विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ८८ ) अन्वयः यस्य पुष्पेषोः इव अखर्वाः शराः सर्वैः दुष्परिहराः यस्य ऊर्जितज्या- निष्ड्यूतनितान्तनिष्ठुररवप्राप्ताग्रवादः भुजः युद्धेषु राज्ञाम् अप्रतिभानम् एव विदधे, तस्य विक्रामतः देवस्य अस्त्रकौशलविधौ किं ब्रूमः । व्याख्या यस्य राज्ञ पुष्पेपो कुसुमबाणस्य कामस्य इवाऽखर्वा प्रबला शरा बाणास्स- र्वैर्वारैर्दुष्परिहरा दुःखेन परिहर्तुं शक्या कृच्छ्रेण प्रतिरोधनीया निवारणीया इत्यर्थः । यस्योर्जितया बलवत्या ज्यया मौर्त्या निष्ड्यूतो निस्सृतो नितान्त- मत्यन्त निष्ठुर कठोरो रव शब्दस्तेन प्राप्तो लब्धोऽग्रवादो युद्धाह्वानाय प्रथम- ध्वानो यस्य स भुजो युद्धेषु रणेषु राज्ञा नृपाणामप्रतिभान प्रतिभाराहित्य विवेकशून्यत्व मूकत्व वा कि कर्तव्यताविमूढत्वमित्यर्थः । विदधे चक्रे, तस्य विक्रमत पराक्रमशालिनो देवस्याऽऽहवमल्लदेवस्य, ‘नामैकदेशग्रहणे नामग्रहणम् ।’ अस्त्राणा कौशलविधौ सञ्चालनप्रावीण्यविधौ शस्त्रास्त्रविद्यानैपुण्यविषये किं ब्रूम किमपि कथनीय नाऽस्ति । अवाङ्गोचरयमेवेत्यर्थः । अत्र शार्दूलविक्रीडितच्छन्दः । ‘सूर्याश्वैर्मसजास्ततस्ततगा शार्दूलविक्रीडितमिति’ । भाषा उस पराक्रमी राजा आहवमल्लदेव की अस्त्र चलाने की प्रवीणता के सम्बन्ध में विशेष क्या कहा जाय जिसके कामदेव के समान प्रबल बाणों को कोई भी टाल नहीं सकता था और जिसकी शक्तियुक्त मौर्वी के अत्यन्त कठोर शब्दो द्वारा सर्व प्रथम ललकार ने वाली भुजा, युद्धो में शत्रुओ को किंकर्तव्यता- विमूढ अतएव मूक बना देती थी । इति श्री त्रिभुवनमल्लदेव विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्ये प्रथम सर्गः । नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात् भारद्वाज-कुलोत्तमात्समुदितः श्रीविश्वनाथः सुधीः । चक्रे रामकुबेरपण्डितवरारसप्राप्तसाहाय्यकः सर्गेऽस्मिन्प्रथमे रमाकरुणया टीकाद्वयं निर्मलम् ॥ ॐ शान्ति शान्ति शान्ति
॥ श्री ॥ महाकवि श्री बिल्हण विरचितं विक्रमाङ्कदेवचरितम्
द्वितीयः सर्गः । अथ कल्याणनाम्नीं चालुक्यराजधानीं पञ्चविंशतिश्लोकैर्वर्ण- यति महाकविः । चकार कल्याणमिति क्रमादसौ पुरं परार्ध्यं पृथिवीपुरन्दरः । यदुच्चहर्म्यावलिदीपसंपदां विभाव्यते कज्जलसंनिभं नभः ॥१॥ अन्वयः असौ पृथिवीपुरन्दरः क्रमात् कल्याणम् इति परार्ध्यं पुरं चकार यदुच्च- हर्म्यावलिदीपसंपदा कज्जलसन्निभं नभः विभाव्यते । व्याख्या असावाहवमल्लदेवनामा पृथिव्या पृथ्व्या पुरन्दर इन्द्र क्रमात् कियता कालेन कल्याणमिति कल्याणनामकं परार्ध्यं श्रेष्ठं ‘परार्द्धाग्र्याप्रहरप्राग्र्यकाष्ठ्या- धीय्यमप्रियम्’ इत्यमर । पुर नगरं चकार निर्मापयामास यस्य पुरस्य हर्म्याणि प्रासादास्तेषामावलि पंक्ति ‘वीथ्यालिश्रावलि पंक्ति श्रेणीत्यमर’ । तस्या दीपसपदा दीपजालाना कज्जलसनिभ कज्जलसदृश नभोऽन्तरिक्ष ‘नभोन्तरिक्ष- गगनमनन्त सुरवर्त्म खम्’ इत्यमर । विभाव्यते ज्ञायतेस्म । उत्प्रेक्षालङ्कार । सर्गेऽस्मिन्वशस्थच्छन्द ‘जतोतु वंशस्थमुदीरित जरौ’ । भाषा इस आहवमल्लदेव राजा ने धीरे २ कल्याण नामका एक धष्ठ नगर बसाया
( १० ) जिसके धनियों के ऊँचे २ मकानों की कतार पर जलने वाले असंख्य दीपो के कज्जल के समान आकाश दिखाई देता था । अर्थात् काला आकाश उन दीपो का धूवाँ मालूम होता था । निवर्त्तिताश्चन्दनलेपपाण्डुभिर्नतध्रुवां यत्र समुन्नतैः स्तनैः । मुखानिला एव कदर्थनक्षमा भवन्ति माने मलयाद्रिवायवः ॥२॥ " अन्वयः यत्र नतध्रुवां चन्दनलेपपाण्डुभिः स्तनैः निवर्त्तिता मुखानिलाः एव माने कदर्थनक्षमाः मलयाद्रिवायवः भवन्ति । व्याख्या यत्र पुरे नते वक्रे ध्रुवौ दृग्भ्यामूर्ध्वभागौ 'ऊर्ध्वं दृग्भ्यां भ्रुवौ स्त्रियां' इत्यमरः । यासां तास्तासामङ्गनानां चन्दनस्य लेपेन पाण्डुभि शुक्लवर्णैः समुन्नतैस्तुङ्गैः स्तनै पयोधरैर्निवर्त्तिता मुखान्निस्सृत्य स्तनैस्संघट्य पुन परावृत्ता मुखानिला एव माने मानावस्थायां कदर्थने व्यथोत्पादने मानभङ्गकरणे च क्षमा- समर्था मलयाद्रेर्वायवो दक्षिणानिला भवन्ति । मलयाद्रिवायुवद्विरहव्यथासंदीप- नक्षमा भवन्तीति भाव । अत्र रूपकालंङ्कार । भाषा जिस नगर की नारियां के मुख से निकलने वाले वायु ही चन्दन के लेप से श्वेत वर्ण उच्च कुचों से टकरा कर फैलते हुए, मानावस्था में विरह व्यथा को उत्पन्न करने में समर्थ मलयानिल ही हो जाते है । मलयानिल जिस प्रकार चन्दन वृक्षों के सम्पर्क से सुगन्धित होकर पहाड़ों से टकरा कर फैलते हुए अपनी सुगन्ध और शैत्य से विरह व्यथा कारण होते हैं वैसे ही नारियों के मुखानिल स्तन पर के चन्दन लेप से सुवासित व शीत होकर ऊँचे कठोर स्तनों से टकरा कर मन्दगति से फैलते हुए मानावस्था में उनके पतियों को विरह व्यथा कारक होकर उनका मान भङ्ग करने में समर्थ होते थे । क्षपाकरः कातररश्मिमण्डलः पुरन्ध्रिगण्डस्थलकान्तिसम्पदा । विकीर्णसंमार्जनभस्मरेणुना विभर्ति यस्मिन्मुकुरेण तुल्यताम् ॥३॥
