याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
५२२ याज्ञवल्क्यस्मृतिः भाषा—औरस के अतिरिक्त अन्य ( क्षेत्रज, दत्तक आदि ) पुत्रों के जन्म एवं मृत्यु पर, और दूसरे पुरुष पर आश्रित रहने वाली पत्नियों की तथा स्वदेश के राजा की मृत्यु पर एक दिन-रात आशौच होता है ॥ २५ ॥ अनुगमनाशौचमाह— ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् । अनुगम्याम्भसि स्नात्वा १स्पृष्ट्वाऽग्निं घृतभुक्शुचिः ॥ २६ ॥ ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाऽम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिर्भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान्न भोजन- प्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ( ५।१०३ )—'अनु- गम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥' इति । ज्ञातयो मातुलपिण्डाः । इतरेषां तु विहितत्वान्न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने—'प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नियमानं स त्रिरात्रेण शुद्धयति ॥ त्रिरात्रे तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध- यति ॥' इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ; 'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रं शवानुगमने चैकम्' इति वसिष्ठो- क्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यान्तरवैश्यानुगमने अहो- रात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्यूहनीयम् ॥ तथा रोदनेऽपि पारस्करेणोक्तम्—'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥' इति । तथाऽलंकरणमपि न कार्यम् ; 'कृच्छ्रपादोसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादाशक्तौ स्नाव- मिष्यते ॥' इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ २६ ॥ भाषा—ब्राह्मण को भिन्नगोत्र के द्विज या शूद्र वर्ण के मृतक के साथ नहीं जाना चाहिए । यदि ( स्नेहवश ) जावे तो जल में स्नान करके अग्नि का स्पर्श करके तथा घृत खाकर शुद्ध हो जाता है ॥ २६ ॥ सपिण्डाशौचे कचिदपवादमाह— महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थे संग्रामे यस्य चेच्छति २भूमिपः ॥ २७ ॥ यद्यपि 'मही'शब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षिते- रेकभर्तृकत्वानुपपत्तेः 'महीपतीनां' इति बहुवचनानुरोधाच्च तदेकदेशभूतानि १. वह्निस्पृग्घृत । २. चेच्छन्ति पार्थिवा ।
प्रायश्चित्ताध्यायः ४२३ मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् । तैराशौचं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां च संबन्धिनो ये सपिण्डास्तैरप्याशौचं न कार्यम् । यस्य च मन्त्रपुरोहितादे- र्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थमाशौचाभावमिच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तच्चेन दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्वपि । तथा च मनुः (५।९५) - 'राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥' इति । गौतमेनाप्युक्तम् ( १४।४५ )--'राज्ञां च कार्याविघातार्थम्' इति राजभृत्या- देरप्याशौचं न भवति । तथाह प्रचेताः- 'कारवः शिल्पिनो वैद्या दासीदासास्त- थैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । कारवः सूप- कारादयः । शिल्पिनश्चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्यपेक्षायां कर्मनिमित्तैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्ट- व्यः । अत एव विष्णुः (२२।४८-५१) -'न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रणां सत्रे न कारूणां कारुकर्मणि इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति । शातातपीयेऽप्युक्तम्- 'मूल्यकर्मकराः शूद्रा दासीदासास्तथैव च । स्नाने शरीर- संस्कारे गृहकर्मण्यदूषिताः ॥' इति । इयं च दासादिष्वद्धिरपरिहरणीयतया प्राप्त- स्पर्शविषयेत्यनुसंधेयम् । अत एव स्मृत्यन्तरम् - 'सद्यःस्पृश्यो गर्भदासो भक्त- दासस्तथाह्नश्शुचिः ।' तथा- 'चिकित्सको यत्कुरुते तदन्येन न शक्यते ॥ तस्मा- द्विकित्सकः स्पर्शो शुद्धो भवति नित्यशः ॥' इति ॥ २७ ॥ भाषा - राजाओं का, बिजली गिरने से मरे हुए व्यक्तियों का, गौ और ब्राह्मण की रक्षा के लिए युद्ध में मारे गये पुरुषों का आशौच नहीं होता । जिस व्यक्ति का आशौच राजा न होने देना चाहे उसका भी आशौच नहीं होता ॥ २७ ॥ ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥ दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ २९ ॥ किंच, ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास्तेषां यज्ञियं यज्ञे भवं च कर्म कुर्वतां 'सद्यः शौचं विधीयत' इति १. रक्षार्थं शायनं । २. भृत्या वैद्या दासास्तथैव । ३. वरणकरण- संगता । वरणाभरणसंभृता ।
४२४ याज्ञवल्क्यस्मृतिः
सर्वत्रानुषङ्गः; दीक्षितस्य 'वैतानोपासनाः कार्या' ( प्रा. १७) इत्यनेन सिद्धे- ऽप्यधिकारे पुनर्वचनं यजमाने स्वयं कर्तृत्वविधानार्थं सद्यःस्नानेन विशुद्धयर्थं च; 'सत्रि' ग्रहणेन संततानुष्ठानतुल्यतयाऽङ्गसत्त्रप्रवृत्ता लक्ष्यन्ते; मुख्यानां तु सत्रिणां 'दीक्षित' ग्रहणेनैव सिद्धेः । 'व्रति'शब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातक- व्रतप्रायश्चित्तप्रवृत्ताश्चोच्यन्ते; तथा 'ब्रह्मचारि' ग्रहणेन ब्रह्मचर्यादिव्रतयोगिनः श्राद्धकर्तुर्भोक्तुश्च ग्रहणम् , तथा 'स्मृत्यन्तरम्-'नियमस्थदस्यापि कृच्छ्रचान्द्रा- यणादिषु । निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ गृहीतनियमस्यापि नै स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रौ४...ब्धे श्राद्धकर्मणि ॥ निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ प्राय- श्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥' इति । सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिनं कर्ममात्रे संव्यवहारे वा । तथा च विष्णुः (२२।४९,५०)-'न व्रतिनां व्रते, न सत्रिणां सत्रे' इति ॥ ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातैव, न प्रतिग्रहीता स वैखानसो 'दातृ'शब्देनोच्यते । ब्रह्मविद्यतिः । एतेषां च त्रयाणा- माश्रमिणां सर्वत्र शुद्धिः; विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम् ; 'पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति' इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः- 'विवाहोत्सवयज्ञादिष्वन्तरा मृतसूतके । शेषमन्नं परैर्देयं दातृन्भोक्तृंश्च न स्पृशेत् ॥' इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्व- संभृतसंभारे । तथा च स्मृत्यन्तरम्-'यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि' इति । सद्यःशौचमत्र प्रकृतम् । 