भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

३८६ याज्ञवल्क्यस्मृतिः मूत्रपुरीषादिना अभक्ष्येण अद्यानर्हेण दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा ब्राह्मणं दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् , वैश्यं दूषयित्वा प्रथमम् , शूद्रं दूषयित्वा प्रथमसाहस- स्यार्धम् , 'दण्ड्यो भवति' इति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारत- म्याद्दण्डतारतम्यूहनीयम् ॥ २९६ ॥ भाषा—मूत्र, पुरीष आदि अपवित्र या अभक्ष्य पदार्थ द्वारा ब्राह्मण के अन्न और जल को दूषित करने वाला उत्तम साहस के दण्ड का भागी होता है । क्षत्रिय को इस प्रकार दूषित करने वाला मध्यम साहस के, वैश्य को दूषित करने वाला प्रथम साहस के और शूद्र को इस प्रकार दूषित करने वाला प्रथम साहस के आधा दण्ड के योग्य होता है ॥ २९६ ॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २९७ ॥ किंच, रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर्व्यवहारशीलो यः स्वर्णका- रादिः । यश्च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः, ‘च’शब्दात्कूटरजतादिव्यवहारी च, ते सर्वे प्रत्येकं नासाकर्णकरैस्त्रिभिरङ्गैर्हीनाः कार्याः । 'च'शब्दोस्त्र्यङ्गच्छेदेन समुच्चितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनु- नोक्तम् ( ९-२९२ )—'सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमान- मन्याये छेदयेल्लवशः क्षुरैः ॥' इति,-तदेतद् देवब्राह्मणराजस्वर्णविषयम् ॥२९७॥ भाषा—कूट स्वर्ण ( सोने का पानी चढ़ाकर बनाये गये खोटे सोने ) का व्यवहार करने वाले और निषिद्ध अर्थात् कुत्ते आदि का मांस बेचने वाले के तीन अंग ( नाक, कान और हाथ ) काट कर उन्हें उत्तम साहस का दण्ड देना चाहिए ॥ २९७ ॥ विषयविशेषे दण्डाभावमाह— चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः । काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस्तथा ॥ २९८ ॥ चतुष्पादैर्गोजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादि- स्वामिनो न भवति, अपसरेति प्रकर्षेणोच्चैर्भाषमाणस्य । तथा लकुटलोष्टसायक- पाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन्प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वककरणनिमित्त मस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥ १. द्रव्यरूपेण । २. शब्दवाद्यङ्गच्छेदेन । ३. 'ण बाह्रायुग्य' ।

व्यवहाराध्यायः ३८७ भाषा—'हटो हटो' इस प्रकार चिल्लाकर स्वामी के सावधान करने पर भी यदि चौपाए ( गाय, बैल, हाथी आदि ) कोई दोष करें अर्थात् किसी को मार दें तो स्वामी का दोष नहीं होता; इसी प्रकार हटने के लिये आवाज देते हुए काठ, ढेला, बाण, पत्थर फेंकने से, हाथ चलाने से और रथ में जुते हुए घोड़ों से किसी को चोट लगने पर भी फेंकने, चलाने या हाँकने वाले का दोष नहीं होता ॥ २९८ ॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९९ ॥ किंच, नसि भवा रज्जुर्नस्या छिन्ना शकटादियुक्तबलीवर्दंनस्या रज्जुर्य- स्मिन्द्याने तत् छिन्ननस्यं शकटादि तेन, तथा भग्नयुगेन 'आदि'ग्रहणाद्भग्ना- क्षचक्रादिना च यानेन पश्चात्पृष्ठतोऽपसरता 'च'शब्दात्तिर्यगपगच्छता प्रतिमुखं वागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति । अतत्प्र- यत्नजनितत्त्वाद्धिंसनस्य । तथा च मनुः ( ८।२९१।२९२ )—'छिन्ननस्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे सत्यपैहीति न दण्डं मनुर- ब्रवीत् ॥' इति ॥ २९९ ॥ भाषा—गाड़ी में बैलों को नाँधने के लिए लगी हुई रस्सी ( जोता ) के टूटने पर और जुए आदि के टूटने से तथा यान ( गाड़ी ) के पीछे चलने से किसी मनुष्य आदि की हिंसा हो जाय तो यान का स्वामी दोषी नहीं होता ॥ २९९ ॥ उपेक्षायां स्वामिनो दण्डमाह— शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ ३०० ॥ अप्रवीणप्राजकप्रेरितैर्दंष्ट्रिभिर्गजादिभिः शृङ्गिभिर्गवादिभिर्वध्यमानं सम- र्थोऽपि तत्स्वामी यद्यमोक्षयन्नुपेक्षते, तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु 'मारितोऽहम्' इति विक्रुष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः ( ८।२९४ )—'प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति' इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच्च दण्डविशेषः कल्पनीयः । यथाह मनुः ( ८।२९६-९८ )—'मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् । १. तिर्यगपसरता । २. आक्रन्दनेप्यपैहीति । २५ या०

३८८ याज्ञवल्क्यस्मृतिः प्राणभृत्सु महस्त्वर्धं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥' इति ॥ ३०० ॥ भाषा—दाँत वाले (हाथी आदि) और सींग वाले (बैल आदि) पशुओं का स्वामी यदि समर्थ होते हुए भी इनके आक्रमण से किसी को न छुड़ावे तो उसे प्रथम साहस का दण्ड होता है और यदि उस व्यक्ति के (जिसे पशु मार रहा हो) रक्षा के लिये चिल्लाने पर भी नहीं बचाता तो वह प्रथम साहस के दण्ड से दूना दण्ड का भागी होता है ॥ ३०० ॥ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥ किंच, स्ववंशकलङ्कभयाज्जारं पारदारिकं 'चौर ! निर्गच्छे'त्यभिवदन् पञ्च- शतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्जा रह- स्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद् गृहीतं तावदष्ट- गुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥ भाषा—यदि कोई अपने कुल की प्रतिष्ठा बचाने के लिए जार (अर्थात् व्यभिचारी) को चोर-चोर कहकर भाग जाने दे तो उससे पाँच सौ पण दण्ड लेना चाहिए और यदि उस जार से उत्कोच के रूप में धन लेकर उसे छोड़ दे तो उसके अठगुना दण्ड होता है ॥ ३०१ ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२ ॥ किंच, राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापचयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रा निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९।२७५)—'राज्ञः कोशापहतॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विवि- धैर्दण्डैररीणां^३ चोपकारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छे- दवधरूपैरित्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्यो- पकरणं विना । यथाह नारदः— (१७।१०,११) 'आयुधान्यायुधीयानां बाह्यादी- न्वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान्वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योप- करणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । १. क्षुद्रकाणां पशूनां तु । २. मित्रैस्तवादेः । ३. चोपजापकान् ।

