याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
भाषा—जिस प्रकार एक ही दीपक में तेल से भींगी हुई अनेक बत्तियों से कई लौ एक साथ निकलती हैं और वायु का प्रबल झोंका उन सबको एक साथ ही बुझा देता है उसी प्रकार अकाल में भी अनेक मनुष्यों का एक साथ ही प्राण-नाश हो जाता है ॥ १६५ ॥ मोक्षमार्गमाह— अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कंबुरूपाः कपिला नीललोहिताः ॥ १६६ ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ १६७ ॥ योऽसौ हृदि प्रदीपवत्स्थितो जीवस्तस्यानन्ता रश्मयो नाड्यः सुखदुःख- हेतुभूताः 'द्वासप्ततिसहस्राणि' ( प्रा० १०८ ) इत्यादिनाक्ताः सितासितकर्बु- रादिरूपाः सर्वतः स्थितास्तेषामेको रश्मिरूर्ध्वं व्यवस्थितः योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भनिलयं चातिक्रम्य वर्तते तेन जीवः परां गतिमपुनरावृत्ति- लक्षणां प्राप्नोति ॥ १६६-१६७ ॥ भाषा—हृदय में दीपक के रूप में स्थित जीव की अनन्त रश्मियाँ ( सुख-दुःख की हेतुभूत नाडियाँ ) श्वेत, कृष्ण, कबरी, कपिला, नीली और लाल वर्ण की होती हैं। उनमें एक नाड़ी ऊपर की ओर स्थित है जो सूर्यमण्डल को भेदकर ब्रह्मलोक के भी पार पहुँचती है; इसके द्वारा ही जीव परम गति प्राप्त करता है ॥ १६६-१६७ ॥ स्वर्गमार्गमाह— यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन देवशरीराणि सधामानि प्रपद्यते ॥ १६८ ॥ यदस्यात्मनो मुक्तिमार्गभूताद्रश्मेरन्यद्रश्मिशतमूर्ध्वाकारमेव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजत- :रत्नरचितामरपुरसहितानि प्रपद्यते ॥ १६८ ॥ भाषा—इस आत्मा के मुक्ति का मार्गभूत नाड़ियों से भिन्न ऊपर की ओर जाने वाली सौ नाड़ियाँ हैं; उनके द्वारा ही देवताओं के लोक और शरीर प्राप्त होते हैं ॥ १६८ ॥ संसरणमार्गमाह— येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ १६९ ॥ १. कर्बुनीलाः कपिलाः पीतलोहिताः । बभ्रुनीलाः । २. रश्मयश्च । ३. मितप्रभाः ।
ये पुनस्तस्याधस्ताद्रश्मयो मृदुप्रभास्तैरिह फलोपभोगार्थं संसारे संसरति अवशः स्वकृतकर्मपरतन्त्रः ॥ १६९ ॥ भाषा—और जो उन नाड़ियों के नीचे की कम ज्योति वाली नाड़ियाँ हैं उनके द्वारा जीव अपने कर्मों का फल भोगने के लिए बाध्य होकर इस संसार में पुनः आता है ॥ १६९ ॥ भूतचैतन्यादिपक्षं परिजिहीर्षुराह— वेदैः शास्त्रैः सविज्ञानैर्जन्मनां मरणेन च । आर्त्या गत्या तथाऽगत्या सत्येन ह्यनृतेन च ॥ १७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः । निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १७१ ॥ तारानक्षत्रसंसारैर्जागरैः स्वप्नजैरपि । आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥ १७२ ॥ मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि । वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥ वेदैः 'स एष नेति नेत्यात्मा' (बृह. ३।९।२६) इति, 'अस्थूलमनण्व- ह्रस्वमपाणिपादम्' (बृ. ३।८।८) इत्यादिभिः । शास्त्रैश्च मीमांसान्वीक्षिक्या- दिभिः । विज्ञानैश्च 'ममेदं शरीरम्' इत्यादिदेहव्यतिरिक्तात्मानुभवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम् । आर्त्या जन्मान्तरगतकर्मानुष्ठान्नियतया, तथा गमनागमनाभ्यां ज्ञानेच्छाप्रय- त्नाधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मानुमानम् । नहि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । न च तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति । तदारब्धस्तम्भ- कुम्भादिभौतिकेष्वनुपलम्भात् । नच मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् ; शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तश्चैतन्यादिसमवा- य्यङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे श्रेयो हितप्राप्तिः, सुखदुःखे आमुष्मिके, तथा शुभ- कर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि, शाकुनज्ञानं पिङ्गलादिपत्रित्रचेष्टालिङ्गकं ज्ञानम् , ग्रहाः सूर्यादयः, तत्संयोगजैः फलैः, तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्रा- ण्याश्वयुक्प्रभृतीनि, एतेषां संचारैः, शुभाशुभफलोद्योतनैः जागरैर्जागरावस्था-
१. विद्यमानं सर्वस्य जगतस्तथा । २. कारणगुणक्रमेण । ३. रक्त- चैतन्यादि ।
प्रायश्चित्ताध्यायः ४८३ जन्यैश्च सच्छिद्रादित्यादिदर्शनैः, तथा स्वप्नजैः खरवराहमयुक्तथारोहणादिज्ञानैः, तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः, तथा मन्वन्तरप्राप्त्या देहेऽनुपपद्य- मानतया, तथा मन्त्रौषधिफलैः प्रेक्षापूर्वकैः क्षुद्रकमर्माद्यैः सान्तारम्पस्परया वा देहेऽनुपपद्यमानैर्वैद्यमानं हे मुनयः ! वित्त जानीत ॥ १७०-१७३ ॥ भाषा- वेद, शास्त्र, अनुभव, जन्म, मृत्यु, (जन्मान्तर के कर्मों का फल भोगना निश्चित होने से) पीडा, गति, अगति (न चलना), सत्य, असत्य, श्रेय (हितप्राप्ति), सुख और दुःख, शुभ और अशुभ कर्म, निमित्त (भूकंप आदि), शकुन का ज्ञान, ग्रह और उनके संयोग से उत्पन्न फल, (अश्विनी आदि नक्षत्रों से भिन्न) तारा और नक्षत्रों (अश्वयुज् आदि) की गति, जागते और सोते समय (स्वप्न में) देखी गई वस्तुओं, आकाश, वायु, ज्योति (सूर्य आदि), जल, पृथिवी, मन्वन्तर की प्राप्ति, युग का परिवर्तन, मन्त्रों एवं ओषधियों का फल - इन सबसे (देह से परे) आत्मा का अस्तित्व सिद्ध होता है जो सम्पूर्ण जगत् का कारण है; ऐसा आप लोग समझें ॥ १७०-१७३ ॥ अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः । इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ १७४ ॥ स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः । निमेष'श्चेतना यत्न आदानं पाञ्चभौतिकम् ॥ १७५ ॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ १७६ ॥ किंच, अहंकृतिरहंकारः, स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्वोधनि- बन्धना स्तन्यपानादिगोचरा, सुखमैहिकम्, धृतिर्धैर्यम्, इन्द्रियान्तरेण हि दृष्टेऽर्थे इन्द्रियान्तरस्य संचारो 'यमहमद्राक्षं तमहं स्पृशामि' इत्येवमनुसन्धान- रूप इन्द्रियान्तरसंचारः, अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम्, पूर्व- श्लोके तु गमनसत्यवचनादिहेतुतया आर्थिकं लिङ्गत्वमित्यपौनरुक्त्यम्, तथा,- धारणं शरीरस्य, जीवितं प्राणधारणम्, स्वर्गो नियतदेहान्तरोपभोग्यः सुख- विशेषः, स्वप्नः प्रसिद्धः । पूर्वश्लोके तु स्वप्नस्य शुभफलद्योतनाथ लिङ्गत्वम् ; अत्र स्वरूपेणेत्यपौनरुक्त्यम्, तथा भावानामिन्द्रियादीनां प्रेरणम्; मनसो गतिश्चेतनाधिष्ठानव्याप्ता, निमेषः प्रसिद्धः, तथा पञ्चभूतानामुपादानम्, १. उन्मेषश्चेतना २. लिङ्गानि दृश्यन्ते ३. सर्वज्ञ ४. श्लोकेऽनुगमन । ५. द्योतकत्या । ३१ या०
४८४ याज्ञवल्क्यस्मृतिः यस्मादेतानि लिङ्गानि भूतेष्वनुपपन्नानि साक्षात्परम्परया वा परमात्मनो द्योत- कानि दृश्यन्ते, तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम् ॥ भाषा—अहंकार, स्मृति, मेधा, द्वेष, बुद्धि, सुख, धैर्य, इन्द्रियान्तर- संचार (एक इन्द्रिय द्वारा दृष्ट अर्थ का दूसरी इन्द्रिय को ज्ञान) इच्छा, शरीरधारण, प्राणधारण, स्वर्ग, स्वप्न, भावना, इन्द्रियों की प्रेरणा, मन की गति, निमेष (पलक गिराना), चेतना, यत्न, और पृथिवी आदि पंचभूतों को धारण करना,—ये प्राणियों में पाये जाने वाले चिह्न परमात्मा के द्योतक दिखाई पड़ते हैं अतएव देह से परे आत्मा का अस्तित्व सिद्ध होता है जो सर्वगामी और ईश्वर है ॥ १७४–१७६ ॥ क्षेत्रज्ञस्वरूपमाह— बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ १७७ ॥ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ईश्वरः सर्वभूतस्थः सन्नसन्सदसच्च यः ॥ १७८ ॥ बुद्धीन्द्रियाणि श्रोत्रादीनि सार्थानि शब्दादिविषयसहितानि मनः कर्मे- न्द्रियाणि वागादीनि तथाऽहंकारो बुद्धिश्च निश्चयात्मिका पृथिव्यादीनि पञ्च- भूतानि अव्यक्तं प्रकृतिरित्येतत् क्षेत्रमस्य योऽसावीश्वरः सर्वगतः अत एव सद्रूपः प्रमाणान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्रूपोऽसा- वात्मा क्षेत्रज्ञ इति निगद्यते ॥ १७७-१७८ ॥ भाषा—बुद्धि, अपने शब्द आदि विषयों सहित श्रोत्र आदि इन्द्रियाँ, मन, कर्मेन्द्रियाँ, अहंकार, बुद्धि, पृथिवी आदि पञ्चभूत, अव्यक्त (प्रकृति), ये सब जिस के क्षेत्र हैं वह ईश्वर, सभी प्राणियों में स्थित, सद्, असद् और सदसद् रूप आत्मा क्षेत्रज्ञ कहलाता है ॥ १७७–१७८ ॥ बुद्ध्यादेरुत्पत्तिमाह— बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः । तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥ १७९ ॥ सत्त्वादिगुणसाम्यमव्यक्तम् । ततस्त्रिप्रकारायाः सत्त्वरजस्तमोमय्या बुद्धेरु- त्पत्तिः, तस्याश्च वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकार उत्पद्यते । तत्र तामसाद्भूतादिसंज्ञकादहंकारात्तन्मात्राणि, 'आदि'ग्रहणाद्गगनादीनि तानि चैको- त्तरगुणान्युत्पद्यन्ते । 'च'शब्दाद्वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणामुत्पत्तिः ॥
प्रायश्चित्ताध्यायः ४८५ भाषा—अव्यक्त (सत्त्व, रज और तमस् इन तीन गुणों की साम्या- वस्था) से त्रिगुणात्मक बुद्धि की उत्पत्ति होती है; उस बुद्धि से (त्रिविध) अहंकार की उत्पत्ति होती है; अहंकार से आकाश आदि एक एक गुण की वृद्धि द्वारा उत्पन्न होते हैं ॥ १७९ ॥ गुणस्वरूपमाह— शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः । यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते ॥ १८० ॥ तेषां गगनादिपञ्चभूतानां एकोत्तरवृद्ध्या पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्ध्यादिविकाराणां मध्ये यो यस्मात्प्रकृत्यादेरुत्पन्नः स तस्मिन्नेव सूक्ष्मरूपेण प्रलयसमये प्रलीयते ॥ १८० ॥ भाषा—शब्द, स्पर्श रूप, रस और गन्ध (उन आकाश आदि पञ्च- भूतों के) गुण हैं। इन (बुद्धि आदि) में जो जिससे उत्पन्न होता है वह प्रलय के समय उसी में विलीन हो जाता है ॥ १८० ॥ प्रकरणार्थमुपसंहरन्नाह— यथार्त्मानं सृजत्यात्मा तथा वः कथितो मया । विपाकात्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥ १८१ ॥ सत्त्वं रजस्तमश्चैव गुणास्तंस्यैव कीर्तिताः । रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते ^२ह्यसौ ॥ १८२ ॥ अनादिरादिमांश्चैव स एव पुरुषः परः । लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ १८३ ॥ मानसादि त्रिप्रकारकर्मणां विपाकादीश्वरोऽपि सन्नात्मा यथात्मानं सृजति तथा युष्माकं कथितः । सत्त्वाद्याश्च गुणास्तस्यैवाविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामाविष्टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुब्जवामनादिविकारसहितस्तथा स्थूलाकारतया परिणतो लिङ्गैरिन्द्रियैश्च ग्राह्यस्वरूप उदाहृतः ॥ १८१-१८३ ॥ भाषा—जिस प्रकार ईश्वर होते हुए भी मानस आदि तीन प्रकार के कर्मों के फल से आत्मा स्वयं को उपजाता है वह मैंने कह दिया। सत्त्व, रज और तमस् गुण उसी (अविद्या से युक्त आत्मा) के हैं। रजोगुण और तमोगुण से युक्त होकर यह (आत्मा) चक्र के समान इस संसार में घूमता रहता है। उसी को अनादि, (शरीर ग्रहण करने से) आदिमान्, परमपुरुष, १. स्तस्य प्रकीर्तिताः । २. हि सः । ३. तस्यैवाविशिष्टस्य ।
