भारतकोश
संग्रह पर लौटें

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

रजसा शुध्यते नारी नदी वेगेन शुध्यते । भस्मना शुध्यते कांस्यं पुनःपाकेन मृन्मयम् ॥ ५८ ॥ मद्यैर्मूत्रैः पुरीषैर्वा श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ ५९ ॥ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यतीति ॥ ६० ॥ अद्भिरेव काञ्चनं पूयते ॥ ६१ ॥ तथा रजतम् ॥ ६२ ॥ ताम्रमम्लेन शुध्यति ॥ ६३ ॥ अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ॥ ६४ ॥ अङ्गुल्यमृषीणाम् ॥ ६५ ॥ अङ्गुल्यग्रेषु मानुषम् ॥ ६६ ॥ पाणिमध्य आग्नेयम् ॥ ६७ ॥ प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यम् ॥ ६८ ॥ रोचत इति सायंप्रातरशनान्यभिपूजयेत् ॥ ६९ ॥ स्वादितमिति पित्र्ये ॥ ७० ॥ सम्पन्नमित्याभ्युदयिकेष्व्वाभ्युदयिकेष्वेति ॥ ७१ ॥ इति वासिष्ठधर्मशास्त्रे तृतीयोध्यायः ॥ ३ ॥ 58. °कांस्यं ताम्राम्लेन शुध्यति. F. 59. पुरीषैश्च B. H. 68. प्रादेशिनि° P. H. 69. प्रातरशन्यभि°. F. 70. पित्र्येषु. F.

१५ प्रकृतिविशिष्टं चातुर्वर्ण्यं संस्कारविशेषाच्च ॥१॥ ब्राह्मणोस्य मुखमासीद्वाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत । इत्यपि निगमो भवति ॥२॥ गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचि- च्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते ॥३॥ सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च ॥४॥ पितृदेवतातिथिपूजायामप्येवं पशुं हिंस्यादिति मानवम् ॥५॥ मधुपर्के च यज्ञे च पितृदैवतकर्मणि । अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ॥६॥ (मनु० ५।४१।।) नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥७॥ तस्माद्यज्ञे वधोऽवध इत्ये- अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं (२।३८) वा पचेदेवमस्मा आतिथ्यं कुर्वन्तीति ॥८॥ इत्यत्र । उदकक्रियाशौचं च द्विवर्ष प्रभृति ॥९॥ आ दन्तजननादित्येके ॥ १० ॥ शरीरमग्निना संयोज्यानवेक्षमाणा अपोऽभ्यवयन्ति ॥ ११ ॥ सव्येतराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्नयुग्मासु दक्षिणामुखाः ॥ १२ ॥ पितॄणां वा एषा दिग्या दक्षिणा ॥ १३ ॥ गृहान्प्रव्रजित्वा प्रस्तरे त्र्यहमनश्नन्त आसीरन् ॥ १४ ॥ IV. 3. असंस्कारो H. 4. प्रजनं च. F. H. 5. °देवाति° H. 8. यवेदे° H. °आदित्यं. H. 9. द्विवर्षात्प्रभृति. F. 11. अपो नयन्ति F. अनपेक्ष्यमाणाः E. H. 12. सव्योत्तराभ्यां B. F. H. कुर्वन्त्ययुग्मा दक्षि° F. कुर्वीरन्नयुग्मा दक्षिणा मुख्यः H. 14. प्रस्तारे E. H. वासिष्ठधर्म. ३

१६ अशक्तौ क्रीतोत्पन्नेन वर्तेरन् ॥ १५ ॥ दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥ १६ ॥ सपिण्डत्वं साप्तपुरुषं विज्ञायते ॥ १७ ॥ प्रत्तानां च स्त्रीणां त्रिपुरुषं विज्ञायते ॥ १८ ॥ प्रत्तानामितरे कुर्वीरंस्ताश्च तेषाम् ॥ १९ ॥ जननेप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ २० ॥ मातापित्रोर्वा ॥ २१ ॥ तन्निमित्तत्वान्मातुरित्येके ॥ २२ ॥ अथाप्युदाहरन्ति । नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति ॥ २३ ॥ तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ॥ २४ ॥ रात्रिशेषे द्वाभ्याम् ॥ २५ ॥ प्रभाते तिसृभिः ॥ २६ ॥ ब्राह्मणो दशरात्रेण ॥ २७ ॥ पञ्चदशरात्रेण राजन्यः ॥ २८ ॥ विंशतिरात्रेण वैश्यः ॥ २९ ॥ शूद्रो मासेन शुध्यति ॥ ३० ॥ अथाप्युदाहरन्ति । अशौचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योन्यां च जायते ॥ ३१ ॥ 17. सपिण्डः सप्तपुरुषं. F. H. 18. अप्रत्तानां B. H. 19. B. ed. omits ताश्च तेषां which Sūtra all my MSS. have. 20. जननेप्येवमेव निपुणां F. 23. संसर्ग नैव F. अशुभिर्भवति तच्च पुंसि न H. Bh. 28. भूमिपः F. 31. जायत इति. F. H.

