उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
४६ उत्तररामचरितं [ २-२३ रामः—(सबाष्पस्तम्भम् ।) भद्र शिवास्ते पन्थानो देवयानाः। प्रलीयस्व पुण्येष्वो लोकेभ्यः । शम्बूकः—यावत्पुराणब्रह्मवादिनामगस्त्यमृषिमभिवाद्य शाश्वतं पदमनु- प्रविशामि । ( इति निष्क्रान्तः ।) रामः—ऐतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः । आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥ एते त एव गिरयो विरवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि । आमञ्जुगुञ्जलुलितानि च तान्यमूनि नीरन्ध्रनीरनिचुलानि सरित्तटानि ॥ २३ ॥ गळहितररुध्वनय इत्यर्थः । 'अम्बूकृतं सनिष्ठीवम्' इत्यमरः । 'स्त्यान- मभिवृद्धं' इति रत्नकोशः । दधति बिभ्रति । शिशिरस्सन् .कटुकषायी कषाय इति विदेह । शिशिर शीतल । कटु मरीच्यादिसजातीयः । कषाय तुवर । सल्लकीनां गजभक्ष्यवृक्षविशेषाणाम् । विक्षीर्णाः । पतिताः ये ग्रन्थयः पर्वाणि । 'काण्डी'इति महाराष्ट्राः । तेषा ग्रन्थीना निष्पन्दस्य गन्धः 'सल्ली निर्यासो' इति शब्दार्थचः । स्त्यायते अभिवर्धते, 'उपची- यत' इति माठरः । अत्र चतुर्थचरणे विशेषणविशेष्ययोरभिस्पदम्वं मध्य- गम् । 'व्यस्तं विशेषणं चाह' इति न्यायात् ॥ २१ ॥ बाष्पस्तम्भेन खेदवशात् प्रतिवाक्याभावेन सहित यथा तथा शम्बूरमाह—भद्रेति—ते तुभ्यम् । देवाना यानं सचार येषु । 'तृप्ता यात पथिभिर्देवयानै' इति श्रुते । याव- दनुप्रविशामि प्रवेक्ष्यामीत्यर्थ ॥ एतत्पुनर्वनमिति ॥ २२ ॥ दृष्टं अस्माभिरिति शेष । पुरा पूर्वम् । वयं वसन्तः निवसन्तः अभूम स्थिता इति यावत् स्वधर्मे रताः आरण्यकाः । सासारिकेषु सुखेषु रसज्ञा गृहिणश्चेति विशेषणे योज्ये । चद्वय पादपूरणे ॥ २२ ॥ एते त एवेति ॥ ॥ २३ ॥ विरवन्तः नदन्त मयूरा येषु । आ समन्ताद् । मन्द्राणि मञ्जुलानि रुतानि येषु । नीरन्ध्रनीराणि निबिडजलान्येवं निचूलाः विधा- १ 'देवयान प्रतिपद्यस्व' क-घ-ब. २ 'महर्षिमगस्त्यमभिवाद्य' न. ३ 'तदेव हि पुनर्वनमद्य' क-घ-ब. ४ 'बहुलरुतानि' भ. ५ 'नील' क-च-घ, 'नीप' भ.
२-२६ ] उत्तररामचरितं ४७ मेघमालेव यश्चायमाराद्दिव विभाव्यते । गिरिः प्रस्रवणः सोयं यत्र गोदावरी नदी ॥ २४ ॥ अस्यैवासीन्महति शिखरे गृध्रराजस्य वास- स्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु । गोदावर्याः पयसि विततश्यामलानोकहश्री- रन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥ २५ ॥ तदत्रैव सा पञ्चवटी यत्र चिरनिवासेन विविधविस्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः प्रियाया प्रियसखी च वासन्ती नाम वनदेवता । किमिदमापति- तमद्य रामस्य । संप्रति हि । चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित्संवेगात्प्रचल इव शल्यस्य शकलः । नसाधनानि येषाम् । 'मन्द्रस्तु गम्भीरे' इति, 'मधु मधुल' इति, 'विरवां वाशितं रत' इति, 'विपुलं प्रच्छदपट.' इति चामर ॥ २३ ॥ मेघमाले- वेति ॥ २४ ॥ 'माला स्यात्पङ्क्तिमाल्ययो' इति, 'आराद्दूरसमीपयो' इति मेदिन्यमरौ । आरादिवेत्यत्र इवशब्दो वाक्यालङ्कारे । इहेति च पाठ । अत्र गुणैैरन्वये तुर्यं पादं प्रथम योज्य । तेन चकारस्य सार्थक्यम् । प्रथ- मपादे अयमिति शब्दो व्यर्थ ॥ न च वाच्य योऽय वायो यानि सन्ति इत्या- दिनायशास्त्रवाक्यवदुपपत्तिरिति ॥ सत्यम्, तत्र सगुणत्वादित्येवोक्त । प्रकृते मयाकथयित् प्रथमद्वितीयचरणान्तोक्तयोरयमिति शब्दयोरन्यतरोऽपागलत्तना- यते इति दिक् ॥ २४ ॥ अस्यैवासीन्महतीति ॥२५॥ अस्य प्रस्रवणगिरेः । तस्य शिखरस्य । 'अधोऽधस्तादिति द्विरूप । वयमिति सीताक्ष्मणसमेता इति भाव । रता. स्थिता इति यावत् । तेषु प्रसिद्धेषु लक्ष्मणबद्धेषु वा । यत्र चटजेषु संस्थिति शेष । वितता विस्तृता श्यामला च अनोक- हश्रीः वृक्षशोभा यस्मिन् । 'श्रीर्वेश्रचना शोभा सपत्सरलशासिपु । वाणील- क्ष्मील्वेश्केपु विप्रवित्त्वे च' इति निघ्न । मधुरशकुन इति विव । मधुरश- कुन इति सुपाठ । मुखरैति कश्चित् । तत्र, पौनरुक्त्यापत्ते । वनान्तः । वनस्यान्त उपेश आसीदित्यनुषङ्ग । 'अन्तोप्रनिधनोद्देशावसानेपु' इति पदा- र्थमाला । धीरन्त इति पनि ॥ वासन्तिकेति-आत्रेय्या सह संवादं या कृतवती सेवेति बोध्यम् । किमापतितमिति । अत्र प्रियसखी वर्तते ध्रुतो वर्तते कुतो वयं समागता इति, अस्यावर्त्तनेन सप्रह्लादक किं फलमिति वा भाव' । तदिदन् तावतेति च पाठ. । मद्य रामस्येति ध्वनि ॥ चिराद्वेगा- १ 'आरादपि' क-घ-य. २ 'प्रतिवसति' इत्यधिकं घ-च-पुस्तकयोः । ३ 'वि- रोदेणा०' ग-घ.
