भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥

The provided image is completely blank and contains no text to transcribe.

श्रीगणेशाय नमः ॥ ॐ श्रीनारायणाय नमः ॥ अथ श्रीविष्णुधर्मोत्तरप्रारम्भः ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥ कृतवर्मा तथा भोजः श्वेतो माहिष्मतीपतिः ॥ कुलिन्दः सर्वदमनो मालवेन्द्रस्त्वधूर्द्धनः ॥ २ ॥ वत्सनामश्च बाणश्च नन्दीशो दरसत्पतिः ॥ प्रतिसारश्वित्रधनुस्सवौं वायुरथस्तथा ॥ ३ ॥ द्रविडः कुसुमापीड ओड्रश्च समरप्रियः ॥ शम्भुः किरातराजश्च ओरसो नन्दिवर्द्धनः ॥ ४ ॥ वटुमुलश्च तूनेशः शाल्वश्च जनमेजयः ॥ सुभ्राजो दीर्घकर्णो बाह्रीको दमनस्तथा ॥ ५ ॥ हिरण्यनामः कौसल्यो दशार्हो विजयस्तथा ॥ एते चान्ये च राजानः शतशो बहुदक्षिणाः ॥ ६ ॥ सम्पूर्र्णचन्द्रवदना गजराजकरोरवः ॥ उपासांचक्रिरे वज्रं सिंहासनगता नृपाः ॥ ७ ॥ बहुभिर्भूमिपालैश्च तथा वज्रेण धीमतां ॥ युधिष्ठिरण च सदा शोभिता शुशुभे सभा ॥ ८ ॥ राजानस्ते ततो दृष्ट्वा ऋषीन्दुंल्लभदर्शनान्॥ ब्रह्मलोकस्थमात्मानममन्यन्त यशोभृतः ॥ ९ ॥ ऊचुस्ते प्रणयाद्वाक्यं वज्रं भूरिसहस्रदम् ॥ यथा त्रेतायुगे राजन् द्वापरे च यथा नृपाः ॥ १० ॥ ब्राह्मणा ब्रह्मकल्पाश्च तथैव सुसमागताः ॥ १० ॥ अस्मिंस्तिष्ये च संप्रति तव राजन् प्रसादतः ॥ राजन् कृष्णसगोत्रोऽसि तेनेयन्ते सभा नृप ! ॥ ११ ॥ उपास्यते महाभागैर्ब्रह्मकल्पैस्तपोधनैः ॥......................न तथा वीर्यनिर्जिता ॥ १२॥ भक्त्या यथा तु तत्त्वेन कृष्णस्यामिततेजसः ॥ तेन कृष्णेन ये चक्रुर्व्यतीताः पूर्वपार्थिवाः ॥ १३ ॥ वर्त्तता तेन कृष्णेन ते राजन् मोक्षमाप्नुयुः ॥ अथ तिष्ययुगः प्राप्तो घोरः परमदारुणः ॥ १४॥ दुर्लभं दर्शनं यत्र नृपसवै महात्मनाम् ॥ १५ ॥ तत्सारवं राजशार्दूल प्रष्टुमहौ द्विजोत्तमान् ॥ वैष्णवान्विविधान्धर्मान्सरहस्यान्ससंग्रहान् ॥ १६॥ इत्येवमुक्तो वज्रस्तैस्त्यक्त्वा सिंहासनं तदा ॥ वज्र तु प्राञ्जलिं दृष्ट्वा सर्व एव नराधिपाः ॥ १७ ॥ वरासनान्युत्थायोशु तस्थुः प्राञ्जलयस्तदा ॥ वज्र उवाच ॥ भवद्भिर्नृपशार्दूलाः प्रार्थिता ये द्विजाः स्थिताः ॥ १८ ॥ अनुग्रहार्थं भूपानां जगतो हितकाम्यया ॥ भवन्तो वक्तुमर्हन्ति विष्णुधर्मान्सना तनान् ॥ १९ ॥ तस्मात्तिष्ययुगे नास्ति भवतो दर्शनं नृपैः ॥ ऋषय ऊचुः ॥ उत्तिष्ठ त्वं महीपाल अलङ्कुरु स्वमांसनम् ॥ २० ॥ श्रवणेपि वयं तस्य विशेषेणार्थिता नृप ॥ वज्र ते संशयान्सर्व्वाञ्छेत्स्यत्येष महामुनिः ॥ २१ ॥ इत्येवमुक्ता वज्रं ते ऋषयस्तपसि स्थिताः ॥ मार्कण्डेयमथोचुस्ते ब्रूहि धर्मान्महीपते ॥ २२ ॥ वैष्णवान्विविधान्धर्मान्मोक्षोकानांमघहारिणः ॥ तथा पार्थिवसंशस्य संशयान् मनसि स्थितान् ॥ २३ ॥ मार्कण्डेय उवाच ॥ ब्रह्मण्यः सत्यवान् धन्यः सर्वयज्ञनिबर्हणः ॥ यद्गत्पृच्छसि मां वज्र तत्तद्वक्ष्याम्यसंशयम् ॥ २४ ॥ सिंहासनस्थो भव भूमिपाल


१ ‘वरगो वत्सनामश्च’ इति बहुपुस्तके। २ ‘बालक्ष’ इति क०। ३—‘मूब्जा’ इति ख०। ४ ‘ऋषिंस्तेव महोद्धतान्’ इति ख०। ५ ‘तदासनम्’ इति ख०।

वि० ध० ॥ २ ॥ प्र० खं० अ० २

भवन्तु सर्वेऽपि तथा महीपाः ॥ सुखोपविष्टोऽसि महीपालैः स्वसंशयान् ब्रूहि यथाप्रकामम् ॥ २५ ॥ इत्येवमुक्तः स यदुप्रधाने भृगुप्रवरेण महर्षिमुख्ये ॥ प्रणम्य विप्रांस्तु जगाम राजा सिंहासनं रत्नसहस्रचित्रम् ॥ २६ ॥ सिंहासनस्थे नृपवर्यमुख्ये सिंहासनस्थाः क्षितिपा प्रधानाः ॥ सर्वे बभूवुः प्रणतास्तथा च शुश्रूषवो ब्राह्मणमुख्यवाक्यम् ॥ २७ ॥ वज्र उवाच ॥ आचक्ष्व मह्यं भृगुवंशचन्द्र समुद्भवं त्वं जगतो यथावत् ॥ शृण्वंति मे ब्राह्मणसंघमुख्या नरेंद्रमुख्याश्च वचस्त्वदीयम् ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कथाप्रस्तावने नाम प्रथमोऽध्यायः ॥ १ ॥

॥ मार्कण्डेय उवाच ॥

॥ नारायणं नमस्कृत्य सर्वभूतपरायणम् ॥ लक्ष्मीसहायं वरदं शेषपर्यङ्कशायिनम् ॥ १ ॥ जगतोऽस्य समुत्पत्तिस्थितिनाशनैककारणम् ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य संस्थितम् ॥ २ ॥ वक्ष्यामि जगतां राजन् समुत्पत्तिं निबोध ताम् ॥ सर्वपापप्रशमनीमायुष्यां स्वर्गदां शिवाम् ॥ ३ ॥ नारायणोऽस्य जगतः सृष्टिंसंहारपालनम् ॥ करोति जगतांपाल यस्य सर्वमिदं महत् ॥ ४ ॥ वेदेषु गीयते योऽसौ पुरुषः पञ्चविंशकः ॥ अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ॥ ५ ॥ यस्योन्मेषस्तु दिवसो ब्रह्मणः परमेष्ठिनः ॥ निमेषस्तु तथा रात्रिरितस्य कल्पं प्रकीर्तितम् ॥ ६ ॥ पुरुषत्वे त्वनन्तस्य न रूपं नृप विद्यते ॥ न च शब्दो न च घ्राणः स्पर्शो वा पृथिवीपते ॥ ७ ॥ न तस्य परिमाणं वा नचादिर्निधनं कुतः ॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ ८ ॥ सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ९ ॥ असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ तं च प्राप्य भवन्तीह युक्ताः पुरुषोत्तमाः ॥ १० ॥ सुरातिर्यङ्नृसिद्धानां तत्सात्म्यस्य सम्भवः ॥ तस्माद्भवति चाव्यक्तस्तस्मादात्मापि जायते ॥ ११ ॥ तस्माद्बुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ॥ तस्मात्तेजस्ततश्चापस्तेभ्योऽण्डमभवत्किल ॥ १२ ॥ अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ॥ अङ्गग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ॥ १३ ॥ ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ॥ शरीरग्रहणं कृत्वा सृजतीदं चराचरम् ॥ १४ ॥ अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ॥ सप्तलोकान् सप्तपातालान् सप्तद्वीपार्णवां महीम् ॥ १५ ॥ सृष्टिं कृत्वा स भगवान् सात्त्विकीमाश्रितस्तनुम् ॥ अङ्गेऽङ्गे कृशता भूत्वा शेषभोगमयः प्रभुः ॥ १६ ॥ लक्ष्मीसहायो लोकांस्तु सदा पालयते सदा ॥ योगनिद्रां समास्थाय सर्वमन्वन्तराणि सः ॥ १७ ॥ शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ॥ अन्तकाले हरो भूत्वा जगत्संहरते पुनः ॥ १८ ॥ तामसीं तनुमास्थाय लीलयैव महायशाः ॥ रात्रिकाले तु जलमध्यगतां महीम् ॥ १९ ॥ दृष्ट्वोद्धरति यज्ञात्मा वाराहीमाश्रितां तनुम् ॥ ब्राह्मस्य मानं परिपाल्यं च विष्णोर्महात्मनो भवतीह नित्यम् ॥

