भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

७२ याज्ञवल्क्यस्मृतिः पिशुनः परदोषस्य ख्यापकः, अनृती मिथ्यावादी, चक्रिकस्तैलिकः, शाकटिक- श्लेष्येके । 'अभिशस्तः पतितश्चाक्रिकस्तैलिक' इति भेदेनाभिधानात् । बन्दिनः स्तावकाः, सोमविक्रयी सोमलताया विक्रेता, एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कदर्यादयो द्विजा एव कदर्यत्वादिवदोषदुष्टा अभोज्यान्नाः । इतरेषां प्राप्यभावा- त्प्राप्तिपूर्वकत्वाच्च निषेधस्य ॥ १६४-१६५ ॥ भाषा—निर्दयी, राजा, रंगरेज, कृतघ्न, वधिक, धोबी, मद्य बेचने वाले कुलाल, जिसके घर में जार निवास कर रहा हो उस पुरुष का, दूसरे का दोष फैलाने वाले, झूठ बोलने वाले, तेली या गाड़ीवान, बन्दीजन एवं सोमलता के विक्रेता का अन्न नहीं खाना चाहिए ॥ १६४-१६५ ॥ 'अग्निहीनस्य नान्नमाद्यादनापदि' (आचार. १६०) इत्यत्र शूद्रस्याभोज्या- न्नत्वमुक्तं, तत्र प्रतिप्रसवमाह— शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः। भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥ १६६ ॥ दासा गर्भदासादयः। गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमायातः । अर्धसीरी हलकर्षार्धसीरोपदर्शितकृषिफलभागग्राही। नापितो गृहव्यापारकारयिता ३, नापितश्च । यश्च वाङ्मनः कायकर्मभिरात्मानं निवेदयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात्कुम्भकारश्च, 'गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानोभोज्यान्नाः' इति वचनात् ॥ १६६ ॥ भाषा—शूद्रों में दास, अहीर या ग्वाला, कुल के मित्र (जिनसे पिता, पितामह के समय से मित्रता का व्यवहार हो), साझे पर खेती करने वाले का, नाई का तथा (वाणी, मन, शरीर एवं कर्म से) आत्मनिवेदन करनेवाले व्यक्ति का (तथा कुम्भकार का) अन्न खाने योग्य होता है ॥ १६६ ॥ इति स्नातकधर्मप्रकरणम् । भक्ष्याभक्ष्यप्रकरणम् 'न स्वाध्याय विरोध्यर्थम्' (आचार. १२९) इत्यत आरभ्य ब्राह्मणस्य स्नातकव्रतान्यभिधायेदान द्विजातिधर्मान्राह— अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १६७ ॥ १. प्रतिषेधस्य । . गवां पालकः गवां पालनेन । ३. कर्मस्थायी ।

आचाराध्यायः ७३ उदक्यास्पृष्टंघुष्टं पर्यायान्नं च वर्जयेत् । गोग्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १६८ ॥ अनर्चितं अर्चार्हाय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादि- व्यतिरेकेण देवायर्चनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केशकीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमम्लं केवलं कालपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छुक्तं दध्यातिव्यतिरेकेण 'न पापीयसोऽन्नमश्नीयान्न द्विःपक्वं, न शुक्तं, न पर्युषितं, अन्यत्र रागखाण्डव- चुक्रदधिगुड़गोधूमयवपिष्टविकारेभ्यः' इति शङ्खस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम्. श्वस्पृष्टं शुना स्पृष्टम, पतितेक्षितं पतितादिभिरीक्षितम, उदक्या रजस्वला तया स्पृष्टम्, 'उदक्या'ग्रहणं चण्डालाद्युपलक्षणार्थम्, 'अभेष्यपतितचण्डालपुक्कसरजस्वलाकुनखिकुष्ठिसंस्पृष्ठान्नं वर्जयेत्' इति शङ्खस्मरणात् । 'को भुङ्क्ते'? इति यदाघुष्य दीयते तत्संघृष्टान्नम् । अन्यसम्बन्धेनान्यपदेशेन यद्दीयते तत्पर्यायान्नम्, यथा—'ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥' इति । 'पर्याद्यान्तम्' इति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं, तन्न भोक्तव्यम् । एतदुक्तं भवति—गण्डूषग्रहणादूर्ध्वं आचमनात्प्राक् न भोक्तव्यमिति । 'पार्श्वाचान्तम्' इति पाठे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । 'वर्जयेत्' इति प्रत्येकं संबध्यते । तथा गोग्रातं गवा घ्रातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७-१६८ ॥ भाषा—अवज्ञा के साथ दिया गया अन्न, (देवता के लिए नहीं, अपितु अपने लिए पकाया गया ) बेकार मांस, जिस अन्न में बाल या कीड़े पड़े हों, खट्टा हो गया हो, बासी, जूठा, कुत्ते द्वारा छुआ गया, पतित व्यक्ति द्वारा देखा गया, रजस्वला स्त्री द्वारा छुआ गया, 'कौन खायगा?' ऐसा पुकार करके दिया गया, दूसरे के लिए बनाकर किसी और को दिया गया; गाय द्वारा सूँघा गया, किसी पक्षी द्वारा जूठा किया गया और जानबूझ कर पैर से छुआ गया अन्न नहीं खाना चाहिए ॥ १६७-१६८ ॥ पर्युषितस्य प्रतिप्रसवमाह— अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १६९ ॥ १. सक्तुपाचकतेल ।

७४ याज्ञवल्क्यस्मृतिः अन्नमदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयदगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकादयः अस्नेहा अपि चिरकाल- संस्थिता भोज्याः, यदि विकारान्तरमनापन्नाः, 'अपूपधानाकरम्भसक्तुयोवकतैल- पायसशाकानि शुक्तानि वर्जयेत्' ( १४।३७ ) इति वसिष्ठस्मरणात् ॥ भाषा—घृत आदि चिकनाई से युक्त देर से भी रखा हुआ भोजन खाना चाहिए । गेहूँ, जौ और दूध से बनाया गया भोजन यदि चिकनाई से युक्त न भी हो तो भी ( चिरकालोपरान्त भी ) ग्रहण किया जा सकता है ॥ १६९ ॥ संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १७० ॥ गौः या वृषेण संधीयते सा संधिनी । 'वशां वन्ध्यां विजानीयाद्वृषाक्रान्तां च संधिनीम्' इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सा संधिनी। प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा, मृतवत्सा अवत्सा, संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । 'संधिनी' ग्रहणं संधिनीयमल- सुवोपलक्षणार्थम् । यथाह गौतमः ( १७।२५ )—'स्यन्दिनीधमसूसंधिनीनां च' इति । स्रवत्पयःस्तनी स्यन्दिनी, यमलसूर्यमलप्रसविनी, एवमजामहिष्योश्चा- निर्दशयोः पयो वर्जयेत्, 'गोमहिष्यजानामनिर्दशानाम्' ( १४।३५ ) इति वसिष्ठस्मरणात् । पयोग्रहणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनिषेधो१ युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधो युक्तः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राजातमोष्ट्रं पयोमूत्रादि । एकशफा वडवादयः, तत्रभवं ऐकशफम् । स्त्रीभवं स्त्रैणम् । 'स्त्री'ग्रहणमजाव्यतिरिक्तसकल- द्विस्तनीनामुपलक्षणार्थम् ।—सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्ज्यम्२ इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास्तदीयमारण्यकं क्षीरं महिष्यव्यति- रेकेण । 'आरण्यानां च सर्वेषां मृगाणां माहिषं विना' ( मनु. ५।९ ) इति वचनात् । अवेर्जातमाविकम् । 'वर्जयेत्' इति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादि- विकारप्रत्ययनिर्देशात्तद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः, 'नित्यमाविकम- पेयमौष्ट्रमैकशफं च' ( १७।२४ ) इति गौतमस्मरणात् ॥ १७० ॥ भाषा—संधिनी ( बरदाई हुई, एक जून दूध देने वाली, दूसरी गाय के बछड़े से दुही जाने वाली ), दस दिन से कम पहले की ब्याई हुई गाय का तथा जिसका बच्चा मर गया हो ऐसी गाय का दूध नहीं पीना चाहिए । ऊँटनी एक १. रनिषेधो युक्तः । २. व्यतिरिक्तम् ।