१७ अनिर्दशाहे परशवे नियोगाद्भुक्तवान्द्विजः । कृमिर्भूत्वा स देहान्ते तां विष्ठां समुपानुते इति ॥ ३२ ॥ द्वादश मासान्द्वादशार्धमासान्वान्नश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥३३॥ ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचम् ॥ ३४ ॥ सद्यः शौचमिति गौतमः ॥ ३५॥ देशान्तरस्थे प्रेते ऊर्ध्वं दशाहाच्छ्रुत्वैकरात्रमाशौचम् ॥ ३६ ॥ आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववच्छौचमिति गौतमः ॥ ३७ ॥ यूपचितिश्मशानरजस्वलासूतिकाशुचींश्च स्पृष्ट्वा सशिरस्कोऽभ्युपेया- दप इत्यप इति ॥ ३८ ॥ इति वासिष्ठधर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥ अस्वतन्त्रा स्त्री पुरुषप्रधाना ॥ १ ॥ अनग्निकानुदक्या वामृतमिति विज्ञायते ॥ २ ॥ अथाप्युदाहरन्ति । पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हतीति ॥ ३ ॥ तस्या भर्तुरभिचार उक्तं प्रायश्चित्तं रहस्येषु ॥ ४ ॥ मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ५ ॥ त्रिरात्रं रजस्वलाशुचिर्भवति ॥ ६ ॥ 32. अन्तर्दशाहे परशवे नियोगाद्यस्तु भुक्तवान् F. तां विष्ठामुपजीवति. F. 38. पूय instead of यूप B. Ban. ed. सुतका H. अशुचीनुपस्पृश्य सशिरा अभ्युपेयादपः F. V. 2. अमृतं E. H. अनृतं F. अमृतिं Bh. 3. अत्र° F. अथाभ्युदा° H. पुत्राश्च F. H. 4. मातुः° F. नर्तुरतीवारा Bh. E. H.

सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायादधः शयीत न दिवा स्वप्या- दग्निं स्पृशेन्न रज्जुं सृजेन्न दन्तान्धावयेन्न मांसमश्नीयान्न ग्रहान्निरी- क्षेत न हसेन्न किंचितदाचरेन्न धावेतदखर्वेण पात्रेण पिबेदञ्जलिना वा पिबेल्लोहितायसेन वा ॥ ७ ॥ विज्ञायते हि । इन्द्रस्त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मगृहीतो महत्तमा- धर्मसंबद्धोहमित्येवमात्मानममन्यत । तं सर्वाणि भूतान्यभ्यक्रोश- न्भ्रूणहन्भ्रूणहन्निति । स स्त्रिय उपाधावदस्यै मे भ्रूणहत्यायै तृतीयं भागं प्रतिगृह्णीतेति । ता अब्रुवन्किं नो भूषादिति । सोन्ववीद्वरं वृणी- ध्वमिति । ता अब्रुवन्नृतौ प्रजां विन्दामह इति काममा विजनितोः संभवामेति । तथेति ताः प्रतिजग्गृहुः सैषा भ्रूणहत्या मासि मास्या- विर्भवति तस्माद्रजस्वलाया अन्नं नाश्नीयाद्भ्रूणहत्याया एवैषा रूपं प्रतिमुच्यास्ते ॥ ८ ॥ तदाहुः । अञ्जनाभ्यञ्जनमेवास्या न प्रतिग्राह्यं तद्धि स्त्रिया अन्न- मिति । तस्मात्तस्यै च तन्न च बीभत्सन्ते मेयमुपागादिति ॥ ९ ॥ उदक्यास्त्वासते येषां ये च केचिदनग्नयः । कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिण इति ॥ सर्वे ते शूद्रधर्मिण इति ॥ १० ॥ इति वासिष्ठधर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥


