याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
३७८ : याज्ञवल्क्यस्मृतिः ११७) इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्याल्लभते, मातृकं तु सर्वमेव । एतदेव मनुनोक्तम् ( ९।२१६) —'ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्' इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् ; 'अनीशाः पूर्वजाः पित्रोर्भ्रातृ- र्भागे विभक्तजः' इति स्मरणात् । विभक्तयोर्माता पित्रोर्विभागे विभागात्पूर्व- मुत्पन्नो न स्वामी, विभक्तजश्च भ्रातृभागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किंचिदूर्जितं तत्सर्वं विभक्तजस्यैव; 'पुत्रैः सह विभक्तेन पित्रा यत्स्वय- मर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः पितुरूर्ध्वं तैः सार्धं विभक्तजो विभजेत् । यथाह मनुः ( ९।२१६ )—'संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति ॥— पितुरूर्ध्वं पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह— दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ १२२ ॥ तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तर- कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्भातृभिर्गृहीता- द्धनात् । कीदृशात् ? आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छो- धितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति — प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः^३ किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च विभागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्न- स्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः ( १७।४१ )—'अथ भ्रातॄणां दायविभागो याश्चानपत्याः स्त्रियस्तासा- मापुत्रलाभात्' इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२॥ भाषा—पुत्रों में सम्पत्ति का विभाजन होने के कुछ कालोपरान्त यदि सवर्णा पत्नी से पुत्र उत्पन्न होता है तो वह भी भाग का अधिकारी होता है । पिता के मरने पर यदि भाइयों के विभाग के समय माता को गर्भ हो किन्तु वह ज्ञात न हो और उससे विभाग होने के कुछ कालोपरान्त पुत्र होवे तो आय- व्यय का हिसाब करके उसमें से उसे भाग देना चाहिए ॥ १२२ ॥ १. मातृभागं तु सर्वमेव । मातृभागं । २. कृतमृणं । ३. भागेभ्यो यत्किंचिदुद्धृत्य । ४. समये भ्रातुर्भार्यायामप्रजायामस्पष्टगर्भायां स्वभागा । समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्ध्वं ।
[Page Header] व्यवहाराध्यायः २७६
[Main Text] विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्णातीत्युक्तं, तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति, तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यः; नापि दत्तं प्रत्याहर्तव्यमित्याह— पितृभ्यां यस्य यद् दत्तं तत्तस्यैव धनं भवेत् । मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि, तत्त- स्यैव १ पुत्रस्य, न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यद्दत्तं तत्तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूर्ध्वं विभजतां यस्य यद्दत्तं तत्तस्यैव, नान्यस्येति वेदितव्यम् ॥- जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं, 'यदि कुर्यात्समानांशान्' (व्य० ११५) इत्यादिना । पितुरूर्ध्वं विभागेऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्श- यितुमाह— पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरेत् ॥ १२३ ॥ पितुरूर्ध्वं पितुः प्रयाणादूर्ध्वं ३ विभजतां मातापि स्वपुत्रांशसममंशं हरेत् ,- यदि स्त्रीधनं न दत्तम् ; दत्ते त्वर्धांशहारिणीति वक्ष्यते ४ ॥ १२३ ॥ भाषा—माता-पिता जिस (विभक्त) पुत्र को जो वस्तु देते हैं वह उसी का धन होता है। पिता की मृत्यु के बाद (यदि स्त्रीधन न मिला हो) तो विभाग के समय माता भी पुत्रों के बराबर अंश ग्रहण करे ॥ १२३ ॥ पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह— ५ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । पितुरूर्ध्वं विभजद्भिर्भ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ॥- असंस्कृतासु भगिनीषु विशेषमाह— भगिन्यश्च निजादंशाद् दत्त्वांशं तु तुरीयकम् ॥ १२४ ॥ अस्यार्थः—भगिन्यश्चासंस्कृताः ६ संस्कर्तव्या भ्रातृभिः। किं कृत्वा ? निजादंशाच्चतुर्थमंशं दत्त्वा । अनेन दुहितरोऽपि पितुरूर्ध्वमंशभागिन्य इति गम्यते । तत्र 'निजादंशात्' इति प्रत्येकं परिकल्पितादंशादुद्धृत्य चतुर्थांशो दातव्य ७ इत्येवमर्थो न भवति, किंतु यज्जातीया कन्या, तज्जातीयपुत्रभागाच्चतु-
[Footnotes] १. तस्यैव । २. मातुः स्वपुत्र । ३. प्रयाणा । ४. वक्ष्यति । ५. असंस्कृ- ताश्च । ६. संस्कार्याः । ७. इत्येवमर्थो । इत्यर्थो ।
२५० याज्ञवल्क्यस्मृतिः र्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति—यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावानंशो भवति, तस्य चतुर्थांशस्तस्या भवति । तद्यथा—यदि कस्यचिद् ब्राह्मोगस्यैका पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा पत्नी पुत्रश्चैकः कन्या चैका, तत्र पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्णी- यात् ; यदा तु द्वौ पुत्रौ एका च कन्या, तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयमंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्णीतः; अथ त्वेकः पुत्रो द्वे कन्ये, तदा पित्र्यं धनं त्रिधा विभज्य एकं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वाऽवशिष्टं सर्वं पुत्रो गृह्णातीत्येवं समानजा- तीयेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रिया- कन्या चैका, तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागंस्त्रींश्चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणी- पुत्रौ क्षत्रियाकन्या चैका, तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागांश्चतुर्धा विभज्य चतुर्थमंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्म- णीपुत्रा विभज्य ⁶गृह्णीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च⁷ 'निजादंशाद्दश्वांशं तु तुरीयक'मिति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्वेति व्याख्यानं युक्तम् । मनुवच- नाविरोधात् ( ९।