वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
३९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१००श्लो०८७-११०] ( मन्वन्तरनिसर्गादिकथनम् )
हरिता रोहिताश्चैव [ + देवाः सुमनसस्तथा । सुकर्माणः सुपाराश्च पञ्च देवगणाः स्मृताः ॥ ८७ ब्रह्मणो मानसा ह्येत एकैको दशको गण । अरुन्तिजो हविश्चैव ] विद्वान्यश्च सहस्रशः ॥ ८८ पर्वतानुचरश्चैव अपोंऽशुश्च मनोजवः । ऊर्जा स्वाहा स्वधा तारा दशैते हरिताः स्मृताः ॥ ८९ तपोजानिभृतिश्चैव वाचा बन्धुश्च यः स्मृतः । रजश्चैव तु राजश्च स्वर्णपादस्तथैव च ॥ ९० व्युष्टिर्विधिंश्च वै देवो दशैते रोहिताः स्मृताः । उषिताद्यास्तु ये देवास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ ९१ देवान्सुमनसां विद्धि सुकर्माणो निबोधत । सुपर्वा वृषभः पृष्टः कृषिद्युम्नो विपश्चितः ॥ ९२ विक्रमश्च क्रमश्चैव निभृतः कान्त एव च । एते सुकर्माणो देवा सुतांश्चैषां निबोधत ॥ ९३ वर्णोदितस्तथा जिष्णो वर्चस्वी द्युतिमान्हविः । शुभो हविष्कृतारत्नाप्तिर्व्यापृथो वशमस्तथा ॥ ९४ सुपारा मानतो (श्च गणा) स्त्वेते देवा वै संमकीर्तिताः । तेषामिन्द्रस्तु विज्ञेय ऋतधामा महायशाः ॥ ९५ धृतिर्वसिष्ठपुत्रस्तु शास्त्रेयः सुतपातस्तथा । तपोमूर्तिश्चाङ्गिरसस्तपस्वी काश्यपस्तथा ॥ ९६ तपोऽशयानः पौलस्त्यः पुलहश्च तपोरतिः । भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोमतिः ॥ ९७ एते सप्तर्षयः सिद्धा अन्ये सावर्णीकेऽन्तरे । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ ९८ मित्रवान्मित्रबिन्दुश्च मित्रसेनो ह्यमित्रहा । मित्रबाहुः सुतर्चाश्च द्वादशैते मनोः सुताः ॥ ९९ त्रयोदशे तु पर्याये भाव्या रौच्यान्तरे पुनः । त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा ॥ १०० ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः । सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः ॥ १०१ त्रिदशानां गणाः भोक्ता भविष्याः सोमपायिनः । त्रयस्त्रिंशद्देवतायाः प्राभविष्यन्त याज्ञिकैः ॥ १०२ आज्येन पृषदाज्येन ग्रहश्रेष्ठेन चैव हि । देवैर्देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत ॥ १०३ सुत्रामाणः प्रयाज्यास्तु आज्यपा नाम सांप्रतम् । सुकर्मणोऽनुयाज्यास्तु पृषदाज्याशिनस्तु ये ॥ १०४ उपयाज्याः सुधर्माण इति देवाः प्रकीर्तिताः । दिवसपतिर्महासत्त्वस्तेषामिन्द्रो भविष्यति ॥ १०५ पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचे सुताः । अङ्गिराश्चैव धृतिमान्पौलस्त्यः पथ्यवांस्तु सः ॥ १०६ पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सकः । निष्पकस्तथाऽऽत्रेयो निर्मोहः कश्यपस्तथा ॥ १०७ स्वरूपश्चैव वासिष्ठः सप्तैते तु त्रयोदशे । चित्रसेनो विचित्रश्च तपोधर्मधृतो भवः ॥ १०८ अनेकक्षश्चबद्धश्च सुरसो निर्भयः पृथः । रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे ॥ १०९ चतुर्दशे तु पर्याये भौतस्याप्यन्तरे मनोः । देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति ॥ ११०
- धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति !
[अ० १०० श्लो० १११-१३२] वायुपुराणम् ३९५
( मन्वन्तरनिसर्गादिकथनम् )
चाक्षुपाश्च कनिष्ठाश्च पवित्रा भ्राजरास्तथा । * वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ १११
+अपरा (परांश्चा)पि मनोः सूनून्सप्तैतान्विद्धि चाक्षुषान् । बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः
सप्त लोकाः परित्रास्ते भ्राजिराः सप्त सिन्धवः ॥ ११२
वाचावृद्धानृषीन्विद्धि मनोः स्वायंभुवस्य वै । सर्वे मन्वन्तरेन्द्राश्च विज्ञेयास्तुल्यलक्षणाः ॥ ११३
तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः । त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥
सर्वशः स्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै ॥ ११४
भूतापवादिनो दृष्टा मध्यस्था भूतवादिनः । भूतानुवादिनः सन्तास्त्रयो वेदाः प्रवादिनाम् ॥ ११५
अग्निध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः । भार्गवो ह्यग्निबाहुश्च शुचिराङ्गिरसस्तथा ॥
ओजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥ ११६
सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः । एकौ वैवस्वतश्चैव सावर्णी मनुरुच्यते ॥ ११७
रौच्यो भौतश्च यौ तौ तु मनोः पौलहभार्गवौ । भौत्यस्यैवाऽऽधिपत्ये तु पूर्णः कल्पस्तु पूर्यते ×
सूत उवाच—
निःशेषेषु च सर्वेषु तदा मन्वन्तरेष्विह । अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते ॥ ११९
सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा । भुक्त्वा त्रैलोक्यमध्यस्था युगाख्यां ह्येकसप्ततिम् ॥
पितृभिर्मनुभिश्चैव सार्धं सप्तर्षिभिस्तु ये । यज्वानश्चैव तेऽप्यन्ये तद्भक्ताश्चैव तैः सह ॥ १२१
महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः । ततस्तेषु गतेषूर्ध्वं क्षीणे मन्वन्तरे तदा ॥ १२२
ततः स्थानानि शून्यानि स्थानिनां तानि वै द्विजाः । प्रभ्रम्यन्ति विमुक्तानि ताराऋक्षग्रहैस्तथा ॥
ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह । सेन्द्रास्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः ॥ १२४
जिताद्याश्च गणा ह्यत्र चाक्षुषान्ताश्चतुर्दश । मन्वन्तरेषु सर्वेषु देवास्ते वै महौजसः ॥ १२५
ततस्तेषु गतेषूर्ध्वं सायो (यु) ज्यं कल्पवासिनाम् । समेत्य देवास्ते सर्वे प्राप्ते संकलने तदा ॥ १२६
महर्लोकं परित्यज्य गणास्ते वै चतुर्दश । सशरीराश्च श्रूयन्ते जनलोकं सहानुगाः ॥ १२७
एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति । भूतादिष्ववशिष्टेषु स्थावरान्तेषु चाप्युत ॥ १२८
शून्येषु लोकस्थानेषु महान्तेषु भूरादिषु । देवेषु च गतेषूर्ध्वं सायो(यु) ज्यं कल्पवासिनाम् ॥ १२९
संहृत्य तांस्तथा ब्रह्मा देवर्षिपितृदानवान् । संस्थापयति वै सर्गे महद्दृष्ट्वा युगक्षये ॥ १३०
चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः । = रात्रिं युगसहस्रान्तामहोरात्रविदो जनाः ॥ १३१
नैमित्तिकः प्र कृतिको यश्चैवाऽऽत्यन्तिकोऽर्थतः । त्रिविधः सर्वभूतानामित्येष प्रतिसंचरः ॥ १३२
* इत आरभ्य विद्धि चाक्षुषानित्यन्तग्रन्थो घ पुस्तके नास्ति । + एतदर्थस्थाने सप्त तांस्तान्भागा-
न्विद्धि चाक्षुषसंज्ञकानिति क. पुस्तके । ग. ङ्. पुस्तकयेरेतदर्थं त्रुटितमस्ति । × अत्राध्यायसमाप्तिः
ख. पुस्तके । = इत शारभ्य प्रतिसंचर इत्यन्तग्रन्थो ङ् पुस्तके नास्ति ।
५०
३९४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० १३३-१५९] ( मन्वन्तरनिसर्गादिकथनम् )
ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः । प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥ १३३
ज्ञानाच्चाऽऽत्यन्तिकः प्रोक्तः कारणानामसंभवः । ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥ १३४
अहरन्ते प्रकुरुते सर्वस्य प्रलयं पुनः । सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा ॥ १३५
ततो युगसहस्रान्ते संप्राप्ते च युगक्षये । तत्राऽऽत्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः ॥ १३६
तदा भवत्यनावृष्टिस्तदा सा शतवार्षिकी । तथा यान्यल्पसाराणि सत्त्वानि पृथिवीतले ॥ १३७
तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च । सप्तरश्मिरथो भूत्वा उदतिष्ठद्विभावसुः ॥ १३८
असह्यरश्मिर्भगवान्पिबन्नम्भो गभस्तिभिः । हरिता रश्मयस्तस्य दीप्यमानास्तु सप्तभिः ॥ १३९
भूय एव विवर्तन्ते व्याप्नुवन्तो वनं शनैः । भौमं काष्ठं धनं तेजो भृशमद्भिरस्तु दीप्यते ॥ १४०
तस्मादुदकं सूर्यस्य तपतोऽति हि कथ्यते । नावॄष्ट्या *तपते सूर्यो नावॄष्ट्या परिविष्यते ॥ १४१
नावॄष्ट्या परिचिन्वन्ति वारिणा दीप्यते रविः । तस्मादपः पिबन्त्यो वै दीप्यते रविरम्बरे ॥ १४२
तस्य ते रश्मयः सप्त पिबन्त्यम्भो महार्णवात् । तेनाऽऽहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत ॥ १४३