व्यवहाराध्यायः ३८६ ब्राह्मणस्य पुनः 'न शारीरो ब्राह्मणे दण्डः' (गौ० १२।४६) इति निषेधाद्वध- स्थाने शिरोमुण्डनादिकं कर्तव्यम् - 'ब्राह्मणस्य वधो मौण्ड्यं पुरात्रिर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ भाषा-पुनः पुनः राजा का अहित कहने वाले, उसकी निन्दा करने वाले और उसकी (राजनीति की) गुप्त बातों को खोलने वाले की जीभ काटकर अपने राज्य से निकाल देना चाहिए ॥ ३०२ ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥ किंच' मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम- साहसो दण्डः ॥ ३०३ ॥ भाषा-शव के ऊपर की वस्तु (वस्त्र आदि) बेचने वाले, पिता एवं आचार्य आदि को ताड़ना देने वाले और राजा की सवारी या सिंहासन पर बैठने वाले को उत्तम साहस का दण्ड होता है ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४ ॥ किंच, यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यैतिरिक्तॊ राज्ञो द्विष्टमनिष्टं 'संवत्सरान्ते तव राज्य- च्युतिर्भविष्यति' इत्येवमादिरूपमादेशं करोति । तथा च यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि धारयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्त- शलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव । - 'द्विजातिलिङ्गिनः शूद्रांश्चातयेत्' इति स्मरणात् ॥ ३०४ ॥ भाषा-किसी की दोनों आँखें फोड़ने वाले, राजा के अनिष्ट (राज्यनाश आदि) की बात फैलाने वाले और शूद्र होकर ब्राह्मण का वेष बनाकर जीविका निर्वाह करने वाले को आठ सौ पण दण्ड होता है ॥ ३०४ ॥ रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह - ⁴दुर्दृष्टांस्तु पुनर्द्दष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥३०५॥ १. न शारीरो दण्डः । २. मध्यमसाहसः । ३. हितेप्सु । ४. सभ्य- स्तद्वा तु दुर्दृष्टान्नथ । ५. द्विगुणं पृथक् ।

३६० याज्ञवल्क्यस्मृतिः दुर्द्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाश- क्क्यमानान् व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः। अप्राप्तजेतृ- दण्डविधिपरत्वाद्धनस्य रागाल्लोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्याः, न जयौ नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।—'पादो गच्छति कर्त्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥' (८।१७) इति वचनात् । एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं, न पुनरेकस्यैव पापा- पूर्वस्य विभागाय । यथोक्तम्—'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य'इति ॥ भाषा—पहले सभासदों द्वारा अधर्मपूर्वक देखे गये व्यवहार पर फिर से न्याय के साथ विचार करके राजा पहले विजयी घोषित किये गये व्यक्ति और सभासदों से विवाद में हारने वाले पर जितना दण्ड होता हो उसका दूना धन पृथक्-पृथक् ले ॥ ३०५ ॥ न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्त्तयितुर्द्दण्डमाह— यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥ ३०६ ॥ यः पुनर्न्यायमार्गेण पराजितोऽपि औद्धत्यात् 'नाहं पराजितोऽस्मि' इति मन्यते तमायान्तं कूटलेख्याद्युपन्यासेन पुनर्धर्माधिकारिणमभितिष्ठन्तं धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्—'तीरितं चानुशि- ष्टं च मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥' इति । तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भूतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डप- र्यन्तं नीतमिति यावत् । यत्पुनर्मनुवचनम् ( ९।२३३ )—'तीरितं चानुशिष्टं च यत्र क्वचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्त्तयेत् ॥' इति, तदर्थिप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर्द्विगुणदण्ड- प्रतिज्ञापूर्वकं व्यवहारं प्रवर्त्तयेत् , न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा- दिना प्रवर्त्तयितव्य इत्येवंपरम् । यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्यं निर्वत्तितं तदपि सभ्यैःपरीक्षणेन धर्म्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञान- कृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥ भाषा—जो न्यायतः पराजित होने पर भी स्वयं को पराजित नहीं मानता उसे पुनः धर्मपूर्वक पराजित करके राजा उससे दुगुना दण्ड वसूल करे ॥३०६॥ १. अपिसहिताः । २. दुर्द्दष्टा तदा । ३. रैकैकस्यैव ।

व्यवहाराध्यायः ३६१ अन्यायगृहीतदण्डधनस्य गतिमाह— राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ ३०७ ॥२ अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस्तं त्रिंशद्गुणीकृतं वरुणा- येदमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद् गृहीतम- न्यायेन तावत्तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात् । अन्यायदण्डग्रहणे पूर्वस्वामिनः स्वत्वविच्छेदाभावाच्चेति ॥ ३०७ ॥ इति श्रीमत्पद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्य- विज्ञानेश्वरभट्टारकस्य कृतौ ऋजुमिताक्षराख्यायां याज्ञवल्क्यीयधर्म- शास्त्रविवृतौ द्वितीयोऽध्यायो व्यवहाराख्यः संपूर्णः ॥ अथास्मिन्नध्याये प्रकरणानुक्रमणिका कथ्यते । आद्यं साधारणव्यवहारमा- तृकाप्रकरणम् १ । असाधारणव्यवहारमातृकाप्रकरणम् २ । ऋणादानम् ३ । उपनिधिप्रकरणम् ४ । साक्षिप्रकरणम् ५ । लेख्यप्रकरणम् ६ । दिव्यप्रकरणम् ७ । दायविभागः ८ । सीमाविवादः ९ । स्वामिपालविवादः १० । अस्वामिवि- क्रयः ११ । दत्ताप्रदानिकम् १२ । क्रीतानुशयः १३ । अभ्युपेत्याशुश्रूषा १४ । संविद्व्यतिक्रमः १५ । वेतनादानम् १६ । द्यूतसमाह्वयाख्यम् १७ । वाक्पारु- ष्यम् १८ । दण्डपारुष्यम् १९ । साहसम् २० । विक्रियासंप्रदानम् २१ । संभूय- समुत्थानम् २२ । स्तेयप्रकरणम् २३ । स्त्रीसंग्रहणम् २४ । प्रकीर्णकम् २५ । इति पञ्चविंशतिप्रकरणानि ॥ उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृतिर्विज्ञानेश्वरयोगिनः ॥ १ ॥ भाषा—यदि राजा ने अन्याय से कोई दण्ड लिया हो तो स्वयं उसको तीस गुना करके उसे वरुण देवता के लिये संकल्प करके ब्राह्मणों को देवे; (और जिससे जितना धन अन्यायपूर्वक लिया हो उसे उतना धन लौटा देवे) ॥ ३०७ ॥ व्यवहाराध्याय समाप्त १. अन्यायेन तु यो दण्डौ । २. राजभिर्घृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एवमुद्धृतदण्डानां विशुद्धिः पापकर्मिणाम् । स्वधर्मस्थापनाद्राजा प्रजाभ्यो धर्ममश्नुते ॥ यत्र दण्डविधिर्नोक्तः सर्वैरेव महात्मभिः । देशकालादि संचिन्त्य तत्र दण्डो विधीयते ॥