॥ २ ॥


१ 'यतः' इति क० ख० ।

संहारकाले च हरत्येति त्रैधं विभ्रते स त्रिकालयोगात् ॥ २० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिरण्यगर्भोत्पत्ति कथनो नाम द्वितीयोऽध्यायः ॥ २ ॥ मार्कण्डेय उवाच ॥ ब्रह्मरात्र्यां व्यतीतायां विबुद्धे पद्मसंभवे ॥ विष्णुः सिसृक्षुर्भूतानां ज्ञात्वा भूमिं जला- न्तगाम् ॥ १ ॥ जलक्रीडारुचिं शुभं कल्पादिषु यथा पुरा ॥ वाराहमस्थतो रूपमुज्जहार वसुन्धराम् ॥ २ ॥ वेदपाद्यूपदंष्ट्रश्च चतुर्वक्त्रश्चतुर्मुखः ॥ अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ ३ ॥ अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ॥ ॥ ४॥ धर्मः सत्यमहाः श्रीमान्कर्मविक्रमसत्कृतः ॥ प्रायश्चित्तमयो धीरः प्रांशुजानुर्महाशयः ॥ उद्गात्रंत्रो होमलिङ्गः फलबीजमहौषधिः ॥ ५ ॥ वाय्वन्तरात्मा मन्त्रास्थिर्विकृतः सोमशोणितः ॥ वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥ ६ ॥ प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ दक्षिणाहृदयो योगी महाक्रतुमयो महान् ॥ ७ ॥ उपाकर्मरुचिरः प्रवर्ग्यावर्त्तभूषणः॥ नानापत्निसहायो वै महाशृङ्ग इवोदितम् ॥८॥ महीं सागर- पर्यन्तां सशैलवनकाननाम् ॥ एकाणर्वजलभ्रष्टामेकापर्णकवार्णवतः प्रभुः ॥ ९ ॥ दंष्ट्राग्रेण समुद्धृत्य लोकानां हितकाम्यया ॥ आदिदेवो महायोगी चकार जगतीं पुनः ॥ १० ॥ एवं ज्ञात्वा वराहेण भूत्वा भूतहितार्थिना ॥ उद्धृता पृथिवी देवी जलमध्यगता पुरा ॥ ११ ॥ उद्धृत्य भूमिं सविभुर्म- हात्मा वाराहरूपेण जलान्तरस्थाम् ॥ चक्रे विभागं जगतस्तदानीं यथातथा तच्छृणु राजनृसिंह ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वराहप्रादुर्भावो नाम तृतीयोऽध्यायः ॥ ३ ॥ मार्कण्डेय उवाच ॥ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः ॥ प्रथमं तत्प्र- माणानां त्रसरेणुं प्रचक्षते ॥ १ ॥ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ॥ ता राजसर्षपास्तिस्रस्तावत्यो गौरसर्षपाः ॥ २ ॥ सर्षपाः पञ्च वो मध्ये अङ्गुलं च तदष्टकम् ॥ द्वादशाङ्गुलिकः शङ्कुस्तद्वयं हस्त उच्यते ॥३॥ तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिका ॥ क्रोशद्वयं च गव्युतिः योजनं तच्चतुष्टयम् ॥ ४ ॥ योजनानां प्रमाणेन वायुतानां शतत्रयम् ॥ अयुतानां च पञ्चाशच्छ्रेष्ठस्थानं मनोहरम् ॥ ५ ॥ स एव लोके वाराहः कथितश्च स्वयं प्रभुः ॥ वाराहरूपी भगवाञ्छत्रहस्त्यधरस्तथा ॥६॥ तत्रास्ते भगवान्विष्णुर्ऋषिभिः सह महात्मभिः ॥ लोकोऽयमुण्डसंलग्नश्छत्राकारः प्रकीर्तितः ॥ ७ ॥ स्वयं प्रसुर्विताजाः सर्वदुःखविवर्जितः ॥ एकान्तभावोपगतास्तं प्रयान्ति हरिं जनाः ॥ ८ ॥ सर्वावस्थादयं लोकः कथितस्ते मनोहरः ॥ तत्योपरिष्टादपरस्तावदेव प्रभाणतः ॥ ९ ॥ कालानिश्रृङ्गोलोकस्तु कथ्यतेऽग्निसमन्वितः ॥ एक एव स तत्रास्ते स्वप्रभाभास्वरा


१ 'पङ्गुजानुः' इति ख० । २ 'प्राग्वंशवर्त्ती' इति ख० । ३ 'तद्देशो' इति ख० ।

वि० ध० प्र० खं० अ० ४

त्मकः ॥ १० ॥ तस्मात्समुत्थितो वह्निर्जगत्प्राप्ते दिनक्षये ॥ भस्मसात्कुरुते सर्वं यच्चाङ्गं यच्च नेङ्गते ॥ ११ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पातालनामा पातालः प्रथमः परिकीर्तितः ॥ १२ ॥ योगमायां समास्थाय द्वितीयामास्थितस्तलम् ॥ सर्वतो भगवानास्ते शेषमूर्तिर्जनार्दनः ॥ ॥ १३ ॥ रुक्मभौमः स पातालो धृतो रुद्रस्य तेजसा ॥ तस्मिन्त्स भगवानास्ते शेषपर्यङ्कमाश्रितः ॥ १४ ॥ नित्यं तालध्वजो वाग्मी वनमालाविभू- षितः ॥ धारयञ्छिरसा नित्यं रत्नांश्चित्रां फणावलीम् ॥ १५ ॥ लाङ्गली मुसली खङ्गी नीलाम्बरविभूषितः ॥ स्तूयमानः स गन्धर्वैर्नागैश्चापि वरेस्तथा ॥ १६ ॥ तातस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ सुतलसंज्ञः पातालः शिलाभासः समन्ततः ॥ १७ ॥ बलिरुतु भगवांस्तत्र बहिस्तिष्ठति संयतः ॥ रम्यं पुरवरं तस्य विष्णुना निर्मितं स्वयम् ॥ १८ ॥ निवासं देवराजस्य विशिष्टं तत्पुरोत्तमम् ॥ सा वैष्णवी कला प्रोक्ता ययेदं धार्यते जगत् ॥ १९ ॥ (फणेषु तस्य विश्रान्ता मिलिता च शुभाशुभा ॥ तत्रास्ते स महाभागः श्रिया परमया युतः॥२०॥ तमुपासन्ति सततं गन्धर्वाप्सरसां गणाः ॥) तत्रास्ते देवदेवस्य मूर्तिः कृष्णस्य चापरा ॥ २१ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ आभासतल इत्येव पातालो नीलवृत्तिकः ॥ २२ ॥ तृतीयः स तु विख्यातः सुरम्यैश्च तिष्ठति ॥ द्विपञ्चवत्तथा तत्र चतस्रश्च तथा स्थिताः ॥ २३ ॥ सुभद्रा बहिरूपा च विश्वरूपा तथैव च ॥ रोहिणी च महाभागा याभिर्धृतमिदं जगत् ॥ २४ ॥ तासां क्षीरेण सर्वासां कृतः क्षीरार्णवः प्रभो ॥ पातालमध्ये तस्मिंस्तु पुरं विष्णोर्मनोहरम् ॥ ॥ २५ ॥ यत्रास्ते भगवान्विष्णुः शेषपर्यङ्कगास्तथा ॥ अग्निज्वालापरिक्षिप्तः सह लक्ष्म्या परन्तप ॥ २६ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ पीतभौमश्चतुर्थस्तु गभस्तिमत्तलसंज्ञितः ॥ २७ ॥ तत्रास्ते भगवान्विष्णुर्देवो हयशिरोधरः ॥ शशांकशतसंकाशः शातकौंभविभूषणः ॥ २८ ॥ पुरं तत्रैव विख्यातं गरुडस्य महात्मनः ॥ (प्रह्लादस्यासुरेन्द्रस्य वाष्फलेश्च महात्मनः) ॥ २९ ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ महा- तलेति विख्यातो रक्तभौमस्तु पञ्चमः ॥ ३० ॥ सरोवरं तस्य मध्ये योजनानां दशाश्रुतम् ॥ जंगमाजंगमैः सर्वैर्जलजैश्च विवर्जितम् ॥ ३१ ॥ तत्राङ्गेण वसति कूर्मरूपधरो हरिः ॥ तस्योपरिधदधस्ताद्वैव प्रमाणतः ॥ ३२ ॥ षष्ठश्चैव महाराज नाम्ना भीमबलस्तु सः ॥ तत्रापि सरसी दिव्या योजनानां शतं गता ॥ तस्यां च वसते देवो मत्स्यरूपधरो हरिः ॥ ३३ ॥ सप्तमः कृष्णभौमस्तु नाम्ना भीमबलस्तु सः ॥ तत्रास्ते कपिलो देवो वासुदेवः स्वयं प्रभुः ॥ ३४ ॥ तत्राश्मनगरं नाम वरुणस्य पुरं स्मृतम् ॥ तथा दानववीराणां नगराणि पृथक्पृथक् ॥३५ ॥

॥ ३ ॥


१ कोष्ठकान्तर्गतः पाठः ख पुस्तके नास्ति । २ कोष्ठान्तर्गतः पाठो नास्ति ख पुस्तके । ३ 'महातेजेति' इति ख० । ४ 'योजनं दशसंख्यया' इति ख० ।