तवस्ते रश्मयः सप्त सूर्यभूताश्चतुर्दिशम् । चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥ १४४
प्राप्नुवन्ति च भामिस्तु ऊर्ध्वं चाधश्च राशिभिः । दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ १४५
ते वारिणा च संदीप्ता बहुसाहस्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ १४६
ततस्तेषां प्रतापेन दह्यमाना वसुंधरा । साद्रिनद्यर्णवा पृथ्वी विस्नेहा समपद्यत ॥ १४७
दीप्ताभिः संतताभिश्च चित्राभिश्च समन्ततः । अधश्चोर्ध्वं च तिर्यक्च संरुद्धं सूर्यरश्मिभिः ॥ १४८
सूर्याग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् । एकत्वमुपयातानामेकज्वालं भवत्युत ॥ १४९
सर्वलोकप्रणाशं च सोऽग्निर्भूत्वा तु मण्डली । चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥ १५०
ततः प्रलीयते सर्वं जङ्गमं स्थावरं तदा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥ १५१
अम्बरीषमिवाऽऽभाति सर्वं मारीषितं जगत् । सर्वमेव तदार्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ १५२
पाताले यानि सत्त्वानि महोदधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ १५३
द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधिः । सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥ १५४
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वतः । पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ १५५
ततः संवर्तकः शैलानतिक्रम्य महांस्तथा । लोकान्संहरते दीप्तो घोरः संवर्तकोऽनलः ॥ १५६
ततः स पृथिवीं भित्त्वा रसातलमाशोषयत् । निर्दह्य तांस्तु पातालानागलोकमथादहत् ॥ १५७
अधस्तात्पृथिवीं दग्ध्वा ऊर्ध्वं स दहते दिवम् । योजनानां सहस्राणि अयुतान्यर्बुदानि च ॥ १५८
उदतिष्ठच्छिखास्तस्य बह्व्यः संवर्तकस्य तु । गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ॥
तदा दहति संदीप्तो गोलकं चैव सर्वशः ॥ १५९
* अत्राऽऽत्मनेपदमार्यम् ।
[अ० १०० श्लो० १६०-१८३] वायुपुराणम् ३६५ ( मन्वन्तरनिसर्गादिकथनम् )
भूलोकं तु भुवर्लोकं स्वर्लोकं च महस्तथा । घोरो दहति कालाग्निरवं लोकचतुष्टयम् ॥ १६० व्याप्तेषु तेषु लोकेषु तिर्यगूर्ध्वमथाग्निना । तत्तेजः समनुप्राप्तं कृत्स्नं जगदिदं शनैः ॥ अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥ १६१ ततो गजगुलाकारास्ताडिद्भिः समलंकृताः । उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः ॥ १६२ केचिन्नीलोत्पलश्यामा केचित्कुमुदसंनिभाः । केचिद्वैदूर्यसंकाशा इन्द्रनीलानिभाः परे ॥ १६३ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा । धूम्रवर्णा घनाः केचित्केचित्पीताः पयोधराः ॥ १६४ केचिद्भाससवर्णाभा लाक्षारक्तनिभास्तथा । मनःशिलाभास्त्वपरे कपोताभास्तथाऽम्बुदाः ॥ १६५ इन्द्रगोपनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ (*केचित्पुरधराकाराः केचिद्गजकुलोपमाः ॥ १६६ केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः) । कुण्डागारनिभाः केचित्केचिन्मीनकुलोपमाः ॥ १६७ बहुरूपा घोररूपा घोरस्वरनिनादिनः । तदा जलधराः सर्वे पूरयन्ति नभःस्थलम् ॥ १६८ ततस्ते जलदा घोरा राविणो भास्करात्मिकाः । सप्तधा संवृतात्मानस्तमग्निं शममन्युत ॥ १६९ ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत् । सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ १७० प्रवृष्टैश्च तथाऽत्यर्थं वारिभिः पूर्यते जगत् । अद्भिरिस्तेऽभिभूतं च तदाऽग्निः प्रविशत्यपः ॥ १७१ नष्टे चाग्नौ वर्षशते पयोदाः पाकसंभवाः । प्लावयन्ति जगत्सर्वं बृहज्जलपरिस्रवैः ॥ १७२ धाराभिः पूरयन्तीमं चोद्यमाना स्वयंभुवा । अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि ॥ साद्रीद्वीपन्तरं पृथ्वी अद्भिः संछाद्यते तदा ॥ १७३ तस्य वृष्ट्या च तोयं तत्सर्वं हि परिमण्डितम् । प्रविशत्युदधौ विप्राः पीतं सूर्यस्य रश्मिभिः ॥ आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति । पुनः पतति तद्भूतौ तेन पूर्यन्ति चार्णवाः ॥ १७५ ततः समुद्राः स्वां वेलां परिक्रामन्ति सर्वशः । पर्वताश्च विशीर्यन्ते मही चाप्सु निमज्जति ॥ १७६ ततस्तु सहसोद्धान्तः पमोदांस्तानभस्तले । संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥ १७७ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । पूर्णे युगसहस्रे वै निःशेषः कल्प उच्यते ॥ १७८ अथाम्भसा वृत्ते लोके माहुरेकार्णवं बुधाः । अथ भूमितलं खं च वायुश्चैकार्णवे तदा ॥ नष्टे भ्रातेऽवलीने तत्प्राज्ञायत न किंचन ॥ १७९ पार्थिवास्त्वथ सामुद्रा आपो हेमाश्च सर्वशः । प्रसरन्त्यो वजन्त्येकं सलिलाख्यां भजत्युत ॥ १८० आगतागतिकं चैव तदा तत्सलिलं स्मृतम् । प्रच्छाद्य तिष्ठति यहीमर्णवाख्यं च तज्जलम् ॥ १८१ आभान्ति यस्मात्ता भाभिर्भाश्ब्दो व्याप्तिदीप्तिषु । भस्म सर्वमनुप्राप्य तस्मादम्भो निरुच्यते ॥ १८२ नानात्वे चैव शीघ्रे च धातुर्वे अर उच्यते । एकार्णवे तदाऽऽपो वै न शीघ्रस्तेन ता नराः ॥ १८३
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
३९६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०० श्लो० १८४-२०७] (मन्वन्तरनिसर्गादिकथनम्)
तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो मते। तावन्तं कालमेवं तु भवत्येकार्णवं जगत्॥
तदा तु सर्वव्यापारा निवर्तन्ते प्रजापतेः॥ १८४
एवमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे। तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात्॥ १८५
सहस्रशीर्षा सुमनाः सहस्रपातसहस्रचक्षुर्वदनः सहस्रवाक्।
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीपथी यः पुरुषो निरुच्यते॥ १८६
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाट्।
हिरण्यगर्भः पुरुषो महान्वै संपद्यते वै तमसा परस्तात्॥ १८७
चतुर्युगसहस्रान्ते सर्वतःसलि्लाप्लुते। सुषुप्तसुरमकाशां स्वां रात्रिं तु कुरुते प्रभुः॥ १८८
चतुर्विधा यदा शेते प्रजाः सर्वाण्डमण्डिताः। पश्यन्ते तं महात्मानं कालं सप्त महर्षयः॥ १८९
जनलोके विवृर्तन्तस्तपसा लब्धचक्षुषः। भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः॥ १९०
सत्यादीन्सप्त लोकान्वै ते हि पश्यन्ति चक्षुषा। ब्रह्माणं ते तु पश्यन्ति महाब्राह्मीषु रात्रिषु॥
सप्तर्षयः प्रपश्यन्ति सुप्तकालं स्वरात्रिषु। कल्पानां परमेष्ठित्वात्तस्मादाद्यः स पठ्यते॥ १९२
स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। एवमावेशयित्वा तु स्वात्मन्येव प्रजायते॥ १९३
अथाऽऽत्मनि महातेजाः सर्वमादाय सर्वकृत्। ततः स वसते रात्रिं तमस्येकार्णवे जले॥ १९४
ततो रात्रिक्षये प्राप्ते प्रतिबुद्धः प्रजापतिः। मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः॥ १९५
एवं सलोके निर्वृत्ते उपशान्ते प्रजापतौ। ब्राह्मनैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे॥ १९६
दैहैर्वियोगः सत्त्वानां तस्मिन्वौ कृत्स्नशः स्मृतः। ततो दग्धेषु भूतेषु सर्वेष्वादित्यरश्मिभिः॥
देवर्षिमनुवर्येषु तस्मिन्संकलने तदा॥ १९७
गन्धर्वादीनि सत्त्वानि पिशाचान्तानि सर्वशः। कल्पादावप्रतप्तानि जनमेवाऽऽश्रयन्ति वै॥ १९८
तिर्यग्योनीनि सत्त्वानि नारकेयाणि यान्यपि। तदा तान्यपि दग्धानि धूतपापानि सर्वशः॥
जने तान्युपपद्यन्ते यावत्संप्लवते जगत्॥ १९९
व्युष्टायां तु रजन्यां तु ब्रह्मणोऽव्यक्तयोनये। जायन्ते हि पुनस्तानि सर्वभूतानि कृत्स्नशः॥ २००
ऋषयो मनवो देवाः प्रजाः सर्वाश्चतुर्विधाः। तेषामपीह सिद्धानां निधनात्पत्तिरुच्यते॥ २०१
यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमनं स्मृतम्। वया जन्म निरोधश्च भूतानामिह दृश्यते॥ २०२
आभूतसंप्लवात्तस्माद्भवः संसार उच्यते। यथा सर्वाणि भूतानि जायन्ते हि वर्षास्विह॥ २०३
स्थावरादीनि सत्त्वानि कल्पे कल्पे तथा प्रजाः। यथर्तवृतुलिङ्गानि नानारूपाणि पर्यये॥ २०४
दृश्यन्ते तानि तान्येव तथा मलान्तरात्रिषु। प्रत्याहारे च सर्गे च गतिमन्ति ध्रुवाणि च॥ २०५
*निष्क्रमन्ते विशन्ते च प्रजाकारं प्रजापतिम्। ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम्॥ २०६
