वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
संस्कृतटीका-भाषाटीकासमेत । ( ७१ ) (सं०टी०) ननु पुत्रादिशून्यपर्यन्तानामनात्मत्वे सिद्धे क- स्तर्ह्यहंप्रत्ययविषय आत्मेत्याशंक्य आस्थूलादिनिषेधवा- क्यजातबोधितं "सत्यंज्ञानमनंतंब्रह्म" इत्यादिविधिवाक्यकोटि- बोधितं यत्सत्यं ज्ञानानंताद्वयं ब्रह्म तदेवाहंप्रत्ययालंबनमिति प्रबलश्रुतियुक्त्यनुभवैः प्रतिपादयितुमाह। किंचेति। अस्थूलादि- प्रबलश्रुतिवाक्यैः पुत्रादिशून्यपर्यन्तात्मातिरिक्तात्मस्वरूपप्रति- पादनात् पुत्रादीनां जडत्वादिहेतुभिरनात्मत्वमित्यर्थः । अस्मि- न्नर्थे प्रबलविद्वदनुभवं प्रमाणयति । अहमिति । पुत्रादिश्रुत्या- दीनां दौर्बल्यं दर्शयति । तत्तदिति । यतः पुत्रादीनां जडत्वादि- हेतुभिरनात्मत्वमतः पुत्रादिभासकं नित्यशुद्धत्वादिस্বরূপमेवा- त्मवस्त्वित्यर्थः । नहीदं विरुद्धं यत्पुत्राणामात्मत्वप्रतिपादकश्रु- तीनामप्रामाण्यं अस्थूलादिश्रुतीनां प्रामाण्यमिति न हि वे- दवाक्येषु केषांचिदप्रामाण्यं केषांचित्प्रामाण्यमिति चाशक्यं प्रतिपादयितुम् । एवं चेत्पुत्रादिश्रुतीनां प्रामाण्यमस्थूलादिवा- क्यानामप्रामाण्यमिति वैपरीत्यं किं न स्यात् । वेदवाक्यत्वा- विशेषात् । किंच केषांचिद्वेदवाक्यानामप्रामाण्यं केषांचिद्वे- दवाक्यानां प्रामाण्यं प्रतिपादनार्थमिदं प्रकरणमारब्धं अतः कथं निर्णय इति चेत्, उच्यते । पुत्रादिश्रुतीनां सर्वथैव प्रामाण्यं नास्तीत्यस्माभिर्न निषिध्यते किंत्वस्थूलादिप्रबलश्रुतिस्मृति- न्यायविरोधात्स्वार्थे तात्पर्याभावात्तेषां स्थूलारुंधतीन्यायेन पूर्वपूर्वनिराकरणद्वारा सूक्ष्मसूक्ष्मवस्तूपदेशे तात्पर्यमिति एता- वदेव प्रतिपाद्यते । तथाहि ध्रुवमरुंधतीं च दर्शयतीति विधि-
( ७२ ) वेदान्तसार । बलाद्वरवध्वोररुंधतीदर्शने प्राप्ते परमसूक्ष्मरूपाया अरुंधत्याः प्रथमकक्षायामेव प्रतिपत्तुमशक्यत्वात्प्रथमं चंद्रज्योतीरूपारुं- धतीत्युच्यते ततः चंद्रभिन्ना तारकारुंधतीत्युच्यते तत इतर- तारकाभिन्ना सप्ततारकात्मकारुंधतीत्युच्यते तदनंतरमितरता- रकाचतुष्टयभिन्ना तारकात्रितयात्मकेत्युच्यते ततः तन्मध्ये तारकेत्युच्यते ततस्तत्समीपवर्तिनी परमसूक्ष्मारुंधतीत्युच्यते न चैतावतैतेषां पंचानां वाक्यानां परस्परविरुद्धार्थप्रतिपादक- त्वेनाप्रामाण्यं शक्यं प्रतिपादयितुम्। किंतु प्रतिपत्तृबुद्ध्यनुसारेण सोपानक्रमवत्पूर्वपूर्वनिराकरणद्वारा सूक्ष्मारुंधतीप्रतिपादने ता- त्पर्यं तद्वदत्रापि अन्नमयः प्राणमयो मनोमयो विज्ञानमय आनं- दमय आत्मा ब्रह्मपुच्छं प्रतिष्ठेति पुच्छब्रह्मपर्यवसितानां पंच- कोशवाक्यानामपि परस्परविरुद्धार्थप्रतिपत्तृबुद्ध्यनुसारेण सो- पानक्रमवत्पूर्वपूर्वनिराकरणद्वारा परमसूक्ष्मपुच्छब्रह्मप्रतिपाद- ने तात्पर्यं तस्मात्सर्वेषां वेदवाक्यानां साक्षात्परंपरया वाऽद्विती- यवस्तुप्रतिपादने तात्पर्यात्प्रामाण्यरूपविरोध इति संक्षेपः ७०॥ ( भा०टी० ) यदि पुत्रादिको आत्मा कहेंगे तब श्रुति आदि प्रमाणोंको अत्यन्त विरोध पड़ेगा क्योंकि-“आत्मा स्थूल नहीं है, आत्मा इन्द्रियगण नहीं है, प्राण नहीं है, मन नहीं है, और कर्त्ता नहीं है, परन्तु केवल चैतन्यमय सत्य स्व- रूप है”। इत्यादि प्रबल श्रुतिद्वारा प्रमाण होता है। पुत्रादिसे शून्यपर्य्यन्त जड़के चैतन्यके भासक हेतु घटादिकी तरह अनित्य है अर्थात् हेत्वाभास है और ज्ञानियोंको मैंही ब्रह्म हूं
