संप्रत्येव गुरुभिः सन्दिष्टम् । तदस्खलितसुखसम्पातं रथमुपस्थापय । सीता-अज्जउत्त तुम्हेहि वि आगन्तव्वं । आर्यपुत्र युष्माभिरपि आग- न्तव्यम् । रामः-अयि कठिनहृदये एतदपि वक्तव्यमेव । सीता-तेण हि पिअं मे पिअं मे । तेन हि प्रियं मे प्रिय मे । लक्ष्मणः-यथाज्ञापयत्यार्यः । ( इति निष्क्रान्तः । ) रामः-प्रिये अत्र वातायनोपकण्ठे मुहूर्तं संविष्टा भवावः २ । सीता-एवं होदु । ओहरिदम्हि क्खु परिस्समजणिदाए णिद्दाए । एवं भवतु । अपहृतास्मि खलु परिश्रमजनितया निद्रया । रामः-तेन हि निरन्तरमवलम्बस्व मामनुगमनाय ३ । जीवयन्निव ससाध्वसभ्रमस्वेदविन्दुरधिकण्ठमर्प्यताम् । बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३४ ॥ ( तथा कारयन्सानन्दम् । ) प्रिये किमेतत् ! भट्टीनाभिधानादिति दिक् ॥ ३३ ॥ यथार्येति ध्वनि ॥ आर्यपुत्र एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया विज्ञाप्य मेऽस्ति । दोहदाए इत्यत्र 'दोहदे ल' इति लत्वम् ॥ जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहरिष्यामि । पवि- त्रनिर्मल शिशिरावगाहां भगवतीं भागीरथीमवगाहिष्ये इति ॥ तत् तस्मात् । सम्पातः चक्रभ्रमणादिना पार्श्वदिषु कुण्ठनमित्यर्थः । उपस्थापयेति ध्वनि ॥ आर्यपुत्र युष्माभिरप्यागन्तव्यम् । तेन हि प्रियं मे प्रियं मे । एवं भवतु । अपहृतास्मि खलु निद्रया । अनुगमनायेति ध्वनि ॥ जीवयन्निवेति ॥ ३४ ॥ चन्द्रमणयः चन्द्रकान्ता । विभ्रमः विलासः । बाहुरधिक- ण्ठमर्प्यताम् अन्यथेदिति ध्वनि ॥ ३४ ॥ प्रियेति-यथा सीता अधिक- १ 'सोऽस्मि' क-घ-च. २ 'इतो वातायनोपकण्ठे' घ-च. ३ 'संविष्टा भव' न. ३ 'मामत्र शयनाय' क-घ-च.
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शं स्पर्शं मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥ ३५ ॥ सीता—स्थिरप्पसादा तुम्हे इदो दाणिं किं अबरम् । [स्थिरप्रसादा यू- यमित इदानीं किमपरम् । रामः—म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि । एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥ ३६ ॥ सीता—पिअंवद एहि । संविसम्है । ( इति शयनाय समन्ततो निरूप- यति ) प्रियंवद एहि । संविशावः । रामः—अयि किमन्वेष्टव्यम् । कण्ठं बाहुमर्पयेत् तथेत्यर्थः ॥ अथ तमेव बाहुस्पर्शं विशिष्टि-विनिश्चेतु- मिति ॥ विनिश्चेतुं शक्य इति ॥ ३५ ॥ विगतश्चासौ निश्चय इति व्युत्- पत्तिबलाद्विनिश्चयशब्देन निश्चयनिष्ठज्ञानं विवक्ष्यते । तथा च विनिश्चेतुं ज्ञातुं न शक्य इत्यर्थः । प्रथमचरणस्य मोह इति भावः । अत एव सुखदुःखबहिर्मोह इति भावः । प्रमोहः मूर्च्छातिशयः । विसर्पः व्याप्तिः । मदो मत्तता । 'बालोन्मत्तपिशाचवद्' इति स्मृतेः । अनेन द्वि- तीयचरणेन ज्ञानाभाव इति भावः । परि परितः । मूढः स्वस्वकार्यविमुख इन्द्रियगणो यस्मिन् । चेतनस्य भावश्चैतन्यं जन्म । इदं कर्म शेषम् । 