४८६ $\qquad\qquad$ याज्ञवल्क्यस्मृतिः शरीर के विकार से युक्त होने तथा स्थूल आकार का होने से इन्द्रियों द्वारा ग्राह्य बताया गया है ॥ १८१-१८३ ॥ $\quad$ स्वर्गमार्गमाह— $\qquad$ पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् । $\qquad$ तेनाग्निहोत्रिणो यान्ति स्वगकामा दिवं प्रति ॥ १८४ ॥ $\quad$ अजवीथ्यमरमार्गः तस्यागस्त्यस्य च यदन्तरमसौ पितृयानस्तेनाग्निहोत्रिणः स्वर्गकामाः दिवं यान्ति स्वर्गं प्राप्नुवन्ति ॥ १८४ ॥ $\quad$ भाषा—अजवीथी ( देवताओं के मार्ग ) और अगस्त्य के बीच पितृयान ( पितरों का मार्ग ) है, इस मार्ग की इच्छा लेकर अग्निहोत्र करने वाले स्वर्ग में पहुँचते हैं ॥ १८४ ॥ $\qquad$ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । $\qquad$ तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ १८५ ॥ $\quad$ किंच, ये च दानादिस्मार्तकर्मपराः सम्यग्दम्भरहिताः तथाऽष्टाभिरात्मगुणैः 'दयाक्षान्तिरनसूयाशौचमनायासो मङ्गलमकार्पण्यमस्पृहा' ( ८।२३ ) इति गौतमादिप्रतिपादितैर्युक्ताः । तथा ये च १सत्यवचननिरतास्तेऽपि तेनैव पितृ- यानेनैव सुरसदनमाप्नुवन्ति ॥ १८५ ॥ $\quad$ भाषा—जो दान ( स्मार्त कर्मों ) में तत्पर रहते हैं, सम्यक् ( अहं- काररहित होकर ) आत्मा के आठ गुणों से युक्त और सत्यवादी होते हैं वे उसी पितृयान से देवलोक को जाते हैं ॥ १८५ ॥ $\quad$ ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितना जनाः कथमग्निहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गम- धिरोक्ष्यन्तीत्यत आह— $\qquad$ २तत्राशीतिसहस्रमुनयो गृहमेधिनः । $\qquad$ ३पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ १८६ ॥ $\quad$ तत्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिध- र्माणः सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तोऽग्निहोत्रा- दिधर्मप्रवर्तकाः, अतो न प्रागुदितदोष४समासङ्गः ॥ १८६ ॥ $\quad$ भाषा—उस पितृयान में अठासी हजार गृहस्थ मुनि निवास करते हैं ; जो ( सृष्टि के आरम्भ में ) पुनः पुनः वेद का उपदेश करने से धर्मरूपी वृक्ष की उत्पत्ति के निमित्त बीज के समान होते हैं ॥ १८६ ॥
$\quad$ १. सत्यवदन । $\quad$ २. अष्टाशीतिसहस्राणि । $\quad$ ३. पुनरावृत्तिनो. । ४. समागमः ।
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिप्यंतरण दिया गया है:
प्रायश्चित्ताध्यायः ४८७ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ १८७ ॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ १८८ ॥ किंच, सप्तर्षयः प्रसिद्धाः, नागवीथी ऐरावतपन्थाः, तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्येया मुनयः सर्वारम्भविवर्जिताः केवलज्ञाननिष्ठाः तपो- ब्रह्मचर्ययुक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसंप्लवं प्राकृत- प्रलयपर्यन्तमवतिष्ठन्ते । तत्र च स्थिताः सृष्ट्यादावाध्यात्मिकधर्माणं प्रवर्त्तकाः ॥ १८७-१८८ ॥ भाषा—सप्तर्षियों और नागवीथी (ऐरावतपथ) के बीच उतने ही मुनि सभी क्रियाओं से विरत होकर (केवल ज्ञाननिष्ठ होकर), तपस्या और ब्रह्मचर्य से युक्त होकर, संग त्याग कर, मेधा से युक्त होकर, देवलोक का आश्रय लेकर महाप्रलय तक स्थित रहते हैं ॥ १८७-१८८ ॥ कथंभूतास्ते मुनय इत्यत आह— यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥१८९॥ यतो द्विविधादपि मुनिसमूहाच्चत्वारो वेदाः पुराणाङ्गविद्योपनिषदश्च नित्य- भूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि च सूत्रव्याख्यारूपाणि यदन्यदायूर्वे- दादिकं वाङ्मयं, तदपि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्त्तकाः । एवं सति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ १८९ ॥ भाषा—जिन मुनियों से वेद, पुराण, अङ्गविद्याएँ, उपनिषद्, इति- हासात्मक श्लोक, सूत्र, भाष्य और सभी दूसरे (आयुर्वेद आदि) वाङ्मय प्रचलित हुए हैं ॥ १८९ ॥ ततः किमित्यत आह— वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । श्रद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतवः ॥ १९० ॥ वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद्वेदानुवचनादयः सत्त्वशुद्ध्यापादनद्वा- रेणात्मज्ञानस्य हेतव इत्युपपन्नं भवति ॥ १९० ॥
१. सप्तर्षिनागवीथ्यन्ते । २. यच्चान्यद्वाङ्मयं क्वचित् ।
५८८ याज्ञवल्क्यस्मृतिः भाषा-वेद सम्मत वचन, यज्ञ, ब्रह्मचर्य, तप, दम (इन्द्रियों का दमन), श्रद्धा, उपवास और (विषयासक्ति के दोष का नाश होने पर ध्यान और धारणा में) आत्मा की स्वतन्त्रता-ये ज्ञान के हेतु हैं ॥ १९० ॥ स ह्याश्रमैरविज्ञेयः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ १९१ ॥ ये एनमेवं विन्दन्ति ये चारण्यकमाश्रिताः । उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ १९२ ॥ किंच, यस्मान्नियतयथाप्रमाणभूतो वेदस्तस्मादुक्तमार्गेण सकलाश्रमि- भिर्नानाप्रकारं जिज्ञासितव्यः । तमेव प्रकारं दर्शयति-द्विजातिभिर्दृष्टव्योऽपरो- क्षीकर्तव्यः । तत्रोपायं दर्शयति-श्रोतव्यो मन्तव्य इति । प्रथमतॊ वेदान्तश्रव- णेन निर्णेतव्यः, तदनन्तरं मन्तव्यः युक्तिभिर्विचारयितव्यः, ततोऽसौ ध्यानेनाप- रोक्षी भवति । ये द्विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशमाश्रिताः सन्तः एवमुक्तेन मार्गेण एनमात्मानं सत्यं परमार्थभूतमुपासते ते आत्मानं विदन्ति लभन्ते प्राप्नुवन्ति ॥ १९१-१९२ ॥ भाषा-द्विजाति सभी आश्रमों में उस आत्मा के विषय में जिज्ञासा करें, (वेदान्त) श्रवण द्वारा उसका निर्णय करें, पुनः उस पर मनन अर्थात् युक्तियों द्वारा विचार करें और तब ध्यान द्वारा उसका साक्षात्कार करें। जो द्विज अत्यन्त श्रद्धा से युक्त होकर निर्जन प्रदेश में निवास करते हुए उपरोक्त विधि से इस परमार्थभूत आत्मा की उपासना करते हैं वे ही इसे प्राप्त करते हैं ॥ १९१-१९२ ॥ प्राप्तिमार्गं देवयानमाह- क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् ॥ १९३ ॥ ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ १९४ ॥ ते विदितात्मानः क्रमादग्न्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्रम्य तैः प्रस्थापिताः परमपदं प्राप्नुवन्ति । अर्चिर्वह्निः, अहर्दिनं, शुक्लपक्षः, तथोत्तरा- यणं, सुरसद्म, सविता सूर्यः, वैद्युतं च तेजः; तान् एवं क्रमादर्चिरादिस्थानगता- न्मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषामिह संसारे पुनरावृत्तिर्न विद्यते, किंतु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्येकीभवन्ति ॥ १९३-१९४॥ १. समग्रैरेवमेव । २. य एवमेनं ।
