भारतकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

संस्कृतटीका-भाषाटीकासमेत । ( १११ ) स्वरूपस्य तद्दृशिस्वरूपं साक्षिरूपमित्यर्थः । तदुक्तं भगवता 'उपद्रष्टानुमंता च भर्ता भोक्ता महेश्वरः ॥ परमात्मेति चाप्यु- क्तो देहेस्मिन्पुरुषः परः” इति।पुनः किंरूपं तत् गगनोपमं गग- नं उपमा दृष्टांतो यस्य तद्गगनोपमं गगनवन्निर्लेपस्वरूपमित्यर्थः तथा च भगवद्वचनं “तथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते” इति। यद्वा गगनोपमं गगनवदमूर्तस्वरूपमित्यर्थः“आकाशशरीरं ब्रह्म”इतिश्रुतेः।पुनः किंभूतं सकृदेकदैव विभातं सर्वदैकस्वरूपेण भासमानं चंद्रादिप्र- काशवन्नवृद्धिक्षयशीलमित्यर्थः।पुनःकिंरूपं अजं जन्मरहितं,ए कं निरस्तसर्वोपाधिभेदं,अक्षरं विनाशधर्मराहित्येन कूटस्थस्व- रूपमित्यर्थः।तथा च भगवानाह । “क्षरः सर्वाणि भूतानि कूट- स्थोऽक्षर उच्यते”इति । अलेपकं असंगत्वादविद्यादिदोषरहि- तमित्यर्थः “असंगो ह्ययं पुरुषः”इतिश्रुतेः॥सर्वगतं सर्वत्र ब्रह्मा- दिस्थावरांतेषु गतं व्याप्तं अद्वयं सजातीयविजातीयस्वगत- भेदराहित्येन द्वितीयरहितं सततं विमुक्तमिति सर्वदाकार्यका- रणात्मकसर्वोपाधिविनिर्मुक्तत्वेन सततमेकरूपमित्यर्थः।तथाच भागवते “बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः” इति। तथा च एतादृशं निरतिशयानंदं यत्परं ब्रह्म तदेवाह।अह मिति। भावयतो निषेधप्रतियोगित्वेन तत्तदुपाधिभानात्तत्तत्प्रयुक्तभे- दज्ञानेप्यद्वैतं भासत एवेत्यर्थः ॥ ९१ ॥ (भा०टी०) अब मननका लक्षण कहतेहैं।वेदान्तके अनु- कूल युक्तिद्वारा चिरकालसे श्रवण किये हुए अद्वितीय ब्रह्म

( ११२ ) वेदान्तसार । वस्तुकी चिन्तना का नाम मननहै। तत्त्वज्ञानके विरोधी दे- हादि जड पदार्थ ज्ञानको त्याग कर अद्वितीय ब्रह्म वस्तुके अनुकूल ज्ञानके प्रवाह ( आधिक्य ) को निदिध्यासन कह- तेहैं। समाधि दो प्रकार का है। एक सविकल्पक,दूसरा निर्वि- कल्पक । ज्ञाता ज्ञान और जानने योग्य वस्तु इन तीन पदार्थोंको पृथक् पृथक् ज्ञान होनेपरभी अद्वितीय ब्रह्म वस्तुमें अखंडाकार चित्तकी वृत्ति होना सविकल्पक समाधि कहाताहै । जैसे मृत्तिकाके हस्तीसे हस्तीका ज्ञान होनेपर भी मृत्तिकाही है ऐसा ज्ञान होताहै तिस प्रकार द्वैतज्ञान होने परभी अद्वैत ज्ञान होताहै । इस विषयमें प्रमाण भी कहाहै-“ सर्वसाक्षी, सर्वव्यापी, सर्वोत्कृष्ट, स्वप्रकाशस्वरूप, जन्ममृत्युरहित, निर्लिप्त, और सर्वदा मुक्तस्वभाव जो अद्वितीय ब्रह्म है सो मैं हूं ” ॥ ९१ ॥ निर्विकल्पकस्तु ज्ञातृज्ञानादिभेदलयापेक्षया द्वि- तीयवस्तुनि तदाकाराकारिताया बुद्धिवृत्तेरतित- रामेकीभावेनावस्थानम् । तदा तु जलाकाराका- रितलवणानवभासेन जलमात्रावभासवत् द्वितीय- वस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयव- स्तुमात्रमेवावभासते। ततश्चास्य सुषुप्तेश्चाभेदश- ङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि त- त्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥ ९२ ॥ ( सं०टी० ) समाधिस्वरूपमाह । निर्विकल्पकस्त्व-