विरोचनस्य कुम्भस्य निकुम्भस्य हरस्य च ॥ शम्बरस्य करालस्य हयस्य च ॥ ३६ ॥ हयग्रीवस्य सुन्दस्य घस्रस्य प्रथसस्य च ॥ बलेः पुरवरं चात्र योगीशस्त्य तथापरम् ॥ ३७॥ यत्रस्थमेनं दृष्ट्वानं रावणो लोकरावणः ॥ तथा पुरवरं तत्र विष्णोरमिततेजसः ॥३८॥ लक्ष्मीसहाया यत्रास्ते चांग्राम्बरसंवृतः ॥ तिस्रः कोट्यस्तु यत्रास्य भक्तानां सुमहात्मनाम् ॥ ३९ ॥ शङ्खचक्रगदापद्मधारिणां पीतवाससाम् ॥४०॥ नीलोत्पल सवर्णानां विष्णोः सदृशतेजसाम् ॥ विष्णोः सुतानां हृद्यानां सततं भूरिवर्चसाम् ॥ ४१ ॥ तत्रस्थो दृष्टवान् देवो पौलस्त्यो रावणः पुरा ॥ पुरीं भोगवतीं तत्र तथा वासुकिकालिता ॥ ४२ ॥ नागानां च पुराण्यत्र तथैव च पृथक्पृथक् ॥ पद्मस्य धृतराष्ट्रस्य विरक्तस्य कुरोस्तथा ॥ ४३ ॥ तक्षकस्यैलपत्रस्य तथा कर्कोटकस्य च ॥ धनञ्जयस्य शङ्खस्य तथैवाश्वतरस्य च ॥ ४४ ॥ कण्डलस्य मुरालस्य सुमुखस्य गयस्य च ॥ दिशां गजानां च तथा तत्र स्थानं पृथक्पृथक् ॥ ४५ ॥ येषां स्कंधगता भूमिः सशैलवनकानना ॥ विरूपाक्षस्य नागस्य महापद्मस्य चाप्यथ ॥ ४६ ॥ तथा सुमनसश्चात्र रुद्रस्य च महात्मनः ॥ पञ्चायुतपरीमाणा भूमिः सर्वेषु पार्थिव ॥ ४७ ॥ पातालेषु विनिर्दिष्टा पठितान्तरवर्तिनी ॥ अण्डस्यार्द्धमिदं प्रोक्तमधस्तात्तु प्रमाणतः ॥ ४८ ॥ तिस्रः कोट्यस्तु राजेन्द्र नियुतानि तथा दश ॥ पञ्चान्यानि महीपाल भूमि पृष्ट्या महानच ॥ ४९ ॥ पञ्चायुतपरीमाणाः पृथिव्यैः प्रकीर्तिता ॥ भूमेरथोपरिष्टाच्च अण्डस्यार्धमथापरम् ॥ एतावदेव निर्दिष्टा भूमिपाल प्रमाणतः ॥ ५० ॥ चन्द्रार्कभासा रहितं नूवारं स्वयं प्रभेदं कथितं मयैतत् ॥ पातालपूर्वं विविधं सुगम्यं शृणुष्व लोकान् गदतोममान्या न् ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पातालवर्णनो नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ मार्कण्डेय उवाच ॥ भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ॥ पातालेन तु तुल्यमूर्ध्वतः परिकीर्तितः ॥ १ ॥ वायुकक्षा विनिर्दिष्टास्ते तु सप्त महात्मभिः ॥ एकैकं नियुताः पंच योजनानां प्रकीर्तितम् ॥ २ ॥ पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ॥ यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः ॥३॥ सर्वे एते विनिर्दिष्टा अन्नादा भूमिगोचराः ॥ विद्याधराणां प्रथमं वायुमार्गः प्रकीर्तितः ॥ ४ ॥ द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ॥ चतुर्थो वायुमार्गेस्तु गन्धर्वाणां प्रकीर्तितः ॥ ५ ॥ विनायकाः पञ्चमगा षष्ठे च करिणी गणाः ॥ येषां शिकिरतोयेन चावस्थायः प्रकीर्तितः ॥ ६ ॥ सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ॥ तस्योपरिष्टादपरस्तावदेव प्रमाणतः॥७॥ भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ॥ मन्वन्तराधिका


१--'स्तोत्रं' इति ख० ।

वि० भू० ॥ ४ ॥ प्र० सं० अ० ५

रेषु ये भविष्या महीपते ॥ ८ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ स्वर्लोके वसतिस्तत्र प्रायशः पुण्यकर्मणाम् ॥ ९ ॥ सोमपानां च देवानां
शक्रादीनां महीपते ॥ महर्लोकस्थितिस्त्वियं देवतानां महात्मनाम् ॥ १० ॥ विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ ११ ॥ जनलोकः स्थितिश्चियं गवां पार्थिवसत्तम ॥ तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः ॥ १२ ॥ तस्योपरिधिरप्यस्तावदेव
प्रमाणतः ॥ तपोलोकः स्थितिश्चियं प्राणेशानां महात्मनाम् ॥ १३ ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ सत्यलोकः स्थितिरियं ब्रह्मणः
परमेष्ठिनः ॥ १४ ॥ इत्येते कथिताः सप्त तव लोका महात्मनाम् ॥ एतावानेव सवितुर्विवरन्ति मरीचयः ॥ १५ ॥ एतेषु लोकसंज्ञाक्ता
तस्मादेव मनीषिभिः ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ १६ ॥ स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ॥ ब्रह्मलोकोपरिह्याशु
रुद्रलोको महत्तमः ॥ १७ ॥ योजनानां सहस्राणि पञ्चभिश्चिनिर्बिडं मतम् ॥ आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते ॥ १८ ॥ यदेतद्दृश्यते नीलं
तमस्तत्पृथिवीपते ॥ तमसस्तु परं पारे रुद्रलोकः स्वयं प्रभो ॥ १९ ॥ रुद्रत्वं समनुप्राप्तस्तत्र भक्तैर्महानहम् ॥ क्रीडन्नास्ते महादेवः सपत्नीको
वृषध्वजः ॥ २० ॥ तस्योपरिधिरप्यस्तावदेव प्रमाणतः ॥ अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः ॥ २१ ॥ तस्योपरिगदाह्लाण्डः
काञ्चनो दीप्तिसंयुतः ॥ भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥ २२ ॥ स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ॥ नृवराहस्य वसतिर्मह
र्लोके प्रकीर्त्तिता ॥ २३ ॥ नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥ त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्त्तिता ॥ २४ ॥ लोकाः सन्तानका
नाम सत्यलोके प्रकीर्त्तिताः ॥ एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ २५ ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ रुद्रस्थानोपारिह्याद्यु
विष्णोः स्थानं मयोदितम् ॥ २६ ॥ न कश्चिद्देवं शक्नोति द्रष्टुं देववरं हरिम् ॥ न तत्र सूर्यस्तपति चन्द्रमा न विराजते ॥ २७ ॥ तेजसा तस्य
देवस्य स तु देशो विराजते ॥ तस्योपरिह्याण्डामध्य यावदन्तं महीपते ॥ २८ ॥ प्रोक्तं वाङ्मनसान्यत्य तत्र मानं निबोध मे ॥ योजनानां च
षट्कोट्यास्त्रिंशच्च नियुतान्यथ ॥ २९ ॥ एतावच्चैवं भूतानां वसतिः परिकीर्त्तिता ॥ एतावदेव चन्द्रम्य तलमुक्तं ममंत्रतः ॥ ३० ॥ एतुषु देवं
पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥ तपसा महता राजन भक्ताश्च मततं प्रभुम् ॥ ३१ ॥ बाह्येतोऽण्डं दशगुणं त्विद्भिन्नु परिवाग्निम् ॥ आपो
दशगुणेनैव बाह्यतस्तेजसा वृताः ॥ ३२ ॥ तेजोगुणेनैव वायुतः पवेनंतं च ॥ वायुर्दशगुणेनैव गगनंत तथायुतः ॥ ३३ ॥ आकाशं च दशग्रनं


१- 'एतावदेव' इति ख० ।

॥ ४ ॥

मनसा बाह्यतो वृत्तम् ॥ मनश्च बुद्ध्या सकलं वृत्तं राजन् दशैश्चया ॥ ३४ ॥ आत्मना चावृता बुद्धिर्दशभिश्च समन्ततः ॥ अन्यैस्तेन तथैवात्मा दशभैरेव चावृतः ॥ ३५॥ अव्यक्तः पुरुषेणायं त्वनन्तेनावृतोऽनघः॥ एवं विधाना मण्डानामानन्त्यं कः पुरुषोत्तमः ॥ ३६॥ तिर्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ॥ अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः ॥३७॥ एकरूपास्तथैवाण्डाः सर्वे एव नराधिप ॥ तुल्यदेशविभागाश्चं तुल्यजन्तव एव च ॥३८॥ देशेदेशे समाना ये अण्डेषु नृपसत्तम ॥ सुखदुःख समा तेषां जीवितं मरणं तथा ॥३९॥ सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ॥ पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः ॥ ४० ॥ एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ॥ अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ॥ व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव ॥ ४१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

॥ वज्र उवाच ॥ भूमण्डलस्य कृत्स्नस्य संस्थानेन च भार्गव ॥ वद प्रमाणं कृत्स्नं तत्तत्र मे संशयो महान् ॥ १॥

मार्कण्डेय उवाच ॥ भूमण्डलस्य राजेन्द्र मध्ये मेरुर्महागिरिः ॥ योजनानां सहस्राणि तस्य मध्ये समन्ततः ॥२॥ जम्बूद्वीपस्तु पश्चात्तत्प्रमाणेन प्रकीर्तितः ॥ योजनानां तु नियुतं तस्य पारं महीपते ॥ ३ ॥ लवणेन समुद्रेण तेनाऽसौ परिवेष्टितः ॥ लवणाद्द्विगुणेनापि शाकद्वीपेन लावणः ॥४॥ वेष्टितश्च महाराज शाकद्वीपो न संशयः ॥ क्षीरोदेन स्वतुल्येन क्षीरोदोऽपि च वेष्टितः ॥ ५ ॥ क्षीरोदाद्द्विगुणेनापि कुशद्वीपेन योजनैः ॥ आज्योदेन कुशद्वीपः स्वतुल्येन च वेष्टितः ॥ ६॥ क्रौञ्चद्वीपेन चाज्योदो द्विगुणेन च वेष्टितः ॥ क्रौञ्चद्वीपः स्वतुल्येन दधिमण्डोदकेन च ॥ ७॥ द्वीपेन शाल्मलेनाथ द्विगुणेन च वेष्टितः ॥ सुरोदो द्विगुणेनाथ गोमेदेन च वेष्टितः ॥ ८ ॥ पुष्करद्वीपमध्ये तु द्वीपसंस्थानमण्डपः ॥ पर्वतः सुमहालोके विख्यातो मानसोत्तरः ॥ ९ ॥ नियुताधं योजनानां प्रमाणेन प्रकीर्तितः ॥ नानाप्रकारशिखरास्तत्रावेद्य समुच्छ्रितः ॥ १० ॥ मेरोस्तु पूर्वदिग्भागे मानसोत्तरमूर्धनि ॥ पुरी शक्रस्य विख्याता नामतस्त्वमरावती ॥ ११ ॥ पूर्वदक्षिणदिग्भागे तथा वन्हेः प्रभावती ॥ यमस्य दक्षिणे भागे नाम्ना संयमनी पुरी ॥ १२ ॥ विरूपाक्षस्य विक्रान्ता भागे दक्षिणपश्चिमे ॥ पश्चिमे च तथा भागे वरुणस्य सुखप्रभा ॥ १३ ॥ शिवा नाम पुरी वायोर्भागे वै पश्चिमोत्तरे ॥ विभावरी सोमपुरी उत्तरेण प्रकीर्तिता ॥ १४ ॥ शर्मदा च पुरी शैवे भागे पूर्वोत्तरे स्मृता ॥ पुष्करश्च स्वतुल्येन वृतः स्वादूदकेन च ॥ १५ ॥ स्वादूदकात्परं क्षोणी कार्त्तस्वरमयी शुभा ॥ योजनानां प्रमाणेन सहस्राणि तु विंशतिः ॥ १६ ॥