११८ )—'स्वेभ्योऽशेभ्यस्तु कन्याभ्यः प्रदद्युर्भातृरः पृथक् । स्वात्स्वाद्दंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥' इति । अस्यार्थः—ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः चेभ्यः स्वजातिविहितेभ्योऽशेभ्यः 'चतुरों- ऽशान्हरेद्विप्र' ( मनुः ९।१५३ ) इत्यादिवक्ष्यमाणेभ्यः स्वात्स्वात्तदंशादात्मीया- दात्मीयाद्भागाच्चतुर्थं चतुर्थं भागं दद्युः । न चात्मीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते, किंतु स्वजातिविहितादेकस्मादेकस्मादंशात्पृथक्पृथगेकस्याप्येकस्यै कन्यायै चतुर्थोऽशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । 'पतिताः स्युरदित्सव' इत्यकरणे प्रत्यवायश्रवणादवश्यदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनमविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानमेव विवक्षित- मिति चेन्न । स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाददाने प्रत्यवा- यश्रवणाच्चेति । यदपि कैश्चिदुच्यते—अंशदानविवक्षायां बहुभ्रातृकायाः ⁹बहु- धनत्वं, बहुभगिनीकस्य च निर्धनता प्राप्नोतीति, तदुक्तरीत्या परिहृतमेव ।
१. कस्यचिद्ब्राह्मणस्यैका । २. अथ तु । ३. गृह्णीयात् एवं । ४. पित्र्यं धनं । ५. गृह्णीयात् । ६. गृह्णीयाताम् । ७. नच दशांशं तु । ८. संस्कारोप- योगि । ९. बहुधनकत्वं ।
व्यवहारोध्यायः २८१ नह्यात्मीयाङ्गादुद्धृत्य चतुर्थांशस्य दानमुच्यते येन तथा स्यात् ; अतोऽस- हायमेधातिथिप्रभृतीनां व्याख्यानमेव चतुरस्रं, न भारुचेः । तस्मात्पितुरूर्ध्वं कन्याप्यंशभागिनी पूर्वं चेद्यत्किंचित्पिता ददाति, तदेव लभते; विशेषवचना- भावादिति सर्वमनवद्यम् ॥ १२४ ॥ भाषा—पिता की मृत्यु के बाद यदि भाई विभाजन करें तो जिन भाइयों का संस्कार न हुआ हो उनका संस्कार सबके सम्मिलित धन द्वारा होना चाहिए और बहनों का विवाह-संस्कार न हुआ हो तो सभी भाई अपने भाग से चतुर्थांश देकर उनका संस्कार करें ॥ १२४ ॥ एवं 'विभागं चेत्पिता कुर्यात्' (व्य० ११४) इत्यादिना प्रबन्धेन समा- नजातीयानां भ्रातॄणां परस्परं पित्रा च सह विभागस्तृप्तिरुक्ता; अधुना भिन्न- जातीयानां विभागमाह— चतुस्त्रिद्वयेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिद्वयेकभागा विड्जास्तु द्व्येकभागिनः ॥ १२५ ॥ 'तिस्रो वर्णानुपूर्व्येण' (आ० १७) इति ब्राह्मणस्य चतस्रः, क्षत्रियस्य तिस्रः, वैश्यस्य द्वे, शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणी- स्पन्ना वर्णशः—'वर्ण'शब्देन ब्राह्मणादिर्वर्णाः स्त्रिय उच्यन्ते । 'संख्याकवचनाच्च वीप्सायाम्' (पा० ५।४।४३) इत्यधिकरणकारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः४ यथाक्रमं चतुस्त्रिद्वयेकभागाः स्युर्भवेयुः । एत- दुक्तं भवति—ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकश्चतुरश्चतुरो भागान्ल्लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः, 'वर्णशः' इत्यनुवर्तते; यथाक्रमं; त्रिद्वयेकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् , वैश्यायां द्वौ द्वौ, शूद्रायामेकमे- कम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि 'वर्णश' इत्यनुवर्तते, यथाक्रमं द्व्येक- भागिनः । वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्राया- मेकमेकम् । 'शूद्रस्यैकैव भार्या' इति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः; यद्यपि 'चतुस्त्रिद्वयेकभागा' इत्यविशेषेणोक्तं, तथापि प्रतिग्रह- प्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति—'न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै । यद्यप्येषा पिता दद्यान्मृते विप्रौसुतो हरेत् ॥' इति । प्रतिग्रहग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य १. चरिष्ठं, न भागुरेः । २. विड्जौ तु द्वयेकभागिनौ । ३. वर्णास्त्रय उच्यन्ते । ४. १०का एकैकश्चतुस्त्रि।
विशेषप्रतिषेधाच्च । 'शूद्रायां द्विजातिभिर्जातो न भूमेर्भागमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः ( मनुः९।१५५ )—'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थ- भाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति, तदैकांशभागित्यविरुद्धम् ॥ १२५ ॥ भाषा—वर्णानुसार ब्राह्मण के (क्रमशः चार वर्णों की पत्नियों से उत्पन्न) पुत्रों के चार, तीन, दो और एक भाग होते हैं; क्षत्रिय के ( क्रमशः क्षत्रिया, वैश्या और शूद्रा पत्नी से उत्पन्न ) पुत्रों का तीन, दो और एक भाग, वैश्य के ( क्रमशः वैश्या और शूद्रा पत्नियों से उत्पन्न ) पुत्रों के दो और एक भाग होते हैं ॥ १२५ ॥ अथ सर्वविभागशेषे किंचिदुच्यते— अन्योन्यापहृतं $^१$द्रव्यं विभक्ते यत्तु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ १२६ ॥ परस्परपहृतं समुदायद्रव्यं विभागकाले $^३$चाज्ञातं विभक्ते पितृधने यद्- दृश्यते, तत्समैरंशैर्विभजेरन्नित्येवं स्थितिः शास्त्रमर्यादा । अत्र 'समैरंशैः' इति वदतोद्धारविभागो निषिद्धः । विभजेरन्निति वदता येन दृश्यते तेनैव न ग्राह्य- मिति दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्रव्यापहारे दोषाभावपर- त्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम् ( मनुः९।२१३ ) 'यो$^४$ ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥' इति वचनात् $^६$। नैतत् ; यतः संभावित- स्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते । गौतमः—'यो वै भागिनं भागान्नुदते चयते चैनं स यदि चैनं न चयतेऽथ पुत्रमथ पौत्रं चयत'इति । यो भागिनं भागार्हं भागान्नुदते भागादपा- करोति भागं तस्मै न प्रयच्छति, स भागान्नुन्न एनं नोत्तारं चयते नाशयति दोषीणं करोति; यदि तं न नाशयति, तदा तस्य पुत्रं पौत्रं वा नाशयतीति, ज्येष्ठविशेष- मन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनो- ऽपि स्वं भवतीति स्वत्वबुद्ध्या गृह्यमाणं न दोषमावहतीति मतम् । तदसत् , १. प्रप्तं । २. यदि दृश्यते । ३. वा ज्ञातं । ख ज्ञातं । ४. यो लोभाद्वि- निकुर्वीत । ५. चोत्तारं । ६. श्रूयते ।