आचाराध्यायः ७५ खुरवाली पशुमादा ( घोड़ी आदि ), जंगली पशु और भेड़ का भी दूध न पीवे ॥ १७० ॥ देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १७१ ॥ देवतार्थं बल्युपहारनिमित्तं साधितम् । हविः हवनार्थं सिद्धं प्राक् होमात् । शिग्रुः सोभाञ्जनः, १ लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातान- लोहितानपि । तथाह मनुः—( ५।६ ) । 'लोहितान्वृक्षनिर्यासान्व्रश्चनप्रभवां- स्तथा' इति । 'लोहित'ग्रहणात् हिङ्ककर्पूरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशोर्मांसानि, विड्जानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि २ तण्डु- लीयकप्रभृतीनि च, कवकानि छत्रकाणि, 'वर्जयेत्' इति प्रत्येकमभि- संबध्यते ॥ १७१ ॥ भाषा—देवता के लिए साधित बलि, हवन सामग्री, सोभाजन, गोंद, वृक्ष के काटने पर निकले हुए द्रव, यज्ञ में आहुत पशु का मांस, विष्ठा के स्थान पर उत्पन्न अन्न और कुकुरमुत्ता आदि का भोजन न करे ॥ १७१ ॥ क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् । सारसैकशफान्हंसान्सर्वाश्च ग्रामवासिनः ॥ १७२ ॥ क्रव्यादा आममांसादनशीलाः, पक्षिणो गृध्रादयः, दात्यूहश्चातकः, शुकः कीरः । चञ्च्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः, टिट्टिभस्तच्छब्दानुकारी, सारसो लक्ष्मणः, एकशफा अश्वादयः, हंसाः प्रसिद्धाः, ग्रामवासिनः पारावत- प्रभृतयः, एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥ भाषा—शव का मांस खाने वाले गृध्र आदि पक्षी, चातक, तोता, चोंच से नोचकर खाने वाले बाज आदि पक्षी, सारस, एक खुर वाले पशु ( घोड़े आदि ), हंस और ग्राम में रहने वाले सभी पक्षियों का ( भक्षण न करे ) ॥ १७२ ॥ कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् । वृथाकृसरसंयावपायसाऽपूपशष्कुलीः ॥ १७३ ॥ कोयष्टिः क्रौञ्चः, प्लवो जलकुक्कुटः, चक्राह्वश्चक्रवाकः, बलाकाबकौ प्रसिद्धौ, नखैर्विकीर्य भक्षयन्तीति विष्किराश्चकोरादय एव गृह्यन्ते; लावक- मयूरादीनां भक्ष्यत्वात्, ग्रामकुक्कुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्को- यष्ट्यादीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽ-

१. सोभाञ्जनः । २. पुरीषस्थाने उत्पन्नानि ।

७६ याज्ञवल्क्यस्मृतिः पूपशष्कुलीर्वर्जयेत् । कृसरं तिलमुद्गसिद्ध ओदनः । संयावः क्षीरगुडघृतादिकृत¹ उत्कारिकाख्यः पाकविशेषः । पायसं पयसा शृतमन्नम् । अपूपोऽस्नेहपक्को गोधूमविकारः । शष्कुली स्नेहपक्को गोधूमविकारः । 'न पचेदन्नमात्मने' इति कृसरादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥ भाषा—क्रौंच, जल कुक्कुट, चक्रवाक, बलाका, बगुला, नख से छील कर खाने वाले चकोर आदि पक्षी, देवता के लिये न बनाये गये (तिल और मूंग का) कृसर (दूध, घृत और गुड़ से बनाये गये) संयाव, खीर, पूए और पूरी को भोजन के लिये नहीं ग्रहण करना चाहिए ॥ १७३ ॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १७४ ॥ कलविङ्को ग्रामचटकः, ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्यु²भयचारित्वा- त्पुनर्वचनम् । काकोलो द्रोणकाकः, कुरर उत्क्रोशः, रज्जुदालको वृक्षकुक्कुटः, जालपादो जालाकारपादाः, अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वच- नम् । खञ्जरीटः खञ्जनः, जातितो ये अज्ञाता मृगाः पक्षिणश्च, एतान्कलविङ्का- दीन्वर्जयेत् ॥ १७४ ॥ भाषा—कलविङ्क (ग्रामचटक), काकोल (द्रोणकाक), कुरर, रज्जुदालक (कठफोड़वा), जालीदार पैरों वाले पक्षी, खंजन और अज्ञात जाति वाले पशु पक्षियों के भक्षण से परहेज न रखे ॥ १७४ ॥ चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १७५ ॥ चाषाः किकीदिवयः रक्तपादाः कादम्बप्रभृतयः, सूनिना त्यक्तं सौनं घातस्थानभवं मांसं भक्ष्याणामपि, वल्लूरं शुष्कमांसम्, मत्स्या मीनाः, एतां- श्चाषादीन्वर्जयेत् । चकारान्नालिकाशणछत्राककुसुम्भादीन् , 'नालिकाशणछत्रा- ककुसुम्भालाबुविड्वम्बांन् । कुम्भीकै³न्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥' इति तथा- ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकास्यञ्च यत्किंचित्प्रयत्नेन विवर्ज- येत् ॥' 'तथा वटप्लक्षाश्वत्थकंपित्थनीपमातुलिङ्गफलानि वर्जयेत्' इति स्मरणात् । एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अका- मतस्त्वहोरात्रम् । 'शेषेषूपवसेदहः' (५।२०) इति मनुस्मरणात् । यत्पुनः शङ्खनोक्तम्—'बकबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुक- सारिकासारसटिद्विभोल्लूककङ्करक्तपादचाषभासवायसकोकिलशाड्वलिकुक्कुटहारीत- १. तिलमुद्गमिश्र ओदनः । २. उभयपरत्वात् । ३. कम्बुक ।

