भारतकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

संस्कृतटीका-भाषाटीकासमेत । ( ११ ) यण) आदि व्रत करनेसे ब्राह्मणगण परमात्माके जाननेकी इच्छा करते हैं” । इस विषयमें स्मृतिभी प्रमाण है—“तप करनेसे अनेक पापोंका नाश होता है” । और नित्य, नैमि- त्तिक, उपासनाका कुछ प्रासङ्गिक फल होताहै । क्योंकि श्रुतिने कहा है—“कर्म्मद्वारा पितृलोकप्राप्ति होतीहै और तपस्या, और उपासनाद्वारा देवलोककी प्राप्ति होतीहै”॥७॥ साधनानि नित्यानित्यवस्तुविवेकेहामुत्रफल- भोगविरागशमदमादिसम्पत्तिमुमुक्षुत्वानि॥८॥ (भा०टी०) पूर्वोक्त साधनचतुष्टयको दिखलातेहैं। नित्य और अनित्य वस्तुका विचार । इस लोकमें और पर- लोकमें फल भोगनेकी इच्छा न करना । शम दम आदि सा- धनसम्पत्ति । मुमुक्षुत्व (मोक्ष होनेकी इच्छा होना) । यही साधनचतुष्टय कहाते हैं ॥ ८ ॥ नित्यानित्यवस्तुविवेकस्तावद्ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् ॥ ९ ॥ (भा०टी०) इस संसारमें केवल ब्रह्मही नित्य है उससे भिन्न समस्त वस्तु अनित्य हैं । इस प्रकार विचारको नि- त्यानित्यवस्तुविवेक कहतेहैं ॥ ९ ॥ ऐहिकानां स्रक्चन्दनादिविषयभोगानांकर्म्मजन्य- तया अनित्यत्ववदामुष्मिकाणामप्यमृतादिविषय- भोगानामनित्यतया तेभ्यो नितरां विरतिरिहामु- त्रफलभोगविरागः ॥ १० ॥

विषयेभ्यो मनोनिग्रहः ॥ १२ ॥

( १२ ) वेदान्तसार । ( भा०टी० ) जिस प्रकार कर्म्मानुसार प्राप्त होनेवाला इस संसारका माला चन्दनादि भोग अनित्य है इसी प्रकार के अनुसार प्राप्त होनेवाला परलोकका ( स्वर्गादिका ) अमृ- तादि भोगभी अनित्य है इस प्रकार अत्यन्त दोनों लोकोंके भोगकी इच्छाकी निवृत्तिही कल्याण करनेवाली है इस प्र- कारके बुद्धिको इहामुत्रफलभोगविराग कहतेहैं ॥ १० ॥ शमदमादयस्तु शमदमोपरतिति तिक्षासमाधानश्रद्धाः ॥ ११ ॥ ( भा०टी० ) अब शमदमादिका निरूपण करतेहैं- शम, दम, उपरति, तितिक्षा, समाधान, और श्रद्धा, इनको शमदमादि नामसे व्यवहार करतेहैं ॥ ११ ॥ शमस्तावत् श्रवणादिव्यतिरिक्त विषयेभ्यो मनोनिग्रहः ॥ १२ ॥ ( सं०टी० ) तत्र शमं लक्षयति। शमस्तावदिति। तथा तीव्रायां बुभुक्षायां भोजनादन्यो व्यापारो मनसो न रोचते भो- जने विलंबं न सहते तथा स्रक्चन्दनादिविषयेष्वत्यंतमरुचिः। तत्त्वज्ञानसाधनेषु श्रवणमननादिष्वत्यंतमभिरुचिर्जायते तदा पूर्ववासनाबलाच्छ्रवणादिसाधनेभ्य उड्डीयमानंस्रक्चन्दनादि विषयेषु गम्यमान मनः येनांतःकरणवृत्तिविशेषेण निवर्त्यते स शम इत्यर्थः ॥ १२ ॥ ( भा०टी० ) ईश्वरविषयक श्रवण, मनन, निदिध्यासन-

विषयेभ्यो निवर्त्तनम् ॥ १३ ॥

संस्कृतटीका-भाषाटीकासमेत । ( १३ ) से भिन्न जो अन्य विषयोंसे अन्तरिन्द्रिय ( मन ) का हटा- लेना वह शम कहाता है ॥ १२ ॥ दमः बाह्येन्द्रियाणां तद्व्यतिरिक्त- विषयेभ्यो निवर्त्तनम् ॥ १३ ॥ (सं०टी०) इदानींदमस्यलक्षणमाह॥ दम इति। ज्ञानसाध नश्रवणादिसाधनेभ्यो विलक्षणेषु शब्दादिविषयेषु प्रवर्तमानानि श्रोत्रादीनि बाह्येन्द्रियाणि येन वृत्तिविशेषेण निवर्त्तंते स दम इत्यर्थः ॥ १३ ॥ ( भा०टी० ) श्रोत्राआदि बाह्येन्द्रियोंका ईश्वरविषयक श्रवणादिसे भिन्न विषयोंसे हटा लेना दम कहाता है ॥ १३ ॥ निवर्त्तितानामेतेषां तद्व्यतिरिक्तविषये- भ्य उपरमणमुपरतिः । अथवा विहिता- नां कर्म्मणां विधिना परित्यागः ॥ १४ ॥ (सं०टी०) इदानीमुपरतेर्लक्षणमाह। निवर्त्तितानामि- ति । निगृहीतानामेव तेषां बाह्येन्द्रियाणां श्रवणादिसाध नव्यतिरिक्तेषु यथा तानीन्द्रियाणि सर्वथा नागच्छंति तथा ते- ष block षां निग्रहो येन वृत्तिविशेषेण क्रियते सोपरतिरित्यर्थः । उ- परतेर्लक्षणान्तरमाह । अथवेति । विहितानां नित्यादिकर्म्मणां विधिना चतुर्थाश्रमस्वीकारणकर्मणां परित्यागः नाहं कर्तेत्य- वस्थानमुपरतिरित्यर्थः ॥ १४ ॥ ( भा० टी० ) तद्व्यतिरिक्त विषयोंसे हटाईहुई बाह्य