  1. जगन्नाभ्यन्द्यान्तासु स्नायादधः Bh. E. H. ग्रहान्निरीक्षेत B. H. °निरीक्षेन्न F. H. मृन्मयपात्रेण marginal gloss in B. दक्षिणपाणिना instead of अञ्जलिना marginal gloss in B. 8. ब्रह्महत्यायै F. भ्रूणहत्यायं Bh. E. H भागं wanted in B. H. गृह्णीतेति E. नोभूषदिति F. H. विजनतोः संभवा- मीति F. H. प्रतियह्रुस्तृतीयं भ्रूणहत्यायाः सैषा F. मासि मासि;ऋतुर्वा भवति B. Ban. ed. 9. तस्मात्तस्मै च B. Ban. ed. Bh. E. F. H. तन्न न F. H. मेधमुपागात Bh. F. H. मेध उपागात E. सेयमुतागात् B. Ban. ed.

१९ आचारः परमो धर्मः सर्वेषामिति निश्चयः । हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ १ ॥ नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः । हीनाचारमितो भ्रष्टं तारयन्ति कथंचन ॥२॥ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ३ ॥ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः । कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥ ४ ॥ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । द्वेप्यक्षरे सम्यगधीयमाने पुनाति तद्ब्रह्म यथा इषेब्दोः ॥ ५ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोल्पायुरेव च ॥ ६ ॥ (मनु० ४।१५७) आचारात्फलते धर्म आचारात्फलते धनम् । आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ७ ॥ सर्वलक्षणहीनोपि यः सदाचारवान्नरः । श्रद्दधानोनसूयश्च शतं वर्षाणि जीवति ॥ ८ ॥ (मनु० ४।१५८) VI. 1. प्रथमो धर्मः E. F. अनाचार° F. हीनाचारः परीतात्मा B. Ban. ed. Bh. E. 3. जातवृक्षाः H. 4. षडङ्गाः सखिलाः B. Ban. ed. H. °उन्मादयितुं H. 8. अपि समुदाचारवांन्नरः F. H.

✲ दक्षिणादाच् इति सप्तम्यन्तादाच् प्रस्तातेरर्थे। २० आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ॥ ९ ॥ उभे मूत्रपुरीषे दिवा कुर्यादुदङ्मुखः । रात्रौ तु दक्षिणाँ कुर्यादेवं ह्यायुर्न रिष्यति ॥ १० ॥ प्रत्यग्निं प्रति सूर्यं च प्रति गां प्रति ब्राह्मणम् । प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ॥ ११ ॥ न नद्यां मेहनं कुर्यान्न पथि न च भस्मनि । न गोमये न कृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु ॥ १२ ॥ छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ॥ १३ ॥ उद्धृताभिरद्भिः कार्यं कुर्यात् ॥ १४ ॥ स्नानमनुद्धृताभिरपि ॥ १५ ॥ आहरेन्मृत्तिकां विप्रः कूलात्ससिकता तु या ॥ १६ ॥ अन्तर्जले देवगृहे वल्मीके मूषकस्थले । कृतशौचावशिष्टा वा न ग्राह्याः पञ्च मृत्तिकाः ॥ १७ ॥ एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । पश्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ १८ ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां तच्चतुर्गुणमिति ॥ १९ ॥ 9. ॰बुद्धिवीर्याणि F. H. 10. तु दिवा B. H. न रिष्यते F. न हिष्यति B. Ban. ed. 11. प्रति च द्विजं F. 12. नचाकृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु Bh. E. F. 17. च instead of वा F. H. 18. उभाभ्यां द्वेतु मृत्तिके F. 19. चतुर्गुणं B. Ban. ed. H.