'प्राणी तु चेतनो जन्मी' इत्यमरः । भ्रमयती सम्मोहयती च करोतीत्यर्थः । भ्रमः भ्रान्तिः । 'थानन्दभ्रमयोस्सम्मोहः' इति नाममाला । उत्तरार्धे विकारो ज्ञानाभावात्मक इति भावः । एतमानोऽद्य अनिर्वचनीयं पारव- श्यमनुभवामीति पद्यस्य पर्यवसन्नोऽर्थः । अयमेव कवेर्भावः । एवमादिष्व- श्लेषु पद्येषु साशनपराङ्मुख्या दुर्विदग्धाः परस्परं धिया बिभ्रतः कलहा- यन्ते । शिष्यविनोदावानुभूयविशेषज्ञा प्रमाणम् । इति दिक् ॥ ३५ ॥ त्वग्रे वदसीति पूर्वाभिप्रायेणाह—थी(स्थि?)रेति । स्थिरप्रसादा यूयमिति किम- त्राश्चर्यम् । अत्र चाटूक्ती । 'तूर्यधैर्येसौन्दर्यपर्यन्तेषु रः' इत्यनेन 'अथेर' इति १ 'समुन्मीलयति' इति घ. २'स्थिरप्रसादा यूयमनेदानीमाश्चर्यम्' न. ३ 'तानि सुवचनानि सरोरुहाक्ष्याः' घ. ४ 'सहम' (शविने) इति घ-घ. ५ 'अवि सन्देष्टव्यम्' न.
२४ उत्तररामचरितं [ १-३४ आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः । स्वापहेतुरनुपाधितोऽनया रामबाहुरुपधानमेष ते ॥ ३७ ॥ सीता-( निद्रां नाटयन्ती । ) अत्थि एदम् । अय्यउत्त अत्थि एदं । ( इति स्वपिति । ) अस्त्येतदार्यपुत्र अस्यैतत् । रामः-कथं प्रियवचना मे वक्षसि प्रसुप्तैव । ( निर्वर्ण्य ) इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि' परमसह्यस्तु विरहः ॥ ३८ ॥ प्रविश्य । प्रतीहारी-देव उवड्ठिदो । देव उपस्थितः । रामः-अपि क. । प्रतीहारी-आसण्णपरिआरओ देवस्स दुम्मुहो । आसन्नपरिचारको देवस्य दुर्मुखः । रामः-( स्वगतम् ) शुद्धान्तचारी दुर्मुखः । स मया पौरजानपदेष्वप- सर्पः प्रहितः । ( प्रकाशम् ) आगच्छतु । ( प्रतीहारी निष्क्रान्ता । ) प्रविश्य । दुर्मुखः-( स्वगतम् ) हा कहं दाणिं देविं अन्तरेण ईदिसं अचिन्तणिज्जं जणाववादं देव्वस्स कहइस्सं । अथवा णिओओ क्खु मे एरिसो वक्तव्ये 'लखरिअ' इति प्रमादः ॥ म्लानस्य जीवकुसुमस्येति ॥ ३६ ॥ जीवः समुद्धारणम् । विकासनानि विकासकराणि । इति यथोचितमूह्यम् । पद्येऽस्मिन् ममेत्यध्याहारः ॥ ३६ ॥ प्रियंवद एहि सविशाव । अपिः समा- वनायाम् ॥ आ विवाहसमयादिति ॥ ३७ ॥ वने दण्डकावने । अस्यान्त- तोऽन्वयः ॥ ३७ ॥ आर्यपुत्र एतदस्ति । निर्वर्ण्य दृष्ट्वा ॥ इयं गेहे ल- क्ष्मीरिति ॥ ३८ ॥ अमृतरूपा अञ्जनवर्तिरिव भावः । मसृणः स्निग्धः । अस्याः किं न प्रेयः सर्वं प्रेय इत्यर्थः । तु किन्तु । विरहो यदि विरह- श्वेत् परं अत्यन्तम् । असह्यः ॥ ३८ ॥ देव उपस्थितः । विरह इति च पूर्वेणान्वयः । आसन्नपरिचारको देवस्य दुर्मुखः । शुद्धान्तं अन्तःपुरम् । अपसर्पः चरश्मन् ॥ हा कथमिदानीं सीतादेवीमन्तरेणैदृशमचिन्तनीयं ज- नापवादं देवाय कथयिष्यामि । अथवा नियोगः खलु मे मन्दभाग्यस्यैषः । हा आर्यपुत्र क्वासि । सौजन्यं चिन्तनेति यावत् ॥ सौजन्यं वर्णयति ॥ १ 'यदि पुनरसह्यो न' इति क-थे. २ 'जानपदानपसर्पितुं' ग-क-घ.