विषये च समाधिः समाधानम् ॥ १६ ॥

( १४ ) वेदान्तसार । इन्द्रियोंका दमन करना अथवा विधिवाक्योंसे विहित कर्मों का विधिपूर्वक परित्याग उपरति कहाता है ॥ १४ ॥ तितिक्षा शीतोष्णादिसहिष्णुता ॥ १५ ॥ ( सं०टी० ) तितिक्षाया लक्षणमाह।तितिक्षेति । शरी- रधर्म्मस्य शीतोष्णादेः तज्जन्यसुखदुःखादेश्च शरीरस्य त्यक्तुम- शक्यत्वात् स्वप्रकाशचिद्रूपे स्वात्मनि च शीतोष्णादेरत्यं- ताभावादिति विवेकदीपेन मिथ्याभानस्य शीतोष्णादेर्द्वंद्वस्य यत्सहनं सा तितिक्षेत्यर्थः ॥ १५ ॥ ( भा०टी० ) शीत, उष्णता, सुख, दुःख इत्यादिके सह- लेनेको तितिक्षा कहतेहैं ॥ १५ ॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुण- विषये च समाधिः समाधानम् ॥ १६ ॥ ( सं०टी० ) इदानीं समाधानलक्षणमाह । निगृहीतस्य मनस इति। शब्दादिविषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रव- णादौ तदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधनविषयेषु समाधिर्नैरंतर्येण तच्चिंतनं समाधानमित्यर्थः ॥ १६ ॥ ( भा०टी० ) ईश्वरविषयक श्रवणादि अथवा तत्सदृश और विषयोंद्वारा निगृहीत मनकी एकाग्रता अवस्था का नाम समाधान है ॥ १६ ॥ गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा ॥ १७ ॥ ( सं०टी० ) श्रद्धायः स्पष्टार्थाः ॥ १७ ॥ ( भा०टी० ) गुरुदेवके वचनों में तथा उपनिषदादि वे-

विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम् ।

संस्कृतटीका-भाषाटीकासमेत । ( १५ ) दान्तशास्त्रके वाक्योंमें विश्वास करना श्रद्धा कहाती है॥ १७॥ मुमुक्षुत्वं मोक्षेच्छा ॥ १८ ॥ ( भा०टी ) मोक्षमें जो इच्छा होती है उसको मुमुक्षुत्व कहतेहैं ॥ १८ ॥ एवम्भूतः प्रमाताऽधिकारी । “शान्तो दान्तः” इत्यादिश्रुतेः॥ तथा चोक्तम्--“प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदोषाय यथोक्तकारिणे ॥ गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सकलं मुमुक्षवे” इति ॥ १९ ॥ ( सं०टी० ) तथाच पूर्वोक्तसकलविशेषणविशिष्टः प्रमाता- धिकारीत्यर्थः।अस्मिन्नर्थे श्रुतिं प्रमाणयति।शांत इति॥१९॥ ( भा०टी० ) जो पूर्वोक्त साधनचतुष्टययुक्त होताहै उ- सी को वेदान्तशास्त्रमें अधिकारी कहते हैं । इस विषयमें श्रु ति और स्मृतिका प्रमाण दिखाते हैं--“जिसका चित्त शान्त हो, और जितेन्द्रिय हो,और भ्रम विप्रलिप्सादि दोषरहित, आज्ञाकारी, गुणवान्, सर्वदा अनुगत,और मोक्षकी इच्छा करनेवाला हो ऐसे शिष्यको सब विषयका उपदेश करना चाहिये” ॥ १९ ॥ विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् ॥ २० ॥ ( सं०टी० ) यथोद्देशं विषयं निरूपयति। विषय इति। अविद्याध्यारोपितसर्वज्ञत्वकिंचिज्ज्ञत्वादिविरुद्धधर्म्मपरित्यागे

विषय इत्यर्थः ॥ २० ॥

( १६ ) वेदान्तसार । नावाशिष्टं शुद्धचैतन्यं ज्ञेयस्वरूपमेव सर्वेषां वेदांतवाक्यानां विषय इत्यर्थः ॥ २० ॥ ( भा०टी० ) जीवचैतन्य और ब्रह्मचैतन्यका ऐक्यस्व- रूप शुद्धचैतन्यका प्रमेयभाग विषय है क्योंकि वेदान्तशास्त्र- का इसी विषयमें तात्पर्य्य है ॥ २० ॥ सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपा- दकोपनिषत्प्रमाणस्य च बोध्यबोधक- भावलक्षणः ॥ २१ ॥ ( सं०टी० ) क्रमप्राप्तं संबंधं लक्षयति । संबंधस्त्विति । बोध्यबोधकभाव इति । बोध्यस्य ब्रह्मात्मैक्यस्वरूपस्य बोधक स्य वेदांतशास्त्रस्य च बोध्यबोधकभाव एव संबंध इत्यर्थः २१ ( भा०टी० ) जीव और ब्रह्मका ऐक्यरूप प्रमेयसहित त- त्प्रतिपादकउपनिषदादि प्रमाणका बोध्यबोधक नाम सम्बन्धहै प्रयोजनन्तु तदैक्यप्रमेयगताज्ञाननिवृ- त्तिः । तत्स्वरूपानन्दावाप्तिश्च ॥ २२ ॥ ( सं०टी० ) अवशिष्टं प्रयोजनमाह । प्रयोजनं त्विति । ब्रह्मात्मैकत्वलक्षणचिन्मात्रगताज्ञानतत्कार्यसकलप्रपंचनिवृ- त्तिःपुनरुत्पत्त्यभावरूपस्वस्वरूपाखंडानंदप्राप्तिः फलमित्यर्थः । ननु लोके अप्राप्तस्य क्रियासाध्यस्य स्वर्गादेः पुरुषार्थत्वेन फलत्वं दृष्टम्, अत्र तु नित्यप्राप्तस्यात्मस्वरूपस्य क्रियासा- ध्यत्वाभावेन पुरुषार्थत्वाभावात्कथंफलत्वमिति चेन्न। अप्राप्त- स्यैव पुरुषार्थत्वनियमाभावात् । यथा लोके कस्यचिद्विस्मृत-