व्यवहाराध्यायः २८३ स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्वमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोष- मावहत्येव । यथा मौद्गे चरौ विपक्षे सहशतया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वप- क्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति सिद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्र- व्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥ भाषा-विभाग के समय आपस में छिपाकर रखा गया धन यदि पितृ- धन के विभाग के उपरान्त दिखाई पड़े तो वे सभी भाई उसका समान अंश करके विभाजन कर लें; यही नियम है ॥ १२६ ॥ द्व्यामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह— अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥ 'अपुत्रां गुर्वनुज्ञातः' (आ० ६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्रः उभयोर्बीजिक्षेत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः—यदाऽसौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य १ क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति, स द्विपित्रिको द्व्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते २, तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति, न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो ३ वेति । यथोक्तं मनुना (९।५३)—'क्रियाभ्युपगमात्क्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्न- मपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाद्यत्क्षेत्रं क्षेत्रस्वामिना ५बीजाव- पनार्थं बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा (मनुः ९।५२)—'फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्बलीयसी ॥' इति । फलं त्वनभिसंधायेति । अत्रोत्पन्नमपत्यमावयोरुभयोरस्त्वित्येवमनभिसंधाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव । यतो बीजाद्योनिर्बलीयसी; गवाश्वादिषु तथा दर्शनात् । अत्रापि ६नियोगो वाग्दत्ताविषय एव; इतरस्य नियोगस्य मनुना निषिद्धत्वात् (९।५९, ६०) - 'देवराद्वा सपिण्डाद्वा स्त्रिया १. अपरस्य । २. प्रवर्तते । ३. पिण्डदाता च । ४. करणेन यत्क्षेत्रं । ५. बीजवापनार्थं । ६. तथानियोगो ।
[Page-header] २८४ याज्ञवल्क्यस्मृतिः [/Page-header]
सम्यङ्ङियुक्तया । प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिह्वये ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥' इत्येवं नियोगमुपन्यस्य मनुः स्वयमेव निषेधति ( ९।६४,६८ )—'नान्य- स्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन्हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधावुक्तं विधवावेदनं पुनः ॥ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः । मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा। वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं गर्हन्ते तं हि साधवः ॥' इति ॥ न च विहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् ; नियोक्तॄणां निन्दाश्रवणात् , स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात् , संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव ( ५।१५७ )—'कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥' इति जीवनार्थं पुरुषान्त- राश्रयणं प्रतिषिध्य ( मनुः ५।१५८।१६१ )—'आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ अपत्यलोभाद्या तु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥' इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्- विहितप्रतिषिद्धत्वाद्विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस्तर्हि धर्म्यो नियोग इत्यत आह ( मनुः ९।६९।७० )—'यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथा- विध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ ॥' इति। यस्मै वाग्दत्ता कन्या स प्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मिन्प्रेते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय अनेन विधानेन घृताभ्य- ङ्गादिनियमादिनां शुक्लवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्यागर्भग्रह- णात्प्रत्यृत्वेकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनियमवत् , नियुक्ताभिगमनाङ्गमिति न देवरस्य; भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिन एव भवति, न देवरस्य संविदा तूभयोरपि ॥ १२७ ॥ भाषा—पुत्रहीन देवर आदि द्वारा दूसरे की पत्नी से नियोग विधि से
[Page-footer] १. तं विगर्हन्ति-मनुः । २. विध्यभिगम्यैनां । [/Page-footer]
व्यवहाराध्यायः २८५ उत्पन्न पुत्र दोनों की सम्पत्ति का अधिकारी होता है और धर्मानुसार पिण्ड- दान देने वाला होता है ॥ १२७ ॥ समानासमानजातीयानां पुत्राणां विभागक्लृप्तिरुक्ता, अधुना मुख्यगौण- पुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस्तेषां स्वरूपं तावदाह— औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ १२८ ॥ उरसो जात औरसः पुत्रः, स च धर्मपत्नीजः–सवर्णा धर्मविवाहोढा धर्मपत्नी, तस्यां जात औरसः पुत्रो मुख्यः । तत्समः पुत्रिकासुतः तत्सम औरससमः, पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः-'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः; सोऽप्यौ- रससम एव पित्रवयवानामल्पत्वात् , मात्रवयवानां बाहुल्याच्च; यथाह वसिष्ठः ( १७।१५ )—'तृतीयः पुत्रिकैव' इति । तृतीयः पुत्रः पुत्रिकैवेत्यर्थः । द्व्यामुष्या- यणस्तु जनकस्यौरसोदपकृष्टः; अन्यक्षेत्रोत्पन्नत्वात् । 'क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ १२८ ॥ भाषा—धर्मपूर्वक विवाहिता सवर्णा पत्नी से उत्पन्न पुत्र औरस होता है पुत्रिकासुत ( पुत्री का पुत्र, नाती अथवा एकमात्र पुत्री जो पुत्र सी होती है ) उस ( औरस पुत्र ) के समान ही होता है । क्षेत्रज और क्षेत्रजात पुत्र सगोत्र या दूसरे सपिण्ड आदि द्वारा उत्पन्न होता है ॥ १२८ ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्नं उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णात्स मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता, अथोढा तदा वोढुरेव पुत्रः । यथाह मनुः ( ९।१७२ )— 'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः । तं कानीनं वदेन्नाम्ना वोढुः कन्यासं- मुद्भवम् ॥' इति ॥ १२९ ॥ भाषा—घर में ( भिन्न जाति के पुरुष संसर्ग के कारण ) प्रच्छन्न रूप से उत्पन्न पुत्र गूढज कहलाता है और कुँवारी कन्या से उत्पन्न कानीन मातामह अर्थात् नाना का पुत्र होता है ॥ १२९ ॥ १. स्यौरसान्निकृष्टो ।