'विवाह'ग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कार- कर्मोपलक्षणम् । 'यज्ञ'ग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपलक्षणम् । - 'न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्' ( २२।५३-५५ ) इति विष्णुस्मरणात् संग्रामे युद्धे । - 'संग्रामे समुपोलढे राजानं संनाहयेत्' ( गृ. सू. ३।१२।१ ) इत्याश्वलायनोक्तसंनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिरुपसर्गैः, राज- भयाद्वा विप्लवे तदुपशमनार्थं शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठीनसिना शुद्धिरुक्ता-'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । तथा कष्टायामप्यापदि व्या- ध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश्च क्षुत्परि- श्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः । इयं च शुद्धिर्यस्य सद्यःशौचं विनाऽऽर्त्युपशमो न भवति अश्वस्तनिकस्य तद्विषया ।
१. याजमानेषु । २. स्नानविध्यर्थं । स्नानविशुद्ध्यर्थं । ३. तस्मादन्यस्य । ४. प्रवृत्ते । ५. ओपलक्षणम् ।
प्रायश्चित्ताध्यायः ४२५ यस्त्वेकाहपर्याप्तसंचितधनस्तस्यैकाहः, यस्त्र्यहोपयोगिसंचयी तस्य त्र्यहः, यस्तु चतुरहार्थमापादितद्रव्यः कुम्भीधान्यस्तस्य चतुरहः, कुसूलधान्यकस्य दशाह इत्येवं यस्य यावत्कालमार्त्याभावस्तस्य तावत्कालमाशौचम्; आपदुपाधिकत्वा- दाशौचसंकोचस्य । अत एव मनुना (४।७) -'कुसूलधान्यको वा स्यात्कुम्भी- धान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा ॥' इत्यत्र प्रति- पादितचतुर्विधगृहस्थाभिप्रायेण (५।५९) - 'दशाहं शावमाशौचं सपिण्डेषु विधीयते । अर्वाक्संचयनादस्थ्नां त्र्यहमेकाहमेव वा ॥' इति कल्पचतुष्टयं प्रति- पादितम् । समानोदकविषयाश्च संकुचिताशौचकल्पाः पक्षिण्येकाहः सद्यःशौच- रूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस्तद्विषयो न सर्वत्रेत्यवगन्तव्यम् ॥ मनुः- एकाहाद् ब्राह्मणः शुद्धयेद्योऽग्निवेदसमन्वितः । त्र्यहात्केवलवेदस्तु विहीनो दश- भिर्दिनैः ॥' इत्यादिस्मृत्यन्तरवचनपर्यालोचनादध्ययनज्ञानानुष्ठानयोगिनामेका- हादिभिः सर्वात्मना शुद्धिरित्येवं कस्मान्नेष्यते ? उच्यते-'दशाहं शावमाशौचं सपिण्डेषु विधीयते' (मनुः ५।५९) इति सामान्यप्राप्तदशाहबाधपुरःसरमेव हि 'एकाहाद् ब्राह्मणः शुद्धयेत्' इति विधायकं भवति । बाधकस्य चानुपपत्तिनिबन्धन- त्वात् यावत्यबाधितेऽनुपपत्तिप्रशमो न भवति तावद्बाधनीयम् । अतः कियदनेन बाध्यमित्यपेक्षायामपेक्षितविशेषसमर्पणक्षमस्य 'अग्निवेदसमन्वित' इति वाक्यवि- शेषस्य दर्शनादग्निवेदविषयेऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते, न पुनर्दा- नादावपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेद- साध्यं कर्म कृतं तस्यैकाहाच्छुद्धिरिति पुरुषविशेषोपलक्षणत्वमेव स्यात् । नचैवं युक्तम् ; एवं च सति-'प्रत्यूह्येष्वग्निषु क्रियाः । वैतानोपासनाः कार्याः क्रियाश्च १श्रुतिचोदनात्' ॥ (प्रा० १७) इति । तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थं सद्यःशौचमित्येवमादिभिर्मन्वादिवचनैरेकवाक्यता भवति । तथा च-'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति दशाहपर्यन्तं भोजनादिकं प्रतिषेधद्भिर्य- मादिवचनैरविरोधोऽपि सिद्धयति, अतः २क्वौचित्कमेवेदमाशौचसंकोचविधानं, न पुनः सर्वसंव्यवहारादिगोचरमित्यलमतिप्रपञ्चेन ॥ इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ३ब्रह्मोत्सवकृतायामातौ द्रष्टव्यम् । इतरस्य तु - 'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति प्रति- षेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालमाशौचमुक्तं स तस्यानन्तरं स्नात्वा शुद्धयेत्, न तत्कालातिक्रममात्रात् । यथाह मनुः (५।९९ ) - 'विप्रः शुद्धयत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः
१. श्रुतिचोदिताः । २. क्वचित्कर्मविशेषे इदं । ३. ब्रह्मानध्ययनकृतायां ।
कृतक्रियः ॥' इति । अयमर्थः—'कृतक्रियः' इति प्रत्येकमभिसंबध्यते । विप्रोऽनु- भूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्ट्वा शुद्ध्यति । स्पृष्ट्वेति स्पर्शनक्रियैवोच्यते, न स्नानमाचमनं वा; वाहनादिषु तस्यैवानुषङ्गात् । अथवा कृतक्रियो यावदाशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिरुदकादि स्पृष्ट्वा शुद्ध्येत इत्याशौचकालानन्तरभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादि- र्वाहनादिकं स्पृष्ट्वा शुद्ध्येदिति ॥ २८-२९ ॥ भाषा—ऋत्विज्, दीक्षित (जिसने यज्ञ में दीक्षा प्राप्त की हो), यज्ञ का काम करने वाले, यज्ञ करने वाले, व्रती, ब्रह्मचारी तथा दाता की दान, विवाह, यज्ञ, युद्ध देश में व्याप्त उत्पात के उपशमन कर्म में और आपत्ति (रोग-व्याधि) में (अकल्याण नाश के लिये दान देने में) तत्काल शुद्धि होती है ॥ २८-२९ ॥ कुलव्यापिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनीं शुद्धिमाह— उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् । अब्जिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥ ३० ॥ उदक्या रजस्वला, अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश्च एतैः संस्पृष्टः स्नायात् । तैः पुनरुदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेत् आचामेत् । आचम्याब्जिङ्गानि 'आपोहिष्ठा' (ऋ० ७।६।५) इत्येवमादीनि त्रीणि मन्त्रवाक्यानि जपेत् । त्रिष्वेव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन्मनसा जपेत् । ननु उदक्या संस्पृष्टः स्नायादित्येकवचननिर्दिष्टस्य कथं तैरिति बहुवचनपरामर्शः ? सत्यमेवम् , किंत्वत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नाना- र्हमात्रस्पर्शेश्चाचमनविधानार्थं 'तैः'इति बहुवचननिर्देश इत्यविरोधः । ते च स्नानाहः स्मृत्यन्तरेवगन्तव्याः । यथाह पराशरः—'दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि । चितियूपँश्मशानास्थां स्पर्शने स्नानमाचरेत्' इति । तथा च मनुः (५।१४४)—'वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचा- मेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ॥' इति । मैथुनिनः स्नानमृतुकाल- विषयम् ; 'अनृतौ तु यदा गच्छेदच्छौचं मूत्रपुरीषवत्' इति बृहस्पतिस्मरणात् । अनृतावपि कालविशेषे स्मृत्यन्तरे स्नानमुक्तम्—'अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा सचैलं स्नात्वा च वारुणीभिश्च मार्जयेत् ॥' इति । तथा च यमः—अजीर्णेऽभ्युदिते वान्ते तथाप्यस्तमिते रवौ । दुःस्वप्ने दुर्जन- स्पर्शे स्नानमात्रं विधीयते ॥' इति । तथा च बृहस्पतिः—'मैथुने कटधूमे च