संस्कृतटीका-भाषाटीकासमेत । ( ११३ ) ति । अयं च द्विविधः चिरकालाभ्यस्तपटुतरसविकल्पकस- माध्यनुभवजनितसंस्कारसहकृतायाः चित्तवृत्तेर्ज्ञात्रादित्रिपु- टीलयपूर्वकमद्वैतवस्तुन्येकभावनात्मकः । प्रथमः एतन्निर्विक- ल्पकसमाध्यभ्यासपाटवेन लुप्तसंस्कारतया ज्ञात्रादित्रिपुटी- लयपूर्वकमखंडाकारितायाः चित्तवृत्तेर्विनापिस्वस्फूर्तिकेवलाचि दात्मना च स्थानात्मकॊ द्वितीयः। तत्र द्वितीयपक्षमभिप्रेत्याह । ज्ञातृज्ञानादीति । नन्वेवं समाधिसुषुप्त्योर्विक्षेपाभावेन वृत्त्य- भानादभेदमाशंक्य परिहरति । तत्र युक्तिमाह । उभयत्रेति । समाधिसुषुप्त्योरित्यर्थः । तत्सद्भावेति समाधावज्ञायमानवृत्ति- सद्भावात् सुषुप्तौ वृत्त्यभावाच्च तयोर्भेदोपपत्तेरित्यर्थः ॥ ९२ ॥ (भा०टी०) ज्ञाता ज्ञान और जानने योग्य वस्तु तीन पदार्थोंका भेद ज्ञानका अभाव होनेपर अद्वितीय ब्रह्मव- स्तुमें अखण्डाकार चित्तकी वृत्ति होना निर्विकल्पक समा- धि कहाताहै । इस समाधिके समय जिस प्रकार जलमें मिले हुए लवणके लवणत्व ज्ञानका अभाव होनेपर केवल जलका ज्ञान होताहै तिसी प्रकार अद्वितीय ब्रह्माकार चित्तवृत्तिके ज्ञानकी सत्ताका अभाव होनेपर भी ब्रह्म वस्तुमात्र ज्ञान रहताहै अर्थात् अखण्ड ब्रह्ममें चि- त्तवृत्तिके लीन होनेपर और भिन्नरूप कुछ ज्ञान नहीं होताहै अखण्ड ब्रह्ममय ज्ञानही होताहै इसी कारण सु- षुप्ति अवस्थासे निर्विकल्पक समाधिका भेद कोई भेद नहीं है इस प्रकार आशंकाभी नहीं होतीहै क्योंकि सुषुप्ति

( ११४ ) वेदान्तसार । अवस्थासे और निर्विकल्पक समाधि अवस्थामें वृत्तिज्ञान की अभाव अंशमें समानता होनेपर भी वृत्तिकी सत्ता और सत्ताद्वारा समाधि और सुषुप्तिका भेद है ॥ ९२ ॥ अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहार- धारणाध्यानसमाधयः । तत्राहिंसासत्यास्तेयब्रह्म- चर्यापरिग्रहा यमाः । शौचसन्तोषतपःस्वाध्याये- श्वरप्रणिधानानि नियमाः । करचरणादिसंस्थान- विशेषलक्षणानि पद्मस्वस्तिकादीनि आसनानि । रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणा- यामाः । इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः । अद्वितीयवस्तुन्यन्तरिन्द्रिधारणं धारणा । तत्र द्वितीयवस्तुनि विच्छिद्यविच्छिद्य- अन्तरिन्द्रियवृत्तिप्रवाहः ध्यानम् । समाधिस्तु उक्तः सविकल्पक एव ॥ ९३ ॥ ( सं०टी०) उक्तसमाधेः साधनापेक्षायामाह । अस्येति । तानि च साधनानि क्रमेणोद्दिशति । यमेति । यमाद्यष्टांगानि समाधेरंतरंगसाधनानीत्यर्थः। प्रथमं यमस्य लक्षणमाह । तत्रेति तेषु यमाद्यष्टांगेषु मध्ये अहिंसादयः पंच यमा अवश्याः अनुष्ठे- या इत्यर्थः । तदनंतरं नियमानाह । शौचेति शौचादयः पंच नि यमा इत्यर्थः । आसनं लक्षयति । आसनानीति। करचरणादिसं स्थानविशेषलक्षणानि पद्मकस्वस्तिकादीनि आसनानि । प्रा- णायामलक्षणमाह । रेचकेति । “ ईडया पूरयेद्वायुं मुंचेद्दक्षि-

संस्कृतटीका-भाषाटीकासमेत । ( ११५ ) णयानिलम् । यावच्छ्वासं समासीनः कुंभयेतं सुषुम्नया ” यदा योगी पद्मासने उपविश्य योगमभ्यस्यति तदा गुल्फाभ्यां गु- दमूलं निष्पीड्य खेचरीमुद्रासहायेन प्राणधारण्या सुषुम्ना- मार्गेण मूलाधारात्कुंडलिनीमुत्थाप्य स्वाधिष्ठानमणिपूरानाह- तविशुद्धाज्ञानिर्वाणाख्यषट्चक्रभेदक्रमेण सहस्रदलकमलक- र्णिकायां विद्यमानपरमात्मना सह प्राणं संयोज्य तत्रैव चित्तं निर्वांतदीपवन्निश्चलं कृत्वा स्वात्मानंदरसं पिबतीत्येतत्प्राणाया- मफलम्। स च द्विविधः अगर्भः सगर्भश्चेति“मुंचेद्दक्षिणया वायुं मात्राहीनमनन्यधीः। पूरयेद्वामया तद्वत्कुंभयेच्च सुषुम्नया॥ याव- च्छ्वासं जितश्वासो भवेन्मासाज्जितेन्द्रियः”इति वचनात् प्रण- वोच्चारणराहित्येनोक्तरेचकपूरककुंभकक्रमेण प्राणनिरोधोऽग- र्भप्राणायामः “रेचयेत् षोडशेनैव तद्द्वैगुण्येन पूरयेत् । कुंभयेच्च चतुःषष्ट्या प्रणवार्थमनुस्मरन्”इतिवचनात् षोडशप्रणवं म- नसा जपन्दक्षिणया वायुं विरेच्य द्वात्रिंशत्संख्याकप्रणवं मनसा समुच्चरन् वामया वायुमापूर्य चतुःषष्टिसंख्याकं प्रणवं मनसा जपंस्तदर्थंचअकारोकारमकारार्द्धमात्रात्मकसार्धत्रिमात्रात्मक सार्धत्रिवलयाकारकुंडलिनीरूपं चिदानंदकंदं च मूलाधारादि- ब्रह्मरंध्रांतमनुसंदधत्सुषुम्नया चित्तमपि तदेकप्रवणं कुर्वन् याव- च्छ्वासं कुंभयेत् । तदुक्तमाचार्यैः“षोडशतद्विगुणचतुष्षष्टिमा- त्राणि च क्रमशः ॥ रेचकपूरककुंभकभेदैः त्रिविधः प्रभंजनाया- मः”इति प्राणायामप्रकारः ॥ क्रमप्राप्तं प्रत्याहारं निरूपयति। इंद्रियाणामिति । श्रोत्रादीनामिंद्रियाणां स्वस्वविषयेभ्यः श-