अक्षणे द्वादशरात्रमनाहारः, पिबेद्गोमूत्रयावकम्' इति तद्बहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १७५ ॥ भाषा—चाष, रक्तपाद (कादम्ब आदि ), वधिक द्वारा मारे गये पशु का मांस, सूखा मांस और मछली का भक्षण न करे । इन सबका जानबूझ कर भक्षण करने पर तीन दिन तक उपवास करे ॥ १७५ ॥ पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ ॥ पलाण्डुः स्थूलकन्दनालो लशुनानुकारी, विड्वराहो ग्रामसूकरः, छत्राकं सर्पछत्रम्, ग्रामकुक्कुटः प्रसिद्धः, लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम्, एतानि षट् सकृत्कामतॊ जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रतिषेधितयोरिहा- भिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्वं चिरतराभ्यासे तु 'छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः' इति (५।१९) मनूक्तम् । अमतिपूर्वाभ्यासे—'अमत्याैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत्' (५।१९) तृतीयाध्याये, वक्ष्यमाणं 'यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—'लशुनपलाण्डुगृञ्जनविड्वराह- ग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति ॥ १७६ ॥ भाषा—प्याज, ग्रामसूकर, छत्राक ( कुकुरमुत्ता ), ग्रामकुक्कुट, लहसुन, और गृञ्जन ( गाजर या शलजम ) का ( जानबूझ कर ) भक्षण करने पर चान्द्रायण व्रत करे ॥ १७६ ॥ भक्ष्याः पञ्चनखाः सोधागोधाकच्छपशल्लुकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ ॥ तथा पाठीनराजीवसशल्काश्च द्विजातिभिः । सेधा श्वावित्, गोधा कृकलासानुकारिणी महती, कच्छपः, कूर्मः, शल्लकः ४शल्लकी, शशः प्रसिद्धः, पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते मेधादयो भक्ष्याः । चकारात्खड्गोऽपि । यथाह गौतमः ( १७।२७ )—'पञ्चनखाः शशशल्लकश्वाविद्गोधाखड्गकच्छपाः' इति । यथाह मनुरपि ( ५।२८ )—'श्वाविधं ५शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्व | हुरनुष्ट्रांश्चैकतोदतः ॥' इति । यत्पुनर्वसिष्ठेन 'खड्गे तु विवदन्ति' (१४।४७) इत्यभक्ष्यत्वमुक्तं, तच्छ्राद्धादन्यत्र, 'खड्गमां सैर्भवेत्तृप्तिरक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुति- १. दुधित्थ । २. प्रतिषिद्धयो । ३. शल्यकाः । ४. शालुकः शाली । ५. शल्यकं ।

७८ याज्ञवल्क्यस्मृतिः दर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः, रोहितो लोहितवर्ण, पाठीनश्चन्द्रकाख्यः, राजीवः पद्मवर्णः, सह शल्कैः शुक्त्या- कारैर्वर्तत इति सशल्कः। एते च सिंहतुण्डादयो १नियुक्ता एव भक्ष्याः । 'पाठीन- रोहितावाद्यौ नियुक्तौ हव्यकव्ययोः। राजीवाः सिंहतुण्डीश्च सशल्काश्चैव सर्वशः ॥' इति ( ५।१६ ) मनुस्मरणात् । 'द्विजाति'ग्रहणं शूद्रव्युदासार्थम् ॥१७७॥ भाषा—सेधा ( सेंधुआार ), गोधा ( गोह ), कछुश्रा शल्लक ( साही ) और खरगोश ये पञ्चनख ( पंजे वाले ) जीव भक्षण करने योग्य होते हैं । मछलियों में भी सिंही, रोहित ( रोहू ) पाठीन, राजीव ( पद्म के समान रंग वाली ) और सशल्क ( शुक्ति के आकार वाली ) द्विजातियों के लिये भक्ष्य होती है ॥ १७७ ॥ 'अनर्चितं वृथामांसम्' ( आ. १६७) इत्यारभ्य द्विजातिधर्मानुक्त्त्वेदानीं २चातुर्वर्ण्यधर्मानह— अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १७८ ॥ मांसस्य प्रोक्षितादेर्भक्षणे तद्व्यतिरिक्तस्य वा निषिद्धस्य वर्जने प्रोक्षितादि- व्यतिरेकेण मांसं न भक्षयामीत्येवं सङ्कल्परूपेण विधिं सामश्रवः प्रभृतयः हे मुनयः ! शृणुध्वम् ॥ १७८ ॥ भाषा—अब मांस के भक्षण एवं त्याग का नियम सुनें ॥ १७८ ॥ तत्र भक्षणे विधिं दर्शयति— प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १७९ ॥ अन्नाभावेन ३व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति, तदा मांसं नियमेन भक्षयेत् । 'सर्वत एवात्मानं गोपायेत्' इत्यात्मरक्षाविधानात् । '३तस्मादुह न पुरायुषः स्वः कामी प्रेयात्' इति मरणनिषेधाच्च । तथा श्राद्धे मांसं निमन्त्रितो नियमेन भक्षयेत्, अभक्षणे दोषश्रवणात्, 'यथाविधि नियुक्तस्तु यो मांसं नात्ति मानवः । स प्रेत्य पशुनां याति संभवानेक- विंशति ॥' ( ५।३५) इति मनुस्मरणात् । प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्नीषोमीयादेर्हुतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत्, अभक्षणे ४ यागानिष्पत्तेः । द्विजकाम्यया ब्राह्मणभोजनार्थं देवपित्रर्थं च यत्सादितं तेन तानभ्यर्च्यविशिष्टं भक्षयन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि; 'यज्ञार्थं ब्राह्मणेर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्यर्थमगस्त्यो ह्याचरत्पुरा५ ॥' १. नियुक्तस्यैव । २. चातुर्वर्ण्यं प्रत्याह । ३. तस्मादिह । ४. अभक्षणाद्यागा । ५. ह्याचरत्तथा ।