( ११ ) अन्वयः यस्मिन् पुरन्ध्रीगण्डस्थलकान्तिसम्पदा कातररश्मिमण्डलः क्षपाकरः विकीर्णसंमार्जनभस्मरेणुना मुकुरेण तुल्यतां बिभर्ति । व्याख्या यस्मिन्नगरे पुरन्ध्रीणां पतिव्रतास्त्रीणां 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । गण्डस्थलस्य कपोलस्थलस्य कान्तीनां रुचीनां संपदा समूहेन कातर हतप्रभ रश्मिमण्डलं किरणजालं यस्य सः 'किरणप्रग्रहौ रश्मी- त्यमरः । क्षपाकरश्चन्द्रः 'नक्षत्रेशः क्षपाकरः' इत्यमरः । विकीर्णः पतितः समाtypes/मार्ज/नस्य गृहसमार्जनस्य भस्मरेणुर्धूलिर्यस्मिंस्तं तेन मुकुरेण दर्पणेन 'दर्पणे मुकुरादर्शौ' इत्यमरः । सह तुल्यतां समानतां बिभर्ति धारयति । उपमा- लङ्कारः । भाषा जिस नगर में सती स्त्रियों के कपोलस्थल की कान्ति के आधिक्य से हतप्रभ किरण समूह वाला चन्द्रमा, झाडू देन में उडी हुई धूली के कणों से आच्छादित ऐने के समान दिखाई देता था । विलासदोलायितदन्तपत्रयोः क्षपासु यत्रेन्दुरलक्ष्यमण्डलः । प्रविश्य संक्रान्तिमिषेण योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥ अन्वयः यत्र क्षपासु संक्रान्तिमिषेण प्रविश्य विलासदोलायितदन्तपत्रयोः योषितां कपोलयोः अलक्ष्यमण्डलः इन्दुः कान्तिजलं विलुम्पति । व्याख्या यत्र पुरे क्षपासु रात्रिषु विलासे स्वैरक्रीडायां दोलायिते दोलावदाचरिते पुरःपश्चाद्गतागते दन्तपत्रे ताटङ्कौ ययोस्तयोर्योषितां नारीणां 'स्त्रीयोषिदबला योषा नारी सीमन्तिनी वधू' इत्यमरः । कपोलयोर्गण्डस्थल्योरलक्ष्यमविज्ञातं मण्डलं बिम्बं यस्य स इन्दुश्चन्द्र संक्रान्तिमिषेण प्रतिबिम्बव्याजेन प्रविश्य गत्वा कान्तिजलं लावण्यामृतं विलुम्पति पिबति । चन्द्रतोऽधिककान्तिमत्त्वात्कपोलयो- त्पतितस्य चन्द्रप्रतिबिम्बस्य व्याजेनेन्दु कामिनीनां स्वकान्तिविवृद्ध्यर्थं लावण्या-
( १२ ) मृतपानं करोतीत्यर्थः । चन्द्रतोऽप्यधिककान्तिमन्मुख्यः स्त्रिय इति भावः। अत्र सापन्हवा गम्योत्प्रेक्षा तत उपमानापेक्षयोपमेयस्य गुणाधिक्यप्रतीत्या व्यतिरेकध्वनिश्च। भाषा जिस नगर में रात्रियों में विलास में हिलने वाले कर्ण के आभूषणों से युक्त स्त्रियों के कपोल स्थलों में चन्द्रमा अप्रत्यक्ष रूप से, प्रतिबिम्ब के बहाने से प्रविष्ट होकर उनके लावण्यामृत का पान करता है। अर्थात् उन स्त्रियों के मुख, चन्द्रमा से अधिक कान्तियुक्त थे। गतोऽपि यत्र प्रतिबिम्बवर्त्मना समीपतां वञ्चयितुं प्रगल्भते । मुखानि जाग्रन्मदनानि सुभ्रुवां सयामिकानीव न यामिनीपतिः ॥५॥ अन्वयः यत्र यामिनीपतिः प्रतिबिम्बवर्त्मना समीपतां गतः अपि जाग्रन्मदनानि सयामिकानि इव सुभ्रुवां मुखानि वञ्चयितुं न प्रगल्भते । व्याख्या यत्र पुरे यामिन्या रात्रेः पतिः स्वामी चन्द्रः 'विभावरीतमास्विन्यौ रजनी यामिनी तमी' इत्यमरः । प्रतिबिम्बवर्त्मना प्रतिबिम्बमार्गेण प्रतिबिम्बव्याजेन वा समीपतां सामीप्यं गतोऽपि प्राप्तोऽपि जाग्रन्मदनः कामो येषु तानि समुद्दीप्त- मन्मथानीति भावः । अतएव यामिकैः प्रहररक्षकैः सहितानि युक्तानीव सुभ्रुवां कामिनीनां मुखान्यास्यानि वञ्चयितुं प्रतारयितुं न प्रगल्भते न समर्थो भवति । अत्र नूतनहेतुकल्पनया काव्यलिङ्गमलङ्कारः 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते।' भाषा जिस पुर में, चन्द्रमा, प्रतिबिम्ब के बहाने से समीप जाने पर भी कामोद्दीपन से मस्त कामिनियों के मुखों को, पहरा देने वालों के समान कामदेव के वहाँ जागते रहन के कारण, ठग नहीं सकता था। अर्थात् अपनी सौभाग्यसम्पत्ति तथा सौन्दर्य से उन कामिनीयों के मुखों को नीचा नहीं दिखा सकता था।