२८६ याज्ञवल्क्यस्मृतिः अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ १३० ॥ पौनर्भवस्तु पुत्रोऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णादुत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते, स तस्य दत्तकः पुत्रः । यथाह मनुः ( ९।१६८ )—'माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥' इति । आपद्ग्रहणादनापदि न देयः; दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' ( १५।२ ) इति वसिष्ठस्मरणात् । तथाऽनेकपु- त्रसद्भावेऽपि ज्येष्ठो न देयः । 'ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः' ( मनुः ९।१०६ )—इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश्च 'पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर्हुत्वा अदूर- बान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । 'अदूरबान्धवम्' इत्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः १ । एवं क्रीतस्वयंदत्तकृत्रिमेष्वपि योजनीयम्; समानन्यायत्वात् ॥ १३० ॥ भाषा - अक्षता ( पहले पुरुष सम्पर्क से वञ्चित ) या क्षता ( जो पहले यौन संबन्ध का अनुभव कर चुकी हो ) सवर्णा पुनर्भू ( पुनः विवाहिता ) का पुत्र पौनर्भव होता है; जिस पुत्र को माता और पिता किसी को दे देवे वह दत्तकपुत्र कहलाता है ॥ १३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ १३१ ॥ क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् , तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् ( ९।१७४ )—'क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥' इति, तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं, न जात्या; 'सजातीयेष्वयं प्रोक्तस्तनयेषु' ( व्य० १३३ ) इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादि- ३प्रलोभनैः पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्त४स्त्व- १. निषेधः । २. गर्भे भिन्नः । ३. प्रलोमेन । ४. स्वयंदत्त उपनतः ।
व्यवहाराध्यायः २८७ मुपगतः । सहोढजस्तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ १३१ ॥ भाषा-माता-पिता द्वारा (या उनमें से किसी एक द्वारा) धन लेकर दूसरे के हाथ बेचा गया पुत्र क्रीतपुत्र होता है और स्वयं बनाया गया पुत्र कृत्रिम कहलाता है। (माता पिता से व्यक्त या हीन होकर) स्वयं को पुत्र के रूप में अर्पित करने वाला दत्तात्मा और विवाह के समय जो गर्भ में रहा हो वह सहोढज पुत्र कहलाता है ॥ १३१ ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते, स ग्रहीतुः पुत्रः . सर्वत्र सवर्ण इत्येव ॥- एवं मुख्यामुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह- पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥ १३२ ॥ एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोंऽशहरो धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुरपवादमाह (९।१३४ ) - 'पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते । समस्तत्र विभागः स्याज्ज्येष्ठता नास्ति हि स्त्रियाः ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । 'तस्मिं- श्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तकः' ( १५।९ ) इति । 'दत्तक'ग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् ; पुत्रीकरणाविशेषात् । तथा च कात्यायनः- 'उत्पन्ने त्वौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ॥' इति । सवर्णा दत्तकक्षेत्रजादयस्ते सत्यौरसे चतुर्थां- शहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास्ते त्वौरसे सति न चतु- र्थांशहराः, किंतु ग्रासाच्छादनभाजनाः । यदपि विष्णुवचनम्- 'अप्रशस्तास्तु कानीनगूढोत्पन्नसहोढजाः । पौनर्भवश्च नैवैते पिण्डरिक्थांशभागिनः ॥' इति, तदप्यौरसे सति चतुर्थांशनिषेधपरमेव; औरसाद्यभावे तु कानीनादी- नामपि सकलपिण्डधनग्रहणमस्त्येव । 'पूर्वाभावे परः परः' इति वचनात् ॥ यदपि मनुवचनम् (९।१६३) - 'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषा- णामानृशंस्यार्थं प्रदद्यात्तु प्रजीवनम् ॥' इति, तदपि दत्तकादीनामौरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस्तेनैव (मनुः९।१६४) - १. चतुर्थांश ।
२८८ याज्ञवल्क्यस्मृतिः 'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥' इति प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्ठमंशम् , एकतरसद्भावे पञ्चममिति विवेक्तव्यम् ॥ यदपि मनुना पुत्राणां षट्कद्वयमुपन्यस्य पूर्वषट्कस्य दायादबान्ध- वत्वमुक्तम् , उत्तरषट्कस्यादायादबान्धवत्वमुक्तम् ( मनुः ९।१५९।१६० )— 'औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च शौद्रश्च षडदायाद- बान्धवाः ॥' इति, तदपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तरा- भावे पूर्वषट्कस्य तद्रिक्थहरत्वम् , उत्तरषट्कस्य तु तन्नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि सममेवेति व्याख्येयम् ॥ ( मनुः ९।१४२ )—'गोत्ररिक्थे जनयितुर्न भजेत्कृत्रिमः सुतः । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥' इत्यत्र 'दत्रिम'ग्रहणस्य पुत्र- प्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम- विशिष्टम् । ( मनुः ९।१८५ )—'न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।' इत्यौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु ( मनुः ९।१३६ )—'एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।' इत्यनेनैव रिक्थभाक्त्वस्योक्तत्वात् । 