आचाराध्यायः ७६ इति (५।२२) मनुस्मरणात् । 'न दोषभाक्' इति दोषाभावमात्रं वदता अति- थ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवम- प्रतिषिद्धानामपि शशादीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारोऽवगम्यते ॥ १७९ ॥ भाषा—जब (अन्न के अभाव में या रोग में) मांस के बिना प्राण बचना कठिन हो, श्राद्ध में, प्रोक्षण नाम के (श्रौत संस्कार) में देवताओं की आहुति से अवशिष्ट, ब्राह्मण के भोजन या देवता या पितर के लिये बनाये गये मांस को देवता और पितरों की अर्चना करके खाने वाला दोष का भागी नहीं होता है ॥ १७९ ॥ इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह— वसेत्स नरके घोरे दिनानि पशुरोमभिः । संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥ १८० ॥ अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । 'हन्ति' इत्यष्टविधोऽपि घातको गृह्यते । यथाह मनुः (५।५१) 'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥' इति ॥ १८० ॥ भाषा—जो दुराचारी व्यक्ति बिना विधि के (देवता या यज्ञ के लिये नहीं अपितु स्वयं अपने लिये) पशु का वध करता है, वह उतने दिन तक घोर नरक में वास करता है जितने रोएँ उस पशु के शरीर में रहे हों ॥ १८० ॥ इदानीं वर्जने विधिमाह— सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् ॥ १८१ ॥ यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति, विशुद्धाशयत्वात् । यथाह मनुः (५।४७)—'यद्ध्यायते यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोत्य- विघ्नेन यो हिनस्ति न किंचन ॥' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फल- माह—हयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य; 'वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः। मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥' इति (५।५३) मनुस्मरणात् । तथा गृहेऽपि निवसन् ब्राह्मणादिश्चातुर्वर्णिको

८० याज्ञवल्क्यस्मृतिः

मुनिवन्माननीयो भवति; मांसत्यागात् । एतच्च न प्रतिषिद्धमांसविषयम् , नापि प्रोक्षितादिविषयम्, किंतु पारिशेष्यादतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञात- विषयमिति ॥ १८१ ॥ भाषा—(जो यज्ञ के अतिरिक्त अन्य) मांस का भक्षण न करने का सत्य- संकल्प करता है वह सभी अभिलाषाओं एवं अश्वमेध यज्ञ के फल को प्राप्त करता है । मांस का त्याग कर देने पर ब्राह्मण अपने घर में रहता हुआ भी मुनितुल्य होता है ॥ १८१ ॥ इति भक्ष्याभक्ष्यप्रकरणम् ।

अथ द्रव्यशुद्धिप्रकरणम्

इदानीं द्रव्यशुद्धिमाह— सौवर्णराजताब्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफलवासोविदळचर्मणाम् ॥ १८२ ॥ पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेहपात्राण्युष्णेन वारिणा ॥ १८३ ॥ सौवर्णं सुवर्णकृतम् , रजतं रजतकृतम् , अब्जं मुक्ताफलशङ्खशुक्त्यादि, ऊर्ध्वपात्रं यज्ञियोलूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडशिप्रभृतयः, अश्मा दृषदादिः, शाकं वास्तुकादि, रज्जुः बल्वजादिनिर्मिता, मूलामाद्रे- कादि, फलमाम्रादि, वासो वस्त्रम् , विदलं वैणवादि, चर्म अजादीनाम्, विदल-चर्मणोर्ग्रहणं तद्विकाराणां छत्रवस्त्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि, चमसा होतृचमसादयः, एतेषां सौवर्णादीनां लेपरहिता- नामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः, चरुश्चरुस्थाली, स्रुक्स्रुवौ प्रसिद्धौ, सस्नेहानि पात्राणि प्राशित्रहरणादीनि, एतानि च लेपरहितान्युष्णेन वारिणा शुद्ध्यन्ति; 'निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति । अब्जमश्ममयं चैव रजतं चानुपस्कृतम् ॥' इति (५।११२) मनुस्मरणात् । अनुपस्कृतम- खातपूरितम् । सलेपानां तु—'तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥' इति (५।१११) मनूक्तं द्रष्टव्यम् । मृद्भस्मनोरेककार्यत्वाद्विकल्पः । आपस्तु समुच्चीयन्ते । काकादिमुखो- पघाते तु—'कृष्णशकुनिमुखावमृष्टं पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत' (गौ. सू. १७।४) इति द्रष्टव्यम् । एतच्च मार्जारादन्यत्र, 'मार्जार- श्चैव दर्वी च मारुतश्च सदा शुचिः ।' इति मनुस्मरणात् ॥ १८२-१८३ ॥

१. परिशेषात् । २. मुखावघृष्टं ।

आचाराध्यायः ८१

भाषा--सोने, चाँदी और अब्ज (मुक्ताफल, शंख और शुक्ति) के पात्र, (उलूखल आदि) यज्ञिय पात्र, ग्रह (यज्ञिय पात्र), पत्थर, शाक, रस्सी, मूल, (आम्र आदि) फल, वस्त्र, बाँस, (बकरी आदि का) चमड़ा, (यज्ञ का) प्रोक्षणीपात्र, (होता आदि के) चमस की शुद्धि जल से धो देने से होती है। चरुस्थाली, स्रुवा, घी आदि चिकने पदार्थ से युक्त पात्र उष्ण जल से शुद्ध होते हैं ॥ १८२-१८३ ॥

यज्ञपात्रादीनां प्रोक्षणेन शुद्धिः— स्फ्यशूर्पाऽजिनधान्यानां मुसलोलूखलाऽनसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १८४ ॥

स्फ्यो वज्रो यज्ञाङ्गम्, अनः शकटम् शेषं प्रसिद्धम्, एतेषामुष्णेन वारिणा शुद्धिः । पुनः 'अजिन'ग्रहणं यज्ञाङ्गाजिनप्राप्त्यर्थम् । संहतानामुक्तशु- द्धिद्रव्या१रण्धावयविनां बहूनां धान्यानां वाससां च । 'वासो'ग्रहणमुक्तशुद्धी- नामुपलक्षणार्थम् । उक्तशुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतदुक्तं भवति—यदा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्यल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानामुक्तैव शुद्धिरितरेषां प्रोक्षणमिति । तथा च स्मृत्यन्तरम्—'वस्त्र- धान्यादिराशीनामेकदेशस्य दूषणे । तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणमर्हति ॥' इति । यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषामेव क्षालनम् । यथाह मनुः (५।११८)—'अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥' इति । स्पृष्टानामरपृष्टानां च समत्वेऽपि प्रोक्षणमेव । बहूनां प्रोक्षणविधानेनाल्पानां क्षालने सिद्धे पुनरल्पानां क्षालनवचनस्य समेषु क्षालन२निवृत्त्यर्थत्वात् । इदमस्पृष्टमिदम्पृष्टमित्यविवेके तु क्षालनमेव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात् अनेकपुरुषोद्धार्यमाणानां ३ तु धान्यवासःप्रभृतीनां स्पृष्टानामरपृष्टानां च प्रोक्षणमेवेति निबन्धकृतः ॥ १८४ ॥

भाषा—स्फ्य (यज्ञवज्र), सूप, कृष्णमृगचर्म, धान्य, मूसल, उखल और शकट की भी (शुद्धि उष्ण जल से धोने पर होती है) धान्य की राशि और कई वस्त्र हों तो जल के छींटें से ही शुद्ध होती है ॥ १८४ ॥

निर्लेपानां स्पर्शमात्रदुष्टानां शुद्धिमुक्त्त्वेदानीं सलेपानां शुद्धिमाह— तक्षणं दारुशृङ्गास्थ्नां गोबालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १८५ ॥