४८ उत्तररामचरितं [२-२८ व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः घनीभूतः शोको विकलयति मां नूतन इव ॥ २६ ॥ तथापि तान्पूर्वसुहृदो भूमिभागान्पश्यामि । ( निरूप्य ।) अहो अनव- स्थितो भूतसन्निवेशः । तथाहि । पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ २७ ॥ हन्त परिहरन्तमपि मामितः पञ्चवटीस्नेहो५ बलादाकर्षतीव (सकरुणम्) यस्यां ते दिवसास्तया सह मया नीता यथा६ ते गृहे यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरास्थीयत । एकः संप्रति नाशितप्रियतमस्तामद्य रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२८॥ रम्मीति ॥ २६ ॥ चिरात् बहुकालानन्तरम् । वेगः कौटिल्यम् । प्रस्रुतः व्याप्त । कुतश्चित् कस्मादपि संवेगात् सञ्भ्रमात् । अङ्गसन्धिवन्धचलः दिति यावत् । प्रचलः चञ्चलः । शल्यस्य बाणादिमुखवर्तिन अयोऽग्र (प्र२) स्येत्यर्थः । 'शल्यं शङ्कु' रित्यमरः । शकलः खण्ड । 'अणुकृणीति' (१) महाराष्ट्राः । रूढः आनुपूर्व्याय सञ्जात ग्रन्थि यस्मिन् स व्रणः स्फु- टितः विदीर्ण । हृन्मर्मणीति बाधातिशयद्योतनायोक्तम् । 'भूतं प्राप्ते च जाते च' इति शब्दमाला । विदलयति शकलयति विकलयतीति च चत्वारः पाठा ॥ २६ ॥ पूर्वसुहृद् इति भूमिभागानां विशेषणम् । इदं द्वितीयाबहु- वचनम् । पुरातनमित्राणीत्यर्थः । निरूप्य विभाव्य । भूतानां सन्निवेशः अवस्थानम् । 'भूतं क्ष्मादौ' इत्यमरस्य । सरितां प्रदेश इति शेष ॥ पुरा यत्र स्रोत इति ॥ २७ ॥ विपर्यासं वैपरीत्यम् । घनविरलभावः सान्द्र- पेलवत्वम् । 'पेलवं विरलम्' इत्यमरः । क्षितिरुहां वृक्षाणाम् । अपरं इतरत् । ब्वनिध । तदिदं अवस्थानमिति शेषः । सर्धाऽशैलानामित्यनुषङ्ग । तथा च पुरा ये स्थिता त एवैते शैला इति बुद्धिं द्रढयति दृढीकरोती- त्यर्थ ॥ २७ ॥ सकरुणमिति 'करणस्तु रसे शृङ्गे कारुण्येऽपि च' इति विश्वः ॥ यस्यां ते दिवसा इति ॥ २८ ॥ यस्यामिति यच्छब्देन १ 'पुराभूत' न २ 'मूर्छयति च' क-घ. ३ 'तथापिनानि' न. ४ 'भूमि' क-घ-घ. ५ 'पञ्चवटीस्नेहाद्' न. ६ 'पुन' घ. ७ 'सम्बन्ध' न. ८ 'तामेव' न.
२-२९] उत्तररामचरितं ४९ शम्बूकः—जयतु जयतु देवः। देव भगवानगस्त्यो मत्तः श्रुतभवत्सन्- निधानस्वामाह—'परिकल्पितविमोचावतरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा सर्वे च महर्षयः। तदेहि सम्भावयास्मान्। अथ मजविना पुष्प- केन स्वदेशमुपगम्याश्वमेधाय सन्नो भविष्यसि' इति। रामः—यथाज्ञापयति भगवान्। शम्बूकः—इतस्तर्हि देव प्रवर्त्तयतु पुष्पकम्। रामः—(पुष्पकं प्रवर्त्तयन्) भगवति पञ्चवटि गुरुजनोपरोधात्क्षणं क्षम्यतामयमतिक्रमो रामस्य। शम्बूकः—देव पश्य पश्य। गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- स्तम्भाडम्बरमूकमौकुलिकुलः क्रौञ्चावतोऽयं गिरिः। एतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितै- रूर्ध्वं नमन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः॥ २९॥ अपि च। पञ्चवटी गृह्यते। ते गुञ्जन्ता इति भावः। नाशिता सखेति यावत्। सान्द्रं जर्जरायेति युक्तः पाठः। यस्या ते इति ध्वनिः ॥ २८ ॥ मत्तः पश्यन्ती, शृण्विथ। लोपामुद्रा अगस्त्यस्य पत्नी। अथ आनन्तर्यं। प्रवर्त्त- यन् अभिमुखीकुर्वन् इति यावत् ॥ गुञ्जत्कुञ्जकुटीरेति ॥ २९ ॥ गुञ्जन्तः कुञ्जकुटीरे ये कौशिकाः घूकाः तेषां घटाः समूहाः तेषां घूत्कारः फूकरणम्। तद्वन्तः ये कीचकाः वंशाः। तेषां स्तम्भाः गुच्छाः। वेषु आडम्बराः गर्वरहिताः। अत एव मूकाश्च ते मौकिलाः काकाः। तेषां कुलं सङ्घः यस्मिन्। कलापिनां मयूराणाम्। कूजितैः केकारवैः उद्वेल्लन्ति कम्पन्ते। तेषां भुजङ्गभक्षकत्वादिति भावः। पुराणाः पुरातनाश्च ते रोहिण- तरवः चन्दनवृक्षाः। कुम्भीनसाः सर्पा इत्यर्थः। द्रुम एव कुटीरं पर्णशाला। प्रहते नीडमिति दस्योदोदर्थः। 'वरित्रां घडना घटा' इत्यमरः। प्रहवे ओपवा- रैकः प्रयोगः। फूत्कारः शब्दामुदारः। 'डम्बरो रुचिगर्वयोः' इति कपिलः। 'हैरम्बनग्रुरुहडम्बर' इति जलश्लात्पातभोजचम्पौ ॥ आडम्बरेति क्वचित्। तेन। मुखपदविरोधात् ॥ एतस्मिन्नेवेति ॥ एतस्मिन्नेवेति वाचितस्फुटं क्वेरचानु- र्व्यम्। प्रचलाकिनां इति पाठे न बाधकम्। 'प्रचलाकिच्छलपिनी' इति त्रिका- १ 'परिकल्पितावतरणं' न. २ 'वागस्त्याशनाः' व-घ. ३ 'गुरुजनादेशेोय' न. ४ 'डम्वर' क. ५ 'क्रौञ्चानिवोऽय' न. ५ उ०
५० उत्तररामचरितं [ २-३० ] एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दक्षिणाः । अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलै- रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः ॥३०॥ ( निष्क्रान्ता । ) पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः । ण्डक्षोपः । उद्वेजिताः उद्वेगं प्रापिता. इत्यर्थः ॥ २९ ॥ अपि चेति ॥ एते ते कुहरेष्विति ॥ ३० ॥ ते प्रसिद्धाः कुहरेषु गुहाबिलेषु । गद्गदं यथा तथा नदन्ति गोदावरीवारीणि येषाम् । मेघैः आलम्बिताः मौलयः शिखराधोभागा येषाम् अत एव ते च ते नीलशिखराः । 'दाक्षिणात्ये च दक्षिण' इति शब्दकोशः । अन्योन्यं परस्परम् । प्रतिघातैः प्रहारैः । संकुले सङ्कीर्णे यथा तथा चलन्तः गच्छन्तश्च ते कल्लोलाः महातरङ्गाः तेषां कलकलै । 'उत्तालमुखरौ समौ' इति वैजयन्ती । गभीराणि पयांसि येषु । 'पुण्यः पूतमनेज्यो' इति विक्रमार्कः । सरित्सङ्गमाः नदीसङ्गमाः। गद्गदमिति शब्दानुकार । 'सकीर्णे सङ्कुले' इति, 'निम्नं गभीरं गम्भीरम्' इति- चामर । अत्र पूर्वतनवर्णनादस्य वनस्य महारण्यत्वं सूचितम् ॥ 'सरितो यत्र शैलाश्च तन्महारण्यमुच्यते ।' इति लीलाशुकोक्तेरित्थलमतिविस्तरेण ॥३०॥ इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे द्वितीयोऽङ्क समाप्त ॥ ॥ इति द्वितीयोऽङ्क ॥ १ 'मेघास्तूप' घ. २ 'दक्षिणा.' क-न. + प्रथमाङ्कटीकासमाप्तौ टीका- कारेण यदासङ्गतं कथितं तत्सर्वमत्राप्यनुसन्धातव्यम्.