हंस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः। व्यक्तात्मको महादेवस्तस्य सर्वमिदं जगत्॥ २०७
* अत्राऽऽत्मनेपदमारर्षम्।
[ अ० १०० श्लो० २०८-२२८ ] वायुपुराणम् । ३९७
( मन्वन्तरनिसर्गादिकथनम् )
येनैव सृष्टा प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् । पूर्वप्रयातेन तथा ह्यपोऽन्यास्तेनैव तेनैव तु संव्रजन्ति ॥ २०८
यथा शुभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्तमानः । मर्त्यास्तु देहान्तरभावितत्वाद्वेर्वशादूर्ध्वमधश्चरन्ति ॥ २०९
ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः । तद्भाविताख्यानितिवशाच्च धर्माः पुनर्नेिसर्गेण भवन्ति सत्त्वाः* ॥ २१०
अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् । मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ॥ सह प्रजानिसर्गेण सह देवैश्चतुर्दश ॥ २११
स युगाख्यासहस्रं तु सर्वाण्येवान्तराणि वै । अस्याः सहस्रे द्वे पूर्णे निःशेषः कल्प उच्यते ॥ २१२
एतद्बालमहत्यैयं तस्य संख्यां निबोधत । निमेषस्तुल्यमात्रा हि कृतो लध्वक्षरेण तु ॥ २१३
मानुषाक्षिन्निमेषास्तु काष्ठा पञ्चदश स्मृता । लवः क्षणास्तु पञ्चैव विंशत्काष्ठा तु ते त्रयः ॥ २१४
प्रस्थः समोदकाश्चैव साधिकास्तु लवः स्मृतः । लवास्त्रिंशत्कला ज्ञेया मुहूर्तस्त्रिंशतः कलाः ॥ २१५
मुहूर्तांस्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः । अहोरात्रं कालानां तु द्व्यधिकानि शतानि षट् ॥ २१६
तांश्चैव संख्यया ज्ञेयं चन्द्रादित्यगतिर्यथा । निमेषा दश पञ्चैव काष्ठास्तास्त्रिंशतः कला ॥ २१७
त्रिंशत्कला मुहूर्तंस्तु दशभागः कला स्मृता । चत्वारींशत्कलानां तु मुहूर्त इति संज्ञितः ॥ २१८
मुहूर्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः । तस्थानेनाम्भसा (सां) चापि पलान्यथ त्रयोदश ॥ मागधेनैव मानेन जलप्रस्थो विधीयते । एते वाप्युदकप्रस्थाश्चत्वारो नालिको घटः ॥ २२०
हेममाषैः कृताच्छिद्रैश्चतुर्भिश्चतुरङ्गुलैः । समाहानि च रात्रौ च मुहूर्ता वै दिनालिकाः ॥ २२१
रवेर्गतिविशेषणे सर्वेष्वृतुषु नित्यशः । अधिकं षट्शतं पञ्च कलानां प्रविधीयते ॥ २२२
तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम् । सावनेन तु मासेन अब्दोऽयं मानुषः स्मृतः ॥ २२३
एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः । अह्नाऽनेन तु या संख्या मासत्वर्त्तनवार्षिकी ॥ २२४
तदा बद्धमिदं ज्ञाने संज्ञा या तूपलक्ष्यताम् । कलानां सुपरिमाणात्काल इत्यभिधीयते ॥ २२५
यदहर्ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता । शतानां च सहस्राणि दश द्विगुणितानि च ॥ + नवतिं च सहस्राणि तथैवान्यानि यानि तु ॥ २२६
एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम् । संस्थासंभजनं ज्ञानमपृच्छन्नन्तरं तदा ॥ २२७
ऋषय ऊचुः—
संख्याप्रलयमात्रं तु मानुषेणैव संमतम् । मानेन श्रोतुमिच्छामः संक्षेपार्थपदाक्षरम् ॥ २२८
* अत्राध्यायसमाप्तिः ख. पुस्तके। अनन्तरं सूत उवाचेति च ।
+ इतः प्रभृति सार्धश्लोको नास्ति ख. पुस्तके ।
३९८ श्रीमद्द्वैपायनमुनिप्रणीतम्-[अ० १००-१०१ श्लो०-२२९-२४६।१] (भूलोकादिव्यवस्थावर्णनम्)
तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः। संक्षेपादिव्यचक्षुष्मान्प्रोवाच भगवान्प्रभुः ॥ २२९ एते रात्र्यहनी पूर्वं कीर्तिते त्विह लौकिके। तासां संख्याय वर्षाग्रं ब्राह्म्यं वक्ष्याम्यहः क्षये ॥२३० कोटीशतानि चत्वारि वर्षाणि मानुषाणि तु। द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ तथा शतसहस्राणि एकोननवतिः पुनः। अशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥ २३२ मानुषाख्येषु संख्यातः कालो ह्याभूतसंप्लवः। सप्त सूर्यास्तदाऽप्येषु तदा लोकेषु तेषु वै ॥ २३३ महाभूतेषु लीयन्ते प्रजाः सर्वाश्चतुर्विधाः। सलिलेनाऽऽप्लुते लोके नष्ट स्थावरजङ्गमे ॥ २३४ विनिवृत्ते च संहारे उपशान्ते प्रजापतौ। निरालोके पदग्धे तु नैशेन तमसाऽऽवृते ॥ ईश्वराधिष्ठिते ह्यस्मिंस्तदा ह्येकार्णवे किल ॥ २३५ तावदेकार्णवो ज्ञेयो यावदासीदहः प्रभोः। रात्रिस्तु सलिलावस्था निवृत्तौ चाप्यहः स्मृतम् ॥ २३६ अहोरात्रस्तथैवास्य क्रमेण परिवर्तते। आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः ॥ २३७ त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च। आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः ॥ २३८ * अग्रे भूतः प्रजानां तु तस्माद्भूतः प्रजापतिः। आभूतात्प्लवते चैव तस्मादाभूतसंप्लवः ॥ २३९ शाश्वते चामृतत्वे च शब्दे चाऽऽभूतसंप्लवः। अतीता वर्तमानाश्च तथैवानागताः प्रजाः ॥ दिव्यसंख्याता प्रसंख्याता अपराधैर्गुणीकृता ॥ २४० परार्धद्विगुणं चापि परमायुः प्रकीर्तितम्। एतावान्स्थितिकालस्तु अजस्येह प्रजापतेः ॥ स्थित्यन्ते प्रतिसर्गस्य ब्रह्मणः परमेष्ठिनः ॥ २४१ यथा वायुप्रवेगेन दीपार्चिरुपशाम्यति। तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥ २४२ तथा ह्यप्रतिसंसृष्टे महदादौ महेश्वरे। महत्प्रलीयतेऽऽव्यक्ते गुणसाम्यं ततो भवेत् ॥ २४३ इत्येष च समाख्यातो मया ह्याभूतसंप्लवः। ब्रह्मणैमित्तिको ह्येष संप्रक्षालनसंयमः ॥ २४४ समासेन समाख्यातो भूयः किं वर्तयामि वः। + य इदं धारयेन्नित्यं शृणुयाद्वाऽप्यभीक्ष्णशः ॥ कीर्तनाच्छ्रवणाच्चापि महतीं सिद्धिमाप्नुयात् ॥ २४५ \times ब्राह्मणो लभते विद्यां क्षत्रियो विजयी भवेत् । वैश्यस्तु धनलाभाग्न ( भाक्चैव ) शूद्रः सुखमवाप्नुयात् ॥ २४६ इति श्रीमहापुराणे वायुप्रोक्ते मन्वन्तरनिसर्गादिकथनं नाम शततमोऽध्यायः ॥१००॥ आदितः श्लोकानां समष्ट्यङ्काः-९७६०
अथैकशततमोऽध्यायः।
भूलोकादिव्यवस्थावर्णनम्।
वायुरुवाच-- असाधारणवृत्तैस्तु हुतशेषादिभिर्द्विजैः। धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥ १
* नास्त्ययं श्लोको घ पुस्तके। + एतदर्थस्थाने य इदं ध्यायते नित्यं धारयेद्यः समाहित इति घ पुस्तके। \times अयं श्लोको न विद्यते क. ग. घ. ङ. पुस्तकेषु।
[अ० १० । श्लो० २-२५] वायुपुराणम् । ३९९ ( भूर्लोकादिव्यवस्थावर्णनम् ) ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ २ अतीता वर्तमानाश्च तथैवानागताश्च ये । ऋषिभिर्देवैस्तैश्च सह गन्धर्वराक्षसैः ॥ ३ मन्वन्तराधिकारेषु जयन्तीह पुनः पुनः । देवाः सप्तर्षयश्चैव मनवः पितरस्तथा ॥ ४ सर्वे ह्यपि क्रमातीता महर्लोकं समाश्रिताः । ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सुराः ॥ ५ तैस्तथ्यकारिभिर्युक्तैः श्रद्धावद्भिर्दर्दापतः । वर्णाश्रमाणां धर्मेषु श्रौतस्मार्तेषु संस्थितैः ॥ विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ६ ऋषय ऊचुः-- महर्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वथा विभो । प्रतिलोके च कर्तव्यमनेकः समाधिष्ठिताः ॥ ७
- यावन्तश्चैव ते लोका दह्यन्ते येन ते प्रभो । एतन्नः कथय प्रीत्या त्वं हि वेत्थ यथातथम् ॥ ८ एवमुक्तस्ततो वायुर्मुनिभिर्विजितात्मभिः । प्रोवाच मधुरं वाक्यं यथातत्वेन तत्त्ववित् ॥ ९ वायुरुवाच-- चतुर्दशैव स्थानानि वर्णितानि महर्षिभिः । लोकाख्यानि तु यानि स्युर्येषु तिष्ठन्ति मानवाः ॥ १० सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै । भूरादयास्तु संख्याताः सप्त लोकाः कृतास्त्विह ॥ ११ अकृतानि तु सप्तैव प्राकृतानि तु यानि वै । स्थानानि स्थानिभिः सार्धं कृतानि तु निबन्धनम् ॥ पृथिवी चान्तरिक्षं च दिव्यं यच्च महः स्मृतम् । स्थानान्येतानि चत्वारि स्मृतान्यार्णवकानि च ॥ १३ क्षयातिशययुक्तानि तथा युक्तानि वक्ष्यते [चम्यहम्] । यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवम् ॥ जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु । एकान्तिकानि सत्त्वानि तिष्ठन्तीहाऽऽप्रसंयमात् ॥ १५ व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै । भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ १६ स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः । जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ १७ सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् । भूरिति व्याहृते पूर्वं भूर्लोकश्च ततोऽभवत् ॥ १८