२१ अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश । द्वात्रिंशत्तु गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥ २९ ॥ आहिताग्निरनङ्गांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥ २१ ॥ व्रतेषु नियमेषु चेज्याध्ययनधर्मेषु ॥ २२ ॥ योगस्तपो दमो दानं सत्यं शौचं श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ २३ ॥ दीर्घवैरमसूया चासत्यं ब्राह्मणदूषणम् । पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥ २४ ॥ ये शान्तदान्ताः श्रुतिपूर्णकर्णाः जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिग्रहे सङ्कुचिताग्रहस्ता- स्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २५ ॥ किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ २६ ॥ शूद्रान्नेनोदरस्थेन यदि कश्चिन्मृतो द्विजः । स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २७ ॥ शूद्रान्नरसपुष्टाङ्गो ह्यधीयानोपि नित्यशः । जुह्वन्वापि जपन्वापि गतिमूर्द्धां न विन्दति ॥ २८ ॥ शूद्रान्नेन तु भुक्तेन मैथुनं योधिगच्छति । यस्यान्नं तस्य ते पुत्रा न च स्वर्गारुहो भवेत् ॥ २९ ॥ 20. द्वाविंशात् H. 21. °अनङ्गह्वान्° H. 23. दया instead of दमः F. H. After this Sūtra F. only reads: नास्तिकः पिशुनश्चैव कृतघ्नो दीर्घरोगकः । चत्वारः कर्मचाण्डाल (जन्मत्वश्चापि पञ्चमः ॥ 25. येषां च दान्ताः श्रुत° F. H. °गृहस्थास्ते F. H. 27. च यः instead of यदि F. कश्चिन्म्रियते F. 28. यज- न्वापि F. जुहुयाद्वा जपन्वापि H.

स्वाध्यायोत्थं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रमाहुः ॥ ३० ॥ आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु । विनश्येत्पात्रदौर्बल्यान्न च पात्रं रसाश्च ते ॥ ३१ ॥ एवं गा वा हिरण्यं वा वस्त्रमश्वं महीं तिलान् । अविद्वान्प्रतिगृह्णानो भस्मीभवति काष्ठवत् ॥ ३२ ॥ नाङ्गनखवादनं कुर्यात् ॥ ३३ ॥ नखैश्च भोजनादौ ॥ ३४ ॥ न चापोज्जलिना पिबेत् ॥ ३५ ॥ न पादेन पाणिना वा जलमभिहन्यात् ॥ ३६ ॥ न जलेन जलम् ॥ ३७ ॥ नेष्टकाभिः फलं शातयीत ॥ ३८ ॥ न फलेन फलम् ॥ ३९ ॥ न कल्को न कुहको भवेत् ॥ ४० ॥ न म्लेच्छभाषां शिक्षेत ॥ ४१ ॥ अथाप्युदाहरन्ति । न पाणिपादचपलो न नेत्रचपलो भवेत् । न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ ४२ ॥ 30. स्वाध्यायायं Bh. E. H. कान्तं instead of क्षान्तं F. H. 31. दौर्ब- ल्यात्तच्च F. तत्र पात्रं Bh. नश्यसेत्पात्रदौर्बलत्वात्तत्पात्रं E. H. 32. एवं गावो B. Ban. ed. H. दारुवत् instead of काष्ठवत् F. 33. नाङ्गानां छेदनं. F. नाङ्गरनखवादनं Bh. 38. फलानि B. Ban. ed. H. फलानि पातयेत् F.

२३ पारम्पर्या- पारंपर्यगतो येषां वेदः सपरिवृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ ४३ ॥ यं न सन्तं न वासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः॥ स ब्राह्मण इति ॥ ४४ ॥ इति वासिष्ठधर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥ चत्वार आश्रमाः ॥ १ ॥ ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः ॥ २ ॥ तेषां वेदमधीत्य वेदौ वेदान्वाविशीर्णब्रह्मचर्यो यमिच्छेत्तमा- वसेत् ॥ ३ ॥ ब्रह्मचार्याचार्यं परिचरेदा शरीरविमोक्षणात् ॥ ४ ॥ आचार्ये च प्रेतेऽग्निं परिचरेत् ॥ ५ ॥ विज्ञायते ह्यग्निराचार्यस्तवेति ॥ ६ ॥ संयतवाक् ॥ ७ ॥ चतुर्थषष्ठाष्टमकालभोजी ॥ ८ ॥ भैक्षमाचरेत् ॥ ९ ॥ गुर्वधीनः ॥ १० ॥ जटिलः शिखाजटो वा ॥ ११ ॥ गुरुं गच्छन्तमनुगच्छेदासीनश्चेत्तिष्ठेच्छयानश्चेदासीन उपासीत १२ आहूताध्यायी ॥ १३ ॥ सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत ॥ १४ ॥ 43 ॰प्रत्यद्वहेतवः H. VII. 5. स्रुते Bh. E. 6. हि त्वाग्निरत्चार्य इति F. 8. भोक्तं H. 12. अनुमछन्नासीनं Bh. E. वासिष्ठधर्मं ४