१. द्रव्याणां बहूनां । २. क्षालनवचननिवृ । ३. अनेकपुरुषोद्धार्य । ६ या०

८२ याज्ञवल्क्यस्मृतिः ग्राह्णां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्थनाम् । 'अस्थि'ग्रहणेन दन्तानामपि ग्रहणम् । उच्छिष्टस्नेहादिभिर्लिप्तानां मृद्भस्मोदकादिभिरनपगत- लेपानाम् । मनुः ( ५।१२६) - 'यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः । तावन्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥' इति सामान्यतः शुद्धिविधानात् । तत्तृणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनारिकेलादि- फलसंभूतानां पात्राणां गोबालैरुद्धर्षणाच्छुद्धिः। यज्ञपात्राणां स्रुक्स्रुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भैर्दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कर्तव्यम् । एतच्च श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिकर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥ भाषा- भेड़ या भैंस आदि के सींग और हाथी, सूकर की अस्थियों (एवं शङ्ख) से बने हुए पात्र की शुद्धि उसे खुरचने से होती है । फल से बनाया हुआ पात्र गोबाल से रगड़ने पर शुद्ध होता है । यज्ञ के समय (स्रुक् स्रुवा आदि) यज्ञ पात्र हाथ से पोंछने पर हीं शुद्ध हो जाते हैं ॥ १८५ ॥ इदानीं सलेपानामेव केषांचिल्लेपापकर्षणे विशेषहेतूनाह- 'सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् । सश्रीफलैरंशु पट्टं सारिष्टैः कुतपं तथा ॥ १८६ ॥ ऊषरमृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम्, कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्ध्यति । 'उदगोमूत्रैः' इति बहुवचनं पश्चादप्युदकप्राप्त्यर्थम् । अंशु पट्टं वल्कलतन्तुकृतम्, सश्रीफलै- र्बिल्वफलसहितैः, कुतपः पार्वतीयच्छागगोमनिर्मितकम्बलंः, अरिष्टैःसहितैरुदक- गोमूत्रैः, शुध्यतीत्यनुवर्तते । एतच्चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि, क्षालनासहत्वात्, सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्ट- त्वात् । तथा च देवलः-'ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः । अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः ॥' इत्यभिधायाह- 'तान्येवामेध्ययुक्तानि क्षाल- येच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ॥' इति क्षौमवदेव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राप्त्यर्थम् । अत- स्तस्याल्पोपघातेनैव क्षालनं कार्यम् । अमेध्यलेपादन्यत्र-'तूलिकामुपधानं च पुष्परक्ताम्बरं तथा शोषयित्वातपे किंचित्करैः समार्जयेन्मुहुः ॥ पश्चाच्च वारिणा १. हेतुलक्षणेनाह । २. सोषैरुदक ( = ऊषमृत्तिकासहितैः) । ३. अरिष्ट- फलसहितैः । अरिष्टसहितैः फेनककहितैः । ४. योगत्वात् ।

आचाराध्यायः ८३ प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिनानि यथावत्परिशोधयेत् ॥' इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । 'पुष्परक्त'ग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्राप्त्यर्थम्, न मञ्जिष्ठादेः; तस्य क्षालनसह- त्वात् । शङ्खेनाप्युक्तम्—'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥ भाषा—ऊन की वस्तुएँ कंबल आदि और तसरी पट्ट आदि ऊसर स्थान की मिट्टी (रेह) और जल वा गोमूत्र से धोने पर शुद्ध होती हैं । वल्कल से बना हुआ वस्त्र इनके साथ श्रीफल मिलाकर साफ करने से स्वच्छ होते हैं और (पहाड़ी भेड़ों के रोएँ से बना हुआ) कुतप, दुशाला आदि रीठी, गोमूत्र और जल से धोये जाते हैं ॥ १८६ ॥ सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १८७ ॥ गौरसर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं क्षौमं शुद्ध्यति । पुनः पाकेन च मृन्मयं घटादि । एतच्चोच्छिष्टस्नेहलेपे वेदितव्यम् । मनुः (५।१२३)—'मेद्यैर्मूत्रैः पुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृन्मयम् ॥' इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः—'चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापि वा । प्रक्षाल- नेन शुद्ध्येत परित्यागान्महीमयम् ॥' इति । कारवो रजकचैलधावकसूपकारा- द्यास्तेषां हस्तः सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूत- कादिसंभवेऽपि । तथा च स्मृत्यन्तरम्—'कारवः शिल्पिनो वैद्या दासीदासा- स्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्हं विक्रेयं यवव्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादि- निमित्तेन च वणिजाम् । भिक्षाणां समूहः भैक्षं तद्ब्रह्मचार्यादिहस्तगतं अना- चान्तस्त्रीप्रदानादिनाऽशुचिरथ्याक्रमणादिना निमित्तेनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । 'स्त्रियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥ भाषा—अतसी के सूत से बना हुआ वस्त्र पीले सरसों और गोमूत्र एवं जल से स्वच्छ होता है । मिट्टी के पात्र घड़ा इत्यादि पुनः पकाने से शुद्ध होते हैं । रंगरेज, धोबी, सूपकार आदि शिल्पियों के हाथ, (जौ, धान आदि) विक्रय की वस्तु, भिक्षा का समूह और (संभोगकाल) में स्त्री का मुख सदैव पवित्र रहते हैं ॥ १८७ ॥ १. पुनः पाकेन । २. मद्यमूत्रपुरीषैर्नाडीवनैः पूयशोणितः ।

सेकादुल्लेलनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १८८ ॥

Here is the complete transcription of the provided image in Devanagari script:

