विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( ६८ ) समग्र दुष्ट राजाओ का नाश कर और उन राजाओं की कीर्त्ति नष्ट कर चारो दिशाओ में रहने वाले मनुष्यो को प्रसन्न कर दिया । कौक्षेयकः क्ष्मातिलकस्य यस्य पीत्वातिमात्रं द्विषतां प्रतापम् । आलोड्य बाष्पाम्बुभिराचचाम चोलीकपोलस्थलचन्दनानि ॥६०॥ अन्वयः क्ष्मातिलकस्य यस्य कौक्षेयकः द्विषतां प्रतापम् अतिमात्रं पीत्वा चोलीक- पोलस्थलचन्दनानि बाष्पाम्बुभिः आलोड्य आचचाम । व्याख्या क्ष्मायाः पृथिव्यास्तिलकस्य भूषणस्य यस्य राज्ञ कौक्षेयक कृपाणः 'कौशेयको मण्डलाग्रः करबालः कृपाणवत्' इत्यमरः । द्विषता शत्रूणा प्रताप तेजोऽतिमात्र- मत्यधिकं पीत्वा, शत्रूणा प्रतापं विनाश्येत्यर्थः । चोलीना चोलदेशियनारीणां कपोलस्थलेषु गण्डस्थलेषु शोभार्थं सुखार्थञ्च लिप्ताणर्पितानि चन्दनानि बाष्पा- म्बुभिस्तदीयाश्रुजलैरालोड्य समथ्याऽऽचचाम पीतवान् । कृपाणः प्रतापोष्मणः शान्त्यर्थं चोलस्त्रीबाष्पाम्बुमिश्रितचन्दन पीतवान् । कश्चिदुष्णतानिवारणाय चन्दनमिश्रित जलं शैत्याय रोचत इत्यप्रस्तुतव्यवहारस्य कृपाणव्यवहारे समारो- पात्समासोक्तिरलङ्कारः । 'समासोक्तिः समैर्यंत्र कार्यलिङ्गविशेषणैः । व्यवहार- समारोप प्रस्तुतेऽन्यस्य वस्तुनः' ॥ भाषा जिस पृथ्वीभूषण राजा के खड्ग ने शत्रुओ के प्रताप को पीकर गर्मी होने से चोल देश की नारियो के कपोलो में लगे हुए चन्दन को उनके आँसुओ में घोल कर ठंडक प्राप्त करने के लिए पी लिया । अर्थात् पतियो के मर जाने से उनके कपोलो पर पहिले का लगा चन्दन उनके आसुआ से धुल गया । दीप्रप्रतापानलसन्निधानाद् बिभ्रत्पिपासामिव यत्कृपाणः । प्रमारपृथ्वीपतिकीर्त्तिधारां धारामुदारां कवलीचकार ॥६१॥ अन्वयः यत्कृपाणः दीप्रप्रतापानलसन्निधानात् पिपासां बिभ्रद् इव प्रमारपृथ्वी- तिकीर्तेवारां उदारा धारा कव लीचकार ।
( ६९ ) व्याख्या : यस्य राज्ञः कृपाण खड्गो यत्कृपाण आहवमल्लदेवस्य राज्ञः कृपाणः दीप्तो ष्तम्णन्य प्रतापानलः प्रतापस्याग्निस्तस्य सन्निधानात्सामीप्यात्पिपासा जलं तुमिच्छा विभ्रद्धारयन्निव प्रमारस्य पारमारसञ्ज्ञकराजवंशस्य ये पृथ्वीपतयो राजानस्तेषा कीर्तिधारा यश प्रभारूपामुदारा महतीं धारा धारानगरीरूपां लधारा कवलोचकार जग्राह । धाराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्नियानप्रयुक्तपिपासाधारणस्य हेतृत्वेनोत्प्रेक्षणा- द्धेतूत्प्रेक्षा । भाषा : जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवंश के राजाओ की कीर्ति की जलधारा रूपी उन्नत धारानगरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओ की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया । अगाधपानीयनिमग्नभूरि-भूसृत्कुटुम्बोऽपि यदीयखड्गः । भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥६२॥ अन्वयः अगाधपानीयनिमग्नभूरिभूसृत्कुटुम्बः अपि यदीयखड्गः भाग्यक्षयात् मालवभर्तुः एकां धारां परिहर्तुं ईशः न आसीत् । व्याख्या अगाधेऽपरिमित्रेऽत्यन्ततीक्ष्णे च पानीये जले खड्गधाराजले च निमग्नमन्तर्गत नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञा कुटुम्ब समूहो यशश्च यस्यैवं भूतोऽपि यदीयखङ्गो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मोलवाधीशस्य भोजस्यैकां बेयलामद्वितीयां वा धारा जलधारा धारानगरी च परिहर्तुं त्यक्तुं क्षमस्समर्थो नाऽऽसीत् । यथेन्द्रस्यवप्रहारभीता पर्वता समुद्रस्याऽगाधपानीयै निमग्नास्तथैव यदीयखङ्गागाधधाराजले भूरि राजानो निमग्ना सवृता इत्यर्थ । एवमगाधजलधारासमृद्धोऽपि खड्गो धारानगर्या दौर्भाग्याल्लुब्ध इवै कजलधारा- स्यामद्वितीयाधारानगरीं त्यक्तुं समर्थो नाऽभवदित्यर्थः । बहुमुद्रासम्पन्न एकमुद्रायं न प्रयतते इति लोके प्रसिद्धम् । तथापि दौर्भाग्यात्तस्य सम्भवति ।
( ७० ) भाषा जिस राजा के खड्ग के तीक्ष्ण और अथाह धारा जल में समुद्र में इन्द्र के वज्र के भय से खूब नीचे डुबकी लगाकर छिपे हुवे पर्वतों के समान अन्य राजाओं के कुटुम्बों के निमग्न अर्थात् नष्ट हो जाने पर भी धारा नगरी के दुर्भाग्य से वह खड्ग एव छोटे धारा प्रवाह के समान मालवा के राजा भोज की राजधानी धारा नगरी को न छोड़ सका । अर्थात् अनेक बड़े २ राजाओं को जीत लेने पर भी छोटी सी धारा नगरी को जीतने से वह अपने को न रोक सका । निःशेषनिर्वासितराजहंसः खड्गेन बालाम्बुदमेचकेन । भोजक्ष्माभृद्भुजपञ्जरेऽपि यः कीर्तिहंसीं विरसीचकार ॥६३॥ अन्वयः बालाम्बुदमेचकेन खड्गेन निःशेषनिर्वासितराजहंसः यः भोजक्ष्मा- भृद्भुजपञ्जरे अपि कीर्तिहंसीं विरसीचकार । व्याख्या बालाम्बुद नूतनमेघो कृष्णवर्णमेघस्तद्वन्मेचकेन श्यामेन खड्गेन कृपाणेन निशेष यथा स्यात्तथा निर्वासिता स्वनिवासाद्बहि कृता राजहंसा राजानो हंसा इवेति राजहंसा राजश्रेष्ठा पक्षे मानस प्रापिता राजहंसपक्षिणो येन स । य आहवमल्लदेवो नाम राजा भोजनामा क्ष्माभृद्राजा तस्य भुज पञ्जर इव तस्मिन् सर्वसुखसामग्रीनिधानेऽपि कीर्तिरूपिणीं हंसीं पतिवियोगाद्विरसीचकार दुःखसागर- निमग्नां चकार । भोजराज कीर्तिरपि निराधारा सती दुःखिता जाता । वर्षा काले मानसं यान्ति हंसा इति प्रसिद्धयनुरोधान्मेघान्विलोक्य हंसा स्वस्थानं त्यजन्ति मानसाञ्च गच्छन्ति । बालाम्बुदेन खड्गस्य सादृश्यादुपमा । राजसु राजहंसपक्षिणामभेदारोपात्कीर्तौ हंस्या अभेदारोपाद्भोजराजभुजे पञ्जराभेदा- रोपाच्च सावयवरूपकम् । भाषा जिसने नवीन मेघ के समान कृष्णवर्ण खड्ग से समस्त राजारूपी राजहंसों को भगा दिया था (मेघों को देखकर हंसपक्षी मानस सरोवर चले जाते हैं ऐसी प्रसिद्धि है) उसने भोजराजा के भुजारूपी पिंजड़े में सुरक्षित उसकी कीर्तिरुपी
( ७१ ) हंसी को (पति वियोग से) उदास कर दिया । अर्थात् भोजराजा की कीर्ति को भी कलङ्कित कर दिया । भोजक्ष्मापालविमुक्तधारा-निपातमात्रेण रणेषु यस्य । कल्पान्तकालानलचण्डमूर्तिश्चित्रं प्रकोपाग्निरवाप शान्तिम् ॥६४॥ अन्वयः यस्य रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्निः भोजक्ष्मापाल- विमुक्तधारानिपातमात्रेण शान्तिम् अवाप (इति) चित्रम् । व्याख्या यस्य राज्ञो रणेषु युद्धेषु कल्पान्तस्य प्रलयस्य यः कालानलः सर्वभस्म- सात्कारिप्रचण्डाग्निस्तद्वच्चण्डोग्रा मूर्तिः स्वरूपं यस्य सः 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो नृपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति चित्रमद्भुतम् । यथा जल- धारयाऽग्निः शान्तिमेति तथैव धारानगरीविजयेन राज्ञ क्रोध शान्तिमगादित्यर्थः । कल्पान्तकालानलेन प्रकोपाग्नेस्सादृश्यादुपमालङ्कारः । श्लिष्टेन धारापदेन जल- धाराया धारानगर्याः खङ्गधारायाश्च ग्रहणादत्र श्लेषोऽलङ्कारः । यथा प्रल- याग्निर्भोजनृपविसृष्टजलधारानिपातमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसदृशप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्ग-धारारूपधारानलेन न शान्तिमाप्तुं प्रभवति परञ्चाऽत्र स शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शेन विरोधपरिहार इति विरोधाभासालङ्कारः । भाषा जिस राजा की, युद्धों में प्रलय कालीन आग के भयंकर स्वरूप वाली क्रोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पडते ही ठंढी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज द्वारा त्यक्त धारा नगरी के अध पतन से अर्थात् उसको जीत लेने से शान्त हुआ । यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि । तत्कीर्तिभिः क्षालयति स्म शश्व-दखण्डतारापतिपाण्डुराभिः ॥६५॥
( ७२ ) अन्वयः यः कोटिहोमानलधूमजालैः दिशां मुखानि मलीमसीकृत्य अखण्डता- रापतिपाण्डुराभिः तत्कीर्तिभिः शश्वत् क्षालयति स्म । व्याख्या य आहवमल्लदेवः कोटिसंख्याका होमा यज्ञास्तेषामनलोऽग्निस्तस्य धूमजा- लैर्धूमसमूहैर्दिशां काष्ठानां ‘दिशस्तु ककुभः काष्ठा आशाश्चहरितश्चता’ इत्यमरः, मुखानि मलीमसीकृत्य ‘अभूततद्भावे च्विः प्रत्ययः’ मलिनीकृत्य ‘मलीम- सन्तु मलिनं कच्छ्रर मलदूषितम्’ इत्यमरः । अखण्डः परिपूर्णस्तारापतिश्चन्द्र- स्तद्वत्पाण्डुराभिः शुक्लाभिस्तत्कीर्तिभि यत्तद्यशोभि शश्वत्पुन क्षालयतिस्म पुनरपि श्वेततामानयतिस्म । तारापतेः पाण्डुरत्वेन कीर्तौ सादृश्यादुपमा । दिङ्मुखमलिनीकरणपटुभ्यो यज्ञेभ्य एव पाण्डुरकीर्तिजननाद्दिपमालङ्कारोऽप्यत्र । भाषा जिसने करोडो यज्ञो की अग्नियो से उत्तप्त धूऐं से दिशाओ के मुखो को मैलाकर पूर्ण चन्द्र के समान शुभ्रवर्ण अपनी यज्ञजन्य कीर्ति से उनके मुखो को फिर से धो डाला । अर्थात् उसने करोडो यज्ञ किये जिससे उसका यश चारो दिशाओ में फैल गया । ध्रुवं रणे यस्य जयामृतेन क्षीवः क्ष्माभर्तुरभूत्कृपाणः । एका गृहीता यदनेन धारा धारासहस्रं यशसोऽवकीर्णम् ॥६६॥ अन्वयः यस्य क्ष्माभर्तुः कृपाणः रणे जयामृतेन ध्रुवं क्षीवः अभूत् । यत् अनेन एका धारा गृहीता यशसः धारासहस्रम् अवकीर्णम् । व्याख्या यस्य प्रसिद्धस्य क्ष्माभर्तुः पृथ्वीपतेः कृपाणः खड्गो रणे युद्धे जयामृतेन विजयरूपामृतपानेन ध्रुवं निश्चयेन क्षीवो मदान्धोऽभूत् । यद्यस्मात्कारणादनेनैका धारा धारानगरी खड्गधारा च गृहीता स्वायत्तीकृता धारिता च परञ्च तेन कार्येण यशसः कीर्तेर्धारासहस्रं प्रवाहसहस्रमवकीर्णं विस्तारितम् । इदमेव मत्तत्त्वं यदेकस्या धाराया धारासहस्रेण विनिमयः कृत इति परिवृत्तिरलङ्कारः । परिवृ-