संस्कृतटीका-भाषाटीकासमेत। ( १७ ) कंठमणेः तत्प्रयुक्तशोकाग्निसंदह्यमानस्याप्तोपदेशोत्तरकालं स्वकंठगतचामीकरप्राप्तेरपि पुरुषार्थत्वात्फलत्वं दृष्टमेवमत्रापि नित्यप्राप्तस्यात्मनः अज्ञानमोहान्धकारावृतत्वेन विस्मृतस्व- स्वरूपस्य पुरुषस्य गुरुश्रुतिवाक्यश्रवणानंतरमज्ञानमोहांधका- रानिवृत्तौ सत्यां स्वयंप्रकाशमानचिद्रूपस्य सिद्धस्यैवात्मनः फ- लत्वमुपचर्यत इति भावः ॥ २२ ॥ (भा०टी०) जीव ब्रह्मके एकता प्रमेय विषयक अ- ज्ञानकी निवृत्ति और उसका फलरूप आनन्दकी प्राप्तिका नाम वेदान्तशास्त्रमें प्रयोजन है ॥ २२ ॥ “तरति शोकमात्मवित्” इत्यादिश्रुतेः। “ब्रह्म वेद ब्रह्मैव भवति"इत्यादिश्रुतेश्च ॥ २३॥ (सं०टी०) उक्तेऽर्थे श्रुतिं प्रमाणयति॥तरति शोकमा- त्मविद्ब्रह्म वेदेत्यादीति ॥ २३ ॥ (भा० टी०) उपरोक्त विषयमें श्रुति प्रमाण है “आ- त्मज्ञानी शोकसे विमुक्त होजाताहै”। “जो ब्रह्मवेत्ता होता है वह ब्रह्मका स्वरूप होजाताहै” ॥ २३ ॥ अयमधिकारी जननमरणादिसंसारानलसन्तप्तो दीप्तशिरा जलराशिमिवोपहारपाणिः श्रोत्रियं- ब्रह्मनिष्ठं गुरुमुपसृत्य तमनुसरति“तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्सम्तिपाणिःश्रोत्रियं ब्रह्मनिष्ठम्” इत्यादिश्रुतेः । स गुरुः परमकृपया अध्या- रोपापवादन्यायेनैनमुपदिशति । “तस्मैविद्वानु-

( १८ ) वेदान्तसार । पसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येना- क्षरं पुरुषं वेद सत्यं प्रोवाच ता तत्त्वतो ब्रह्मविद्याम्” इत्यादिश्रुतेः ॥ २४ ॥ ( सं०टी०) अधुनाशास्त्रारंभनिमित्ताधिकार्यादिनिरूपणा- नन्तरं शास्त्रारंभं प्रस्तौति। अथवा लक्षितस्याधिकारिणः कर्तव्यं- दर्शयति। अयमधिकारीइति । उक्तलक्षणलक्षितोबुद्धिसंनि- हितोऽधिकारी गुरुमुपसरतीत्यर्थः । ननु संसारासक्तचित्तस्य वि- षयलोलुपस्यार्तिरहितस्य गुरूपसर्पणमयुक्तमित्याशंक्याह । सं- सारानलसंतप्त इति । संतापे हेतुमाह । जननेति । आदिशब्देन व्याध्यादयो गृह्यन्ते। संतप्तस्यैव गुरूपसर्पणमित्यत्र दृष्टांतमाह। प्रदीप्तशिरा इति । अर्धदग्धमस्तको दाहनिवृत्तिकामो यथा शीतलं जलराशिमनुसरति तथा संसारतापत्रयदह्यमानस्तन्निवृ- त्तिकामः स्वस्वरूपजिज्ञासुः संसारनिवर्तकं श्रोत्रियं ब्रह्मनिष्ठं करतलामलकवत्स्वप्रकाशात्मस्वरूपसमर्पकं गुरुसमीपं गत्वा- नुसरति मनोवाक्कायकर्मभिः सेवत इत्यर्थः। अस्मिन्नर्थे श्रुतिमु- दाहरति । समित्पाणिरिति । अथ गुरुकृत्यमाह । स गुरुः परम- कृपयेति । स पूर्वोक्तो गुरुरेनं शिष्यमुपदिशतीत्यन्वयः। ननु प- रमरहस्यमपि ब्रह्मस्वरूपं कस्मादुपदिशतीत्यत आह। कृपयेति। कृपाव्यतिरेकेण साधनांतराभावादित्यर्थः। नन्वखंडस्य ब्रह्मस्व- रूपस्यागोचरत्वेनोपदेष्टुमशक्यत्वात्कथमुपदिशतीत्यत आह। अध्यारोपेति । अखंडब्रह्मस्वरूपस्यागोचरत्वेन विधिमुखत्वेनो- पदेष्टुमशक्यत्वेपि “नेहनानास्तिकिंचन” इत्यादिश्रुतिमनुसृत्या-