प्रायश्चित्ताध्यायः ४८६ भाषा—वे आत्मज्ञानी क्रमशः अग्नि, दिन, शुक्लपक्ष, उत्तरायण, देव- लोक, सवितृ और तेज के लोक में जाते हैं। तब उन्हें मानस पुरुष ब्रह्मलोक में पहुँचाता है और उनका इस संसार में पुनः जन्म नहीं होता ( अर्थात् वे परमात्मा में विलीन हो जाते हैं ) ॥ १९३-१९४ ॥ पूर्वोक्तपितृयानमाह— यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः। धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ १९५ ॥ पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ॥ १९६ ॥ एतद्यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत्कीटोऽथवा कृमिः ॥ १९७ ॥ ये पुनर्विहितैर्मार्गैर्यज्ञदानतपोभिः स्वर्गफलभोक्तारस्ते क्रमाद्धूमादिचन्द्रपर्य- न्तपदार्थाभिमानिनीर्देवताः प्राप्य पुनरेव वायुवृष्टिजलभूमीः प्राप्य व्रीह्याद्यन्नरू- पेण शुक्रत्वमवाप्य संसारिणो योनिं व्रजन्ति । एतन्मार्गद्वयममत्तो यो न विजा- नाति मार्गद्वयमत्तो थो न विजानाति मार्गद्वयोपायभूतधर्मानुष्ठानं न करोति असौ दन्दशूको भुजङ्गः, पतङ्गः शलभः, कृमिः कीटो वा भवेत् ॥ १९५-१९७ ॥ भाषा—यज्ञ, तपस्या और दान से जो मनुष्य स्वर्ग प्राप्त करते हैं वे धूम, निशा, कृष्णपक्ष, दक्षिणायन, पितृलोक और चन्द्रलोक के देवताओं में जा पहुँचते हैं और फिर वायु, वृष्टि, जल और पृथिवी को प्राप्त कर ( व्रीहि- आदि अन्न से शुक्र बनकर ) क्रमशः इस संसार में पुनः जन्म लेते हैं ।, जो प्रमत्त व्यक्ति इन दोनों मार्गों को नहीं जानता है ( इन दोनों मार्गों के उपायभूत धर्म का अनुष्ठान नहीं करता है ) वह दन्दशूक साँप, पतंगा, कीड़ा अथवा कृमि का जन्म पाता है ॥ १९५-१९७ ॥ उपासनाप्रकारमाह— ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥ १९८ ॥ निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चितः ॥ १९९ ॥ संनिरुद्धयेन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ॥ २०० ॥ १. न्यस्येतरं करम् ।
४६० याज्ञवल्क्यस्मृतिः ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन्बुधः ॥ २०१ ॥ ॰ ऊरुस्थावुत्तानौ चरणौ यस्य स तथोक्तः बद्धपद्मासनः, तथोत्ताने सव्यकरे दक्षिणमुत्तानं न्यस्य मुखं किंचिदुन्नाय्योरसा च विष्टभ्य स्तम्भयित्वा तथा निमीलिताक्षः, स्वस्थः कामक्रोधादिरहितः, दन्तैर्दन्तानसंस्पर्शयन् तथा तालुनि स्थिता अचला जिह्वा यस्य स तथोक्तः, तथा संवृ- तास्यः पिहिताननः, सुनिश्चितो निष्प्रकम्पः, तथा सम्यगिन्द्रियसम्मूहं विषये- भ्यः प्रत्याहृत्य नातिनीचासनो नात्युच्छ्रितासनो यथा चित्तविक्षेपो न भवति तथोपविष्टः सन्, द्विगुणं त्रिगुणं वा प्राणायामभ्यासमुपक्रमेत् । ततो वशीकृत- पवनेन योगिना योऽसौ हृदये दीपवदप्रकम्पः प्रभुः स्थितोऽसौ ध्यातव्यः । तत्र च हृदि आत्मानं मनोगोचरतया धारयेत् । तथा धारणां च धारयेत् । धारणास्वरूपं च जान्वग्रभ्रमणेनच्छोटिकादानकालो मात्रा, ताभिः-पञ्चदशमा- त्राभिरधमः प्राणायामः, त्रिंशद्भिर्मध्यमः, पञ्चचत्वारिंशद्भिरुत्तम इति । प्राणा- यामत्रयात्मिकैका धारणा, तास्तिस्रो 'योग'शब्दवाच्यास्ताश्च धारयेत् । यथो- क्तमन्यत्र—'संभ्रम्य च्छोटिकां दद्यात्कराग्रं जानुमण्डले । मात्राभिः पञ्चदशभिः प्राणायामोऽधमः स्मृतः ॥ मध्यमो द्विगुणः श्रेष्ठस्त्रिगुणो धारणा तथा । त्रिभि- स्त्रिभिः स्मृतैकैका ताभिर्योगस्तथैव च ॥' इति ॥ १९८-२०१ ॥ भाषा—पद्मासन लगाकर ( जंघों के ऊपर चरणों को उलटा रखकर ) बायें हाथ में दाहिने हाथ को उत्तान रखकर, मुख को कुछ ऊपर उठाकर और वक्षस्थल से रोक कर, आँखों को बन्दकर, काम, क्रोध आदि का त्याग करके, दाँतों को विना मिलाये हुए, तालु स्थान में जिह्वा को निश्चल रखकर, मुँह बन्द करके, अत्यन्त निश्चल होकर ( बिना हिले डुले ), इन्द्रियों को विषयों से पूर्णतः मोड़कर तथा न अधिक नीचे और न अधिक ऊँचे आसन पर बैठकर दुगुना या तिगुना प्राणायाम करने का अभ्यास करे । तदुपरान्त हृदय में निश्चल दीप के समान स्थित प्रभु का ध्यान करना चाहिए और तब धारणा ( जो तीन प्राणायामों की होती है ) करते हुए उस हृदय में आत्मा को धारण करे ॥ १९८-२०१ ॥ धारणात्मकयोगाभ्यासे प्रयोजनमाह— अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ २०२ ॥ १. धारणाभवधारयन् । २. सिद्धेश्च; सिद्धिर्हि ।