अथाशौचप्रकरणम्

प्रायश्चित्ताध्यायः अथाशौचप्रकरणम् गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौच- प्रतिपादनमुखेन तेषामपवादाः प्रतिपाद्यन्ते । 'आशौच'शब्देन च कालस्नाना- द्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुष- गतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः सर्वे' ( मनुः ५।५८ ) इत्यादावशुद्धत्वाभिधानात् । 'अशुद्ध'शब्दस्य च वृद्ध- व्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमात्रे प्रयोगाभावात् वृद्धव्यवहार- व्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेध- दर्शनात्तदययोग्यत्वमाशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्याशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणी- योऽयं पक्षः ॥ तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाह— ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ १ ॥ यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृत्तार्थवत् ॥ २ ॥ ऊने अपरिपूर्णे द्वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निदध्यान्न पुनर्द्दहेदित्यर्थः । न च 'सकृत्प्रसिञ्चन्त्युदकम्' ( प्रा. ४ ) इत्यादिभिः प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुप- लेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिसंचयरहितायां बहिर्ग्रामा- न्न्निखननीयः । यथाऽऽह मनुः ( ५।६८-६९ )—'ऊनद्विवार्षिकं प्रेतं निदध्यु- र्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ नास्य कार्योंऽग्नि- संस्कारो नापि कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षिपेयुस्त्रयहमेव तु ॥' इति । 'अरण्ये काष्ठवत्त्यक्त्वा' इत्यस्यायमर्थः-यथाऽरण्ये काष्ठं त्यक्त्वो- दासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽ- नेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर्निधातव्यः । १. अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि । २. आश्मशानमनु- ब्राज्य । ३. म्र्तः । ४. नास्य । ५. शवश्च । ६. गायद्भिः ।

'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुविः । यमगाथा गायमानो यमसूक्त- मनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्षिकादितरपूर्णद्विवर्षो यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठः पुरः- सरैरनुव्रज्येोऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियमिति गम्यते । अनुगम्य च 'परेयिवांसम्' (ऋ० ७, अ० ६, । १४, ५, ६ ) इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपद्भिर्लौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिर्नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याग्निसंपादककार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादि- व्यतिरिक्तो ग्राह्यः; 'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हिचित् । पतिता- ग्निश्चित्ताग्निश्च न शिष्टग्रहणाचिताः ॥' इति देवलस्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः- 'तूष्णीमेवोदकं कुर्यात्तूष्णीं संस्कारमेव च । सर्वेषां कृतचूड़ानाम- न्यत्रापीच्छया द्वयम् ॥' इति अयमर्थः- 'चौलकर्मानन्तरकाले नियमेनाग्न्युद- कदानं कार्यम् । अन्यत्रापि नामकरणादूर्ध्वं अकृतचूडेऽपीच्छया प्रेताभ्युदयकाम- नया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं, न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शितः ( ५।७० )- 'नाग्निवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातद- न्तस्य वा कुर्यान्नाम्नि वाऽपि कृते सति ॥' इति । 'उदकग्रहणं' साहचर्यादग्निसं- स्कारस्याप्युपलक्षणार्थम् । 'नाग्निवर्षस्य' इति वचनात् । कुलधर्मापेक्षया चूड़ो- त्कर्षेऽपि वर्षत्रयादूर्ध्वमग्न्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रया- त्प्रागपि कृतचूडस्य तयोर्नियम इति विवेचनीयम् । उपेतश्चेद्यद्युपनीतस्तर्हि आहिताग्न्यावृता २ आहिताग्नेर्दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनेव दग्धव्यः । अर्थवत्प्रयोजनवत् । अयमर्थः- यद्यस्य क्लृप्तं दाहद्वारं कार्यरूपं प्रयोजनं सम्भवति । भूमिजोषणाप्रोक्षणादि तदुपादेयम् । यत्पुनलुंप्तप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्ने- गृ॑ह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वादहवनीयाद्रेरपि निवृत्तिरिति ॥ अन्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम्- 'आहिताग्निर्यथान्यायं दग्धव्यस्त्रि- भिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः ॥' इति । न च शूद्रेण श्मशानं प्रति अग्निकाष्ठादिनयनं कार्यम् ; 'यस्यानयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥' इति यमस्मरणात् ॥ तथा दाहश्च स्नपनाद्यनन्तरं कार्यः- 'प्रेतं दहेच्छुभैर्गन्धैः स्नापितं स्त्रग्विभूषि- तम्' इति स्मरणात् । प्रचेतसाऽप्युक्तम्-स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं

१. उदकदानात्मकं । २. आहिताग्नेर्दानप्रक्रियया । ३. आहि- ताग्नेः स्वगृह्याग्निना ।