संस्कृतटीका-भाषाटीकासमेत । (७३) इसप्रकार दृढ़ अनुभव होता है इसकारण पुत्रको आदिले शून्यपर्य्यन्त कोई पदार्थ आत्मा नहीं कहाजासक्ता । पुत्रा- दिको आत्मा कहनेपर पूर्वोक्त श्रुति, युक्ति, अनुभव, प्रमा- णका विरोध होगा इसकारण पुत्रादिको अनात्मत्व स्पष्ट मालूम होता है ॥ ७० ॥ अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्य स्वभावं प्रत्यक्चैतन्यमेवात्मतत्त्वमिति वेदान्तविदनुभवः । एवमध्यारोपः ॥ ७१ ॥ (सं०टी०) विशेषाध्यारोपप्रकरणमुपसंहरति।एवमिति७१ (भा०टी०) ठीक तौ जो पुत्रको आदिले शून्य प- र्य्यन्तका प्रकाशक है और जो नित्य, शुद्ध, सर्वज्ञ, मुक्त, स- त्यस्वरूप, प्रत्यक् चैतन्य है वही आत्मा है ऐसा वेदान्तशास्त्र के जाननेवालोंका अनुभव है । इसप्रकार वस्तुमें अवस्तुका अध्यारोपस्वरूप अध्यारोपन्यायविशेषरूपसे दिखाया।७१॥ अपवादोनाम रज्जुविवर्त्तस्य सर्पस्य रज्जुमात्रत्व- वत् वस्तुविवर्त्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् । तदुक्तम्“सतत्त्वतोऽन्यथाप्रथा विकारइत्युदीरितः । अतत्त्वतोऽन्यथाप्रथाविवर्त्त- इत्युदाहृतः” ॥ ७२ ॥ (सं०टी०) आत्मवस्तुनि मिथ्याप्रपंचस्य सामान्यतो विशेषतश्चाध्यारोपप्रकारं सप्रपंचमभिधायेदानीं तदपवादप्र-
( ७४ ) वेदान्तसार । कारं वक्तुमारभते । अपवादो नामेति । असंगोदासीने पर- मात्मवस्तुनि तद्विवर्त्तावस्तुभूताज्ञानादिमिथ्याप्रपंचस्य चिद्व- स्तुमात्रावशेषतयाऽवस्थानमेवापवाद इति वक्तुं प्रथमं लौ- किकदृष्टांतमाह।रज्जुइति।रज्जुस्वरूपापरित्यागेन सर्पाकारेण भासमानस्य रज्जुविवर्त्तस्यापवादो नाशो नामाधिष्ठानरज्जुमा- त्रतयाऽवस्थानवच्चिद्विवर्त्तस्याज्ञानादिप्रपंचस्य अपवादो ना- शो नामाचिन्मात्रत्वेनावस्थानमित्यर्थः।अत्र यथास्वरूपेणाव- स्थितस्य वस्तुनोऽन्यथाभावो द्विधाभवति परिणामभावो विव- र्त्तभावश्चेति तत्र परिणामभावो नाम वस्तुनो यथार्थतः स्वस्व- रूपं परित्यज्य स्वरूपांतरापत्तिः यथा दुग्धमेव स्वस्वरूपं परि- त्यज्य दध्याकारेण परिणमते । विवर्त्तभावस्तु वस्तुतः स्व- रूपापरित्यागेन स्वरूपांतरेण मिथ्याप्रतीतिः । यथा रज्जुः स्वरूपापरित्यागेन सर्पाकारेण मिथ्या प्रतिभासते । अत्र वेदां- ते ब्रह्मणि प्रपंचभानस्य परिणामभावो नांगीक्रियते दुग्धा- दिवद्ब्रह्मणो विकारित्वप्रसंगादनित्यत्वादिदोषापत्तेः । विवर्त्त- भावांगीकारे तु नायं दोषः, ब्रह्मणि प्रपंचभानस्य मिथ्यात्वेन विकारित्वाभावात्।तदुक्तम्"अधिष्ठानावशेषो हि नाशः कल्पि तवस्तुनः”इति। तस्माच्चिद्विवर्त्तस्य प्रपंचस्य चिन्मात्रावशेषत- यावस्थानमेवापवाद इति भावः । अस्मिन्नर्थे ग्रंथांतरसंवादं दर्शयति । तदुक्तमिति ॥ ७२ ॥ ( भा०टी० ) अब अपवादन्याय दिखाते हैं। रज्जुमें स- र्पका भ्रम होकर जिस समय वहभ्रम नष्ट होजाता है उस स-
संस्कृतटीका-भाषाटीकासमेत । (७५) मय जैसे सर्पज्ञान नष्ट होजाय है तब केवल रज्जुका ज्ञान रह जाय है । तिसीप्रकार सच्चिदानन्द ब्रह्ममें अवस्तुरूप अज्ञाना- दि जड पदार्थका भ्रम होकर जिस समय उस भ्रमका नाशहो जाता है तब केवल ब्रह्ममात्र अवस्थित रहता है क्योंकि यह रूप ज्ञानका विवर्त्त है जैसा ग्रन्थान्तरमें कहा है-“जो स्व- रूपको विकृत करके कार्य्यको उत्पादन करै वह विकारी वा परिणामी उपादान कारण कहाता है जैसे दूध दधिका विकारी वा परिणामी उपादानकारण है ” और जो कारणस्वरूपका विकार विनाही करे कार्य्यका उत्पादन करै है वह उसको विवर्त्त कारण कहते हैं जैसे रज्जु सर्पके ज्ञानके प्रति विवर्त्त कारण है ॥ ७२ ॥ तथाहि खलूच्यते यथा एतद्भोगायतनं चतुर्विधं स्थूलशरीरजातं एतद्भोग्यरूपान्नपानादिकं. एत- दाश्रयभूतभूरादिचतुर्दशभुवनानि एतदाश्रयभूतं ब्रह्माण्डञ्चैतत् सर्वं एतेषां कारणरूपपञ्चीकृतभूत- मात्रं भवति । एतानि शब्दादिविषयसहितानि प- ञ्चीकृतभूतजातानि सूक्ष्मशरीरजातञ्चैतत् सर्वमे- तेषां कारणरूपमपञ्चीकृतभूतमात्रं भवति एतद- ज्ञानं अज्ञानोपहितं चैतन्यं चेश्वरादिकं एतदाधा- रभूतानुपहितचैतन्यरूपं तुरीयब्रह्ममात्रं भवति आभ्यामध्यारोपापवादाभ्यां तत्त्वंपदार्थशोधनम- पि सिद्धं भवति । तथाहि । अज्ञानादिसमष्टिः ए-