संस्कृतटीका-भाषाटीकासमेत । ( १९) विद्याध्यारोपितमिथ्यानानापदार्थनिषेधमुखेनोपलक्षितमखंड चैतन्यमेव पुनः “सत्यं ज्ञानमनंतं ब्रह्म” इत्यादिश्रुतिमनुसृत्य लक्षणयाविधिमुखेनाप्युपदिशतीति भावः । तत्र श्रुतिमाह । तस्मा इति ॥ २४ ॥ ( भा०टी० ) यह वेदान्तशास्त्रका अधिकारी जन्ममर- णरूप संसाराग्निसे सन्तप्त होकर समिधादि उपहार हाथमें ले- कर जिस प्रकार किसी पुरुषका शिर जलनेलगै है और वह जलाशयको जाय है इसीप्रकार वेदान्तके पारदर्शी ब्रह्मवेत्ता गुरुके समीप जाकर गुरुकी सेवा करै क्योंकि श्रुतिने ऐसा कहा है—“ब्रह्मनिष्ठ सद्गुरुके समीप जाय” परम कृपालु गुरु भी अध्यारोप और अपवाद न्यायद्वारा अर्थात् अखण्ड ब्र- ह्मस्वरूपका विधिवाक्योंद्वारा उपदेश नहीं होसके है इस कारण ( नेह नानास्ति किञ्चन ) इत्यादि श्रुतियोंका अनुस- रण करके अविद्या करके भासित मिथ्या नाना पदार्थोंके नि- षेधद्वारा और ( सत्यं ज्ञानमनन्तं ब्रह्म ) इत्यादि श्रुतियोंका अनुसरण करके लक्षणाकरके विधिवाक्योंद्वारा शिष्यको उपदेश करे क्योंकि श्रुतिमें भी कहा है—“जिस विद्याके द्वारा सच्चिदानन्दमात्र पूर्णब्रह्मका परिज्ञान होय ब्रह्मवेत्ता गुरु उसही ब्रह्मविद्याद्वारा शिष्यको उपदेश करे” ॥ २४ ॥ असर्पभूते रज्जौ सर्पारोपवद्वस्तुन्यवस्त्वारोपः। वस्तु सच्चिदानन्दमद्वयं ब्रह्म । अज्ञानादिसकलजडस- मूहः अवस्तु । अज्ञानं तु सदसद्भ्यामनिर्वचनीयं

( २० ) वेदान्तसार। त्रिगुक्तात्मकं ज्ञानविरोधिभावरूपं यत्किञ्चिदिति वदंति । अहमज्ञ इत्याद्यनुभवात् । "देवा- त्मशक्तिं स्वगुणैर्निगूढाम्" इत्यादिश्रुतेश्च॥ २६ ॥ ( सं०टी० ) अस्मिन्नर्थे लौकिकदृष्टांतमाह। असर्पभू- तइति । व्यावहारिकवस्तुत्वेनाभिमतायां रज्जाववस्तुभूतस- र्पारोपोनाम रज्ज्ववच्छिन्नचैतन्यविवर्तो रज्ज्ववच्छिन्नचैत- न्यनिष्ठाविद्योपादानत्वेन नायं सर्पः किंतु रज्जुरिति विशेष- दर्शनोत्तरकालीनाधिष्ठानरज्जुसाक्षात्कारेण रज्जुज्ञाननिवृत्तौ सर्पभ्रांतिर्निवर्तत इत्यर्थः । उक्तमर्थं दार्ष्टांतिके योजयति । व- स्त्विति । कालत्रयानपायि आत्मैव वस्तुशब्दार्थः सा विद्या स- र्पज्ञानाभासाकारेण परिणममाना सर्पाकारेण विवर्तते । अत्रा- वस्तुरूपमाह । अज्ञानादीति । अज्ञानतज्जन्यव्योमादेर्मिथ्या- त्वाद्दृश्यत्वात्सावयवत्वादिकारित्वात्सापेक्षसिद्धिकत्वादित्या- दिहेतुभिरवस्तुरित्यर्थः । एतदेव विस्तरेण प्रतिपादयितुमज्ञा- नस्वरूपं तावदाह । अज्ञानं त्विति । किमिदमज्ञानं सद्द्रूपमसद्रू- पं वा। नाद्यः। तस्य शशविषाणतुल्यत्वेन तुच्छत्वात्। नापि द्वितीयः। असतःकारणत्वानुपपत्तेः । इत्यादिहेतुभिः सत्त्वेनास- त्त्वेन वा निरूपयितुं न शक्यत इत्याह।अनिर्वचनीयमिति। न- न्वज्ञानस्यानिर्वचनीयत्वे सर्वथा ज्ञातुमशक्यत्वात्तदभावप्रसंग- माशंक्याह । त्रिगुणात्मकमिति। "अजामेकाम्" इत्यादिश्रुति- भिः सत्वरजस्तमोगुणात्मकप्रतिपादनादित्यर्थः । नन्वेवमज- स्याज्ञानस्य श्रुतिप्रसिद्धस्य व्योमादिरूपेण विततस्य सत्यवद्भा-