१ 'मन्ततः' इति ख० ।
२ 'तुल्यदेशो विभागाश्च' इति ख० ।

प्र० खं०
अ० ६

वि० ध०
॥५॥

दश चान्यानि राजेन्द्र पञ्च पञ्च प्रकीर्तिताः ॥ समन्ततस्तरत्नशिला देवोद्याने मही शुभा ॥ १७ ॥ स्थितस्ततां परिधाय्यौँ लोकालोको महीधरः ॥
अयुतं योजनानां तु विस्तरेणोच्छ्रयेण च ॥ १८ ॥ लोकालोके महीपाल लोकपालास्त्वमी स्मृताः ॥ प्राच्यादिषु महावीर्याः कल्पस्थायिन
एव ते ॥ १९ ॥ सुदामा शेषपादश्च केतुमान्सुमहाबलः ॥ हिरण्योरोमा च तथा विज्ञेयाश्च दिगीश्वराः ॥ २० ॥ अर्वाक्तस्य महीध्रस्य चन्द्रार्क
ग्रहतारकाः ॥ प्रपतन्ति महाराज न तु पारे कदाचन ॥ २१ ॥ दृषोदकसमुद्रस्तु लोकालोकं समन्ततः ॥ परिवार्थ स्थितो राजन्रन्ध्रकारे महा
र्णवः ॥ २२ ॥ एकषष्टिप्रमाणेन नियुतानि समन्ततः ॥ तस्य पारे ततो राजन्ब्रह्माण्डस्तु समन्ततः ॥ २३ ॥ ऊर्द्धनाधश्च विष्कम्भो यावान
ण्डस्य कीर्तितः ॥ तावदेव प्रमाणेन तिर्यक्षु परिवार्तिः ॥ २४ ॥ मेरुमध्यात्समुद्रस्य पारं गर्भोदकस्य तु ॥ कोटित्रयं योजनानां नियुतानि
तथा दश ॥ २५ ॥ पञ्चान्यानि च राजेन्द्र प्रमाणं परिकीर्तितम् ॥ तस्य राज... ब्रह्माण्डस्तु समन्ततः ॥ २६ ॥......तदधश्च द्वितीयस्य
महीपते ॥ एतदेव तु निर्दिष्टं प्रमाणं तत्त्वचिन्तकैः ॥ २७ ॥ मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ॥ विष्णोलोको महान्प्रोक्तः सलिलान्तर
संस्थितम्॥२८॥स्वभासयात्र देवस्य सततं नृप राजितम् ॥ तत्र स्वपिति धर्मान्ते देवदेवो जनार्दनः ॥ २९ ॥ लक्ष्म्यासहायः सततं शेषपर्यङ्क
माश्रितः ॥ एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ॥ ३० ॥ देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ॥ अभिद्रवन्ति ते गत्वा सततं दिनपञ्च
कम् ॥ ३१॥ उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम् ॥ ततस्तु चतुरो मासान् योगनिद्रासुपासते ॥३२॥ सुतं च तमुपासते ऋषयो ब्रह्मसप्रमताः ॥
सप्तर्षिगण शर्वाणि भक्तास्ते देवमानवाः ॥३३॥ कार्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ॥ विवोधयन्ति देवशं गत्वा सेन्द्रा दिवौकसः ॥३४॥
देवास्तथैव कुर्वन्ति तदापि च महोत्सवम् ॥मेरोस्तु पूर्वदिग्भागे मध्ये क्षीरार्णवस्य तु ॥३५॥ शृंगारमुख्येण शुभा देवस्यान्या तथा पुरी ॥ लक्ष्मी
सहायस्तत्रास्ते शेषपासनगतः प्रभुः ॥३६॥ तत्रापि चतुरो मासान् सुतस्तिष्ठति वापिकान् ॥ अन्ते च केवलंस्तत्र दृश्यते शाश्वतः प्रभुः ॥ ३७ ॥
तस्मिंस्तथैव दिग्भागे मध्ये क्षीरार्णवस्य तु ॥ योजनानां सहस्राणि मण्डलः पश्चविंशतिः ॥ ३८॥ श्वेतद्वीपंनु विख्यातो द्वीपः परमशोभनः ॥
नराः सूर्य्यप्रभास्तत्र शीतांशसमदर्शनाः ॥३९॥ तेजसा दुर्निरीक्ष्याश्च देवानामापि यादव ॥ पञ्चकालविधानज्ञाः पूजयन्ति जनार्दनम् ॥ ४० ॥
पूजां तेषां शिरसा स तु देवः प्रयच्छति ॥ दृष्ट्वैश्च कृतां पूजां पादक्षै प्रयच्छति ॥४१॥ एकाल्नाभावपगतामन्त्र यान्ति हरिं नगः ॥ तत्र गत्वा ॥ ५ ॥

---
१ 'महद्रस्य' इति क० । २ 'गर्भोदकसमुद्रस्तु' इति ख० । ३ 'नेत्रवार' इति ख० । ४ 'नेयापि च' इति क० ३ 'सर्वेश' इति कः । ६ 'पङ्कज' इति क० ।

नशोचन्ति निवर्तन्तेन चाप्यथ॥४२॥ पूजयित्वा चिरं कालं देवदेवं जनार्दनम् ॥ आदित्यमण्डलं भित्त्वा ब्रह्माणं प्रविशन्ति ते ॥४३ ॥ ततो निरुद्धं देवेशं प्रद्युम्नं चाप्यनन्तरम् ॥ ततः संकर्षणं देवं वासुदेवं ततः परम् ॥ ४४ ॥ वासुदेवं च संप्राप्य मुच्यन्ते सर्ववन्धनैः ॥ श्वेतद्वीपगता स्तस्मान्न निवर्तन्ति कर्हिचित् ॥४५ ॥ पूर्वोत्तरे तु दिग्भागे मध्ये क्षीराणवस्य तु ॥ वैजयन्त इति ख्यातः पर्वतः सर्वकाञ्चनः ॥ ४६ ॥ योजनानां सहस्राणि प्रमाणेन दश स्मृतः ॥ आयामाद्विस्तरोच्छ्रायैः प्रमाणं तस्य कीर्तितम् ॥४७॥ योजनानां सहस्राणि पञ्च तस्य गुहा स्मृता ॥ उच्छ्रिता योजनशतं तावदेव च विस्तृता ॥ ४८ ॥ तिमिरेणावृता द्वारि योजनानां तथा शतम् ॥ स्वप्रभाभरणा दिव्या ततः परतरं हि सा ॥ ४९ ॥ नाम्ना च लोके विख्याता ऋषिभिस्तिमिरार्वती ॥ तस्यां देववरो विष्णुः स्वपन्नास्ते जनार्दनः ॥५०॥ तत्रैवानुपतिष्ठन्ति दिव्यस्तिस्रो महीपते ॥ निद्रा च कालरात्रिश्च लक्ष्मीश्च वरवर्णिनी ॥५१॥ उपास्ते च तं देवं भुवाद्या परमर्षयः ॥ शरीरधारिभिश्चास्त्रैस्तथा तत्र च सेव्यते ॥५२॥ तस्य सुप्तस्य वदनान्निश्वासोच्छासतः क्रमात् ॥ प्रजानां पङ्कयो ह्यर्त्तिनिपतन्ति पतन्ति च ॥ ५३ ॥ तस्योच्छासञ्च जन्तूनां सम्भवः कथितो नृप ! ॥ निःश्वासतश्चैव तथा जन्तूनां मरणं स्मृतम् ॥ ५४ ॥ मध्ये वृत्तस्त्वम्बुदस्य मेरोः पश्चिमतस्तथा ॥ योजनानां तु नियुतं द्वीपस्तु परिमण्डलः॥५५॥ तत्र गोवर्धनस्योक्ता वसतिः सुमहात्मनः ॥ दिव्यानां तत्र धेनूनां वसतिश्च तथा स्मृता ॥ ५६ ॥ सततं कामरूपेण भामिः स रमते हरिः ॥ मध्ये दधिसमुद्रस्य द्वीपस्तावत्प्रमाणतः ॥ ५७ ॥ हेमरूपधरो यत्र नित्यं वसति केशवः ॥ तत्रस्थमेनं पश्यन्ति ऋषयो भूरितेजसः ॥ ५८ ॥ सुरासमुद्रमध्ये तु द्वीपः परमावृतस्ततः ॥ तत्र संकर्षणो देवो विभुश्चास्ते सुराऽसुराः ॥ ५९ ॥ उपतिष्ठन्ति तत्रैनं दिव्यस्त्रीस्तत्र मनोरमाः ॥ कान्तिश्च मदिरा चैव तथा देवी करीषिणी ॥६०॥ तत्रस्थमेनं पश्यन्ति प्रजानां पतयः सदा ॥ दृष्यामण्डलं कृत्स्नमिदं तवोक्तं क्ष्मापालवृन्दारकपूरणचन्द्र ॥ समासतो व्यासगिरामशक्यं वक्तुं महेन्द्रोपि न वर्षपूगैः ॥ ६१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वीपविभागवर्णनो नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥वज्र उवाच ॥ जम्बूद्वीपस्य संस्थानं विस्तरेण महामुने ! ॥ त्वत्तोहं श्रोतुमिच्छामि यत्र जातोऽसि भार्गव ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ अवगाढावुभयतस्समुद्रौ पूर्वपश्चिमौ ॥ जम्बूद्वीपे महाराज ! षडिमे कुलपर्वताः ॥ २ ॥ हिमवान्हेमकूटश्च निषधो नील एव च ॥ मेरुश्च शृंगवांश्चैव सर्व रत्नाकशः शुभाः ॥ ३ ॥ मध्ये तु मण्डलः शैलो नीलस्य निषधस्य च ॥ सौवर्णः कथ्यते मेरुः प्रमाणं तस्य मे शृणु ॥ ४ ॥ चतुरशीतिसाहस्रैः कथिताश्चोच्छ्रयेण च ॥ अधस्तात्षोडशैवोधः षोडशैव तु विस्तृतः ॥ ५ ॥ विस्तारो द्विगुणश्चास्य मूलभूमौ