'दायाद'शब्दस्य 'दायादानपि दापयेत्' इत्यादौ पुत्रव्यतिरिक्तरिक्थभागिविषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठादिषु वर्ग- द्वयेऽपि कस्यचिद्व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये तु 'पौत्रिके यस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात्स्थितमेतत्पूर्वपूर्वाभावे परः परोऽंशभागिति ॥ यत्तु ( ९।१८२ )—'भ्रातॄणामेकजातानामेकश्चेत्पुत्र- वान्भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥' इति, तदपि भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थम् , न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा बन्धुः-’ ( व्य० १३५ ) इत्यनेन विरोधात् ॥ १३२ ॥ भाषा—माता पिता द्वारा छोड़ा जाने पर जो पुत्र ग्रहण किया जाता है वह अपविद्ध पुत्र होता है । इन पूतों में पहले-पहले के अभाव में बादवाले पिण्ड, दान एवं सम्पत्ति के अंशग्रहण के अधिकारी होते हैं ॥ १३२ ॥ इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह— सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं 'पूर्वाभावे परः पर' इत्युक्तो विधिः, न भिन्न- जातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण, १. सर्वांस्तांस्ते ।
अथव्यवहाराध्यायः २८६ न स्वरूपेण; तेषां वर्णजातित्वलक्षणस्याभावस्योक्तत्वात् । तथानुलोमजानां मूर्धाव- सिकादीनामौरसेष्वन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते। यथाह मनुः (९।१५४) —'यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रा- पुत्राय धर्मतः ॥' इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रोऽविद्यमान- द्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वाऽन्यो वा सपिण्डः शूद्रापुत्राय तद्ध- नाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णपुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभागे विशेषमाह— जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ १३३ ॥ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥ १३४ ॥ शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरूध्वं तु यदि परिणीतापुत्राः सन्ति तदा ते भ्रातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः, स्वभागादर्धं दद्युरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं दासी- पुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । तत्सद्भावे त्वर्ध- भागिक एव दासीपुत्रः । अत्र च 'शूद्र'ग्रहणाद् द्विजातिना दास्यामुत्पन्नः पितुरिच्छयाऽप्यंशं न लभते नाप्यर्धं, दुहितर एव कृत्स्नम्⁵ । किन्त्वनुकूल- श्चेज्जीवनमात्रं लभते ॥ १३३-१३४ ॥ भाषा—मैंने समान जाति के पुत्रों के विषय में यह पूर्व और परभाव का उल्लेख किया है। शूद्र द्वारा दासी से भी उत्पन्न पुत्र पिता की इच्छा से अंशग्राही होता है। पिता की मृत्यु के बाद भाई ( = परिणीता पत्नी के पुत्र ) उस दासीपुत्र को आधा भाग प्रदान करें। भाई (परिणीतापुत्र) न हों और विवाहिता पुत्रियाँ एवं उनके पुत्र न हों तो दासीपुत्र सम्पूर्ण धन ले लेवे ॥ १३३-१३४ ॥ मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम्, तेषामभावे सर्वेषां दायादक्रम उच्यते— पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा ⁶बन्धुशिष्यसब्रह्मचारिणः ॥ १३५ ॥ १. स्वरूपद्वारेण । २. प्यसत्पुत्रोऽपि वा भवेत् । ३. विभागेऽपि । ४. धनं गृह्णीयात् । ५. कृत्स्नं धनं, दूरत एव । ६. बन्धुशिष्याः सब्रह्म ।
२६० याज्ञवल्क्यस्मृतिः एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ॥ पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः, तस्यापुत्रस्य स्वर्यातस्य पर- लोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु१ अनुलो- मजेषु सूतादिषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिष्वयं दायग्रहणविधिर्दायग्रह- णक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता 'पत्युर्नो यज्ञसंयोगे' (अ० ४।१।३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्व्यश्चेत्सजातीया विजातीयाश्च तदा यथांशं विभज्य धनं गृह्णन्ति३ । वृद्ध- मनुरपि पत्न्याः समग्रधनसंबन्धं वक्ति—'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति । वृद्धविष्णुरपि— 'अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे पितृगामि, तदभावे भ्रातृगामि' इति । कात्यायनोऽपि—'पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । तथा 'अपुत्रै५स्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति । बृह- स्पतिरपि (बृह. २५।४८)—'कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' एतद्विरुद्धानीव६ वाक्यानि लक्ष्यन्ते (ना० १३।- २५-२६) 'भ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तु ॥' इति पत्नीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितुर्भ्रातुर्वेति दर्शितम् । तथा (मनुः ९।- २१७)—'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितु- र्माता हरेद्धनम् ॥' इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्खनापि— 'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोर्ज्येष्ठायाश्च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायने- नापि—'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥' इत्येवमादीनां विरुद्धाथानां वाक्यानां धारेश्वरेण व्यवस्था दर्शिता—'पत्नी गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । १. दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं । २. भाक् विवाह । ३. गृह्णन्ति यथा । ४. धनग्रहणं । ५. स्यार्यकुलजा । ६. विरुद्धानि च वाक्यानीह ।
व्यवहाराध्यायः २६१