१. शुद्ध्यतीति । इत्या । २. उदक्याशौचिभिः । ३. बहुवचनादरः । ४. यूपश्मशाना ।
[Page Header] प्रायश्चित्त्याध्यायः ४२७ [Text] सद्यःस्नानं विधीयते' इत्येतदसचैलस्पर्शविषयम् । सचैलेन तु चित्यादिस्पर्शे सचैलमेव स्नानम् । तथाह च्यवनः—'श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीवि- नम् । ग्रामयाजिनं सोमविक्रयिणं यूपं चितिं चितिकाष्ठं च मद्यं मद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृष्टं १ रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचैलमम्भोऽ- वगाह्योत्तीर्याग्निमुपस्पृश्य गायत्र्यष्टशतं २ जपेत् । घृतं प्राश्य पुनः स्नात्वा त्रिरा- चामेत्' इति । एतच्च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम् । 'शवस्पृष्टं ३ दिवाकीर्तिं चितिं यूपं रजस्वलाम् । स्पृष्ट्वा त्वकामतॊ विप्रः स्नानं कृत्वा विशुद्ध्यति ॥' इति बृहस्पतिस्मरणात् । एवमन्यत्रापि वक्ष्यमाणेषु विषय- समीकरणमूहनीयम् ॥ तथाह कश्यपः—'उदयास्तमययोः स्कन्दयित्वा अक्षि- स्पन्दने कर्णक्रोशनॆ चित्यारोहणे यूपसंस्पर्शने च सचैलं स्नात्वा पुनर्माम इति जपेन्महाव्याहृतिभिः सप्ताऽऽहुतीर्जुहुयात्' इति । तथा च स्मृत्यन्तरे— 'स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत् । देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥ असौ देवलको नाम हव्यकव्येषु गर्हितः' ॥ तथा ब्रह्माण्डपुराणे— 'शैवान्पाशुपतान्स्पृष्ट्वा लोकायतिकनास्तिकान् । विकर्मस्थान्द्विजान्शूद्रान्सवासा जलमाविशेत् ॥' इति । तथा—'अस्वर्ग्या ह्याहुतिः सा स्याच्छूद्रसंपर्कदूषिता' इति लिङ्गाच्च शूद्रस्पर्शने निषेधः ॥ तथाङ्गिराः—'यस्तु छायां श्वपाकस्य ब्राह्मणो ह्यधिरोहति । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्ध्यति ॥' तथा व्याघ्रपादः—'चण्डालं पतितं चैव दूरतः परिवर्जयेत् । गोवालव्यजनादर्वाक्स- वासा जलमाविशेत् ॥' इति । एतदतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम्—'युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् ४ । चाण्डाल- सूतिकोदक्यापतितानामधः क्रमात् ॥' इति । तथा पैठीनसिः— 'काकोलूकस्पर्शने सचैलस्नानम्, अनुदकमूत्रपुरीषकरणे सचैलस्नानं महाव्याहृतिहोमश्च । अनुदकमूत्रपुरीषकरणे इत्येतच्चिरकालमूत्रपुरीषशौ- चाकरणपरम् ।' तथाङ्गिराः—'भासवायसमार्जारखरौष्ट्रं च श्वशूकरान् । अमे- ध्यानि च संस्पृश्य सचैलो जलमाविशेत् ॥' इति । मार्जारस्पर्शनिमित्तं स्नान- मुच्छिष्टसमयेऽनुष्ठानसमये च वेदितव्यं समाचारात् । अन्यदा तु—'मार्जार- श्चैव दर्वी च मारुतश्च सदा शुचिः' इति स्नानाभावः । श्वस्पर्शे तु स्नानं नाभे- रूर्ध्वं वेदितव्यम् । अधस्तात्तु क्षालनमेव; 'नाभेरूर्ध्वं करौ मुक्त्वा शुना यद्युपहन्यते । तत्र स्नानमधस्ताच्चेत्प्रक्षाल्याचम्य शुद्ध्यति ॥' इति तेनैवोक्त- त्वात् ॥ तथा पक्षिसपर्शे विशेषो जातूकर्ण्येनोक्तः—'ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गं संस्पृशेत्खगः । स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुद्ध्यति ॥' इति । [Footnotes] १. शवस्पृशं । २. गायत्रीमष्टवारं जपेत् । ३. शवस्पृशं । ४. पूयं ।
४२८ याज्ञवल्क्यस्मृतिः
अमेध्यस्पर्शेडपि विष्णुना विशेषो दर्शितः ( २२।७७-८० ) 'नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैर्वोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्याचान्तः शुद्ध्येत् । अन्य- त्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नायात् । तैरिन्द्रियेषूपहतस्तूपोष्य स्नात्वा पञ्चग- व्येन दशनच्छदोपहतश्च' इति । एतच्च परकीयामेध्यस्पर्शविषयम् । आत्मीयमल- स्पर्शे तु ऊर्ध्वमपि नाभेः क्षालनमेव । यथाह देवलः - 'मानुषास्थि वसां विष्ठा- मार्तवं मूत्ररेतसी । मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥ स्नात्वा प्रमृज्य लेपादीनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात्परि- मार्जनात् ॥' इति । तथा च शङ्खः - 'रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा तथा । नाभेरुर्ध्वं नरः स्पृष्टः सद्यःस्नानेन शुद्ध्यति ॥' इति । यमेनाप्यत्र विशेष उक्तः - 'सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् । जङ्घयोर्मृत्तिकास्तिस्रः पादयो- द्विगुणास्ततः ॥' इति ग्रामसंकरं ग्रामसलिलप्रवाहप्रदेशं सकर्दमं प्रविश्येत्यर्थः । मारुतशोषिते तु कर्दमादौ न दोषः । 'रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥' ( आ० १९७ ) इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उक्तः ( ५।८७ ) - 'नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति । आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वीक्ष्य वा रविम् ॥' इति । इदं द्वि- जातास्थिविषयम् । अन्यत्र वसिष्ठोक्तम् - 'मानुषास्थि स्निग्धे स्पृष्ट्वा त्रिरात्रमाशौ- चम् अस्निग्धे त्वहोरात्रम् ।' इति । अमानुषे तु विष्णूक्तम् (२२।७०)-'भक्ष्य- वर्जं पञ्चनखशवंतदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्' इति ॥ एवमन्येऽपि स्नानाहर्हाः स्मृत्यन्तरतोऽवबोद्धव्याः ॥ एवं स्नानाहार्णां बहु- त्वात्तदभिप्रायं तैरिति बहुवचनमविरुद्धम् । 'उदक्याशुचिभिः स्नायात्' इत्ये- तच्च दण्डाद्यचेतनव्यवधानस्पर्शे वेदितव्यम् । चेतनव्यवधाने तु मानवम् (मनुः ५।८५ )-'दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति ॥' इति । तृतीयस्य स्वाचमनमेव । 'तत्स्पृष्टिनं स्पृशेद्वस्तु स्नानं तस्य विधीयते । ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥' इति संवर्तस्मरणात् । एतच्चाबुद्धिपूर्वकविषयम् मतिपूर्वे तु तृतीयस्यापि स्नान- मेव । यथाह गौतमः ( १४।३० )-'पतितचण्डालसूतिकोदक्याशवस्पृष्टित- त्स्पृष्ट्युपस्पर्शने सचैलमुदकोपस्पर्शनाच्छुद्ध्येत्' । इति । चतुर्थस्य त्वाचमनम् ; 'उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः । हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्ध्यति ॥' इति देवलस्मरणात् । अशुचीनां पुनरुदक्यादिस्पर्शो देवलेन विशेष उक्तः-'श्वपाकं पतितं व्यङ्गमन्मत्तं शवहारकम् । सूतिकां साविकां नारीं