( ७३ ) र्त्तिविनिमयो वोऽर्थानां स्यात्समासोक्तिरिति लक्षणात् । धारा शब्दस्य धारानगरी, खड्गधारा जलधारा चेत्यर्थत्रयबोधाच्छ्लेषोऽलङ्कार, अतः सङ्कर । भाषा जिस राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य मदोन्मत्त हो गई थी ! क्यों कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारो धाराओ को बहाया । शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोऽपि । ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥ अन्वयः मध्यमचक्रवर्ती क्रमात् अनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके पदे अपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न अयासीत् । व्याख्या मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौम क्रमात्परि- पाट्याऽनेकेष्वश्वमेधेषु क्रतुषु यज्ञेषु दीक्षित सञ्जातदीक्ष यो राजा ऐन्द्रात्पदादिन्द्र- पदापेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थानेऽपि तिष्ठन्तमासीनः शतक्रतोरिन्द्रस्य शङ्कास्पदता सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतक्रतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनार्थं ब्रह्मा प्रार्थित आसीत् । शङ्काकारणसत्त्वेऽपि शङ्कारूपकार्याभावप्रतिपादनाद्विशेषोक्तिरलङ्कारः । भाषा पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह चालुक्य वंश ब्रह्मा ने उत्पन्न किया था ।) चिन्तामणिर्यस्य पुरो वराकस्तथाहि वार्ता जनविश्रुतेयम् । यत्तत्र सौवर्णतुलाधिरूढे चक्रे स पाषाणतुलाधिरोहम् ॥६८॥
( ७४ ) अन्वयः यस्य पुरः चिन्तामणिः वराकः तथाहि इयं वार्त्ता जनविश्रुता यत् तत्र सौवर्णतुलाधिरूढे (सति) सः पाषाणतुलाधिरोहं चक्रे । व्याख्या यस्य राज्ञः पुरः समतायां चिन्तामणिर्नामानर्घ्यं रत्नं वराकोऽगण्यो दैन्य- मेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि यत इयं वार्त्ता जनेषु विश्रुता विख्याताऽऽसीत् । यदित्यनेनोत्तरार्द्धोंक्तवाक्यार्थ- परामर्शः । तत्र राज्ञि सुवर्णतुलापुरुषदानार्थं सौवर्णी तुलेति सौवर्णतुला तस्यामधिारूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामघिरोहं स्थितिं, रत्न-तोलन-तुलायां वा स्थिति चक्रे । अस्य राज्ञः सुवर्णेन तुलना चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शाच्चिन्तामणेर्दैन्यमेव । अय च स चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव सर्वाभीष्ट दातेति भावः । उपमानस्य चिन्तामणे राजरूपोपमेयापेक्षयाऽपकर्ष- प्रतिपादनाद्व्यतिरेकालङ्कारः । 'उपमानायदन्यस्य व्यतिरेकस्सएव सः' । भाषा जिस राजा की समता में चिन्तामणि रत्न भी किसी महत्व का नहीं था । इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुष के दान में राजा सोने की तुला पर चढ़ता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर तोला जाता था अर्थात् चिन्तामणि की तोल पत्थरों से होती थी और राजा की सोने से। ( चिन्तामणि अभीष्टवस्तु की याचना करने पर अभीष्ट वस्तु देता है किन्तु यह राजा बिना याचना के ही अभीष्ट वस्तु देता था) । विधाय रूपं मशकप्रमाणं भयेन कोणे क्वचन स्थितस्य । कलेरिवोत्सारणकारणेन यो यागधूमैर्भुवनं रुरोध ॥६६॥ अन्वयः यः भयेन मशकप्रमाणं रूपं विधाय क्वचन कोणे स्थितस्य कलेः उत्सारणकारणेन इव यागधूमैः भुवनं रुरोध ।
( ७५ ) व्याख्या यो नृपो भयेन राज्ञो भीत्या मशकरामानं मशकवदल्परूपं विधाय निर्माय क्वचन कस्मिंश्चित्कोणे स्थितस्याऽप्रभानमपायुत्य विद्यमानस्य कलेः कलिपुतस्यो- त्सारणकारण्येनाऽपसारणार्थं दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैर्भुवनं जगद्भू- रोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थं यथा मशकनिवारणार्थं धूमश्च क्रियत इत्याचारः । अत्र क्लेशोत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे- नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा जिस राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानो यज्ञो के धूएँ से पृथ्वी को छा दिया । (मच्छरो को भगाने के लिए धूवाँ किया जाता है ।) स्वाभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविघातहेतोः । यस्मिन्परित्रस्त इति क्षितीन्द्रे क्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥ अन्वयः कलिः यस्मिन् क्षितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः दृष्टिविघातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप । व्याख्या कलिः कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिका- दुष्णा गभस्तयो यस्य स उष्णगभस्ति सूर्यस्तस्य भास इव भास प्रभा ‘स्युः प्रभाप्रभाविस्त्विडभा भाश्छविद्युतिदीप्तयः' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति क्षत्र क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मण क्षात्रतेजसो दृष्टेर्विघात इति दृष्टिविघात दृष्टिविनाशस्तस्य हेतो कारणात् परित्रस्तो भयभीत इति हेतुना क्षण क्षणमात्रमपि कटाक्ष स्वापाङ्गदर्शन 'अपाङ्गे नेत्रयोरन्ते कटाक्षोऽपाङ्ग- दर्शने' इत्यमरः । न चिक्षेप न प्रसारयामास । अत्र क्षत्रोष्मण उष्णगभस्तिना सूर्येण सादृश्यप्रतिपादनादुपमालङ्कारः । भाषा स्वाभाविक सूर्य के समान तेज वाले क्षत्रिय तेज से, दृष्टिनाश होने के भय
( ७६ ) से भयभीत कली, एक क्षण के लिये भी इस राजा पर अपनी कुटिल दृष्टि नहीं डालता था। अन्यायमेकं कृतवान् कृती यश्चालुक्यगोत्रोद्भववत्सलोऽपि । यत्पूर्वभूपालगुणान्प्रजानां विस्मारयामास निजैश्चरित्रैः ॥१०१॥ अन्वयः चालुक्यगोत्रोद्भववत्सलः अपि कृती यः एकं अन्यायं कृतवान् यत् निजैः चरित्रैः प्रजाना पूर्वभूपालगुणान् विस्मारयामास । व्याख्या चालुक्यगोत्रे चालुक्यवंशे उद्भव उत्पत्तिर्यषा राजा तेषु वत्सल स्निग्धो भवत् इत्यथ स्वकुलोत्पन्नपूर्ववर्तिनृपाणा भक्तोऽपि 'लक्ष्मीवान् लक्ष्मण श्रील श्रीमान् स्निग्धस्तु वत्सल' इत्यमर । कृती कार्यकुशल पुण्यवांश्च यो राजाऽऽ- हवमल्लदेव एकमन्यायमनुचितकार्यं कृतवान् यद्यस्मात्कारणात्निजैरस्वकीयैश्चरित्रै- रुत्कृष्टगुणै प्रजाना जनाना षष्ठी 'शेषे—इत्यनेन' प्रजानामित्यत्र सम्बन्धसामान्ये षष्ठी । पूर्वभूपालगुणान्स्ववशजपूर्ववर्तिनृपगुणान् विस्मारयामास । अस्य गुणोत्कर्षेण भूतपूर्वर्नृपा विस्मृता इत्यर्थ । एकस्याऽन्यायकार्यस्य विधानादादौ निन्दाया प्रतीति पर्यवसाने तु शत्त प्रभावप्रशंसा प्रतीयते । अत्र व्याजस्तुति- रलङ्कार । 'व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथेति' । भाषा पुण्यात्मा, कार्यकुशल उस राजा ने चालुक्यवंशीय प्राचीन राजाओं में श्रद्धा भक्ति रखते हुये भी एक यह अन्याय किया था कि अपने उत्कृष्ट गुणों से प्रजाओं को पूर्ववर्ती राजाओं के गुणों का विस्मरण करा दिया था । अर्थात् पूर्ववर्ती राजाओं से यह आहवमल्लदेव अधिक गुणी था । विशीर्णकर्णा कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । संगच्छतेऽद्यापि न डाहलश्रीः कर्पूरताडङ्कनिभैर्यशोभिः ॥१०२॥ अन्वयः यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन विशीर्णकर्णा डाहलश्रीः कर्पूर- ताडङ्कनिभैः यशोभिः अद्यापि न सङ्गच्छते ।
( ७७ ) व्याख्या पृथ्व्या भूमेर्भुजङ्गः पतिः कामुकश्च तस्य पृथिवीश्वरस्य निरर्गलेन निष्प्रति- बन्धेन कलहेन विवादेन युद्धेन च विशीर्णे कर्णौ यस्याः सा, विशीर्णो नष्टः कर्णस्तन्नामधेयो नृपो यस्याः सा च च्छिद्रकर्णा डाहलानां डाहलदेशीयमृपाणां (डाहलदेशश्चेदीदेशादभिन्नः ।) श्री राजलक्ष्मीः कर्पूरस्य यत्ताटङ्कं कर्णभूषणं 'ताटङ्कमपि पाठ' तन्निभैस्तत्समानेर्यशोभि कीर्तिभिरधुनाप्यद्य यावन्न सङ्गच्छते न मिलति न शोभत इत्यर्थः । कर्णाभावाद्भूषणाभावस्तत्कीर्त्यभावश्च । यशसः कर्पूरताटङ्केनेसादृश्यादुपमा । भाषा उस राजा के या कामुक के बिना रोक टोक के युद्ध से अथवा अत्यधिक झगडा हो जाने से डाहल के राजा कर्ण के मर जाने के कारण या दोनों कान कट जाने के कारण, डाहल देश की राजलक्ष्मी, कपूर के बने हुए या कपूर के ऐसे श्वेत कर्णभूषण के समान यशो से अभीतक शोभित नहीं होती है । पाठान्तरम्-भङ्ग्यन्तरेण तदेव वर्णनं, न तु पाठ भेदः— उसी भाव को कवि दूसरे प्रकार से वर्णित करते हैं । कर्णे विशीर्णे कलहेन यस्य पृथ्वीभुजङ्गस्य निरर्गलेन । कीर्तिः समाश्लिष्यति डाहलोर्वीं न दन्तताङ्कनिभाधुनापि ॥१०३॥ अन्वयः यस्य पृथ्वीभुजङ्गस्य निरर्गलेन कलहेन कर्णे विशीर्णे (सति) दन्तता- ङ्कनिभा कीर्तिः अधुना अपि डाहलोर्वी न समाश्लिष्यति । व्याख्या यस्य प्रसिद्धस्य पृथ्वीभुजङ्गस्य पृथ्वीपतेः कामुकस्य वा निरर्गलेन कोलाहल- सम्पन्नेन कलहेन विवादेन युद्धेन वा कर्ण तन्नामके डाहलनृपे श्रोत्रे वा विशीर्णे मृते वा त्रुटिते सति दन्तताङ्कनिभा गजदन्तनिर्मितकर्णभूषणवच्छुभ्रा कीर्ति रधुनापि डाहलोर्वी डाहलदेशं न समाश्लिष्यति नाश्लिङ्गति । गजदन्त- ताङ्केन कीर्तेर्धवल्येन साम्यादुपमा । भुजङ्गकर्णपदयोः श्लिष्टत्वात्कामिनी रूपाप्रकृताथैन डाहलोर्वीरूपप्रकृतार्यस्योपमानोपमेयभावो व्यङ्ग्यः । एवं भुजङ्ग- पदवाच्ययोरपि । तथा च शब्दशक्तिमूलध्वनिः समासोक्तिर्वा ।