बि० ध० ॥ ६॥

प्र० सं० अ० ७

मण्डलः स्मृतः ॥ वृन्दपुष्पनिभश्चोर्ध्वं द्वात्रिंशच्चैव विस्तृतः ॥ ६ ॥ विस्तारो द्विगुणश्चास्य तत्राप्यधिकविधिः स्मृतः ॥ मेरोस्तु नवतिः प्रोक्तः सहस्रः पूर्वतो गिरिः ॥ ७॥ योजनानां सहस्रं तु माल्यवान् नाम नामतः ॥ आनीलं निषधं यावत्पार्श्वेन तु तावता ॥ ८ ॥ तावत्प्रमाणो निर्दिष्टः पूर्वतो गन्धमादनः ॥ मेरोस्त्ववततः श्वेतः पूर्वतोऽनन्त उच्यते ॥ ९ ॥ दक्षिणे च तथा पीतः कृष्णः पश्चिमस्तः स्मृतः ॥ अन्तेण स्मृतो विप्रः पूर्वतः क्षत्रियः स्मृतः ॥ १० ॥ दक्षिणेन तथा वैश्यः शूद्रः पश्चिमस्तः स्मृतः ॥ तस्माद्दूर्ध्वा विप्राणां प्राची स्यात्क्षत्रजन्मन ।म् ॥ ११ ॥ दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ॥ प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ॥ १२ ॥ वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना प्रभावती ॥ यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ॥ १३ ॥ प्रोक्ता वै नैर्ऋतौ भागे पुरी पश्चिमदक्षिणे ॥ पश्चिमेन तथा रम्या सुखदा वरुणस्य च ॥ १४ ॥ अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ॥ उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ॥ १५ ॥ अनन्तरं शिवस्योक्ता नगरी शार्ङ्गी शिवा ॥ मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ॥ १६ ॥ विज्ञेयास्ते तु दिक्पालास्तत्संस्थायौ तथा दिशि ॥ देवः स्वर्गे नगरी नित्यं मानसोत्तरमूर्द्ध नि ॥ १७ ॥ मेरुन्तु पश्यति विमुखास्तस्यो मेरुगतां पुरीम् ॥ उदक्‌शुक्लवतोऽधं तु याम्येन कुरुसंज्ञितम् ॥ १८ ॥ वर्षन्तु कथितं दिव्यं गवांपद‌व वर्जितम् ॥ शुक्लवच्छृंगयोर्मध्ये वर्ष ज्ञेयं हिरण्मयम् ॥ १९ ॥ रम्यन्तु वर्ष विझेयं मध्यतः श्वेतनीलयोः ॥ मध्ये निषधनीलायां पश्चाद्वै गन्ध मादनः ॥ २० ॥ केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ॥ मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ॥ २१॥ वर्षे भद्राश्वो नाम नित्यं मुदित मानवः ॥ मेरोश्चतुर्दश नाम्रा वर्षो गजलिलावृतः ॥ २२ ॥ तस्यापि भद्रश्वक्षणे नामतन्तान्निवोध मे ॥ भद्राश्वो जम्बूमालश्च केतुमालुकुव स्तथा ॥ २३ ॥ जम्बूवृक्षस्तु विख्यातो जम्बूमाले तु यादव ! ॥ योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ॥ २४ ॥ तत्फलभ्यः प्रभवति रम्या जांबूनदी शुभा ॥ मेरोः प्रदक्षिणं कृत्वा स्वमुखे मा च नश्यति ॥ २५॥ वृक्षोजन तनदं जम्बूद्वीपं प्रचक्षते ॥ इलावृतन्तु प्रभया मेरो र्नित्यं प्रकाशते ॥ २६ ॥ न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ॥ मेरोः शगवसंमध्यान्नित्यमेव तिरोहितः ॥ २७॥ हेमकूटादुत्तरतो हरिवर्षं प्रचक्षते ॥ हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ॥ २८ ॥ हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ॥ कर्मभूमिरिहोपाल यत्र वर्तमिहे वयम् ॥ २९॥ भारतोऽस्मिन्युगाख्या क्रमेवन विनिर्मिता ॥ वर्षे तु चाय संस्थाने विज्ञेयं दक्षिणात्तरं ॥ ३० ॥ वर्षत्रयं तु


१ 'पद्ममाल्या' इति क० ।

॥ ६॥

विज्ञेयं चतुरस्रं तु मध्यमम् ॥ दीर्घं तथैव विज्ञेयं वर्षाणां च चतुष्टयम् ॥ ३१ ॥ वर्षाणां नवसाहस्रो विष्कम्भः कथितो नृप ॥
योजनानां प्रमाणेन कथितस्तत्त्वदर्शिभिः ॥ ३२ ॥ विष्कम्भः पर्वतानां तु सहस्रादित्य संस्मृतम् ॥ मेगोर्योजनसाहस्रो विष्कम्भः
कथितस्तथा ॥ ३३ ॥ योजनानां तु नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ याम्योत्तरेण तस्येदं प्रमाणं ते मयोदितम् ॥ ३४ ॥ पूर्वापरेण तस्यापि
प्रमाणं शृणु पार्थिव ॥ योजनानां सहस्राणि द्वात्रिंशच्च शतानि च ॥ ३५ ॥ भद्राश्वकेतुमालौ द्वौ प्रत्येकं पार्थिवोत्तम ! ॥ योजनानां सहस्रेण
शतसाहस्रकानि च ॥ ३६ ॥ नवमेरुस्तथा प्रोक्तो गन्धमादनमानतः ॥ मेरोर्नवसहस्राणि माल्यवांश्च निगद्यते ॥ ३७ ॥ मेगोर्योजनसाहस्रो विष्क
म्भः कथितस्तथा ॥ एवमप्येष नियुतं जम्बूद्वीपः प्रकीर्तितः ॥ ३८ ॥ हिमाचले यक्षवरा निविष्टा दैत्यप्रधानाः खलु हेमकूटे ॥ गन्धर्वमुख्या
निषधे च शैले नागा निविष्टाश्च तथैव नीले ॥ ३९ ॥ श्वेते पितॄणां च गतिर्निदिष्टा सिद्धास्तथा शृङ्गवतश्च पृष्ठे ॥ सेन्द्रास्तथा देवगणाश्च मेरौ
क्रीडाविहारेण सदा वसन्ति ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जम्बूद्वीपवर्णनो नाम सप्तमोऽध्यायः ॥ ७ ॥ ॥
॥ वज्र उवाच ॥ भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ॥ कर्मभूमिरिषु मर्त्यानां वर्षं भार्गव ! भागवत् ॥ १ ॥ मार्कण्डेय उवाच ॥ भारतस्यास्य
वर्षस्य नव भेदाः प्रकीर्तिताः ॥ अष्टभिर्गिरिभिश्छन्ना येत्वाख्याः परस्परम् ॥ २ ॥ हिमाचलसमुद्देशे गीयन्ते व्यवस्थितः ॥ ग्राम्योत्तरेण
राजेन्द्र नामतस्तान्निबोध मे ॥ ३ ॥ स्वमाली हेममाली च शम्भुः कान्तस्तथापरः ॥ वैडूर्यपर्वतश्चैव रजतो मणिमान्भवः ॥ ४ ॥ इन्द्रद्युम्नः कदे
तश्च ताम्रवर्णो गभस्तिमान् ॥ गगोद्धेपरतथैवान्यो गान्धर्वस्त्वथ वारुणः ॥ ५ ॥ तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ॥ अस्मिन्मन्वन्तरे
क्षितः सागैश्च चतुर्दिशम् ॥ ६ ॥ वैडूर्यपर्वतः पूर्वसुत्तेणेण हिमाचलात् ॥ पश्चाच्च काञ्चनगिरिर्दुरुडंव च लावण तात् ॥ ७ ॥ वेष्टितः सागरः सर्वो
नानास्तत्त्वाश्रयो नृप ! ॥ हिमालयः सागरेस्तु कृतो देशइयस्तथा ॥ ८ ॥ लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ॥ पुरी लंका सन्निविष्टा
यस्यां वै रावणो हतः ॥ ९ ॥ लवणेन च संयुक्तः समुद्रो लवणो यतः ॥ हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ॥१०॥ तत्रास्ति शैलप्रवरो
द्वितीयो गन्धमादनः ॥ श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः ॥ ११ ॥ एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ॥ हिमाचलस्य मध्ये तु कैलासो
नाम पर्वतः ॥ १२॥ हिमवत्येव विख्यातो नरनारायणाश्रमः ॥ यत्र सा बदरी रम्या नानाशकुनिसंसेविता ॥१३॥ उष्णतोयवहा गङ्गा श्‍वेततोयवहा


१-‘नामतः’ इति ख० ।

वि० ध०

प्र० खं० अ० १०

॥ ७ ॥

परा ॥ सुवर्णसिकता राजंस्ताम्रस्फटिकशोभिता ॥ १४ ॥ इत्येते कथिता द्वीपाः प्राधान्येन तवानघ ॥ एतेषामंतरे द्वीपाः शतशोथ सहस्रशः ॥१५॥
न ते वर्णयितुं शक्या वर्षाणां तु शतेरपि ॥ विवर्जयित्वा भारतस्य वर्षं वर्षेषु सर्वेषु नरेंद्रसिंह ॥ निरामया वीतमया मनुष्या वर्षेषु सर्वेषु तथैव
चोक्ताः ॥ १६ ॥ आयुःप्रमाणं लभते हि राजन् द्वीपेषु सर्वेषु नरो मयोक्तम् ॥ कृत्वा शुभं कर्म तु भारतेऽस्मिन्द्वीपेषु सर्वेषु नराः प्रयान्ति ॥
॥ १७ ॥ वृक्षेषु तेषां प्रभवन्ति कामाः स्त्रियश्च तेषामपि रूपवत्यः ॥ दण्डश्च तेषां च न दाण्डिकोऽस्ति सन्मार्गगंस्तेऽपि तथा च राजन् ॥१८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भारतवर्षवर्णनं नामाऽष्टमोऽध्यायः ॥ ८ ॥ ॥ वज्र उवाच ॥ श्रोतुं जनानिहेच्छामि
सागरद्वीपवासिनः ॥ प्राधान्येन मुनिश्रेष्ठ विस्तराद्विस्तरो यतः ॥ १ ॥ मार्कण्डेय उवाच ॥ पाञ्चालाः कुरवो मत्स्या यौधेयाः सर्वटम्बराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥ २ ॥ वृषध्वजांजनाः पद्माः सुह्या मगधचेदयः ॥ काशयश्च विदेहाश्च पूर्वस्यां कोसलाः
स्तथा ॥ ३ ॥ कलिङ्गाङ्गपुण्ड्राश्चैवाङ्गा मूलकास्तथा ॥ विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः ॥ ४ ॥ पुलिन्दाश्मकर्जोलस्तथा[१]
निवासिनः ॥ कर्णाटका भोजकट्या दक्षिणापथवासिनः ॥ ५ ॥ अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ॥ आनन्तवानसिन्ध्वश्च
ज्ञेया दक्षिणापश्चिमे ॥ ६ ॥ सौराज्यं सैन्धवा म्लेच्छा नास्तिका यवनास्तथा ॥ पश्चिमेन च विज्ञेयाः पदमानौनंधः सह ॥ ७॥ माण्डव्याश्च
तुषाराश्च मूलिकाश्च सुपाः खशाः ॥ महाकेशा महानासा देशास्तूत्तरपश्चिमे ॥ ८ ॥ लम्पास्तालोचनाश्च मल्लाश्चान्धराजहुताः ॥ हिमवन्निलया
म्लेच्छा ह्युदीचीं दिशमाश्रिताः ॥ ९ ॥ त्रिगर्तमार्नकोलूता ब्रह्मपुत्रास्ततर्गणाः ॥ अभिसाराश्च काश्मीरौंगाश्चोद्धपूर्वर्ण कीर्तिताः ॥ १० ॥ गज
न्हूसागर्दपा प्रधाना वसुधाधिपाः ॥ भवतेहं प्रवक्ष्यामि दिग्दर्शनं निबोध ततः ॥ ११॥ पश्चात्नाथा मगधाधिपश्च कलिङ्गराट् भाञ्कटश्चाथ ॥
अनन्तः सैन्ययुक्तस्तूप्रागो महेश्वरश्चाथ कुलप्रनाथः ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णना नाम
नवमोऽध्यायः ॥ ९ ॥ वज्र उवाच ॥ निवेदितान्ससागरे द्वीपे सप्ताहे कुलपर्वतान् ॥ नामतः श्रोतुमिच्छामि तन्प्रसूताश्च निम्नगाः ॥ १ ॥
मार्कण्डेय उवाच ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ विन्ध्यश्च पारियात्रश्च सप्तमी मन्दुकुलपर्वताः ॥ २ ॥ विमोषा ऋपिकुल्याश्च इक्षुणा
त्रिदिवालया ॥ लांगूलिनी वंशधरा नद्यस्त्वता महेन्द्रजाः ॥३ ॥ कृतमाला ताम्रपर्णी पुष्पजा चोत्पलावती ॥ शीतौदका गिरिव्रता नद्यो मलयन