संस्कृतटीका-भाषाटीकासमेत । ( २१ ) समानत्वेन संसारानिवृत्तिरित्याशंक्याह॥ज्ञानविरोधीति । ए- तादृशमप्यज्ञानमात्मसाक्षात्कारेण निवर्तत इत्यर्थः । तदु- क्तं भगवता “दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामे- व ये प्रपद्यंते मायामेतां तरंति ते”इति।ज्ञानाभाव एवाज्ञानमि- ति तार्किकमतं निराकरोति । भावरूपमिति । त्रिगुणात्मक- भावरूपत्वेपि इदमित्थमेवेति पिंडीकृत्य प्रदर्शयितुं न शक्य- त इत्याह । यत्किंचिदिति । किमप्यघटितघटनापटीयसीत्य- र्थः । अनिर्वचनीयभावरूपाज्ञानसद्भावेनुभवमेवोदाहृत्य दर्श- यति । अहमज्ञ इति । अहमज्ञो मामहं न जानामीत्यपरो- क्षावभास एव प्रमाणमित्यर्थः । तस्यैवोपष्टंभकत्वेन श्रुतिमु- दाहरति । देवात्मशक्तिमिति ॥ २५ ॥ (भा०टी०) उपरोक्त न्यायके विषयमें लौकिक दृष्टान्त दिखावैंहैं । रज्जु किसी समयभी वस्तुतः सर्प नहीं होती है परन्तु जिस समय उसी रज्जुमें सर्पका भ्रम होयहै उसी अव- स्तु में वस्तुके भ्रम को अज्ञान कहते हैं यही उपरोक्त अ- ध्यारोप कहाता है । सच्चिदानन्दमय, अद्वितीय पूर्णब्रह्म वस्तु है और अज्ञानादि सकल जड़ पदार्थ समूह अवस्तु है । सत् और असत् से भिन्न सत्त्वगुण रजोगुण तमोगुणरूप ज्ञानका प्रतिबन्धक भावरूप जो कुछ पदार्थ है उसको अज्ञान कहैं- हैं । इस विषयमें अनुभवही प्रमाण है जैसे मैं अज्ञ हूँ मैं आ- पको नहीं जानताहूँ यही अज्ञानका स्वरूप है । श्रुतिमेंभी

( २२ ) वेदान्तसार । कहा है-दीप्तिमान आत्माकी शक्ति निज सत्त्वगुणआदि द्वारा वेष्टित होकर निगूढभावमें रहती है ॥ २५ ॥ इदमज्ञानंसमष्टिव्यष्ट्यभिप्रायेणैकमनेकमितिच- व्यवह्रियते । तथाहि-यथावृक्षाणांसमष्ट्यभि- प्रायेणवनमित्येकत्वव्यपदेशः ॥ यथा वा जला नां समष्ट्यभिप्रायेण जलाशय इति तथा नाना त्वेन प्रतिभासमानजीवगताज्ञानानां समष्ट्यभि- प्रायेण तदेकत्वव्यपदेशः । “अजामेकाम्” इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया विशु- द्धसत्वप्रधाना । एतदुपहितं चैतन्यंसर्वज्ञत्वसर्वै- श्वरत्वसर्वनियंतृत्त्वादिगुणकं सदसदव्यक्तमन्तर्या- मि जगत्कारणमीश्वर इति च व्यपदिश्यते । सकलाज्ञानावभासकत्वादस्य सर्वज्ञत्वम् । “यः सर्वः स सर्ववित्” इति श्रुतेः ॥ २६ ॥ (सं०टी०)अज्ञानं विभजते । इदमिति । वस्तुतोऽज्ञा- नस्यैकत्वेपि समष्ट्यभिप्रायेणैकमिति व्यवह्रियते । व्यष्ट्यभि- प्रायेणानेकमित्यर्थः । तदेव प्रपंचयितुं प्रतिजानीते । तथाहीति। यथा बहूनां वृक्षाणां समुदायविवक्षया वनमित्येकत्वव्यपदेशः यथा बहूनां नद्यादिजलानां समुदायविवक्षया जलाशय इत्ये कत्वव्यपदेशःतथांतःकरणोपाधिभेदेन नानात्वेन प्रतीयमानानां जीवगताज्ञानानां समुदायविवक्षयाऽज्ञानमित्येकत्वव्यपदेश इ- त्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति । अजामिति । “अजा-

संस्कृतटीका-भाषाटीकासमेत । ( २३ ) मेकांलोहितशुक्लकृष्णां बह्वीं प्रजां जनयंतीं सरूपाम्” इत्या- दिश्रुतेः। नानाजीवगतनिकृष्टांतःकरणव्यष्ट्युपाध्यपेक्षया सम- ष्ट्युपाधेरस्य वैलक्षण्यं दर्शयति ।विगतरागादिदोषसकलकार्य- प्रपंचस्य जगत्कारणभूतस्याज्ञानस्य समष्टिभूतोत्कृष्टोपाधित्वे- न विशुद्धसत्वप्राधान्यमितिभावः। एतत्समष्ट्युपाधिद्वारेण ईश्व- रचैतन्यं लक्षयति । एतदुपहितचैतन्यमिति । एतत्समष्ट्यज्ञा- नोपलक्षितं चैतन्यं सर्वस्य चराचरात्मकप्रपंचस्य साक्षित्वेन सर्वज्ञ इत्युच्यते ।सर्वेषां जीवानां कर्म्मानुरूपेशितृत्वेनफलदा- तृत्वेनेश्वर इत्युच्यते ।तथा सर्वेषां जीवानामंतर्हृदये स्थित्वा बुद्धिनियामकत्वेनांतर्यामीत्युच्यते प्रमाणागोचरत्वादव्यक्त- मित्युच्यते।सर्वस्य चराचरात्मप्रपंचस्य विवर्ताधिष्ठानत्वेन ज- गत्कारणमिति व्यपदिश्यत इत्यर्थः । उक्तेऽर्थे युक्तिमाह । सकलेति । अत्र प्रमाणमाह । य इति ॥ २६ ॥ ( भा०टी० ) इस अज्ञानको समष्टिरूप ( एक ) व्यष्टि- रूप ( अनेक ) बोलकर व्यवहार किया जाताहै। जिस वृक्षों- के समूहको समष्टिरूप ( एक ) वन ऐसा बोलते हैं तथा जल- के समूहोंको समष्टिरूप ( एक ) जलाशय ( तलाब ) बोलते हैं। इसी प्रकार विभक्त और विराजित जीवोंके अज्ञानके समूहोंको समष्टिरूप ( एक ) अज्ञान शब्दसे बोलते हैं। श्रु- तिमेंभी कहाहै "एकही अज्ञान जन्मरहित और त्रिगुणमय- है।” यही अज्ञान समष्टिरूप उत्कृष्ट उपाधिविशिष्ट है इसी कारण इसमें विशुद्ध सत्त्वगुण प्रधान है इसी अज्ञानसे उपहित