( १२ ) जलाशया यत्र हसन्ति सन्ततं नवेन्द्रनीलद्रवनिर्मलोदराः । शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः ॥६॥ अन्वयः यत्र नवेन्द्रनीलद्रवनिर्मलोदराः जलाशयाः शरत्समुत्सारितमेघकर्दमं कलिन्दकन्याह्रदमेचकं नभः सन्ततं हसन्ति । व्याख्या यत्र कल्याणकटकनामकनगरे नवो नूतन इन्द्रनीलमणीनां द्रवो द्रुतपदार्थस्तद्व- न्निर्मलं मलरहितमुदरं मध्यं येषां ते जलाशयाः सरांसि शरदा शरद्ऋतुना समुत्सारिता दूरीकृता मेघा एव कर्दमाः पङ्काः यस्मात्तत् कलिन्दकन्याया यमुनाया ह्रदोऽगाधपयस्तद्वन्मेचकं कृष्णवर्णं नभ आकाशं सन्ततं सततं हसन्ति स्वशोभया तिरस्कुर्वन्ति । शरदृत्तौ नभसि मेघा न दृश्यन्ते जले च पङ्करा- हित्यान्नैर्मल्यं जायते । अत्र जलाशयानां नभसा सादृश्यप्रतीतेरुपमाया हसन्तीति पदेन व्यङ्ग्यत्वम् । भाषा जिस कल्याणकटक नगर मे नये इन्द्रनील मणियो के द्रव के समान स्वच्छ स्तर वाले जलाशय, शरद ऋतु के आने पर मेघ रूपी कीचड से रहित और यमुनानदी के अगाध जल के समान नीले रग के आकाश की हँसी उडाते है । अर्थात् उन जलाशयो की नीलिमा आकाश की नीलिमा से सुन्दर थी । प्रकर्षवत्या कपिशीर्षमालया यदुद्भटस्फाटिकवप्रसंहतिः । विलोकयत्यम्बरकेलिदर्पणे विलासधौतामिव दन्तमण्डलीम् ॥७॥ अन्वयः यदुद्भटस्फाटिकवप्रसंहतिः प्रकर्षवत्या कपिशीर्षमालया विलासधौतां दन्तमण्डलीम् अम्बरकेलिदर्पणे विलोकयति इव । व्याख्या यस्य कल्याणपुरस्योद्भटा बृहती स्फाटिका स्फटिकमणिशिलानिर्मिता वप्रस्य प्राकारस्य संहतिः सन्ततिः श्रेणिः प्रकर्षवत्याऽत्युन्नतया कपिशीर्षाणि प्राकारस्यो-
( ९४ ) च्चतमभागाः ( बुर्जिया इतिलोके प्रसिद्धाः ) तेषां माला पंक्तितस्तया विलासेनाऽ- प्रयासेन सुगन्धिमञ्जनेन वा धोता क्षालितामत एव शुभ्रा दन्तानां रदानां मण्डली समूहम्मम्बरमेवाऽऽकाशमेव केलिदर्पणस्तस्मिन्नवलोकयतीव पश्यतीव । आकाशरूपदर्पणे वप्रस्य स्वकीयशीर्षरूपदन्तानामवलोकनमुत्प्रेक्ष्यते । अत उत्प्रेक्षालङ्कारः । भाषा जिस कल्याण नगरी की स्फटिक की चट्टानों से बनी दीवारों की कतार, उन्नत श्वेत गुम्बजों के बहाने से मानो सुगन्धित मञ्जन से अप्रयास से ही दतुवन किए हुए अपने श्वेत दांतों को आकाशरूपी क्रीडादर्पण में देखती हैं । पुराङ्गनावक्त्रसहस्रकान्तिभिस्तिरोहिते रात्रिषु तारकापतौ । क्व रौप्यकर्पूरकरण्डपाण्डुरः शशीति यत्र भ्रममेति रोहिणी ॥८॥ अन्वयः यत्र रात्रिषु रोहिणी तारकापतौ पुराङ्गनावक्त्रसहस्रकान्तिभिः तिरोहिते (सति) रौप्यकर्पूरकरण्डपाण्डुरः शशी क्व इति भ्रमम् एति । व्याख्या यत्र रात्रिषु निशासु 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । रोहिणी चन्द्रप्रिया तारकाणां ताराणां 'नक्षत्रमृक्षं भं तारा तारकाऽ- प्युडु वा स्त्रियाम्' इत्यमरः । पतिश्चन्द्रस्तस्मिन् पुरस्य कल्याणपुरस्याङ्गना ललनास्तासां वक्त्राणि मुखानि तेषां सहस्राणि तेषां कान्तिभिरत्युत्कटप्रभाभिरित- रोहिते पिहिते सति रूपेण रजतेन निर्मितो रौप्यो यः कर्पूरकरण्डः कर्पूराधानपात्र- मिनेवस्तद्वत्पाण्डुरः शुभ्रः शशी चन्द्रः क्व कुत्र गर्तत इति भ्रमं भ्रान्तिमर्या- त्सन्देहमेति समासादयति । अङ्गनामुखानां चन्द्रसादृश्यातिशयमूलकचन्द्रा- भेवप्रतीत्या पार्थक्येन चन्द्रप्रतीतिरेव नास्तीति भावः । अथवा पुराङ्गना मुखचन्द्रसहस्रकान्तिभिस्तिरोहिते चन्द्रेऽस्मत्पतिश्चन्द्रः क्वेति रोहिणी भ्रममेति । अत्रसन्देहालङ्कारो व्यङ्ग्यः । मीलितारङ्कारश्च । 'मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा ।' भाषा जिस पुर में रात को हजारों स्त्रियों के मुखों की कान्ति से चन्द्रमा के न
( ९५ ) 'पहिनाने जाने पर चांदी की कपूर की डिबिया के सदृश शुभ्रवर्ण चन्द्रमा यहां है, ऐसा चन्द्रपत्नी रोहिणी को सन्देह हुआ करता था । यदीयलौलास्फटिकस्थलीभुवाममुग्धदुग्धान्धिसमत्विषां पुरः । दवाग्निनिर्दग्धवनस्थलोपमं विलोक्यते कज्जलकशमलं नभः ॥६॥ अन्वयः अमुग्धदुग्धाब्धिसमत्विषां यदीयलीलास्फटिकस्थलीभुवां पुरः कज्जल- कश्मलं नभः दवाग्निनिर्दग्धवनस्थलोपमं विलोक्यते । व्याख्या अमुग्धः स्वच्छश्चासौ दुग्धाब्धिः क्षीरसागरस्तेन समाः समानास्त्विषः कान्तयो यासां ता यदीयाः कल्याणपुरसम्बन्धिन्यो लीलाया विलासस्य क्रीडार्थ- मारचिताः स्फटिकस्थलयः स्फटिकमणिनिर्मितभूमयस्तासां पुरोऽग्रे कज्जल- वत्कश्मलं श्यामवर्णं नभ आकाशं दवाग्निना दावानलेन निर्दग्धं भस्मीकृतं वनस्थलमरण्यप्राग्तस्तस्योपमासादृश्य यस्य तद्वद्विलोक्यते दृश्यते । स्फटिक- स्थल्याकाशयोर्नैर्मल्यसामान्यत्वेऽपि स्फटिकस्थल्याः शुभ्रवर्णत्वादधिकसौन्दर्य- 'मिति भावः । ततश्च व्यतिरेकध्वनिः । भाषा निर्मल क्षीर सागर के समान शुभ्र कान्ति वाले जिस कल्याण पुर के स्फटिक के बने हुवे क्रीडाङ्गणों के सामने कज्जल के ऐसा काला आकाश दावानल से जले हुए वनस्थल के समान दिखाई देता था । तटद्रुमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयञ्छ्रियम् । स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ॥१०१॥ अन्वयः सः यत्तडागः तटद्रुमाणां प्रतिबिम्बमालया सपारिजातां श्रियं दर्शयन् सुरैः गृहीतसारस्य पयोनिधेः विडम्बनाम् इव कुरुते । व्याख्या सः प्रसिद्धो यस्य कल्याणपुरस्य तडागस्सरस्तटद्रुमाणा तीरस्थवृक्षाणां