२. विक्रमादित्य षष्ठ का जन्म, विद्या व दिग्विजय
( ७८ ) भाषा जिस कामुक के समान राजा के (व कामिनी के समान डाहलोर्वी के) अत्यधिक युद्ध से या कलह से कर्ण राजा के मरने पर या कान के कट जाने पर हाथी दांत के बने हुवे कान के आभूषण के समान श्वेत कीर्ति अभी भी डाहलदेश को नही प्राप्त हो रही है । (कान कट जाने से कर्ण भूषण पहनने का सौभाग्य ही अप्राप्य हो जाता है। कर्ण राजा के ऐसे प्रतापी राजा के मर जाने से कीर्ति कहां से आ सकती है) । यस्यासिरत्युच्छलता रराज धाराजलेनेव रणेषु धाम्ना । दृप्तारिमातङ्गसहस्रसङ्गामभ्युक्ष्य गृह्णन्निव वैरिलक्ष्मीम् ॥१०४॥ अन्वयः यस्य असिः रणेषु अत्युच्छलता धाराजलेन इव धाम्ना दृप्तारिमातङ्ग सहस्रसङ्गां वैरिलक्ष्मीम् अभ्युक्ष्य गृह्णन् इव रराज । व्याख्या यस्य भूपतेरसि खडगो रणेषु युद्धेष्वत्युच्छलतोर्ध्वं गच्छता धाराजलेन खड्ग- धाराजलेनेव धाम्ना तेजसा, दृप्ता मदान्धा अरिमातङ्गा शत्रुहस्तिनो विपक्ष- चाण्डालाश्च तेषा सहस्र तस्य सङ्ग सत्तर्गो यस्या सा तां वैरिलक्ष्मीं शत्रुश्रिय मभ्युक्ष्य प्रक्षाल्य 'उक्ष् सेचने' इत्यस्माद्धातोर्भुपसर्गान्त्ययभ्युक्ष्येतिनिष्पन्नम् ।' गृह्णन्निवाऽऽसादयन्निव रराज शुशुभे । यथा चाण्डालसङ्गादशुद्ध वस्तु जलेन संप्रोक्ष्य शुद्ध विधाय गृह्यते तथैवाऽत्राऽवि मातङ्गसहस्रसङ्गजनिताशुद्धियुक्ता वैरिलक्ष्मी धाराजलेन पवित्रीकृत्य गृहीता । धाराजलेन सह धाम्नरसादृश्यप्रती तिरित्युपमा । मातङ्गशब्देन गजाना चाण्डालनाञ्चप्रतीत्या श्लेषोऽलङ्कार । खड्गे वैरिलक्ष्मीकर्मकग्रहणक्रियाया उत्प्रेक्षणादुत्प्रेक्षा । अतस्तेषा सङ्कर । भाषा जिस राजा की तलवार, युद्धा म ऊपर उठने वाले अपनी धार के जल के समान तेज से मदोन्मत्त हजारो शत्रुरूपी हाथियो के अथवा हजारो शत्रु चाण्डालो के ससर्ग दोष से अपवित्र शत्रुओ की लक्ष्मी का मानो प्रोक्षण कर ग्रहण करती हुई शोभित हुई । अर्थात अपवित्र शत्रुलक्ष्मी पर अपनी तेज धार का पानी छिड़क, उसे पवित्र कर उसका ग्रहण किया । (अपवित्र वस्तु पर गङ्गाजल छिड़क कर पवित्र करने की परिपाटी है) ।
( ७९ ) यद्वैरिसामन्तनितम्बिनीनामश्रान्तसन्तापकदर्थ्यमाने । पराङ्मुखं शोषविशङ्कयेव कुचस्थले कुङ्कुमपङ्कमासीत् ॥१०५॥ अन्वयः यद्वैरिसामन्तनितम्बिनीनाम् अश्रान्तसन्तापकदर्थ्यमाने कुचस्थले शोष- विशङ्कया इव कुङ्कुमपङ्कं पराङ्मुखम् आसीत् । व्याख्या यस्याऽऽहवमल्लदेवस्य वैरिसामन्ताः शत्रुनृपास्तेषां नितम्बिनीनामङ्गनाना मश्रान्तो निरन्तरश्चासौ सन्तापश्च सञ्ज्वरश्च 'सन्तापः संज्वरः सनी' इत्यमरः । तेन कदर्थ्यमाने दुर्दशामापन्ने तप्ते इत्यर्थः । कुचस्थले स्तने शोषस्य शोषणकर्मणो विशङ्कयेव सन्देहेनेव, कुचयोः शुष्कत्वं कुङ्कुमलेपजन्योष्णत्वेन माभूदिति हेतोः कुङ्कुमपङ्कं पराङ्मुखमासीत् नोपलिप्तमित्यर्थः । पतिविरहात्कुङ्कुमलेपादी- नामभावः । अत्र कुचस्थले कुङ्कुमलेपस्य पराङ्मुखत्वे स्तनयोः शोषशङ्काया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिस राजा के विपक्षी सामन्तों की नारियों के निरन्तर दुःख से दुर्दशा को प्राप्त, स्तन, कहीं सूख न जांय इस सन्देह से मानो उन पर केसर का लेप नहीं किया गया था । अर्थात् पतियों के मर जाने से केसर का लेप आदि शृङ्गार बन्द हो गया था । एकत्र वासादवसानभाजस्ताम्बूललक्ष्म्या इव संस्मरन्ती । वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥ अन्वयः यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा एकत्र वासात् अवसानभाजः ताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् आससाद । व्याख्या यस्य राज्ञो वैरिविलासिनीनां विपक्षाङ्गनानां वक्त्रेषु वदनेषु विद्यमाना हासस्य हास्यस्य प्रभा कान्तिरेकत्रवासात्तत्रैव वदनेषु विद्यमानयाताम्बूललक्ष्म्या