३६४ याज्ञवल्क्यस्मृतिः तथा । नग्नं दहेन्नैव किंचिद्देयं परित्यजेत् ॥' इति; किंचिद्देयमिति शववस्त्रैक- देशं श्मशानवास्यर्थं देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिर्हरणेऽपि मनुना विशेषो दर्शितः (५।१०४) - 'न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् । अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वर्ग्यत्वादिदोषश्रवणात् ॥ - 'दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् । पश्चिमो- त्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि- 'न ग्रामाभिमुखं प्रेतं हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषामप्यलाभे पर्णशरैः शौनकादिगृहोक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकमेव । 'आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववदाशौचम्' (४।३७) इति वसिष्ठस्मरणात् । अनाहिताग्निस्तु त्रिरात्रम् ; 'सुपिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स बान्धवैः ॥ एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् ॥' इति वचनात् ॥ ततश्चा- यमर्थः- 'नामकरणादर्वाङ्निखननमेव, न चोदकदानादि । तत ऊर्ध्वं यावत्त्रिवर्षं वैकल्पिकमग्न्युदकदानम् । ततः परं यावदुपयनं तूष्णीमेवाग्न्युदकदानं निय- तम् । वर्षत्रयात्प्रागपि कृतचूडस्य । उपनयनादूर्ध्वं पुनराहिताग्न्यावृता दाहं कृत्वा सर्वमौर्ध्वदेहिकं कार्यम् । अयं तु विशेषः- उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर्गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥१-२॥ भाषा-दो वर्ष से कम आयु वाले बालक के मरने पर उसे भूमि में गाड़ देना चाहिए और उसके लिए उदकदान (प्रेत को उद्दिष्ट कर दी जाने वाली उदकांजलि) नहीं करना चाहिए। उससे अधिक आयु वाले के मरने पर जाति वालों (सपिण्डों) के साथ श्मशान तक (शव के पीछे-पीछे) जावें। यमसूक्त और गाथा का पाठ करते हुए (यदि मृत व्यक्ति अग्निहोत्री न रहा हो तो) लौकिक अग्नि से उसका दाह करे; यदि उसका यज्ञोपवीत हुआ हो तो अपने गृह्य में बताई गई लौकिक अग्नि से प्रयोजन के अनुसार दाह करे ॥ १-२ ॥ संस्कारानन्तरं किं कर्तव्यमित्यत आह- सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३ ॥ सप्तमाद्दिवसादर्वाग्दशमदिवसाद्वा ज्ञातयः समानगोत्राः सपिण्डाः समा- नोदकाश्च 'अप नः शोशुचदघम्' (ऋ. सं. १।७।५) इत्यनेन मन्त्रेण दक्षिणा- मुखाः अपः अभ्युपयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टमभ्युप- गमनं लक्ष्यते; 'एवं मातामहाचार्य-' (प्रा० ४) इत्यनन्तरमुदकदानस्यातिदेश-

दर्शनात् । एतच्चायुग्मासु तिथिषु कार्यम् । 'प्रथमतृतीयपञ्चमसप्तमनवमेषूदक- क्रिया' (१४।४०) इति गौतमस्मरणात् ॥ एतच्च स्नानानन्तरं कार्यम् ; 'शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति' इति शातातपस्मरणात् ॥ तथा प्रचेतसाप्यत्र विशेषो दर्शितः—'प्रेतस्य बान्धवा यथावृद्धमुदकमवतीर्य नोद्धर्ष- येयुरुदकान्ते प्रसिञ्चेयुरपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योद- ङ्मुखाः प्रत्यङ्मुखाश्च राजन्यवैश्ययोः' इति । स्मृत्यन्तरे तु यावन्त्याशौचदिनानि तावदुदकदानस्यावृत्तिरुक्ता । यथाऽऽह विष्णुः (१९।१३) - 'यावदाशौचं ताव- त्प्रेतस्योदकं पिण्डं च दद्युः' इति ॥ तथा च प्रचेतसाप्युक्तम्—'दिने दिनेऽञ्ज- लीन्पूर्णान्प्रदद्यात्प्रेतकारणात् । तावद्वृद्धिश्च कर्तव्या यावत्पिण्डः समाप्यते ॥' इति । प्रतिदिनमञ्जलीनां वृद्धिः कार्या, यावद्दशमः पिण्डः समाप्यत इत्यर्थः ॥ यद्यप्यनयोर्गुरु लघुकल्पयोरन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस्तथापि बहुक्लेशाव- हस्त्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनी- यम् । अन्यथा गुरुतरकल्पाऽऽम्नायस्यानर्थक्यप्रसङ्गात् ॥ वसिष्ठेनापि विशेषोऽभि- हितः । (४।१२) - 'सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वीरन्' इति ॥ ३ ॥ भाषा—सातवें या दसवें दिन से पहले समान गोत्रवाले या सपिण्ड पुरुष जल के समीप जाकर 'अप नः शोशुचदघम्' इस मन्त्र से पितरों की दिशा दक्षिण की ओर मुख करके उदकदान करें ॥ ३ ॥ वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर्गुणैर्विशिष्टस्योदकदानस्यासमान- गोत्रेषु मातामहादिष्वतिदेशमाह— एवं मातामहाचार्यप्रेतानामुदकक्रिया । कामोदकं सखिप्रेतास्वस्त्रीयश्वशुरर्त्विजाम् ॥ ४ ॥ यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामाचार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगि- न्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः, एतेषां सख्यादीनां प्रेतानां कामोदकं कार्यम् । काम इच्छा, कामेनोदकदानं कामोदकं, प्रेताभ्युदयकामनायां सत्यामुदकं देयम् ; असत्यां न देयमिति अकरणे, प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ भाषा—इसी विधि से मातामह (नाना) और आचार्य के लिए भी उदकदान किया जाता है । इच्छानुसार मित्र, विवाहिता पुत्री या बहन, भागिनेय, श्वशुर और ऋत्विज् के लिए भी उदकदान करे ॥ ४ ॥

१. प्राङ्मुखाश्च । २. कल्पनीयस्या । ३. स्य समान । ३. प्रेतानां चोदकक्रिया । ४. प्रत्तस्वस्त्रीय ।