( ९६ ) तडागे प्रतिबिम्बानां प्रतिच्छायानां गत्या पंक्त्या पारिजातैरनेककल्पवृक्षैः सहितां युक्तां श्रियं शोभां दर्शयन् विज्ञापयन् सुरैर्देवैर्गृहीतसारस्यापहृतकल्प- वृक्षस्य पयोनिधेः समुद्रस्य विडम्बनामुपहासमिव कुरुते । समुद्रात्तु पारिजातस्यै- कस्यैवोत्पत्तिः सोऽपि देवैरपहृत इति समुद्रो निस्सारः । अस्मिंस्तडागेत्वनेके- कल्पवृक्षाः परिदृश्यन्ते केनाऽपि हृताश्च नेति समुद्रात्स्योत्कर्ष परिहासस्य बीजम् । अत्रोत्प्रेक्षालङ्कारो गम्यः । भाषा जिस कल्याणपुर का तालाब, तटपर के वृक्षो की परछाही पड़ने से अपन भीतर अनेक कल्पवृक्ष होने की शोभा दिखाता हुआ, देवताओ द्वारा कल्पवृक्ष निकाल लिए गए हुए समुद्र की मानो हंसी उड़ा रहा है । प्रतिक्षणं क्षालितमन्युना रणे प्रयुक्तरक्षस्य नृपेण मानिना । न यस्य कक्षां शतमन्युरक्षिता पुरी पुराग्रहरस्य गाहते ॥११॥ अन्वयः शतमन्युरक्षिता पुरी रणे प्रतिक्षणं क्षालितमन्युना मानिना नृपेण प्रयुक्तरक्षस्य पुराग्रहरस्य यस्य कक्षा न गाहते । व्याख्या शतं मन्यवो ऋतयो क्रोधाश्च यस्य सः शतमन्युरिन्द्रः 'मन्युर्दन्ये ऋतौ क्रुधि ।' इत्यमरः । 'जिष्णुर्लेखर्षभः शक्र. शतमन्युर्दिवस्पतिः ।' इत्यमरः । तेन रक्षिता पालिता पुरी अमरावती नगरी रणे युद्धे प्रतिक्षणं निरन्तरं क्षालितो दूरीकृतो मन्युः क्रोधो येन स तेन निर्मन्युना ऋतुरहितेन वा मानिना सगर्वेण, 'गर्वाभिमानोऽहङ्कारोमानश्चित्तसमुन्नतिः ।' इत्यमरः । नृपेण राज्ञाऽऽहवमल्ल- देवेन प्रयुक्ता कृता रक्षा यस्य तस्य पुराणां 'निर्धारणे षष्ठी' नगराणां मध्ये प्राग्रहरस्य श्रेष्ठस्य यस्य कल्याणपुरस्य कक्षां साम्यं न गाहते न प्राप्नोति । शतक्रतुकारिणा शतकोपकारिणा चेन्द्रेण यत्कार्यं क्रियते तत्कार्यमनेनाऽऽहवमल्ल- देवराजेन निर्मन्युर्नय यज्ञरहितेनाऽपि यज्ञानुष्ठानादिकं विनैव साध्यत इतिभावः । अत्र व्यतिरेकालङ्कारः । 'अधिक्यमुपमेयस्योपमानान्न्यूनता तया ।' भाषा एक सौ यज्ञ करने वाले और सैकडो बार क्रोध करने वाले इन्द्र से रक्षित
( १७ ) अमरावती पुरी, युद्धो में लगातार शत्रुओं का संहार करने से प्रशान्त क्रोध वाले, या यज्ञो से अपनी कार्य-सिद्धि की अपेक्षा न करने वाले, अभिमानी आहवमल्लदेव राजा से रक्षित, पुरो में श्रेष्ठ कल्याणपुर की बराबरी नहीं कर सकती है । करोति गण्डस्थलचन्द्रमण्डले विलासवेलन्मणिकुण्डलातिथौ । न यत्र वित्रस्तकुरङ्गचक्षुषां निघर्षभीत्येव पदं कुरङ्ककः ॥१२॥ अन्वयः यत्र वित्रस्तकुरङ्गचक्षुषां विलासवेलन्मणिकुण्डलातिथौ गण्डस्थल- चन्द्रमण्डले कुरङ्ककः निघर्षभीत्या इव पदं न करोति । व्याख्या यत्र कल्याणपुरे वित्रस्तानि स्त्रीणां विशालनेत्रकान्त्या भीतानि कुरङ्गाणां मृगाणां चक्षूंषि नयनानि याभ्यस्तासां पुराङ्गनानां विलासेन विभ्रमेण वेल्लन्ती- तस्ततः परिकम्पमानानि मणिनिर्मितकुण्डलानि कर्णभूषणाण्येवाऽतिथयो यस्य तस्मिन्, क्रीडाचञ्चलमणिनिर्मितकर्णावतंसविभूषिते गण्डस्थलमेव चन्द्रमण्डलं शुभ्रत्वाद्वर्तुलत्वादतिशयशोभास्पदत्वाद्वा तस्मिन् कुरङ्ककश्चन्द्रमण्डलस्थित- कलङ्करूपो मृगो निघर्षस्य कुण्डलसङ्घर्षजन्यगात्रोच्छेदस्य भीत्या भयेन पदं स्थानं न करोति तत्र न गच्छति । पुराङ्गनानां मुखानि निष्कलङ्कानीति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा जिस नगर में, अपनी बड़ी २ सुन्दर आंखो से मृगों के नेत्रों को त्रस्त करने वाली स्त्रियों के, खेल में हिलने वाले कान के आभूषणों से शोभित गण्ड- स्थल (गाल) रूपी चन्द्रमण्डल में चन्द्रमा का कलङ्क रूप मृग, कर्णभूषणों की रगड़ के भय से नहीं आता। अर्थात् चन्द्र सदृश कपोल होने पर भी चन्द्र सकलङ्क है किन्तु उनका गण्डस्थल निष्कलङ्क है। समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुम्भैः सुरसद्ममूर्धगैः । प्रपा पिपासापरितापशान्तये नभश्चरीणामिव येन निर्मिता ॥१३॥ ७