( ११६ ) वेदान्तसार । ब्दादिभ्यः सकाशात्पाषाणोपरि प्रयुक्तः शरसंघातः तद्वत्प्र- त्यावर्तनं प्रत्याहारः । नन्विंद्रियाणां स्वस्वविषयेभ्यो निवर्तनं प्रत्याहार इत्युक्तं तन्न संभवति शब्दादिविषयाणां सुखसाध- नत्वेन वैषयिकसुखव्यतिरिक्तनिरतिशयानंदसद्भावे प्रमाणा- भावाद्धैरण्यगर्भाद्यमृतभोगस्येश्वरेणापि त्यक्तुमशक्यत्वादिति चेत् । न । मूढैः कर्मजडैर्विषयलंपटैः त्यक्तुमशक्यत्वेपि शुद्धां- तःकरणेन संसाराविद्यकत्वदर्शिना विषयदोषदर्शनेन तुच्छी- कृतशब्दादिविषयप्रपंचेन पुरुषोत्तमेन पुरीषवत् त्यक्तुं- शक्यत्वात् । अन्यथा संन्यास एव लुप्येत "तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः । एतमेव लोकमभी- प्संतः प्रव्राजिनः प्रव्रजंति । एतत्सर्वं भूः स्वाहेत्यप्सु परि- त्यज्यात्मानमनिच्छेत्” । "न कर्मणा न प्रजया धनेन त्यागेनै- केनामृतत्वमानशुः” । ब्रह्मचर्यादेव प्रव्रजेत यदहरेव विरजेत्तद- हरेव प्रव्रजेत् वनाद्गृहाद्वा । सर्वधर्मान्परित्यज्य मामेकं श- रणं व्रज"इति।संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया" प्रव्रजंत्य- कृतोद्वाहाः परंवैराग्यमाश्रिताः प्रत्यग्विविदिषासिद्धयै वेदानुव- चनादयः। ब्रह्मावाप्त्यैवतत्त्यागमभीप्संतीतिश्रुतेर्बलात्” इत्यादि श्रुतिस्मृतिभिः तथा "आनंदो ब्रह्मेति व्यजानात् एतस्यैवानंद- स्यान्यानि भूतानि मात्रामुपजीवंतीति एषोस्य परमानंदःआत्मै वानंद यदेष आकाश आनंदो न स्यात् आनंदाद्धयेवखलु” इत्यादिश्रुतिभिश्च नित्यात्मसुखस्य प्रतिपादितवाच्छब्दा- दिवैषयिकसुखव्यतिरिक्तनित्यनिरतिशयानंदसद्भावे प्रमाणा-

संस्कृतटीका-भाषाटीकासमेत । (११७) भावादित्येतदपि निरस्तं बोद्धव्यम् ॥ संप्रति धारणां लक्षयति । अद्वितीयवस्तुनीति । सर्वेषां बुद्धिसाक्षितया विद्यमाने व- स्तुनि चित्तनिक्षेपणं धारणा इत्यर्थः । धारणपाटवाभावेन चित्तस्थैर्याभावादद्वितीयवस्तुनि विच्छिद्यविच्छिद्यचित्त- वृत्तिप्रवाहकरणं ध्यानमित्याह। तत्रेति। समाधिरुक्त एव सवि- कल्पकः स्मर्तव्य इत्याह । समाधिरिति ॥ ९३ ॥ ( भा० टी० ) यम, नियम, आसन, प्राणायाम, प्रत्या- हार, धारणा, ध्यान और समाधि ये सम्पूर्ण निर्विकल्पक समाधिके अङ्ग हैं। अहिंसा, सत्य, चोरीका त्याग, ब्रह्मचर्य्य और अपरिग्रह इन सबके धारणका नाम यम है। पवित्रता, सन्तोष, तपस्या, अध्ययन और ईश्वरप्रणिधान इनको नियम कहतेहैं। हस्तपादादिके संस्थान विशेष जो स्वस्तिक पत्र इत्यादि हैं सो आसन कहातेहैं। रेचक, पूरक, कुम्भकरूप प्राण वायुके निग्रह करनेके उपायका नाम प्राणायाम है। श- ब्दादि विषयोंसे श्रवणादि इन्द्रियोंका हटाना प्रत्याहार कहाताहै। अद्वितीय ब्रह्म वस्तुमें अन्तःकरणके अभिनि- वेशका नाम धारणा है। अद्वितीय ब्रह्मवस्तुमें चित्तवृत्तिके प्रवाहका नाम ध्यान है। पूर्वोक्त सविकल्पक समाधिका ना- म समाधि है ॥ ९३ ॥ एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषाय- रसास्वादलक्षणाश्चत्वारो विघ्नाः सम्भवन्ति । लयस्तावत् अखण्डवस्त्वनवलम्बनेन चित्तवृत्ति-