१. श्वाण्डालाद्यचेतन । २. तमेव तु स्पृशेत् । ३. अशुचिनां पुनः । ४. शवदाहकं ।
प्रायश्चित्ताध्यायः ४२६ रजसा च परिप्लुताम् ॥ श्वकुक्कुटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचैलः सशिरः स्नात्वा तदानीमेव शुद्ध्यति ॥' इति । 'अशुद्धान्स्वयमप्येतानशुद्धस्तु यदि स्पृशेत् । विशुद्धयत्युपवासेन तथा कृच्छ्रेण वा पुनः ॥' इति । साविका प्रस- वस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिखु तूपवास इति व्यवस्था ॥३०॥ भाषा—रजस्वला स्त्री और अशुचि व्यक्ति (शव, चण्डाल, पतित, सूतिका, मृत्यु के कारण आशौची) द्वारा छू जाने पर स्नान करे; इन रजस्वला स्त्री आदि द्वारा स्पृष्ट व्यक्ति से छू जाने पर आचमन करे और 'आपो हिष्ठा' आदि तीन मन्त्रवाक्यों का जाप करके एक बार गायत्री का जप करे ॥३०॥ अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस्तथैवात्र प्रकरणे वक्ष्य- माणांश्च शुद्धिहेतूननुक्रामति— कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३१ ॥ यथाऽग्न्यादयोऽमी सर्वे स्वविषये शुद्धिहेतवस्तथा कालोऽपि दशरात्रादिकः । शास्त्रागम्यत्वाच्छुद्धिहेतुरवस्य । अग्निस्तावच्छुद्धिहेतुः । यथाभ्यधायि (आ० १८७) 'पुनःपाकान्महीमयम्' इति । कर्म च शुद्धिनिमित्तं, यथा वक्ष्यति (प्रा० २४४) 'अश्वमेधावभृथस्नानात्' इति । तथा मृदपि शुद्धिकारणं, यथा कथितम् (आ० १८९)—'सलिलं भस्म मृद्वापि प्रक्षेप्यं विशुद्धये' इति । वायुरपि शुद्धिषहेतुः, यथोदीरितं (आ० १९७) 'मारुतेनैव शुद्ध्यन्ति' इति । मनोऽपि वाचः शुद्धिसाधनं, यथाऽनायि 'मनसा वा इषिता वाग्वदति' इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं, यथाभिधास्यति (प्रा० ३४) 'क्षेत्र- ज्ञस्येश्वरज्ञानात्' इति । तपश्च कृच्छ्रादि, यथा वदिष्यति (प्रा० २६०) 'प्राजा- पत्यं चरेत्कृच्छ्रं समो वा गुरुतल्पगः' इत्यादि । तथा जलमपि शरीरादेः, यथा जल्पिष्यति (प्रा० ३३) 'वर्ष्मगो जलम्' इति । पश्चात्तापोऽपि शुद्धिजनकः, यथा गदितं 'ख्यापनेनानुतापेन' इति । निराहारोऽपि शुद्धयुपादानं, यथा व्याहरिष्यति (प्रा० ३०१) 'त्रिरात्रोपोषितो जप्त्वा' इत्यादि ॥ ३१ ॥ भाषा—काल, अग्नि, कर्म, मिट्टी, वायु, मन, ज्ञान, तपस्या, जल, पश्चात्ताप और उपवास—ये सभी शुद्धि के कारण होते हैं ॥ ३१ ॥ अकार्यकारिणां दानं वेगो नद्याश्च शुुद्धिकृत् । शोध्यस्य मृच्च तोयं च संन्यासो ३ वै द्विजन्मनाम् ॥ ३२ ॥ तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥ ३३ ॥ १. जले इत्यादि । २. नद्यास्तु । ३. सोऽथ ।
४३० | याज्ञवल्क्यस्मृतिः भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३४ ॥ किंच, अकार्यकारिणां निषिद्धसेविनां दानमेव मुख्यं शुद्धिकारणं, यथा व्याख्यास्यति 'पात्रे धनं वा पर्याप्तं दत्त्वा' इति । नद्याः निदाघादावल्पतोया- या अमेध्योपहततीरायाः कूलकषवर्षाऽम्बुप्रवाहवेगः शुद्धिकृत् । 'शोधनीयस्य द्रव्यस्य मृच्च तोयं च शुद्धिकृत्', यथेह भणितम् (आ० १९१) - 'अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात्' इति । संन्यासः प्रव्रज्या द्विजन्मनां मानसाप- चारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेदविदामेव । क्षान्तिरुपशमो विदुषां वेदार्थविदाम् । वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानामविख्यातदोषाणां अघमर्षणा- दिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्स- ङ्कल्पत्वादशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । 'भूत'शब्देन तद्विकारभूतो देहेन्द्रियसङ्घो लक्ष्यते । तत्र 'स्थूलोऽहं कृशोऽहं काणोऽहं बधिरोऽहम्' इत्येवं तदभिमानित्वेन योऽयमात्मा वर्तते स भूतात्मा, तस्य तपोविद्ये शुद्धिनि- मित्ते । 'तपः'शब्देनानेकजन्मस्वेकस्मिन्नपि वा जन्मनि जाग्रत्स्वप्नसुषुप्त्यवस्था- स्वात्मनो योऽयमन्वयः, शरीरादेश्च व्यतिरेकः सोऽभिधीयते । यथा (तै० उ० ३।२।१) 'तपसा ब्रह्म विजिज्ञासस्व' इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । 'विद्या'शब्देन चौपनिषदं 'अस्थूलमनण्वह्रस्वम्' (बृ० उ० ३।९।२६) 'असङ्गो हि' (बृ० उ० २।५।१४) 'अयमात्मा' (बृ० उ० ३।८।८) इत्यादि त्वंपदार्थनिरूपणविषया वाक्यजन्यं ज्ञानमुच्यते । एताभ्यामस्य शुद्धिः । शरीरादि- व्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनम् । क्षेत्रज्ञस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य ४'तत्त्वमसि' (छा० उ० ६।८।७) इत्यादिवाक्यजन्यात्साक्षात्काररूपादीश्वरज्ञानात् ५परमा विशुद्धिर्मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास्तल्लघुक्षतरा कालशुद्धिरपीत्येवं प्रशंसार्थं भूतात्मादि- विशुद्धयभिधानम् ॥ ३२-३४ ॥ भाषा - निषिद्ध कार्य करने वालों की शुद्धि का कारण दान होता है, नदियों की शुद्धि करने वाला उनका प्रवाह वेग होता है; अशुद्ध वस्तु की मिट्टी और जल से, द्विजातियों की संन्यास से, वेद जानने वालों की तप (वेदाभ्यास) से, विद्वानों की क्षमा से, शरीर की जल से, गुप्त पापों १. शोधनम् । २. न्द्रियसंबन्धो । ३. जाग्रत्स्वप्न । ४. तत्त्वमसी- त्यादि । ५. परमात्मशुद्धिः ।
इत्याशौचप्रकरणम् ।