१ 'निलया देशाः' इति ख० । २ 'विख्याता' इति क० ।

॥ ७ ॥

म्भवाः ॥४॥ तुङ्गभद्रा सुप्राकारा वाह्या कावेरिका तथा ॥ दक्षिणापथमध्यस्था सह्यपादविनिःसृताः ॥ ५ ॥ ऋषिका सुकुमारी च मन्दागा मन्दवा- सिनी ॥ नृपमाला शिरी चैव शुक्तिमत्पादनिःसृताः ॥ ६ ॥ मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ॥ तमसा पिप्पला चेति ऋक्षवत्पादनिः- सृताः ॥७॥ वेणी वैतरणी चैव नर्मदा च कुमुद्वती ॥ तोया सेतविशल्या चैव विन्ध्यपादविनिःसृताः ॥८॥ पारा चर्मण्वती पाशा विदिशा वेणुमत्यपि ॥ सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः ॥ ९॥ नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसंविताश्च ॥ सन्तीह नद्यश्च सहस्रशोऽन्याः वक्तुं न शक्या यदुनन्दनार्थ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सतार्गिधुर्वन्दनवर्णनो नाम दशमोऽध्यायः ॥ १० ॥ वज्र उवाच ॥ हिमवत्पादसम्भूताः पुण्या ब्रह्मर्षिनिषेवतः ॥ प्राधान्येन समाचक्ष्व नद्यः पापभयापहाः ॥ १॥ मार्कण्डेय उवाच ॥ कौशक्यवंसलिला कुशेशयविमिश्रिता ॥ कौशिकस्य प्रिया नित्यं कौशिकी निम्नगोत्तमा ॥ २ ॥ निमज्जतापसंधौघनिर्मलीकरणे शुभा ॥ निश्चरा निष्प्रभा श्रेष्ठा नित्यं मुनिजनप्रिया ॥३॥ गजेन्द्रभिन्नांकूला तु गङ्गातुल्या च पुण्यतः ॥ गन्धर्व्वगणगीता च गण्डकी गोकुलाकुला ॥ ४ ॥ लोकानां पापनाशार्थं लोकनाथेन निर्मिता ॥ लोकदृष्टिमनेोहारी लोहित्यश्च महानदः ॥५॥ दिवः सेव्या सदा विप्रैर्दिवि देवगणैयथा ॥ दृषद्वती समाकीर्णा दर्शनीयादका तथा ॥ ६ ॥ बहुदा बहुसत्त्वाऽथ मेना च प्रलयक्षमा ॥ अनवच्छिन्नप्रवाहा तु लिकितस्य च बाहुदा ॥७॥ धर्मप्रदा सेवकानां धूतपापा महानदी॥ गोमती गोकुलाकीर्णा गजेन्द्रगणगाहिता ॥ ८ ॥ गन्धर्व्वगीतगंभीरा गणऋषणैर्युता ॥ कुङ्कुदम्बकणत्केकारुताविनादिता ॥ ९ ॥ कुमुदोत्पल कहारकुसुमैराकुलोदका ॥ देवदेवस्य या देवी दयिता शङ्करस्य चा ॥ १० ॥ देविका सा पुरा राजन् देवलोकगतिमप्रदा ॥ विस्तार्तितमहाकूला विषमद्वीप वाजिता ॥ ११ ॥ विष्णुलोकप्रदा देवी वितस्ताद्यैघविनाशिनी ॥ चन्द्रभागा च चन्द्रांशुचारुशीतजलाविला ॥ १२ ॥ चन्द्रलोकप्रदा स्नाने चामरत्वप्रदायिनी ॥ १४॥ सरोजाकुलतीर्था च सरयूः सरितां वरा ॥ १३ ॥ सततं सेविता सद्भिः सोमोलोकमभीप्सुभिः ॥ इन्द्रेमभेसंवितातट्य इन्द्रलोक प्रदायिनी ॥ १४ ॥ इन्दीवराकुलजला तथा देवी इरावती ॥ विरिष्टपाशाविच्छेदे विपाशा कुशला तथा ॥ १५ ॥ तथैव सर्वपापानां विपाकैकका रिणी नृणाम् ॥ वशिष्ठाविद्रुता देवी शतद्रुर्तगगामिनी ॥ १६ ॥ रौद्रणामपि सत्त्वानां रुद्रलोकप्रदा शिवा ॥ कृष्णेन कृष्णतोया च बाल्ये पीतपयो धरा ॥ १७॥ यमस्वसा च यमुना याम्यदुःखविनाशिनी ॥ सप्तप्रकारा च नदी तथा देवी सरस्वती ॥१८॥ तस्याः सप्तसु भागेषु नामानि शृणु


१ 'वीणा' इति ख० । २ 'विपाप' इति क० ।

प्र० खं० अ० ३२

मे नृप ! ।। सुप्रभा कातराक्षी च विशाला मानसह्नदा ।। १९ ।। सरस्वत्योघनादा च सुवेणुर्विमलोदका ।। पुष्करे नैमिषे चैव गयायां कोशलेषु च ॥ २० ॥ कुरुक्षेत्रे क्रमाज्ज्ञेया गङ्गाद्वारे हिमाचले ।। नद्यस्तथैता हिमवत्प्रसूताः प्रधानभूताः कथिता नृवीर ! ।। उक्ताश्च नद्यश्च सहस्रशोऽन्याः सर्वाः पवित्रा ऋषिवर्यजुष्टाः ।। २१ ।। वर्षस्य तस्यापि तथान्तरेऽस्मिन्सप्तप्रकारा च त्रिमार्गगापि ।। द्वौपं प्रविष्टा भरतस्य राजन् भगीरथा- राधितपद्मजोत्था ।। २२ ।। इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हिमवद्वर्णनं नामैकत्रिंशोऽध्यायः ।। ३१ ।। ॥वज्र उवाच ।। भारतस्यास्य वर्षस्य भेदमिच्छाम्यहं प्रभो ।। किमर्थं सागरः खातः स कृतः सगरेस्तथा ।। १॥ मार्कण्डेय उवाच ।। भारतस्यास्य वर्षस्य भेदोऽस्मिन्रुच्यते नृप ! ।। नवमे च दिशां भागे पूर्वस्यां दिशि यादव ।। २ ।। कोशलो नाम विषयः प्रभूतरथवान्चयान् ।। स्फीताम्नायगुणाढ्यास्ति नित्यं मुदित मानवः ।। ३ ।। पयस्विन्वयः पयस्विन्यो यत्र सस्यवरा धरा ।। मनोभिरामा रामाश्च पुरुषाः पौरुषाग्रयाः ।। ४ ।। विद्वज्जनभृयिष्ठा सर्वपुण्य समाकुला ।। नगरैर्न विशिष्ट्यन्ते यत्र ग्रामा मनोहराः ।। ५ ।। गवां प्रवेशे सायाह्ने यत्र ग्रामेषु भास्करः ।। धूलिपुञ्जायोगक्षितः वनसाद्वायुर्विरा जितः ।। ६ ।। पश्चिमे प्रथमे चैव यत्र यामे विराजितः ।। रात्रौ ब्रह्मध्वनिस्तत्र तिष्ठतीव नभस्तलम् ।। ७ ।। फलावन्नतशाखाढाच्छाद्याद्युमत्समा कुलाः ।। प्रपाकूपतडागाढ्याः पन्थानो यत्र यादव ! ।। ८ ।। व्याधितस्तर्कुमिक्षपन्नगगृहभयानि च ।। जना गत्र न जानन्ति नाकालमरणं तथा ।। ९ ।। यूपचिता मही यत्र देववेश्मवतंसिका ।। यत्रोत्पललसत्कार्ष्णिवर्गवापीविभूषिता ।। १० ।। उद्यानेषु मदा यत्र वेणुगानध्वनिःस्वनः ।। शिलीमुखरवैमिश्रं यात्यसंभावतां गुणैः ।। ११ ।। यस्मिन्न कश्चिच्च्यवते स्वधर्मार्हनो जनो यत्र न चास्ति कश्चित् ।। न नेत्रहीनो विकलेन्द्रियो वा वसुन्धरा यत्र यथार्थनामा ।। १२ ।। इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कोशलवर्णनो नाम द्वात्रिंशोऽध्यायः ।। ३२ ।। मार्कण्डेय उवाच ।। कोसलाविवये स्फीते तस्मिन्मनुजपुङ्गव ! ।। देवानमप्ययोध्यास्ति त्वयोध्यानामतः पुरी ।। १ ।। प्राकारपङ्क्तोपता सरयूतीरशोभिता ।। शोभिता भवनैर्मुख्यैः सुविभक्तमहापथा ।। २ ।। नित्यप्रमत्तमातङ्गजनाचलसद्भिर्भिः ।। दवनागकुलोत्पन्नैः शतसंख्यैरधि ष्ठिता ।। ३ ।। नितांतवक्त्रैस्तुरंगैः सुकुणश्च मनोजवैः ।। दीर्घग्रीवाश्चकूटैश्च महाराजैरनुष्ठिता॥४॥ पद्ममन्भववर्णाङ्ग्यः पुंजनद्रनिनभास्तनाः ।। मंदलोधो ष्टास्रकुशला यत्र वेश्याः सहस्रशः ॥ ५ ॥ न नतृष्यनं न मा विद्या न तच्छिल्पं न मा क्रिया ।। अयो यां प्राप्य यन्त्यार्थी निराशः प्रतिगच्छति ।। ॥ ६ ॥ उद्यानशतसंवाधा समाजोत्सवशालिनी ।। अंगर्गविपुला सर्वतर्कविवर्जिता ।। ७॥ वणवाणवुसुङ्गानां शब्दैः मत्तगनादिता ।। मडा प्रवृष्ट