( ११८ ) वेदान्तसार । निद्रा । अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर- न्यवलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चि- त्तवृत्तेरागादि वासनया स्तब्धीभावात् अखण्डव स्त्वनवलम्बनं कषायः । अखण्डवस्त्वनवलम्बने- नापि चित्तवृत्तेः सविकल्पानन्दास्वादनं रसास्वा- दः । समाध्यारम्भसमये सविकल्पानन्दास्वाद- नं वा ॥ ९४ ॥ (सं०टी०) उक्तयमाद्यष्टांगसहितनिर्विकल्पकसमाधेर्नि- र्विघ्नानुष्ठानसिद्ध्यर्थं विघ्नज्ञानव्यतिरेकेण तन्निवारणस्य कर्तु- मशक्यत्वादस्य चतुरो विघ्नान् दर्शयति। एवमस्येति। तत्राद्यं विघ्नं लक्षयति । लयस्तावदिति । लयो द्विविधः चिरकालप्रयु- क्ताष्टांगसहितनिर्विकल्पकसमाध्यभ्यासपाटवेनातितप्तलोहतल क्षिप्तजलबिंदुवत्तैलरहितदीपकलिकावच्च प्रत्यगभिन्नेपरमानंद चित्तवृत्तेर्लयः प्रथमः । द्वितीयस्तु मूर्छावस्थावत् आलस्येन चित्तवृत्तेर्बाह्यशब्दादिविषयग्रहाणानादरे सति प्रत्यगात्मस्वरू- पानवभासनाद्वृत्तेःस्तब्धीभावलक्षणनिद्रारूपः।तत्राद्यमंगीकृत्य द्वितीयस्य विघ्नत्वेन तत्त्यागाय तत्स्वरूपमाह । लयस्ताव- दिति । द्वितीयं विघ्नमाह । अखंडेति । अखंडवस्तुग्रहणायां- तर्मुखतया प्रवृत्तायाः चित्तवृत्तेः चिदनवलंबनेन त्रस्तपक्षिवत्पु- नर्बाह्यविषयग्रहणाय प्रवृत्तिर्विक्षेप इत्यर्थः । तृतीयं विघ्नमाह । लयेति । रागादयः त्रिविधाः । बाह्या आभ्यंतरा वासनामा- त्ररूपाश्चेति । बाह्याः पुत्रादिविषयाः । आभ्यंतरा मनोराज्या-

संस्कृतटीका-भाषाटीकासमेत । ( ११९ ) दयः । संस्काररूपा वासनामयाः । तत्रानेकजन्माभ्यस्तबाह्या- भ्यंतररागाद्यनुभवजनितसंस्कारैः कलुषीकृतं चित्तं कथंचिच्छ्र- वणादिसाधनेनांतर्मुखमपि चैतन्यग्रहणसामर्थ्याभावान्मध्येएव स्तब्धीभवति यथा राजदर्शनाय स्वगृहान्निर्गत्य राजमन्दिर- प्रविष्टस्य कस्यचित्पुरुषस्य द्वारपालनिरोधेन स्तब्धीभावः तथा परित्यक्तबाह्यविषयस्याखंडवस्तुग्रहणाय प्रवृत्तस्य चित्तस्यो- द्बुद्धरागादिसंस्कारैः स्तब्धीभावादखंडवस्त्वग्रहणं कषाय इत्य- र्थः । चतुर्थविघ्नमाह। अखंडेति। उक्तसविकल्पकसमाध्योर्मध्ये द्वितीयः शब्दानुविद्धः त्रिपुटीविशिष्टः तस्मिन्नानंदो बाह्यश- ब्दादिविषयप्रपंचभारत्यागप्रयुक्तो न तु चैतन्यप्रयुक्तः यथा निधिग्रहणाय प्रवृत्तस्य निधिपरिपालकभूतप्रेताद्यावृतस्य नि- धिप्राप्त्यभावेपि भूताद्यनिष्टनिवृत्तिमात्रेण कोपि महानानं- दो भवति तथा सविकल्पकसमाधावखंडवस्त्वनवलंबननि- त्यानंदरसास्वादनाभावेपि अनिष्टबाह्यप्रपंचनिवृत्तिजन्यानंदं सविकल्परूपं ब्रह्मानंदभ्रमेणास्वादयतीति तत् रसास्वादनमि- त्यर्थः । लक्षणांतरमाह । समाधीति । निर्विकल्पकसमाध्यारं- भकालेऽनुभूयमानसविकल्पकानंदत्यागासहिष्णुतया पुनः त- स्यैवास्वादनं रसास्वाद इत्यर्थः ॥ ९४ ॥ (भा०टी०) पूर्वोक्त यमादि अङ्गयुक्तनिर्विकल्पक समा- धिके चार विघ्न होते हैं। जैसे लय, विक्षेप, कषाय, और रसास्वा- दन। अखण्ड ब्रह्मवस्तुके अवलम्बनकरनेमें असमर्थ चित्तवृत्ति- की जो निद्रा है उसका नाम लयहै। अखण्ड ब्रह्मवस्तुके अवल

( १२० ) वेदान्तसार । म्बन करनेमें असमर्थ अन्तःकरणवृत्तिका जो अन्य वस्तुका अवलम्बन है उसको विक्षेप कहते हैं । लय और विक्षेपके न होनेपर रागादि वासनासे अन्तःकरण स्तब्ध होजाताहै तब अखण्ड ब्रह्मवस्तुके अवलम्बनकी असामर्थ्यका नाम कषाय है । निर्विकल्पक अखण्ड ब्रह्मवस्तुके अवलम्बन करनेमें अ- समर्थ अन्तःकरणकी वृत्तिके सविकल्पक आनन्द आस्वादन का नाम रसास्वादन है अथवा निर्विकल्पक समाधिके आर- म्भके समय सविकल्पक रसास्वादनकोभी रसास्वादन कहतेहैं। अनेन विघ्नचतुष्टयेन रहितं चित्तं निर्वातदीपवद- चलं सदखण्डचैतन्यमात्रमवशिष्यते यदा तदा नि- र्विकल्पकः समाधिरित्युच्यते तदुक्तम्-“लये स- म्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजा- नीयाच्छमप्राप्तं न चालयेत् । नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इत्यादि “यथा दीपो नि- वातस्थो नेङ्गते सोपमा स्मृता” इत्यादि च ॥९५॥ (सं०टी०) प्रोक्तविघ्नचतुष्टयनिवृत्तेः फलमाह। अनेने- ति। लयादिविघ्नाभावसहितं चित्तं यदा निर्वातदीपवदचलमखं- डचैतन्यमात्रमवतिष्ठते तदा निर्विकल्पकसमाधिरित्यर्थः। लया- दिविघ्नसद्भावे तन्निवृत्तिप्रकारे च वृद्धसंमतिमाह। तदुक्तमिति। पूर्वोक्तनिद्रालक्षणे लये जाते सति तन्निवृत्त्यर्थं चित्तं संबोधये- त् चित्तगतजाड्यादिपरित्यागेन चित्तमुद्बोधयेत् उक्तविक्षेप- युक्तं चित्तं यदा भवति तदा विषयवैराग्यादिना चित्तं शमयेत्