( ८० ) स्ताम्बूलशोभायाः सस्मरन्तीव स्मरन्ती सतीव ताम्बूललक्ष्मीः पत्युर्विरहवेदनया समाप्तिं गतेति सहवासात्सखीवृत्तान्तं स्मरन्ती सतीव तानवं कृशत्वमाससाद प्राप । पतिविरहात्ताम्बूलभक्षणेन सह हास्यमपि लुप्तमितिभावः । अत्र हासप्रभायाः ताम्बूललक्ष्मीसमाप्तिस्मरणस्य हासप्रभानिष्ठतनुत्व-प्राप्तौ हेतुत्वे- नोत्प्रेक्षणाद्धेतूत्प्रेक्षा । अप्रस्तुतसखीवृत्तान्तस्य हासप्रभावृत्तान्तेऽभेदसमारोपात्स- मासोक्तिरलङ्कारः । भाषा जिस राजा के शत्रुओं की स्त्रियों के मुखों की हास्यशोभा, एकत्र वास होने से शीघ्र समाप्त होनेवाली ताम्बूल शोभा को स्मरण करती हुई, कम होने लगी । अर्थात् पतियों के मर जाने से वैधव्य प्राप्त होने पर आनन्दजनित हंसी और ताम्बूलभक्षण दोनों ही न रहा । यं वारिधिः प्रज्वलदस्त्रजालं वेलावनान्तेषु नितान्तभीतः । भूयः समुत्सारणकारणेन समागतं भार्गवमाशशङ्के ॥१०७॥ अन्वयः नितान्तभीतः वारिधिः वेलावनान्तेषु प्रज्वलदस्त्रजालं यं समुत्सारण- कारणेन भूयः समागतं भार्गवम् आशशङ्के। व्याख्या नितान्तमत्यन्तं भीतो भयाकुलो वारिधिस्समुद्रो वेलावनान्तेषु तटगतारण्यभू- मिषु प्रज्वलञ्जाज्वल्यमानमस्त्रं यस्य स यं नृपं समुत्सारणस्यापसारणस्य कार- णेन हेतुना भूय पुनरपि समागतं सम्प्राप्तं भार्गवं परशुराममाशशङ्के शङ्कित- वान् । अत्र नृपे परशुरामस्य सम्भावनादुत्प्रेक्षा१ । भाषा अत्यधिक भयभीत समुद्र, तट के जंगलों में चमकते हुये अस्त्रों से शोभित इस राजा को देखकर अपने को हटाने के लिये फिर से परशुराम आये हैं क्या, ऐसा सन्देह करने लगा । १ कोकणदेश पूर्वं समुद्राभ्यन्तरे वर्तमानो भार्गवेण समुद्र समुत्सार्य स्वनिवा- सायं निर्मित इति पौराणिकीकथाऽत्राऽनुसन्धेया ।
( ८१ ) रत्नोत्करग्राहिषु यद्भटेषु तटत्रुटन्मौक्तिकशुक्तिभङ्ग्या । अस्फोटयत्तीरशिलातलेषु रोषेण मूर्धानमिवाम्बुराशिः ॥१०८॥ अन्वयः अम्बुराशिः यद्भटेषु रत्नोत्करग्राहिषु (सत्सु) तटत्रुटन्मौक्तिकशुक्ति- भङ्ग्या तीरशिलातलेषु रोषेण मूर्धानम् अस्फोटयत् इव । व्याख्या अम्बूनां जलानां राशिस्समुद्रो यस्य राज्ञो भटेषु योधेषु रत्नानामुत्कराः समूहास्तेषां ग्राहिषु सत्सु स्वायत्तीकृतवत्सु सत्सु तटेषु त्रुटन्ति स्फुटितानि मौक्तिकानि याभ्यस्ताः शुक्तयस्तासां भङ्ग्या व्याजेन तीरे तटे यानि शिलातलानि प्रस्तरभूमयस्तेषु रोषेण कोपेन मूर्धानं शिरसमस्फोटयदिवाखण्ड- यदिब । अत्राऽपन्हतिमूलकोत्प्रेक्षालङ्कारः । समुद्रे शिरस्फोटनस्य क्रियाया उत्प्रेक्षणादुत्प्रेक्षा । नेमा स्फुटितमुक्ताशुक्तयः किन्तु समुद्रकर्तृकशिरस्फोट- नमिति प्रतीत्या प्रतीयमानाऽर्यापन्हुतिरुत्प्रेक्षाङ्गम् । 'प्रकृतं यन्निषिध्यान्य- त्साध्यते सात्वपन्हुतिः।' भाषा जिस राजा के योद्धाओ के, समुद्र के रत्न समूहों को ले लेने पर, तट पर पडी हुई मोती निकाली, सीपो के भिष से मानो समुद्र ने क्रोध से किनारे के पत्थरो पर माथा पटक २ कर अपना सिर टुकडे २ कर डाला । यं वीक्ष्य पाथोधिरधिज्यचापं शोणारमभिः शोषितशोणदेहेः क्षोभादमीक्ष्णं रघुराजवाण-जीर्णव्रणस्फोटमिवाचचक्षे ॥१०६ अन्वयः पाथोधिः अधिज्यचापं यं वीक्ष्य शोणितशोणदेहेः शोणा अभीक्ष्णं क्षोभात् रघुराजवाणजीर्णव्रणस्फोटम् इव आचचक्षे । व्याख्या पायांसि जलानि धीयन्तेऽस्मिन्निति पाथोधिः समुद्रो ज्या मौर्वीग धिज्यचापो धनुर्यस्य तं यं नृप वीक्ष्याऽऽलोक्य शोणितबद्धधिरवत् स
( ८२ )
लोहितास्रमतक्षतजशोणितम्' इत्यमर । शोणा रक्ता देहा येषा ते रुधिरस्तद्देहैः शोणाश्मभी रक्तवर्णपाषाणै समुद्रादस्तलस्थितैस्तद्दर्शनव्याजेनेत्यर्थ. । अभीक्ष्णं शश्वत् 'युक्ते द्वे साम्प्रत स्यान्नेऽभीक्ष्ण शश्वदनारते' इत्यमर । क्षोभात् दुखात रघुराजस्य रामस्य बाणास्तेषा तत्प्रहारजनिता जीर्णा पुरातना व्रणा. क्षतास्तेषा स्फोट विघटनमाचचक्ष इव संदर्शयामासेवेत्यर्थ । रामचन्द्रबाण- जनितक्षता नाद्याऽपि गता अतो भवद्भिर्न बाणसंधान कार्यमिति प्रार्थयामासेति भाव । अत्र रक्तपाषाणेषु जीर्णव्रणस्फोटस्य संभावनादुत्प्रेक्षालङ्कार ।
भाषा मौर्वी चढे धनुष को लिय हुवे उस राजा को देखकर सतत दुख से समुद्र, अपने भीतर के रक्त के सदृश लाल रग के लाल पत्थरो के द्वारा मानो रामचन्द्र के बाणो के पुराने घाव फट रहे हो ऐसा दिखान लगा । अर्थात् रामचन्द्र के बाणो से भय घाव अभी तक भरे नही हे अब तुम बाण मत मारो ऐसी प्रार्थना करने लगा ।
राशीकृतं विश्वमिवायलोक्य वेलावने यस्य चमूसमूहम् । अम्भोविभूतेरपरिक्षयेण क्षारत्वमब्धिर्बहुमन्यते स्म ॥११०॥
अन्वयः अब्धिः वेलावने राशीकृतं यस्य चमूसमूहं विश्वम् इव अवलोक्य अम्भोविभूतेः अपरिक्षयेण क्षारत्वं बहुमन्यते स्म ।
व्याख्या अब्धि समुद्रो वेलावने तटारण्ये राशीकृतमेकत्रीकृत यस्य राज्ञश्चमूसमूह सैन्यसङ्घमेकत्रीभूत सम्पूर्ण विश्वमिव जगदिवाऽवलोक्य दृष्ट्वाऽम्भसो जलाना विभूते सम्पदोऽपरिक्षयेण वैरस्येन पानादिकर्मणि व्ययाभावात् क्षारत्व लवण- रसाधिक्यं बहुमन्यते स्म प्रशंसितवान् । अत्रापरिक्षयरूपकार्ये क्षारत्व कारण- मिति प्रशसाहेतु । सेनासमूहस्य विश्वेन सह साम्यादुपमालङ्कार ।