सा च यदि नियोगाथिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनग्रहणं न स्वतन्त्रायां इति । 'पिता हरेदपुत्रस्य' ( मनुः ९।१८५ ) इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद् व्यवस्थाकारणमस्ति इति गौतमवचनाच्च (२९।५६) 'पिण्डगोत्रर्षिसम्बन्धा रिक्थं भजेरन् स्त्री वाऽनपत्यस्य बीजं लिप्सेत' इति । अस्यार्थः - पिण्डगोत्रर्षिसम्बन्धा अनपत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९।१४६) — धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्श- यति विभक्तधनेऽपि भ्रातुर्युपरतेऽपत्यद्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । तथाऽविभक्तधनेऽपि ( मनुः ९।१२० ) — 'कनीयाञ्ज्येष्ठभार्यायां पुत्रमुत्पादये- द्यदि । समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥' इति । तथा वसिष्ठोऽपि ( १७।४८ ) 'रिक्थलोभान्नास्ति नियोगः' इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धनसंबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पत्न्या भरणमात्रमेव नारदवचनात् 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति । योगीश्वरेणापि किल वक्ष्यते (व्य० १४२) — 'अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥' इति । अपि च, द्विजातिधनस्य यथार्थत्वात् स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्तम् । यथा च केनापि स्मृतम् — 'यज्ञार्थे द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । अरिक्थभाजस्ते सर्वे ग्रासाच्छादनभाजनाः ॥ यज्ञार्थं विहितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्म- जुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥' इति, — तदनुपपन्नम् ; 'पत्नी दुहितरः' (व्य० १३५) इत्यत्र नियोगस्याप्रतीतेरप्रस्तुतत्वाच्च । अपि चेदमत्र वक्तव्यम्, — पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तन्न नियोगस्यैव निमित्तत्वे अनुत्पादित- पुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति अथ तदपत्यस्यैव निमित्तत्वं, तथा सति पुत्रस्यैव धनसंबन्धात्पत्नीति नारब्धव्यम् ॥ अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् , — तद्- प्यसत् ; ( मनुः ९।१९४ ) — 'अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥' इत्यादिविरोधात् । किंच; सर्वथा पुत्राभावे 'पत्नी दुहितरः' इत्यारब्धम् । तन्न नियुक्ताया धनसंबन्धं वदता क्षेत्र- जस्यैव धनसंबन्धं उक्तो भवति । स च प्रागेवाभिहित इति 'अपुत्रप्रकरणे पत्नी' ति नारब्धव्यम् । अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन्स्त्री वाऽनपत्यस्य बीजं लिप्सेत' ( गौ० २९।५ ) इति गौतमवचनान्नियुक्ताया धनसंबन्ध इति । तद्-
१. संबन्धो युक्तो । १९ या०
२६२ याज्ञवल्क्यस्मृतिः प्यसत् ,-नहि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थो- ऽस्मात्प्रतीयते । किंतु 'अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन्स्त्री वा सो^१ त्री बीजं वा लिप्सेत संयता वा भवेत्'इति तस्या धर्मान्तरोपदेशः; 'वा'शब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं, न नियुक्तायाः स्मृतिलोकनिन्दितायाः । 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति संयताया एव धन- ग्रहणमुक्तम् ॥ तथा नियोगश्च निन्दितो मनुना (९।६४)—'नान्यस्मिन्विधवा नारी नियो- क्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥'इत्यादिना यत्तु वसिष्ठवचनम् ( १७।६५ ) 'रिक्थलोभान्नास्ति नियोगः' इति, तदविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थं नियोगो न कर्तव्य इति व्याख्येयम् । यदपि नारदवचनम् (१३।२६)—'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' इति, तदपि 'संसृष्टिनां तु यो भागस्तेषामेव स इष्यते' इति ^२संसृष्टानां प्रस्तुतत्वात्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिपादन- परम् । नच 'भ्रातृणामप्रजाः प्रेयात्' (ना० १३।२४) इत्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां^२ तु यो भाग' ( ना० १३।२४ ) इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । यदपि 'अपुत्रा योषितश्चैषाम्' (व्य० १४०) इत्यादिवचनं, तत् क्लीबादिस्त्रीवि- षयमिति ^३वक्ष्यते । यत्तु 'द्विजातिधनस्य यज्ञार्थत्वात्स्त्रीणां च यज्ञेऽनधिकाराद्धन- ग्रहणमयुक्त'मिति,-तदसत् ; सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वाद्दानहोमादीनामपि धर्मत्वात्तदर्थत्वमविरुद्धमिति मतम् । एवं तर्ह्यर्थकामयोर्धनसाध्ययोरसिद्धिरेव स्यात् । तथा सति 'धर्मार्थका- मान्स्वे काले यथाशक्ति न हापयेत्' (आ० ११५) । तथा 'न पूर्वाह्णमध्यन्दिनापरा- ह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः' (गौ० ९।२४) । तथा 'न तथैतानि शक्यन्ते संनियन्तुमसेवया' ( मनुः २।९६ ) इत्यादिद्याज्ञवल्क्यगौतममनुवचन- विरोधः । अपि च धनस्य यज्ञार्थत्वे 'हिरण्यं धार्यम्' इति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्तं तत्प्रत्युद्धतं स्यात् । किंच यज्ञशब्दस्य धर्मो- पलक्षणपरत्वे स्त्रीणामपि पूर्तधर्माधिकाराद्धनग्रहणंयुक्ततरम् । यत्तु पारतन्त्र्यवचनं 'न स्त्री स्वातन्त्र्यमर्हति' (मनुः ९।३) इत्यादि तदस्तु पारतन्त्र्यं, धनस्वीकारे तु को विरोधः ॥ कथं तर्हि 'यज्ञार्थं द्रव्यमुत्पन्नम्' इत्यादिवचनम् ? उच्यते— 'यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिभिरपी'त्येवं परं तत् ।—
१. सा बीजं वा । २. संसृष्टिनां तु । ३. वक्ष्यति ।
*'यज्ञार्थं लब्धमददद्भासः काकोऽपि वा भवेत्' (आ० १२७) इति दोषश्रवणस्य पुत्रादिष्वप्यविशेषात् । यदपि कात्यायनेनोक्तम्—'अदायिकं राजगामि योषिद्भृ- त्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥' इति । अदायिकं दायादरहितं यद्धनं तद्राजगामि राज्ञो भवति, योषिद्भृत्योर्ध्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्युपयुक्तं चापरस्य परि- हृत्य राजगामि भवतीति संबन्धः । अस्यापवादं उत्तरार्धे । श्रोत्रियद्रव्यं च योषि- द्भृत्योर्ध्वदेहिकमपास्य 'श्रोत्रियायोपपादये'दिति, तदप्यवरुद्धस्त्रीविषयम्; योषिद्ग्र- हणात् । नारदवचनं च (१३।