( ९८ ) अन्वयः येन नभश्चरीणां पिपासापरितापशान्तये समुच्छलन्मौक्तिककान्तिवां- रिभिः सुरसद्ममूर्धगैः सुवर्णकुम्भैः प्रपा निर्मिता इव (प्रतीयते) । व्याख्या येन कल्याणपुरेण नभश्चरीणामाकाशविहरणशीलानाम्प्सरसां देवाङ्गनानां वा पातुमिच्छा पिपासा तृषा तस्याः परितापः सन्तापस्तस्य शान्तये दूरीकरणाय समुच्छलन्त्य ऊर्ध्वं प्रसारिण्यो मौक्तिकानां मुक्तानां कान्तय इव वारीणि जलानि स्वच्छत्वाद्येषु तैः सुराणां देवानां सद्मानि मन्दिराणि तेषां मूर्ध्नि गच्छन्तीति सुरसद्ममूर्धगास्तैर्देवमन्दिरशिरोधार्यमाणे सुवर्णकुम्भैः स्वर्णनिर्मितघटैः 'कुम्भो घटेऽथ मूर्धांशो डिम्भो तु शिशुवालिशौ' इत्यमरः । प्रपा पानीयपालिका 'प्रपा पानीयकालिकेत्यमरः' । निर्मितेव सम्पादितेव प्रतीयते । उत्प्रेक्षालङ्कारोऽति- शयोक्तिश्च । भाषा जिस नगर ने आकाश में उड़ने वाली अप्सरा या देवाङ्गनाओं की प्यास के कष्ट को दूर करने के लिये देवताओं के मन्दिरों के ऊपर रक्खे हुए, ऊपर फेंकने वाली मोतियों की कान्ति के सदृश कान्ति वाले जल से युक्त, सोने के घड़ों से मानो पोसरा बैठाया था । जगत्त्रयीकार्म्मणकर्मणि क्षमं निरीक्ष्य लीलायितमेणचक्षुषाम् । स्मरेण यत्र स्मरता पराभवं भवाय भूयः परिवोध्यते धनुः ॥१४॥ अन्वयः यत्र पराभवं स्मरता स्मरेण एणचक्षुषां लीलायितं जगत्त्रयीकार्म्मण- कर्मणि क्षमं निरीक्ष्य भवाय भूयः धनुः परिवोध्यते । व्याख्या यत्र पुरे शिवात्पराभवं पराजयं स्मरता स्मरेण कामेन 'कामः पञ्चशरः स्मरः' इत्यमरः । एणानां मृगाना चक्षूंषीव चक्षूंषि नेत्राणि यासां तासां 'गोकर्ण पृषतंनर्यरुहिताक्षमरो मृगाः' इत्यमर । लीलायितं विभ्रमं 'कार्म्मणमोषधि- प्रयोगेण वशीकरणकर्म,' जगतां त्रयी जगत्त्रयी तस्याः कार्म्मणं वशीकरणकर्म तस्य
( ९९ ) कर्मणि विषये क्षमं समर्थं निरीक्ष्य विलोक्य भवाय शिवाय शिवेन सह युद्धकरणार्थं तस्य वशीकरणार्थं वा भूयः पुनः धनु कार्मुकं परिबोध्यते सजीक्रियते । एषा चक्षुषां साहाय्येन साफल्यं निश्चितमिति धियेति भावः । अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । भाषा जिस नगरी की मृगनयनी स्त्रियों के हावभावो को तीनो लोको को वश कर लेने में समर्थ समझ, शंकर की हार का स्मरण रखने वाला कामदेव मानो शिव को हराने या वश में करने के लिये फिर अपना धनुष तैयार कर रहा है। अर्थात् इन मृगनयनियों की सहायता से अब शंकर को वश में कर लेना सरल है, ऐसे विचार से फिर से धनुष तैयार किया । स्मर-प्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः । भवन्ति यत्र क्षणमात्रविश्रम-प्रदायिनः कण्ठरवेषु योषिताम् ॥१५॥ अन्वयः यत्र स्मरप्रशस्तिप्रतिवस्तुतां गताः सलीलदात्यूहसमूहनिस्वनाः योषितां कण्ठरवेषु क्षणमात्रविश्रमप्रदायिनः भवन्ति । व्याख्या यत्र पुरे स्मरस्य कामस्य प्रशस्तिः कीर्तिप्रशंसा तस्याः प्रतिवस्तुता तत्पर्याय- रूपत्वं गताः प्राप्ता लीलया विलासेन सहितास्सलीला दात्यूहा जलकाकाः पक्षिविशेषाः 'दात्यूहः कालकण्ठकः' इत्यमरः । तेषा समूहस्य नि स्वनाः शब्दा योषिता स्त्रीणा कण्ठरवेषु भाषणकार्येषु गीतेषु वा क्षणमात्रमल्पकालपर्यन्तं विश्रमं शान्ति प्रददतीतिविश्रमप्रदायिनो शान्तिदातारो भवन्ति । तत्रत्यानां नारीणां शब्दो दात्यूहकूजितसन्नाधुर इति व्यज्यते । उपमाध्वनि । भाषा जिस नगरी में कामदेव की विरुदावलिस्वरूप पिहकने वाले पपीहों के शब्द, स्त्रियो के बोलने या गाने में उनकी आवाज थोडे देर के लिये बन्द कर उन्हे विश्राम देते हैं । अर्थात् पपीहो के शब्द के समान मनोहर उन स्त्रियो की कण्ठध्वनि थी ।
( १०० ) निराकृते यत्र रुषां समुद्गमे भुजङ्गसौभाग्यगुणेन सुभ्रुवाम् । वनान्तपुंस्कोकिलपञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ॥१६॥ अन्वयः यत्र सुभ्रुवां रुषां समुद्गमे भुजङ्गसौभाग्यगुणेन निराकृते (सति) वनान्तपुंस्कोकिलपञ्चमोर्मयः मानज्वरशेषभेषजं भवन्ति । व्याख्या यत्र पुरे सुभ्रुवां सुन्दरभ्रुकुटियुक्तानामङ्गनानां रुषां कोपानां 'कोपक्रोधामर्षरोषप्रतिघा ष्ट्क्रुधौ स्त्रियौ' इत्यमरः । समुद्गमे उत्पत्तौ भुजङ्गा विटजनाः कामुका वा तेषां यत्सौभाग्यं स्त्रीप्रसादानुकूलकलाप्रावीण्यं तस्य गुणेन प्रभावे- णोत्कर्षेण वा निराकृते दूरीकृते सति वनान्तस्यारण्यमध्यस्य पुंस्कोकिलाः पिकास्तेषां पञ्चमोर्मयः पञ्चमस्वरतरङ्गाः, (कोकिलाः पञ्चमस्वर एव शब्दायन्त इति लोकप्रसिद्धिः) । मानज्वरस्य प्रणयकोपरूपज्वरस्य शेषोऽवशिष्टांशस्तस्य भेषजं तच्छामकौषधिः 'भैषज्योपधभेषज्यान्यगदोजायुरित्यपि' इत्यमरः । भवन्ति जायन्ते । रूपकालङ्कारः । 