- [द्वितीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् । तृतीयं स्वरितीत्युक्ते दिवं प्रादुर्बभूव ह ॥ १९ व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ] । ततो भूः पार्थिवो लोकोह्यन्तरिक्षं भुवः स्मृतम् ॥ २० स्वर्लोको वै दिवं ह्यतत्पुराणे निश्चयं गतम् । भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ २१ वायुर्भुवस्याधिपतिस्तेन वायुर्भुवस्पतिः । भव्यस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ २२ महंतिव्याहृतेनैवं महर्लोकस्ततोऽभवत् । विनिवृत्ताधिकाराणां देवानां तत्र वै क्षयः ॥ २३ जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः । तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥ २४ यास्ताः स्वायंभुवाद्या हि पुरस्तत्परिकीर्तिताः । कल्पदग्धे तदा लोके प्रतिष्ठति÷तदा तपः ॥ २५
- अयं सार्धश्लोको नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो ङ्. पुस्तके । ÷ अत्र परस्मैपदमार्षम् ।
४०० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०१ श्लो०२६-४९] (भूर्लोकादिव्यवस्थावर्णनम्)
ऋभुः सनत्कुमाराद्या यत्र सन्त्यूर्ध्वरेतसः । तपसा भावितात्मानस्तत्र सन्तीति वा तपः ॥ २६ सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः । ब्रह्मलोकस्ततः सत्यं सप्तमः स तु भास्करः ॥ २७ गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः । सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥ स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः ॥ २८ मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ । अनिकेतान्तरिक्षास्ते भुवर्लोक्या दिवौकसः ॥ २९ आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा । ऋषयोऽङ्गिरसश्चैव भुवर्लोकं समाश्रिताः ॥ ३० एते वैमानिका देवास्ताराग्रहानिवासिनः । इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३१ भूर्लोकप्रथमा लोका महदन्ताश्च ते स्मृताः । आरभ्यन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ॥ ३२ शुक्राद्याश्चाक्षुषान्ताश्च ये व्यतीता भुवं श्रिता । महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ॥ * इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३३ भूर्लोकप्रथमा लोका महदन्ताश्च ये स्मृताः । तान्सर्वान्सप्त सूर्यास्ते अर्चिर्भिर्निर्दहन्ति वै ॥ ३४ मरीचिः कश्यपो दक्षस्तथा स्वायंभुवोऽङ्गिराः । भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३५ प्रजानां पतयः सर्वे वर्तन्ते तत्र तैः सह । निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूड्वरेतसः ॥ ३६ ऋभुः सनत्कुमाराद्या वैराज्यास्ते तपोधनाः । मन्वन्तराणां सर्वेषां सावणीनां ततः स्मृताः ॥ चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः ॥ ३७ योगं तपश्च सत्यं च समाधाय तदाऽऽत्मनि । षष्ठे काले निवर्तन्ते तत्तदाह(?) विपर्यये ॥ ३८ सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतिघातलक्षणः ॥ ३९ + पर्यासपारिमाण्येन भूर्लोकः समितिः स्मृतः । भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ॥ ४० सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः । ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते ॥ ४१ विख्याताः सप्त लोकास्तु तेषां वक्ष्यामि सिद्धयः । भूर्लोकवासिनः सर्वे अन्नादास्तु रसात्मकाः ॥ भुवे स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते । चतुर्थे येऽपि वर्तन्ते महर्लोकं समाश्रिताः ॥ ४३ विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा । सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ॥ ४४ एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् । अतीतान्वर्तमानांश्च वर्तमानानागतान् ॥ ४५ प्रथमानन्तरैरिष्टा अन्तराः सांप्रतैः पुनः । निवर्ततीत्यासंबन्धोऽतीते देवगणे ततः (?) ॥ ४६ विनिवृत्ताधिकाराणां सिद्धिस्तेषां तु मानसी । तेषां तु मानसी ज्ञेया शुद्धा सिद्धिपरम्परा ॥ ४७ उक्ता लोकाश्च चत्वारो जनस्यानुविधिस्रथा । ग्रमासेन मया विप्रा भूवस्तं वर्तयामि वः ॥ ४८
वायुरुवाच- मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः । + पुलस्त्यः पुलहश्चैव क्रतुरित्येवमादयः ॥ ४९
* एतदर्थं क. पुस्तके नास्ति । + इत आरभ्य सर्वश्लोको न विद्यते ग. पुस्तके ÷ धनुरुचिद्धान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
[अ० १०१ श्लो० ५०-७३] वायुपुराणम् ४०१
( भूलोकादिव्यवस्थावर्णनम् )
पूर्वे ते संप्रसूयन्ते ब्रह्मणो मनसा इह । ततः प्रजाः प्रतिष्ठाप्य जनमेवाऽऽश्रयन्ति ते ॥ ५०
कल्पदाहप्रदीप्तेषु तदा कालेषु तेषु वै । भूरादिषु महान्तेषु भृशं व्याप्तिप्लवाग्निना ॥ ५१
शिखा संवर्तका ज्ञेया प्राप्नुवन्ति सदा जनाः । यामादयो गणाः सर्वे महर्लोकनिवासिनः ॥ ५२
महर्लोकेषु दीप्तेषु जनमेवाऽऽश्रयन्ति ते । सर्वे सूक्ष्मशरीरास्ते तत्रस्थास्तु भवन्ति ते ॥ ५३
तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्तिधरास्तथा । जनलोके विवर्तन्ते यावत्संप्लवते जगत् ॥ ५४
व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनिनः । अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह ॥ ५५
स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः । देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ॥ ५६
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः । पूर्वं पूर्वं प्रसूयन्ते पश्चिमे पश्चिमास्तथा ॥ ५७
देवान्वये देवता हि सप्त संभूतयः स्मृताः । व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथा परे ॥ ५८
आवर्तमाना देवास्ते क्रमेणैतेन सर्वशः । गत्वा जवं जर्वाभावं दशकृत्वः पुनः पुनः ॥ ५९
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् । भाविनोऽर्थस्य च बलात्पुण्याख्यातिबलेन च ॥ ६०
निवृत्तवृत्तयः सर्वे स्वस्थाः सुमनसस्तथा । वैराजे तूपपद्यन्ते च लोकमुत्सृज्य तज्जनम् ॥ ६१
ततोऽन्येनैव कालेन नित्ययुक्तास्तपस्विनः । कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ॥ ६२
इहोत्पन्नास्ततस्ते वै स्थानान्यपूरयन्त्युत । देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः ॥ ६३
एवं देवगणाः सर्वे दशकृत्वो निवर्त्य वै । वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ॥ ६४
पूर्णे पूर्णे ततः कल्पे स्थित्वा वैराजके पुनः । ब्रह्मलोके विवर्तन्ते पूर्वपूर्वकमेण तु ॥ ६५
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते । वैराजं पुनरप्येके कल्पस्थानमकल्पयन् ॥ ६६
एवं पूर्वानुपूर्वेण ब्रह्मलोकगतेन वै । एवं तेषु व्यतीतेषु तपसा परिकल्पिते ॥
वैराजे तूपपद्यन्ते दशकृत्वो निवर्तते ॥ ६७
एवं देवयुगानीह व्यतीतानि सहस्रशः । निधनं ब्रह्मलोके तु गतानामृषिभिः सह ॥ ६८
सूत उवाच—
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् । अनादित्वाच्च कालस्य असंख्यानाच्च सर्वशः ॥
एवमेव न संदेहो यथावत्कथितं मया ॥ ६९
तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः । सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥ ७०
ऋषय ऊचुः—
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः । तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ७१
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थत्त्ववित् । सूतः पौराणिको वाक्यं विनयेनेदमब्रवीत्* ॥ ७२
ततः प्राप्यन्त ते सर्वे शुद्धिशुद्धतमाश्च ये आभूतसंप्लवास्तत्र दश तिष्ठन्ति ते जनाः ॥ ७३
* अत्र सूत उवाचेति ख. पुस्तके ।
५१
एवमेव महाभागाः प्रणवं संप्रविश्य ह । ब्रह्मलोके प्रवर्तामस्तन्नः श्रेयो भविष्यति ॥ ७७
४०२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० ७४-९७] ( भूर्लोकादिव्यवस्थावर्णनम् )