( ७६ ) वेदान्तसार । तदुपहितं तं चैतन्यञ्चैतत्त्रयं तप्तायःपिण्डवदेकत्वेनावभा- समानं तत्पदवाच्यार्थो भवति एतदुपाध्युपहि- ताधारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति ॥ ७३ ॥ ( सं०टी० ) सामान्यतो दर्शितामपवादप्रक्रियां विस्त- रेण प्रतिपादयितुं प्रतिजानीते । तथाहीति । स्थूलसूक्ष्मका- रणप्रपंचानामुत्पत्तिवैपरीत्येन तत्तत्कारणरूपेणावस्थानमेवा- पवाद इत्याह । एतद्भोगायतनमिति । एतत्स्थूलशरीरं स्वा- श्रयब्रह्मांडसहितं स्वकारणभूतपंचीकृतेषु पंचमहाभूतेषु लीनं सन्मात्रतयावशिष्यते तानि च पंचीकृतानि भूतानि शब्दा- दिसहितानि सप्तदशावयवात्मकलिंगशरीराणि च स्वकारणे- ष्त्रपंचीकृतभूतेषु लीनानि भवंति तान्यपंचीकृतानि भूतानि सत्त्वादिगुणसहितानि स्वकारणज्ञानोपहितचैतन्ये लीनानि भवंति तच्चाज्ञानं तदुपहितचैतन्यं सर्वज्ञत्वादिविशिष्टंच स्वाधा- रभूतानुपहितचैतन्ये लीनं भवति चैतन्यमेवावशिष्यत इत्य- र्थः । फलितमाह । आभ्यामिति। तत्त्वंपदार्थशोधनप्रकारं प्र- तिजानीते । तथाहीति । अज्ञानं तदवच्छिन्नेश्वरचैतन्यं तद- नुपहितचैतन्यं चैतत्त्रयं तप्तायःपिंडवदन्योन्येन तादात्म्या- ध्यासेनेकत्वेन प्रतीयमानं सत् तत्पदवाच्यार्थो भवतीत्यर्थः । तत्पदलक्ष्यार्थमाह । एतदुपाधीति । अज्ञानावच्छिन्नेश्वर-
संस्कृतटीका-भाषाटीकासमेत । ( ७७ ) चैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्ताभ्यां विविक्तं सद्भेदाविवक्षया तत्पदलक्ष्यार्थो भवतीत्यर्थः ॥ ७३ ॥ ( भा० टी० ) भ्रमके नष्ट होनेपर जिसप्रकार यह सम्पूर्ण प्रपञ्च अपने २ कारणमें लीन होकर ब्रह्मरूपमें अवस्थित होता है सो दिखाते हैं । - “स्थूलभोगका स्थानस्वरूप चार प्रकारका स्थूलशरीर और भोग्य अन्नपानादि इन सबके आ- धारस्वरूप भूलोकको आदिले चौदह लोक और इन्हीं सबके वर्त्तमान स्थानस्वरूप ब्रह्माण्ड यह सम्पूर्ण पञ्चीकृत पञ्चमहा- भूत मात्र है । शब्द स्पर्शादि विषयों सहित यह संपूर्ण पञ्ची- कृत पञ्चभूत और सूक्ष्मशरीर यह सब अपने अपने कारण रूप अपञ्चीकृत पञ्चमहाभूतमात्र हैं सत्त्व आदि गुणयुक्त यह सम्पूर्ण अपञ्चीकृत पञ्चमहाभूत उत्पत्तिके उलटे क्रमसे अर्था- त् पृथिवी जलसे जल अग्निसे अग्नि वायुसे वायु आकाशसे और आकाश अज्ञानसे इसप्रकार कारणरूप अज्ञानोपहित कारणरूप चैतन्य मात्र है । यही अज्ञान और अज्ञानोपहित चैतन्यरूप ईश्वरको आदिले सबही उसके आधारभूत अनु- पहित चैतन्यरूप तुरीय ब्रह्म है पूर्वोक्त अध्यारोप और अप- वादमें कहीहुई रीति के द्वारा “तत्” और “त्वम्” इन दोनों पदार्थोंका शोधन( सङ्गति ) ठीक होती है अज्ञानादिकी सम- ष्टि अर्थात् अज्ञान, सूक्ष्मशरीर और स्थूलशरीरकी समष्टि तदुपहित चैतन्य अर्थात् ईश्वर, हिरण्यगर्भ और विराट्र चै- तन्य, और अनुपहित चैतन्य, तुरीय ब्रह्म चैतन्य, यह तीन
( ७८ ) वेदान्तसार । प्रकारके पदार्थ दग्ध(तपेहुए)लोहकी तरह अतिरिक्तरूप“तत्” इस पदके वाच्य होते हैं और अज्ञानादिकी समष्टिरूप उपाधि और तदुपहित ईश्वरादि चैतन्यका आधारभूत तुरीयब्रह्मचै- तन्य “तत्” पदका लक्ष्यार्थ होता है ॥ ७३ ॥ अज्ञानादिव्यष्टिः तदुपहितालपज्ञत्वादिविशिष्ट- चैतन्यं एतदनुपहितं चैतन्यञ्चैतत्त्रयं तप्तायःपि- ण्डवदेकत्वेन भासमानं त्वंपदवाच्यो भवति। एत- दुपाध्युपहिताधारभूतमनुपहितं प्रत्यगानन्दं तुरी- यं चैतन्यं त्वंपदलक्ष्यार्थो भवति ॥ ७४ ॥ ( सं० टी० ) त्वंपदवाच्यार्थमाह। अज्ञानादीति। व्यष्टि- भूतपदज्ञानमंतःकरणं तदवच्छिन्नं जीवचैतन्यं तदनुपहितं चै तन्यं चैतत्त्रयं तप्तायःपिंडवत्परस्परतादात्म्याध्यासेनाभेदवि- वक्षया त्वंपदवाच्यार्थो भवतीत्यर्थः। लक्ष्यार्थमाह। एतदुपा- धीति। अंतःकरणोपहितचैतन्यस्याधारभूतंयदनुपहितं प्रत्यगा- त्मानंदं तुरीयं चैतन्यं त्वंपदलक्ष्यार्थो भवतीत्यर्थः ॥ ७४ ॥ ( भा० टी० ) अज्ञानादिकी व्यष्टि अर्थात् अज्ञान, सू- क्ष्मशरीर और स्थूलशरीर तदुपहितचैतन्य अर्थात् प्राज्ञ तैजस और विश्व तथा अनुपहित चैतन्य अर्थात् तुरीय ब्रह्म चैतन्य, ये तीनों तपेहुए लोहपिण्डकी तरह अभिन्नरूप “त्वम्” पदके वाच्य होते हैं तथा अज्ञानादिकी व्यष्टि और प्राज्ञ आदि चैतन्यका आधारस्वरूप अनुपहित आनन्दरूप तु- रीयब्रह्मचैतन्य “त्वम्” इस पदका लक्ष्यार्थ होता है ॥ ७४ ॥
·संस्कृतटीका-भाषाटीकासमेत । ( ७९ ) अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसि वाक्यं सम्बन्धत्रयेण अखण्डार्थबोधकं भवति । सम्बन्ध- त्रयं नाम पदयोः सामानाधिकरण्यं पदार्थयोर्वि- शेषणविशेष्यभावः प्रत्यगात्मपदार्थयोर्लक्ष्यलक्ष- णभावश्चेति । यदुक्तम्-“सामानाधिकरण्यं च वि- शेषणविशेष्यता। लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्य- गात्मनाम्”इति ॥ ७५ ॥ ( सं०टी० ) पदार्थमभिधाय वाक्यार्थमाह। अथेति। ननु जीवेश्वरयोः किंचिज्ज्ञत्वसर्वज्ञत्वादिविशिष्टयोरत्यंतविलक्षण- योः तत्त्वमस्यादिमहावाक्यानि परस्परविरुद्धार्थप्रतिपादकानि कथमखंडैकरसं ब्रह्म प्रतिपादयंतीत्याशंक्य साक्षादैक्यप्रतिपा- दकत्वाभावेपि लक्षणया संबंधत्रयेणाखंडैकार्थ प्रतिपादयंती- त्याह । इदमिति । संबंधत्रयस्वरूपमाह । संबंधत्रयमिति । पद- पदार्थप्रत्यगात्मनांसंबंधत्रयसद्भावे वृद्धसंमतिमाह। यदुक्तमिति। ( भा०टी० ) अब महावाक्यके अर्थका विचार कर- ते हैं—“तत्त्वमसि” यह वाक्य तीन प्रकारके सम्बन्धोंके द्वा- रा अखंड ब्रह्म चैतन्यका बोधक होता है सम्बन्ध त्रय कहाते हैं—पहला सामानाधिकरण्य,दूसरा विशेष्यविशेषणभाव, ती- सरा लक्ष्यलक्षणभाव, “तत्” और “त्वम्” इनदोनों पदों- की एक अधिकरणमें अवस्थिति होनेपर सामानाधिकरण्य सम्बन्ध होता है दोनों पदोंका परस्पर विशेष्यविशेषण रूप सम्बन्धको विशेष्यविशेषणभाव कहतेहैं । और प्रत्यगा-
(८०) वेदान्तसार । त्मा लक्ष्य और दोनों पद लक्षण इस प्रकारके सम्बन्धको लक्ष्यलक्षणभाव सम्बन्ध कहते हैं ग्रन्थान्तरमें कहा भी है-“सामानाधिकरण्य, विशेष्यविशेषणभाव, और लक्ष्यल- क्षण भाव, यह तीन प्रकारका सम्बन्ध है” ॥ ७५ ॥ सामानाधिकरण्यसम्बन्धस्तावत् यथा सोऽयं देव- दत्त इति वाक्ये तत्कालविशिष्टदेवदत्तवाचकश- ब्दस्य एतत्कालविशिष्टवाचकायंशब्दस्य च एक- स्मिन्देवदत्तपिण्डे तात्पर्यसम्बन्धः । तथा च “तत्त्वमसि” वाक्येऽपि परोक्षत्वादिविशिष्टचै- तन्यवाचकतच्छब्दस्या-परोक्षत्वादि विशिष्ट-चै- तन्यवाचक-त्वंपदस्य चैकस्मिन् चैतन्ये तात्प- र्य्यसम्बन्धः ॥ ७६ ॥ (सं०टी०) पदयोः सामानाधिकरण्यं उदाहरणनिष्ठं कृ- त्वा प्रदर्शयति । सामानाधिकरण्यमिति । भिन्नप्रवृत्तिनि- मित्तयोः शब्दयोरेकस्मिन्नर्थे प्रवृत्तिः सामानाधिरण्यं तत्र सोयं देवदत्त इति वाक्ये स इति तत्कालतद्देशवैशिष्ट्यं स श- ब्दस्य प्रवृत्तिनिमितं अयमिति एतत्कालैतद्देशवैशिष्ट्यमयंश- ब्दस्य प्रवृत्तिनिमित्तं यथा च भिन्नप्रवृत्तिनिमित्तयोः सोयं शब्दयोरेकस्मिन् देवदत्तपिंडे तात्पर्य संबंधःसामानाधिकरण्य- मित्यर्थः।उक्तमर्थं दाष्टांतिके योजयति।तथाचेति। तथा तत्त्व- मसीति वाक्येपि परोक्षत्वसर्वज्ञत्वादिवैशिष्ट्यं तत्पदप्रवृत्तिनि- मित्तं अपरोक्षत्वकिंचिज्ज्ञत्वादिवैशिष्ट्यं त्वंपदप्रवृत्तिनिमित्तं