'रूपकं रूपितारोपाद्विषये निरपह्नवे' । भाषा जिस नगरी में अच्छी भौंवो वाली नारियों में प्रणयकोप उत्पन्न होने पर कामुकों या विटों द्वारा अपनी प्रणयकोप को दूर करने की चातुरी से उनका कोष शान्त होने पर, वन में बोलने वाली कोयलों के पञ्चम स्वर की लहरें उनके अवशिष्ट मान रूपी ज्वर को मिटाने के लिये औषध का काम करती हैं । अर्थात् कोयल के शब्दों को सुनकर उनका सम्पूर्ण प्रणयकोप दूर हो जाता था । प्रविश्य यद्वेश्मसु रोहिणीपतिर्गुणं महान्तं लभते न संशयः । .यदेष राहोरुपयात्यलक्ष्यतां पुरन्ध्रिवक्त्रेन्दुसहस्रमध्यगः ॥१७॥ अन्वयः रोहिणीपतिः यद्वेश्मसु प्रविश्य महान्तं गुणं लभते, न संशयः । यत् एषः पुरन्ध्रिवक्त्रेन्दुसहस्रमध्यगः सन् राहोः अलक्ष्यताम् उपयाति ।
( १०१ ) व्याख्या रोहिणीपतिश्चन्द्रो यस्य पुरस्य वेश्मसु गृहेषु 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः। प्रविश्य गत्वा महान्तं विशिष्टं गुणं चमत्कारं लाभमित्यर्थः प्राप्नोति अत्र संशयः सन्देहो नास्ति। यद्यस्मात्कारणादेव चन्द्रः पुरन्ध्रीणा नारीणां वक्त्रेन्दूनां मुखचन्द्राणां सहस्रस्य मध्यं गच्छतीति पुरन्ध्रीवक्त्रेन्दुसहस्र- मध्यगः सन् स्त्रीमुखेन्दुसहस्रमध्यवर्तित्वाद्वाहोरलक्ष्यतामपरिभाव्यतामुपयाति प्राप्नोति। चन्द्रबाहुल्याद्वास्तविकचन्द्रपरिचयाभावादपरिभाव्यतामुपयातीति भावः। अत्र सामान्यं नाम अलङ्कारः। 'सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः।' भाषा रोहिणी के पति चन्द्रमा को इस नगर के घरों में प्रवेश कर बहुत लाभ होता था इसमें सन्देह नहीं। क्योंकि राहू, हजारों स्त्रियों के मुखचन्द्रों के बीच में इसके रहने से, इसको नहीं पहचान पाता था। यदीयसौधध्वजपट्टपट्टिकाः समुच्छलन्मौक्तिककान्तिनिर्झरैः । नभस्तलान्दोलनविभ्रमाहृतं विनिञ्चिपन्तीव सुरापगापयः ॥१८॥ अन्वयः यदीयसौधध्वजपट्टपट्टिकाः समुच्छलन्मौक्तिककान्तिनिर्झरैः नभस्तलान्दो- लनविभ्रमाहृतं सुरापगापयः विनिञ्चिपन्ति इव । व्याख्या यदीयेषु यत्पुरसम्बन्धिषु सौधेषु राजसदनेषु 'सौधोऽस्त्रि राजसदनम्' इत्यमरः। ध्वजाः पताकाः 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः। तेषां पट्टस्य कौशेयस्य पट्टिका वस्त्राणि समुच्छलन्ति प्रकम्पमानानि ध्वजपटप्रान्तभागविनिविष्टानि मौक्तिकानि तेषां कान्तिनिर्झरैः प्रभाप्रवाहैः 'प्रवाहो निर्झरो झर' इत्यमर नभस्तले व्योम्नि आन्दोलनस्येतस्ततः सचलनस्य विभ्रमेण विलासेनाऽऽहृत समाकृष्टं सुरापगायाः स्वर्गङ्गाया पयो जलं विनिञ्चि- पन्तीव सिञ्चन्तीव। अत्रोत्प्रेक्षालङ्कारः।
( १०२ ) भाषा जिस नगर के प्रासादों पर के झण्डों की रेशम की पट्टियों में लगे हुए मोतियों की कान्ति रूपी जल के झरनों से मालूम होता था कि पट्टियों के आकाश में सतत हिलते रहने से उनकी झड़प से खींचे गए हुए आकाश गंगा के जल को मानो वे पट्टियाँ छिड़क रही थीं । अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषाम् । विलासपीयूषनिधानकुम्भयोर्न यत्र पार्श्वं कुचयोर्विमुञ्चति ॥१९॥ अन्वयः यत्र अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषां विलास- पीयूषनिधानकुम्भयोः कुचयोः पार्श्वं न मुञ्चति । व्याख्या यत्र पुरे न विस्मृतस्त्र्यम्बकस्य शिवस्य नेत्रपावको नयनाग्निदाहो येन स- स्मरः कामदेवः स्मितानि विकसितानीन्दीवराणि कमलानीव चक्षूंषि नेत्राणि यासां तासामङ्गनानां विलासरूपं यत्पीयूषममृतं तस्य निधानं निक्षेपणं ययोस्तौ कुम्भौ तयोस्तद्रूपयोः कुचयोः स्तनयोः पार्श्वं सामीप्यं न मुञ्चति न परित्यजति । दाहजन्यमृत्युनिवारक, भेषजरूपामृतस्य स्तनयोः स्थितत्वात्तत्रैव नियतस्थितिं समाचकाङ्क्ष काम इति भावः । काव्यलिङ्गमलङ्कारः, तेन उत्प्रेक्षा व्यज्यते । भाषा जिस नगर में, महादेव के तृतीय नेत्र की अग्नि के दाह को न भूलने वाला कामदेव खिले हुए कमल के समान बड़े २ नेत्र वाली नारियों के, विलास रूपी अमृत का खजाना स्वरूप दो घड़ों से अभिन्न स्तनों से दूर नहीं होता है । स्मरस्य यत्राद्भुतमस्त्रकौशलं तथाह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्रमित्रतां शिलाकठोराणि मनांसि विध्यति ॥२०॥ अन्वयः यत्र स्मरस्य अस्त्रकौशलम् अद्भुतम्, तथाहि असौ उत्पलपत्रमित्रताम् उपागतैः चारुदृशां विलोचनैः शिलाकठोराणि मनांसि विध्यति ।