खट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी ॥१५॥ तिष्ठेदहनि रात्रावासीत ॥ १६ ॥ त्रिरह्नोऽभ्युपेयादप इत्यप इति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥ गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वासमानार्षेयामस्पृष्ट- मैथुनामवरवयसीं सदृशीं भार्यां विन्देत ॥ १ ॥ पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ॥ २ ॥ वैवाहिकमग्निमिन्धीत ॥ ३ ॥ सायमागतमतिथिं नापरुन्ध्यात् ॥ ४ ॥ नास्यानश्नन्गृहे वसेत् ॥ ५ ॥ यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः । सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ॥ ६ ॥ एकरात्रं तु निवसन्मतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ७ ॥ नैकग्रामीण अतिथिविप्रः साङ्गतिकस्तथा । काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥ ८ ॥ श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ॥ ९ ॥ अलं च सोमाय नासोमयाजी ॥ १० ॥ युक्तः स्वाध्याये यज्ञे प्रजनने च ॥ ११ ॥ गृहेष्वभ्यागतं प्रत्युत्थानासनवाक्सूनृतानसूयाभिर्महयेत् ॥ १२ ॥

VIII. 3. इन्धीन्वत Bh. E. H. 4. ॰अवरुन्ध्यात् F. 6. गच्छतीति Bh. E. H. 8. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा F. H. प्राप्ते जले वा E. 10. सोमपानात्सोमयाजी F. 12. प्रत्युत्थानाशनशयनवाक् F. H.

२५ यथाशक्ति चान्नेन सर्वाणि भूतानि ॥ १३ ॥ गृहस्थ एव यजते गृहस्थस्तप्यते तपः । चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥ १४ ॥ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् । सागरे इति मनौ (६।८९) 'तथैवा' एवमाश्रमिनः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ १५ ॥ इति मनौ। यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥ १६ ॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । ऋतौ च गच्छन्विधिवच्च जुह्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ ब्रह्मलोकादिति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥ वानप्रस्थो जटिलश्चीराजिनवासी ॥ १ ॥ ग्रामं च न प्रविशेत् ॥ २ ॥ न फालकृष्टमधितिष्ठेत् ॥ ३ ॥ अकृष्टं मूलफलं सञ्चिन्वीत ॥ ४ ॥ उर्ध्वरेताः ॥ ५ ॥ क्षमाशयः ॥ ६ ॥ मूलफलभैक्षेणाश्रमागतमतिथिमभ्यर्चयेत् ॥ ७ ॥ 13. सर्वभूतानि B. H. 14. च instead of तु F. H. गृहस्थस्तु F. H IX. 1. वानप्रस्थः प्रव्राजनो जटि° H. 3. °अभितिष्ठेत् H. 6. क्षामाशयः F 7. °भक्षेण° H.

३६ दद्यादेव न प्रतिगृह्णीयात् ॥ ८ ॥ वानप्रस्थमुद्दिश्योक्तमिदमुदन्तं वचः। त्रिषवणमुदकोपस्पर्शी ॥ ९ ॥ श्रामणकेनाग्निमाधायाहिताग्निः स्यात् ॥ १० ॥ वृक्षमूलनिकेतन ऊर्ध्वं षड्भ्यो मासेभ्योनग्निरनिकेतः ॥ ११ ॥ दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमित्यानन्त्यम् ॥ १२॥ इति वासिष्ठधर्मशास्त्रे नवमोऽध्यायः ॥ ९ ॥ परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत ॥ १ ॥ अथाप्युदाहरन्ति । अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ २ ॥ अभयं सर्वभूतेभ्योदत्त्वा यस्तु निवर्त्तते । हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥ ३ ॥ सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत् । वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत् ॥ ४ ॥ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । — अयं पूर्वार्द्धः २।८३ इत्यत्र मानवे दृश्यते। उपवासात्परं भैक्षं दया दानाद्विशिष्यत इति ॥ ५ ॥ मुण्डोममोपरिग्रहः ॥ ६ ॥ सप्तागाराण्यसङ्कल्पितानि चरेद्भिक्षाम् ॥ ७ ॥ विधूमे सन्नमुसले ॥ ८ ॥ एकशाटीपरिहितः ॥ ९ ॥ 8. द्रव्यादेव ते प्रति° H. 9. उदकमास्पृशेत् F. 10. श्रावणकेन B. Ban. ed. F. 11. आवर्णकेण E. Bh. 11. वृक्षमूलिकः B. F. H. X. 1. °पक्षिणां H. 4. सन्न्यजेत् instead of सन्न्यसेत् B. Ban. ed. H.5. °यामः F. H. मतः instead of तपः E. 6. अमयो° H. 7. भैक्षं F. H. सप्तगौराणि H. 9. °परिवृतः F.