८४ याज्ञवल्क्यस्मृतिः इदानीं भूशुद्धिमाह- भूर्शुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा । सेकादुल्लेलनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १८८ ॥ मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्ठाद्यैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम्, सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा, उल्लेखनं तक्षणं खननं वा, लेपो गोमयादिभिः, एतैः समस्तैर्व्यस्तैर्वा मार्जनादिभिरमेध्या दुष्टा मलिना च भूमिः शुद्ध्यति । तथा च देवलः- 'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा । चण्डा- लाध्युषितं यत्र यत्र विष्ठादि'संहतिः ॥ एवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां ब्रजेत् । अङ्गारतुषकेशास्थिभस्माद्यैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस्त्रैविध्यमभिधाय शुद्धिविभागं दर्शयति- 'पञ्चधा वा चतुर्धा वा भूरमेध्यापि २ शुद्ध्यति । दुष्टाण्विता त्रिधा द्वेधा शुद्ध्यते मलिनैकधा ॥' इति । यत्र मनुष्या दह्यन्ते यत्र चाण्डालैरध्युषितं तत्रै पञ्चभि- र्दहनकाल गोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र च म्रियन्ते यत्र चात्यन्तं विष्ठादिसंहतिः तासां दाहवर्जितैस्तैरेव चतुर्भिः । श्वसूकरखरैश्चिरकाल- मप्युषितायाः गोक्रमणसेकोल्लेखनैस्त्रिभिः । उष्ट्रग्रामकुक्कुटादिभिश्चिरकालमधिवासि- तायाः सेकोल्लेखनाभ्यां शुद्धिः । अङ्गारतुषकेशादिभिश्चिरकालमधिवासिताया उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयेते । एवं गृहं मार्जनलेपनाभ्यां शुद्ध्यति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिनसं प्राप्त्यर्थम् ॥ १८८ ॥ भाषा-पृथ्वी की शुद्धि ( झाडू आदि से ) झाड़ने, जलाने, समय बीतने, गाय के पैर पड़ने, (दूध, गोमूत्र, और जल ) छिड़कने, खोदने, गोबर आदि से ) लीपने से होती है। इसी प्रकार घर झाड़ने और लीपने से शुद्ध होता है ॥ १८८ ॥ गोघ्रातेऽन्न तथा केशमक्षिकाकीटदूषिते । सलिलं भस्म मृद्वाऽपि प्रक्षेप्यव्यं विशुद्धये ॥ १८९ ॥ गोघ्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीट- दूषिते । 'केश' ग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म मृद्वा यथासंभवं प्रक्षेप्सव्यं शुद्धयर्थम् । यत्तु गौतमेनोक्तम् ( १७।८-९)- 'नित्यमभोज्यं केशकीटावपन्नम्' इति तत्केशकीटादिभिः सह यत्पक्कं तद्विष- यम् ॥ १८९ ॥ १. संगतिः । २. विशुद्ध्यति । ३. तस्याः पञ्चका, तयोः पञ्च ।

Here is the complete line-by-line transcription of the page:

आचाराध्यायः | ८५ भाषा—अन्न के गौ द्वारा सूंघ लिये जाने पर, उसमें केश, मक्खी या चींटी आदि कीड़ा होने पर उसे शुद्ध करने के लिये उसमें जल, राख या मिट्टी डालनी चाहिए ॥ १८९ ॥ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च॑ ॥ १९० ॥ त्रपुप्रभृतीनि प्रसिद्धानि, तेषां क्षारोदकेनाम्लोदकेन वारिणा चोपघाता- पेक्षया समस्तैर्व्यस्तैर्वा शुद्धिः कार्या । कांस्यलोहानां भस्मोदकेन² । ‘ताम्र’- ग्रहणाद्रीतिकावृत्तलोहयोर्ग्रहणम्, एकयोनित्वात् । एतच्च ताम्रादीनामम्लोदका- दिभिः शुद्धयभिधानं न नियमार्थम् । ‘मलसंयोगजं तज्जं यस्य येनोपहन्यते । तस्य तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥' इत्यविशेषेण स्मरणात् । अतो न ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिना शुद्धिः³ कार्या । अत एव मनुना सामान्येनोक्तम्—(५।११४) 'ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु—भस्मना शुद्ध्यते कांस्यं ताम्रमाम्लेन शुद्ध्यति' इति, तत्ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं नान्यस्य निषेधाय । यदा तूपघातातिशयस्तदाम्लोद- कादीनामावृत्तिः, 'गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥' (आपस्तंब) इति स्मरणात् । (⁴दशक्षारा- नाह—'तिलमुंष्ककशिश्रूणां कोकिलाक्षपलाशयोः । काकजङ्घा तथावङ्गाच्चित्राश्वत्थ- वटस्य च ॥ एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके ॥' ) शुद्धिः प्लावो- द्रवस्य त्विति । द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अ॑मेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भावस्रवाभि- पूरणं यावन्निःसरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बहुलत्वं च देश- कालाद्यपेक्षयापि वेदितव्यम् । यथाह—बौधायनः—'देशं कालं तथा॑त्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥' इति । कीटाद्युप- हतस्य तूत्पवनम् । यथाह मनुः (५।११५)—'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्' इति । उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यप- गमस्यासंभवात् । शूद्रभाण्डस्थितस्य तु मधूदकादेः पात्रान्तरानयनाच्छुद्धिः।— 'मधूदके पयस्तद्विकाराश्च पात्रान्पात्रान्तरानयने शुद्धाः' इति बौधायनस्मरणात् । मधुघृतादेर्वर्णोपलब्धहस्तात्प्राप्तस्य पात्रान्तरानयनं पुनः प॑चनं च कार्यम् । यथाह १. तु। २. दकवारिणा। ३. दकादिभिः। ४. इदं। पुस्तकेऽधिकम्। ५. अमेध्यद्रव्य। ६. तथात्मानं । ७. घृतादेर्हीनवर्णा। ८. पचनं कार्यं ।

८६ याज्ञवल्क्यस्मृतिः शङ्खः—'अभ्यवहार्याणां घृतेनाभिघारितानां पुनः $^१$पचनमेषं स्नेहानां स्नेहवद्द्र- सानां' इति ॥ १९० ॥ भाषा—पीतल, सीसा, ताँबा, खारे या अम्लजल से शुद्ध होता है । काँसे और लोहे की शुद्धि भस्म और जल से होती है । ( घी या तेल जैसे ) द्रव पदार्थ की शुद्धि उसके पात्र में वही द्रव इतना डालने पर होती है जितने से पात्र भरकर ऊपर गिरने लगे ॥ १९० ॥ एवं सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामप्युच्छिष्टस्नेहाद्युपघाते- शुद्धिमुक्त्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह— अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १९१ ॥ अमेध्याः शरीरजा मला वसाशुक्रादयः, 'वसा शुक्रमसृङ्मज्जामूत्रविट्कर्ण- विण्‍नखाः । श्लेष्माऽश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥' ( ५।१३६ ) तथा— 'मानुषास्थि शवं विष्ठा रेतो मूत्रार्तवं वसा । स्वेदादोऽश्रु दूषिका श्लेष्म मद्यं चामेध्यमुच्यते ॥' इति अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तैर्वसादि- रक्तलिप्तममेध्याक्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या $^२$गन्धापकर्षणात् । आदि- ग्रहणाल्लेपस्यापि ग्रहणम् । यथाह गौतमः ( १।४२ )—'लेपगन्धापकर्षणैः शौच- ममेध्यलिप्तस्य' इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादिमृत्तोयेर्न गच्छति तदान्येन, 'अशक्तावन्येन मृदद्भिः पूर्वं मृदा च' ( १।४३ ) इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपघाताय—'मद्यैर्मूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥' ( मनु० ५।१२३ ) इत्युपघाते विशेषाभिधानात्—'अमेध्यत्वं चैवैमेषां देहाच्चैव मलाव्युताः' इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरुर्ध्वं करव्यतिरिक्ताङ्गा$^३$नामप्यामध्यस्पर्शे स्नानम् । यथाह देवलः— 'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मज्जानं शोणितं स्पृष्ट्वा परस्य स्नान- माचरेत् ॥' इति—'तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति' इति । तथा— 'ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमनुपहन्यते । तत्र स्नानमधस्तात् प्रक्षाल्याचम्य शुद्धयति ॥' इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुचि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बु- निर्णिक्तं यत्र प्रतिपादिता शुद्धिर्नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य १. पचनं । २. गन्धापकर्षणेन । ३. ङ्गानां मध्या ।