संस्कृतटीका-भाषाटीकासमेत । ( ८१ ) तथा च भिन्नप्रवृत्तिनिमित्तयोः तत्त्वंपदयोरेकस्मिंश्चैतन्ये ता- त्पर्य्यं संबंधः सामानाधिकरण्यमित्यर्थः ॥ ७६ ॥ ( भा०टी० )अब सामानाधिकरण्य सम्बन्ध दिखला- ते हैं। जैसे “सोऽयं देवदत्तः” इसवाक्यमें “सः” शब्दसे पहले देखीहुई वस्तुका बोध होताहै और “अयम्”शब्दसे वर्त्तमान दृष्ट वस्तुका बोध होता है और दोनों शब्दार्थोंका एक देवदत्त व्यक्तिमें बोध होता है। इसी प्रकार “तत्त्वमसि” इस वाक्यमें भी अप्रत्यक्ष चैतन्यका बोधक “तत्” शब्द है और प्रत्यक्ष चैतन्यका बोधक“त्वम् ”शब्द है इनदोनों शब्दार्थोंका एक चैतन्यमय ब्रह्ममें तात्पर्य है। यही सामानाधिकरण्य सम्बधहै। विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायं--शब्दार्थै- तत्कालविशिष्टदेवदत्तस्य चान्योन्यभेदव्यावर्त्त- कतया विशेषणविशेष्यभावः । तथात्रापि वाक्ये तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वंपदार्था परोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्या- वर्त्तकतया विशेषणविशेष्यभावः ॥ ७७ ॥ ( सं०टी० ) विशेषणविशेष्यभावसंबधस्वरूपमाह । वि- शेषणेति । व्यावर्तकं विशेषणं व्यावत्र्त्यं विशेष्यम् । तथा च “सोयं देवदत्तः”इति वाक्ये एवायंशब्दवाच्यो योसावेतत्काले तद्देशसंबंधविशिष्टो देवदत्तपिंडः अयं स इति तच्छब्दवाच्या- त्कालतद्देशविशिष्टदेवदत्तपिंडाद्भिन्नो नेति यदा प्रतीयते त-
( ८२ ) वेदान्तसार । दा तच्छब्दार्थस्यायंशब्दवाच्यार्थनिष्ठभेदव्यावर्तकतया विशे- षणत्वं अयंशब्दार्थस्य व्यावर्त्यत्वाद्दिशेष्यत्वं यदा च स इ- ति तच्छब्दवाच्यः तत्कालतेद्देशविशिष्टो देवदत्तपिंडः स अय- मितीदंशब्दवाच्यादेतत्कार्लैतद्देशसंबंधविशिष्टादस्माद्देवदत्तपिं- डान्न भिद्यत इति यदा प्रतिपद्यते तदायंशब्दवाच्यस्य तच्छ- ब्दार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तच्छब्दार्थस्य व्याव- र्तकत्वाद्दिशेष्यत्वं तथा चायमेव सः स एवायमिति अन्योन्य- भेदव्यावर्तकतया सोऽयंशब्दार्थयोः परस्परविशेषणविशेष्य- भाव इत्यर्थः।उक्तं विशेषणविशेष्यभावं दार्ष्टांतिके योजयति। तथात्रापीति । इहापि तत्त्वमसीति वाक्येपि त्वंपदवाच्यं यदप- रोक्षत्वं किंचिज्ज्ञत्वादिविशिष्टं तत्पदवाच्यात्सर्वज्ञत्वादिवि- शिष्टचैतन्यान्न भिद्यते इति यदा प्रतीयते तदा तच्छब्दार्थस्य त्वंपदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं त्वंपदार्थस्य व्या- वृत्यत्वात् विशेष्यत्वं यदा च तत्पदवाच्ययत्तसर्वज्ञत्वादिवि- शिष्टचैतन्यं त्वंपदवाच्यात्किंचिज्ज्ञत्वादिविशिष्टचैतन्यान्न भिद्यत इति यदा प्रतीयते तदा त्वंपदार्थस्य तत्पदार्थनिष्ठभेद- व्यावर्तकत्वेन विशेषणत्वं तत्पदार्थस्य व्यावृत्यत्वात् विशे- ष्यत्वं तथा च त्वं तदसि तत्त्वमसीति तत्त्वंपदार्थयोः परस्परं भेदव्यावर्तकत्वेन परस्परं विशेषणविशेष्यभाव इत्यर्थः ॥ ७७ ॥ ( भा०टी० ) अब विशेष्यविशेषणभाव सम्बन्ध दिख- लाते हैं। जैसे-पहले कहे हुए “ सोऽयं देवदत्तः” इस वा- क्यमें “ सः” पदका अर्थ पहले देखी हुई व्यक्तिका बो-
संस्कृतटीका-भाषाटीकासमेत । ( ८३ ) धक होताहै और “अयम्” पद का अर्थ वर्त्तमान काल में दृ- ष्टिगोचर वस्तुका बोधक होता है और इन दोनोंपदोंके अ- र्थोंका परस्पर विशेष्यविशेषणरूप सम्बन्ध है क्योंकि ए- कही व्यक्तिमें दोनों पदोंके अर्थोंका तात्पर्य्य अभिन्नरूपसे मालूम होता है । तिसी प्रकार “तत्त्वमसि” इस वाक्यमें भी “तत्” पदका अर्थ अप्रत्यक्ष चैतन्य और “त्वम्” पदका अ- र्थ प्रत्यक्ष चैतन्य है इन दोनों पदोंके अर्थोंका परस्पर वि- शेष्यविशेषणभाव सम्बन्ध है क्योंकि दोनों पदोंके अर्थों का एक वस्तु में अभिन्न रूप से तात्पर्य्य मालूम होता है ॥ ७७ ॥ लक्ष्यलक्षणभावसम्बन्धस्तु यथा तत्रैव सशब्दायं- शब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्ट- त्वपरित्यागेन अविरुद्धदेवदत्तेन सह लक्ष्यलक्षण- भावः । तथात्रापि वाक्ये तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेन विरुद्धचैतन्येन सह लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ॥ ७८ ॥ ( सं०टी० ) क्रमप्राप्तं लक्ष्यलक्षणभावसंबंधस्वरूपं निरू- पयितुमाह । लक्ष्यलक्षणेति । असाधारणधर्मप्रतिपादकं वा- क्यं लक्षणवाक्यं तत्प्रतिपाद्यमवशिष्टं वस्तु लक्ष्यं तथाच सोयं देवदत्त इत्यस्मिन्नेव वाक्ये सोऽयंशब्दयोः तदर्थयोर्वा वि- रुद्धतत्कालतद्देशएतत्कालैतद्देशविशिष्टत्वपरिहारेणाविरुद्धदे- वदत्तपिंडेन सह लक्ष्यलक्षणभावसंबंध इत्यर्थः । उक्तमर्थं दा-
( ८४ ) वेदान्तसार । ष्टांतिके योजयति । तथात्रापीति । इहापि तत्त्वंपदयोस्तदर्थ- योर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेन तत्त्वं- पदाभ्यां तदर्थाभ्यां वा लक्ष्याऽविरुद्धचैतन्येन सह तत्त्वंपदयो- र्लक्ष्यलक्षणभावसंबंध इत्यर्थः।अत्र तत्त्वंपदयोः तदर्थयोश्च त्य- क्तविरुद्धांशयोर्लक्षणत्वं अखंडचैतन्यस्य लक्ष्यत्वमिति भा- वः। ननु तत्त्वमस्यादिवाक्यानां लक्ष्यलक्षणभावसंबंधपुरस्का- रेण चैतन्यबोधकत्वमित्युक्तम् अन्यत्र तु शास्त्रे तेषां वा- क्यानां भागलक्षणयैव चैतन्यबोधकत्वं प्रतिपाद्यते तत्त्व- मस्यादिवाक्येषु लक्षणाभागलक्षणेत्यादिविरोधमाशंक्य संज्ञा- भेदो न वस्तुभेद इत्याह । इयमेवेति । तत्त्वमस्यादिवाक्यानां विरुद्धांशपरित्यागेनाविरुद्धचैतन्यमात्रबोधकत्वमेव भागलक्ष- णेत्युच्यत इत्यर्थः ॥ ७८ ॥ ( भा०टी० ) अब लक्ष्यलक्षणभाव सम्बन्ध दिखलाते हैं- जैसे पहले कहेहुये “सोऽयं देवदत्तः” इसवाक्यमें “सः” पदका अर्थ पूर्वकालमें दृष्टत्व है और “अयम्” पदका अर्थ वर्त्तमानकालमें दृष्टत्व है इन परस्पर विरुद्ध दोनों अर्थोंका त्याग करके केवल एक देवदत्त व्यक्ति ही लक्ष्य होता है और “सः अयम्” ये दोनों पद लक्षण होते हैं इसकारण लक्ष्य लक्षणभाव सम्बन्ध है । तिसीप्रकार “तत्त्वमसि” इस वक्य में भी “तत्” पद का अर्थ अप्रत्यक्षत्व और “त्वम्” पदका अर्थ प्रत्यक्षत्व है । इन परस्पर विरुद्ध दोनों अर्थों का त्याग करके केवल एक अविरुद्ध चैतन्य लक्ष्य होता है
संस्कृतटीका-भाषाटीकासमेत । (८५) और “तत्-त्वम्” पद लक्षण होते हैं इसीको शास्त्र- कार भागलक्षणा सम्बन्ध कहते हैं ॥ ७८ ॥ अस्मिन् वाक्ये नीलमुत्पलमिति वाक्यवद्वा- क्यार्थो न सङ्गच्छते। तत्र नीलपदार्थनीलगुणस्य उत्पलपदार्थोत्पलद्रव्यस्य च शुक्लपदादिव्या- वर्त्तकतयाऽन्योन्यविशेष्यविशेषणरूपसंसर्गस्या- न्यतरविशिष्टस्यान्यतरस्य वा तदैक्यस्य वाक्या- र्थाद्गीकरणे प्रमाणान्तरविरोधाभावाद्वाक्यार्थः सङ्गच्छते। अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचै- तन्यस्य त्वम्पदार्था परोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्त्तकतया विशेषणविशेष्यभा- वसंसर्गस्य अन्यतरविशिष्टस्यान्यतरस्य वा तदै- क्यस्य वाक्यार्थत्वाद्गीकारे प्रत्यक्षादिप्रमाणविरो- धाद्वाक्यार्थो न सङ्गच्छते ॥ ७९ ॥ (सं०टी० )ननु यथा नीलोत्पलमिति वाक्ये नीलत्वविशि- ष्टनीलगुणस्य उत्पलत्वविशिष्टोत्पलद्रव्यस्य च स्वव्यतिरिक्त- शुक्लादिगुणांतरपटादिद्रव्यांतरव्यावर्त्तकत्वेन विशेषणविशेष्य- भावनिरूपिततद्भिन्नसंसर्गस्य नीलगुणवैशिष्ट्यस्य वा वाक्या- र्थत्वं तथेहापि तत्त्वमस्यादिवाक्ये तत्पदार्थस्य परोक्षत्वादिवि- शिष्टेश्वरचैतन्यस्य त्वंपदार्थस्यापरोक्षत्वादिविशिष्टजीवचैतन्य स्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभूतसर्वज्ञत्व- किंचिज्ज्ञत्वोभयनिरूपितसंसर्गो वा सर्वज्ञत्वादिविशिष्टस्य