प्रायश्चित्ताध्यायः ४६१ अर्थानां छन्दतः सृष्टिर्यौगसिद्धेर्हि लक्षणम् । सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ॥ २०३ ॥ अणिमप्राप्त्या परैरदृश्यत्वमन्तर्धानम् , स्मृतिरतीन्द्रियेष्वर्थेषु मन्वादेरिव स्मरणम्, कान्तिः कमनीयता, दृष्टिरतीतानागतेष्वप्यर्थेषु, तथा श्रोत्रज्ञता अति- दवीयसि देशेऽभिव्यज्यमानतया श्रोत्रपथमनासेदुषामपि शब्दानां ज्ञातृता, निजशरीरत्यागेन परशरीरप्रवेशनम् , स्ववाञ्छावशेनार्थानां करणनिरपेक्षतया सृष्टिः, इत्येतद्योगस्य सिद्धेर्लक्षणं लिङ्गम् । नचैतावदेव प्रयोजनं, किंतु सिद्धे योगे त्यजन्देहममृतत्वाय कल्पते ब्रह्मत्वप्राप्तये च प्रभवति ॥ २०२-२०३ ॥ भाषा—अन्तर्धान होना ( दूसरों द्वारा न देखा जाना ), स्मृति ( अती- न्द्रिय विषयों का स्मरण ), शोभा, दृष्टि ( भूत और भविष्यत् का ज्ञान ), अपना शरीर छोड़कर दूसरे शरीर में प्रवेश, अपनी इच्छा के अनुसार वस्तुओं की सृष्टि—ये सभी योग की सिद्धि के लक्षण हैं। योग की सिद्धि हो जाने पर शरीर का परित्याग करके योगी ब्रह्मत्व-प्राप्ति में समर्थ होता है ॥ २०२-२०३ ॥ यज्ञदानाद्यसंभवे सत्त्वशुद्धावुपायन्तरमाह— अथवाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् । अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् ॥ २०४ ॥ अथवा त्यक्तकाम्यनिषिद्धकर्मा अन्यतमं वेदमभ्यसन् , एकान्तशीलो- ऽयाचितमिताशनापादितसत्त्वशुद्धिरात्मोपासनेन परां मुक्तिलक्षणां सिद्धिं प्राप्नोति ॥ २०४ ॥ भाषा—अथवा ( यज्ञ, दान आदि न कर सकने पर ) सभी काम्य निषिद्ध कर्मों का त्याग करके, किसी वेद का अभ्यास करते हुए, वन में रहकर ( वानप्रस्थाश्रम में ), बिना माँगे ही मिले हुए अन्न का भोजन करने वाला, अल्पाहारी व्यक्ति परम सिद्धि ( मुक्ति ) प्राप्त करता है ॥ २०४ ॥ न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ २०५ ॥ किंच, सत्प्रतिग्रहादिन्यायेनोपार्जितधनः अतिथिपूजातत्परः नित्यनैमि- त्तिकश्राद्धानुष्ठाननिरतः सत्यवदनशीलः सद्भावतत्तत्त्वध्याननिरतो गृहस्थोऽपि हि यस्मान्मुक्तिमवाप्नोति तस्मान्न केवलमैहिकपारिव्राज्यपरिग्रह एव मुक्ति- साधनम् ॥ २०५ ॥ १. अणिमाप्राप्त्या । २. कारणनिरपेक्ष । ३. पारिव्राज्य ।
इत्यध्यायप्रकरणम् ।
भाषा-धर्मपूर्वक धनोपार्जन करने वाला, अतिथिसत्कार में तत्पर (नित्यनैमित्तिक) श्राद्ध अनुष्ठान में रत, सत्यवादी और आत्मतत्त्व के ध्यान में लीन रहने वाला गृहस्थ भी मुक्ति प्राप्त कर लेता है ॥ २०५ ॥ इत्यध्यायप्रकरणम् । अथ प्रायश्चित्तप्रकरणम् ५ ( १ ) कर्मविपाकः 'वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः' (आ० १) इत्यत्र प्रतिपादकतया प्रतिज्ञातषड्विधधर्ममध्ये पञ्चप्रकारं धर्ममभिधायाधुनावशिष्टं नैमित्तिकं धर्मजातं प्रायश्चित्तपदामिलप्यं प्रारिप्सुः प्रथमतस्तत्प्ररोचनार्थमधिकारिविशेष- प्रदर्शनार्थं चार्थवादरूपं कर्मविपाकं तावदाह— महापातकान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥ २०६ ॥ ब्रह्महत्यादिपञ्चकस्य महापातकसंज्ञा 'ब्रह्महा मद्यपः' (प्रा० २२७) इत्यत्र वक्ष्यते तद्योगिनो महापातकिनस्ते महापातकजनितांस्तामिस्रादिनरकान्स्वज- नितदुष्कृतानुरूपान् घोरानतितीव्रवेदनापादकत्वेनातिभयंकरान्दारुणान्दुःखैक- भोगनिलयान् प्राप्य कर्मक्षयात् कर्मजन्यनरकदुःखोपभोगक्षयादनन्तरं कर्मशे- बात्पुनरिह संसारे दुःखबहुलश्वसृगालादितियंग्योनिषु प्रकर्षेण भूयो भूयो जायन्ते । 'महापातकि'ग्रहणमितरेषामप्युपपातकादीनामुपलक्षणम् । तेषां च तिर्यगादियोनिप्राप्तेर्वक्ष्यमाणत्वात् ॥ २०६ ॥ भाषा-(ब्रह्महत्या आदि) महापातकों से उत्पन्न तामिस्र आदि घोर नरकों को (अपने कर्म के अनुसार) भोगकर कर्मों का क्षय होने पर महा- पातकी पुनः-पुनः इस संसार में (दुःख से व्याप्त योनियों में, जो आगे उल्लिखित हैं) जन्म लेते हैं ॥ २०६ ॥ महापातकिनां संसारप्राप्तिमुक्त्वा तद्विशेषकथनायाह— मृग(गा)श्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ २०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ २०८ ॥ १. वेनानां ।
प्रायश्चित्ताध्यायः ४६३ मृगा हरिणादयः, श्वसूकरोष्ट्राः प्रसिद्धाः, तेषां योनिं ब्रह्महा स्वकर्मशेषेण प्राप्नोति । खरो रासभः, पुल्कसः प्रतिलोमनिषादेन शूद्रायां जातः वैदेहकेना- ऽम्बष्ठ्यां जातो वेनः, तेषां योनिं सुरापः प्राप्नोति । कृमयः सजातीयसंभोगनि- रपेक्षां मांसविष्ठागोमयादिजन्याः, ततः किंचित्स्थूलतराः पक्षास्थिरहिताः सजातीयसंभोगनिरपेक्षाः पिपीलिकादयः कीटाः, पतङ्गः शलभः, तेषां योनिं ब्राह्मणस्वर्णहारी प्राप्नुयात् । तृणं काशादि, गुल्मुलते प्रागुक्ते; तज्जातीयतां क्रमेण गुरुतल्पगः प्राप्नोति । एतच्चाकामकृतविषयम्, कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिषु संसरन्ति; यथाह मनुः (१२।५५-५८)—'श्वसूकरखरो- ष्ट्राणां गोऽजाविमृगपक्षिणाम् । चाण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ लूताऽहिसरठानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ लूता ऊर्णनाभः । सरठः कृकलासः ।—' तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुत- ल्पगः ॥' इति ॥ २०७-२०८ ॥ भाषा—ब्रह्महत्या करने वाला हरिण, कुत्ता, सूअर और ऊँट का जन्म पाता है, सुरा पीने वाला गधा, पुल्कस (निषाद द्वारा शूद्रा से उत्पन्न पुरुष) और वेण (वैदेहक द्वारा अम्बष्ठा से उत्पन्न) की योनि पाता है; इसमें सन्देह नहीं । (ब्राह्मण का) सोना चुराने वाला कृमि (मांस, विष्ठा आदि में उत्पन्न होने वाले कीड़े), कीट (चींटी आदि) और पतंगों की योनि प्राप्त करता है । गुरुपत्नी से व्यभिचार करने वाला क्रमशः तृण, गुल्म (छोटी लता) और लता का जन्म पाता है ॥ २०७-२०८ ॥ एवं च तिर्यक्त्वादुत्तीर्णानां मानुष्ये रोगादि लक्षणानि भवन्तीत्याह— ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २०९ ॥ यो येन संवसेत्येषां स तल्लिङ्गोऽभिजायते । किं.च, एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुणं दुःखमनुभूया- नन्तरं दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ताः । प्रचुरेषु मानव- शरीरेषु संसरन्ति । तत्र ब्रह्महा क्षयरोगी राजयक्ष्मी भवेत् । निषिद्धसुरापी स्वभावतः कृष्णदशनः, ब्राह्मणहेम्नो हर्ता कुत्सितनखत्वम्, गुरुदारगामी दुश्चर्मत्वं कुष्ठिताम् । एतेषां ब्रह्महादीनां मध्ये येन पतितेन यः पुरुषः संवसति संवसति स तल्लिङ्गोऽभिजायते ॥ २०९३ ॥ १. योनीः । २. गोवाजिमृगपक्षिणाम्. ३. पुल्कसानां च ।