३-२ ] उत्तररामचरितं ५१ ॥ तृतीयोऽङ्कः ॥ ( ततः प्रविशति नदीद्वयम् । ) एका—सखि मुरले किमसि संभ्रान्तेव । मुरला—सखि तमसे प्रेरितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपा- मुद्रया सरिद्वरां गोदावरीमभिधातुम् । जानास्येव यथा वधूपरित्या- गात्प्रभृति अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः । पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥ १ ॥ तेन च तथाविधेष्टजनविनिपातजन्मना प्रकृष्टतां गतेन दीर्घशोकसन्ता- नेन संप्रत्यनितरां परिक्षीणो रामभद्रः । तमवलोक्य कम्पितमिव सबन्धनं मे हृदयम् । अधुना च प्रतिनिवर्तमानेन रामभद्रेण नियतमेव पञ्चवटीवने वधूसहवासविस्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः । तेषु च निसर्गधीरस्याप्येवं- विधायामवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात्पदे पदे महान्ति प्रमा- दस्थानानि शङ्कनीयानि रामभद्रस्य । तद्भगवति गोदावरि तत्र त्वया साव- धानया भवितव्यम् । वीचीवातैः शीकरक्षोदशीतै- राकर्षद्भिः पद्मकिञ्जल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥ २ ॥ अथ तृतीयोऽङ्कः ॥ अथ वरप्रसादात्प्रत्यक्षसीताकरस्पर्शसुखं रामस्य वर्णयि- ष्यन्दू नदीद्वयसंलापेन विष्कम्भकमासूत्रयति—तत इति ॥ अनिर्भिन्नो गभीरत्वादिति ॥ १ ॥ अनिर्भिन्नः अप्रकाशः । गूढः गुर्वी । पुटपा- कस्य प्रतीकाशः उपमा यस्य । करुणः खेदनम इत्यर्थे ॥ १ ॥ इष्टजनः सीता । 'विनिपातः विलोपने च' इति रत्नकोशः । प्रकृष्टतां आधिक्यम् । सन्तानेन विस्तारेण । बन्धनेन सहितं सबन्धनम् । 'बन्धनं ग्रन्थौ' इति संसारावर्त्तः । 'उराचि गाठ' इति महाराष्ट्राः । तेन दर्शनेनेत्यर्थः । आभोगः परिपूर्णता । भगवत्या पूज्यायाः ॥ वीचीवातैरिति ॥ २ ॥ १ 'अनिभिन्नगंभीरत्वाद्' ब-प. २ 'प्रकर्षंगतेन' क-ध-य; 'प्ररूढक्रन्देन' न. ३ 'सन्तापेन' क-ध. ४ एतन्नास्ति क-प-द-पुस्तकेषु, 'कुसुमबन्धनबन्धन' न. ५ 'महान्त्यत्रापि शोकस्थानानि' न. ६ 'प्रेषितैः' क-ध-व.
५२ उत्तररामचरित तमसा—उचितमेव दाक्षिण्यं स्नेहस्य । सञ्जीवनोपायस्तु मौलस्त्वैव¹ एवं रामभद्रस्याद्य सन्निहितः । मुरला—कथमिव । तमसा—श्रूयताम् । पुरा किल वाल्मीकिरथोपकण्ठारपरित्यज्य निवृत्ते लक्ष्मणे सीतादेवी प्राप्तप्रसववेदनमतिदुःखवेगादात्मानं गङ्गाप्र- वाहे निक्षिप्तवती । तदैव तत्र दारकद्वयं प्रसूता । भगवतीभ्यां पृथिवीभागी- रथीभ्यामभ्युपपन्ना रसातलं च नीता। स्तन्यत्यागात्परेण च दारकद्वयं तस्याँ प्राचेतसस्य महर्षेर्गङ्गादेवी स्वयमर्पितवती । मुरला—( सविस्मयम् । ) ईदृशानां विपाकोऽपि जायते परमाद्भुतः । यत्रोपकरणीभावमायात्येवंविधो जनः ॥ ३ ॥ तमसा—इदानीं तु शम्बूकवृत्तान्तेनानेन सम्भावितजनस्थानागमनं रामभद्रं सरयूममुखादुपश्रुत्य भगवती भागीरथी यदेव भगवत्या लोपामुद्रया स्नेहादाशङ्कितं तदेवाशङ्क्य सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीं विलोकयितुमागता । मुरला—सुचिन्तितं भगवत्या भागीरथ्या । राजधानीस्थितस्यस्य खलु तत्तज्जगतामाभ्युदयिके कार्यव्यासङ्गाद्रामभद्रस्य नियताश्चित्तनिक्षेपाः । अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति । तत्कथमिदानीं सीतादेव्या रामभद्र आश्वासनीयः स्यात् । तमसा—उक्तमत्र भगवत्या भागीरथ्या 'वत्से देवयजनसम्भवे सीते अद्य खल्वायुष्मतोः कुशलयवोर्द्वादशस्य जन्मसंवत्सरस्य संख्यामङ्गलग्रन्थि- गन्धान् परिमलान् । प्रेरिताः त.. पवनैरित्यर्थः ॥ २ ॥ मूलसम्बन्धी मौल्यः । मूलं सीतेति यावत् । 'मूलं पङ्क्तिनिदानयोः' इति हैमः । अस्तीति वाक्यखण्डः । अभ्युपपन्ना अनुगृहीता ॥ ईदृशानां विपाक इति ॥ ३ ॥ ईदृशानां सीताप्रमुखजनानाम् । विपाकः परिणामः 'जन्तुषु कर्मणां विपाकु' इति हनुमन्नाटके । उपकरणीभावं साधनत्वम् । एवंविधः ईदृशः । गङ्गापृथिवीप्रमुख इति यावत् ॥ ३ ॥ यतस्तो प्रमादस्थानमर्थ इति बोध्यम् ॥ अपदेशः व्याजः । आभ्युदयिकैः अभ्युदयकारिभिः । सङ्ख्या १ 'मूलत एव' न २ 'अस्ति खलु' न ३ 'तस्य' न ४ 'महादेव्या समर्पितं स्वयम्' न ५ 'शम्बूकवधवृत्तान्तेन' घ ६ '°जनस्थान' न, 'स्थानगमनं' घ. ७ 'द्वादशजन्ममंवत्सरस्य' घ, 'द्वादशसंवत्सरस्य' व.
ऽभिवर्तते' । तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रस- वितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व । न च त्वामवनिष्ठचारिणीमस्मत्प्रभावाद्दनदेवता अपि द्रक्ष्यन्ति किं पुनर्मर्त्याः' इति । अहमप्याज्ञापिता 'तमसे त्वयि प्रकृष्टप्रेमैव वधूर्जानकी । अतस्त्वमे- वास्याः प्रत्यनन्तरीभव' इति । साह्मधुना यथोद्दिष्टमनुतिष्ठामि । मुरला—अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि । राम- भद्रोऽप्यागत एवेति तर्कयामि । तमसा—तदियं गोदावरीह्रदान्निष्क्रम्य परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकबरीकमाननम् । करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥ ४ ॥ मुरला—इयं हि सा किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिश इव घर्मः केतकीगर्भपत्रम् ॥ ५ ॥ ( इति परिक्रम्य निष्क्रान्ते । ) शुद्धविष्कम्भकः । ( नेपथ्ये । ) प्रमादः प्रमादः । मङ्गल्ये द्वादशी बन्दपूर्तिः । 'ग्रन्थिहस्तत्रपर्वणो' इति नानार्थमञ्जरी । अत एव 'वयसा द्वादशाब्दको' इति सप्तमाङ्के गर्भनाटकसन्दर्शने रामं प्रति लक्ष्मणेन वक्ष्यते । तत् तस्माद् । पुराणं पुरातनधर्माणां...मानवस्य मानवसमूहस्य । 'मानवानां तु मानव्यम्' इत्यमरः । प्रसवितारं जनकम् । उपतिष्ठस्व सेवस्व । प्रेष्ठेति ध्वति । मर्त्याः रामादय इति भाव । अत एवाग्रे—'तमसे ओसरह दाव' इति सभयं सीतया वक्ष्यते । प्रत्यनन्तरी- भव सहाया भवेत्यर्थः ॥ परिपाण्डुदुर्बलेति ॥ ४ ॥ कबरी केश- पाश ॥ ४ ॥ किसलयमिवेति ॥ ५ ॥ किसलयमिव स्थितमिति शेषः । शरीरविशेषणमेतत् । बन्धनात् वृन्तात् । दीर्घशोकः नव्यस्तं पदं मध्यवम् । १ 'अनिरुष्टते' ब. २ 'प्रत्यन्तरीभव' व. ३ 'मूर्तिरिव वा' ब.