( १०३ ) व्याख्या यत्र पुरे स्मरस्य कामस्याऽस्त्राणां कौशलं नैपुण्यमद्भुतमाश्चर्यकारि परि- दृश्यते । तथाह्यसौ स्मर उत्पलपत्राणां कमलपत्राणां मित्रतां साम्यमुपागतै प्रान्तैरतितीक्ष्णैस्तैरित्यर्थः । चाक्षुदृशा रम्यनयनानां नारीणां विलोचनैरक्षिभि शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनांसि यूनां चेतांसि विध्यति भिनत्ति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कारः । 'गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः । यद्वारब्धस्य वैफल्यमनर्थस्य च सम्भवः । विरूपयोः संघटनं या च तद्विषमं मतम्' । भाषा इस नगर में कामदेव का अस्त्रप्रयोग का कौशल आश्चर्य जनक था । इसीलिये वह कमल के पत्तों की समानता अर्थात् कोमलता को प्राप्त, सुन्दर नखवाली नारियों के नेत्रों से पत्थर के ऐसे कड़े युवकों के हृदयों को वेध देता था । समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताण्डवमेघमण्डली । नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ॥२१॥ अन्वयः यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ- मण्डली, विभ्रमतारकस्रजा नभःस्थली, विभाति । व्याख्या यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्यायाः कल्पना रचना 'तल्पं शय्यादृवारेषु स्तंबेऽपि विटपोऽह्निष्यान्' इत्यमरः । रतिः कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया सर्वजनहृद्यत्वाद्रते रत्नसम्पद्यभेदारोपः । समुद्रवेला सागरतटभूमिः, स्मरतल्प- कल्पनायां समुद्रवेलाया आरोपः, रतिस्वरूपरत्नसम्पदस्समुद्रवेलायां स्थितत्वात् । वधूस्वरूपतडितरताण्डवं नृत्यं यत्रैवम्भूता मेघमण्डली, अस्याः स्मरतल्पकल्पनाया- मारोपः । अत्र स्मरपत्नी रतिस्थानीया वधूरूपा तडित् । विभ्रमेण विलासेन युक्तानां तारकाणां स्रजा मालया नभःस्थली व्योमभूमिः । अत्र रतिस्थानीया तारकस्रक् । स्मरतल्पकल्पनायां नभःस्थल्याश्चारोपः । विभाति शोभते । रतिस्वरूप रत्नसम्पत्तडित्तारक्स्रग्भिः समुद्रवेलामेघमण्डलीनभःस्थलीनां स्मरतल्प कल्पनेति भावः । अत्रोत्प्रेक्षा गन्धाः ।
( १०४ ) भाषा जहां कामदेव की शय्या रचना, रति स्वरूप रत्नसम्पत्ति होने से समुद्रतट, रतिस्वरूप बिजली से युक्त होने से मेघमण्डली, और रति स्वरूप विलास युक्त ताराओं की माला होने से आकाश स्थली शोभित है । त्यजन्ति हंसाः सरसीगुणैः स्थितिं न यत्र वर्षास्वपि हर्षगद्गदाः । अलङ्घनीयस्य निकाममुन्नतेर्दिशन्ति वप्रस्य यशस्तु दुर्जनाः ॥२२॥ अन्वयः यत्र हर्षगद्गदाः हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्घनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति । व्याख्या यत्र पुरे हर्षेणाऽऽनन्देन गद्गदाः पुलकिता हंसा सरसीनां कासाराणां 'पद्माकरस्तडागोऽस्त्री कासार सरसी सरः' इत्यमरः । गुणैर्नैर्मल्यादिगुणैर्वर्षास्वपि वर्षर्तुष्वपि स्थितिं निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुर्जना अलङ्घनीयस्य पार कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्यन्तमुन्नतेरुच्छ्रायस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप- यन्तीत्यर्थः । दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाऽ- गमने प्राकाराणामोन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य- लङ्कारः । भाषा जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलाबो का पानी गदला न होने से, अन्य स्थानों के हंसों के सदृश मानससरोवर को न जाकर वही रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशंसा नहीं करते वे हंसों के अन्यत्र न जाने में इस नगर की चहार दिवारी की उंचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशंसा न कर वप्र की ऊँचाई की प्रशंसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वतंसदूर्वाङ्कुरमेणचक्षुषां ग्रहीतुमाकाङ्क्षति वक्रकन्धरः ॥२३॥
( १०५ ) अन्वयः यत्र निशासु उन्नतसौधसंगतिं विगाहमानस्य विधोः कुरङ्गकः वक्रकन्धरः ऽ(सन्) एणचक्षुषां वतसदूर्वाङ्कुरं ग्रहीतुम् आकाङ्क्षति। व्याख्या यत्र पुरे निशासु रात्रिषु उन्नता अत्युच्चा प्रासादा राजसदनानि तेषां सङ्गतिं समागमं विगाहमानस्य विदधतो विधोश्चन्द्रस्य कुरङ्गक कलङ्करूपमृगो वक्रा वक्रीकृता कन्धरा ग्रीवा येन स एवम्भूतस्सन् एणचक्षुषां मृगनयनानामङ्गनानां वतंस आभूषणरूपश्चासो दूर्वाङ्कुरश्च तं "वतंस अद्वतंस । "वष्टि भागुरिरल्लो- पमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा" इति । कर्णा- वतंसरूपं दूर्वाङ्कुरं ग्रहीतुं भक्षणार्थं स्वीकृतुमाकाङ्क्षत्यभिलषति । अत्रातिशयो- क्त्यलङ्कारः । भाषा जहां रात्रियों में, चन्द्र के, बहुत ऊंचे राजसदनों के समीप आने से, चन्द्रमा में का मृग, टेढ़ी गर्दन करके, मृगनयनी नारियों के कानों पर आभूषण के रूप में खोंसे हुवे दूब के अंकुर को खाने की इच्छा करता था । अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् । गृहे गृहे यत्र विचित्रमन्वहं वितन्वते नृत्तमधीरलोचनाः ॥