४६४ याज्ञवल्क्यस्मृतिः भाषा—( मनुष्य का जन्म पाने पर ) ब्राह्मण की हत्या करने वाले राजयक्ष्मा का रोगी होते हैं; सुरा पीने वाले के दाँत स्वभावतः काले होते हैं;, ( ब्राह्मण का ) सोना चुराने वाले के नख भद्दे होते हैं और गुरुपत्नी का भोग करने वाला कोढ़ी होता है । इन ब्रह्महा आदि महापातकियों में जिसके साथ कोई निवास करता है वह भी उसी के समान महापातकी होता है ॥ २०९३ ॥ अन्नहर्त्ताऽऽमयावी स्यान्मूको वागपहारकः ॥ २१० ॥ धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥ २११ ॥ किंच, अन्नस्यापहर्त्ता आमयावी अजीर्णांन्नः । वागपहारकोऽननुज्ञाताध्यायी पुस्तकापहारी च मूको वागिन्द्रियविकलो भवेत् । धान्यमिश्रोऽतिरिक्ताङ्गः षडङ्गुल्यादिः पिशुनो विद्यमानपरदोषप्रख्यापनशीलः । पूतिनासिकः दुर्गन्ध- नासिकः, तैलस्य हर्ता तैलपायी कीटविशेषो भवति । सूचकोऽसद्दोषसंकीर्तनो दुर्गन्धवदनो जायते । एतच्च तिर्यक्त्वप्राप्त्युत्तरकालं मानुषशरीरप्राप्तौ द्रष्टव्यम् ( १२।६८ )—'यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥' इति मनुस्मरणात् ॥ २१०-२११ ॥ भाषा—अन्न चुराने वाले को अजीर्ण का रोग होता है और वाणी ( अर्थात् पुस्तक ) चुराने वाला गूँगा होता है । धान्य में मिलावट करने वाले का कोई अंग ( अंगुली आदि ) बड़ा होता है और पिशुन ( दूसरों का दोष कहने वाले चुगलखोर ) की नाक दुर्गन्धयुक्त रहती है ॥२१०-२११॥ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ २१२ ॥ किंच, यः परदारानपहरति, ब्रह्मस्वं च सुवर्णव्यतिरिक्तमपहरति, असावरण्ये निर्जले देशे ब्रह्मराक्षसो भूतविशेषो जायते ॥ २१२ ॥ भाषा—परायी स्त्री का और ब्राह्मण के धन का अपहरण करने वाला वन में निर्जल स्थान पर ब्रह्मराक्षस होकर जन्म लेता है ॥ २१२ ॥ हीना जातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखी हृत्वा गन्धांश्छुच्छुन्दरी शुभान् ॥२१३॥ किंच, हीनजातौ हेमकाराख्यायां पश्चिजातौ पररत्नाद्यपहारको जायते । तथा च मनुः (१२।६१)—'मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विवि- धानि च रत्नानि जायते हेमकर्तृषु ॥' इति । पत्रात्मकं शाकं हृत्वा मयूरः । शुभानाम्गन्धानपहृत्य छुच्छुन्दरी राजदुहिताख्या मूषिका जायते ॥ २१३ ॥
भाषा—दूसरे के रत्न को चुराने वाला हेमकार नाम के निम्न कोटि के पक्षियों की योनि में जन्म लेता है; पत्तों वाला शाक चुराने पर मयूर और सुगंधद्रव्यों को चुराने पर छुछुन्दर का जन्म मिलता है ॥ २१३ ॥ मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥ २१४ ॥ मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ २१५ ॥ किंच, धान्यहारी आखुः, यानं हृत्त्वोष्ट्रः, फलं वानरः, जलं प्लवः, शकटविलाख्यः पक्षी, पयः क्षीरं, काको ध्वाङ्क्षः, गृहोपस्करं मुसलादि हृत्वा गृहकारी १चटकाख्यः कीटविशेषः, मधु हृत्वा दंशाख्यः कीटः, पलं मांसं तद्धृत्वा गृध्राख्यः पक्षी, गां हृत्वा गोधाख्यः प्राणिविशेषः, अग्निं हृत्वा बकाख्यः पक्षी, वस्त्रं हृत्वा श्वित्री, इक्ष्वादिरसं हृत्वा सारमेयः- लवणहारी चीर्याख्यः उच्चैःस्वरः कीटः ॥ २१४–२१५ ॥ भाषा—धान्य चुराने वाला चूहा होता है और यान (सवारी) चुराने वाला ऊँट तथा फल चुराने वाला बन्दर होता है। जल चुराने वाला शकटविल पक्षी का, दूध चुराने वाला कौए का और मूसल आदि जैसे गृहस्थी का उपकरण चुराने पर गृहकारी (चटक) पक्षी का जन्म मिलता है। मधु चुराने वाला दंश (मच्छर), मांस चुराने वाले गृध्र, गाय चुराने वाला गोह, अग्नि चुराने वाला बक पक्षी, वस्त्र चुराने वाला कुष्ठी, ईख आदि का रस चुराने वाला कुत्ता और नमक चुराने वाला चीरी कीड़ा होकर जन्म लेता है ॥ २१४-२१५ ॥ एवं प्रदर्शनार्थं किंचिदुक्त्वा प्रतिद्रव्यं २पृष्ठाकोटन्यायेन वक्तुमशक्तेरेकोपा- घिना कर्मविपाकं दर्शयितुमाह— प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २१६ ॥ द्रव्यस्यापहियमाणस्य यादृशाः प्रकारास्तादृशा एव प्राणिजातयः स्तेयकर्मण्यपहर्तारो भवन्ति । यथा कांस्यहारी हंस इति । अथवा यत्फलसाधनं द्रव्यमपहरति तत्साधनविकलः-यथा पङ्गुतामश्वहारक इति ॥ शङ्खेन कचिद्विशेषो दर्शितः । 'ब्रह्महा कुष्ठी, तैजसापहारी मण्डली, देवब्राह्मणा- क्रोशकः खलतिः, गरदाग्निदावुन्मत्तौ, गुरुं प्रतिहन्तापस्मारी, गोघ्नाश्चान्धः, १. वरटाख्यः । २. पृष्टाकोटेन ।
४१६ याज्ञवल्क्यस्मृतिः
धर्मपत्नीं त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी प्राणिविशेषः, कुण्डाशी भगभक्षो ^१देवब्राह्मस्वापहारी पाण्डुरोगी, न्यासापहारी च काणः, स्त्रीपण्योपजीवी षण्ढः, कौमारदारत्यागी दुर्भगः, मिष्टैकाशी वातगुल्मी, अभक्ष्यभक्षको गण्डमाली, ब्राह्मणीगामी निर्बीजी, क्रूरकर्मा वामनः, वस्त्रापहारी पतंगः, शय्यापहारी क्षपणकः, शङ्खशुक्त्यपहारी कपाली, दीपापहारी कौशिकः, मित्रध्रुक् क्षयी, मातापित्रोराक्रोशः खैञ्जक^३ इति ॥ गौतमोऽपि कंचिद्विशेषमाह—अनृतवा- ग्दुस्त्वग्कः सुहृन्मुहुः संलग्नवाक् , दारत्यागी जलोदरी, कूटसाक्षी श्लीपदी उच्छ्रून- जङ्घाचरणः, विवाहविघ्नकर्ता छिन्नोष्ठः, अवगूरणः छिन्नहस्तः, मातृघ्नोऽन्धः, स्नुषागामी वातवृषणः, चतुष्पथे विण्मूत्रविसर्जने मूत्रकृच्छ्री, कन्यादूषकः षण्ढः, ईर्ष्यालुर्मशकः, पित्रा विवदमानोऽपस्मारी, न्यासापहारी अनपत्यः, रत्नपहारी अत्यन्तदरिद्रः, विद्याविक्रयी पुरुषमृगः, वेदविक्रयी द्वीपी, बहुयाजको जलप्लवः, अयाज्ययाजको वराहः, अनिमन्त्रितभोजी वायसः, सृष्टैकभोजी वानरः, यतस्त- तोऽशनम्मार्जारः, कण्वतनदहनात्खद्योतः, दारकाचार्यो मुखविगन्धिः, पर्युषि- तभोजी कृमिः, अदत्तादायी बलीवर्दः, मत्सरी भ्रमरः, अभ्युत्सादी मण्डलकुष्ठी, शूद्राचार्यः श्वपाकः, गोहर्ता सर्पः, स्नेहापहारी क्षयी, अन्नापहारी अजीर्णी, ज्ञानापहारी मूकः, चण्डालीपुक्कसीगमने अजगरः, प्रव्रजितागमने मरुत्पिशाचः, शूद्रीगमने दीर्घकीटः, सवर्णाभिगामी दरिद्रः, जलहारी मत्स्यः, क्षीरहारी बलाकः, वाधुषिकोऽङ्गहीनः, अविक्रेयविक्रयी गृध्रः, राजमहिषीगामी नपुंसकः, राजाक्रोशको गर्दभः, गोगामी मण्डूकः, अनध्यायाध्ययने सृगालः, परद्रव्यापहारी परप्रेष्यः, मत्स्यवधे गर्भवासी, इत्येतेऽतूर्ध्वगमना इति ॥ स्त्रियोऽप्येतेषु निमित्तेषु पूर्वोक्तास्वेव जातिषु स्त्रीत्वमनुभवन्ति । यथाह मनुः (१२।६९)—‘स्त्रियोऽ- प्येतेन कल्पेन कृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥’ इति । एतच्च क्षयित्वादिलक्षणकथनं प्रायश्चित्तोन्मुखीभूतब्रह्महाद्युद्वेग- जननार्थं न पुनः क्षयित्वादिलक्षणयुक्तानां द्वादशवार्षिकादिव्रतप्राप्त्यर्थं संसर्ग- निवृत्त्यर्थं च । तथा हि—पापक्षयार्थं प्रायश्चित्तम् । नंच प्रायश्चित्तेन प्रारब्धफ- लपापापूर्वविनाशे किंचन प्रयोजनमस्ति । नहि कार्मुकनिर्मुक्को बाणो लक्ष्यवेधे बेद्धुस्तद्व्यापारस्य वा संत्तानन्तरं पुनरपेक्षते । न च तदारब्धफलनाशार्थौ पूर्व- नाशाऽन्वेषणीयः । नहि ^१०निमित्तकारणीभूतचक्रचीवरादिविनाशेने तदारब्धकर- कादिविनाशः । नच नैसर्गिकं कौन्त्यादिकं प्रध्यानेतुं शक्यते । किंच नरक- तिर्यग्योन्यादिजन्यदुःखपरंपरामंनुभूतस्य हि कौन्त्यादिको विकारश्वरमं फलम् ।
१. ब्रह्मस्वहरः । २. सृष्टैकाशी ३. खण्डकारः । ४. अस्थूलजङ्घ । ५. अवगूरणी । ६. मिष्टैकभोजी । ७. हत्वा दोषं । ८. न च प्रारब्ध । ९. सत्ता पुनरपेक्षते । १०. कारणभूत । ११. मनुभूय तस्य ।
प्रायश्चित्त्याध्यायः ४६७ तेन चोपरुद्धमात्रेण स्वकारणापूर्वनाशो जन्यते मन्थनजनिताशुशुक्षणेनेवार- णिचयः । तस्मान्न पापविनाशार्थं व्रतपरिचर्या, नापि संव्यवहारार्थम् । नहि शिष्टाः कुनख्यादिभिः सह संबन्धं परिहरन्ति । प्राचीननैवद्यात्पापनाशेन संव्यव- हार्यत्वस्यापि सिद्धेनार्थो व्रतचर्यया ॥ यत्तु वसिष्ठेनोक्तम् ( ३०६ )—'कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशरात्रं चरेत्' इति तच्छामवत्यादिवन्नैमित्तिकमात्रं न पुनः पापक्षयार्थं संव्यवहार्यत्वसिद्धयर्थं वेति मन्तव्यम् ॥ २१६ ॥ भाषा—इतना मैंने उदाहरण के लिये कहा है । दूसरे का द्रव्य चुराने पर तो जिस प्रकार का द्रव्य होता है उसी प्रकार की योनि (चोरी करने वाला) प्राप्त करता है । यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ २१७ ॥ किंच, यथाकर्म स्वकृतदुष्कृतानतिक्रमेण तदनुरूपं नरकादि फलं तिर्यक्त्वं च प्राप्य कालक्रमेण क्षीणे कर्मणि दुष्टलक्षणा दरिद्राश्च पुरुषेषु निकृष्टा जायन्ते ॥ भाषा—अपने किए हुए कर्म के अनुसार नरक आदि फल और पशु पक्षियों की योनि प्राप्त करके (कालक्रम से कर्म के क्षीण होने पर) वे कुरूप दरिद्र और पुरुषों में निकृष्ट होकर जन्म लेते हैं ॥ २१७ ॥ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ २१८ ॥ किंच, ततो दुर्लक्षणमनुष्यजन्मानन्तरं निष्कल्मषीभूता नरकायुरुपभोगद्वारेण क्षीणपापाः प्राग्भवीयसुकृतशेषेण महाकुले भोगसंपन्नाः विद्याधनधान्यसंपन्ना। जायन्ते ॥ २१८ ॥ भाषा—तब (इस प्रकार के मनुष्य) जन्म-जन्मान्तर में नरक आदि के भोग द्वारा पापों के क्षीण होने पर भोगसंपन्न उच्च कुल में धनधान्य से युक्त और विद्या से सम्पन्न होकर जन्म लेते हैं ॥ २१८ ॥ एवं प्रायश्चित्तेषु प्ररोचनार्थं कर्मविपाकमभिधायाधुना तेष्वेवाधिकारिणं निरूपयितुमाह— विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ २१९ ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ २२० ॥ १. प्राचीननयात् । २. संव्यवहारार्थत्वस्यापि । ३. यथा कर्म ।
४१८ याज्ञवल्क्यस्मृतिः
विहितमिति यदावश्यकं संध्योपासनाग्निहोत्रादिकं नित्यमशुचिस्पर्शादौ नैमित्तिकत्वेन चोदितं स्नानादिकं च तदुभयमुच्यते तस्याकरणात् , निन्दितस्य निषिद्धस्य सुरापानादेः करणात् , इन्द्रियाणामनिग्रहाच्च नरः पतनमृच्छति प्राप्नोति । प्रत्यवायी भवतीति यावत् ॥ ननु 'इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः' (मनुः ४।१६) इतीन्द्रियप्रसक्तेरपि निषिद्धत्वात् 'निन्दित' ग्रहणे- नैव गतार्थत्वात्किमर्थं 'अनिग्रहाच्चेन्द्रियाणाम्' इति पृथगुपादानम् ? अत्रो- च्यते,-इन्द्रियप्रसक्तिनिषेधस्य नैकान्ततः प्रतिषेधरूपता स्नातकम्रतमध्येऽस्य पाठात्तत्र च 'व्रतानीमानि धारयेत्' (मनुः ४।१३) इति 'व्रत'शब्दाधिकारा- ञ्छश्वदवाच्चेन्द्रियप्रसक्तिप्रतिषेधकः संकल्पो विधीयते । स ^१चोभयरूप इति पृथगुपादानम् ॥ ननु विहिताकरणात् प्रत्यवैतीति कुतोऽवसितम् ? न तावदग्नि- होत्रादिचोदना पुरुषप्रवर्तनात्मिकाऽननुष्ठानस्य प्रत्यवायहेतुतामाक्षिपति । विष- यानुष्ठानस्य पुरुषार्थत्वावगतिम ।त्रपर्यवसायिनी हि सा तावन्मात्रेण प्रवृत्त्यु- पपत्तेर्न पुनरकरणस्य प्रत्यवायहेतुत्वमपि वक्ति; क्षीणशक्तित्वादनुपपत्तेः । किंच, यद्यनुपपत्युपशमेऽपि प्रवृत्तिसिद्ध्यर्थमर्थान्तरं कल्प्यते तर्हि निषिद्धध- मानक्रियाजन्यप्रत्यवायपरिहारार्थतयैव तद्वर्जनस्य पुरुषार्थत्वसिद्धावपि फलान्तरं कल्प्येत । नचैतत्कस्यचिदपि संमतम् ॥ ननु यथा निषिद्धेष्वर्थवादावगतप्रत्य- वायपरिहारार्थतयैव पुरुषार्थत्वं तथा विहितेष्वप्यर्थवादावगताकरणजन्यप्रत्यवाय- परिहारार्थता कस्मान्न स्यात् ? मैवम्; नहि सर्वत्राग्निहोत्रादिषु तादृग्विधार्थ- वादाः सन्ति । न च 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इतीयं स्मृतिरेव वाक्यशेषस्थानीयेति चतुरस्रम् । नहि वाक्यान्तरप्रमिते कार्ये वाक्यान्तरे- णार्थवादः संभवति । भवतु वा कथंचिदेकवाक्यतयार्थवादस्तथापि ^३नोभाव- रूपं विहिताकरणे कार्यान्तरं जनयितुं क्षमते । ननु 'ज्वरे चैवातिसारे च लङ्घनं परमौषधम्' इत्यायुर्वेदवचनाद्भोजनाभावरूपं लङ्घनं ज्वरशान्तिं जनयतीति यथावगम्यते तथात्रापि भवतु । मैवम्; यतो नान्रापि लङ्घनाज्ज्वर- शान्तिः, किं तर्हि ज्वरनाशप्रतिबन्धकभोजनाभावे सति जठरानलपरिपाक^४जनिता- द्धातुसाम्यादिति मन्तव्यम् । तस्मात् 'विहितस्याननुष्ठानान्नरः पतनमृच्छति' इति कथमस्याः स्मृतेर्गतिरिति वाच्यम् । उच्यते,-अग्निहोत्रादिविषयाधिका- रासिद्धिरूपप्रत्यवायाभिप्रायेणेति ,न दोषः । ननु (१२।७१।७२)—'वान्ता- श्युल्कामुखः प्रेतो ^५विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकस्तु भवति