५४ उत्तररामचरितं [ ३-६ ( ततः प्रविशति पुष्पावचयव्यग्रा सशङ्कौत्सुक्यमाकर्णयन्ती सीता । ) सीता-अम्महे जाणामि पियसही मे वासन्दी वाहरदि । अहो जानामि प्रियसखी मे वासन्ती व्याहरति । ( पुनर्नेपथ्ये । ) सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत् । सीता-किं तस्स । किं तस्य । ( पुनर्नेपथ्ये । ) वध्वा सार्धं पयसि विहरन्सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥ ६ ॥ सीता-( ससंभ्रमम् । कतिचित्पदानि गत्वा । ) अज्जउत्त परित्ताहि परित्ताहि मह तं पुत्तअम् । ( स्मृतिमभिनीय सवैक्लव्यम् । ) हद्धी हद्धी । ताइ जेव्व चिरपरिचिदाइं अक्खराइँ पञ्चवदीदंसणेण मं मन्दभाइणिं अंणुबन्धन्ति । हा अज्जउत्त । ( मूर्च्छति । ) आर्यपुत्र परित्रायस्व परित्रा- यस्व मम तं पुत्रकम् । हा धिक् हा धिक् । तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र । प्रविश्य तमसा-वत्से समाश्वसिहि । समाश्वसिहि । ( नेपथ्ये ) विमानराज अत्रैव स्थीयताम् । क्षामं दृशम् ॥ ५ ॥ इति शुद्धविष्कम्भः ॥ औत्सुक्यं उत्कण्ठा । अहो- जानामि प्रियसखी वासन्ती व्याहरतीति । व्याहरति क्रन्दतीत्यर्थः ॥ सीतादेव्याः स्वकरैरिति ॥ ६ ॥ कलितैः दत्तैः । सल्लकी गजभक्ष्यतरुः । 'लोलः सास्र' इति कश्चित् । तस्माद् किं तस्य । वध्वा निजकरिण्या । सार्धं सह । 'चण्ड उद्दाम उद्भट' इति शब्दार्णवे । 'उद्दामस्य क्ले' इति गोवर्धनः । अभियुक्तः अभिगृहीतः । 'अभियोगस्त्वभिग्रह' इत्यमरः ॥ ॥ ६ ॥ आर्यपुत्र परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् हा धिक् तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र । 'पुत्रक कृत्रिमे पुत्रे' इति संसारावर्तेः । अक्खराइ इति कालिदासादिवत् कवे प्रमादः । 'अक्ष्यादिषु छ' इति गणे पठितत्वात् । 'दीने च मन्दभाग' इति त्रिकाण्डशेषः । तमसेति-अत्र पात्रासूचनं कवे प्रमाद इति केचित्, तद्रूसापङ्गन्यायानुकरणम् । 'उत्साहखेदतोषादौ पात्रासूचन' इति जयदेवोक्तेः ॥ अह्नहे जलभरभरितमेघमन्थरस्तनितगम्भी- रमासन्नः कुतो नु भारतीनिर्घोषः प्रविशन् कर्णविवरं मामपि मन्दभागिनीम्- १ 'पोषितः' व-घ. २ 'अणुरन्धन्ति' ( अनुरन्धन्ति ) व.
३-८] उत्तररामचरितं ५५ सीता—भगवइ किं मण्णे अवरिफुडेत्ति । सरसंजाएण पच्चाभिजा- णामि अजउत्तेण एव्वं पुहुं व्याहरिदम् । भगवति किं मन्यसेऽपरिकुटेति । सरसयोगेन प्रत्यभिजानामि आर्यपुत्रेणैव एतद्व्याहृतम् । तमसा—श्रूयते वत्सव किल शूद्रस्य दण्डधारणार्थमिक्ष्वाको राजा जनस्थानमागत इति । सीता—दिट्ठिआ अपरिहीणधम्मो खलु सो राआ । दिष्ट्या अपरिहीन- धर्मः खलु स राजा । नेपथ्ये । यत्र द्रुमा अपि मृगा अपि बान्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम् । स्फुटयति । 'मन्थरस्तु मन्दः' इत्यमरशेषः । भरन्दो इति देशीयः शब्दः । 'भरतो' इति महाराष्ट्राः । ससिताश्चमैति—असमाविदसीतावचनश्रवणा- दिति भावः ॥ अपरिस्फुटनिस्वाने इति ॥ ७ ॥ निस्वाने ध्वनौ । 'ध्वनिनादगुदस्वनां' इति शाश्वतः । सानयितौ मेषे । चसिता च उत्कण्ठि- ता च यस्मिन् कर्मणीति क्रियाविशेषणस्य धर्मपरत्वेऽपि न दोषः । अत एव 'अकुण्ठनीशितं वर्ने' इति माघः ॥ ७ ॥ भगवति किं मन्यसे परिकुटेति । सरसयोगेन प्रत्यभिजानामि आर्यपुत्रेणैव एतद्व्याहृतम् । 'दिक्षपे दण्डधारपम्' इत्यमरमाला । दिश्या अपरिहीनधर्म खल्वेष राजा । यच्छद्वद्वयेन तद्याने स्रष्टन्ते ॥ यत्र द्रुमा अपीति ॥ ८ ॥ अधीती—सधिवास शक्यार्थेले- १ 'उण्भावेदि' (उण्णामयति) ग-घ, 'उम्भावेदि' क. २ 'णिमन्दसेत्ति निनदे' घ, 'विमत्थसेऽवि निनदे' घ, 'निकाने' म-क. ३ 'मय टन सरमंगोएण पचभिआणिदं अजउत्तेणेव्व व्याहरदि' (मया पुनः सरसयोगेन प्रत्यभिज्ञात मार्य- पुत्र एव व्याहरति) क-प-घ. ४ 'दण्डधार'वम्' ग. ५ 'रामधन्मो' क-घ-T
५६ उत्तररामचरितं [ ३-९ एतानि तानि बहुनिर्झरकन्दराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥ सीता—( दृष्ट्वा ) दिट्ठिआ कहं पहादचन्दमण्डलावाण्डुरपरिक्खामदु- व्वलेन आआरेण अअं णिअसोम्मगम्भीराणुभावमेत्तपच्चहिजाणिओ अज्ज- उत्तो जेव्व । भगवदि तमसे धारेहि मं । दिष्ट्या कथं प्रभातचन्द्रमण्डलापाण्डु- परिक्षामदुर्बलेनाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञातव्य आर्य- पुत्र एव । भगवति तमसे धारय माम् । ( इति तमसामाश्लिष्य मूर्च्छति । ) तमसा—वत्से समाश्वसिहि समाश्वसिहि । ( नेपथ्ये । ) अनेन पञ्चवटीदर्शनेन अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः । उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥ हा प्रिये जानकि । तमसा—( स्वगतम् । ) इदं तदाशङ्कितं गुरुजनेन । सीता—( समाश्वस्य । ) हा कहं एदं । हा कथमेतत् । ( पुनर्नेपथ्ये । ) हा देवि दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि । सीता—हद्धी हद्धी । मं मन्दभाइणिं वाहरिअ आमीलंतणेत्तणीलुप्पलो मुच्छिदो जेव्व । हा कहं धरणीउट्ठे णिरुद्धणिस्सामणीसहं विपरहत्थो । त्यर्थः । तान्येतानीत्यन्वयः । गोदावरीं परितः सरति व्याप्नोति गोदावरी- परिसरः । तटानीति प्रमाद् 'तटो भृगु' इत्यमरसिंहेनाभिधानात् । अत एव । 'तीरे तटोऽस्त्री पुंस्येव भृगौ' इति शब्दमाला । दिष्ट्या कथं प्रभात- चन्द्रमण्डलपरिक्षाम धूसरेणाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभि- ज्ञातव्य आर्यपुत्र एव । भगवति तमसे धारय माम् ॥ आकारेण आकृत्या उपलक्षित । 'स्वके नित्ये निजम्' इत्यमर । 'अनुभावः प्रभाव ॥ अन्तर्लीनस्य दुःखाग्नेरिति ॥ ९ ॥ उद्दामं उद्भटं यथा तथा । धूम- स्योत्पीडः । 'कलिकाङ्कुरयो' इति मकुटः । 'अज्ञानभ्रममूर्च्छादौ मोह' इति कपिलः । प्राक् आदी ॥ ९ ॥ गुरुजनेन लोपामुद्रयेति पूर्वोक्तमूह्यम् । विदेहेति ध्वनि । हा धिक् हा धिक् । मां मन्दभागिनीं व्याहृत्य मीलन्नेत्र- नीलोत्पलो मूर्च्छित एव । हा कथं धरणीपृष्ठे निरुद्धनिःसहनिश्वास पतितः । 'समौ निःसहदुःसहौ' इति निकाण्डशेषः । विप्रलब्ध इति पाठे वञ्चित १ 'मथोद्दाम' घ. २ 'तावद्' न. ३ 'जनेनापि' य-घ.