प्रायश्चित्ताध्यायः ४३१ की शुद्धि जप से होती है और मन की शुद्धि का कारण सत्य बताया गया है। भूतात्मा की शुद्धि का कारण तप और विद्या है तथा बुद्धि को शुद्ध करने वाला ज्ञान है। क्षेत्रज्ञ (अर्थात् तप और विद्या द्वारा विशुद्ध) की शुद्धि ईश्वर के ज्ञान से बताई गई है ॥ ३२-३४ ॥ इत्याशौचप्रकरणम् । अथआपद्धर्मप्रकरणम् २ ‘आपद्यपि च कष्टायां सद्यःशौचं विधीयते’ (प्रा० १९) इत्यापदि मुख्या- शौचकल्पानुष्ठानासम्भवेन सद्यःशौचाद्यनुकल्पमुक्त्वेदानीं तत्प्रसङ्गादापदि ‘प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा’ ( आ० ११८) इत्याद्युक्तयाजना- दिमुख्यवृत्त्यसम्भवेन वृत्त्यन्तरमाह- क्षात्रेण कर्मणा जीवेद्वैशां वाप्यापदि द्विजः निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३५ ॥ द्विजो विप्रो बहुकुटुम्बतया स्ववृत्त्या जीवितुमसमर्थः क्षत्रसंबन्धिना कर्मणा शस्त्रग्रहणादिना आपदि जीवेत् । तेनापि जीवितुमशक्नुवन् वैश्य- संबन्धिना कर्मणा वाणिज्यादिना जीवेत्, न तु शूद्रवृत्त्या । तथा च मनुः (१०।८२)-'उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥' इति । तथा आपद्यपि न हीनवर्णेन ब्राह्मी वृत्तिराश्रय- णीया किंतु ब्राह्मणेन क्षात्री, क्षत्रियेण वैश्यसंबन्धिनी, वैश्येन च शौद्री, इत्येवं स्वानन्तरहीनवर्णवृत्तिरेव । 'अजीवन्तः स्वधर्मेणानन्तरां पापीयसीं वृत्तिमातिष्ठे- रन्नतु कदाचिज्ज्यायसीम्' इति वसिष्ठस्मरणात् । ज्यायसी च ब्राह्मी वृत्तिः । तथा च स्मृत्यन्तरम्-'उत्कृष्टं वाऽपकृष्टं वा तयोः कर्म न विद्यते । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥' इति । शूद्रस्योत्कृष्टं ब्राह्मं कर्म न विद्यते । यथा ब्राह्मणस्यापकृष्टं शौद्रं कर्म । मध्यमे क्षत्रवैश्यकर्मणी पुनरापद्गतसर्ववर्णसाधारणे¹ इति । शूद्रश्चापद्गतो वैश्यवृत्त्या शिल्पैर्वा जीवेत् । 'शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितमाचरन्॥'(आ०१२९) इति प्रागुक्तत्वात् ॥ मनुना चात्र विशेषो दर्शितः ( १०।१००)- 'यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥' इति । अनेनैव न्यायेनानुलोमोत्पन्नानामपि स्वानन्तरा वृत्तिरूहनीया । एवं स्वानन्तरहीनवर्णवृत्त्या आपदं निस्तीर्य प्रायश्चित्ताचरणेनात्मानं पाव- यित्वा पथि न्यसेत् । स्ववृत्तावात्मानं स्थापयेदित्यर्थः । यद्वाऽयमर्थः-गर्हित- १. साधारणे हि ते इति ।
४३२ याज्ञवल्क्यस्मृतिः वृत्त्यार्जितं धनं पथि न्यसेदुत्सृजेदिति । तथा च मनुः ( १०।१११ )—'जपहो- मैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव तु ॥' इति ॥ ३५ ॥ भाषा—आपत्काल में ( अपने वर्ण की वृत्ति द्वारा जीविका चलाने में असमर्थ होने पर ) ब्राह्मण क्षत्रिय के कर्म द्वारा अथवा वैश्य के कर्म द्वारा जीवननिर्वाह करे आपत्काल पार कर लेने पर ( प्रायश्चित्त द्वारा ) अपने को पवित्र करके पुनः अपने वर्ण की वृत्ति अपनावे ॥ ३५ ॥ वैश्यवृत्त्यापि जीवतो ब्राह्मणस्य यदपणीयं तदाह— फलोपलक्षौमसोममनुष्यापूपवीरुधः । तिलौदनरसक्षारान्दधि क्षीरं घृतं जलम् ॥ ३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुँतपकेश तक्रविषक्षितिः ॥ ३७ ॥ कौशेयनीललवणमांसैकशफसीसकान् । शाकार्द्रौषधिपिण्याकपशुगन्धांस्तथैव च ॥ ३८ ॥ वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन । 'नो विक्रीणीत' इति प्रत्येकमभिसंबद्ध्यते । फलानि कदलीफ़लादीनि बदरेङ्गुदव्यतिरिक्तानि; यथाह नारदः—'स्वयंशीर्णानि पर्णानि फलानि बदरेङ्गुदे । रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥' इति । उपलं मणिमाणिक्याद्यश्म- मात्रम् । क्षौममतसीसूत्रमयं वस्त्रम्, 'क्षौम'ग्रहणं तान्तवादेरुपलक्षणम् । यथाह मनुः ( १०।८७ )—'सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्यु- ररक्तानि फलमूले तथौषधीः ॥' इति, सोमो लताविशेषः, 'मनुष्य'पदेना- विशेषात्स्त्रीपुंनपुंसकानां ग्रहणम् , अपूपं मण्डकादि भक्ष्यमात्रम् , वीरुधो वेत्रामृतादिलताः, तिलाः प्रसिद्धाः, 'ओदन'ग्रहणं भोज्यमात्रोपलक्षणम् ; रसा गुडेक्षुरसशर्करादयः; तथा च मनुः ( १०।८८ )—'क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्' इति । क्षारा यवक्षारादयः । 'दधिक्षीरयो'र्ग्रहणं मस्तुपिण्ड किलाटकूर्चिकादीनां तद्विकाराणामुपलक्षणम् । 'क्षीरं सविकारम्' ( ७।- ११ ) इति गौतमस्मरणात् । 'घृत'ग्रहणं तैलादिस्नेहमात्रोपलक्षणम् , जलं प्रसिद्धम् , शस्त्रं खड्गादि, 'आसव'ग्रहणं मद्यमात्रोपलक्षणम् , मधूच्छिष्टं सिक्थकम् , मधु क्षौद्रम् , लाक्षा जतु, बर्हिषः कुशाः, मृत् प्रसिद्धा, चर्मा- जिनम् , पुष्पं प्रसिद्धम् , अजलोमकृतः कम्बलः कुतपः, केशाश्चमर्यादि- १. रसक्षारदधि क्षीरघृतं जलम् । २. मधूच्छिष्टमधुलाक्षाः सबर्हिषः । ३. कुतुपकेश । ४. नीली । ५. उपलं माणिक्यादि । ६. अजीर्णलोमकृतः ।
संबद्धाः, तक्रमुदश्वित् , विषं शृङ्गादि, क्षितिर्भूमिः, 'नित्यं भूमिव्रीहियवाः जात्यश्वर्षभधेन्व्रनडुहश्चैके' इति सुमन्तुस्मरणात् । कौशेयं कोशप्रभवं वसनम् , नीलं नीलारसम्, 'लवण'ग्रहणेनैव बिडसौवर्चलसैन्धवसामुद्रसोमककृत्रिमाण्य- विशेषेण गृह्यन्ते । मांसं प्रसिद्धम् , एकशफा हयादयः, 'सीस'ग्रहणं लोहमात्रोपलक्षणम्, शाकं सर्वम्; अविशेषात्, ओषधयः फलपाकान्ताः, 'आर्द्राषधय' इति विशेषोपादानाच्छुष्केषु न दोषः, पिण्याकः प्रसिद्धः, पशव आरण्याः, 'आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च' ( १०।८९)—इति मनु- स्मरणात् । गन्धाश्चन्दनागुरुप्रभृतयः, सर्वानैतान्वैश्यवृत्त्या जीवन्ब्राह्मणः । कदाचिदपि न विक्रीणीत; क्षत्रियादेस्तु न दोषः। अत एव नारदेन 'वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि' इति ब्राह्मणग्रहणं कृतम् ॥ ३६-३८ ॥ भाषा—फल, उपल (मणि, माणिक्य आदि), अतसी के सूत से निर्मित वस्त्र, सोमलता, मनुष्य, पुआ, बेंत आदि लता, तिल, ओदन ( भोज्य पदार्थ, रस ( घृत, तेल आदि ), क्षार, दही, दूध, घी, जल, शस्त्र, आसव, जूठा मद्य, मधु, लाख, कुश, मिट्टी, चमड़ा, पुष्प, कुतप ( बकरे के रोएँ से निर्मित कम्बल ), केश ( चँवर आदि ) तक्र ( मट्ठा ) विष, भूमि, कौशेयवस्त्र, नील, नमक, मांस, एक खुर वाले पशु ( जैसे घोड़ा ), सीसा ( और लोहा ), शाक, आर्द्र औषधि, पिण्याक, जंगली पशु और गन्ध—इन सब वस्तुओं को वैश्य की वृत्ति द्वारा जीवन निर्वाह करते रहने पर भी कभी न बेंचे ॥ ३६-३८ ॥ प्रतिप्रसवमाह— धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ ३९ ॥ यद्यावश्यकाः पाकयज्ञादिधर्माः स्वसाधनव्रीह्यादिधान्याभावेन न निष्पद्य न्ते तर्हि धान्येन तिला विक्रयं नयाः। तत्समाः द्रोणपरिमितो द्रोणपरिमितो- नेत्येवं तेन धान्येन समाः। तथा च मनुः ( १०।०० )—'काममुत्पाद्य कृष्यान्तु स्वयमेव कृषीवलः। विक्रीणीत तिलान्शुद्धान्धर्मार्थमचिरात्स्थितान् ॥' इति । 'धर्म'ग्रहणमावश्यकभेषजाद्युपलक्षणम् । अत एव नारदः—'अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥' इति यद्य- न्यथा विक्रीणीते तर्हि दोषः । ( १०।९१ )—'भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥' इति मनुस्मरणात् । सजातीयैः पुनर्विनिमयो भवत्येव । 'रसा रसैर्निमातव्या नत्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥' ( मनुः १०।९४ )—इति । कृतान्नं सिद्धान्नम्, तच्च कृतान्नेन परिवर्तनीयम् । 'कृतान्नं चाकृतान्नेन' १. गौतमस्मरणात् । २. कृष्यां तु । ३. नत्वेवं लवणं । ४. नीयमिति यावत् ।