आचाराध्यायः ८७ प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं¹ न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाददृष्टदोषो नास्तीत्यर्थः । नैन्वेत्तद्विरुद्ध्यते, 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः। अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत्, प्रायश्चित्तस्य जग्धिविषयत्वात्, दोषाभावस्य³ चान्योपयोगविषयत्वात् ॥ १९१ ॥ भाषा—( मलमूत्र, वसा आदि ) दूषित शरीर की गंदगी से अशुद्ध वस्तु मिट्टी और जल से उतना साफ करने पर शुद्ध होती है जितने से उसको गन्ध ( और लेप ) द्वारा हो जाय । ( शुद्धि करने पर भी मन में सन्देह होने पर ) ब्राह्मण के कह देने पर शुद्ध समझना चाहिए; जल के छींटे से शुद्धि होती है । जिस वस्तु के शुद्ध या अशुद्ध होने का ज्ञान न हो वह सदैव शुद्ध रहती है ॥ १९१ ॥ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । ४नैशा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १९२ ॥ महीगतं भूमिस्थमुदकं एकगवीतृप्तिकरणसमर्थं चण्डालादिभिरस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरमनापन्नं शुचि आचमनादियोग्यं भवति । 'महीगतम्' इत्यशुचिभूतगतस्य शुचित्वनिषेधार्थं नत्वन्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थम् । माप्युद्धृतस्य—'उद्धृताश्चापि शुद्ध्यन्ति शुद्धैः पात्रैः समुद्धृताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादिकृते तडागादौ न दोषः, 'अन्यैरपि कृते कूपे सेतौ वाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥' इति शातातपस्मरणात् । तथा मांसं श्वचण्डाल- क्रव्यादादिभिर्निपातितं शुचि । आदिग्रहणात्पुक्कसादेरपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १९२ ॥ भाषा—पृथ्वी पर शुद्ध प्राकृतिक रूप में पड़ा हुआ ( चाण्डाल आदि द्वारा न छुआ गया ) एक गौ के पीने भर जल शुद्ध ( आचमनादि के योग्य ) होता है । कुत्ता, चाण्डल, मांसाभक्षी पक्षी द्वारा काटा गया या गिराया गया मांस शुद्ध होता है ॥ १९२ ॥ रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः । विप्रुषो मक्षिकाः स्पर्शो वत्सः प्रसवने शुचिः ॥ १९३ ॥ १. उपभुक्तं । २. ननु तद्धि । ३. भावस्य चान्यप्रयोग । ४. मागं मांसं ( = मृगादेर्मांसं ) । ५. रथवसुधानिलाः । ६. प्रस्रवणे ।

८८ याज्ञवल्क्यस्मृतिः रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजः अजादिसम्बन्ध- व्यतिरेकेण । तत्र—'श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् । अजाविरेणुसंसर्शा- दायुर्लक्ष्मीश्च हीयते ॥' इति दोषश्रवणात्तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः, गौः, अश्वः, वसुधा भूमिः, अनिलो वायुः, विप्रुषोऽवश्यायबिन्दवः, मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश्च, एते चण्डालादिस्पृष्टा अपि स्पर्शे शुचयः । वत्सः प्रस्स्रवने ऊधोगतदुग्धापकर्षणे शुचिः । 'वत्स'ग्रहणं बालस्योप- लक्षणार्थम्, 'बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् । अविज्ञातं च यत्किञ्चिच्छिष्यं मेध्यमिति स्थितिः ॥' इति वचनात् ॥ १९३ ॥ भाषा—( सूर्य आदि की ) किरणें, अग्नि, (अजादी से अछूती) धूल, छाया, गाय, अश्व, पृथ्वी, वायु बाष्प और मक्खी (चण्डाल आदि से स्पृष्ट होने पर भी) शुद्ध होते हैं, तथा दूध दुहते समय बछड़ा पवित्र होता है ॥ १९३ ॥ अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः । पन्थानश्च विशुद्ध्यन्ति सोमसूर्यांशुमारुतैः ॥ १९४ ॥ अजाश्वयोर्मुखं मेध्यम् । न गोः, न नरजा मलाः, 'नर'शब्दो लक्षणया देहमभिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः चण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर्मारुतेन च शुद्धयन्ति । दिवा तु सूर्याशुभिर्मारुतेन च ॥ १९४ ॥ भाषा—बकरे तथा घोडे का मुख शुद्ध होता है, गौ का मुख नही । मनुष्य शरीर से निकले हुए मल अशुद्ध होते हैं । (कुत्ता, चाण्डाल आदि के संसर्ग पर) मार्ग चन्द्रमा या सूर्य की किरणों और वायु के सम्पर्क से शुद्ध होता है ॥ १९४ ॥ मुखजा विप्रुषो मेध्यास्तथाऽऽचमनबिन्दवः । श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १९५ ॥ मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति अनिपत्तिता- श्चेदङ्गे । 'न मुखविप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति' इति गौतम- वचनात् । तथा च ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु- बाह्यगतं मुखप्रविष्टमुच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयमेव च्युतं त्यक्त्वा शुचिर्भवति । अच्युतं दन्तसमम्³ । तथा च गौतमः—'दन्तश्लिष्टं तु १. अजाश्वं मुखतो मेध्यं । २. पन्थानस्तु । ३. दन्तेभ्यः पतितं त्यजति गिलति वाऽप्यतावता शुद्ध्यति विना आचमनं इति ।