२४॥ अन्वयः यत्र अधीरलोचनाः गृहे गृहे अन्वहम् अवागुरं नेत्रकुरङ्गबन्धनं पञ्चशरस्य निरक्षरं शासनं विचित्रं नृत्तं वितन्वते । व्याख्या यत्र पुरेऽधीरे चञ्चले लोचने नेत्रे यासां तादृशश्चलनयना कामिन्यो गृहे गृहे प्रतिगृहमन्वहं प्रतिदिनं नास्ति वागुरा मृगबन्धनी यस्मिन्तदवागुरं नेत्राण्येव युवकजननयनान्येव कुरङ्गाः मृगास्तेषां बन्धनं बन्धनस्वरूपं पञ्चशरस्य कामस्य निरक्षरमक्षरोच्चारणरहितं शासनमाज्ञारूपं विचित्रमाश्चर्यकरं नृत्तं नृत्यं 'नृत्तं ताललयाश्रयम्' वितन्वते कुर्वन्ति । तासां नृत्तं दृष्ट्वा सर्वे युवान काम- मोहिता भवन्तीति भावः । अधिकारूढवैशिष्ट्य रूपकमलङ्कारः ।
( १०६ ) भाषा जिस नगर में रोज, घर २, चञ्चलनेत्रवाली कामिनियाँ, बिना जाल के कामुकों के नेत्र रूपी मृगों को फँसाने वाला और कामदेव की अलिखित व अनुच्चारित आज्ञा स्वरूप ताल लय से युक्त विचित्र नाच किया करती थीं । अमुष्य लोकत्रितयाद्भुतैर्गुणैरतीत्य मार्गं मनसोऽपि तिष्ठतः । असौ सदा मानसगोचरस्थिता कथं तुलायामलका प्रगल्भते ॥२५॥ अन्वयः असौ सदा मानसगोचरस्थिता अलका लोकत्रितयाद्भुतैः गुणैः मनसः अपि मार्गम् अतीत्य तिष्ठतः अमुष्य तुलायां कथं प्रगल्भते । व्याख्या असौ प्रसिद्धा सदा नित्य मानस सरश्चिन्तञ्च तस्य मानससरसो मनसश्च गोचरो देशो हिमालयप्रदेशो दृष्टिश्च तत्र स्थिता विद्यमानाऽलका कुबेरनगरी, लोकत्रितये त्रिषु भुवनेषु 'विष्टपो जगती लोको विष्टप भुवनं जगत्' इत्यमरः । अद्भुता आश्चर्यकारिणो गुणास्तैर्मनसोऽपि चित्तस्याऽपि मार्गं पन्थानमतीत्याऽति- क्रम्य तिष्ठतो वर्तमानस्याऽचिन्त्यरूपस्याऽमुष्याऽस्य पुरस्य तुलाया साम्ये कथ प्रगल्भते समर्था भवति । अत्राऽर्थापत्तिरलङ्कारः । 'दण्डापूपिकान्यायार्थागमोऽ- र्थापत्तिरिष्यते ।' भाषा मानस सरोवर के आसपास हिमालय प्रदेश में स्थित अथवा मन से जानी जा सकने वाली अलका नामक कुबेर की नगरी तीनों लोकों में अद्भुत गुणों से युक्त और मन से भी कल्पना न की जा सकने वाले, इस कल्याण नगर की कैसे बराबरी कर सकती है । अतःपरमाहवमल्लदेवनृपं स्तौति । विजित्य सर्वाः ककुभः स भार्गव-प्रचण्डकोदण्डपरिश्रमो नृपः । उवास तत्राथिरवानि पूरयन् फलं हि पात्रप्रतिपादनं श्रियः ॥२६॥
( १०७ ) अन्वयः तत्र सः भार्गवप्रचण्डकोदण्डपरिश्रमः नृपः सर्वाः ककुभः विजित्य अर्थिशतानि पूरयन् उवास । हि श्रियः फलं पात्रप्रतिपादनम् । व्याख्या तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोदण्डो धनुः 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव परिश्रमः संप्रहारकार्यं यस्य स नृप आहवमल्लदेवः सर्वास्समग्राः ककुभो दिशो विजित्य स्वायत्तीकृत्याऽर्थिशतानि याचकशतमनोरथान् पूरयन्सफलयन्नुवास । हि यस्मात्कारणाच्छ्रियो लक्ष्म्यास्साम्पदश्च फलं सार्थक्यं पात्रेषु योग्यस्थानेषु प्रतिपादनं दानम् । अत्रार्थान्तरन्यासाऽलङ्कारः । भाषा परशुराम के भयङ्कर धनुष के सहार के समान सहार करने वाला वह प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओ को जीतकर और सैकडो अर्थिजनो को दान देकर कल्याणपुर में रहने लगा । क्योकि लक्ष्मी का सार्थक्य योग्य आर्थियो को दान देना ही है । जगत्यनर्घेषु समस्तवस्तुषु क्षितीश्वरः पादतलेस्थितेष्वपि । अभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥ अन्वयः क्षितीश्वरः जगति अनर्घेषु समस्तवस्तुषु पादतलेस्थितेषु अपि पुत्रमुखेन्दु दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् । व्याख्या क्षितेः पृथ्व्या ईश्वरः प्रभुर्जगति लोके 'त्रिविष्टपो जगती लोको विष्टप भुवं जगत्' इत्यमरः । अनर्घेष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेष्वे समीप एव स्थिता विद्यमानास्तेष्वतिगुरुत्त्वेषु सत्स्वपि पुत्रस्याऽऽत्मजस्य यन्मुखमान सदेवेन्दुश्चन्द्रस्तस्य दर्शनमवलोकनं विना प्रभाते प्रातःकाले सूर्योदयानन्तरं निष्प्रभे नीलोत्पल इव दीने कान्तिरहिते लोचने नेत्रे यस्य स अभूत् । चन्द्रदर्शं