इति पाठे तु सिद्धमन्नमकृतान्नेन तण्डुलादिना परिवर्तनीयमिति ॥ ३९ ॥ भाषा—किन्तु धर्मार्थ ( औषधादिकार्यार्थ ) तिल के बराबर धान्य लेकर तिल बेचना उचित है ॥ ३९ ॥ पूर्वोक्तनिषिद्धातिक्रमे दोषमाह— लाक्षालवणमांसानि पतनीयानि विक्रये । पयो दधि च मद्यं च हीनवर्णकराणि तु ॥ ४० ॥ लाक्षालवणमांसानि विक्रीयमाणानि सद्यःपतनीयानि द्विजातिकर्म- हानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्रतुल्यत्वापादकानि । एतद्व्यतिरिक्तपण्यविक्रये वैश्यतुल्यता । यथाह मनुः (१०।९२-९३)— ‘सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीर- विक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं चं गच्छति ॥’ इति ॥ ४० ॥ भाषा—लाक्षा ( लाख ), नमक और मांस बेचने पर पतित हो जाता है और दूध, दही तथा सुरा बेचने पर वह निम्नवर्ण का हो जाता है (अर्थात् शूद्र के समान बन जाता है) ॥ ४० ॥ आपद्गतः संप्रगृह्णन्भुञ्जानो वा यतस्ततः । न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ४१ ॥ किंच, यस्त्वधनोऽवसन्नकुटुम्बतया आपद्गतोऽपि क्षत्रवृत्तिं वैश्यवृत्तिं वा न प्रविशति स यतस्ततो ३हीनहीनतरहीनतमेभ्यः प्रतिगृह्णंस्तदन्नं भुञ्जानोऽपि वाँ एनसा पापेन न लिप्यते । यतस्तस्यामापद्वस्थायामसं- प्रतिग्रहादावधिकारित्वेन ज्वलनार्कसमः, यथा ज्वलनोऽर्कश्च हीनसंकरेऽपि न दुष्यति 'तथाऽयमापद्गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवं च वदता आपद्गतस्य परधर्माश्रयणाद् द्विगुणमपि स्वधर्मानुष्ठानमेव मुख्यमिति दर्शितं भवति । तथा च मनुः (१०।९७)--'वरं स्वधर्मो विगुणो न पारक्यः स्व- नुष्ठितः । परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥' इति ॥ ४१ ॥ भाषा—आपत्काल में जिस किसी का दान एवं अन्न ग्रहण करने वाले ब्राह्मण को पाप नहीं लगता, क्यों कि वह अग्नि और सूर्य के समान होता है ॥ ४१ ॥ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवाँनूपं नृपो भैक्षमपत्तौ जीवनानि तु ॥ ४२ ॥ १. निगच्छति । २. भुञ्जानोऽपि यत । ३. हीनतरस्ततो । ४. वा नैवैनसा । ५. सेवाऽनूपो । ६. भैक्ष्यमापत्तौ ।
प्रायश्चित्ताध्यायः ४३५ किंच, 'आपत्तौ जीवनानि' इति विशेषणात्कृष्यादीनां मध्ये अनापद्व- स्थायां यस्य या वृत्तिः प्रतिषिद्धा तस्य सा वृत्तिरनेनाभ्यनुज्ञायते । तथाऽऽपदि वैश्यवृत्तिः स्वयं कृता कृषिर्विप्रक्षत्रिययोरभ्यनुज्ञायते एवं शिल्पाद्यो १न्यप्यस्या- म्भ्यनुज्ञायन्ते । शिल्पं सूपकरणादि, भृतिः प्रैष्यत्वम् , विद्या भृतकाध्याप- कत्वाद्या, कुसीदं वृद्धयर्थं द्रव्यप्रयोगः, तत् स्वयं कृतमभ्यनुज्ञायते, शकटं भाट- केन धान्यादिवहनद्वारेण जीवनहेतुः, गिरिस्तद्गततृणेन्धनद्वारेण जीवनम् , सेवा परचित्तानुवर्तनम् , अनूपं प्रचुरतृणवृक्षजलप्रायः प्रदेशः, तथा नृपो नृपयाचनम्, भैक्षं स्नातकस्यापि, एतान्यापत्तौ जीवनानि । तथा च मनुः (१०।११६) - 'विद्या शिल्पं भृतिः सेवा गोरक्षा विपणिः कृषिः । गिरिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥' इति ॥ ४२ ॥ भाषा-कृषि, शिल्प (कारीगरी), भृति (मजदूरी), वेतन लेकर विद्याध्यापन, ब्याज के लिये धनप्रयोग, भाड़े पर गाड़ी चलाना, पर्वत (उस पर प्राप्त होने वाले तृण एवं ईंधन), सेवा, अनूप (प्रचुर तृण, वृक्ष और जल से व्याप्त प्रदेश), राजा (राजा से याचना) तथा भिक्षावृत्ति-ये आपत्तिकाल में जीवन के साधन होते हैं ॥ ४२ ॥ यदा कृष्यादीनामपि जीवनहेतूनामसंभवस्तदा कथं जीवनमित्यत आह- बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ ४३ ॥ धान्याभावेन त्रिरात्रं बुभुक्षितोऽनश्नन् स्थित्वा अब्राह्मणाच्छूद्रात्तद- भावे वैश्यात् तदभावे क्षत्रियाद्वा हीनकर्मण एकाहपर्याप्तं धान्यं हरेत् । यथाह मनुः (६।११७) -'तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तन- विधानेन हर्तव्यं हीनकर्मणः ॥' इति । तथा च प्रतिग्रहोत्तरकालं यदपहृतं तद्धर्मतो यथावृत्तमाख्येयम् । यदि नास्तिकेन स्वामिना त्वयेदं किं नाँमापह- तमित्यभियुज्यते । यथाह मनुः (११।१७) -'खलात्क्षेत्रादगाराद्वा यतो वाप्युप- लभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥' इति ॥ ४३ ॥ भाषा-तीन दिन भूखा रहकर अब्राह्मण (शूद्र या शूद्र के अभाव में वैश्य और उसके अभाव में क्षत्रिय) के घर से अन्न चुरावे। पकड़े जाने पर जो कुछ चुराया हो उसे धर्मपूर्वक बता देना चाहिए ॥ ४३ ॥ इदमपरमापत्प्रसङ्गाद्राज्ञो विधीयते- तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः । ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ४४ ॥ १. न्यप्यनुज्ञायन्ते । २. रूपकरणादि । ३. तथाऽऽख्ये । ४. धान्य- माहरेत् । ५. नाष्ठिकेन । ६. ममापहृतमिति । २८ या०
४३६ याज्ञवल्क्यस्मृतिः यो¹ऽशनायापरीतोऽवसीदति तस्य वृत्तमाचारं, कुलमाभिजात्यं, शीलमा- र्शवगुणं, श्रुतं शास्त्रश्रवणं, अध्ययनं वेदाध्ययनं, तपः कृच्छ्रादि च परीक्ष्य राजा धर्मादनपेतां वृत्तिं प्रकल्पयेत्, अन्यथा तस्य² दोषः, तथा च मनुः (७।१३४)-'यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधिपीडितम् ॥' इति ॥ ४४ ॥ भाषा-उसके आचार, कुल, शील, शास्त्रज्ञान, वेदाध्ययन, तप और कुटुम्ब का ज्ञान प्राप्त करके राजा उसके लिए धर्मसम्मत वृत्ति निर्धारित करे ॥ ४४ ॥ इत्यापद्धर्मप्रकरणम् । अथ वानप्रस्थधर्मप्रकरणम् ३ चतुर्णामश्रमिणां मध्ये ब्रह्मचारिगृहस्थयोर्धर्माः प्रतिपादिताः। सांप्रतमवस- रप्राप्तान्वानप्रस्थधर्मान्प्रतिपादयितुमाह- सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ४५ ॥ वने प्रकर्षेण नियमेन च तिष्ठति चरतीति वनप्रस्थः, वनप्रस्थ एव वान- प्रस्थः । संज्ञायां दीर्घत्वम् । आश्विनीं वृत्तिमाश्रित्य वनं प्रतिष्ठासुरिति यावत् । असौ सुतविन्यस्तपत्नीकः 'त्वयेयं वरणीया' इत्येवं सुते विन्यस्ता निक्षिप्ता पत्नी येन स तथोक्तः । यदि सा पतिपरिचर्याभिलाषेण स्वयमपि वनं जिगमि- षति तदा तयाऽनुगतो वा सहितः । तथा ब्रह्मचारी ऊर्ध्वरेताः साग्निर्वैतानाग्नि- सहितः तथा सोपासनो गृह्याग्निसहितश्च वनं व्रजेत् । 'सुतविन्यस्तपत्नीकं' इति वदता कृतगार्हस्थ्यो वनवासे³ऽधिक्रियत इति दर्शितम् । एतच्चाश्रम- समुच्चयपक्षमङ्गीकृत्योक्तम् । इतरथा 'अविप्लुतब्रह्मचर्यो यमिच्छेत्तु तमावसेत्' इत्यकृतगार्हस्थ्योऽपि वनवासेऽधिक्रियत एव । अयं च वनप्रवेशो जराजर्जरक- लेवरस्य जातपौत्रस्य वा । यथाऽह मनुः (६।२)-'गृहस्थस्तु यदा पश्ये- द्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यं तदारण्यं समाश्रयेत् ॥' इति । अयं च पुत्रेषु पत्नीनिक्षेपो विद्यमानभार्यस्य । मृतभार्यस्याप्यापस्तम्बादिभिः वनवासस्मरणात् । अतो यत् ( आ० ८९) 'दाहयित्वाग्निहोत्रेण' इति पुन- राधानविधानं,-तदपरिपक्वकषायविषयम् । 'साग्निः सोपासन' इत्यत्रापि यदार्धाधानं कृतं तदा श्रौताग्निभिर्गृह्येण च सहितो वनं व्रजेत् । सर्वाधाने तु १. भोजनया। २. राज्ञो दोषः । ३. वानप्रस्थो वनवासे ।