२. अध्याय ७-१५: भक्ष्य-अभक्ष्य, शुद्धि व पंचमहायज्ञ

३७ अजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः ॥ १० ॥ स्थण्डिलशायी ॥ ११ ॥ अनित्यां वसतिं वसेत् ॥ १२ ॥ ग्रामान्ते देवगृहे शून्यागारे वा वृक्षमूले वा ॥ १३ ॥ मनसा ज्ञानमधीयानः ॥ १४ ॥ अरण्यनित्यः ॥ १५ ॥ न ग्राम्यपशूनां सन्दर्शने विचरेत् ॥ १६ ॥ अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्येति ॥ १७ ॥ अव्यक्तलिङ्गोऽव्यक्तचारः ॥ १८ ॥ अनुन्मत्त उन्मत्तवेषः ॥ १९ ॥ अथाप्युदाहरन्ति । न शब्दशास्त्रभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य । न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य ॥ २० ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । (मनौ ६।५०।।) नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २१ ॥ अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । (मनौ ६।५७।।) प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विवर्जितः ॥ २२ ॥ 10. गोत्रलूनैः Bh. E H. 17. अथाप्युदाहरन्ति B. F. H. बुधः instead of ध्रुवाः E. 19. अनुन्मत्तवेणः H. 22. ॰विनिर्गतः B. F.

न कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे । नागारे नासने नान्ने यस्य वै मोक्षवित्तु स इति ॥ २३ ॥ ब्राह्मणकुले यावल्लभेत तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जम् ॥ २४ ॥ न च तृप्येत् ॥ २५ ॥ ग्रामे वा वसेत् ॥ २६ ॥ अजिह्वोऽशढोऽशरणोऽवसङ्कुसुकः ॥ २७ ॥ न चेन्द्रियसंसर्गं कुर्वीत केनचित् ॥ २८ ॥ उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण ॥ २९ ॥ पैशुन्यमत्सराभिमानाहङ्काराश्रद्धानानार्जवात्मस्तवपरगर्हादम्भलोभ- मोहक्रोधासूयाविवर्जनं सर्वाश्रमाणां धर्म इष्टः ॥ ३० ॥ यज्ञोपवीत्युदकमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥ ३१ ॥ इति वासिष्ठधर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥ षडर्हार्हा भवन्ति ॥ १ ॥ ऋत्विग्विवाह्यो राजापितृव्यस्नातकमातुलाश्च ॥ २ ॥ वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥ ३ ॥ गृहदेवताभ्यो बलिं हरेत् ॥ ४ ॥ श्रोत्रियायाग्रभागं दत्त्वा ब्रह्मचारिणे वानन्तरं पितृभ्यो दद्यात् ॥ ५ ॥ ततोऽतिथिं भोजयेच्छ्रेयांसं श्रेयांसमानुपूर्व्येण ॥ ६ ॥ 23. कुड्यां F. H. 24. After this Sūtra F. only reads : यतीन्साधून्वा गृहस्थः तृप्येत् । 27. °अशवः instead of °अशढः Bh. E. अवसङ्कसुकः B. Ban. ed. E. 30. स्तेयं instead of असूया H. XI, 1. षडर्घ्याः Bh. E. H. 2. वैवाह्यः H. 5. श्रोत्रियायान्नं दत्त्वा H.