३-११ ] उत्तररामचरितं ५७ भअवदि तमसे परित्ताएहि परित्ताएहि । जीवावेहि अज्जउत्तं । हा धिक् हा धिक् । मा मन्दभागिणीं-व्वाहिलामीलितेननीलोत्पलो मूर्छित एव । हा कथं धरणीपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः । भगवति तमसे परित्रायस्व परि- त्रायस्व । जीवयार्यपुत्रम् । ( इति पादयोः पतति । ) तमसा—त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम् । प्रियस्पर्शो हि पाणिस्ते तत्रैष निरतो जनः ॥ १० ॥ १-४ सीता—जं होदु तं होदु । जहा भअवदी आणवेदि । यद्भवतु तद्भवतु । यथा भगवत्याज्ञापयति । ( इति ससम्भ्रमं निष्क्रान्ता । ) ( ततः प्रविशति भूम्यां निपतितः सालयां सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः । ) सीता—( किञ्चित्प्रहर्षम् । ) जाने ढण पञ्चाअदं विअ जीविदं तैल्लो- अस्स । जाने पुन प्रत्यागतमिव जीवितं त्रैलोक्यस्य । २ रामः—हन्त भोः किमेतत् । १-२श्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीवितपुनःपरितर्पणोऽयं सञ्जीवनौषधिरसो नु हृदि प्रसिक्तः ॥ ११ ॥ इत्यर्थः । जीवितेनेति शेषः । भगवति तमसे परित्रायस्व जीवयार्यपुत्रम् ॥ त्वमेव ननु कल्याणीति ॥ १० ॥ जगत्पतिपदमहिम्ना त्वं लक्ष्मीरिति भावो व्यज्यते । तथा च रामायणे—'सीता लक्ष्मीर्भवान्विष्णुः' इति । ते ययं यत्र यस्यां तयोस्त्वर्थे । एष जनः रामः ॥ १० ॥ यद्भवतु तद्भवतु । यथा भगवती शाज्ञापयति । जाने पुन प्रत्यागतमिव जीवितं त्रैलोक्यस्य । एतेन रामस्य त्रैलोक्यस्य च एकापन्नधर्मत्वादद्वैतमेव प्रामाणिकमिति कविना वेदान्त- मार्गो दर्शित इति बोध्यम् । अत एव 'हरिरेव जगज्जगदेव हरिः' इति, 'सर्वं विष्णुमयं जगत्' इति, 'भूतानि विष्णुर्भुवनानि विष्णुः' इति प्रायः । भो इति मनः प्रति सम्बोधनम् ॥ अथ स्पर्शं द्वाभ्यां विशिनष्टि ॥ आश्च्योतनं नु इति ॥ ११ ॥ 'रसादिर्भूतये यत्स्याद्वस्तुनीभिः प्रपीडनम् । तदाश्च्योतनमाश्च्योत- श्च्योतनं' इति च द्विरूपः । आ समन्ताद् श्च्योतनं गलनं वा । अत एव 'दृष्टोत्तद्भिर्नयनाम्बुभिः' इति भल्लटाख्यातभारतचम्पौ । नु विन्दु । 'पुंसि वा हरिचन्दनम्' इत्यमरः । करकन्दलः किरणसमष्टिः । 'कन्दे गोले समष्टौ १ 'तत्रैव निरतो मनः' व; 'तत्रैव नियतो भरः' घ. २ 'त्रैलोक्यनाथस्य' सं-घ. ३ 'प्रक्षोदनं' घ-व. ४ 'जीविततरोः परी-' व-घ.
५८ उत्तररामचरितं [ ३-१२ अपि च। स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च । सन्तापजां सपदि यः परिहृत्य मूर्च्छा- मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥ सीता-(ससाध्वसोत्कम्पमपसृत्य ।) एत्तिअं जेव्व दाणिं मे बहुदरं । एतावदेवेदानीं मे बहुतरम् । रामः-(उपविश्य ।) न खलु वत्सलया सीतादेव्याभ्युपपन्नोऽस्मि । सीता-हद्धी हद्धी । किं त्ति मं अणउत्तो मग्गिस्सदि । हा धिक् हा धिक् । किमिति मामार्यपुत्रो मार्गिष्यते । रामः-भवतु । पश्यामि । सीता-भअवदि तमसे ओसरह्म दाव । मं पेक्खिअ अणब्भणुण्णादेण संणिहाणेण राजा अहिअं कुप्पिस्सदि । भगवति तमसे अपसरावस्तावत् । मां प्रेक्ष्यानभ्यनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति । तमसा-अयि वत्से भागीरथीप्रसादाद्वनदेवतानामप्यदृश्यासि संवृत्ता। सीता-हुम्, अत्थि एदं । हुम्, अस्त्येतत् । च कन्दल' इति संसारावर्त्तः । आ समन्तात् तप्तं च तत् जीवितं । पुनः परि परितः तर्पयतीति तर्पण इत्यर्थः । 'तर्पणं प्रीणावने' इत्यमरः । प्रकर्षेण सिञ्च प्रशब्दः पादपूरणे इति केचित् । 'सम्प्रो नु माया नु' इत्यस्यव्या- ख्यातशाकुन्तलश्लोकानुकारणामिव एतत्पद्यानुकारयोः पुनरुक्तिः क्षन्तव्या ॥ ॥ ११ ॥ स्पर्शः पुरा परिचित इति ॥ १२ ॥ नियतं नियमप्राप्तं यथा तथा । सम्यक् जीवयतीति सञ्जीवनः । स स्पर्शः । आनन्दनेन आनन्द- प्रापणेन सभाजनेन वा । जडतां शीतलतां स्तब्धतां वा ॥ १२ ॥ एतावदे- वेदानीं मे बहुतरं एतावज्जीवनमिति भावः । बहुतरं सुखमिति शेषः । 'व- त्सलस्तु प्रसन्न' इति हारावली । अभ्युपपन्नः अनुगृहीतः ॥ हा धिक् हा धिक् कयमार्यपुत्रो मां निर्दिशति । भगवति तमसे अपसरावस्तावत् । मां प्रेक्ष्य अनभ्यनुज्ञातसन्निधाना राजा कोपिष्यति । वनदेवतानामपीति- किमुत अन्यजनानामिति भावः । हुं अस्त्येतत् । हुमित्याकर्षणेनाभिनयः । 'रामो नाम बभूव हु' इति लीलांशुकः । ससाध्वसगद्गदमिति कथन १ 'मोहनश्च' इति क-घ, 'मोदनश्च' इति घ.
