याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
प्रायश्चित्ताध्यायः ५१७
'अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्धं च ब्रह्मक्षत्र- विशां विधिः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् । अत्र चान्द्रं चान्द्रायणम् । अन्तेव- साय्युच्छिष्टभोजने तु—'चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ षड्रात्रं च त्रिरात्रं च वर्णयोरनुपूर्वशः ॥' इत्यङ्गिरोभिहितं सान्तपनमत्र महासान्तपनं द्रष्टव्यम् । आपदि तु—'आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्ध्येत्तु द्रुपदानां शतं जपेत् ॥' इति पराशरोक्तं वेदितव्यम् ॥ यत्तु बृहच्छातातपेनोक्तम्—'पीतशेषं तु यत्किंचि- द्द्भाजने मुखनिःसृतम् । अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत् ॥' इति,-तदभ्यासविषयम् ; निमित्तस्यातिलघुत्वात् ।—'पीतोच्छिष्टं च पानीयं पीत्वा तु ब्राह्मणः क्वचित् । त्रिरात्रं तु व्रतं कुर्याद्ब्राह्मस्तेन वा पुनः ॥' इति,- एतद्बुद्धिपूर्वविषयम् । अकामतस्त्वर्धं कल्प्यम् । दीपोच्छिष्टे तु—'दीपोच्छिष्टं तु यत्तैलं रात्रौ रथ्याहृतं च यत् । अभ्यङ्गाच्चैव यच्छिष्टं भुक्त्वा नक्तेन शुद्ध्यति ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥
अथाशुचिद्रव्यसंस्पृष्टभक्षणे प्रायश्चित्तम् । तत्राह संवर्तः—'केशकीटावपन्नं च नीलीलाक्षोपघातितम् । श्वायवस्थिचर्मसंस्पृष्टं भुक्त्वा तूपवसेदहः ॥' इति । तथाह शातातपः—'केशकीटावपन्नं च रुधिरमांसासृक्स्पृष्टभ्रूणघ्नावेक्षितपतण्ड्य- वलीढश्वसूकरगवाघ्रातंशुक्तपर्युषितवृथापक्कदेवान्नहविषां भोजने उपवासः पञ्च- गव्याशनं च ॥' इति,-एतच्चोभयमपि अकामविषयम् । कामतस्तु 'मृद्भारिकुसु- मार्दींश्च फलकन्देक्षुमूलकान् । विण्मूत्रदूषितान्प्राश्य कृच्छ्रपादं समाचरेत् ॥ संनिकृष्टेऽर्धमेव स्यात्कृच्छ्रः स्याच्छुचिशोधनम् ॥' इति विष्णूदत्तं वेदितव्यम् । अल्पसंसर्गे पादो महासंसर्गेऽर्धकृच्छ्र इति व्यवस्था । यत्तु व्यासेनोक्तम्—'संसर्ग- दुष्टं यच्चान्नं क्रियादुष्टं च कामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रं समाचरेत् ॥' इति, एतच्च संसृष्टामेध्यादिरसोपलब्धौ वेदितव्यम् । रजस्वलादिस्पर्शे तु शङ्खो- क्तम्-'अमेध्यपतितचाण्डालँपुल्कसरजस्वलावधूतकुणिकुष्ठिनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रं चरेत्' इति । कुणिर्हस्तविकलः ।-एतत्कामकारविषयम् । अकामतोऽर्धम् । 'भुक्त्वास्पृश्यैस्तथाशौचिकेशकीटैश्च दूषितम् । कुशोडुम्बरबिल्वाद्यैः पनसाम्बुज- पत्रकैः । शङ्खपुष्पीसुवर्चोदिक्वाथं पीत्वा विशुद्ध्यति ॥'इति यद्विष्णुनोक्तं,-तदश- क्तविषयं, रजकादिस्पृष्टविषयं वा। शूद्रानुपहते तु हारीतोक्तं विज्ञेयम्—'शूद्रेणोप- हतं भोज्यं कीटैर्वाऽमेध्यसेविभिः । भुञ्जानेषु वा यत्र शूद्र उपस्पृशेदनाहंस्वारस पङ्क्तौ तु भुञ्जानेषु वा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा कुत्सित्वा वा यत्रान्नं दद्युस्तन्न
१. तद्द्विजस्याहुर्भुक्त्वा । २. शुष्कपर्युषित । ३. शुचिभोजने । ४. पुक्कस ।