( २४ ) वेदान्तसार । चैतन्यस्वरूप ब्रह्म, सर्वज्ञ सर्वेश्वर सर्वनियन्ता अव्यक्त अ- न्तर्यामी जगतकारण और ईश्वर इन शब्दोंसे व्यवहार किया जाता है जो सम्पूर्ण अज्ञानके प्रकाशका हेतु है वही सर्वज्ञ है। श्रुतिमेंभी कहा है-“जो जगत्को सामान्यरूप और विशेष- रूपसे जानता है वह सर्वज्ञ है,, ॥ २६ ॥ ईश्वरस्येयं समष्टिरखिलकारणत्वात्-कारणशरी- रमानन्दप्रचुरत्वात् कोशवदाच्छादकत्वाच्चानन्द- मयकोशः सर्वोपरमत्वात् सुषुप्तिः।अत एव स्थूल- सूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते, यथा वनस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशः, यथा वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति, तथा ऽज्ञानस्य व्यष्ट्यभिप्रायेण तदनेकत्वव्यपदेशः । “ इन्द्रो मायाभिः पुरुरूप ईयते ” इत्यादिश्रुतेः । अत्र समस्तव्यापित्वेन समष्टिव्यष्टिव्यपदेशः॥२७॥ (सं०टी० ) इदानीं तस्यैवेश्वरस्य समुदायोपाधिरेव का- रणशरीरत्वमानंदमयकोशत्वं सुषुप्त्यवस्थावैशिष्ट्यं च लभ- त इत्याह । ईश्वरस्येति । कारणशरीरत्वे हेतुमाह । अखिले- ति । आनन्दमयत्वे हेतुमाह । आनंदप्रचुरत्वादिति । कार- णावस्थायां प्रकृतिपुरुषमात्रव्यतिरिक्तस्य स्थूलसूक्ष्मकार्य- प्रपंचस्यैवाभावादानंदबाहुल्यमिति कोशत्वे युक्तिमाह । आ- च्छादकत्वादिति।शरीराच्छादकचर्मवदात्माच्छादकत्वादज्ञा- नस्यैव कोश इति व्यवहारः । ननु तथापि कारणत्वोपाधैरज्ञा-

संस्कृतटीका-भाषाटीकासमेत । (२५) नस्य सुषुप्तित्वं कुत इत्यत आह । सर्वोपरमत्वादिति । सर्व- स्य स्थूलसूक्ष्मोपाधेः कारणोपाधौ लीनत्वात्सुषुप्तित्वमित्यर्थः ननु स्थूलसूक्ष्मप्रपंचलयस्थानस्य कथं सुषुप्तित्वमित्याशंक्यसं- ज्ञाभेद इत्याह।अत एवेति।लयकारणात्सुषुप्तित्वं अतएव पंची- कृतभूतकार्यस्य स्थूलप्रपंचस्य जाग्रदवस्थाविशिष्टस्यापंचीकृ- तभूतकार्यस्य । सूक्ष्मप्रपंचस्य स्वामप्रपंचविशिष्टस्य लयस्था- नमित्यपि व्यवहियत इत्यर्थः । समष्टिरूपाज्ञानं सप्रपंचं निरू- प्येदानीं व्यष्टिभूतमज्ञानं निरूपयितुं दृष्टांतौ तावद्दर्शयति । य- था वनस्येति । यथा बहुवृक्षसमुदायस्य वनत्वेन रूपेणैकत्व- व्यवहारेपि प्रत्येकविवक्षया चूतादयो बहवोपि वृक्षाः तिष्ठं- तीति बहुत्वव्यवहारः । यथा वापीकूपतडागादिषु समुदा- यविवक्षया जलाशय इत्येकत्वव्यवहारेऽपि प्रत्येकवाप्यादिवि- वक्षया बहूनि जलानि तिष्ठंतीति बहुत्वव्यवहारः ॥ तथा स- कलप्रपंचकारणस्याज्ञानस्य समुदायरूपेणैकत्वेपि अहंकारादि- कारणीभूतानां जीवगताज्ञानानां प्रत्येकविवक्षया बहुत्वव्यव- हार इत्यर्थः ॥ अस्मिन्नर्थे श्रुतिं प्रमाणयति । इंद्र इति । ननु तथाप्येकस्यैवाज्ञानस्य तदवच्छिन्नचैतन्यस्य च व्यष्टिसमष्टि- ता कुत इत्यत आह । अत्रेति । भेदविवक्षया व्यष्टित्वं मृद्ध- टादिवत् । अभेदविवक्षया च समष्टित्वं मृत्पिंडवदित्यर्थः२७॥ ( भा०टी० ) ईश्वरकी उपाधिस्वरूप यह अज्ञान समष्टि, प्रपञ्चब्रह्माण्डका कारण है इसी कारण इसको कारणशरीर