२९ स्वगृह्याणां कुमारीबालवृद्धतरुणप्रजाताः ॥ ७ ॥ ततोपरान्गृह्यान् ॥ ८ ॥ श्वचाण्डालपतितवायसेभ्यो भूमौ निर्वपेत् ॥ ९ ॥ शूद्रायोच्छिष्टमनुच्छिष्टं वा दद्यात् ॥ १० ॥ शेषं दम्पती भुञ्जीयाताम् ॥ ११ ॥ सर्वोपयोगेन पुनःपाको यदि निरुप्ते वैश्वदेवेतिथिरागच्छेद्द्वि- शेषेणास्मा अन्नं कारयेत् ॥ १२ ॥ विज्ञायते हि । वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहं तस्मादप आनयन्त्यन्नं वर्षाभ्यस्तां हि शान्तिं जना विदुरिति ॥ १३ ॥ तं भोजयित्वोपासीत ॥ १४ ॥ आसीमान्तमनुव्रजेदनुज्ञानाद्वा ॥ १५ ॥ अपरपक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात् ॥ १६ ॥ पूर्वेद्युर्ब्राह्मणान्सन्निपात्य यतीन्गृहस्थान्साधूनवापरिणतवयसो विकर्मस्थाञ्श्रोत्रियानशिष्याननन्तेवासिनः ॥ १७ ॥ शिष्यानपि गुणवतो भोजयेत् ॥ १८ ॥ नग्नशुक्लक्लीवान्धश्यावदन्तकुष्ठिकुनखिवर्जम् ॥ १९ ॥ अथाप्युदाहरन्ति । अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदुष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ २० ॥ 7. We follow Govindasvāmin's reading on Baudhāyana II. 7, 13, 5, whilst B. Bh. E. F. H. read प्रदाताः Ban. ed. प्रदाता, Calc, ed. प्रभूतीन्. see Bühler, Transl. 50, 356. 12. पुनः पाके Ban. ed निरुक्ते Bh. E.H. विशेषणास्मा E. K. 15 सीमान्तादनु° H. 19. विर्नग्न° B. F. H. विलग्न° marginal gloss in B. °शुक्लविगृधिश्याव H.

श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् । श्च्योतन्ते हि सुधाधारास्ताः पिबन्त्यकृतोदकाः ॥ २१ ॥ उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः । क्षीरधारास्ततो यान्त्यक्षय्याः सञ्चरभागिनः ॥ २२ ॥ प्राक्संस्कारात्प्रमीतानां स्ववंश्यानामिति स्थितिः । भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ २३ ॥ उच्छेषणं भूमिगतं विकिरं लेपनोदकम् । अन्नं प्रेतेषु विसृजेदप्रजानामनायुषाम् ॥ २४ ॥ उभयोर्हस्तयोर्मुक्तं पितृभ्योन्नं निवेदितम् । तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥ २५ ॥ तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् । भोजनं वा समालभ्य तिष्ठेतोच्छेषणे उभे ॥ २६ ॥ द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा । — (मनौ ३।१२५॥) भोजयेत्सुसमृद्धोपि न प्रसञ्जेत विस्तरे ॥ २७ ॥ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । (मनौ ३।१२६॥) पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ २८ ॥ अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलोपसंपन्नं सर्वलक्षणवर्जितम् ॥ २९ ॥ यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ ३० ॥ 21. श्च्योतन्ते वै. B. Ban. ed. श्च्योतन्ति हिंस्रधारास्ताः F. २२ पङ्क्तिभागिन. F. 23. संप्रवेशनामिति श्रुतिः Bh. E. F. H. लेपमोदकं. B.Ban. ed. H. अनु- प्रेतेषु B. Ban. ed. H. 25. उभयोः शाखयोः B. पार्श्वयोः F. H. 26. कुर्यादर्भ मुप° F. 27. देवे read all Mss with exception of. F. K. प्रसज्येत B. Ban. ed. F. H.

३१ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदग्नौ तदन्नं वा दद्याद्वा ब्रह्मचारिणे ॥ ३१ ॥ यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३२ ॥ हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः । पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३३ ॥ नियुक्तस्तु यतिः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशूरोमाणि तावन्नरकमृच्छति ॥ ३४ ॥ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३५ ॥ दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥ ३६ ॥ श्राद्धं दत्त्वा भुक्त्वा च मैथुनं योधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३७ ॥ यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् । न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥ ३८ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ ३९ ॥ मधुमांसैश्च शाकैश्च पयसा पायसेन च । एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ ४० ॥ सन्तानवर्द्धनं पुत्रमुद्यतं पितृकर्मणि । देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ ४१ ॥ 31. तदन्नं तु B. H. 33. अर्पिताः B. H. F. 36. नाम instead of ज्ञेय Bh. E. H. 38. विद्यामवाप्नोति F. H. 41. पुत्र तृप्यन्तं B. Ban. ed. H तृप्यन्तं F. पुत्रतृपन्तः Bh. E. तृप्यन्त Calc. ed. वासिष्ठधर्म ५.