३-१२] उत्तररामचरितं ५९ रामः—हा प्रिये जानकि । सीता—( ससाध्वंमगद्गदम् ।) अअउत्त असदिसं क्खु एदं इमस्स वुत्तन्तस्स । ( साखम् ।) अहवा किं त्ति वज्जमई जन्मान्तरेसु वि पुणो असं- भाविददुलहदंसणस्स मं लेइअ मन्दभाइणिं उद्दिसिअ वच्छलस्स १ एव्वंवा- दिणो अज्जउत्तस्स उवरि णिरणुकोसा भविस्सं ।' अहं एदस्स हिअअं जाणामि ममावि एसो । आर्यपुत्र असदृशं खल्वेतदस्य वृत्तान्तस्य । अथवा किमिति वज्रमयी जन्मान्तरेष्वपि ३ पुनरसम्भावितदुर्लभदर्शनस्य मामेव मन्द- भागिनीमुद्दिश्य वत्सलस्यैवंवादिन २ आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेतस्य हृदयं जानामि ममाप्येषः । रामः—( सर्वतोऽवलोक्य सनिर्वेदम् ।) हा न किंचिदत्र । सीता—भगवदि तमसे तदा णिक्कारणपरिच्चाइणो वि एदस्स एव्वंवि- रामेणाहं दृष्टासीति भ्रान्तेति बोध्यम् । 'गद्गदं स्खलिताक्षरम्' इति अम- रमाळा। आर्यपुत्र आर्यपुत्र असदृशं खल्वेतदस्य वृत्तान्तस्य । 'वृत्तान्तस्तु प्रयोगे च व्यवहारे च' इति पद्ममाला । तथा वृत्तान्तस्य प्रिये जानकि प्रयोगस्य व्यवहारस्य वा । एतत् निरूपणं अभिनयं वेति शेषः । असदृशं अनुचितं जात्यित्यर्थे ॥ अथ स्वमानसं प्रत्याह-अहवेति । अथवा किमिति वज्रमयी जन्मान्तरेषु पुनरसम्भाविततुलाप्रलब्ध्यदर्शनस्य मा मन्दभागिनीमु- द्दिश्यैवं वत्सलस्यैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि । अहमेवैतस्य हृदयं जानामि । एतेषामपि मम । वज्रमयी अतिकठोरेति यावत् । ज- न्मान्तरेषु आगामिजन्मसु । पुनस्संभावितं तुलाप्रलब्धस्येव घटाशिखर- शलाकाया इव । अवधानविशेषलभ्यं दर्शनं यस्य । 'तुला घटा' इति, 'शि- खराग्रलयोरग्रं' इति, 'लब्धं प्राप्ते तुलानास्थ्यशालाकायां च' इति मेदिनी- हैमकेदाराः । मन्दं च तत् भागः धीसमूहः सोऽस्या अस्तीति मन्दभा- गिनी । तदिदं कोकनीलादिमुरारिप्रयोगमहृदनीयम् । एवमविशयेन वत्स- लस्य प्रसन्नस्य । एवं प्रिये जानकि इत्यादिप्रेमपुरस्सरमिति यावत् । निरनु- क्रोशा निर्दया । ममेति हृदयं जानातीत्यर्थे । अत्र षष्ठ्यर्थे बहवः प्रांशुतर- श्रीप्रहर्तुक्षाममुपागर्वजववृत्तीदवाच्याभ्यंचे इति दिक् ॥ भगवति तदा नि- ष्कारणपरित्यागिनोऽपि नामितस्य एवंविधेन दर्शनेन कीदृशी मे हृदयावस्था । 'नाम प्रसिद्धौ खेदादौ' इति जयः । एवंविधेन निष्फलेनेत्यर्थः । अवस्थां १ 'समन्यु-' क-घ-च. २ 'एतद्वचनम्' क-घ-च. ३ 'जन्मान्तरे समा- वित-' घ.
घेण दंसणेण केरिसी' मे हिअभवावत्था । भगवति तमसे तया निष्कारणपरि- त्यागिनोऽप्येतस्यैवंविधेन दर्शनेन कीदृशी मे हृदयावस्था । तमसा—जानामि वत्से जानामि । तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीर्धेऽस्मिञ्झटिति घटनात्स्तम्भितमिव । प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन्क्षण इव ॥ १३ ॥ रामः—देवि प्रसाद इव मूर्तस्ते स्पर्शः स्नेहाईशीतलः । अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥ १४ ॥ सीता—एदे क्खु ते अगाधमाणसंदंसिदसिणेहसंभारा आणन्दणिस्स- न्दिणो सुहामआ अज्जउत्तस्स उल्लावा । जाणे पच्चएण णिकारणपरिच्चाअ- सल्लिदोवि बहुमदो मह जम्मलाहो । एते खलु तेऽगाधमानसदर्शितस्नेहस- म्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । येषां प्रत्ययेन निष्कारणपरित्यागशलितोऽपि बहुमतो मम जन्मलाभः । वर्णयति ॥ तटस्थं नैराश्यादिति ॥ १३ ॥ नैराश्यात् निराशत्वात् । तटस्थं उदासीनम् । विप्रियं परित्याग । तद्वशात् । कलुषं आविलम् । झटिति सहसा । घटनात् निष्फलसम्बन्धादपि । स्तम्भितं संजातस्त- म्भम् । 'स्तम्भो जडीभावे' इति नन्ददधि ( ? ।) तस्य रामस्य । करुण- रसैः । गाढकरुणं भृशदयम् । क्षणे कालविशेषे । द्रवीभूतमिव । हृदयं एक सदपि परित्यागतानानावस्थं वर्तत इति भावः ॥ १३ ॥ प्रसाद इव मूर्त इति ॥ १४ ॥ मूर्तः मूर्तिमान् । स्नेहाद्वैत्वत्र सन्धिसङ्कटं घटनात् स्तम्भित इव क्षन्तव्यम् । आनन्दयति तोषयति । नन्दिनीति कवेरचा- तुर्यम् । तथापि नन्दयतीति धातुबलादवान्तरभेद ऊह्यः । नन्दिनी प्रथ- मैकवचनम् । नन्दिनी त्वं पुन क्ववासि इत्यर्थः । पुनश्शब्दो वाक्यालङ्कारे । नन्दिनि इति सम्बोधन इति केचित् । तन्न । देवीति सम्बोधनरयैव प्राद्य- स्यात् ॥ १४ ॥ एवे खलु ते अगाधमानसदर्शितस्नेहसम्भवाः आनन्दनिष्य- न्दिनः सुधामया आर्यपुत्रस्यालापा । येषा प्रत्ययेन निष्कारणपरित्यागश- १ 'कीदिसो विअ मे हिअआणुबन्धोत्ति ण आणामि' ( कीदृश इव मे हृदयानु- बन्ध इति न जानामि) क-ख-घ. २ 'घटनोत्तम्भितमिव' घ-घ. ३ 'अद्याप्योऽ ह्लादयति' घ-घ. ४ 'नन्दिनि' क-घ-न-व. ५ 'अगाधदसिद' क-घ-घ.