३६६ याज्ञवल्क्यस्मृतिः उदकदाने गुणविधिमाह— सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । तच्चोदकदानमित्थं कर्तव्यम्—सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य 'अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यतु' इति सकृदेवोदकं प्रसिञ्चेयुः त्रिर्वा; १'त्रिः प्रसेकं कुर्युः प्रेतस्तृप्यतु'इति प्रचेतःस्मरणात् ॥ प्रतिदि- नमञ्जलिवृद्धिस्तु प्रतिपादितेव । तथा अयमपि विशेषस्तेनैवोक्तः—'नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥ सचैलस्तु ततः स्नात्वा शुचिः प्रयतमानसः । पाषाणं तत आधाय विप्रे दद्याद्द- शाञ्जलीन् ॥ द्वादश क्षत्रिये दद्याद्वैश्ये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्या- स्ततः संप्रविशेद् गृहम् । ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥' इति ॥ सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह— न ब्रह्मचारिणः कुर्यु रुदकं पतितास्तथा ॥ ५ ॥ ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं, पतिताश्च प्रच्युतद्विजातिक- र्माधिकाराः, उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डा- दीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः (५।८८)—'आदिष्टौ नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥' इति । आदिष्टी 'ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' ( आश्व० १।२२। २ ) इत्यादिव्रतादेशयोगाद् ब्रह्मचार्युच्यते । एतच्च पित्रादिव्यतिरेकेणेति वक्ष्यति । 'आचार्यपितृपाध्यायान्' ( प्रा० १५ ) इति । अत्राचार्यः पुनरेवं मन्यते—आदिष्ट्रीति प्रक्रान्तप्रायश्चित्तः कथ्यते, तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालमुदकदानाशौचविधिरिति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम् ; 'क्लीबाश्च नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः । गर्भभर्तृद्रुहश्चैव सुराप्यश्चैव योषितः ॥' इति वृद्धमनुस्मरणात् ॥ ५ ॥ भाषा—( सपिण्ड लोग ) मौन होकर गोत्रसहित प्रेत ( मृत व्यक्ति ) का नाम लेकर एक बार ( या तीन बार ) उदकाञ्जलि दें । ब्रह्मचारी और पतित व्यक्ति उदकदान न करें ॥ ५ ॥ एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाह— पाँषण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । सुराप्य ५आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ६ ॥ १. प्रत्येकं कुर्युः । २. आदाय । ३. त्रिरात्रेणैव शुद्ध्यति । ४. पाष- ण्डाना । ५. आत्मघातिन्यो ।

प्रायश्चित्ताध्यायः ३६७ नरशिरःकपालादिश्रुतिबाह्यलिङ्गधारणं पाखण्डम्, तद्विद्यते येषां ते पाखण्डिनः; अनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः, भर्तृघ्न्यः प्रतिघातिन्यः, कामगाः कुलटाः, 'आदि'ग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाम्युदकोद्वन्धनाद्यैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः 'त्रिरात्रं दशरात्रं वा' ( प्रा० १८ ) वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदै- हिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः; सपिण्डादीनामाशी- चादिनिमित्तभूता न भवन्ति; अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्ये- तत्प्रतिपादनपरं वचनम् । अत्र 'सुराप्य' इत्यादिषु लिङ्गमविवक्षितम् १।-'लिङ्गं च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेय- पञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् ; यथाह गौतमः ( १४।१२ )—'प्रायोऽनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् , अनाशकमनशनम् , गिरिशिखरादवपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृते दोषो नास्तीत्यवगन्तव्यम् ; 'अथ कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदक- क्रिया' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः— 'चाण्डालादुदकात्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मि- णाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विन- श्यति ॥' इति । एतदपीच्छापूर्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवो- दकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चाण्डालादुदकात्सर्पात्' इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चाण्डालादीन्हन्तुं गतो यस्तैर्मारितस्तस्यायं 'सर्वत एवात्मानं गोपायेत्' इति विध्यतिक्रमानिमित्तः पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रायुक्तव्यादिग्रहणार्थनाभिमुख्येन दर्पाद्गच्छतो मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकाला- वच्छिन्नस्य; 'हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम्' ( प्रा० २१ ) इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम् ; 'नाशौचं नोदकं नाश्रु न दाहान्यत्कर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधा- रणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधने खट्वादि 'कट'शब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् । अयं स्मार्तो दाहादिनिषेधो विप्रादिहिताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिह- १. विवक्षितम् । एतच्च बुद्धिपूर्वविषयम् ।

Here is the complete line-by-line transcription of the Sanskrit text from the page:

[Header] ३६८ याज्ञवल्क्यस्मृतिः

ताहिताग्निसंबन्धिनामग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते- 'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदग्नौ यजमाने वृथा मृते ॥' (जमदग्निः) इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्; 'आत्मन- स्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्; 'कृत्वाऽग्निमुदकं स्नानं स्पर्शनं वहनं कथाम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुद्धयति ॥' इति स्मरणात् । एतच्च प्रत्येकं बुद्धिपूर्वंके वेदितव्यम् । अबुद्धिपूर्वकमरणे तु 'एषामन्यतमं प्रेतं यो वहेत दहेत वा । कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति संव- र्तोक्तं द्रष्टव्यम् ॥ यः पुनः 'तच्छ्रवं केवलं स्पृष्टमश्रु वा पातितं यदि । पूर्वोक्ता- नामकारी चेदेकरात्रमभोजनम् ॥' इति स्पर्शाश्रुपातयोरुपवास उक्तः ॥ असौ कृच्छ्रेष्वशक्तश्च तथा बन्धनच्छेदने दहने वा मासं भैक्षाहारस्त्रिषवणं च' इति सुमन्तुना भैक्षाशित्वमुक्तं, -तदप्यशक्तस्यैव । एवमन्यान्यपि तद्विषयाणि स्मृति- वाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थ- जीर्णवानप्रस्थादिव्यतिरिक्तविषयः; तेषामभ्यनुज्ञादर्शनात् । 'वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसंचयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत्'॥ इति स्मरणात् ॥ एवं येन येनोपायिना आत्महननं शास्त्रतोऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गे- णात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस्तेषां कार्यमित्यपेक्षायां वृद्धया- ज्ञवल्क्यच्छागलेयाभ्यामुक्तम्- 'नारायणबलिः कार्यो लोकगर्हाभयान्नरैः । तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । तस्मात्तेभ्योऽपि दातव्यमन्नमेव सदक्षिणम् ॥' इति । व्यासेनाप्युक्तम्- 'नारायणं समुद्दिश्य शिवं वा यत्प्रदीयते । तस्याशुद्धिकरं कर्म तद्भवेद्धैतदन्यथा ॥' एवं इति । एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वयोग्यतां जनयतीति और्ध्वदैहिकम- पि सर्वं कार्यमेव । अत एव षट्त्रिंशन्मतेऽपि और्ध्वदैहिकस्याभ्यनुज्ञा दृश्यते- 'गोब्राह्मणहतानां च पतितानां तथैव च । ऊर्ध्वं संवत्सरात्कुर्यात्सर्वमेवौर्ध्वदैहि- कम् ॥' इति । एवं संवत्सरादूर्ध्वमेव नारायणबलिं कृत्वौर्ध्वदैहिकं कार्यम् ॥ नारायणबलेश्चेत्थं कार्यः- कस्यांचिच्छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावदभ्यर्च्य तत्समीपे मधुघृतप्लुतांस्तिलमिश्रान्दश पिण्डान्विष्णुरूपिणं प्रेत- मनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धा-