१मन्दभाग्यस्य। हा कथमदानीं देवीमन्तरेण ईदृशमचिन्तनीयं जनापवादं देवाय कथयिष्यामि। अथवा नियोगः खल्वीदृशो मे मन्दभाग्यस्य। सीता—(उत्स्वप्नायते) हा अज्जउत्त सोम्म कहिं सि। हा आर्यपुत्र सौम्य कुत्रासि। रामः—अये सैवेयं २रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्वेगं करोति। (सस्नेहमहस्तः परामृशन्।) अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु य- द्विभ्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः। कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते॥ ३९॥ दुर्मुखः—(उपसृत्य।) जेदु देवो। जयतु देवः। रामः—ब्रूहि यदुपलब्धम्। अद्वैतं सुखदुःखयोरिति ॥ ३९ ॥ यत् सुमानुषं सौजन्यम् । सुख- दुःखयोर्विषये । अद्वैतं द्वैविध्यरहितम् । एकनिष्ठं । यच्छब्दद्वितयं सुमानुषपरामर्शीति बोध्यम् । अवस्थासु बाल्यकौमार्ययौवनजरासु यत् । अनुगतं अनुसारि । विश्रामः विश्रान्तिः । यस्मिन् सति । जरसा क्ष- तीति शेषः । जरयाऽपि । रसः प्रीति । शृङ्गारादिर्वा । अहार्यः अपरि- हार्यः । आवरणात्ययात् सङ्केतापगमात् । सारे स्थिरांशे । यत् स्थितं तस्य सुमानुषस्येति भावप्रधानो निर्देशः । सौजन्यस्येत्यर्थः । कृते इति शेषः । अत एव, 'सुभगमपरां' इत्यस्याख्यातौशाकुन्तले । 'नदिनं प्रमादि' इत्यस्यान्याख्यातविद्धसालभञ्जिकायां च । शोभनो मानुषो जनःयेन सौजन्येन । तत् सुमानुष्यं इति वार्थः । 'मानुषो जनमर्त्ययोः' इति नामनि- धानम् । कथमपि प्रयत्नेन । तत् प्रसिद्धम् । एकं मुख्यम् । भद्रं क- ल्याणम् । प्राप्यते हि प्रसिद्धौ ॥ तथा च मदनुरूपाया देव्याः सौजन्याय मङ्गलमाशास्महे । मया तु दुर्मुखः पौरजानपदेषु विसृष्टः किमागत्य वक्ष्यति चेति भावः । 'विश्रामं भजतां' इति, 'विश्रामशाखिनं' इति च कालिदास- मुरारिप्रयोगावदृत्य कवेः विश्राम इति प्रयोगः प्रमादिक इति प्रामाणिकाः । 'प्रतिच्छद्मोपरोधावरणं' इति संसारामृतैः ॥ ३९ ॥ जयतु देवः । उप- लब्धं ज्ञातम् । अनुभूतं वा । उपस्तुवन्ति देवं पौरजानपदाः । यथा विस्मृता वयं महाराजे दशरथे रामदेवेनेति ॥ जानपदाः देशवासिनः ।
१ 'ममेव' घ. २ 'अश्रुपूर्णं' ब-घ-क. ३ 'प्रेममारे' न. ४ 'प्रेम' ब-घ. ३ उ०