३२ नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः । यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिण इति ॥ ४२ ॥ श्रावण्याग्रहायण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात् ॥ ४३ ॥ द्रव्यदेशब्राह्मणसन्निधाने वाकालनियमः ॥ ४४ ॥ अवश्यं ब्राह्मणोऽग्नीनादधीत ॥ ४५ ॥ दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजेत ॥ ४६ ॥ नैयमिकं ह्येतदृणसंस्तुतं च ॥ ४७ ॥ विज्ञायते हि । त्रिभिर्ऋणैर्ऋणवान्ब्राह्मणो जायत इति । यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वानृणो यज्वा यः पुत्री ब्रह्मचर्यवानिति ॥ ४८ ॥ गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ ४९ ॥ गर्भादेकादशेषु राजन्यम् ॥ ५० ॥ गर्भाद्वादशेषु वैश्यम् ॥ ५१ ॥ पालाशो वा दण्डो ब्राह्मणस्य ॥ ५२ ॥ नैयग्रोधः क्षत्रियस्य वा ॥ ५३ ॥ औदुम्बरो वा वैश्यस्य ॥ ५४ ॥ केशसंमितो ब्राह्मणस्य ॥ ५५ ॥ ललाटसंमितः क्षत्रियस्य ॥ ५६ ॥ घ्राणसंमितो वैश्यस्य ॥ ५७ ॥ मौञ्जी रशना ब्राह्मणस्य ॥ ५८ ॥ धनुर्ज्या क्षत्रियस्य ॥ ५९ ॥ शणतान्तवी वैश्यस्य ॥ ६० ॥ 42. तन्वन्ति B. Bh. 45. अवश्यं च B. H. 47. ऋण संस्तुतं Bh. F. H. संस्कृतं B. Ban. ed. 48. येन instead of यज्ञेन H. 52. पालाशो बैल्वो वा F. H. 55-60 wanted in F. H. 57. घ्राण° Āśvalāyanagṛihyas. 1,19,13.

३३

कृष्णाजिनमुत्तरीयं ब्राह्मणस्य ॥ ६१ ॥ रौरवं क्षत्रियस्य ॥ ६२ ॥ गव्यं बस्ताजिनं वा वैश्यस्य ॥ ६३ ॥ शुक्लमहतं वासो ब्राह्मणस्य ॥ ६४ ॥ माञ्जिष्ठं क्षत्रियस्य ॥ ६५ ॥ हारिद्रं कौशेयं वा वैश्यस्य ॥ ६६ ॥ सर्वेषां वा तान्तवमरक्तम् ॥ ६७ ॥ भवत्पूर्वां ब्राह्मणो भिक्षां याचेत ॥ ६८ ॥ भवन्मध्यां राजन्यः ॥६९ ॥ भवदन्त्यां वैश्यः ॥ ७० ॥ आ षोडशाद्ब्राह्मणस्य नातीतः कालः ॥ ७१ ॥ आ द्वाविंशात्क्षत्रियस्य ॥ ७२ ॥ आ चतुर्विंशाद्वैश्यस्य ॥ ७३ ॥ अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ७४ ॥ नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ७५ ॥ पतितसावित्रीक उद्दालकव्रतं चरेत् ॥ ७६ ॥ द्वौ मासौ यावकेन वर्तेयेन्मासं पयसार्धमासमाभिक्षयाष्टरात्रं घृतेन षड्ररात्रमयाचितेन त्रिरात्रमब्भक्षोहोरात्रमुपवसेत् ॥ ७७ ॥ अश्वमेधावभृथं गच्छेत् ॥ ७८ ॥ व्रात्यस्तोमेन वा यजेद्वा यजेद्वेति ॥ ७९ ॥ इति वासिष्ठधर्मशास्त्र एकादशोध्यायः ॥ ११ ॥

  1. वस्त्राजिनं F. H. 68. भिक्षयीत H. 77. त्रिरात्रमम्बुभ° F. H. 79. यजेदिति read all Mss except K.