[Footnote] १. पूर्वैव वेदितव्यम् ।

प्रायश्चित्ताध्यायः ३६६ दिग्भिरभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् , न पत्न्यादिभ्यो दद्यात् ॥ ततस्तस्यामेव रात्र्यामयुग्मान्ब्राह्मणानमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वारा- धनं कृत्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृ- यज्ञावृतोल्लेखनावनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान्दत्त्वा नामगोत्रसहितं तं प्रेतं संस्मृत्य विष्णोर्नाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणाभिस्तोषयित्वा तन्म- ध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिरतिशयेन संतोष्य ततः पवित्रपाणिभिर्विप्रैः प्रेताय तिलादिसहितमुदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ॥ सर्पहते त्वयं विशेषः-संवत्सरं यावत्पुराणोक्तविधिना पञ्चम्यां नागपूजां विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात्, गां च प्रत्यक्षात् । ततः सर्वमौर्ध्वदेहिकं कुर्यात् ॥ नारायणबलिस्वरूपं च वैष्णवेऽभिहितं यथा-‘एकादशीं समासाद्य शुक्ल- पक्षस्य वै तिथिम् । १विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दश पिण्डान् घृताभ्यक्तान्दर्भेषु मधुसंयुतान् । तिलमिश्रान्प्रदद्याद्वै संयतो दक्षिणामुखः ॥ विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैराभ्यर्चनं तथा ॥ धूपदीपप्रदानं च अद्यं भोज्यं तथा परम् । निमन्त्रयेत विप्रान्वै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धांन्वैकलोत्पन्नान्समाहितान् । अपरेऽहनि सं- प्राप्ते मध्याह्ने समुषोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रांस्तानुपवेशयेत् । उदङ्मुखान्याथज्येष्ठं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्वं कुर्याद- तन्द्रितः । आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् ॥ तृप्तान्ज्ञात्वा ततो विप्रांस्तृप्तिं पृष्ट्वा यथाविधि । हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान्प्रदद्याच्च दैवं २रूपमनुस्मरन् । प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥ यमाय ३सानुचराय चतुर्थं पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्वमतः परम् ॥ विष्णोर्नाम गृहीत्वैवं पञ्चमं पूर्ववत्क्षिपेत् । ४विप्रानाचम्य विधिवद्दक्षिणाभिः समर्चयेत ॥ एकं ५विद्वत्तमं विप्रं हिरण्येन समर्चयेत् । गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥ ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः । क्षिपेयुर्गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च ॥ हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः । मित्रभृत्य- जनैः सार्धं पश्चाद्भुञ्जीत वाग्यतः ॥ एवं विष्णुमते स्थित्वा यो दद्यादात्मघातिने । समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥' सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यपुराणे सुमन्तुनाभिहितम्-‘सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत्पितॄणानृण्यमाप्नुयात् ॥' इति ॥६॥ १. अर्चयेद् देवेशं । २. देवरूपं । ३. सानुचाराय । ४. विप्रेणाचम्य । ५. बुद्धतमं ।

भाषा-पाखण्डी, अनाश्रित (जो किसी आश्रम में न हों), चोर, पति

४०० याज्ञवल्क्यस्मृतिः

भाषा-पाखण्डी, अनाश्रित (जो किसी आश्रम में न हों), चोर, पति की हत्यारिणी और व्यभिचारिणी आदि स्त्रियाँ, सुरा पीने वाले और आत्महत्या करने वाले आशौचकाल में दिये जाने वाले उदकदान के पात्र नहीं होते। (अर्थात् इन्हें आशौच में उदकदान नहीं दिया जाता) ॥ ६ ॥ एवमुदकदानं सापवादमभिधायानन्तरं किं कार्यमित्यत आह- कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् । स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ७ ॥ कृतमुदकदानं यैस्तान्कृतोदकान् स्नातान्सम्यगुदकादुत्तीर्णान्मृदुशाद्वले नवोद्गततृणप्रचयावृते भूभागे सम्यक्स्थितान् पुत्रादीन्कुलवृद्धाः पुरातनैरिति- हासैर्वक्ष्यमाणैरपवदेयुः शोकनिरसनसमर्थैर्वचोभिर्बोधयेयुः ॥ ७ ॥ भाषा-उदकदान के बाद स्वयं जल में स्नान करके जल से निकल कर (किनारे की) हरी घास पर बैठे हुए पुत्रादि जनों को पुरानी कथाएँ सुनाकर कुल के वृद्ध व्यक्ति उनके शोक को दूर करें ॥ ७ ॥ शोकनिरसनसमर्थेतिहासस्वरूपमाह- मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ ८ ॥ 'मनुष्य'शब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते; तस्य भाव मानुष्यं; तत्र संसरणधर्मित्वेन कदलीस्तम्भवदन्तःसाररहिते जलबुद्बुदवदचिर- विनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्त- विनष्टचित्तः तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥ भाषा-जो व्यक्ति एक केले के स्तम्भ के समान निःसार और जल के बुलबुले के समान नश्वर इस मनुष्यलोक में स्थिरता की इच्छा करता है वह मूढ है ॥ ८ ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ९ ॥ किंच, जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्तस्तत्र भवतां किमर्था परिदेवना ? निष्प्रयोजनत्वाच्चानुशोचनं कर्तव्यम् ; वस्तुस्थितेस्तथा- त्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं शक्यते ॥ ९ ॥

[Page Header: प्रायश्चित्त्याध्यायः ४०१]