२६ उत्तररामचरितं [ १-४२ ' दुर्मुखः—उवत्थुवन्ति देवं पोरजाणवदा णिसुमराविदा अम्हे महा-१ राअं दसरहं रामभद्देणेति । उपस्तुवन्ति देवं पौरजानपदा विस्मारिता वयं महाराजं दशरथं रामभद्रेणेति । रामः—अर्थवाद एषः । दोषं तु मे कञ्चित्कथय येन स प्रतिविधीयते । दुर्मुखः—( सास्रम् । ) सुणादु देओ । ( कर्णे । ) एवं विअ । शृणोतु देवः । एवमिव । रामः—अहह तीव्रसंवेगो वाग्वज्रः । ( इति मूर्छति ) दुर्मुखः—अस्ससदु देओ । आश्वसितु देवः । रामः—( आश्वस्य । ) हा हा धिक्परगृहवासदूषणं य- द्वैदेह्याः प्रशमितमद्भुतैरुपायैः । एतत्तत्पुनरपि दैवदुर्विपाका- दालर्कं विषमिव सर्वतः प्रसृप्तम् ॥ ४० ॥ तत्किमत्र मन्दभाग्यः करोमि । ( विमृश्य सकरुणम् ) अथवा किम- न्यत् । सतां केनापि कार्येण लोकस्याराधनं व्रतम् । यत्पूरितं हि तातेन मां च प्राणांश्च मुञ्चता ॥ ४१ ॥ संप्रत्येव च भगवता वसिष्ठेन सन्दिष्टम् । अपि च । यत्सावित्रैर्दीपितं भूमिपालै- र्लोकश्रेष्ठैः साधु शुद्धं चरित्रम् । मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम् ॥ ४२ ॥ अर्थवादः स्तोत्रपद्धतिः । स्थितिकिंचिदिति च पाठः । येन कारणेन । शृणोतु देवः, एवमिव । निर्णय इति च पाठः । आश्वसितु देवः । 'हा हेति खेदातिशये' इति रत्नमाला ॥ हा हा धिक् परेति ॥ ४० ॥ तदेतत् आलर्कं रोगविशेषसम्बन्धि । 'अलर्कस्तु श्वान्मत्तः' इत्यमरः । प्रसृतं व्याप्तम् ॥ ४० ॥ सतां केनापीति ॥४१॥ तातेन दशरथेन ॥ सन्दिष्टमिति-'प्रजा- नामनुरञ्जने स्या' इत्येतावदेव पूर्वोक्तमिति भावः ॥ ४१ ॥ यत्सावित्रैरिति ॥ ४२ ॥ तस्य चरित्रस्य । सम्बन्धहेतोः । कश्मला तुच्छा । अस्मान् सवितृभूपालानुद्दिश्येत्यर्थः ॥ ननु अहमेव पापी न खलु सावित्राः सर्वेऽपि १ 'महाराअदसरहरअं' व-घ-क २ 'तीव्रोऽयं' न. ३ 'प्रसक्तम्' न. ४ > 'विमृश्य' न. ५ 'परम्'. ब. ६ 'तत्प्रणीतम्' ब, 'यत्पूजित' व. ७ 'चित्रम्' न.
१-४४ ] उत्तररामचरितं २७ हा देवि देवयजनसम्भवे हा स्वजन्मानुग्रहपवित्रितवसुन्धरे हा निमि- जनकनन्दिनि हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि हा राममयजी- विते हा महारण्यवासप्रियसखि हा तातप्रिये हा स्तोकवादिनि कथमेवंवि- धायास्तवायमीदृशः परिणामः । त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥ ( दुर्मुखं प्रति । ) दुर्मुख ब्रूहि लक्ष्मणम् । एष ते नूतनो राजा रामः समाज्ञापयति । ( कर्णे । ) एवमेवम् । दुर्मुखः—हा कहं दाणिं अग्गिपरिसुद्धाए गब्भट्ठिदपवित्तसंताणाए दे- ईए दुज्जणवअणादो ऐत्तं अणज्जं अज्झवसिदं देवेण । [ हा कथमदानीमग्नि- विशुद्धायै गर्भस्थितपवित्रसन्तानायै देव्यै दुर्जनवचनादेवमनार्यमध्यवसितं देवेन । रामः—शान्तम् । कथं दुर्जनाः पौरजानपदाः । इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् । यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥ ४४ ॥ गच्छ । दुर्मुखः—हा देइ । हा देवि । ( इति निष्क्रान्तः । ) रामः—हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः । दृप्त्या इत्याह—धिक्छब्दामिति ॥ ४२ ॥ 'नमो नम शङ्करपार्वतीभ्या' इत्या- दिवत् वसिष्ठारुन्धतीति प्रयोगः क्षन्तव्यः । स्तोकवादिनि मितभाषिणी ॥ त्वया जगन्ति पुण्यानीति ॥ ४३ ॥ अनाथा निराधारा । 'आभा- रप्रिययोर्नाथ' इति रभसः ॥ नूतनः निर्दय इति यावत् ॥ ४३ ॥ हा कथमग्निविशुद्धायै गर्भस्थितपवित्रसन्तानायै देव्यै दुर्जनवचनादिदम- ध्यवसितं देवेन । अध्यवसितं निश्चितम् ॥ इक्ष्वाकुवंश इति ॥ ४४ ॥ वचनीयं दूषणम् । प्रत्येति विश्वसिति । तत् अग्निहस्तं सीतार्पणनि- १ 'मुनिनन्द' न. २ 'प्रियशोकभाषिणि' व-घ. ३ 'पवित्रदुट्ठउसंडाणाए' क-घ-च. ४ 'इद मयसिद' न. ५ 'शान्तं पापं शान्तं पापम् । दुर्जना नाम' न ६ 'दशोद्भवतः' घ. ७ 'वस्तत्सप्रतिदूरवृत्तम्' क-घ-न.
२८ उत्तररामचरित [ १-४७ ] शैशवात्प्रभृति पोषिता प्रिये-¹ सौहृदादपृथगाश्रयामिमाम् । छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ४५ ॥ तत्किमस्पर्शनीयः पातकी देवीं दूषयामि । ( इति सीतायाः शिरः स्वैर- मुन्नमय्य बाहूमाक्षिपन् । ) अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् । श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६ ॥ ( उत्थाय । ) हन्त विपर्यस्तः संप्रति जीवलोकः । अद्यावसितं जीवित- प्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । कष्ट- प्रायं शरीरम् । अशरणोऽस्मि किं करोमि का गतिः । अथवा हा अम्ब दुःखसंवेदनायैव रामे चैतन्यमाहितम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ ४७ ॥ अरुन्धति हा भगवन्तौ वसिष्ठविश्वामित्रौ हा भगवन्पावक हा देवि भूत- धात्रि हा तात जनक हा तात हा मातर् हा प्रियसख सुग्रीव हा सौम्य हनूमन् हा परमोपकारिन् लङ्काधिपते विभीषण हा सखि त्रिजटे परिमु- षिता स्थ परिभूता स्थ रामहतकेन । अथवा को नाम तेषामहमिदानी- माह्वाने । लघ्वः । दुरवृत्तं लङ्काद्वीपगतम् । यदि सम्भावनायाम् ॥ ४४ ॥ शैश- वादिति ॥ ४५ ॥ प्रिये इत्यसुभिः । छद्मना कैतवेन । मृत्यवे परि- त्यागसूपायेति सीतापक्षे । सौनिकः मृगपक्षिविहिंसाशीलः ॥ ४५ ॥ अस्पर्श- नीयः नीचः । दूषयामि अङ्कस्पर्शेनेति भावः ॥ अपूर्वकर्मेति ॥ ४६ ॥ अपूर्वं दैवञ्चैव न कृतमित्यर्थः ॥ ४६ ॥ विपाकः परिणामः ॥ विपर्यस्तः न्यग्रूपः । अवसितं अवसानं प्राप्तं शून्यं वस्तुसहितम् । जीर्णं शुष्कम् । अरण्यं वनम् ॥ दुःखसंवेदनायेति ॥ ४७ ॥ यस्मिन् संवेदनं ज्ञानम् । चैतन्यं जन्म । उपघातिभिः प्रहारिभिः कीलवत् शङ्कुवत् आचरितम् । प्राणश्चानाच्छङ्कयो हृदि निखाता इत्यर्थः । अत एवाद्यापि मयि चैतन्यं वर्तत इति भावः ॥ ४७ ॥ भूतधात्रि वसुधे । तात दशरथ । जनक वैदेह । १ 'प्रियाम्' घ-ञ-क २ 'गृहनाड्याः प्रियाम्' घ 'पृथगाश्रयामिमाम्' व ३ 'सौनिके' ञ ४ 'पर्यवसितमद्य क, 'पर्यवसितं जीवित०' ख-घ ५ 'आग- तमू' न ६ 'स्वैरै' व घ ७ 'मातरः' व-घ-क ८ 'कथं' व-घ
१-५१ ] उत्तररामचरितं २९ ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥ ४८ ॥ योऽहम् विस्रम्भादुरसि निपत्य लब्धनिद्रा- मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम् । आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्यादाभ्यो बलिमिव निर्घृणः क्षिपामि ॥ ४९ ॥ ( सीतायाः पादौ शिरसि कृत्वा ) देवि देवि अयं पश्चिमस्ते रामशिरसा पादपङ्कजस्पर्शः । ( रोदिति । ) ( नेपथ्ये ) अब्रह्मण्यमब्रह्मण्यम् । रामः—ज्ञायतां भोः किमेतत् । ( पुनर्नेपथ्ये ) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमः शरण्यं त्वामुपस्थितः ॥ ५० ॥ रामः—आः कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो मौधुरस्य कुम्भीनसीपुत्रस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । ( कतिचित्पदानि गत्वा पुन- र्निवृत्य ) हा देवि कथमेवंगता भविष्यसि । भगवति वसुन्धरे सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् । जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥ ५१ ॥ मातः कौसल्ये । अशोकवने पूर्वं शुद्ध ( भ ? ) खप्रक्ष्यनत्रिजटासावमिति बोध्यम् । परि परित्यक्त्यर्थे । 'हतको नीचः' इति जयः ॥ ते हि मन्ये इति ॥ ४८ ॥ पाप्मना दुरितेन ॥ ४८ ॥ विस्रम्भादुरसीति ॥ ४९ ॥ विस्रम्भः विश्वासः । प्रिया चासौ गृहिणी ताम्। आतङ्केन आया- सेन । स्फुरितः चलितः, कठोरः पूर्णः गर्भः तेन गुर्वी अत्थुषुम् । 'आया- सभीलोरातङ्क' इति शाश्वतः । क्रव्याद्भ्यः राक्षसेभ्यः । आमिषे पतं इत्यर्थः ॥ ४९ ॥ रोदितीत्यादिकमश्लीलं नाटकाप्रयोज्यमपि 'सर्वं च भक्ष्यं कुलं' इत्यादिवदुपेक्षणीयम् । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः । लवणः राक्षस- भेद । मथुरायां नगर्यां निवासी तत्सम्बन्धी वा माथुरः॥जनकानां रघू- णामिति ॥ ५१ ॥ जनकाः जनकवंश्या रघवः रघुवंश्या राजानः । गो- १ 'प्राप्तनिद्राम्' न. २ '०ष्णीन्' न. ३ 'शिरसि' न. ४ 'शाठारम्' म. ५ एतन्नास्ति म-घ-क-पुस्तकेषु. ६ 'ताम्' व-प.