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः । स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ७४ ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः । ख्यातिं नैमित्तिकीं तेषां पर्याये समुपस्थिते ॥ ७५ स्थानत्यागे मनश्चापि युगपत्संप्रवर्तते । ऊचुः सर्वे तदाऽन्योन्यं वैराजाः शुद्धबुद्धयः ॥ ७६ एवमेव महाभागाः प्रणवं संप्रविश्य ह । ब्रह्मलोके प्रवर्तामस्तन्नः श्रेयो भविष्यति ॥ ७७ एवमुक्त्वा तदा सर्वे ब्रह्मान्ते व्यवसायिनः । योजयित्वा तदाऽऽत्मानं वर्तन्ते योगधर्मिणः ॥ ७८ तत्रैव संप्रलीयन्ते शान्ता दीपार्चिषो यथा । ब्रह्मकायमवर्तन्त पुनरावृत्तिदुर्लभम् ॥ ७९ लोकं तं समनुप्राप्य सर्वे ते भावनामयम् । आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ॥ ८० * वैराजेभ्यस्तथैपोर्ध्वमन्तरे षड्गुणे सतः । ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ॥ ८१ ते सर्वे प्रणवात्मानो बुद्धशुद्धतपास्तथा । आनन्दं ब्रह्मणः पाप्यामृतत्वं च भजन्त्युत ॥ ८२ द्वंद्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः । आधिपत्यं विना तुल्या ब्राह्मणस्ते महौजसः ॥ ८३ प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनैः । ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्य विवर्तनीम् ॥ ८४ ब्रह्मणा सह देवेश्व समाप्त प्रतिसंचरे । तपसोऽन्ते क्रियात्मानो बुद्धावस्था मनीषिणः ॥ अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ८५ इत्येदमृतं शुक्लं नित्यमक्षयमव्ययम् । देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ८६ अपुनर्मार्गगादीनां तेषां चैवोर्ध्वरेतसाम् । कर्माभ्यासकृता शुद्धिर्वेदान्तेषूपलक्ष्यत ॥ ८७ तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते । हित्वा शरीरं पाप्मानममृतत्वाय ते गताः ॥ ८८ वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः । शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ८९ निःसङ्गाः शुचयश्चैव ब्रह्मसायो (यु) ज्यगाः स्मृताः । अकामयुक्तैर्ये वीरास्तपोभिर्दग्धाकिल्विषाः तेषामभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ॥ ९० एतद्ब्रह्मपदं दिव्यं परमं व्योम्नि भास्वरम् । यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ९१
ऋषय ऊचुः-- कस्मादेष परार्धश्च कश्चैष पर उच्यते । एतद्वेदितुमिच्छामस्तन्नो निगद ससम ॥ ९२
सूत उवाच-- शृणुध्वं मे परार्थे च परिसंख्यां परस्य च । एकं दश शतं चैव सहस्रं चैव संख्यया ॥ ९३ विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् । एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ॥ ९४ तथा शतसहस्राणामर्बुदं कोटिरुच्यते । अर्बुदं दश कोट्यस्तु अब्जं कोटिशतं विदुः ॥ ९५ सहस्रमपि कोटीनां खर्वमाहुर्मनीषिणः । दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ९६ शतं कोटिसहस्राणां शङ्कुरित्याभिधीयते । सहस्रं तु सहस्राणां कोटीनां दशधा पुनः ॥ गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥ ९७
* इत आरभ्य 'भजन्त्यत' इत्यन्तग्रन्थो घ. पुस्तके नास्ति ।
[अ० १० । श्लो० ९८–१२२] वायुपुराणम् ४०३
( भूर्लोकादिव्यवस्थावर्णनम् )
कोटीनां सहस्रमयुतामित्ययं मध्य उच्यते । कोटिसहस्रनियुता स चान्त इतिसंज्ञितः ॥ ९८
कोटिकोटिसहस्राणि परार्धं इति कीर्त्यते । परार्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥ ९९
शतमाहुः परिट्ठं सहस्रं परिपद्मकम् । विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ १००
अर्बुदं न्यर्बुदं चैव स्वबुर्दं च ततः स्मृतम् । खर्वं चैव निखर्वं च शङ्कुं पद्मं तथैव च ॥ १०१
समुद्रं मध्यमं चैव परार्धमपरं ततः । एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ १०२
शतानीति विजानीयात्संज्ञितानि महर्षिभिः । कल्पसंख्या प्रवृत्तस्य परार्धं ब्रह्मणः स्मृतम् ॥ १०३
तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिसृज्यते । पर एष परार्धश्च संख्यातः संख्यया मया ॥ १०४
यस्मादस्य परं वीर्यं परमायुः परं तपः । परा शक्तिः परो धर्मः परा विद्या परा धृतिः ॥ १०५
परं ब्रह्मा परं ज्ञानं परमैश्वर्यमेव च । तस्मात्परतरं भूतं ब्रह्मणोऽन्यन्न विद्यते ॥ १०६
परे स्थितो ह्येष परः सर्वार्थेषु ततः परः । संख्यातस्तु परा ब्रह्मा तस्यार्धं तु परार्धता ॥ १०७
संख्येयं चाप्यसंख्येयं सततं चापि तत्रिकम् । संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥ १०८
राशौ दृष्टे न संख्याऽस्ति तदसंख्यस्य लक्षणम् । अनपत्यं सिकतास्वेषु(?)दृष्टवान्पञ्चलक्षणम् ॥ १०९
ईश्वरैस्तत्त्वसंख्यातं शुद्धत्वाद्दिव्यदृष्टिभिः । एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥ ११०
ततच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः । बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥ १११
पप्रच्छुर्मातरिश्वानं सर्वे ते ब्रह्मवादिनः । ब्रह्मलोकस्तु भगवन्कयावन्मात्रान्तरः प्रभो ॥ ११२
योजनाग्रेण संख्यातं साधनं योजनस्य तु । कोशस्य च परीमाणं श्रोतुमिच्छामि तत्त्वतः ॥ ११३
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवाक् । उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ११४
वायुरुवाच—
एतद्वोऽहं प्रवक्ष्यामि शृणुध्वं मे विवक्षितम् । अव्यक्ताद्दष्टकभागो वै महास्थूलो विभाव्यते ॥ ११५
दशौघ महतां भागा भूतादिः स्थूल उच्यते । दशभागाधिकं चापि भूतादेः परमाणुकः ॥ ११६
परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा । यदभेद्यतमं लोके विज्ञेयं परमाणु तत् ॥ ११७
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ११८
* अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ११९
त्रसरेणवश्च येऽप्यष्टौ रथरेणुस्तु स स्मृतः । तेऽप्यष्टौ समवायस्था बलाग्रं तत्स्मृतं बुधैः ॥ १२०
बलाग्राण्यष्ट लिक्षा स्याद्यूका तच्चाष्टकं भवेत् । यूकाष्टकं यवं प्राहुरङ्गुलं तु यवाष्टकम् ॥ १२१
द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते । रत्निश्वाङ्गुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ १२२
* नास्त्ययं श्लोकः ख. घ. पुस्तकयोः ।
४०४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०१०१श्लो०१२३-१४९]
( भूर्लोकादिव्यवस्थावर्णनम् )
चत्वारि विंशतिश्चैव हस्तः स्यादङ्गुलानि तु । किष्कुर्द्विरत्निविज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ १२३
षण्णवत्यङ्गुलं चैव धनुरार्हुर्मनीषिणः । एतद्गव्यूतिसंख्यार्थोपादोनं धनुषः स्मृतम् ॥ १२४
धनुर्दण्डो युगं नाली तुल्यान्येतान्यथाङ्गुलैः । धनुषस्त्रिंशतं नलवमाहुः संख्याविदो जनाः ॥ १२५
धनुःसहस्रे द्वे चापि गव्यूतिरुपादिश्यते । अष्टौ धनुःसहस्राणि योजनं तु विधीयते ॥ १२६
एतेन धनुषा चैव योजनं तु समाप्यते । एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥ १२७
योजनानां तु संख्यातं संख्याज्ञानविशारदैः । एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोऽन्तरम् ॥ १२८
महीतलात्सहस्राणां शतादूर्ध्वं दिवाकरः । दिवाकरात्सहस्रेण तावदूर्ध्वं निशाकरः ॥ १२९
पूर्णं शतसहस्रं तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥ १३०
शतं सहस्रं संख्यातो मेरुर्द्विगुणितं पुनः । ग्रहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥ १३१
ताराग्रहाणां सर्वेषामधस्ताच्चरते बुधः । तस्योर्ध्वं चरते शुक्रस्तस्मादूर्ध्वं च लोहितः ॥ १३२
ततो बृहस्पतिश्चोर्ध्वं तस्मादूर्ध्वं शनैश्चरः । ऊर्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥ १३३
सप्तर्षिमण्डलं कृष्णमुपरिष्टात्प्रकाशते । ऋषिभिस्तु सहस्राणां शतादूर्ध्वं विभाव्यते ॥ १३४
योऽसौ तारामये दिव्ये विमाने हस्वरूपके । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ १३५
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया । मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ १३६