५२)—'अन्यत्र ब्राह्मणात्किंतु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥' इत्यवरुद्धस्त्रीविषयमेव । स्त्रीशब्द- ग्रहणात् । इह तु 'पत्नी' शब्दादूढायाः संयताया धनग्रहणमविरुद्धम् । तस्मा- द्विभक्तासंसृष्टिन्यपुत्रे स्वर्ग्याते पत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवति । विभागस्योक्तत्वादसंसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीकरादि- भिरुक्तं निरस्तं वेदितव्यम् । तथा ह्यौरसेषु पुत्रेषु सत्स्वपि जीवद्विभागे अजीव- द्विभागे च पत्न्याः पुत्रसमांशग्रहणमुक्तम् (व्य० ११५)—'यदि कुर्यात्समानं- शान् पत्न्यः कार्याः समांशिकाः' इति । तथा—'पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत्' इति च, तथासत्यपुत्रस्य स्वर्ग्यात्तस्य धनं पत्नी भरणादतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ 'पत्न्यः कार्याः समांशिका' (व्य० ११५) इत्यत्र 'माताऽप्यंशं समं हरेत्' (व्य० १२३) इत्यत्र च जीवनोपयुक्तमेव धनं स्त्री हर- तीति मतं;—तदसत्; 'अंश'शब्दस्य 'सम'शब्दस्य चानर्थक्यप्रसङ्गात् । स्यान्म- तम्—बहुधने जीवनोपयुक्तं धनं गृह्णाति अल्पे तु पुत्रांशसममंशं गृह्णातीति । तच्च न विधिवैषम्यप्रसङ्गात् । तथा हि 'पत्न्यः कार्याः समांशिकाः' 'माताऽप्यंशं समं हरेत्' इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरमपेक्ष्य प्रतिपादयति, अल्प- धने तु पुत्रांशसममंशं प्रतिपादयतीति । यथा चातुर्मास्येषु 'द्वयोः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या 'न वैश्वदेवे उत्तरवेदिमुपकिरन्ति' 'न शुनासीरीये' इत्युत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैक- देशिना 'न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोरयं प्रतिषेधः किंतुप्तार्वं वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रति- षेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणा 'उ॑पान्न वपन्ति' इति प्रथमोत्तमयोः पर्वणोः प्रतिषेधमपेक्ष्य पाक्षिकीमुत्तरवेदिं प्रोपयति । मध्यमयोस्तु निरपेक्षमेव नित्यवदुत्तरवेदिं प्रापयति' (जै० ७।३।२३-२५) इति विधिवैषम्यं दर्शितम् ।
१. दिष्वविशेषात् । २. आदायकं । ३. ऽपवादः । श्रोत्रिय । ४. श्रीकारादिभिः । ५. तथा पत्न्यः । ६. स्त्रीधनमिति मतं । ७. तथा । ८. तूपात्त, तूपात्र । ९. प्रतिपाद्यति ।
२६४ याज्ञवल्क्यस्मृतिः राद्धान्तेऽपि विधिवैषम्यभयात्प्रथमोत्तमयोः पर्वणोरुत्तरवेदिप्रतिषेधो नित्यानु- वादो 'द्वयोः प्रणयन्ति' इत्यस्यार्थवादपर्यालोचनया 'उपान्ते वपन्ति' इति मध्य- मयोरेव वरुणप्रघाससाकमेधपर्वणोरुत्तरवेदिं विधत्त इति दर्शितम् । यदपि मतम् ( मनुः ९।१८५ )—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात् , तथा—स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति शङ्खस्मरणाच्च अपुत्रस्य धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात्' ( ना० १३।२६ ) इत्यादि- वचनाच्च भरणोपयुक्तं धनं पत्नी लभत इत्यपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्यात भरणोपयुक्तं पत्नी गृह्णाति, शेषं च भ्रातरः। यदा तु पत्नीभरण- मात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यूनं वा तदा किं पत्न्येव गृह्णात्युत भ्रात- रोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनाथं 'पत्नी दुहितर' इत्यारब्धमिति, तद- प्यन्न भगवानाचार्यो न क्षंस्यति । यतः ( मनुः ९।१८५ )—'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्मरणान्नेदं क्रमपरं वचनम् , अपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच्चासत्यपि पत्न्यादिगणे घटत इति व्याचचक्षे । शङ्खवचनमपि संसृष्टभ्रातृविषयमिति । अपि चाल्पविषयत्वमस्मा- द्वचनात्प्रकरणाद्वा नावगम्यते । 'धनभागुत्तरोत्तरः' ( व्य० १३६ ) इत्यस्य च 'पत्नी दुहितर' इति विषयद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वम् , पित्रादिषु तु धनमात्रविषयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति । यत्तु हारीतवचनम्—विधवा यौवनस्था चेन्नारी भवति कर्कशा । आयुषः क्षप- णार्थं तु दातव्यं जीवनं तदा ॥' इति,—तदपि शङ्कितव्यभिचारायाः सकल- धनग्रहणनिषेधपरम् । अस्मादेव वचनादनाशङ्कितव्यभिचारायाः सकलधन- ग्रहणं गम्यते । एतदेवाभिप्रेत्योक्तं शङ्खेन 'ज्येष्ठा वा पत्नी' इति । ज्येष्ठा गुणज्येष्ठा अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वाऽन्या कर्कशामपि मातृवत्पालयतीति सर्वमनवद्यम् । तस्मादपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृ- ष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति स्थितम् । तदभावे दुहितरः । 'दुहितर' इति बहुवचनं समानजातीयानामसमान- जातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायनः—'पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति बृहस्प- तिरपि (२५।५५-५६)—'भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता । अङ्गाद- ङ्गात्संभवति पुत्रवद् दुहिता नृणाम् ॥ तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः॥'
१. हरेतां । २. अपुत्रधनं । ३. श्रवणात् । ४. धिकारमात्रप्रदर्शनपरं । ५. संसृष्टविषयं । ६. वचनादशङ्कित ।
इति । तत्र चोढानूढासमवायेऽनूढैव गृह्णाति । 'तदभावे तु दुहिता यद्यनूढा भवे- त्तदा' इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठानां समवाये अप्रतिष्ठितैव तद- भावे प्रतिष्ठिता; 'स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' (गौ. २९।६) इति गौतमवचनस्य पितृधनेऽपि समानत्वात् । न चैतत्पुत्रिकाविषयमिति मन्तव्यम् । 'तत्समः पुत्रिकासुतः'इति पुत्रिकायास्तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधा- नात्। 'च'शब्दाद्दुहितृभावे दौहित्रो धनभाक् । यथाह विष्णुः—'अपुत्रपौत्रसंताने दौहित्रा धनमाप्नुयुः । पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥' इति मनु- रपि (९।१३६)—'अकृतां वा कृता वाऽपि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम् ॥' इति ॥
तदभावे पितरौ मातापितरौ धनभाजौ । यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते, तथापि विग्रहवाक्ये 'मातृ'शब्दस्य पूर्वनिपातादेकशेषाभावपक्षे च मातापितराविति 'मातृ'शब्दस्य पूर्वं श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसंबंधेऽपि क्रमापेक्षायां, प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक्, तदभावे पितेति गम्यते । किंच पिता पुत्रान्तरेष्वपि साधारणः; माता तु न साधारणीति प्रत्यासत्त्यतिशयात् 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' (मनुः ९।१८७) इति वचनान्मा- तुरेव प्रथमं धनग्रहणं युक्तम् । नच सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका, अपि तु समानोदकादिष्वप्यविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्यस्मादेव वचनादवगम्यत इति। मातापित्रोर्मातुरेव प्रत्यासत्त्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे पिता धनभाक् ।