३० उत्तररामचरितं [ १-५१ ) ( इति रुदन्निष्क्रान्तः । ) सीता—हा सोम्म अज्जउत्त कहिं सि । ( सहसोत्थाय ।) हद्धी हद्धी दु स्सिविणेण विप्पलब्धा अहं अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी एआइणिं मं पसुत्तं उज्झिअ गदो अज्जउत्तो । किं दाणीं एदं । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्सं । को एत्थ परि अणो । हा सौम्य आर्यपुत्र कुत्रासि । हा धिक् हा धिक् दुःस्वप्नेन विप्रलब्धाह मार्यपुत्रशून्यमिव आत्मानं प्रेक्षे । हा धिक् हा धिक् एकाकिनीं मां प्रसुप्तामु ज्झित्वा गत आर्यपुत्रः । किमिदानीमेतत् । भवतु तस्मै कोपिष्यामि यदि तं प्रेक्षमाणारमन् प्रभविष्यामि । कोऽत्र परिजनः । (प्रविश्य ।) दुर्मुखः—देइ कुमारलक्खणो विष्णवेदि सज्जो रहो । आर हदु देवी त्ति । देवि कुमारलक्ष्मणो विज्ञापयति सज्जो रथः । आरोहतु देवीति । सीता—इअं आरुहामि १ । (उत्थाय परिक्रम्य ) फुरइ मे गब्भभारो सणिअं गच्छिह्मं । इयमारोहामि । स्फुरति मे गर्भभारः । शनैर्गच्छावः । दुर्मुखः—इदो इदो देवी । इत इतो देवी । सीता—णमो तवोधणाणं णमो रहुउलदेवदाणं णमो अज्जउत्तचरणक- शस्य वचसः । मङ्गलगुणेन यदिति नपुंसकनिर्देशः । अत एव 'दाक्षं हि यस्याः प्रकृतेर्नलक्ष्य' दति भर्तृमीडः । अजीजन इति अर्थात् त्वमिति सिद्धम् । अत्र यदिति यामिति च यच्छब्दद्वयमुत्तरवाक्योक्तमिति पूर्ववाक्ये तच्छब्दा नियमः । अत एव, 'आभाति यत्कृति'रिति अस्मद्व्याख्यातभोजचम्पौ ॥ ५१ ॥ हा आर्यपुत्र शून्यमिवात्मानं पश्यामि । अप्पाणमित्यत्र 'आत्मनि प' इति पत्वम् । हा धिक् हा धिक् एकाकिनीं प्रसुप्तां मां समुज्झित्वा गतः आर्यपुत्रः । भवतु अस्मै कुप्यामि यदि तं पश्यन्ती आत्मनः प्रभविष्यामि । कोऽत्र परिजनः । कुप्पामीत्यत्र कुप्पिस्सं इति पाठे कोपिष्यामीत्यर्थः । कुपिता भविष्यामीति यावत् ॥ देवि कुमारलक्ष्मणो विज्ञापयति । सजो रथः । आरो हतु देवी, इति । इयमारोहामि स्फुरति मे गर्भभारः । शनैः शनैर्गच्छामः । इत्थं पुरुषसमक्षं निःसङ्कोचतया कथनं कवेरचातुर्यम् । यत्त्वाक तु निमावि-- स्वगत—फुरइ मे गब्भभारो । प्रकाशम्—सणिअं गच्छामो । इति पाठस्त्वं कल्पनीयस्त्ववदत्र विशेषा प्रमाणमिति ॥ इत इतो देवी । नमो रघुकुलदेव ताभ्य इति दिक् ॥ इति महाराजपदमहनीयतुवक्काजिरा जगहामात्येव भार्ग- वकुलकुपारचन्द्रशौण्डोवाळाजिदीक्षितेण कौण्डिन्यगोत्रपारावारनिसुलक्ष्कौस्तुभति- १ 'अह अज्जउत्त आरोहामि' घ-च-क
१-५१ ] उत्तररामचरितं ३१ मलाणं णमो सव्वगुरुअणाणं । नमस्तपोधनेभ्यो नमो रघुकुलदेवताभ्यो नमो ऽर्यपुत्रचरणकमलेभ्यो नमः सकलगुरुजनेभ्यः । ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते चित्रदर्शनो नाम प्रथमोऽङ्कः । न्माजिह्वाळञ्जिह्वाहिण्रेण काशीमहादेवतनूजेन शाकम्भरीपरमहंसचिदम्बरब्रह्मा- नुतेन नवरसभुवातिशायिचतुरचतुरधिकषष्टिप्रबन्धिदशभाषाभव्यहृद्याट्यपदी- पदशरावणेतिलसदन्यूनाक्षरमाणिक्यार्थस्रवनकवनधौरन्धरीशारीषेण गीतगाथाप्र हृष्टचतुष्टयदिव्यदेवीतातङ्कलिपिकारपेन दुर्जनानिलिङ्गेष समन्नाभिनन्देन सु न्दरीकमलाजानिना दश्ववच सर्वदमरखतीनामत्रयमण्डितेन रामनवमीनिशी- थजागरण एवारब्धपरिपूर्यिते उत्तररामचरितसञ्जीवनाख्यटिप्पणे प्रथमोऽङ्क समाप्तः ॥ ॥ इति घनश्यामपण्डितविरचिते व्याख्याने प्रथमोऽङ्कस्सम्पूर्णः शुभमस्तु ॥