बहिर्मुखतां परित्यज्यांतर्मुखं कुर्यात् उक्तरागादिकषाय सहितं चित्तं यदा भवेत्तदा विजानीयादियं रागादिवासनाबा- ह्यविषयप्रापिका नत्वखंडवस्तुप्रापिका अतो नेयं समीचीनेति विविच्य प्रत्यक्श्रवणवासनायाः सकाशादियं निकृष्टाऽतस्त्या ज्येयमिति जानीयादित्यर्थः। यद्वा सम्यग्वस्तुन्यप्राप्तं चित्तं यदा भवति तदा तच्चित्तं कषायसहितंजानीयात्तच्चचित्तं यावताकाले न रागादिवासनाक्षयसहितं भवति तावत्कालंतच्चित्तंस्वस्थानान्न चालयेद्वासनाक्षयानंतरं चित्तं स्वत एव प्रत्यक्प्रवणं भवतीत्य र्थः। नास्वादयेदिति। पूर्वोक्तसविकल्पकरसं विषयप्रपंचभारत्या गजन्यं नास्वादयेन्नानुभवेत् । तत्र युक्तिमाह । निःसंग इति । यतो निःसंगो वैषयिकसुखदुःखादिसंगरहितः अतः प्रज्ञया युक्तो भवेत् स्थिरप्रज्ञो भवेदित्यर्थः । तदुक्तं भगवता “प्रज- हाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तु- ष्टः स्थितप्रज्ञस्तदोच्यते” इति । तस्माल्लयदिविघ्नाभावविशि- ष्टचित्तस्य चिन्मात्रतयावस्थानं निर्विकल्पकसमाधिरित्यर्थः। तत्र भगवानाह । यथेति । अथ निर्विकल्पकसमाधौ स्व- गुरूपदिष्टमार्गेण यथामति किंचिद्विचार्यते । पंचभूमिकोपेतस्य चित्तस्य भूमिकात्रयपरित्यागेनावशिष्टं भूमिकाद्वयं समाधिरि त्युच्यते। कास्ताः पंचभूमिकाः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरु- द्धं चेति पंच चित्तभूमिकाः । तत्र सुरसंपल्लोकशास्त्रदेहवासना- सु वर्त्तमानं क्षिप्तमित्युच्यते, निद्रातंद्रादिग्रस्तं चित्तं मूढमित्यु- च्यते, कदाचित्कृतध्यानयुक्तमपि बहिर्गमनशीलं उक्तविक्षिप्ता- ६

( १२२ ) वेदान्तसार । द्विशिष्टतया विक्षिप्तं चित्तमित्युच्यते, तत्र क्षिप्तमूढयोः समा- धित्वशंकैव नास्ति विक्षिप्ते तु चेतसि विक्षेपांतर्गततया दह- नांतर्गतबीजवच्चित्तस्य सद्यएव विनाशात्तदापि न समाधिः। ए- काग्यतां पतञ्जलिः सूत्रयति “शांतोदितौ तुल्यप्रत्ययौ चित्तस्यै- काग्यता परिणामः”इति। अस्यार्थः।शांतोऽतीतःउदितोवर्तमानः चित्तवृत्तिरतीतवर्त्तमानप्रत्ययौ भवतः। अतीतप्रत्ययो यं पदार्थं गृह्णाति उदितोपि तमेव चेत् गृह्णीयात् तदा तावुभौ तुल्यौ भ- वतः। तादृशएव चित्तस्य परिणाम एकाग्रतेत्युच्यते,एकाग्रता- भिवृद्धिलक्षणं समाधिं सूत्रयति । सर्वार्थैकाग्रतयोः क्षयोदयौ चित्तस्य परिणामः समाधिरिति रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वानर्थान्पदार्थान्परिगृह्णाति तस्य रजोगुणस्य निरो- धाय क्रियमाणेन प्रयत्नविशेषेण दिने दिने योगिनः सर्वार्थता क्षीयते एकाग्रता चोदेति तादृशः चित्तस्य परिणामः समाधि- रित्यर्थः। अस्य समाधेरष्टांगेषु यमनियमासनप्राणायामप्रत्याहा राः पंच बहिरंगानि। हिंसादिभ्यो निषिद्धेभ्यो योगिनः कर्म्मभ्यो यमयन्ति निवर्त्तयंतीत्यहिंसादयो यमाः। जन्महेतोः काम्यधर्मा- न्निवर्त्य मोक्षे हेतौ निष्कामधर्मे नियमयंति प्रेरयंतीति शौचा- दयो नियमाः। यमनियमयोरनुष्ठानवैलक्षण्यं स्मर्यते “यमान्से- वेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकुर्वाणोनियमां- न्केवलान् भजन्” इति बुद्धया यमनियमौ समीक्ष्य यमबहु- लेषु प्रयत्नेषु बुद्धिमनुसंदधीत । आसनप्राणायामप्रत्याहारा व्याख्याताः ॥ ९५ ॥