प्रायश्चित्ताध्यायः ४३७ श्रौतैरेव केवलम् । यदि कथंचिज्ज्येष्ठभ्रातुरनाहिताग्नित्वादिना श्रौताग्नयोऽ- नाहितास्तर्हि केवलं सोपासनो व्रजेदित्येवं विवेचनीयम् । अग्निनयनं च तन्निर्वर्त्याग्निहोत्रादिकर्मसिद्ध्यर्थम् । अत एव मनुः ( ६।९ ) – 'वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन्पर्व पौर्णमासं च शक्तितः ॥' इति ॥ ननु च पुत्रनिक्षिप्तपत्नीकस्य तद्विरहिणः कथमग्निहोत्रादिकर्मानुष्ठानं घटते ? पत्न्या सह यष्टव्यम्'इति सहाधिकारनियमात्, सत्यमेवं; किंत्वत्र पत्नीनिक्षेपविधि- बलादेव तन्नैरपेक्षेणाधिकारः कल्प्यते । यथा हि रजस्वलायां 'यस्य त्रत्येऽहनि पत्न्यनालंम्भुका स्यात्तामपरुध्य॑ यजेते'त्यपरोधविधिबलात्तन्निरपेक्षता । यद्वा वनं प्रतिष्ठमानमेव पतिं पत्न्यनुमन्यत इति न विरोधः । नच यथा ब्रह्मचारिणो विधुरस्य वा वनं प्रस्थितस्याग्निहोत्रादिपरिलोपोस्तथा निक्षिप्तपत्नीकस्याप्य- ग्निहोत्राद्यभाव इति शङ्कनीयम्; अपाक्तिकत्वेन श्रवणात् । नच ब्रह्मचारिविधुर- योरप्यग्निसाध्यकर्मस्वनधिकारः । पञ्चममासाद्धूर्ध्वमाहितश्रावणिकाग्नेस्तद- धिकारदर्शनात्, 'वानप्रस्थो जटिलश्धीराजिनवासा न फालकृष्टमधितिष्ठेत्, अकृष्टं मूलफलं संचिन्वीत ऊर्ध्वरेताः दमाशयो दद्यादेव न प्रतिगृह्णीयादूर्ध्वं पञ्चभ्यो मासेभ्यः श्रावणिकेनाग्नीनाधायाहिताग्निवृत्तमूलको दद्याद् देवपितृ- मनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यम्' इति वसिष्ठस्मरणात् । चीरं वस्त्रखण्डो, वल्कलं वा । न फालकृष्टमधितिष्ठेत्कृष्टक्षेत्रस्योपरि न निवसेत् । श्रावणिकेन वैदिकेन मार्गेण न लौकिकेनेत्यर्थः ॥ ४५ ॥ भाषा - अपनी पत्नी को पुत्रों के संरक्षण में छोड़कर अथवा उसे साथ लेकर, ( वैतानिक ) अग्नि और उपासना ( गृह्याग्नि ) सहित वन में जाकर ब्रह्मचर्य धारण करते हुए वानप्रस्थ होवे ॥ ४५ ॥ 'साग्निः सोपासनो व्रजेत्' ( प्रा० ४५ ) इत्येतदग्निसाध्यश्रौतस्मार्तकर्म- नुष्ठानार्थमित्युक्तं, तत्र गुणविधिमाह - अफालकृष्टेनाग्नींश्च पितॄन्देवातिथीनपि । भृत्यांश्च तर्पयेत् श्मश्रुजटालोमभृदात्मवान् ॥ ४६ ॥ 'फाल'ग्रहणं कर्षणसाधनोपलक्षणम् । अकृष्टक्षेत्रोद्गवेन नीवारवेणुश्यामा- कादिना अग्नींस्तर्पयेदग्निसाध्यानि कर्माण्यनुतिष्ठेत् । 'च'शब्दाद्भिक्षादानमपि तेनैव कुर्यात् । तथा पितॄन्देवानतिथीन् 'अपि'शब्दाद् भूतान्यपि तेनैव तर्पयेत् । तथा भृत्यान् 'च'शब्दादाश्रमप्राप्तानपि । तथा च मनुः ( ६।७ ) – 'यद्भक्ष्यं स्यात्ततो दद्याद्वलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥' १. दर्शमास्कन्दयत् । २. तन्निरपेक्षेणाधिकारः । ३. वात्येऽहनि । ४. लम्भिका । ५. अवरुध्य यजेतेत्यवरोध । ६. नाग्निमाधाय ।
४३८ याज्ञवल्क्यस्मृतिः इति । एवं पञ्चमहायज्ञान्कृत्वा स्वयमपि तच्छेषमेव भुञ्जीत । (६।१२) - 'देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥' इति मनुस्मरणात् । स्वयं कृतमूपरलवणम् । एवं भोजनार्थे यागा- र्थं च मुन्यन्ननियमाद् ग्राम्याहारपरित्यागोऽर्थसिद्धः । अत एव मनुः (६।३) - 'संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम्' इति । ननु च दर्शपूर्णमासादेर्ब्रीह्या- दिग्राम्यद्रव्यसाध्यत्वात्कथं तत्परित्यागः ? नच वचनीयम् 'अफालकृष्टेनाग्नींश्च' (वसि० ९।३) इति विशेषवचनसामर्थ्याद् ब्रीह्यादिबाध इति । विशेषविषयी- ण्यापि स्मृत्या श्रुतिबाधस्यान्याय्यत्वात्, अफालकृष्टविधेश्च स्मार्ताग्निसाम्यकर्म- विषयत्वेनाप्युपपत्तेः । सत्यमेवम् , किन्त्वत्र ब्रीह्यादेरप्यफालकृष्टत्वसंभवान्न विरोधः । अत एवोक्तं मनुना ( ६।११ ) - 'वासन्तशारदैर्मेध्यैर्मुन्न्यन्नैः स्वयमा- हृतैः । पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥' इति ॥ नीवारादीनां मुन्यन्नानां स्वयमुत्पन्नानां स्वतो मेध्यत्वे सिद्धेऽपि पुनः 'मेध्य'ग्रहणं यज्ञार्हव्रीह्यादिप्राप्त्यर्थं कृतम् । मेधो यज्ञस्तदर्हं मेध्यमिति । तथा श्मश्रूणि मुखजानि रोमाणि जटारू- पांश्च शिरोरुहान्कक्षादीनि च रोमाणि बिभृयात् । 'रोम'ग्रहणं नखाना मप्युपलक्ष- णम् । तथा च मनुः (६।६) - 'जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा' इति । तथारमवानात्मोपासनाभिरतः स्यात् ॥ ४६ ॥ भाषा-बिना जुती हुई भूमि पर स्वयं उत्पन्न (नीवार, वेणु, श्यामाक आदि ) अन्न से अग्नियों, पितरों, देवों, अतिथियों एवं सेवकों को तृप्त करे (पञ्च महायज्ञ करे ), दाढ़ी-मूँछ, जटा और शरीर के रोम बढ़ाये रखे तथा आत्मवान् (उपासना में रत ) रहे ॥ ४६ ॥ पूर्वोक्तद्रव्यसंचयनियममाह- अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ४७ ॥ एकस्याह्नः संबन्धि भोजनयजनादिष्टदृष्टकर्मणः पर्याप्तस्यार्थस्य संचयं कुर्यात् । मासस्य वा षण्णां मासानां वा संवत्सरस्य वा संबन्धि कर्मपर्याप्तं संचयं कुर्यात् ; नाधिकम् । यद्येवं क्रियमाणमपि कथंचिदतिरिच्यते तर्हि तदतिरिक्तमाश्वयुजे मासि त्यजेत् ॥ ४७ ॥ भाषा-एक दिन, एक मास, छः मास या वर्षभर के लिये धन का संचय करे और जो कुछ शेष बच जाय उसका आश्विन महीने में त्याग कर डाले ॥ ४७ ॥ १. अकालकृष्टेन । २. अर्थाय ।