वि० ध० ॥ ८ ॥

मनुजा बहुरत्नोपशोभिता ॥ ८ ॥ ब्रह्मघोषमहाघोषा द्विजवृन्दोपशोभिता ॥ साज्यधूमोद्गमोऽनेन वायुना नद्यकल्मषा ॥ ९ ॥ सुगन्धिधूपविक्षेप- सुरभीकृतमारुता ॥ सुगन्धिमनुजाकीर्णा नित्यमापणवीथिषु ॥ १० ॥ यत्र दीनो जनो नास्ति मलिनः क्षुधितोऽपि वा ॥ वेदनिन्दापरः क्षुद्रो भिन्नसेतुर्न नास्तिकः ॥ ११ ॥ विस्तीर्णा दश मध्ये च योजनानां महापुरी ॥ सरयूतीरमाश्रित्य योजनत्रयमायता ॥ १२॥ मन्वन्तरेऽस्मिन्पुनरेव राज्ञा विनिर्मिता सा मनुना नृवीर ! ॥ मन्वन्तरं येन जगत्समग्रं पाल्यं यथावद्वदबुद्धनाथ ! ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क- ण्डेयवज्रसंवादे अयोध्यावर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ॥ मार्कण्डेय उवाच ॥ वैवस्वतेन मनुना येन सा निर्मिता पुरी ॥ स तु कृत्वा चिरं राज्यमिक्ष्वाकुमभिषिच्य च ॥ १ ॥ पुत्रे भारं समावेश्य सशरीरो दिवं गतः ॥ ततस्त्यः पाल्यन्नास्ते त्रैलोक्यं सचराचरम् ॥ २ ॥ तेन मन्वन्तरं सर्वं पालनीयमिदं जगत् ॥ इक्ष्वाकुस्तस्य तनयः पालयामास मेदिनीम् ॥३॥ धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः ॥ सुदक्षः सर्व- भूतानां नयापनयकोविदः ॥ ४ ॥ ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ॥ देवमन्त्रप्रभूतसाहस्रिशक्तिभिश्च समन्वितः ॥ ५ ॥ पाङ्गुण्यविन्महोत्साहः स्मितपूर्वाभिभाषणः ॥ युक्तदण्डो न निर्दण्डो न च दण्डरतिस्तथा ॥६॥ वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजी तपोरतिः ॥ अक्रूरहृदेलोऽभिमतः सर्वसत्त्वेषु न हिंसकः ॥ ७ ॥ मान्यो मान्यतां शक्त्यः सुहृः पूज्यप्रपूजकः ॥ कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ॥ ८ ॥ नित्यं शरीरप्रभवा रिपवस्तेन षड् जिताः ॥ सर्वत्र विधिना दृष्टयः सुभगः प्रियदर्शनः ॥ ९ ॥ बहुधान्यो बहुधनो बहुनागाश्वपूरुषः ॥ अयोध्यानिलयो नित्यं देवा- रिगणदर्पहा ॥१०॥ स तदा पालयामास पुत्रवत्सकलाः प्रजाः ॥ नाधर्मः कश्चिदप्य्यासीत्प्रतिस्वम्व्रजनि मानवः ॥ ११ ॥ दीनो वा व्यथितो वापि स्वल्पायुर्वा च दुःखितः ॥ मूर्खो वा मन्दरूपो वा दुर्मगो वा निराकृतिः ॥१२॥ एकत्र देहे सकलं गुणौघं द्रष्ट्वाहमित्येव विशुद्धबुद्धिः ॥ ससर्ज यं राजवरं महात्मा प्रजापतिः सर्वजगत्प्रधानः ॥१३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इक्ष्वाकुकुलवर्णनं नाम चतुर्दशोऽध्यायः॥ ॥१४॥॥॥॥ मार्कण्डेय उवाच ॥ इक्ष्वाकोरभवत्पुत्रो विकुक्षिश्राम धार्मिकः ॥ ककुत्स्थस्तत्तनयस्तस्य चानेनास्तस्य चात्मजः ॥१॥ तस्य पुत्रः पृथुः श्रीमान् विश्वदंस्तस्तदात्मजः ॥ तस्य श्रावस्तको नाम श्रावस्ती येन निर्मिता॥२॥ वृहदश्वः सुतस्तस्य कुवलाश्वस्तदात्मजः ॥ कुवलाश्वो महातेजा धुन्धुमारत्वमागतः ॥ धुंधुं हत्वा महाकायमुदके जलराक्षसम् ॥ ३ ॥ वज्र उवाच ॥ कथं धुंधुर्महातेजाः कुवलाश्वेन घातितः ॥ कश्चायं धुंधुरित्येष विश्रुतो जलराक्षसः ॥ ४॥ मार्कण्डेय उवाच ॥ एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥ ५ ॥ नष्टचन्द्रार्कपवने विनष्टद्युहतारके ॥ शेषपर्यङ्कमासाद्य

वि० ध०
प्र० खं०
अ० १६

॥ ९ ॥

सुप्तो देवो जनार्दनः ॥ ६ ॥ नाभौ तस्य समुत्पन्नं देवस्य कमलं शुभम् ॥ तत्र जज्ञे स्वयं ब्रह्मा देवः शुभचतुर्मुखः॥७॥ तत्रास्ते सोऽभ्यसन्वेदान्स्तुते
देवं जनार्दने ॥ उपासांचक्रिरे तस्य वेदा देहभृत्तस्तथा ॥ ८ ॥ वेदाभ्यासस्ते तत्र स्वेदबिन्दुरजायत ॥ सप्तमपद्मत्रामासाद्य द्विधाभूतोऽभवन्नृप ॥ ९ ॥
रजस्तमोमयो तस्माज्जातौ दैत्यौ बलोत्कटौ ॥ मधुकैटभनामानौ महाबलपराक्रमौ ॥ १० ॥ ततस्तौ जह्रतुर्वेदान्ब्रह्मणः पापिनिश्चयौ ॥ सशरीरेषु
वेदेषु हतेष्वथ पितामहः ॥ ११॥ बोधयामास देवेशं पद्मानाभं स चानघः ॥ स विबुद्धस्तदा देवः कृत्वा हयशिराेपरम् ॥ १२ ॥ शशाङ्कशंतसङ्काशं
नानाशस्त्रशोभितम् ॥ द्वितीयेन शरीरेण रसातलगते गतः ॥ १३॥ तेनाश्वशिरसा गत्वा वेदानादाय शाश्वतान् ॥ पितामहाय प्रददौ भूय
एव जगद्गुरुः ॥ १४॥ ततो हयशिराेचारी गतोऽन्तर्धानमीश्वरः ॥ आजग्मतुस्ततो देशं दानवौ मधुकैटभौ ॥ १५॥ विष्णुञ्चकार देहौ द्वौ विष्णुर्जिष्णु
रिति स्मृतौ ॥ मधुना युयुधे जिष्णुर्विष्णुर्वै कैटभेन च ॥ १६ ॥ ततस्तयोः सुयुद्धेन तुष्टो देवो जनार्दनः ॥ उवाच तौ महाकायौ दानवौ मधु
कैटभौ ॥ १७ ॥ वरं वरयतां श्रेष्ठं भवन्तावपराजितौ ॥ तावूचतू ततो देवं विष्णुं कमललोचनम् ॥ १८ ॥ प्रतोऽस्माकं भवेद्देव महाबलपराक्रमः ॥
पुत्रे जाते तु यौ तौ द्वौ विष्णुना जिष्णुना पुरा ॥ १९ ॥ निहतौ च तदा वीरौ ह्युदकं च समाश्रितौ ॥ मेदो सुचुवतुस्तत्र स्याता येनामवन्मही ॥
॥ २० ॥ मेदिनीति ततः ख्याता लोकैर्विस्तारविन्तकैः ॥ वाराहरूपेण तदा चोद्धृता वसुधा ततः ॥ २१ ॥ तेनैव देवदेवेन पूर्वस्थाने निवे
शिता ॥ सर्गं चक्रे ततो ब्रह्मा देवदेवस्य शासनात् ॥ २२ ॥ एवं तदा देववरस्य युद्धे निपातितौ तौ मधुकैटभाख्यौ ॥ देवस्य विष्णोः सदनं प्रयातौ
क्षीरार्णवे तस्य समीपगौ च ॥ २३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मधुकैटभवधोपाख्यानं नाम पञ्चदशोऽध्यायः ॥ १५ ॥

॥ मार्कण्डेय उवाच ॥ भारतस्यास्य वर्षस्य भागेऽस्मिन्प्रबवे नृप ! ॥ समुद्रो वालुकापूर्ण उमानक इति श्रुतिः ॥ १ ॥ तस्य मंध्ये
समुद्रस्य भृगुप्रथपतेः सदा ॥ संवत्सरस्य सोऽन्ते तु महोच्छ्वासं प्रमुञ्चति ॥२॥ यदा तदा भृः स्खलति सहैलवनकानना ॥ प्राणिनो यदल्पसत्त्वाश्च
ते यान्ति यमसादनम् ॥ ३॥ यदा विबुद्धो भवति किञ्चिच्छेया मही तदा ॥ आहारार्थं करोत्युग्रः पापालया जलान्धसम् ॥ ४ ॥ एतस्मिन्नेव काले
तु चोतङ्कस्तप्यते तपः ॥ तपसोऽन्ते महात्माने दर्शनं मधुसूदनम् ॥ ५ ॥ तमुवाच हरिर्देवो वरं वय भार्गव ! ॥ उतंकः प्राञ्जलिर्भूत्वा तुष्टाव
मधुसूदनम् ॥ ६ ॥उवाच वरदं देवमथ एव करो मम ॥ यदहं देवदेवस्य दृष्टवांश्चरणाम्बुजौ ॥ ७ ॥ श्रीभगवानुवाच ॥ अवश्यं ते वरो देयो मया
भृगुकुलोद्वह ॥ अजरामरश्चैव मत्प्रसादाद्भविष्यसि ॥ ८ ॥ यत्रेच्छसि जलं तत्र भविष्यति तथा तव ॥ देवतानां महत्कार्यं तथैव च