संस्कृतटीका-भाषाटीकासमेत । ( १२३ ) (भा०टी०) जिससमय चित्त पूर्वोक्त चार प्रकारके विघ्नोंसे रहित होकर वायुरहित स्थानमें स्थित दीपककी तरह अचलहुआ केवल अखण्ड चैतन्यमात्रकी चिन्तामें तत्पर होता है उस समय चित्तका निर्विकल्पक समाधि कहाता है श्रुतिके प्रमाणसेभी जाना जाता है- "लयरूप विघ्न उपस्थित होनेपर अन्तःकरणमें उद्बोधकको उत्पन्न करै अन्तःकरणके विक्षेपरूप विघ्नके तिरस्कृत होनेपर उसको शान्त करै । कषायरूप विघ्नयुक्त हुए चित्तको जानकर निवृत्त रक्खै। जिस समय अखण्ड ब्रह्म वस्तुमें प्रणिधान होय उससमय अन्तःक- रणको चलायमान न करै । उस समय कोई सविकल्पक आनन्द आस्वादन न करै। और प्रज्ञाद्वारा निःसंग होजायहै। इस विषयमें स्मृतिका प्रमाणभी है- "जिसप्रकार दीपक वायु- रहित स्थानमें स्थित होकर निश्चल रहता है तिसीप्रकार प्र- णिधान होनेपर अन्तःकरण निश्चल होता है" ॥ ९५ ॥ अथ जीवन्मुक्तलक्षणमुच्यते । जीवन्मुक्तो नाम स्वस्वरूपाखण्डे ब्रह्मणि साक्षात्कृते सति अज्ञात- तत्कार्य्यसञ्चितकर्म्मसंशयविपर्य्ययादीनामपिबा धितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः । "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्म्माणि तस्मिन्दृष्टे परावरे"। इत्यादिश्रुतेः॥९६॥ (सं०टी०) ध्यानधारणासमाधित्रयं मनोविषयत्वात्सम्प्र- ज्ञातसमाधेरंतरंगं यमादिकंतुबहिरंगं तथाचकेनापि पुण्येनांतरंगे

( १२४ ) वेदान्तसार । प्रथमं लब्धे सति बहिरंगलाभाय नातिप्रयासः कर्तव्यः । यद्य- पि पतंजलिना भौतिकभूततन्मात्रेन्द्रियाहंकारविषयाः संप्र- ज्ञातसमाधयो बहुधा प्रपंचिताः तथापि तेषामंतर्धानाकाश- गमनादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वान्नास्माभिः तत्रादरः क्रियते । तथा चोक्तं वासिष्ठे । "श्रीराम उवाच । जीवन्मुक्तशरीराणां कथमात्मविदांवर । शक्तयो नेह दृश्यंते आ- काशगमनादिकाः॥ श्रीवसिष्ठउवाच। अनात्मविदमुक्तो पि सि- द्धिजालानि वांछति । द्रव्यमंत्रक्रियाकालयुक्त्याप्नोत्येव राघव ॥ नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मनात्मदृक् । आत्मना- त्मनि संतुष्टो नाविद्यामनुधावति । ये केचन जगद्भावा- स्तानविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्त्वा वि- द्यां निमज्जति । द्रव्यमंत्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वंति कांचन ॥" इति। आत्मविषयस्तु सं प्रज्ञातसमाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुः तस्मा- त्तत्रादरः कृतः । अथ पंचमभूमिकारूढचित्तस्य निरोध- लक्षणः समाधिर्निरूप्यते । तं च समाधिं सूत्रयति “व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधः परिणामः” इति । व्युत्थानसंस्काराः समाधिविरोधिनः ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं वाऽभिभू- यंते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवंति तथा सति नि- रोध एवैकस्मिन् क्षणे चित्तमनुगच्छति सोऽयमीदृशः चित्तस्य परिणामो भवति यदा तदाऽसंप्रज्ञातसमाधिरुच्यत इत्यर्थः। ए-

संस्कृतटीका-भाषाटीकासमेत । ( १२५ ) तत्समाधिद्वयं जीवन्मुक्तस्यैव भवति नान्यस्येति मनसि नि- धाय प्रथमं जीवन्मुक्तस्य स्वरूपं प्रतिपादयितुं प्रतिजानीते । अथेति । तस्य लक्षणमाह । जीवन्मुक्तो नामेत्यादिना ब्रह्मनि- ष्ठ इत्यंतेन । जीवन्मुक्तो नामेति । अत्राखिलबंधरहितो ब्रह्म- निष्ठो जीवन्मुक्त इति । तस्य लक्षणं जीवतः पुरुषस्य हि कर्तृत्वभोक्तृत्वसुखदुःखलक्षणोऽखिलो यः चित्तधर्मः स क्ले- शरूपत्वाद्बंधो भवति तेन रहितः परित्यक्तबंधनः ब्रह्मणि निष्ठा तदेकपरता यस्य स ब्रह्मनिष्ठः जीवन्मुक्त इत्यर्थः । सकलबं- धराहित्ये हेतुमाह । स्वस्वरूपेति । गुरुश्रुतिस्वानुभवैर्ब्रह्मा- त्मैकत्वविज्ञानेन मूलाज्ञानतत्कार्यसंचितकर्म्मादीनामपि बा- धितत्वात्सर्वसंशयाः क्षीयंते इति। तथा च श्रुतिः “भिद्यते हृ- दयग्रंथिश्चिद्यंते सर्वसंशयाः। क्षीयंते चास्य कर्माणि तस्मिन्दृ- ष्टे परावरे” इति ॥ ९६ ॥ ( भा०टी० ) अब जीवन्मुक्तका लक्षण निरुपण करते हैं। जो पुरुष अखण्ड चैतन्यस्वरूप ब्रह्मज्ञान होनेके अनन्तर अज्ञानका नाश होनेसे सर्वव्यापी चैतन्यस्वरूप ब्रह्मका सा- क्षात्कार करके अज्ञान और अज्ञानके कार्य,इकठे कियेहुये पाप,पुण्य,संशय, और भ्रमादिको दूर करके संसार बन्धनसे विमुक्त होकर ब्रह्मनिष्ठ होता है उसको जीवन्मुक्त कहते हैं। इसका प्रमाण श्रुतिसेभी जाना जाता है-“सर्वश्रेष्ठ परब्रह्मका साक्षात्कार होनेसे हृदयका भ्रम नष्ट होता है। सम्पूर्ण संशय