३-१४] उत्तररामचरितं ६१ रामः-अथवा कुतः प्रियतमा । नूनं सङ्कल्पाभ्यासपाटवोपादान एव रामभद्रस्य भ्रमः । - (नेपथ्ये) अहो महान्प्रमादः प्रमादः । ('सीतादेव्याः सकरकलितैः' इत्यर्धं पठ्यते ।) रामः-(सकरुणौत्सुक्यम् ।) किं तत् । (पुनर्नेपथ्ये । 'वध्वा सार्धं' इत्युत्तरार्धं पठ्यते ।) सीता-को दाणिं अहिटंविस्सइ । क इदानीमभियोक्ष्यते । रामः-क्वासौ क्वासौ दुरात्मा यः प्रियायाः पुत्रकं वधूट्वितीयमभिभ- वति । (इत्युत्तिष्ठति ।) प्रविश्य सम्भ्रान्ता । वासन्ती-केयं देवो रघुनन्दनः । सीता-कहं पिअसही मे बामन्ती । कथं प्रियसखी मे वासन्ती । वासन्ती-जयतु जयतु देवः । रामः-(निरूप्य ।) कथं देव्याः प्रियसखी वासन्ती । वासन्ती-देव त्वर्यतां त्वर्यताम् । इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदावरीमवतीर्य सम्भावयतु देव्याः पुत्रकं देवः । सीता-हा ताद जडाओ सुण्णं तुए विणा इदं जणहाणम् । हा तात जटायो शून्यं त्वया विनेदं जनस्थानम् । रामः-अहह हृदयमर्मच्छिदः खल्वमी कथोद्घाताः । वासन्ती-इत इतो देवः । स्यतोऽपि बहुमतो जन्मलाभः । सम्भवः उत्पत्तिः शल्यतः शल्यादपि । तथा च ईदृशशल्यनिवारणाय शरीरपातोऽस्तु, एतादृशप्रियवदनायोपभोगाय पुनर्न्जन्मलाभोऽस्त्विति सीताया भाव इति बोध्यम् ॥ सङ्कल्पस्यावभासे भासने यत् पाटवं सामर्थ्यं तदेव उपादानं साधकतमं यस्य, 'करणं सा- धकतममुपादानं' इति विक्रमार्कः । उपादानमिति ध्वनिः । विभ्रमः सीता- सम्बन्धरूपो विलास इत्यर्थः ॥ 'प्रमादोऽनवधानता' इत्यमरः । क इदानी- मभिभविष्यति । कथं प्रियसखी मे वासन्ती । जटायुरित्यदन्तोऽपि शब्दः 'जटायुषु जटायुवत्' इति लिङ्गनिर्णयः । हा तात जटायो शून्यं त्वया जनस्थानम् । मर्मं छिन्दन्ति मर्माच्छिदः । 'उपोद्घात उदाहारः' इति, १ 'पाटवोत्पादितः' घ; 'पाटवोत्पादः' च. २ 'अभिजुञ्जइ' (अभिजुञ्जे) न. ३ 'देव त्वरंतां त्वर्यताम्' इति न. ४ 'जटायुशिखरिदक्षिणेन' व; 'जटायुगिरि' घ. ६ उ०
सीता—भववदि सचं जेव्व वणदेवदा वि म न पेक्खन्ति । भगवति सत्यमेव वनदेवता अपि मां न प्रेक्षन्ते । तमसा—अयि वत्से सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिनीदेव्या- स्तत्किमित्याशङ्कसे । सीता—उदो अणुसरम्ह । ततोऽनुसराव । ( इति परिक्रामति । ) रामः—भगवति गोदावरि नम॑स्ते । वासन्ती—( निरूप्य । ) देव मोदस्व विजयिना वधूटितीयेन देव्याः पुत्रकेण । रामः—विजयतामायुष्मान् । सीता—अम्महे ईंदिसो मे पुत्तओ संवुत्तो । अहो ईदृशो मे पुत्रकः संवृत्तः । रामः—हा देवि दिष्ट्या वर्धसे । येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण व्याकृष्टस्ते सुतनु लवलीपल्लवः कर्णमूलात् । १ सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणे वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥ सीता—अविउत्तो दाणिं अअं दीहाउ इमाए सोम्मदंसणाए होदु । अवियुक्त इदानीमय दीर्घायुरनया सौम्यदर्शनया भवतु । रामः—सखि वासन्ति पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन । उद्घात इति पाठे 'उद्घात आरम्भ' इति चामरः ॥ भगवति सर्वथा वन- देवता अपि मां न द्रक्ष्यन्ति । ऐश्वर्यं वनदेवतामाहात्म्यमिति यावत् । मन्दाकिन्याः भागीरथ्या 'गङ्गा मन्दाकिनी भागीरथी च वियदापगा' इति रत्नमाला । ततोऽनुसराव । अञ्चहे ईदृशो मे पुत्रकरसंवृत्तः ॥ येनो- द्गच्छदिति ॥ १५ ॥ उद्गच्छत् उदयच्च तत् बिसं मृणालं तदेव किस- लयम्, तद्वत् स्निग्धो मसृणः दन्ताङ्कुरः यस्य । किसलयमिति पदं ब- र्हिमांक्ष्ण्यमानसूचकम् । लवलो 'राय आवळी' इति महाराष्ट्राः । कर्ण- मूलात् धवखोरादिभागात् । ध्वनिश्च । तस्य कल्याणस्य करुण्यनुवर्तना- दिरूपस्य इत्यर्थ ॥ १५ ॥ अयि पुत्र इदानीं दीर्घायुरनया सौम्यदर्शनया करिण्या सह भवतु । अयीति वासन्तीं प्रति सम्बोधनम् । वत्सेन करि- १ 'कर्णपूरात्' घ-प.
३-१६] उत्तररामचरितं ६३ लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः । सेकः शीकरिणा करेण विहितः कामं विरामे पुन- र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥ सीता—भअवदि तमसे अयं दाव ईरिसो जादो । दे उण ण जाणामि कुसलवा एत्तिपण कालेण केरिसा संवुत्तेत्ति । भगवति तमसे अय तावदीदृशो जातः । तौ पुनर्न जानामि कुशलवावेतावता कालेन कीदृशौ संवृत्ताविति । तमसा—यादृशोऽय तादृशौ तावपि । सीता—ईरिसी अहं मन्दभाइणी जाए ण केवलं णिस्सहो अज्जउत्त- विरहो पुत्तविरहो वि । ईदृशह मन्दभागिनी यस्या न केवलं निःसह आर्य- पुत्रविरहः पुत्रविरहोऽपि । तमसा—भवितव्यतेयमीदृशी । सीता—किंवा मए पसूदाए जेण तारिसवि मह पुत्तआणं ईसिणिरल- कोमलधवलदसणुंजलकवोलं अणुपद्धमुद्धकाअलीविहसिदं णिवद्धकाअसि- खण्डअं अमलमूहपुण्डरीअजुभलं ण परिचुम्बियं अज्जउत्तेण । किं वा मया प्रसूतया येन तादृशमपि मम पुत्रकयोरीषद्विरलकोमलधवलदशनोज्ज्वलंक- पोलमनुबद्धमुग्धकाकलीविहसितं निबद्धकाकशिखण्डकमलमुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण । पुनस्तेन ॥ लीलोत्खातमृणालेति ॥ १६ ॥ यत् यस्मात्कारणात् । छे- देषु भङ्गेषु । कवलार्थरूपदानविभागेषु इति यावत् । 'छेदो विभजने भङ्ग- व्वदौ' इति मङ्कटः । पुष्यच्च तत् पुष्करे इत्याग्रे वासितं सजात- वासम् । कामं यथेप्सितम् । विरामे विश्रान्तिसमये 'विश्रान्तौ च विरामे' इति नन्दी । अनरालं अवक्रम् ॥ १६ ॥ भगवति तमसे अयं तावदीदृशो जातः । तौ पुनर्न जानामि एतावता कालेन कीदृशौ संवृत्ताविति । ईदृशस्मि मन्दारिक्किनी (मन्दभागिनी ३) यस्या न केवलं निस्सह आर्यपुत्रविरहः, पुत्रविर- हश्च । किं वा मया प्रसूतया यस्या मम पुत्रयोस्तादृशमीषद्विरलद्गलितधवल- दशनोज्ज्वलितकपोलमनुबद्धमुग्धकाकलीहासितस्योज्ज्वलं मुखपुण्डरीकं न चु- म्बितमार्यपुत्रेण । विरलं यथा तथा फुल्लप्रलिते प्रसादसूचको धवलशब्दः । 'प्रसादे तु धवलता' इति समयपद्धतिः । काकलीतुरुनिहासितमिति विवेकः । 'काकली तु कले सूक्ष्मे ध्वनौ' इत्यमरः । 'मुखस्य दर्पणान्जेन्दुपु- १ 'सम्पादिता' घ. २ 'लीलातपत्रम्' घ. ३ 'दसाणुबद्धमज्जन' (दशानुबद्धमज्जन) न.