वर्णाश्रमैभ्य इज्या तु लोकेऽस्मिन्या प्रवर्तते । सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ १३७
त्रैलोक्यमेतद्व्याख्यातमित ऊर्ध्वं निबोधत । ध्रुवादूर्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥
* (एकयोजनकोटी सा इत्येवं निश्चयं गतम् । १३८
द्वे कोट्यौ तु महर्लोकाद्यस्मिंस्ते कल्पवासिनः) । यत्र ते ब्रह्मणः पुत्रा दक्षाद्या साधकाः स्मृताः ॥
चतुर्गुणेत्तरादूर्ध्वं जनलोकात्तपः स्मृतम् । वैराजा यत्र ते देवा भूतदाहविवर्जिताः ॥ १४०
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् । अपुनर्मारकामाणां(णां) ब्रह्मलोकः स उच्यते । १४१
यस्मान्न च्यवते भूयो ब्रह्माणं स उपाशते । एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ॥ १४२
ऊर्ध्वभागस्ततोऽण्डस्य ब्रह्मलोकात्परः स्मृतः । चतुर(तस्र)श्चैव कोट्यस्तु नियुता पञ्चषष्टि च च ॥
एषोऽर्धांशप्रचारोऽस्य गत्यन्तश्चापरः स्मृतः । ध्रुवाग्रमेतद्व्याख्यातं योजनाग्रायथाश्रुतम्+ ॥ १४४
अधोगतर्निां वक्ष्यामि भूतानां स्थानकल्पनाम् । गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ॥
नरको रौरवो रोधः सूकरस्ताल एव च । ( × तप्तकुम्भो महाज्वालः शबलोऽथ विमोचनः ॥ १४६
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः । अधःशिराः पूयवहो रुधिरान्धस्तथैव च ) ॥ १४७
तथा वैतरणं कृष्णमासिपत्रवनं तथा । अग्निज्वालो महाघोरः संदंशोऽथ थभोजनः ॥ १४८
तमश्च कृष्णसूत्रश्च लोहश्चाप्यासिरजस्तथा । अप्रतिष्ठोऽथ वीच्यश्चनरका ह्येवमादयः ॥ १४९
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + अत्राध्यायसमाप्तिः ख. पुस्तके । × धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ० १०१ श्लो० १५०-१७४] वायुपुराणम् । ४०५ ( भूर्लोकादिव्यवस्थावर्णनम् )
तामसा नरकाः सर्वे यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणः पतन्तीह पृथक्पृथक् ॥ १५० भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः । रौरवे कूटसाक्षी तु मिथ्या यश्चाभिशंसति ॥ क्रूरग्रहे पक्षवादी ह्यसत्यः पतते नरः ॥ १५१ रोधे गोघ्नो भ्रूणहा च अग्निदाता पुरस्य च । सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ॥ १५२ ताले पतेत्क्षत्रियहा हत्वा वैश्यं च दुर्गतिम् । ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ॥ १५३ तप्तकुम्भी स्वसागामी तथा राजभटश्च यः । तप्तलोहे चाश्ववणिक्तथा बन्धनरक्षिता ॥ १५४ साध्वीविक्रयकर्ता च वस्तु भक्तं परित्यजेत् । महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ॥ १५५ वेदो विक्रीयते येन वेदं दूषयते च यः । गुरूश्चैवावमन्यन्ते वाऽऽक्रोशैस्ताडयन्ति च ॥ १५६ अगम्यगामी च नरो नरकं शबलं व्रजेत् । विमोहे पतिते चौरो मर्यादां यो भिनत्ति वै ॥ १५७ दुरिष्टं कुरुते यस्तु कीटलोहं प्रपद्यते । ( * देवब्राह्मणविद्वेष्टा गुरूणां चाप्यपूजकः ॥ रत्नं दूषयते वस्तु कृमिभक्ष्यं प्रपद्यते ॥ १५८ पर्यश्नाति य एकोऽन्यो ब्राह्मणीं सुहृदः सताम् ) । लालाभक्षे स पतति दुर्गन्धे नरके गतः ॥ १५९ काण्डकर्ता कुलालश्च निष्पहर्ता चिकित्सकः । आरामेष्वग्निदाता यः पतते स विशंसने ॥ १६० असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः । नक्षत्रेर्जीविते यश्च नरो गच्छत्यधोमुखम् ॥ १६१ क्षीरं सुरां च मांसं च लाक्षां गन्धं रसं तिलान् । एवमादीनि विक्रीणन्धोरे पूयवहे पतेत् ॥ १६२ यः कुक्कुटानि बध्नाति मार्जारांस्कूक्रांश्च तान् । पक्षिणश्च मृगांश्छागान्सोऽयेनं नरकं व्रजेत् ॥ अजाविको माहिषकस्तथा चक्रध्वजी च यः । रङ्गोपजीविको विप्रः शाकुनिर्यामयाजकः ॥ १६४ अगारदाही गरदः कुण्डाशी सोमविक्रयी । सुरापो मांसभक्षश्च तथा च पशुघातकः ॥ १६५ विशस्ता महिषादीनां मृगहन्ता तथैव च । पर्वकारश्च सूची च पश्च स्यान्मित्रघातकः ॥ रुधिरान्धे पतन्त्येते एवमाहुर्मनीषिणः ॥ १६६ उपविष्टमेकपङ्क्त्यां विषमं भोजयन्ति ये । पतन्ति तरके घोरे विड्भुजे नात्र संशयः ॥ १६७ मृषावादी नरी पश्च तथा माक्रोशकोऽशुभा । पतति नरके घोरे मूत्राकीर्णे स पापकृत् ॥ १६८ मधुग्राहाभिहन्तारो यान्ति वैतरणीं तराः । उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्जिताः ॥ १६९ क्रोधना दुःखदाश्चैव कुहकाकृष्टगामिनः । असिपत्रवने छेदी तथा सौरभ्रिकाश्च ये ॥ कर्तनैश्च विकृष्यन्ते मृगव्याधाः सुदारुणैः ॥ १७० आश्रमप्रत्यवसिता जाग्नज्वाले पतन्ति वै । भोज्यन्ते श्यामशवलैरयस्तुण्डैश्च वायसैः ॥ १७१ इज्याव्रतसमालोपात्सन्दंशे नरके पतित् । स्कन्दते यदि वा स्वमे व्रतिनो ब्रह्मचारिणः ॥ १७२ पुत्रैरध्यापिता ये च पुत्रैराज्ञापिपाश्च ये । ते सर्वे मरके यान्ति नियतं तु श्वभोजने ॥ १७३ वर्णाश्रमविरुद्धाभि क्रोधहर्षसमन्विताः । कर्माणि ये तु कुर्वन्ति सर्वे निरयगामिनः (ण) ॥ १७४
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
४०६ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १० । श्लो० १७५-१९८] ( भूर्लोकादिव्यवस्थावर्णनम् )
उपरिष्टात्थितो घोर उष्णआत्मा रौरवो महान् । सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ एवमादिक्रमेणैव वर्ण्यमानान्निबोधत । भूमेरधस्तात्सप्तैव नरकाः परिकीर्तिताः ॥ १७६ अधर्मसूनवस्ते स्युरन्धतामिस्रकादयः । रौरवः प्रथमस्तेषां महारौरव एव च ॥ १७७ अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः । तृतीयः कालसूत्रः स्यान्महाहविर्विधिः स्मृतः ॥ १७८ अप्रतिष्ठश्चतुर्थः स्यादवीची पञ्चमः स्मृतः । लोहपृष्ठस्तमस्तेषामाविधेयस्तु सप्तमः ॥ १७९ घोरत्वाद्रौरवः प्रोक्तः साम्भको दहनः स्मृतः । सुदारुणस्तु शीतात्मा तस्याधस्तात्तमोऽधमः ॥ १८० सर्पो निकृन्तनः प्रोक्तः कालसूत्रोऽतिदारुणः । थप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सुदारुणः ॥ १८१ अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः । तस्मात्सुदारुणो लोहः कर्मणां क्षयणाच्च सः ॥ १८२ तथाभूते (त) शरीरत्वादविवै (वि)भ्यस्तु स स्मृतः । पीडाबन्धवधासङ्गादप्रतीकारलक्षणः ॥ १८३ ऊर्ध्वं शैलाभितास्ते तु निरालोकाश्च ते स्मृताः । दुःखोत्कर्षस्तु सर्वेषु अधर्मस्य निमित्ततः * ऊर्ध्वं लोकैः समावेतौ निरालोकौ च तावुभौ । कूटाङ्गारप्रमाणैश्च शरीरी सूत्रनायकाः ॥ १८४ उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः । दुःखमकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ १८५ यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः । तत्रानुभूय ते दुःखं क्षीणे कर्मणि वै पुनः ॥ १८६ तिर्यग्योनौ प्रसूयन्ते कर्मशेषे गते ततः । देवाश्च नारकाश्चैव ऊर्ध्वं चाधश्च संस्थिताः ॥ १८७ धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्तयः । उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ १८८ पश्यन्ति नारकान्देवा ह्यधोवक्त्रानधोगतान् । नारकाश्च तथा देवान्सर्वान्पश्यन्त्यधोमुखान् ॥ १८९ अग्रमूलता यस्माद्धारणाश्च स्वभावतः । तस्मादूर्ध्वमधोभावो लोकालोके न विद्यते ॥ १९० एषा स्वाभाविक़ी संज्ञा लोकालोके प्रवर्तते । अथाब्रुवन्पुनर्वायं ब्राह्मणाः सत्रिणस्तदा ॥ १९१
ऋषय ऊचुः— सर्वेषामेव भूतानां लोकालोकनिवासिनाम् । संसारे संसरन्तीहयावन्तः प्राणिनश्च तान् ॥ १९२ संख्यया परिसंख्याय ततः प्रब्रूहि कृत्स्नशः । ऋषीणां तद्वचः श्रुत्वा मारुतो वाक्यमब्रवीत् ॥ १९३
वायुरुवाच— न शक्या जन्तवः कृत्स्नाः प्रसंख्यातुं कथंचन । अनाद्यन्ताश्च संकीर्णा ह्यव्यूहेन व्यवस्थिताः ॥ गणना विनिवृत्तैषामानन्त्येन प्रकीर्तिताः ॥ १९५ न दिव्यचक्षुषा ज्ञातुं शक्या ज्ञानेन वा पुनः । चक्षुषा वै प्रसंख्यातुमितो ह्यन्ते नराधिपाः ॥ १९६ अनाव्यानादवेद्यत्वान्नैव प्रश्नो विधीयते । ब्रह्मणो संज्ञितं यत्तु संख्यया तन्निबोधत ॥ १९७ यः सहस्रतमो भागः स्थावराणां भवेदिह । पार्थिवाः क्रिमयस्तावत्संसेकाद्येषु संभवः ॥ १९८
* अत्र ख व पुस्तकोरधिकमर्धं वर्तते तद्यथा सुखोत्कर्षः स्मृतः सर्वे धर्मस्य हिः निमित्ततः । तथा ङ. पुस्तकेऽपि ‘दुःखोत्कर्षः स्मृतः सर्वे धर्मस्य हि निमित्ततः। इति।
चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२
[अ० १०१ श्लो० १९९-२२०] वायुपुराणम् । ४०७
( भूर्लोकादिव्यवस्थावर्णनम )
संसेकज्ञानाभावेन सहस्रेणैव संमिताः । औदका जन्तवः सर्वे निश्चयात्तद्विचारितम् ॥ १९९ सहस्रेणैव भावेन सत्त्वानां सलिलौकसाम् । विहंगमास्तु विज्ञेधा लौकिकास्ते च सर्वशः ॥ २०० यः सहस्रतमो भामस्तेषां वै पक्षिणां भवेत् । पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ २०१ चतुष्पदानां सर्वेषां सहस्रेणैव संमताः । भागेन द्विपदा ज्ञेया लौकिकेऽस्मिंस्तु सर्वशः ॥ २०२ यः सहस्रतमो भागो भागे तु द्विपदां पुनः । धार्मिकास्तेन भामेनं विज्ञेयः संमिताः पुनः ॥ २०३ सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः । यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥ संमितास्तेन भामेन मोक्षिणस्तावदेव हि ॥ २०४ स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः । पतिताः पापकम्माणो दुरात्मानो म्रियन्ति ये ॥ रौरवे तामसे ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ २०५ वेदनाकटुकास्तन्धा यातनास्थानमागताः । उष्णस्तु रौरवो ज्ञेयस्तेजो घोररसात्मकः ॥ २०६ ततो घनात्मकश्चापि शीतात्मा सततं तपः । एवं सुदुर्लभाः सन्तः स्वर्गे वा धार्मिका नराः ॥ २०७ एषा संख्या कृता संख्या(?) ईश्वरेण स्वयंभुवा । गणना विनिवृत्तैषा संख्या ब्राह्मी च मानुषी ॥
ऋषय ऊचुः—
महो जनस्तपः सत्यं भूतो भाव्यो भवस्तथा । उक्ता ह्येते त्वया लोका लोकानामन्तरेण च ॥ लोकान्तरं च याहग्वै तन्नो ब्रूहि यथातथम् ॥ २०९ तेषां तद्वचनं श्रुत्वा ऋषीणामूर्ध्वरेतसाम् । स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ २१०
वायुरुवाच—
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः । प्रत्याहारेण ध्यानेन तपसा च क्रियात्मनः ॥ २११ ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः । व्यपेतशोका विरजाः सन्तो ब्रह्मैव सत्तमाः ॥ २१२ अक्षयाः प्रीतिसंयुक्ता ब्रह्म निष्ठान्ति योगिनः । ऋषीणां वालखिल्यानां तैर्यथाहतमीश्वरैः ॥ २१३ यथा चैव मया दृष्टं सांनिध्यं तत्र कुर्वता । अतर्ह(कर्य)सत्कृतार्थानामालयं चेश्वरस्य यत् ॥ २१४ ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ २१५ द्रष्टृत्वमात्मसंबंन्धमधिष्ठातृत्वमेव च । अव्ययानि दशैतानि तस्मिंस्तिष्ठन्ति शंकरे ॥ २१६ विभुत्वात्खलु योगाग्निर्भरलणोऽनुग्रहे रतः । स लोकाविग्रहो भूत्वा साहाय्यमुपतिष्ठते ॥ २१७ अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् । तस्येश्वरस्य यन्मात्रं स्थानं मायामयं परम् ॥ २१८ मायया कृतमाचष्ट मायी देवो महेश्वरः । देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ॥ २१९ विस्तरेणाऽऽनुपूर्व्या च ब्रुवतो मे निबोधत । त्रयोदशैव कोट्यस्तु नियुता दश पञ्च च ॥ भूर्लोकाद्ब्रह्मलोको वै योजनैः संपर्कीर्त्यते ॥ २२०
४०८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०१ श्लो० २२१-२४६] (शिवपुरवर्णनम्)
एकयोजनकोटि तु पञ्चाशन्नियुतानि च। ऊर्ध्वं भागवताण्डं तु ब्रह्मलोकात्परं स्मृतम्॥ २२१ * एषोर्ध्वगः प्रचारस्तु गत्यन्तं च ततः स्मृतम्। (+ नित्या ह्यपरिसंख्येयाः परस्परगुणाश्रयाः॥ सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः। येभ्योऽधिकर्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः)॥ तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम्। अनुत्पाद्यं परं धाम परमाणु परेशयम्॥ २२४ अक्षयश्चाप्यनूलश्च अमूर्तिर्मूर्तिमानसौ। प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः॥ २२५ विधिरन्यैरनौपम्यः परमाणुर्महेश्वरः। सतेजा एष तमसो यः पुरस्तात्प्रकांशकः॥ २२६ यदण्डमासीत्सौवर्णं प्रथमं स्वौपसर्गिकम्। बृहंतं सर्वतो वृत्तमेश्वरार्द्धचवजायत॥ २२७ ईश्वराद्वीजनिर्भेदः क्षेत्रज्ञो बीज इष्यते। योनिं प्रकृतिमार्त्त सा च नारायणात्मिका॥ २२८ विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च। सन्निसर्गः स तन्वा च लोकधातुर्महात्मनः॥ २२९ पुरस्ताद्ब्रह्मलोकस्य अण्डादवक्च ब्रह्मणः। × तयोर्मध्ये पुरं दिव्यं स्थानं यस्य मनोमयम्॥ तद्ग्रहवतः स्थानमीश्वरस्यामितौजसः। शिवं नाम पुरं तत्र शरणं जन्मभीरूणाम्॥ २३१ सहस्राणां शतं पूर्णं योजनानां द्विजोत्तमाः। अभ्यन्तरे तु विस्तीर्णं महीमण्डलसंस्थितम्॥ २३२ मध्याह्नार्कप्रकाशेन परतेजोभिमार्दिना। शान्तकौम्भेन महता प्राकारेणार्कवर्चसा॥ २३३ द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः। तपनीयनिभैः शुभ्रैगढिं सुकृतवेष्टनम्॥ २३४ तच्चाऽऽकाशे पुरं रम्यं दिव्यं घण्टानिनादितम्। [÷ न तत्र क्रमते मृत्युर्न तापो न जरा श्रम॥ नदन्यैः पुश्चारं रूपमासांतुमर्हति (?)। सहस्राणां शतं पूर्णं योजनानां दिशो दश॥ २३६ तत्पुरं गोवृषाङ्कस्य तेजसा व्याप्य तिष्ठति। भावेन मनसो भूमिविन्यस्ता कनकामयी॥ २३७ रत्नवालुकया तत्र विन्यस्ता शुशुभेऽधिकम्। शारदेन्दुप्रकाशानि बालसूर्यनिभानि च॥ २३८ अर्धश्वेतार्धरक्तानि सौवर्णानि तथैव च। रथचक्रप्रमाणानि नालैर्मरकतप्रभैः॥ २३९ सौकुमारेण रूपेण गन्धिनाऽप्रतिमेन च। तत्र दिव्यानि पद्मानि वनेषूपवनेषु च॥ २४० भृङ्गपत्रनिकाशानि तपनीयानि यानि च। अर्धकृष्णार्धरक्तानि सुकुमारान्तराणि च॥ २४१ आतपत्रप्रमाणानि पङ्कजैः संवृतानि च। भूयः सप्त महानद्यास्तासां नामानि बोधत॥ २४२ वरा वरेण्या वरदा वराही वरवर्णिनी। वरमा वरभद्रा च रम्यास्तस्मिन्पुरोत्तमे॥ २४३ पद्मोत्पलदलोन्मिश्रं फेनाद्यावर्त्तविग्रहम्। जलं मणिलदलप्रख्यमावहन्ति सरिद्वराः॥ २४४ न तु ब्रह्मर्षयो देवा नासुराः पितरस्तथा। न खल्वन्येऽप्रमेयस्य विदुर्रीशस्य तत्पुरम्॥ २४५ तत्र ये ध्यानमव्यग्राः सुयुक्ता विजितेन्द्रियाः। पश्यन्तीह महात्मानः पुरं तद्गोवृषात्मनः॥ २४६
* अत्र संधिस्त्वार्षः। + धनुश्चिन्हान्तग्रन्थो ग. पुस्तकेषु न विद्यते। इतः प्रभृति प्रकृतयः स्मृता इत्यन्तः पाठो व. पुस्तके नास्ति। × एतदर्धं त्रुटितं ग. घ. ङ. पुस्तकेषु। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति।
[अ० १०१-श्लो० २४७-२७१] वायुपुराणम् ४०९
( शिवपुरवर्णनम् )
मध्ये पुरवरेन्द्रस्य तस्यामतितॆजसा । सुमहान्मेरुसंकाशो दिव्यो भद्रश्रिया वृतः ॥ २४७
सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनुपमेयै रत्नैश्र्व सर्वतः स विभूषितः ॥ २४८
स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यैः सोमसंप्रभैः । बालसूर्यप्रभैश्चैव सौवर्णैश्चाभिसंप्रभैः ॥ २४९
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः । दृढैर्वज्रमयैश्चैव इत्येवं सुसमाहितैः ॥ २५०
जलैश्र्व विविधाकारैर्दीप्यद्भिरधिवासितम् । चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ॥ २५१
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः । किंनराणामधीवासैः । संध्याभ्राकारराजितैः ॥ २५२
पारिवारसमन्तात्तु हेमपुष्पोदकप्रभैः यथा । हि मेरुशैलेन्द्रो हेमशृङ्गैर्विराजते ॥ २५३
( * चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् । एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥ २५४
वसन्तप्रीतमा यत्र त्र्यम्बकस्य निवेशने । लक्ष्मीः श्रीश्च वपुर्माया कीर्तिः शोभा सरस्वती ॥ २५५
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः । नित्या ह्यपरिसंख्याताः परस्परगुणाश्रयाः ) ॥
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥ २५६
कोटीशतं महाभाग विभज्याऽऽत्मानमात्मना । भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः ॥ २५७
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः । रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥ २५८
लीलाविलाससंयुक्तैर्भावैरतिमनाहरैः । गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥ २५९
कुब्जा वामनिकाश्चैव वरगात्रा ह्याननाः । पुण्ड्राश्च विकटाश्चैव करालास्त्रिपिटाननाः ॥ २६०