( १२६ ) वेदान्तसार । दूर हो जाते हैं । और अच्छे बुरे कर्म्मोंके फल नष्ट होजातेहैं अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि- भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाजने- नेन्द्रियग्रामेण अशनायापिपासाशोकमोहादिभा- जनेनान्तःकरणेन च तत्तत्पूर्वपूर्ववासनया क्रिय- माणानि कर्म्माणि भुज्यमानानि ज्ञानाविरुद्धान्या- रब्धफलानि च पश्यन्नपि बाधितत्वात् परमार्थतो न पश्यति यथा इदमिन्द्रियजालमिति ज्ञानवान् तदिन्द्रियजालं पश्यन्नपि परमार्थमिदमिति न पश्यति। "सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना अमना इव सप्राणोऽप्राण इव"इत्यादिश्रुतेः । उक्तञ्च—"सुषुप्तवज्जाग्रति यो न पश्यति द्वयञ्च प- श्यन्नपि चाद्वयत्वतः ॥ तथापि कुर्वन्नपि निष्क्रि- यश्च यः स आत्मविन्नान्य इतीह निश्चयः " इति ॥ ९७ ॥ ( सं०टी० ) नन्वेतादृशस्य जीवन्मुक्तस्य देहेंद्रियादिभा- नमस्ति नवेत्याशंक्य दग्धपटन्यायेनेन्द्रजालनिर्मितसौधसमु- द्रादिवच्च बाधितानुवृत्त्या मिथ्यात्वेन भानेपि परमार्थतया भा- नं नेत्याह । अयमित्यादिना न पश्यतीत्यंतेन । अस्मि- न्नर्थे श्रुतिमाह सचक्षुरिति । उक्तेर्थे आचार्यवचनं प्रमा- णयति । उक्तंचेति । इह जगति स एवात्मविन्नान्य इति मे नि-

संस्कृतटीका-भाषाटीकासमेत । ( १२७ ) श्रय इत्यन्वयः। स क इत्यपेक्षायामाह । य इति । यः कोपि महापुरुषो ब्रह्मात्मैकत्वसाक्षात्कारेण निरस्तसमस्तभेदबुद्धिः सुषुप्त्यवस्थायां यथा द्वैतं न पश्यति तथा ब्रह्मदृष्टिदार्थ्येन जाग्रदवस्थायामपि द्वैतं न पश्यति तद्दृष्ट्या ब्रह्मव्यतिरि- क्तजडपदार्थाभावात्स तथोक्तः किंच कदाचित् व्युत्थान- दशायामाविद्यकसंस्कारलेशवशाद्भिक्षाटनादिव्यवहारेण द्वयं पश्यन्नपि समाध्यभ्याससामर्थ्यवशादद्वयत्वेन पश्यति स तथो- क्तः यश्च लोकसंग्रहार्थं नित्यादिकर्माणि कुर्वन्नपि आत्मनि कर्तृत्वाभावनिश्चयेन निष्क्रियः कर्मरहितो भवति कर्मफलेन न लिप्यते स जीवन्मुक्तो नात्र संशयः कर्तव्य इत्यर्थः ॥९७॥ ( भा०टी० ) जिसप्रकार साधारण पुरुष इंद्रजालके प- दार्थोंको देखकर विचार करता है कि ये इंद्रजालके पदार्थ प्रकृत दृश्यमान पदार्थ नहीं हैं । तिसीप्रकार जीवन्मुक्त पुरुष जाग्रदवस्थामें रुधिर, मांस, विष्ठा, मूत्रादिकोंका भाण्ड ऐसे शरीरद्वारा, अन्धापन, बहिरापन इत्यादि दोषोंका भाण्ड ऐसे इन्द्रियोंके द्वारा, और भूख, प्यास, शोक, मोह इत्यादि भाण्ड ऐसे अन्तःकरणद्वारा, पहिली वासनासे उत्पन्न हुए ज्ञानके विरोधी सञ्चित कर्मोंका फल भोगनेके अनन्तर दृश्यमान यह जगत् सत्य वस्तु नहीं होय है. इसप्रकार विचार करता है। इस विषयमें श्रुतिकाभी प्रमाण है-“जीवन्मुक्त पुरुष बाह्य वस्तुमें नेत्रयुक्त होकर नेत्रहीनकासा व्यवहार करता है, कर्ण