१. च भावरूप । २. यद्यप्यनुप । ३. नाभावरूपविहिताकरणं । ४. परिपाकजननाद्धातु । ५. विप्रो भवति विध्युतः ।
प्रायश्चित्ताध्यायः ४६६ शूद्रो धर्मत्स्वकाच्च्युतः ॥' इत्येतानि विहिताकरणप्रत्यवायपराणि मनुवच- नानि कथं घटन्ते ? उच्यते,—यथा वान्तमश्नत उल्कया वा दह्यमानमुखस्य दुःखं तथास्यापि विहितमकुर्वतः पुरुषस्य पुरुषार्थासिद्धेरित्यकरणनिन्दनमनुष्ठान- प्ररोचनार्थमित्यविरोधः । यद्वा,—प्राग्भवीयनिविद्धाचरणात्तित्सविहितानुष्ठान- विरोधिरागालस्यादिजन्यवान्ताश्युल्कामुखप्रेतत्वाधिरूपमिति न क्वचिदभावस्य कारणतेति मन्तव्यम् ॥ ननु पुंश्चलीवानरखरदष्ट(श्वदष्ट)मिथ्याभिशस्तःदौ विहि- ताकरणादिनिमित्तानामन्यतमस्याप्यभावात्कथं प्रत्यवायिता ? कथं च तदभावे प्रायश्चित्तविधानम् ? उच्यते,—अस्मादेव पापक्षयार्थप्रायश्चित्तविधानाज्जन्मान्त- राचरितनिषिद्धसेवादिजन्यपापापूर्वं समाक्षिप्तमित्यभिशापादिकं तन्निमित्तप्राय- श्चित्ताप नोद्यभनेनानुष्ठितमिति कल्प्यते; पुरुषप्रयत्नैरपेक्षयेण कार्यरूपपापोत्प- त्त्यनुपपत्तेः । नच पुंश्चल्यादिगतप्रयत्नेन पुरुषान्तरे पापोत्पत्तिः, कर्तृसमवायित्व- नियमाद्धर्माधर्मयोः, तस्माद्युक्तैव प्रायश्चित्ते निमित्तत्रयपरिगणना । तथा च मनुः (११।४४)—'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रि- यार्थेषु प्रायश्चित्तीयते नरः ॥' इति । 'नर'ग्रहणं प्रतिलोमजातानामपि प्रायश्चि- त्ताधिकारप्राप्त्यर्थम्, तेषामप्यहिंसादिसाधारणधर्मव्यतिक्रमसंभवात्, यस्मादेवं निषिद्धाचरणादिना प्रत्यवैति तस्मात्तेन कृतनिषिद्धसेवादिना पुरुषेण प्राय- श्चित्तं कर्तव्यमिह लोके परत्र च विशुद्ध्यर्थम् । प्रायश्चित्तशब्दश्चायं पाप- क्षयार्थे नैमित्तिके कर्मविशेषे रूढः । एवं प्रायश्चित्ते कृते अस्यान्तरात्मा शुद्ध- तया प्रसीदति लोकश्च संव्यवहर्तुं प्रसीदति । एवं वदततद्दर्शितम्—नैमित्तिकोऽयं प्रायश्चित्ताधिकारः, तथा चार्थवादगतदुरितक्षयोऽपि जातेष्टिन्यायेन साध्यतया स्वीक्रियते । नच दुरितपरिजहीसानुष्ठीयत इत्येतावता कामाधिकारो³शङ्का कार्या । यस्मात् (मनुः ११।५३)—'चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥' इत्यकरणे दोषश्रवणेनावश्यकत्वा- वगमात् ॥ २१९-२२० ॥ भाषा—नित्य, नैमित्तिक आदि विहित कर्मों के न करने से तथा सुरा- पान आदि निषिद्ध कर्म करने से और इन्द्रियों का निग्रह न करने से मनुष्य पतित हो जाता है । इस लिये मनुष्य की शुद्धि के लिये प्रायश्चित्त करना चाहिए और इस प्रकार उसकी अन्तरात्मा और लोक सभी प्रसन्न होते हैं ॥ प्रायश्चित्ताकरणे दोषमाह— प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । ⁴अपश्चात्तापिनः कष्टान्नरकान्यान्ति दारुणान् ॥ २२१ ॥ १. प्रायश्चित्तनिमित्त । २. लोकश्चायं संव्यव । ३. धिकारशङ्का । ४. अपश्चात्तापिनो यान्ति नरकानतिदारुणान् । ३२ या०
५०० याज्ञवल्क्यस्मृतिः पापेषु शास्त्रार्थव्यतिक्रमजनितेषु प्रसक्ताः पुरुषाः अपश्चात्तापिनो मया दुष्कृतं कृतमित्येवमुद्वेगरहिताः प्रायश्चित्तमकुर्वाणाः दुःसहान्नरकान्प्राप्नुवन्ति ॥ २२१ ॥ भाषा—पापकर्मों में निरत रहने वाले मनुष्य प्रायश्चित्त न करने (किये हुए कर्म) पर पश्चात्ताप न करने पर अत्यन्त भयंकर एवं कष्टमय नरकों में जाते हैं ॥ २२१ ॥ नरकस्वरूपं विवृण्वन्नाह— तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ २२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ॥ २२३ ॥ अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च । असिपत्रवनं चैव ४तापनं चैकविंशकम् ॥ २२४ ॥ महापातकजैर्घोरैरुपपातकजैस्तथा । अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः ॥ २२५ ॥ तामिस्रप्रभृतींस्तापनपर्यन्तानेकविंशतिनरकानन्वर्थसंज्ञाद्योतितावान्तरभेदा- न्महापातकोपपातकजनितभयंकरदुरितैरन्विता अनाचरितप्रायश्चित्ताः पुरुषाधमाः प्राप्नुवन्ति ॥ २२२–२२५ ॥ भाषा—तामिस्र, लोहशङ्कु, महानिरय, शाल्मली, रौरव, कुङ्मल, पूति- मृत्तिक, कालसूत्रक, संघात, लोहितोद, सविष, संप्रपातन, महानरक, काकोल, संजीवन, महापथ, अवीचि, अन्धतामिस्र, कुम्भीपाक, असिपत्रवन, तापन ये इक्कीस नरक हैं । घोर महापातकों एवं उपपातकों से युक्त अधम मनुष्य प्रायश्चित्त न करने पर इन नरकों को प्राप्त करते हैं ॥ २२२–२२५ ॥ उपात्तदुरितनिरासार्थं प्रायश्चित्तमित्युक्तं, तत्र विशेषमाह— प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥ २२६ ॥ प्रायश्चित्तैर्वक्ष्यमाणलक्षणैरज्ञानाद्यदेनः पापं कृतं तदपैति गच्छति, न कामतः कृतम् । किंतु तत्र प्रायश्चित्तविधायकवचनबलादिह लोके व्यवहार्यो जायते । अत्र च प्रायश्चित्तैरपैत्येनो यदज्ञानकृतम्' इत्युपक्रमात्तत्प्रतियोगि- तया 'ज्ञानत' इति वक्तव्ये यत् 'कामतः' इत्युक्तं, तत् ज्ञानकामयोस्तुल्यत्व- प्रदर्शनार्थम् । तथा हि-'विहितं यदकामानां कामात्तद् द्विगुणं भवेत् ।' तथाऽबुद्धि- १. दुःखदान् । २. महारौर वशाल्मलिम् । ३. नदीपथम् । ४. तपनम् ।