भाषा सम्पूर्ण जगत् एकत्रित हो गया है ऐसा दिखाई पडने वाले जिस राजा के सेनासमूह को अपने तट पर एकत्रित देखकर जलसम्पत्ति का जरा भी खर्च न
( ८३ ) होने से समुद्र, अपने जल के खारेपन की सराहना करने लगा । अर्थात् यदि जल नमकीन न होता तो उस राजा की सेना उसका सब जल पी जाती । उत्तम्भयामास पयोनिधेर्यस्तीरे जयस्तम्भमदम्भवीरः । असूयितं स्वैरविहारशीलैरालानभीत्या जलवारणेन्द्रैः ॥१११॥ अन्वय अदम्भवीरः यः पयोनिधेः तीरे स्वैरविहारशीलैः जलवारणेन्द्रैः आलानभीत्या असूयितं जयस्तम्भम् उत्तम्भयामास । व्याख्या नास्ति दम्भ कपटो यस्मिन्स अदम्भ आडम्बररहितश्चासो वीरो योद्धा यो राजा पयोनिधे समुद्रस्य तीरे तटे स्वैरं स्वच्छन्दं विहारस्य विहरणस्य शील स्वभावो येषां तैर्जलवारणेन्द्रैस्समुद्रहस्तिभिरालानस्य करिबन्धरतम्भस्य 'तोन वेणुकमालान बन्धस्तम्भेऽथ शृंखले' इत्यमरः । भीत्या भयेनाऽसूयितं दोषाविष्क- रणेन निन्दित जयस्तम्भ विजयसूचकस्तम्भमुत्तम्भयामास निचखान । जयस्तम्भे समुद्रगजानामावानस्य भ्रान्त्याऽसूयेति प्रतीत्या भ्रान्तिमानलङ्कारो व्यङ्ग्य । भाषा दम्भरहित वीर, उस राजा ने, स्वच्छन्द विहार करने वाले जल हाथियो द्वारा हाथी बाधन के खूंट के भय से ईर्ष्या युक्त दृष्टि से देखे जानेवाले विजय- स्तम्भ को समुद्र के तट पर गाड दिया । लब्ध्वा यदन्तःपुरसुन्दरीणां लावण्यनिष्यन्दमुपान्तभाजाम् । गृहीतसारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप ॥११२॥ अन्वयः त्रिदशैः गृहीतसारः पयोधिः उपान्तभाजां यदन्तःपुरसुन्दरीणां लाव- ण्यनिष्यन्दं लब्ध्वा पीयूषसंदर्शनसौख्यम् आप । व्याख्या त्रिदशैर्देवं 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुरा' इत्यमरः । गृहीत स्वायत्तीकृत सारस्तत्त्वममृतं यस्य स पयोधि समुद्र उपान्तं सामीप्यं भजन्ति
( ८४ ) तास्तासां तटप्रान्तविहारिणीनां यस्य नृपस्यान्त पुरसुन्दरीणामन्तः-पुरपुरन्ध्रीणां लावण्यनिष्यन्दं लावण्यरसं लब्ध्वा प्राप्य पीयूषस्यामृतस्य संदर्शनं चिरकाला- नन्तरं प्रत्यक्षीकरणं तज्जन्यं सौख्यमानन्दं सुधादर्शनजन्यामोदसमानमानन्दमाप लेभे। देवैरमृतस्य गृहीतत्वात्स्वसमीपे तस्याऽभावात्सम्प्रतं तल्लावण्यामृतं दृष्ट्वा पूर्वमानन्दं प्रापेति भावः। स्त्रीणां लावण्यस्य पीयूषेण साम्यदर्शनादुपमालङ्कारः। भाषा देवो ने, जिसमें से अमृत जैसी सारभूत वस्तु निकाल ली है, ऐसे समुद्र ने अपने तट पर घूमने वाली उस राजा की रानियों के लावण्य रूपी अमृत रस को प्राप्त कर अमृत को प्रत्यक्ष देखने का सौख्य पाया। अर्थात् अपनी गई हुई प्रिय वस्तु के फिर मिल जाने पर जैसा आनन्द होता है वैसा आनन्द समुद्र को प्राप्त हुआ। जयैकरागी विजयोद्यमेषु दृष्ट्वा प्रयाणावधिमम्बुधिं यः। उत्कण्ठितोऽभूद्दशकण्ठशत्रु-सेतौ समस्यापरिपूरणाय ॥११३॥ अन्वयः जयैकरागी यः विजयोद्यमेषु अम्बुधिं प्रयाणावधि दृष्ट्वा दशकण्ठशत्रु- सेतौ समस्यापरिपूरणाय उत्कण्ठितः अभूत्। व्याख्या जयस्य विजयस्यैवैको रागी प्रेमी विजयैकरतिर्यो नृपो विजयोद्यमेषु विजय- यात्रारवम्बुधिं समुद्र प्रयाणस्य गमनस्यावधिं चरमा सीमां दृष्ट्वा विज्ञायाऽग्रेगम- नस्य प्रतिरोधकं मत्वा दशकण्ठस्य रावणस्य शत्रू रामस्तस्य सेतुस्तस्मिन् समस्या- परिपूरणाय राम-निर्मितार्धनष्टसेतोः पुनर्निर्माणायोत्कण्ठित. समुत्सुकोऽभूत्। भाषा केवल विजय ही प्राप्त करने का प्रेमी वह राजा विजय-यात्राओ की चरम- सीमा समुद्र को देखकर रावण के शत्रु राम जी के बनाये हुए टूटे पुल को पूरा बनाने के लिये उत्कण्ठित हुआ। दोर्दण्डदर्पाद्द्रविडप्रकाण्डं यः सम्मुखं धावितमेकवीरम् । अभाजनं वीररसस्य चक्रे बाणोत्करच्छिद्रपरम्पराभिः ॥११४॥
( ८५ ) अन्वयः यः दोर्दण्डदर्पात् सम्मुखं धावितं द्रविडप्रकाण्डम् एकवीरं बाणोत्क- रच्छिद्रपरम्पराभिः वीररसस्य अभाजनं चक्रे। व्याख्या यो राजा दोर्दण्डयोर्भुजदण्डयोर्दर्पादभिमानात्सम्मुखमभिमुखं धावितं वेगेना- ऽऽगतं द्रविडेषु द्रविडदेशीयमनुषेषु प्रकाण्डं श्रेष्ठमेकवीरमप्रतिमभटं चोलदेशेश्वरं बाणानामिषूणामुत्करस्समूहस्तं कृताभिश्छिद्रपरम्पराभि शरवर्षजनितच्छिद्रैर्वीर- रसस्योत्साहरूपजलस्याऽभाजनमनाथय चक्रे। जलपात्रे छिद्रसत्वाद्यथा जलं तत्र न तिष्ठति तथैव तस्मिन् राज्ञि शरवर्षजनितच्छिद्रैर्वीररसस्याऽभावो जात इति भावः। भाषा जिस राजा ने, अपने भुजबल के अभिमान से सामने दौड पडे हुए द्रविड देशीय योद्धाओ में अप्रतिम वीर चोल देश के राजा को बाणो की वर्षा से छिद्रमय बनाकर उसमें वीररस रूपी जल का अभाव कर दिया। अर्थात् उसका सब वीररस, छेद वाले बर्तन मे से जैसे पानी चू कर वह बर्तन खाली हो जाता है वैसे उन छिद्रो से बाहर चू गया और वह वीररसहीन हो गया। अर्थात् हार गया। पृथ्वीभुजङ्गः परिकम्पिताङ्गीं यशःपटोल्लुण्ठनकेलिकारः। विधृत्य काञ्चीं भुजयोर्बलेन यश्चोलराज्यश्रियमाचकर्ष ॥