पित्रभावे भ्रातरो धनभाजः । तथा च ( मनुः ९।१८५ )—'पिता हरेदपु- त्रस्य रिक्थं भ्रातर एव वा' इति । यत्पुनर्धारेश्वरेणोक्तम् ( ९।२१७ )—'अन- पत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्ध- नम् ॥' इति मनुवचनाज्जीवत्यपि पितरि मातरि वृत्तायां पितुर्माता पितामही धनं हरेन्न पिता। यतः पितृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामही- गृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव गृह्णातीति । एतदप्याचार्यो नानु- मन्यते । विजातीयपुत्राणामपि धनग्रहणस्योक्तत्वात् , 'चतुस्त्रिद्वयेकभागाः स्युः' ( व्य० १२५ ) इत्यादिनेति । यत्पुनः ( मनुः ९।१८९ )—'अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुस्मरणं तन्नृपाभिप्रायं, नतु पुत्राभिप्रायम् । भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' ( मनुः ९।१८७ ) इति स्मरणात् ।
१. अकृता वा कृता वापि ।
२६६ याज्ञवल्क्यस्मृतिः सोदराणामभावे भिन्नोदरा धनभाजः, भ्रातृणामप्यभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधिकारः, भ्रात्रभावे भ्रातृपुत्रा- णामधिकारवचनात् ; यदा स्वपुत्रे भ्रातरि स्वर्यात तद्भ्रातृणामविशेषेण धन- संबन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणां पितृ- तोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे 'पितृतो भागकल्पना' (व्य० १२०) इति युक्तम् ॥ भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । 'मातर्यपि च वृत्तायां पितुर्माता धनं हरेत्' (मनुः ९।२१७) —इति मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात , 'पितुर्माता धनं हरेत्' इत्यस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतान- न्तरं पितामही गृह्णातीत्यविरोधः ॥ पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः; भिन्नगोत्राणां सपिण्डानां 'बन्धु'शब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येवमासप्तमात्स- मानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषामभावे समानोदकानां धन- संबन्धः ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाऽऽह बृहन्मनुः—'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति । गोत्रजाभावे बन्धवो धनभाजः । बन्धवश्च त्रिविधाः—आत्मबन्धवः, पितृ- बन्धवः, मातृबन्धवश्चेति । यथोक्तम् —'आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृ- ष्वसुः पुत्रा मातृमातृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥' इति ॥ तत्र चान्तरङ्गत्वात्प्रथममात्मबन्धवो धनभाजस्तदभावे पितृबन्धवस्तद- भावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्यः, तदभावे शिष्यः—'पुत्राभावे यः प्रत्यासन्नः सपिण्डः, तदभावे आचार्यः, आचार्याभावे- ऽन्तेवासी' इत्यापस्तम्बस्मरणात् ॥ शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्मादाचार्यादुपनयनाद्यध्यन- तदर्थज्ञानप्राप्तिः, स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णी- यात् 'श्रोत्रिया ब्राह्मणास्त्वनपत्यस्य रिक्थं भजेरन्' (२५।४१) इति गौतमस्मर- णात् । तदभावे ब्राह्मणमात्रम् । यथाऽऽह मनुः (९।१८६)—'सर्वेषामप्यभावे तु
व्यवहाराध्यायः २६७ ब्राह्मणा रिक्थभागिनः । त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥' इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् ; 'अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्य- मिति स्थितिः' ( ९।१८९ ) इति मनुवचनात् । नारदेनाप्युक्तम् — 'ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन । ब्राह्मणायैव दातव्यमेनव्वी स्यान्नृपोऽन्यथा ॥' इति ॥ क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् । न ब्राह्मणः । यथाऽऽह मनुः ( ९।१८९ ) — 'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृप' इति ॥ १३५-१३६ ॥ भाषा—जिसके पूर्वोक्त बारह प्रकार के पुत्रों में से किसी भी प्रकार का पुत्र न होवे उस पुत्रहीन के मर जाने पर पत्नी, पुत्रियाँ, माता-पिता, भाई, भाइयों के पुत्र, गोत्र में उत्पन्न व्यक्ति, बन्धु, शिष्य और ब्रह्मचारी में पहले-पहले के न होने पर उसके बाद वाले धन के अधिकारी होते हैं । यह विधि सभी वर्णों के लिये है ॥ १३५-१३६ ॥ पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्न्यादय इत्युक्तं, इदानीं तदुभयाप- वादमाह — वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ १३७ ॥ वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्यः, सच्छिष्यः, धर्मभ्रात्रेकतीर्थी च, रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्ठिकः । उपकुर्वा- णस्य तु धनं मात्रादय एव गृह्णन्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यो गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्र- श्रवणधारणतदर्थानुष्ठानक्षमः; दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्णाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रा- दिषु सत्स्वप्येकतीर्थ्येव गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठ- स्मरणादाश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस्तद्विभागः ? नच नैष्ठि- कस्य स्वार्जितधनसंबंधो युक्तः; प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः' ( ३।७ ) इति गौतमस्मरणात् । भिक्षोरपि न स्वार्जितधनसंबंधसंभवः । उच्यते—वान- प्रस्थस्य तावत्—'अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा। अर्थस्य निचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥' ( प्राय० ४७) इति वचनाद्धनसंबंधो- ऽस्त्येव । यतेरपि—'कौपीनाच्छादनार्थं वा वासोऽपि बिभृयात्तथा । योगसंभार- १. संबन्धः प्रतिग्रहादिः । २. धनसंभवः । ३. हि वासोऽपि बिभृयात्तथा ।