आचाराध्यायः ८६ दन्तवदन्यत्र जिह्वाभिमर्शनात्प्राक् च्युतेरित्येके च्युतेष्वास्त्राववद्विद्यान्निगिरन्नेव तच्छुचि' इति । निगिरणं पुनरनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरन्नेवेत्येवकारः 'चर्वणे त्वाचमेन्नित्यं मुक्त्वा ताम्बूलचर्वणम् । ओष्ठौ विलो- मकौ स्पृष्ट्वा वासो विपरिधाय च ॥' इति विष्णूक्ताचमननिषेधार्थः । 'ताम्बूल'- ग्रहणं फलाद्युपलक्षणार्थम् । यथाह शातातपः—'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य संस्पर्शे नोच्छिष्टो भवति द्विजः ॥' इति ॥ १९५ ॥ भाषा—मुख से निकले हुए थूक के बिन्दु तथा आचमन के जल के बिन्दु शुद्ध होते हैं ( शरीर पर गिरने पर दूषित नहीं करते ) । दाढ़ी मूँछ पर सटे हुए मुँह में तथा दाँत में लगे हुए जूठे भोजन को साफ कर देने पर शुद्धि होती है ॥ १९५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुङ्क्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १९६ ॥ स्नानपानक्षुतस्वप्नभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्वाचान्तः पुनराचामेत् । द्विराचामेदित्यर्थः । चकाराद्रोदनाध्ययनाम्भ चाँपल्यानृतोक्त्या- दिषु । तथा च वसिष्ठः—'सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत' इति । मनुरपि ( ५।१४५ )—'सुप्त्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्त्वोक्त्वानृतं वचः । पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥' इति । भोजने स्वादावपि त्वादावपि द्विराचमनम्—'भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेत' इत्यापस्तम्बस्मरणात् । स्नानपानयोरादौ सकृत् । अध्ययने त्वारम्भे द्विः । शेषेष्वन्ते एव यथोक्तं द्विराचमनम् ॥ १९६ ॥ भाषा—स्नान करके, पानी पीकर, क्षुत, शयन, भोजन करके तथा रथ पर चलने के बाद ( विशेष रूप से ) वस्त्र धारण करके पुनः ( अर्थात् दो बार ) आचमन करे ॥ १९६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥ १९७ ॥ रथ्या मार्गमात्रम् , कर्दमः पङ्कः तोयमुदकम् , रथ्यास्थितानि कर्दम- तोयानि अन्त्यैश्चण्डालादिभिः श्वभिर्वायसैश्च स्पृष्टानि मारुतेनैव शुद्ध्यन्ति शुद्धिमुपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्केष्टकादि- भिश्चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुद्ध्यन्ति १. निर्गिरन्नेव निगरन्नेव । २. भुक्ते । ३. चाल्पत्वानृतो । ४. पक्वेष्टिक- चितानि ।

६० याज्ञवल्क्यस्मृतिः एतच्च 'प्रोक्षणं संहतानाम्' ( मनु० ५।१५५ ) इत्युक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणमेवेति ॥ १९७ ॥ भाषा—मार्ग का कीचड़ तथा जल चाण्डाल, कुत्ता और कौए द्वारा छुए जाने पर वायु से ही शुद्ध होते हैं, पक्की ईंटों से बना हुआ घर आदि भी ( वायु से शुद्ध होते हैं ) ॥ १९७ ॥ इति द्रव्यशुद्धिप्रकरणम् । अथ दानप्रकरणम् इदानीं दानधर्मं प्रतिपादयिष्यंस्तदङ्गभूतपात्रप्रतिपादनार्थं तत्प्रशंसामाह— तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान्वेदगुप्तये । तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १९८ ॥ ब्रह्मा हिरण्यगर्भः कल्पादौ तपस्तप्त्वा ध्यानं कृत्वा १कान्सृजामीति पूर्वं ब्राह्मणान्सृष्टवान् । किमर्थम् ? वेदगुप्तये वेदरक्षणार्थम् । पितॄणां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थं च । अतस्तेभ्यो दत्तमक्षयफलं भवतीत्यभिप्रायः ॥ १९८ ॥ भाषा—ब्रह्मा ने ( कल्प के आरम्भ में ) तपस्या करके ( ध्यान करके ) वेद की रक्षा के लिये, पितरों और देवताओं की तृप्ति के लिए तथा ( अनुष्ठान एवं उपदेश द्वारा ) धर्म की रक्षा के लिये ब्राह्मणों की सृष्टि की ॥ १९८ ॥ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशिलिनः । तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥ १९९ ॥ सर्वस्य क्षत्रियादेर्विप्राः प्रभवः श्रेष्ठा जात्या कर्मणा च । ब्राह्मणेभ्योऽपि श्रुताध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्योऽपि क्रियापरा विहिता- नुष्ठानशीलाः । तेभ्योऽप्यध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनात्म- तत्त्वज्ञाननिरताः, 'श्रेष्ठा' इत्यनुषज्यते ॥ १९९ ॥ भाषा—( क्षत्रिय आदि ) सबों में ब्राह्मण ( जाति एवं ) कर्म से श्रेष्ठ हैं; उनमें भी वेदादि का अध्ययन करने वाले उत्कृष्ट होते हैं; उनसे भी उत्तम विहित क्रियाओं का अनुष्ठान करने वाले होते हैं और इन सबसे श्रेष्ठ अध्यात्मतत्त्व को पूर्णरूप से जानने वाले ब्राह्मण होते हैं ॥ १९९ ॥ १. कृत्वा मुख्यान्सृजामीति ।

आचाराध्यायः ६१ एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनेकैकयोगेन¹ पात्रतामभिधायाधुनां तेषां समुच्चये संपूर्णं पात्रतामाह- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ २०० ॥ केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । 'अपि' शब्दात्केवलेनानुष्ठानेन केवलया² जात्या वा नैव सम्पूर्णपात्रता । कथं तर्हि ? यत्र पुरुषे वृत्तमनुष्ठानं इमे चोभे विद्यातपसी स्तः च शब्दाद्ब्राह्मणजातिश्च तदेवं मन्वादिभिः सम्पूर्णपात्रं प्रकीर्तितम् । हि यस्मादतः परमुत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानामुत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ २०० ॥ भाषा-केवल (श्रुताध्ययन आदि) विद्या से अथवा केवल (शमदमादि) तपस्या से ही कोई सुपात्र नहीं होता । जिस पुरुष के आचरण में विद्या और तपस्या दोनों ही हों वही श्रेष्ठ पात्र होता है ॥ २०० ॥ सत्पात्रे गवादिदानं देयम्- गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किञ्चिदात्मनः श्रेय इच्छता ॥ २०१ ॥ पूर्वोक्ते पात्रे गवादिकमर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं³ देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः सम्पूर्णफलमिच्छता किञ्चिदल्पमपि न दातव्यम् । श्रेयोग्रहणादपात्रदानेऽपि किमपि⁴ तामसं फलमस्तीति सूचितम् । यथाह कृष्णद्वैपायनः (गी० १७।२२)- 'अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥' इति । अपात्रे न दातव्यमिति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्या- सन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्मै प्रतिश्रवणं वा कृत्वा समर्पयेत्, नत्वपात्रे दातव्यमिति सूचितम् । तथा प्रतिश्रुतमपि पश्चात्पातकादिसंयोगे ज्ञाते न देयम्, 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति निषेधात् ॥ २०१ ॥ भाषा-गाय, भूमि, तिल, सोना आदि पात्र व्यक्ति को ही विधिपूर्वक अर्चना के साथ (दान स्वरूप) देना चाहिए अपने सम्पूर्ण फल की इच्छा करने वाले, (पात्र अपात्र का ज्ञान रखने वाले) विद्वान को अपात्र (क्षत्रियादि एवं पतित ब्राह्मण) को अल्प (दान) भी नहीं देना चाहिए ॥ २०१ ॥ १. योगे पात्रतां । २. केवलजात्या । ३. दकपात्रादीति । ४. किञ्चित्तामसं ।