भाषा-पूर्वजन्म के शरीर द्वारा किये गये कर्मों का फल भोगने के लिए (पृथ्वी आदि) पाँच तत्त्वों के संघात से निर्मित शरीर यदि पुनः पञ्चतत्त्वों के रूप में आ गया तो इसमें शोक करने की क्या बात है ? ॥ ९ ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ १० ॥ अपि च, नेदमाश्चर्यं मरणं नाम; यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति, तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति ? उचितमेव हि मरणधर्मिणः प्रायणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ १० ॥ भाषा-पृथिवी, समुद्र और देवता भी नाश को प्राप्त होते हैं तो फेन के समान मृत्युलोक क्यों नहीं नष्ट होगा ? ॥ १० ॥ अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह— श्लेष्माञ्श्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ११ ॥ यस्मादनुशोचद्भिर्बान्धवैर्वदननयननिर्गमितं श्लेष्माञ्श्रु वा यस्माद्वशोऽ- कामोऽपि प्रेतो भुङ्क्ते, तस्मान्न रोदितव्यं; किंतु प्रेतहितेप्सुभिः स्वशक्त्य- नुसारेण श्राद्धादिक्रियाः कार्याः ॥ ११ ॥ भाषा-बान्धवों द्वारा शोक में गिराये गये श्लेष्मा (खखार) और अश्रु प्रेत को बाध्य होकर (न चाहते हुए भी) खाना पड़ता है; अतएव रोना नहीं चाहिये, अपितु (प्रेत के हित के लिए) अपनी शक्ति के अनुसार (श्राद्ध) क्रिया करनी चाहिए ॥ ११ ॥ इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १२ ॥ ^२आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाऽश्मनि पदं शनैः ॥ १३ ॥ एवं कुलवृद्धवचांसि सम्यगाकर्ण्य त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयत- मनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा आचमनं च कृत्वाऽ- ग्न्यादकगोमयगौरसर्षपानालभ्य, 'आदि' ग्रहणात् 'दूर्वाप्रवालमग्निवृषभौ १. 'प्रयत्नतः' । २. 'आचम्याथाम्भिसमुदकं' ।

४०२ याज्ञवल्क्यस्मृतिः च' इति शङ्खोक्तौ दूर्वाङ्कुरवृषभावपि स्पृष्ट्वा अश्मनि च पदं निधाय शनै- र्द्रुतं वेश्मनि प्रविशेयुः ॥ १२-१३ ॥ भाषा—( कुल वृद्धों के ) इस प्रकार के वचन सुनकर ( शोक त्याग कर ) बालकों को आगे करके घर जावें । घर के द्वार पर खड़े होकर नीम की पत्तियाँ कूँचकर, आचमन करके, अग्नि, जल, गोबर और पीले सरसों का स्पर्श करें और पत्थर पर पैर रखकर धीरे से घर में प्रवेश करें ॥ १२-१३ ॥ अतिदेशमाह— प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां १तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ १४ ॥ यदेतत्पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म, तन्न केवलं ज्ञाती- नामपि तु परेषामपि धर्मार्थं प्रेतालङ्कारनिर्हरणादिकं कुर्वतां भवति । ‘प्रवे- शनादिकं’ इत्यत्र ‘आदि’ शब्दोऽमाङ्गलिकत्वात्प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थनिर्हरणादौ प्रवृत्तानां तत्क्षणाच्छुद्धिमिच्छतां असपिण्डानां स्नानप्राणा- यामाभ्यामेव शुद्धिः । यथाह पराशरः—'अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजा- तयः । पदे पदे यज्ञफलमानुपूर्व्या लभन्ति ते ॥ न तेषामशुभं किंचित्पापं वा- शुभकर्मणि । जलाremote/जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥' इति ॥ स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ( ५।१०१।१०२ )—'असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् । यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति । अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥' इति । अत्रेयं व्यवस्था—यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयमेवान्नमश्नाति, तद्गृहे च वसति, तस्य दशाहेनैव शुद्धिः । यस्तु केवलं तद्गृहे वसति, न पुनस्तद- न्नमश्नाति , तस्य त्रिरात्रम् ; यः पुनर्निर्हरणमात्रं करोति, न तद्गृहे वसति, न च तदन्नमश्नाति, तस्यैकाह इति-एतत्सजातीयविषयम् ; विजातीयविषये पुनर्यजातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तमाशौचं कार्यम् ; यथाह गौतमः ( १४।१९ )—'अवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छुचोक्तमा- शौचम्' इति । उपस्पर्शनं निर्हरणम् । विप्रस्य शूद्रनिर्हरणे मासाशौचम् ; शूद्रस्य तु विप्रनिर्हरणे दशरात्रमित्येवं शववदाशौचं कर्तव्यमित्यर्थः ॥ १४ ॥ भाषा—शव को छूने वाले दूसरे ( सगोत्र बान्धवों से भिन्न ) व्यक्तियों को घर में प्रवेश करने तक की पूर्वोक्त क्रियाएँ करनी होती हैं, यदि वे तत्काल शुद्ध होने का विचार करें तो स्नान और प्राणायाम से ही उनकी शुद्धि हो जाती है ॥ १४ ॥ १. तत्क्षणाच्छुद्धिं । तत्क्षणाच्छुद्धिरन्येषाम् ।

प्रायश्चित्ताध्यायः ४०३ ब्रह्मचारिणं प्रत्याह— आचार्य्यपितृपाध्यायान्निर्हृत्यापि व्रती व्रती । संकटात्नं न नाश्नीयान्न च तैः सह संवसेत् ॥ १५ ॥ आचार्य उक्तलक्षणः, माता च पिता च पितरौ, उपाध्यायः पूर्वोक्तः, एता- न्निर्हृत्यापि व्रती ब्रह्मचारी ब्रत्येव, न पुनरस्य व्रतभ्रंशः । 'कट'शब्देनाशौचं लक्ष्यते, तत्सहचरितमन्नं सकटात्नं तद्ब्रह्मचारी नाश्नीयात् ; न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे ब्रह्मचारिणो व्रतलोप इत्यर्थादुक्तं भवति । अत एव वसिष्ठेनोक्तम्—'ब्रह्मचारिणः शवकर्म्मिणो व्रतान्त्रि- वृत्तिरन्यत्र मातापित्रोः' इति ॥ १५ ॥ भाषा-आचार्य, मातापिता और उपाध्याय के शव श्मशान तक ले जाने पर भी ब्रह्मचारी व्रती ही रहता है ( उसका व्रत खण्डित नहीं होता ); किन्तु उसे आशौची का अन्न नहीं ग्रहण करना चाहिए और न उनके साथ निवास करना चाहिए ॥ १५॥ आशौचिनां नियमविशेषमाह— क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् २ क्षितौ । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ १६ ॥ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः, भवेयुरिति शेषः । क्रीतलब्धाशननियमात्तदलाभेऽनशनमर्थात्सिद्धं भवति । अत एव वसिष्ठः—'गृहान्प्रव्रज्य अधःप्रस्तरे त्र्यहमश्नन्त आसीरन् क्रीतोत्पन्नेन वा वर्तेरन्' इति । अघप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन्, न खट्वाद्यौ ॥ मनुनाऽप्यत्र विशेषो दर्शितः ( ५।७३ )—'अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् । मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥' इति । तथा गौतमेनापि विशेष उक्तः ( १४।३० )—'अधःशय्यासनिन्नो ब्रह्मचारिणः३ शवकर्म्मिणः' इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतिस्वाद्रिरूपया प्रेताय दिनत्रयं पिण्डरूपमन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः—'प्रेतपिण्डं बर्हिर्दादर्भमन्त्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥' इति । दर्भमन्त्रविवर्जितत्वमनु- पनीतविषयम् । 'असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां कुशेषु' इति प्रचेतः- स्मरणात् । तथा कर्तृनियमश्च गृह्यपरिशिष्टाद्विज्ञेयः—'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति । तथा द्रव्यनियमश्च शूनःपुच्छेन दर्शितः—'शालिना सक्तुभिर्वापि शाकैर्वाऽ- १. स कटान्नं २. पृथक्पृथक् । ३. रिणः सर्व इति । २६ या०