११५॥ अन्वयः यः यशःपटोल्लुण्ठनकेलिकारः पृथ्वीभुजङ्गः भुजयोः बलेन काञ्चीं विधृत्य परिकम्पिताङ्गीं चोलराज्यश्रियम् आचकर्ष। व्याख्या य प्रसिद्धो यशश्चेलकीर्तिरेव पटस्तस्योल्लुण्ठनमुत्क्षेपणमपहरणमेव केलिस्तां करोतीति यश पटोल्लुण्ठनकेलिकार पृथ्या पृथिव्या भुजङ्ग पति कामुकश्च भुजयोर्बलेन काञ्चीं तन्नाम्नीं नगरीं रशनाञ्च विधृत्य जित्वा प्रगृह्य च परिकम्पितमङ्ग यस्या सा भयेन प्रेम्णा च कम्पयुक्तां चोलराज्यस्य श्रिय लक्ष्मीं छलनाञ्चाऽऽचकर्षाऽऽकृष्टवान्। अत्र नृपराज्यलक्ष्म्योर्व्यवहारेऽप्रकृतस्य
( ८६ ) विटकर्तृकस्य काञ्चीपरिग्रहेण हठादन्यसाधारणनायिकासमाकर्षणरूपस्याप्रकृत- व्यवहारस्याऽभेदसमारोपात्समासोक्तिरलङ्कारः । भाषा चोलराज की कीर्त्ति रूपी वस्त्र को उतार देने की अर्थात् अपहरण करने की क्रीडा करने वाले उस राजा या कामुक ने अपनी भुजाओं के बल से काञ्ची- नगरी को जीत कर या करधनी पकड कर भय से या प्रेम से कापने वाली चोल राजा की राज्यलक्ष्मी को या कामिनी को अपनी ओर खींचा । अर्थात् जिस प्रकार कोई कामुक किसी कापत्ती हुई कामिनी की साडी छोडकर अपने हाथो मे उसकी करधनी पकड कर उस अपनी ओर खींचता है उसी प्रकार उस राजाने यश कमाने की इच्छा से अपन भुजबल से काञ्चीनगरी को जीत कर भय से कम्पित चोलराज की लक्ष्मी को अपनी ओर खींच लिया । चोलस्य यद्भीतपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि¹ ॥११६॥ अन्वयः वनान्ताः कण्टकिनः यद्भीतपलायितस्य चोलस्य भालत्वचम् अद्यापि (अयं) किं वा अनुभविष्यति इति अक्षराणि द्रष्टुम् इव व्यपाटयन् । व्याख्या वनान्ता वनप्रान्तस्था कण्टकिन कण्टकाकीर्णा वृक्षा यस्माद्राज्ञ आहवमल्ल- देवाद्भीत्या भयेन पलायितस्य सुतरा दूर गतस्य चोलस्य चोलदेशनृपस्य भालत्वच ललाटचर्म, अद्याप्यत परमपि चोलराजोऽय कि वा कीदृशान्यन्यदुःखान्यनु- भविष्यतीत्यक्षराणि ललाटलिखितानि द्रष्टुमिव व्यपाटयन् विदारितवन्त । अत्र वनान्तकण्टकवृक्ष-कर्तृकभालत्वग्विपाटने 'अद्यापि किं वाऽयमनुभविष्यतीत्यक्षर- दर्शनस्य प्रयोजनत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा । भाषा जगल के कण्टकी वृक्षा ने इस आहवमल्ल देव राजा के भय से भागने वाले चोल देश के राजा के ललाट के चमडे को मानो इसके भाग्य में अब और ¹ श्लोकोऽय बहुष्वलङ्कारग्रन्थेषूदाहरणार्थमुद्धृत ।
( ८७ )
कौन २ दुख लिखे हैं इन अक्षरों को पढ़ने के लिये चीर डाला । अर्थात् भय से कांटों में से भागते २ उसके ललाट का चमड़ा कट गया ।
दहत्यशेषं प्रतियोगिवर्गमनर्गले यद्भुजशौर्यवह्नौ । प्रत्यर्थिपृथ्वीपतिचिन्त्यमानो न कोऽपि मन्त्रः प्रतिबन्धकोऽभूत् ॥११७॥
अन्वयः अनर्गले यद्भुजशौर्यवह्नौ अशेषं प्रतियोगिवर्गं दहति(सति) प्रत्यर्थि- पृथ्वीपतिचिन्त्यमानः कः अपि मन्त्रः प्रतिबन्धकः न अभूत् ।
व्याख्या नास्त्यर्गलं प्रतिबन्धकं यस्मिंस्तस्मिन् यस्य राज्ञो भुजस्य शौर्यरूपाग्नौ शौर्यरूपदग्धावशेषं समग्रं प्रतियोगिवर्गं शत्रुसमूहं दहति भस्मसात्कुर्वति सति प्रत्यर्थिपृथ्वीपतिभिः शत्रुभूतरानिभिश्चिन्त्यमानो विचार्यमाणः स्मृतः कोऽपि मन्त्रः काऽपि मन्त्रशक्तिः 'षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजा' इत्यमरः ) वह्निशामकमन्त्रश्च यथा-उत्तर्रस्मिंश्च दिग्भागे मरीचो नाम राक्षस । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भः प्रजायते' । प्रतिबन्धकः प्रतिरोधको नाऽभूत् । मन्त्रेण वह्निः प्रतिबध्यते मन्त्रशक्त्या च राज्यं रक्ष्यते । भुजशौर्ये वह्नित्वारोपाद्रूपकम् । शौर्यव्यवहारे वह्निव्यवहारस्याप्यभेदप्रतिपत्तिः ।
भाषा जिस राजा की अप्रतिहत भुजबल रूपी अग्नि में सब शत्रुओं के जलते रहने पर अर्थात् उसके भुजबल से शत्रुओं का नाश होते रहने पर, विपक्षी राजाओं द्वारा प्रयुक्त षाड्गुण्यादि उपाय वा "उत्तरस्मिंश्च दिग्भागे मरीचो नाम राक्षस । तस्य मूत्रपुरीषाभ्यां हुतस्तम्भ प्रजायते" सदृश अग्निस्तम्भक मन्त्र उस अग्नि का शामक न हुआ । अर्थात् उस राजाको विपक्षी राजाओं को परास्त करते रहने से रोकने में विपक्षियों का कोई उपाय सफल न हुआ ।
भूमस्तस्य किमस्त्रकौशलविधौ देवस्य विक्रामतः पुष्पेषोरिव यस्य दुष्परिहराः सर्वैरखर्वाः शराः । राज्ञामप्रतिभानमेव विदधे युद्धेषु यस्योर्जित- ज्यानिष्ठ्यूतनितान्तनिष्ठुररवप्राप्ताग्रवादो भुजः ॥११८॥