( २६ ) वेदान्तसार । कहते हैं। आनन्दके आधिक्य होनेसे और कोषकी तरह आच्छादक होनेसे आनन्दमय कोषभी कहते हैं। यह शरी- रही सम्पूर्ण इन्द्रियोंके उपरामका स्थान होनेसे सुषुप्ति कहा- ताहै इसी कारण इसको स्थूल और सूक्ष्म प्रपञ्चका लय- स्थान कहते हैं । जिस तरह बनके वृक्ष सबको अलग अलग- ग्रहण करनेसे उसको अनेक वृक्षोंद्वारा व्यवहार किया जा- ताहै इसी प्रकार जलाशयके जल व्यष्टिभावसे अनेक जल प्र- तीत होयहैं इसी प्रकार नानाप्रकारके विराजमान जीवसमूहके अज्ञानको व्यष्टिरूपसे अनेक व्यवहार करें हैं। श्रुतिने भी क- हाहै-“ईश्वर नानाप्रकारकी मायाओंके द्वारा नानारूप धारण करताहै।” इस स्थलमें ईश्वरको प्रत्येक जीव व्यापी होनेसे व्यष्टि और समस्त जीवव्यापी होनेसे समष्टिरूप जनना॥ २७॥ इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्वप्रधाना एत- दुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणं प्राज्ञ- इत्युच्यते एकाज्ञानावभासकत्वादस्य प्राज्ञत्वं अ- स्पष्टोपाधितयाऽनतिप्रकाशकत्वम् ॥ २८ ॥ (सं०टी०) तत्र महाप्रलयकालीनसमष्ट्युपाधिभूतविशुद्ध सत्वप्रधानाया मूलप्रकृतेः सकाशात् दैनंदिनप्रलयकालीन- व्यष्ट्युपाधिभूतजीवप्रकृतेर्भेदं दर्शयति । इयं व्यष्टिरिति । इ- यं जीवगताज्ञानसुषुप्त्यवस्थापन्नाहंकारादिविक्षेपसंस्कारादिरू- पा निकृष्टोपाधित्वेन मलिनसत्वप्रधानेत्यर्थः। अनेनोपाधिनाप्रा- ज्ञचैतन्यं लक्षयति। एतदुपहितमिति । अत्रोपपत्तिमाह एके-

संस्कृतटीका-भाषाटीकासमेत। ( २७ ) ति। ईश्वरगतमूलाज्ञानस्य जीवगताहंकारादिविक्षेपसंस्कारादि- रूपाज्ञानस्य वस्तुत एकत्वेन तदवभासकेश्वरजीवचैतन्ययोर- प्येकत्वमित्यर्थः ॥ २८ ॥ ( भा०टी० ) उक्त अज्ञानकी व्यष्टि अपकृष्ट उपाधि है इसीसे अज्ञानकी व्यष्टिसे तमोगुणमिश्रित सत्वगुण प्रधान है । इसी व्यष्टिभूत अज्ञानसे उपहित चैतन्य प्राज्ञशब्दसे क- हा जाता है इसी व्यष्टिभूत अज्ञानोपहित चैतन्यमें अल्पज्ञत्व और अनीश्वरत्व आदि गुण रहते हैं । इसी कारण व्यष्टिभूत अज्ञानोपहित चैतन्य अलग अलग एक एक अज्ञानका प्र- काशक है इसी कारण इसको प्राज्ञ, और मलिनसत्त्वप्र- धान, अस्पष्ट उपाधिसे उपहित होनेसे अनतिप्रकाशक ( अ- ल्पप्रकाशक ) कहते हैं ॥ २८ ॥ अस्यापीयमहङ्कारादिकारणत्वात्कारण- शरीरम्।आनन्दप्रचुरत्वात्कोशवदाच्छा- दकत्वाच्च--आनन्दमयःकोशः। सर्वोपर- मत्वात्सुषुप्तिः। अत एव स्थूलसूक्ष्मश- रीरलयस्थानमिति चोच्यते ॥ २९ ॥ ( सं०टी० ) सौषुप्तजीवचैतन्यस्य प्राज्ञत्वं साधयति । अस्येति । संस्काररूपास्पष्टोपाधितया तदावृतत्वेनातिप्र- काशकत्वाभावान्प्राज्ञत्वमस्येत्यर्थः। यथा जगत्कारणेश्वरोपा- धेःकारणशरीरत्वेनानंदप्रचुरत्वेन चानंदमयत्वं कोशदृष्टांतेन च कोशत्वं तथैतत्सर्वं तारतम्येन प्राज्ञचैतन्येऽप्यतिदिशति । अहं-

( २८ ) वेदान्तसार । कारादीति।प्रलयकाले हिरण्यगर्भादिप्रपंचोत्पादकेश्वरगतमूल- प्रकृतिवत्सुषुप्तिकालेऽहंकारादिशरीरोत्पादकसंस्कारमात्राव- शिष्टजीवगताज्ञानस्यापिकारणशरीरत्वंइंद्रियतद्विषयाभावेन- व्यासंगाभावादानंदबाहुल्यादानंदमयत्वंकोशवदात्माच्छादक- त्वात्कोशत्वंचयुक्तमितिभावः॥ ननुस्थूलसूक्ष्मशरीरलयस्थान स्यकथं सुषुप्तिशब्दवाच्यत्वमित्याशंक्यपूर्ववत्संज्ञाभेदो नव- स्तुभेदइतिवक्तुंतत्रयुक्तिमाह। सर्वोपरमत्वादिति। पंचीकृतस्थूल- शरीरस्य व्यावहारिकस्यापंचीकृतसूक्ष्मशरीरे प्रातिभासिके प्रविलापितत्वात्तस्यापि प्रातिभासिकस्य स्वाप्नप्रपंचस्य स्व- कारणेऽज्ञाने लीनत्वात्सर्वोपरतिरित्यर्थः । तथा चोक्तम्"लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरंगके । तस्यापि विलये नीर तिष्ठंत्येव यथा पुरा । व्यावहारिकजीवस्य लयःस्यात्प्रातिभा- सिके । तल्लये सच्चिदानंदाः पर्यवस्यंति साक्षिणि" इति ॥ २९ ॥ ( भा०टी० ) यही व्यष्टिभूत ज्ञान अहंकारादिका कारण है इसी कारण इसको कारणशरीर कहते हैं आनन्दका आ- धिक्य होनेसे तथा कोषकी तरह आच्छादक होनेसे आन- न्दमयकोष, और इन्द्रियोंका उपरमस्थान होनेसे सुषुप्ति कहाजाताहै । इसी कारण इसी अज्ञानको स्थूल सूक्ष्म प्र- पञ्चका लयस्थान कहते हैं ॥ २९ ॥ तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसू- क्ष्माभिरज्ञानवृत्तिभिरानन्दमनुभवतः । "आनन्द- भुक् चेतोमुखः प्राज्ञः" इति श्रुतेः । 'सुखमहमस्वा-