( ८६ ) वेदान्तसार । किंचिज्ज्ञत्वादिविशिष्टेन सहैक्यं वा वाक्यार्थो भवतीत्याशं- क्य दृष्टांतदार्ष्टांतिकयोः वैषम्यान्नैवमित्याह अस्मिन्नित्या- दिना । अस्मिन्निति । अस्मिंस्तत्त्वमसीति वाक्ये नीलो- त्पलमित्यादिवाक्यवत्संसर्गो वा विशिष्टो वा वाक्यार्थेन संग- च्छत इत्यर्थः। नीलोत्पलमितिवाक्यस्य संसर्गवैशिष्ट्यार्थप्रति- पादकत्वकल्पने विरोधाभावो दर्शयति । तत्र त्विति । नीलोत्प- लपदार्थयोर्गुणगुणिनोर्विशेषणविशेष्यभावसंसर्गस्य नीलगुणवि शिष्टोत्पलयोरैक्यस्य वा वाक्यार्थत्वांगीरकारे प्रत्यक्षादिप्र- माणांतरविरोधाभावात्तत्र तथा संगच्छत इति भावः । तत्त्व- मसीति वाक्ये तु तत्त्वंपदार्थयोःकिंचिज्ज्ञत्वादिविशिष्टजीवचै- तन्यस्य सर्वज्ञत्वादिविशिष्टेश्वरचैतन्यस्य चान्योन्यविशेषण- विशेष्यभावसंसर्गस्य तदुभयविशिष्टचैतन्यैक्यस्य वा वाक्या- र्थत्वांगीकारे प्रत्यक्षादिप्रमाणांतरविरोधात्पूर्वस्माद्वैषम्यं द- र्शयति । अत्र त्विति ॥ ७९ ॥ (भा०टी०) “नीलमुत्पलम्” इस वाक्यसे जैसा वा- क्यार्थ होता है । तिस प्रकार “तत्त्वमसि” इस वाक्यका वाक्यार्थ सङ्गत नहीं होता है क्यों कि “नीलमुत्पलम्” इस वाक्य में नील पदका अर्थ नीलगुण है और उत्पल पदका अर्थ उत्पल द्रव्य है यह दोनों शुक्लत्वादि और गुण और घटपटादिद्र- व्यके व्यावर्तक हैं इस कारण परस्पर विशेष्यविशेषणभाव सम्बन्ध अथवा एक की दूसरे सङ्ग वाक्यार्थ सङ्गति होती है- तिस प्रकार “तत्त्वमसि” इस वाक्यमें सर्वज्ञत्व और किञ्चिज्ज्ञ-
संस्कृतटीका-भाषाटीकासमेत । (८७) त्व में प्रत्यक्षादि प्रमाणका विरोध होनेसे “नीलमुत्पलम्” इ- सके वाक्यार्थकी तरह “तत्त्वमसि” इसका वाक्यार्थ सङ्गत नहीं होता है ॥ ७९ ॥ अत्र तु गङ्गायां घोषः प्रतिवसतीतिवज्जहल्लक्षणा न सङ्गच्छते । तत्र तु गङ्गाघोषयोराधाराधेयभाव- लक्षणस्य वाक्यार्थस्याशेषतो विरुद्धत्वाद्वाच्यार्थ- मशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणया यु- क्तत्वाज्जहल्लक्षणा सङ्गच्छते । अत्र तु परोक्षत्वाप- रोक्षत्वादिविशिष्टचैतन्यैकत्वरूपस्य वाक्यार्थ- स्य भागमात्रे विरोधाद्भागान्तरमपरित्यज्यान्यल- क्षणाय अयुक्तत्वाज्जहल्लक्षणा न सङ्गच्छते ॥८०॥ ( सं०टी० ) ननु तत्त्वमस्यादिवाक्यमखंडार्थं कथं बो- धयति जहल्लक्षणया वा किमजहल्लक्षणया आहोस्विज्जहद- जहल्लक्षणयेति त्रिधा विकल्पः। आद्ये दूषणमाह। अत्र त्वि- ति । तत्त्वमसीतिवाक्ये जहल्लक्षणा न संगच्छत इत्यन्वयः । तदेव दर्शयितुं जहल्लक्षणाया उदाहरणं तावदाह । गंगाया- मिति । मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ‘मुख्यार्थेना- विनाभूते प्रवृत्तिर्लक्षणेष्यते’ इति वचनाद्गंगायां घोषवत्त्वासं- भवाद्गंगायां घोष इति वाक्यस्य मुख्यार्थविरोधे सति मु- ख्यार्थं परित्यज्य लक्षणया वृत्त्या तत्संबंधिनि तीरे घोषाव- स्थानप्रतिपादनात्तत्र जहल्लक्षणांगीकारो युज्यत इत्याह । तत्र त्विति । तत्र तु गंगौघोषयोराधाराधेयभावलक्षणां सर्वथा प-
( ८८ ) वेदान्तसार । रित्यज्येत्यर्थः । तत्त्वमसीति वाक्ये प्राक्प्रतिज्ञातं जहल्लक्षणा- संभवमाविष्करोति । अत्र त्विति । तु शब्दः पूर्वस्माद्वैषम्यं द्योतयति। तत्त्वमसीति वाक्ये परोक्षत्वापरोक्षत्वविशिष्टचैतन्यै कत्वलक्षणस्य वाक्यार्थस्य विरोधाभावात्परोक्षत्वापरोक्षत्व- प्रतिपादकत्वांशे विरोधाच्चैतन्यैकत्वे विरोधाभावाद्गंगाघो- षादिवाक्यवत्सर्वात्मना मुख्यार्थपरित्यागासंभवाज्जहल्लक्षणा न संभवतीत्यर्थः । तत्र हेतुमाह । भागांतरमिति । विरुद्ध- योः परोक्षत्वापरोक्षत्वयोरेकत्वासंभवेन तत्परित्यागेपि चैत- न्यभागस्यैकत्वे विरोधाभावात् त्यागो न युज्यत इत्यर्थः ८० ( भा०टी० ) जैसे " गङ्गायां घोषः प्रतिवसति " इस वाक्यमें