६४ उत्तररामचरितं [३-१८ तमसा—अस्तु देवताप्रसादात् । सीता—भगवदि तमसे एदिणा अवच्चमेसुमरणेण उस्ससिदपण्डुद- त्थणी दांणि वच्चाणं पितुणो संणिहाणेण खणमेत्तं संसारिणीम्हि संवृत्ता । भगवति तमसे एतेनापत्यसम्मरणेनोच्छ्वसितप्रस्रुतस्तनी इदानीं वत्सयोः पितुः संविधानेन क्षणमात्रं संसारिण्यस्मि संवृत्ता । तमसा—किमत्रोच्यते । प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य । परं चैत- दन्योन्यसंश्लेषणं पित्रोः। अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरकोऽयमपत्यमिति बध्यते ॥ १७ ॥ वासन्ती—इतोऽपि देवः पश्यतु । अनुदिवसमवर्धयत् प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् । मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥ सीता—( सकौतुकस्नेहास्रम् ) एसो सो एसो सो । एष स एष सः । न्दरीकादय' इति शृङ्गारमञ्जरी । अस्तु इति युज्यतमित्यनेनानुग्रहः । भगवति तमसे एतेनापत्यसम्मरणेन उच्छ्वासितप्रस्रुतस्तनी इदानीं वत्सपितु- स्सन्निधानेन क्षणमात्रं संसारिण्यस्मि सवृत्ता । उच्छ्वसितं उद्भूतं प्रस्रुतं स्रव ययोस्तादृशौ स्तनौ यस्या । वत्सयोः कुशलवयोः । पितुः निजभर्तुः रामस्येत्यर्थः । एतेन कपिना निजं द्राविडत्वमाविष्कृतमिति बोध्यम् । क्षणेवि- क्ये प्रमादः । क्षणेति साधु । क्षणस्य अङ्ग्यादिगणे पठितत्वात् । प्रसवः सन्तान । स्नेहस्य प्रेम्ण । प्रकर्षः उत्कर्ष । पर्यन्तः अवधि यस्य । प्रसदिति प्रसव इत्यभिधेयं अपत्यमित्यर्थ । परं उत्कृष्टं वक्तुमशक्यमिति भावः । पित्रोः संश्लेषणं सुरतारम्भकं उपगूहनमिति यावत् ॥ तदेव विशि- नष्टि— ॥ अन्तःकरणतत्त्वस्येति ॥ १७ ॥ दम्पत्योः तरुणस्त्रीपुरुषयोः । अन्तःकरणमिति यत्तत्त्वं इन्द्रियं तस्य स्नेहेन प्रेम्णा सह संश्रयात् संमेलनाद्धेतोः । अयमनुभवसिद्धः । आनन्दस्य ग्रन्थिः बीजं तस्य रेक- रैचनं तदेवापत्यमित्यर्थ । तथा च दम्पत्योरन्त करणप्रेमपूर्वसभोगस्खलित- आनन्दरस एवापत्यमिति भाव । 'तत्त्वं तु ब्रह्मण इन्द्निये' इति, 'ग्रन्थिः पर्वेणि बीजे च' इति, 'उत्सर्गो रेकरेचने' इति हारावलीकपिलविक्र- मार्काः ॥ १७ ॥ अनुदिवसमवर्धयदिित ॥ १८ ॥ यं शिखण्डिनम्। १ 'ताणं अ' क-च; 'ताणं च' घ. २ 'प्रसृष्ट' ब. ३ 'घटयते' न. ४ 'अल- ङ्गसमदताण्डवोल्लसत्वान्तषदमचिरोद्गतमुग्धलोलबर्हः' घ-द.
३-२१ ] उत्तररामचरितं ६५ रामः—मोदस्व वत्स मोदस्व । सीता—एव्वं होदु । एवं भवतु । रामः—भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः- प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या । करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९ ॥ हन्त तिर्यञ्चोऽपि परिचयमनुरुध्यन्ते । कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् । सीता—(निरूप्य सास्रम् ।) सुट्ठु पच्चहिआणिदं अज्जउत्तेण । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । रामः—स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥ वासन्ती—अत्र तावदासनपरिग्रहं करोतु देवः । (राम उपविशति ।) वासन्ती— नीरन्ध्रबालकदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते । अत्र स्थिता तृणमदार्द्रदृशो यदेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥ मनेति ध्वनिः । मकुटेनि भ्रान्तः पाठः । 'अमकुडादिषु' इति प्राकृतव्याकरणे वररुचिज्ञासनाद् मुकुटेति साधुः । शिखावला कदम्ब्ये नीपवृक्षे ॥ एष स वत्सेति मयूरं प्रति संबोधनम् ॥ भ्रमिषु कृतपुटेति ॥ १९ ॥ भ्रमिषु भ्रमणेपु । कृतपुटान्तः नेत्रकोशान्तरे यासां मण्डलानां मण्डलाकारैर्हि- ण्डानाम् । आवृत्तिः पौनःपुन्यं तादृशं यच्चक्षुः नेत्रं तेन सह प्रचलिता कम्पिता या चतुला चतुरा भ्रूः तस्याः ताण्डवैः दृष्टिरूपैः नर्तनैः कर- गेन । एकपदमेतत् । त्वां मण्डयन्त्या भूषयन्त्या । आवृत्तीति चतुरिति च पदद्वयं विशेषणविशेष्यरूपं कर्म । ताण्डवैर्मण्डयन्त्येति वार्थः ॥ अनुरु- ध्यन्ते अनुवर्तन्ते । यमेतिध्वनिः । सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण । देव्याः इतीदं मातृः स्मरतीतिवदुपपन्नम् ॥ कतिपयकुसुमेति ॥ २० ॥ यतः यस्माद् ॥ २० ॥ नीरन्ध्रबालेति ॥ २१ ॥ प्रथमचरणमेकपदम् । 'तृणाया- १ 'कृतचक्षुः' घ, 'मण्डलावृत्ति चक्षु.' ग. २ 'य आसीद्' घ-च. ३ 'दत्त- ऽनेन कदली०' क-घ-च. ४ 'वनगोचरैस्स्मः' म-टी