लम्बोदरा ह्रस्वभुजा त्रिनेत्रा ह्रस्वपादिकाः । मृगेन्द्रवदनाश्चान्या गजवक्त्रोदरास्तथा ॥ २६१
गजाननास्तथैवान्याः सिंहव्याघ्राननास्तथा । लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥ २६२
ह्रस्वकुञ्चितकेशाश्च सुन्दर्यश्चारुलोचनाः । अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥ २६३
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः । × रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥ २६४
नन्दिना च गणैः सार्धं विश्वरूपैर्महात्मभिः । तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥ २६५
पावकात्मजसंकाशैर्दंष्ट्रोत्कटाननैः । वन्द्यमानो विमानस्थ ( स्थैः ) पूज्यमानश्च तत्परैः ॥ २६६
सर्वर्तुकुसुमां मालां जिघ्रमा ÷ णोरसि स्थिताम् । नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥ २६७
ईषत्कराललम्बोष्ठं तीक्ष्णदंष्ट्रागणाञ्चितम् । षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरं चीरवाससम् ॥ २६८
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम् । बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥ २६९
रराज पट्टिशं तस्य वामाग्रकरगोचरम् । महाभैरवनिर्घोषं बलेनाप्रतिमौजसम् ॥
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥ २७०
त्रिशूलं विद्युदाभासममोघं शत्रुनाशनम् । जाज्वल्यमानं वपुषा परमं तच्चिषा युतम् ॥ २७१
*एतच्चिह्नान्तर्गतग्रन्थे पाठव्यत्यासो दृश्यते ख. पुस्तके × अत्र परस्मैपदमार्षम् । ÷अत्र संधिरार्षः ।
५२
चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४
४१० श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १०१ श्लो० २७२-२९५] ( शिवपुरवर्णनम )
असिञ्चैबौजसां श्रेष्ठः शतिरश्मिः शशी तथा । तेजसा वपुषा कान्त्या देवेशस्य महात्मनः ॥ शुशुभेऽभ्यधिकं तत्र वेद्यामग्निशिखा इव ॥ २७२ स्थितः पुरस्ताद्देवस्य शातकौम्भमयो महान् । शुशुभे रुचिरः श्रीमान्त्सोदकः स कमण्डलुः ॥ २७३ असिमावेश्य चाङ्गेषु पाण्डुराम्वरधारिणी । उरश्छेदेन महता मौक्तिकेन विराजिता ॥ चतुर्भुजा महाभागा विजया लोकसंमता ॥ २७४ 'दव्या आद्यप्रतीहारी श्रीरिवाप्रतिमा परा । विभ्राजन्ती स्थिता चैव कृत्वा देवस्य चाञ्जलिम् ॥ २७५ तस्याः पृष्ठानुगाश्चान्याः स्त्रियोऽप्सरोगणान्विताः। ताः खल्वभिनवैः कान्तैरुपतिष्ठन्ति शंकरम् ॥ २७६ सर्वलक्षणसम्पन्ना वादित्रैरुपबृंहिताः । उपगायन्ति देवेशं गणा गन्धर्वयोनयः ॥ २७७ अभ्युन्नतो महोरस्कः शरन्मेघसमद्युतिः । शोभते नन्दमानश्च गोपतिस्तस्य वेश्मनि ॥ २७८ स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवीर्यवान् । रक्ताम्बरधरः श्रीमान्वराम्बुजदलेक्षणः ॥ २७९ तस्य शाखो विशाखश्च नैगमेयश्च चाष्टवान् । व्यपेतव्यसनाः क्रूराः प्रजानां पालने रताः ॥ २८० तैः सार्धं स महावीर्यः शोभते शिखिवाहनः । व्यालक्रीडनकैस्तत्र क्रीडते विश्वतोमुखः ॥ २८१ ये नृपा विबुधेन्द्राणां काश्चनैस्य प्रदायिनः । ये च स्वायतना विप्रा गृहस्था ब्रह्मवादिनः ॥ २८२ गूढस्वाध्यातपसस्तथा चैवोञ्छवृत्तयः । एते सभासदस्तस्य देवेशस्य च संमताः ॥ २८३ मन्वन्तराण्यनेकानि व्यवर्तन्त पुनः पुनः । श्रूयतां देवदेवस्य भविष्याश्चर्यमुत्तमम् ॥ २८४ व्याघ्राश्चैवानुगास्तत्र काञ्चनाभास्तरास्विनः । स्वच्छन्दचारिणः सर्वे स्वयं देवेन निर्मिताः ॥ २८५ मृत्योर्मृत्युसमास्ते तु यमदर्पापहारिणः । विभूतिमप्यसंख्येयां को न खल्वभिधास्यते ॥ २८६ अतः परमिदं भूयो भवेनाद्भुतमुत्तमम् । भूतानामनुकम्पार्थं यत्कृतं तन्निबोधत ॥ २८७ मन्दराद्रिप्रकाशानां बलेनाप्रतिमौजसाम् । हारकुन्देन्दुवर्णानां विद्युद्घननिनादिनाम्* ॥ २८८ चूडामणिधराणां वै मेघसंनिभवाससाम् । श्रवोत्साङ्कितवज्राणामङ्गुलीशूलपाणिनाम् ॥ २८९ एवं दिशानां देवानां रूपेणोत्तमशालिनाम् । तस्य प्रासादमूख्यस्य स्तम्भेषूत्तमशोभिषु ॥ २९० संयताग्निमयीभिस्तु शृङ्खलाभिः पृथक्पृथक् । मायासहस्रं सिंहानां सुखं तत्र निवासिनाम् ॥ २९१ स्तम्भेऽप्यपासुताषष्ठं (?) त्र्यम्बकस्य निवेशने । अथ तत्पतिसंपूज्य वायोर्वाक्यं सुविस्मिताः ॥ ऋषयः प्रत्यभाषन्त नैमिषेयास्तपस्विनः ॥ २९२ भगवन्सर्वभूतानां प्राण सर्वत्रग प्रभो । के ते सिंहमहाभूताः क ते जाताः किमात्मकाः ॥ २९३ सिंहाः केनापरोधेन भूतानां प्रहविष्णुना । वैश्वानरमयैः पाशैः संरुद्धास्तु पृथक्पृथक् ॥ २९४ तेषां तद्वचनं श्रुत्वा वायुर्वाक्यं जगाद ह । यद्दै सहस्रं सिंहानामीश्वरेण महात्मना ॥ व्यपनीय स्वकांहेत्क्रोधास्ते सिंहविग्रहाः ॥ २९५
* इत उत्तरमेकः श्लोकोऽधिको ङ पुस्तके स यथा–सुदीर्घारितकायानामतविकूरचक्षुषाम् । दंष्ट्रोत्कटमहास्थानां महाविक्रमशालिनाम् । इति ।
[अ० १०१ श्लो० २९६–३२१] वायुपुराणम् । ४११
( शिवपुरवर्णनम )
भूतानामभयं दत्त्वा पुरा बद्धाग्निबन्धने । यज्ञभागनिमित्तं च ईश्वरस्याऽऽज्ञया तदा ॥ २९६ तेषां विधानमुक्तेन सिंहैनेकेन लीलया । देव्या मन्युं कृतं ज्ञात्वा हतो दक्षस्य स क्रतुः ॥ २९७ निःसृता च महादेव्या महाकाली महेश्वरी । आत्मनः कर्मसाक्षिण्या भूतैः सार्धं तदाऽनुगैः ॥ २९८ स एष भगवान्क्रोधो रुद्रावासकृतकालयः । वीरभद्रोऽप्रमेयात्मा देव्या मन्युप्रमार्जनः ॥ २९९ तस्य वेश्म सुरेन्द्रस्य सर्वगुह्यतमस्य वै । संनिवेशस्त्वनौपम्यो मया वः परिकीर्तितः ॥ ३०० अतः परं प्रवक्ष्यामि ये तत्र प्रतिवासिनः । ] रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३०१ नानारत्नविचित्रेषु पताकाबहुलेषु च । सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३०२ राजतेषु महान्तेषु शातकौम्भमयेषु च । संध्याभ्रसंनिकाशेषु कैलासप्रतिमेषु च ॥ ३०३ इष्टैः शब्दादिभिर्भागैर्यै भवस्यानुसारिणः । प्रासादवरमुख्येषु तेषु मोदन्ति सुव्रताः ॥ ३०४ ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः । गीतवादित्रघोषाश्च संस्तवाश्च समन्ततः ॥ ३०५ संहताश्चैवमतुला नानाश्रयकृतास्तथा । एवमादीनि वर्तन्ते तेषां प्रासादमूर्धनि ॥ ३०६ सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनौपम्यैर्वरै रत्नौः सर्वतः परिभूषितः ॥ ३०७ स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यमणिसंप्रभैः । बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसंनिभैः ॥ ३०८ चुक्रुशुर्ऋषयः श्रुत्वा नैमिषेयास्तपस्विनः । आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३०९
ऋषय ऊचुः— के तु तत्र महात्मानो ये भवस्यानुसारिणः । अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३१० ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमथाब्रवीत् ॥
वायुरुवाच— श्रूयतां देवदेवस्य भक्तियैरनुकल्पिता । ह्रीमन्तः सूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ॥ ३११ (+मध्वाहाराश्च मात्राश्च आत्मारामा जितेन्द्रियाः । जितद्वंद्वा महोत्साहाः सौम्या विगतमत्सराः भावस्थाः सर्वभूतानामव्यापारा अनाकुलाः) । कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३१३ अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ॥ तैर्लब्धं रुद्रमालोक्यं शाश्वतं पदमव्ययम् । भवस्य रूपसादृश्यं नीताश्चैव ह्यनुत्तमम् ॥ ३१४ वैधानरमुखा सर्वे विश्वरूपा कपर्दिनः । नीलकण्ठा सितग्रीवास्तीक्ष्णदंष्ट्रास्त्रिलोचनाः ॥ ३१५ अर्धचन्द्रकृतोष्णीषा जटामुकुटधारिणः । सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ॥ ३१६ तरुणादित्यसंकाशाः सर्वे ते पीतवाससः । पिनाकपाणयः सर्वे श्वेतगोवृषवाहनाः ॥ ३१७ श्रियाऽन्विता कुण्डलिनो मुक्ताहारविभूषिताः । तेजसोऽभ्यधिका देवैः सर्वज्ञाः सर्वदर्शिनः ॥ ३१८ विभज्य बहुधाऽऽत्मानं जरामृत्युविवर्जिताः । क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ॥ ३१९ स्वच्छन्दगतयः सिद्धाः सिद्धैश्चान्यैर्विबोधिताः । एकादशानां रुद्राणां कोटयोऽनेका महात्मनाम् एभिः सह महात्मानो देवदेवो महेश्वरः । भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ॥ ३२१
- एतच्चिह्नान्तर्गतग्रन्थो ग. पुस्तके न विद्यते ।