जहत्स्वार्थलक्षणा वृत्तिसे वक्यार्थ सङ्गत होता है। तिस प्रकार " तत्त्वमसि " इस वाक्यका जहत्स्वार्थल- क्षणा द्वारा वाक्यार्थ सङ्गत नहीं होता है क्योंकि "गङ्गायां घोषः प्रतिवसति " इस वाक्यमें भगीरथरथखातावच्छिन्न जलप्रवाहरूप गङ्ग और घोष ( आभीरपल्ली ) इनका आ- धाराधेयभाव असम्भव होनेसे वाक्यार्थ बाधित होता है। इस कारण विरोध दूर करनेके अर्थ तात्पर्यकी अनुपपत्ति होनेसे गङ्गा पदका शक्यार्थ जो भगीरथरथखातावच्छिन्न जल प्रवाह उसका परित्याग करके लक्षणाद्वारा गङ्गाके समीप वर्ति गङ्गातीरमें गङ्गापदका अर्थ युक्तिद्वारा कल्पना किया जाताहै। इस प्रकार शब्दका मुख्य अर्थ परित्याग करके अन्य अर्थका स्वीकार करना । लक्षणा अर्थात् जहत्स्वार्थलक्षणा
संस्कृतटीका-भाषाटीकासमेत । (८९) होतीहै। तिस प्रकार "तत्त्वमसि" इस वाक्यमें प्रत्यक्ष और अप्रत्यक्ष इन दोनोंके ऐक्य स्वरूप वाक्यार्थमें कोई विरोध नहींहै केवल प्रत्यक्ष और अप्रत्यक्ष को प्रतिपादक अंश वि- रोध है। सो शक्यार्थको परित्याग करके लक्ष्यार्थ स्वीकार नहीं करतेहैं। इसी कारण "तत्त्वमसि" इस वाक्यमें अजह- त्स्वार्थलक्षणा सङ्गत नहीं होतीहै ॥ ८० ॥ न च गङ्गापदं स्वार्थपरित्यागेन तीर्थपदार्थं यथा- लक्षयति तथा तत्पदं त्वंपदं वा वाच्यार्थपरित्यागे- न त्वंपदार्थं तत्पदार्थं वा बोधयतु तत् कुतोऽजहल्ल- क्षणा न सङ्गच्छते इति वाच्यम् । तत्र तीरपदाश्रव णेन तदर्थाप्रतीतौ लक्षणया तत्प्रतीत्यपेक्षायाम- पि तत्त्वंपदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्ष- णया पुनः अन्यतरपदेनान्यतरपदार्थप्रतीत्यपेक्षा- भावात् । श्रुतवाक्यस्य मुख्यार्थविरोधे मु- ख्यार्थसम्बन्धिन्यश्रुतपदार्थे लक्षणेतिसर्वजनप्र- सिद्धम् ॥ ८१ ॥ (सं०टी०) ननु यथा गंगायां घोषः प्रतिवसतीति वाक्ये गंगापदं प्रवाहलक्षणस्वार्थं परित्यज्य स्वसंबंधितीरपदार्थं ल- क्षयति । तथा। तत्त्वमसीति वाक्ये तत्पदं स्वार्थं परोक्षत्ववि- शिष्टं परित्यज्य जीवचैतन्यं लक्षयतु एवं त्वंपदमपि स्वार्थे किंचिज्ज्ञत्वादिविशिष्टं परित्यज्येश्वरचैतन्यं वा लक्षयतु त- स्माज्जहल्लक्षणैव भवतीत्याशंक्य निराकरोति । नचेति । नि
( ९० ) वेदान्तसार । राकरणप्रकारमेवाह । तत्रेति । तथा च गंगायां घोष इत्यत्र श्रुतवाक्यार्थस्य गंगाघोषयोराधाराधेयभावसंबंधस्य विरोधे स ति श्रूयमाणं गंगापदं स्वार्थपरित्यागेन तीरपदार्थं लक्षयतीति युक्तं गंगापदार्थस्य तीरपदार्थप्रतीतिसापेक्षत्वादिहेतुश्रूयमाण- तत्त्वंपदयोर्मुख्यतयैव तदर्थसर्वज्ञत्वकिंचित्ज्ञत्वादिविशिष्टप्र- तीतौ सत्यामपि लक्षणया तत्पदेन त्वंपदार्थप्रतीत्यपेक्षाभा- वात्त्वंपदेन तत्पदार्थप्रतीत्यपेक्षाभावाच्च मुख्यार्थे संभवति ल- क्षणाया अन्याय्यत्वाज्जहल्लक्षणा न संभवतीत्यर्थः ॥ ८१ ॥ ( भा०टी० ) जैसे गङ्गापदका वाच्यार्थ परित्यागकरके लक्षणाद्वारा तीर अर्थ ग्रहण किया जाताहै तिसी प्रकार ल- क्षणाद्वारा तत्पदका वाच्यार्थ परित्याग करके त्वं पदार्थ- में अथवा त्वंपदका शक्यार्थ परित्याग करके तत्पदार्थ- में लक्षित होजाय । तब तौ “तत्त्वमसि” वाक्यमें भी जह- त्स्वार्थ लक्षणा सङ्गत होजायगी । सो ठीक नहींहै क्योंकि “गङ्गायां घोषः” इस वाक्यमें तीरशब्दका उच्चारण नहींहै इसकारण तीर अर्थ की अपेक्षा करके जहत्स्वार्थलक्षणा स- ङ्गत होती है। परन्तु “तत्त्वमसि” इस वाक्यमें “तत्” और “त्वम्” यह दोनों पदार्थ युक्त हैं और दोनोंके अर्थ प्रसिद्ध हैं इस कारण यहां लक्षणाद्वारा अन्य पदको अन्यतर अर्थ- की आवश्यकता नहीं है इस कारण “तत्त्वमसि” वाक्यमें जहत्स्वार्थलक्षणा असङ्गत होती है कारण कि, जो कोई वाक्य सुना जाताहै, उस वाक्यका मुख्य अर्थ समझनेमें वि-