संस्कृतटीका-भाषाटीकासमेत । ( २९ ) प्सं न किञ्चिदवेदिषम्'इत्युत्थितस्य परामर्शाप- त्तेश्च ॥ ३० ॥ ( सं०टी० ) ननु प्रलयकाले सुषुप्तिकाले चांतःकरणत- द्वृत्यभावेनानंदग्राहकाभावादानंदप्राचुर्यसद्भावे प्रमाणाभावमा शंक्य परिहरति । तदानीमिति । यथा सूक्ष्मत्वेनान्तः- करणस्य वृत्तिरंगीक्रियते तथाचैतन्यप्रदीप्त्याज्ञानस्यापिसूक्ष्मा वृत्तयःस्वीक्रियंते तथा चेश्वरःस्वकीयाज्ञानवृत्तिभिःस्वात्मानं- दबाहुल्यमनुभवति जीवोपि संस्कारमात्राविशिष्टातिशयाज्ञान वृत्तिभिः स्वात्मानंदबाहुल्यं तारतम्येनानुभवतीति भावः । अत्रैवोपष्टंभकत्वे श्रुतिमवतारयति । आनंदभुगिति । अस्यार्थः आनंदो विक्षेपाभावोपलक्षित आत्मानमेव भुंक्तेऽज्ञानवृत्तिभि- रवगच्छतीत्यानंदभुक् चेत आत्मस्वरूपावबोधःसएवावरणश- क्तिसहितो मुखं यस्य स चेतोमुखः प्राज्ञः प्रकृष्टे स्वयंप्रकाश आनंदात्मनि अज्ञानावृत्तिरूपो बोधो यस्य स प्राज्ञः उक्ताव- स्थाद्वयाभावेनावगम्यमानत्वात्तृतीयः उत्तरकालीनसुखपराम- र्शोपपत्तिरपिपूर्वानुभूतसुखबाहुल्यानुभवसद्भावे प्रमाणमित्याह सुखमहमिति । सुखमहमस्वाप्समित्यानंदपरामर्शः न किञ्चिद- वेदिषमित्यज्ञानपरामर्शः । तथाच सुषुप्तिदशायां प्रलयकाले च प्राज्ञेश्वरावज्ञानवृत्तिभिरानंदमनुभवत एवेत्यर्थः ॥ ३० ॥ ( भा०टी० ) ईश्वर और प्राज्ञ दोनों सुषुप्तिकालमें चैत- न्यद्वारा प्रकाशित होकर अतिसूक्ष्म अज्ञानवृत्तिके द्वारा आनन्द भोगते हैं । इस विषयमें श्रुति प्रमाण है-“प्राज्ञ चैत-

( ३० ) वेदान्तसार । न्यके प्रकाशद्वारा सुखको भोगता है"स्मरणकेप्रमाणसेभी जा- ना जाता है क्योंकि जब पुरुष शयन करके उठता है तब ऐसा कहता है कि'आजमें जिस समय सुखकी निद्रामें सो रहा था तब मुझको कुछ खबर नहीं थी' ॥ ३० ॥ अनयोर्व्यष्टिसमष्टयोर्वनवृक्षयोरिव ज- लाशयजलयोरिव चाभेदः ॥ ३१ ॥ (सं०टी०)तदानीमीश्वरगतमूलाज्ञानस्यजीवगतसंस्कारमा त्रावशिष्टाज्ञानस्य च समष्टिव्यष्टयभिप्रायेण भेदभानेपि वस्तुतो भेदो नास्तीत्येतत्सदृष्टांतमाह । अनयोरिति ॥ ३१ ॥ ( भा०टी० ) जिस प्रकार वृक्षकी समष्टि सहित वनका और वनकी व्यष्टिसहित वृक्षका कुछ भेद नहीं है, और जैसे जलकी समष्टिसहित जलाशयका और जलाशयकी व्यष्टि सहित जलका कोई भेद नहीं है तिसी प्रकार अज्ञान समष्टिसहित अज्ञानव्यष्टिकाभी कोई भेद नहीं है ॥ ३१ ॥ एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्ना- काशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयो- रिव चाभेदः। “एष सर्वेश्वर एष सर्वज्ञ एषोन्तर्या- म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ” इत्यादिश्रुतेः ॥ ३२ ॥ ( सं०टी० ) उक्तोपाधिद्वारेणेश्वरप्राज्ञयोरप्यभेदं दृष्टांत- मुखेन दर्शयति । एतदुपहितयोरिति । ईश्वरस्य वनावच्छि- न्नाकाशवत्प्राज्ञस्य वृक्षावच्छिन्नाकाशवच्च तथा स्थूलजलाश-