४०४ याज्ञवल्क्यस्मृतिः

द्यथ निर्वपेत् । प्रथमेऽहनि यद् द्रव्यं तदेव स्याद्दशाहिकम् ॥ तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च ॥' इति । पिण्डश्च पाषाणे देयः । 'भूमौ माश्यं पिण्डं पानीय- मुपले वा दद्युः' इति शङ्खस्मरणात् । न च 'दद्युः' इति बहुवचनेनोदकदान- वत्सर्वैः पिण्डदानं कार्यमित्याशङ्कनीयं, किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्या- सन्नेन सपिण्डानामन्यतमेन, तदभावे मातृसपिण्डादिना कार्यम् ; 'पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्याः' इति गौतम- स्मरणात् । पुत्रबहुत्वे पुनज्येष्ठेनैव कार्यम् । 'सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण वाविभक्तेन सर्वैरेव कृतं भवेत् ॥' इति मरीचिस्मरणात् । पिण्डसंख्यानियमश्च — ब्राह्मणस्य दश पिण्डाः, क्षत्रियस्य द्वादशैवेति । एवमा- शौचदिवससंख्यया विष्णुनाऽभिहितम् —'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति । तथा स्मृत्यन्तरेऽपि—'नवभिर्दिवसैर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ॥' इति शुचित्ववचनमपरेद्युः क्रियमा- णश्राद्धार्थंब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितम् । अनयोश्च गुरुघुकल्पयोरुदकदानविषयोक्ता व्यवस्था विज्ञेया । अन्ना- परः शातातपीयो विशेषः—'आशौचस्य तु हासेऽपि पिण्डान्नद्वादशैव तु' इति ॥ त्रिरात्राशौचिनां पुनः पारस्करेण विशेषो दर्शितः —'प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रींस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा ॥' इति ॥ १६ ॥ भाषा—आशौची व्यक्ति खरीद कर या बिना माँगे ही मिले हुए अन्न का भोजन करें और भूमि पर पृथक्-पृथक् सोवें तथा पृथ्वी पिण्ड-पितृयज्ञ की विधि से ( दाहिने कन्धे पर यज्ञोपवीत करके ) तीन दिन प्रेत के लिए पिण्डदान के रूप में अन्न देवें ॥ १६ ॥ जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये । किंच, जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शिक्यादावेकाहं स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करव- चनात् । 'प्रेतात्र स्नाहि' इत्युदकं स्थाप्यं 'पिब चेदम्' इति क्षीरम् ॥ तथास्थि- संचयनं च प्रथमादिदिनेषु कार्यम् ; तथाह संवर्तः—'प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥' इति । क्वचिद् द्वितीये ऽस्थिसंचय इत्युक्तम् । वैष्णवे तु 'चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेपः' इति । अतोऽन्यतमस्मिन्दिने स्वगृह्योक्तविधिनाऽस्थिसंचयनं कार्यम् अङ्गिरसा चात्र विशेषो दर्शितः —'अस्थिसंचयने यागो देवानां परिकीर्तितः । प्रेतीभूतं समुद्दिश्य यः शुचिनं करोति चेत् ॥ देवतानां तु यजनं तं शपन्त्यथ

देवताः ॥' देवताश्चात्र श्मशानवासिन्यः तत्र १पूर्वदग्धाः 'श्मशानवासिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवान्चिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् ; 'दशमेऽहनि संप्राप्ते स्नानं ग्रामाद्बहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि—'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे चाऽपि सप्तमे वाऽप्रदानतः ॥' इति श्राद्धप्रदानादवार्गनियम इति यावत् । वपनं च केषामित्याकाङ्क्षायामापस्तम्बेनोक्तम्—'अनुभाविनां च परिवापनम्' इति । अयमर्थः—शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डाः, तेषां चावि- शेषेण वपनमुताल्पवयसामित्यपेक्षायामिदमेवोपतिष्ठते—'अनुभाविनां च परि- वापनम्' इति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते; 'गङ्गायां भास्करक्षेत्रे २माता पित्रोर्गुरो- र्मृतौ । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥ अशुचित्वेन सकलश्रौतस्मार्तकमाधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञा- नार्थमाह— ३वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ॥ १७ ॥ वितानोऽग्नीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसोध्या अग्निहोत्रदर्श- पूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा औपासनाः सायं प्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् ,—श्रुतिचोदनात् । तथा हि—'यावज्जीव- मग्निहोत्रं जुहुयात्' इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव । तथा 'अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठात्' इति श्रुत्यौपासनहोमोऽपि ५चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात्स्मार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम् – 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात् ॥' इति श्रौतानां च कार्यत्वा- भिधानं नित्यनैमित्तिकाभिप्रायेण; यथाह पैठीनसिः—'नित्यानि विनिवर्तेरन्वं- तानवर्जं शालाग्नौ चैके' इति । 'नित्यानि विनिवर्तेरन्' इत्यविशेषेण आवश्य- कानां नित्यनैमित्तिकानां निवृत्तौ प्रसक्तायां 'वैतानवर्जम्' इत्यग्नित्रयसाध्या- वश्यकानां पर्युदासः; 'शालाग्नौ चैक' इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः । अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचा-


१. भूतपूर्वदग्धाः । २. गुरौ मृते । ३. वैतानो । ४. चोदनाः । ५. बध्यते ।