प्रायश्चित्ताध्यायः ४३६ . दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः ॥ ४८ ॥ किंच, दान्तो दर्परहितः, त्रिषु सवनेषु प्रातर्मध्यंदिनापराह्णेषु स्नानशीलः । तथा प्रतिग्रहे पराङ्मुखः । 'च'शब्दाद्याजनादिनिवृत्तश्च । स्वाध्यायवान् वेदाभ्यासरतः । तथा फलमूलभिक्षादिदानशीलः सर्वप्राणिहिताचरणनिरतश्च भवेत् ॥ ४८ ॥ भाषा — दान्त (दर्परहित) हो, तीनों सवनों में (प्रातः, मध्याह्न, अपराह्न) स्नान करे; दान न लेवे, स्वाध्याय (वेदाभ्यास) में लगा रहे; दान करे और सभी प्राणियों के हित में रत रहे ॥ ४८ ॥ दन्तोलूखलिकः कालपकाशी वाश्मकुट्टकः । १श्रौतं स्मार्तं फलस्नेहैः कर्म २कुर्यात्तथा क्रियाः ॥ ४९ ॥ किंच, दन्ता एवोलूखलं निस्तुषीकरणसाधनं दन्तोलूखलं, तद्यस्यास्ति स दन्तोलूखलिकः । कालेनैव पक्वं कालपक्वं नीवारवेणुश्यामाकादि बदरेङ्गुदादि फलं च तदशनशीलः कालपकाशी । 'वा'शब्दः 'अग्निपक्काशनो वा स्यात्काल- पक्वभुगेव वा' (मनुः ६।१७) इति मन्तूक्ताग्निपक्वाशित्वाभिप्रायः । अश्मकु- ट्टको वा भवेत् । अश्मना कुट्टनमवहननं यस्य स तथोक्तः । तथा श्रौतं स्मार्तं च कर्म दृष्टार्थाश्च भोजनाभ्यञ्जनादिक्रियाः लकुचमधूकादिमेध्यतरुफलोद्भवैः स्नेहद्रव्यैः कुर्यात्, न तु घृतादिकैः । तथा च मनुः (६।१३)—'मेध्यवृक्षो- द्भवानद्यात्स्नेहांश्च फलसंभवान्' इति ॥ ४९ ॥ भाषा—दाँतों से ही छीलकर खावे, समय से अपने आप पके हुए फल आदि का भोजन करे; अथवा पत्थर पर कूट कर खावे । श्रौत एवं स्मार्तं कर्म तथा भोजन, अभ्यञ्जन आदि क्रिया फलों से निकले हुए चिकने तेल से करे (घृत से नहीं) ॥ ४९ ॥ पुरुषार्थतया विहितद्विर्भोजननिवृत्त्यर्थमाह— चान्द्रायणैर्नयेत्कालं ३कृच्छ्रैर्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ॥ ५० ॥ चान्द्रायणैर्वक्ष्यमाणलक्षणैः कालं नयेत् । कृच्छ्रैर्वा प्राजापत्यादिभिः कालं वर्तयेत् । यद्वा,–पक्षे पञ्चदशदिनात्मकेऽतीतेऽश्नीयात् । मासे वाऽहनि गते वा नक्तमश्नीयात् । 'अपि'शब्दाच्चतुर्थकालिकत्वादिनापि । यथाह मनुः (६।१९) १. श्रौतस्मार्तं । २. कुर्यात्क्रियास्तथा । ३. सदा कृच्छ्रैश्च वर्तयेत् । ४. यातेऽन्नमश्नी ।
४४० याज्ञवल्क्यस्मृतिः ‘नक्तं वाऽन्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्ट- मकालिकः ॥’ इति । एतेषां च कालनियमानां स्वशक्त्यपेक्षया विकल्पः ॥५०॥ भाषा—चान्द्रायण व्रत से समय बितावे अथवा सदैव कृच्छ्र व्रत करे । एक पक्ष या एक मास बीतने पर भोजन करे अथवा दिन बीतने पर ( रात को ) भोजन करे ॥ ५० ॥ स्वंप्याद्भूमौ शुचौ रात्रौ दिवा संप्रपदैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ५१ ॥ किंच, आहारविहारावसरवर्ज्यं रात्रौ शुचिः प्रयत्नः स्वप्यात् नोपविशे- न्नापि तिष्ठेत् । दिवास्वप्नस्य पुरुषमात्रार्थतया प्रतिषिद्धत्वाच्च तन्निवृत्तिपरम् । तथाभूमावेव स्वप्यात् । तच्च भूमावेव, न शय्यान्तरितायां मञ्चकादौ वा । दिनं तु संप्रपदैरटनैर्नयेत् । स्थानासनरूपैर्वा विहारैः संचारैः कंचित्कालं स्थानं कंचित्त्वोपवेशनमित्येवं वा दिनं नयेत् । योगाभ्यासेन वा । तथा च मनुः (६।२९) ‘विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः’ इति । आत्मनः संसि- द्धये ब्रह्मस्वप्राप्तये । ‘तथा’शब्दाच्चित्तिपरिलोडनाद्वा नयेत् । ‘भूमौ विपरिवर्तेत तिष्ठेद्व्रा प्रपदैर्दिनम्’ (६।२२)—इति मनुस्मरणात् । प्रपदैः पादाग्रैः ॥ ५१ ॥ भाषा—रात्रि को पवित्र होकर ( नंगी ) भूमि पर सोवे और दिन घूमकर बितावे, अथवा स्थान ( खड़े होने ) और आसन ( बैठने ) के विहार से या योगाभ्यास करते हुए दिन बितावे ॥ ५१ ॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ५२ ॥ किंच, ‘त्र्यर्तुः संवत्सरो ग्रीष्मो वर्षा हेमन्तः’ इति दर्शनात् ग्रीष्मे चैत्रादि- मासचतुष्टये चतसृषु दिक्षु चत्वारोऽग्नयः उपरिष्टादादित्य इत्येवं पञ्चानामग्नीनां मध्ये तिष्ठेत् । तथा वर्षासु श्रावणादिमासचतुष्टये स्थण्डिलेशयः वर्षाधारा- विनिवारणविरहिणि भूतले निवसेत् । हेमन्ते मार्गशीर्षादिमासचतुष्टये क्लिन्नं वासो वसीत । एवंविधतपश्चरणे असमर्थः स्वशक्त्यनुरूपं वा तपश्चरेत् । यथा शरीरशोषस्तथा यतेत —‘तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः’ ( ६।२४ ) इति मनुस्मरणात् ॥ ५२ ॥ भाषा—ग्रीष्म ऋतु में पंचाग्नि के बीच बैठे; वर्षा ऋतु में भींगी हुई भूमि पर सोवे; हेमन्त ऋतु में गीले वस्त्र पहन कर रहे अथवा अपनी शक्ति के अनुसार तपस्या करे ॥ ५२ ॥ यः कण्टकैर्विंतुदति चन्दनैश्च विलिम्पति । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ५३ ॥ १. शुचिर्भूमौ स्वपेद्रात्रौ दिवसं प्र । २. चन्दनैर्यो विलि।
प्रायश्चित्ताध्यायः ४४१ किंच, यः कश्चित्कण्टकादिभिर्विविधमङ्गानि तुदति व्यथयति तस्मै न क्रुध्येत् । यश्चन्दनादिभिरुपलिम्पति सुखयति तस्य न परितुष्येत् । किंतु तयोरुभयोरपि समः स्यादुदासीनो भवेत् ॥ ५३ ॥ भाषा - जो काटा चुभाता हो और जो चन्दन का लेप करता हो उन पर क्रमशः न क्रुद्ध होवे और न प्रसन्न होवे । इन दोनों पर ही समान दृष्टि- कोण रखे ( अर्थात् उदासीन होकर रहे ) ॥ ५३ ॥ अग्निपरिचर्याक्षमं प्रत्याह— अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥ ५४ ॥ अग्नीनात्मनि समारोप्य वृक्षावासो वृक्ष एव आवासः कुटी यस्य स तथोक्तः । मिताशनः स्वल्पाहारः । 'अपि' शब्दात्फलमूलाशनश्च भवेत् । यथाह मनुः (६।२५)—अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निर- निकेतः स्यान्मुनिर्मूलफलाशनः ॥' इति । मुनिर्मौनव्रतयुक्तः । फलमूलासंभवे च यावत्प्राणधारणं भवति तावन्मात्रं भैक्षं वानप्रस्थगृहेष्वाचरेत् ॥ ५४ ॥ भाषा-अग्नियों का अपनी आत्मा में ही समारोप करके, वृक्ष को ही आवास बनाकर ( अर्थात् वृक्ष के नीचे ही निवास करते हुए ) अल्पा- हारी होकर और जीवन यात्रा भर के लिये ही अन्न वानप्रस्थों के घर से मांगे ॥ ५४ ॥ यदा तु तदसंभवो व्याध्यभिभवो वा तदा किं कार्यमित्यत आह— ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः । ग्रामाद्वा भैक्षमाहृत्य वाग्यतो मौनी भूत्वा अष्टौ ग्रासान्भुञ्जीत । ग्राम्य- भैक्षविधानान्मुन्यन्ननियमोऽर्थलुप्तः । यदा पुनरष्टभिर्प्रासैः प्राणधारणं न संभवति तदा 'अष्टौ ग्रासा मुनेर्भैक्षं वानप्रस्थस्य षोडशे'ति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥— भाषा-अथवा गांव से अन्न लाकर मौन होकर केवल आठ ग्रास ( कौर ) खावे । सकलानुष्ठानासमर्थं प्रत्याह— वायुभक्षः प्रागुदीचीं गच्छेद्व्राऽऽध्वर्मसंक्षयात् ॥ ५५ ॥ अथवा, -वायुरेव भक्षो यस्यासौ वायुभक्षः प्रागुदीचीमैशानीं दिशं गच्छेत् । आ वर्मसंक्षयात् वर्म वपुस्तस्य निपातपर्यन्तमकुटिलगतिर्ग- च्छेत् । यथाह मनुः ( ६।३१ )—'अपराजितां वास्थाय गच्छेद्दिशमजिह्मगः' इति । महाप्रस्थानेऽप्यशक्तौ भृगुपतनादिकं वा कुर्यात् ; 'वानप्रस्थो वीरोऽध्वानं १. वीराधानं ।