॥ १ ॥

करिष्यसि ॥ ९ ॥ आश्रमस्यास्य ते बाधां यः करोति सदानघ ॥ कुवलाश्वेन तं गत्वा धुंधुं घातय मा चिरम् ॥ १० ॥ अहं चास्य प्रवेक्ष्यामि कुवलाश्वस्य विष्ण्वहम् ॥ तेजसा स मदीयेन धुंधुनाजो हनिष्यति ॥ ११ ॥ न ह्यल्पतेजसा हन्तुं धुंधुः शक्यो भृगूत्तम ! ॥ मार्कण्डेय उवाच ॥ एतावदुक्त्वा भगवान् गतोऽन्तर्धानमीश्वरः ॥ १२ ॥ जगाम च तथायोध्यां सुतपेकोऽपि महातपाः ॥ पूजितो बृहदश्वेन बृहदश्वमभाषत ॥ १३ ॥ उत्तङ्क उवाच ॥ कथं निद्रासि राजेन्द्र सुतं पर्यङ्कमाश्रितः ॥ धुन्धोश्चारितमालोक्य वद्धकक्षो भवाधुना ॥ १४ ॥ वचनान्मम गजेन्द्र धुंधुं हन्तुं त्वमर्हसि भोः ॥ शक्तिः किञ्चुभमाज्ञाज्ञां दुष्करं ते पुनः कथम् ॥ १५ ॥ जहि धुंधुं महाकायं नृपते द्विजबाधकम् ॥ श्रुत्वा मुनिवचो राजा कुवलाश्वमभाषत ॥ १६ ॥ अहं वनमवृत्तस्तु त्यक्तदण्डस्तथैव च ॥ जहि त्वं दानवं श्रेष्ठं त्वत्सुतेङ्केन पालितः ॥ १७ ॥ एवमुक्तः परिष्वक्तः पित्रा प्रकृतिवत्सलः ॥ उत्तङ्कसहितो गत्वा धुंधूत्पादकशलभ् ॥ १८ ॥ युयुधे तं च धर्मात्मा धुंधुं तेनैव केशवः ॥ उत्तङ्कात्सुमते पश्चाद्बलेन जघान तम् ॥ १९ ॥ हत्वा तं राक्षसं लेभे त्रिदशेभ्यस्तदा वरान् ॥ कृष्णे भक्तिं स्थितिं धर्मे वासं स्वर्गे तथाक्षयम् ॥ २० ॥ मयुतैकैरभ्ययैः पुत्रै घातयित्वा नराधिप ॥ धुन्धुमारत्वमगमच्छोभत तथा पुरीम् ॥ २१ ॥ तस्मिन्हते दैत्यवरे प्रसन्ना दिशो बभूवुर्मुदिताश्च देवाः ॥ विनष्टविध्वं च जगतद्गता गजा च कीर्त्ति परमामवाप ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे धुंधुमारोपाख्यानं नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ मार्कण्डेय उवाच ॥ धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ॥ निकुंभस्तस्य तनयः संहितश्च तदात्मजः॥१॥ भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः॥ देवेन विधिना राजा जातस्तस्यैव चोदरात् ॥ २ ॥ पुरुकुत्सः सुतस्तस्य त्रसदस्युस्तदात्मजः ॥ शम्भूतस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः॥३॥ रावणेन हतो योऽसौ त्रैलोक्यविजयी पुरा ॥ दृढाश्वः सुतस्तस्य तस्माद्धुम्नमना नृपः ॥ ४ ॥ तस्य पुत्रस्त्रय्यारुणस्तस्मात्त्रय्यारुणिः स्मृतः ॥ तस्य सत्यव्रतः पुत्रः त्रिशङ्कु च प्रचक्षते ॥ ५॥ हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ॥ हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ॥ ६ ॥ विजयस्तस्य तनयश्चालिकेतस्तस्य चात्मजः ॥ अर्कस्तस्य वुकः पुत्रस्तस्माद्वाहुस्तु जज्ञिवान् ॥७॥ पातनश्चित्तगुणायोध्यां स बहुव्यसनानन्वितः ॥ व्यसने तस्य सक्तस्य नरेन्द्रस्यारिमस्तदा ॥ ८ ॥ हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ॥ छलेनापहृतं राज्यं हतराज्यो वनं गतः ॥ ९ ॥ पद्मभ्यामभ्युयौ तस्य वनं भार्या गुणान्विता ॥ गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ॥१०॥ ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ॥ जातपुत्रो नरपतिः संयुक्तः कालकर्मणा ॥ ११॥ अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला ॥ संस्कृतः सर्वसंस्कारैः सगर श्च्यवनेन च ॥१२॥ शास्त्राण्यथ धनुर्वेदं नीतः पारं

तथा परम् ॥ स यौवनमनुप्राप्य एक एव नराधिपः ॥ १३॥ पदातिर्बर्हिनिस्त्रिंशश्च्यवनस्य प्रसादतः ॥ हैहयांस्तालजंघांश्च निजघान परन्तपः ॥ १४॥ तातस्तवोध्यां सम्प्राप्य लेभे राज्यमकण्टकम् ॥ सग॒रो राज्यमासाद्य बलेन चतुरङ्गिणा ॥ १५॥ विजित्य सकलान् म्लेच्छान्वशं चक्रे च पार्थिवान् ॥ विजित्य पृथिवीं कृत्स्नां प्राप्य राज्यमकण्टकम् ॥ १६ ॥ च्यवनं पूजयामास सत्कारेण पुनःपुनः ॥ च्यवनेनाम्यनुज्ञातः स चक्रे दारसङ्ग्रहम् ॥ १७ ॥ आसीद्भार्याद्वयं तस्य सगरस्य महात्मनः ॥ स ताभ्यां सहितो राजा पुत्रार्थं तप्तवांस्तपः ॥ १८॥ तपसोऽन्ते हरः प्राह राजानं तपसा कृशम् ॥ एकं वंशकरं पुत्रमेका ते जनयिष्यति ॥ १९॥ षष्टिः पुत्रसहस्राणि द्वितीया जनयिष्यति ॥ एवं लब्ध्ववरो राजा सभाय्यः स्वपुरं गतः ॥ २० ॥ पुत्रं पुत्रांश्च धर्मात्मा जनयामास वीर्यवान् ॥ कर्मणा चैव नाम्ना च राजपुत्रोऽसमञ्जसः ॥२१॥ पित्रा विवासितो राज्यादपगोब्राह्मणि हिते रतः॥ तस्य पुत्रोंशुमान्नाम सर्वैः समुदितो गुणैः ॥ तोषयामास पितरं पितुः पृथ्वपतिं च सः ॥ २२ ॥ पौत्रेण तेनान्वः सेव्यमानः पुत्रैर्महावीर्यपगक्रमैश्च ॥ स गूज्य त्राजवरो जितारिः शशास पृथ्वीं सकलां महात्मा ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सग॒रोपाख्यानं नाम सप्तदशोऽध्यायः ॥ १७ ॥

॥ मार्कण्डेय उवाच ॥ सगरस्य तु ते पुत्रास्सहता वीर्यसंयुताः ॥ मंजाता देवयोगेन देवब्राह्मणकंटकाः ॥ १ ॥ तेषां तु कर्मणोद्विग्ना देवाः सर्वे पितामहम् ॥ अब्रुवन्त्सामरैः सर्वैर्देव वाच्याम संहतेः ॥२॥ एवमुक्तस्तदा ब्रह्मा मर्वलोकपितामहः ॥ उवाच देवान्सकलान्सागैरैः प्रत्यपीडितान् ॥ ३ ॥ यस्यस्य जगतो नाथः परमात्मा मनातनः ॥ बासुदेवः स कपिलः सुतान्थान् घातयिष्यति ॥ ४ ॥ एवमुक्ताः सुगस्तेन ययुः सर्वे त्रिविष्टपम् ॥ एतस्मिन्नेव काले तु सगरः स महीपतिः ॥ ५ ॥ दीक्षिता वाजिमेधाय विविधैर्वेदपारगैः ॥ तुरंगं चाप्यगामस्यर्जिग्यं तनया महीम् ॥ ६ ॥ तेषां चायतां सोऽश्वः कपिलेन तथा हृतः ॥ कपिलेन हते नाश्वं ते जानन्ति विमोहिताः ॥ ७ ॥ अन्वेषन्तोऽपि यत्नतनापुस्ते तुरगं यतः ॥ पित्रे निवेद्य ते सर्वं नित्रतङ्गुः पृथिवीतलम् ॥ ८ ॥ माग्मन्यास्य वर्षस्य मंडंडस्मित्रवत्स नृप ! ॥ समन्ततस्ततश्चक्रुः खातमर्कमर्लन्विताः ॥ ९ ॥ विलोक्यमानास्तं प्रातालतलगामिनम् ॥ वैदूर्यपर्वतनीपूर्वेऽनुतंग हिमवान्स्यात ॥ १० ॥ पश्चाचं काञ्चनगिरङ्गद्गव च लावणाल ॥ हिमाचलग्व नवैर्येः गजैरूदेश्व संस्थैः क्षतः ॥ ११ ॥ हिमाचलम्य खण्डश्च खातस्यानन्तः प्रवेशितः ॥ उत्तरः नागमानस्ममाडिम शैलेन दुर्गमः ॥ १२ ॥ एवंविधेन खातंन ते प्रविश्य पृथक्पृथक् ॥ एकीकृता देवयोगान्मत्पिले यत्र वै स्थितः ॥ १३ ॥ कपित्थन्य ममीपस्थं ददृशुस्ते तुरङ्गमम् ॥ तुरङ्गमहितं दृष्ट्वा कपिले ते त्वमर्षिताः ॥ १४ ॥ कुद्दालैर्लगुडैश्चाद्धेन्नानाम्य जग्मुर्वेगवत्तया ॥ तान्वावधानानन्दुष्टीनमं