( १२८ ) वेदान्तसार । होनेपरभी बधिरकेसा व्यवहार करता है, मन होनेपरभी म- नोहीनकेसा व्यवहार करता है, और प्राण होनेपरभी प्राणर- हितकेसा व्यवहार करता है।” और जगहभी कहा है-“जा- ग्रत् अवस्थामें सुषुप्तिकी तरह बाह्य वस्तुमें व्यवहार करता है जो द्वैत वस्तुकोभी अद्वैत बोले है और जो कर्म करता हुआभी अन्तःकरणको निष्क्रिय माने है वह ब्रह्मपरायण पु- रुष निश्चय करके जीवन्मुक्त है। उससे अन्यको जीवन्मुक्त नहीं कहेहैं ॥ ९७ ॥ अस्य ज्ञानात्पूर्व विद्यमानानामेवाहारविहारादी- नां अनुवृत्तिवच्छुभवासनानामेवानुवृत्तिर्भवति शुभाशुभयोरौदासीन्यं वा। तदुक्तम्-“बुद्धाद्वैतम- तत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे । ब्रह्मवित्त्वं तथा मुक्त्वा स- आत्मज्ञो न चेतरः”इति ॥ ९८ ॥ (सं०टी०) नन्वस्य जीवन्मुक्तस्य योगीश्वरस्य मम पु- ण्यं पापं च नास्तीत्यभिमानवशायथेष्टाचरणप्रसंगमाशंक्य परिहरति॥ अस्येति। अस्य पूर्वोक्तजीवन्मुक्तस्य ज्ञानात्प्रागे- व शांत्यादिगुणैरशुभवासनाया निवारितत्वात्संसारदशायाम- प्रयत्नेनाहारादिप्रवृत्तिवत् तत्त्वज्ञानोत्तरमपि शुभानामेव वास- नानामनुवृत्तिर्भवति नाशुभानामित्यर्थः । ननु शुभवासनानुवृ- त्तेरपि प्रयोजनाभावात्किं तदनुवृत्त्येत्यत आहाशुभाशुभयोरि-

संस्कृतटीका-भाषाटीकासमेत । ( १२९ ) ति । तस्माज्जीवन्मुक्तस्य यथेष्टाचरणप्रसंगो नास्तीति भावः । अस्मिन्नर्थे ग्रंथांतरं संवादयति । तदुक्तमिति । जीवन्मुक्तस्य ब्रह्मज्ञानत्वाभिमानो नास्तीत्यत्रापि संमतिमाह । ब्रह्मवित्त्व- मिति । ननु विदुषां यथेष्टाचरणप्रसंगो नास्तीत्युक्तं तदनुपप- न्नं। “न मातृवधेन न पितृवधेन। यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।हत्वापि स इमाँल्लोकान्न हंति न निबध्यते।”इति। “हयमेधशतसहस्राण्यथ कुरुते ब्रह्मघातलक्षाणि परमात्मविन्नपु ण्यैर्न च पापैर्लिप्यते मनुजः”।”अश्वमेधसहस्राणि ब्रह्महत्याश- तानि चा।कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति ।सभयादभयं प्राप्तस्तदयं यतते च यः ॥ स पुनः सभयं गंतुं स्वतंत्रश्चेन्नहीच्छ- ति ।आरब्धकर्मनानात्वाद्वुधानामन्यथान्यथा । वर्तनं तेन शा- स्त्रार्थे विभ्रांतव्यं न पंडितैः”इत्यादिश्रुतिस्मृत्यभियुक्तवाक्यैर्वि- दुषां यथेष्टाचरणत्वांगीकारादिति चेत्सत्यम्। तेषां च वचनानां विद्वत्स्तुतिपरत्वेन तत्कर्तव्यमित्यत्र तात्पर्याभावात् । तदुक्त- माचार्यैः--“अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः ।। धर्मकार्ये कथं तत्स्याद्यत्र धर्मो विनश्यति”इति ॥ ९८ ॥ ( भा०टी० ) इस पूर्वोक्त जीवन्मुक्तको ज्ञान होनेके प्र- थमही शमदमादिक गुणों करके अशुभ वासनाका नाश हो जानेसेभी संसारदशामें जैसी आहार विहार आदिकमें अभि- मान रहित होकर प्रवृत्ति की जाती है. इसीही रीतिसे तत्त्व- ज्ञान होनेके पश्चात्भी आहारविहार आदिकोंमें प्रवृत्ति होती

( १३० ) वेदान्तसार । है. परंतु तत्त्वज्ञान होनेके पश्चात् अशुभ वासनाकी प्रवृत्ति बिलकुल होती नहीं. केवल शुभवासनाओंकाही अनुवर्तन कि- या जाता है. अथवा शुभवासना तथा अशुभवासना इन दो- नोंमेंभी उदासीनभाव रहता है इससे जीवन्मुक्त हुआ पुरुष यथेच्छ आचरण करता नहीं, यह सिद्ध हुआ. इस विषयमें ग्रंथांतरका यह प्रमाण है कि,–“जो कोई पुरुष एक ब्रह्मत- त्त्वको जानले, और यथेच्छ आचरण करे, तौ फिर अपवित्र पदार्थके भक्षणमें लगाहुआ कुत्ता, और वह ब्रह्मतत्त्ववेत्ता इन दोनोंमें भेद कौनसा रहा ? ” और जो जीवन्मुक्त है उसको अपने ब्रह्मज्ञपनेका अभिमानही रहता नहीं. इसमें प्रमाण यह है कि,–“ब्रह्मवेत्तापनाको प्राप्त होकरभी जीवन्मुक्त पुरुष अपने आत्माको केवल जानता है. दूसरा कुछ जानता नहीं. अभिमानभी करता नहीं.” इति ॥ ९८ ॥ तदानीममानित्वादीनि ज्ञानसाधनानि अद्वेष्टृत्वा- दयश्चालंकारवदनुवर्तन्ते । तदुक्तं–“उत्पन्नात्मा- वबोधस्य ह्यद्वेष्टृत्वादयो गुणाः ॥ अयत्नतो भव- न्त्यस्य न तु साधनरूपिणः” इति ॥ ९९ ॥ ( सं०टी० ) नन्वेवं “अमानित्वमदंभित्वमहिंसा क्षां- तिरार्जवम्” इत्यादिस्मृत्युक्तसाधनस्य 'अद्वेष्टा सर्वभूतानाम्' इ- त्यादिवचनैः प्रतिपाद्यमानाद्वेष्टृत्वादिगुणसमूहस्य च विदुषां सं- पाद्यमानत्वश्रवणेन सह विरोधमाशंक्य अमानित्वादिसंपाद-