५६८ | याज्ञवल्क्यस्मृतिः प्रायश्चित्तमहोरात्रम्' इति । उच्छिष्टपङ्क्तिभोजनेऽप्येतदेव—'यस्तु भुङ्क्ते द्विजः पङ्क्तयामुच्छिष्टायां कदाचन । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥' इति क्रतुस्मरणात् । वामकरनिर्मुक्तपत्रभोजने तु—'समुत्थितस्तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने । एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥' इति षट्त्रिंशन्म- तोक्तं १वेदितव्यम् ॥ तथा पराशरेणाप्यत्रोक्तम्—'एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने । यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ मोहाद् भुञ्जीत यस्तत्र पङ्क्तयामुच्छिष्टभोजनः । प्रायश्चित्तं चरेद्विप्रः कृच्छ्रं सान्तपनं तथा ॥' इति ॥ श्वादिसंपृक्तकूपाद्युदकपाने तु विष्णुराह—'मृतपञ्चनखात्कूपाद्यन्तोपहताद्भो- दकं पीत्वा ब्राह्मणस्त्र्यहमुपवसेत् द्वयहं राजन्य एकाहं वैश्यः शूद्रो नक्तं सर्वे चान्ते पञ्चगव्यं पिबेयुः' इति । अत्यन्तोपहताद्धेति मूत्रपुरीषादिभिर्वे३त्यभिप्रै- तम् । यदा तु तत्रैव शवमुच्छू४नतयोद्भिन्नं भवति तदा हारीतो विशेषमाह— 'क्लिन्ने भिन्ने शवे तोयं तत्रस्थं यदि चेत्पिबेत् । शुद्धयै चान्द्रायणं कुर्यात्तत्- कृच्छ्रमथापि वा ॥ यदि कश्चित्ततः स्नायात्प्रमादेन द्विजोत्तमः । जपंस्त्रिषवणस्नायी अहोरात्रेण शुद्ध्यति ॥' इति । इदं चान्द्रायणं कामतो मानुषशवोपहतकूपजल- पानविषयम् । अकामतस्तु षड्रात्रम्—'क्लिन्नं भिन्नं शवं चैत्र कूपस्थं यदि दृश्यते५ । पयः पिबेत्त्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥' इति देवलस्मरणात् । यदा चाण्डालकूपादिगतं जलं पिबति तदापस्तम्बोक्तं द्रष्टव्यम्—'चाण्डाल- कूपभाण्डस्थं नरः कामाज्जलं पिबेत् । प्रायश्चित्तं कथं तत्र वर्णे वर्णे विनिर्दिशेत् ॥ चरेत्सान्तपनं विप्रः प्राजापत्यं च भूमिपः । तदर्धं तु चरेद्वैश्यः शूद्रे पादं विनिर्दि- शेत् ॥' (२।३०५) इति ।- इदं च कामकारविषयम् । अकामतस्तु— 'चाण्डालकूपभाण्डस्थमज्ञानादुदकं पिबेत् । स तु त्र्यहेण शुद्ध्येत शूद्रस्त्वेकेन शुद्धयति ॥' इति देवलोक्तं द्रष्टव्यम् ॥ चाण्डालादिसंबद्धाल्पजलाशयेष्वपि कूप- वच्छुद्धिः—'जलाशयेष्वथाल्पेषु स्थावरेषु महीतले । कूपवत्कथिता शुद्धिमहत्सु तु न दूषणम् ॥' इति विष्णुस्मरणात् । पुष्करिण्यादिषु पुनः—'म्लेच्छादीनां जलं पीत्वा पुष्करिण्यां हृदेऽपि वा । जानुदघ्नं शुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥ तत्तोयं यः पिबेद्विप्रः कामतोऽकामतॊऽपि वा । अकामान्नक्तभोजी स्यादाहोरात्रं तु कामतः ॥' इत्यापस्तम्बोक्तं द्रष्टव्यम् ॥ रजकादिभाण्डगततोये तु—'भाण्ड- स्थमन्त्यजानां तु जलं दधि पयः पिबेत् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः ॥ ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥ शूद्रस्य चोपवासेन तथा दानेन शक्तिः ॥' इति पराशरोक्तं वेदितव्यम् । कामतस्तु द्विगुणम्— १. द्रष्टव्यम् । २. संपृष्ट । ३. भिरित्यभिहितम् । ४. उच्छूनतयाभिन्नं । ५. जायते ।
'अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा। एषु स्नात्वा च पीत्वा च प्राजापत्येन शुद्ध्यति ॥' इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् ॥ यत्त्वा- पस्तम्बेन चण्डालकूपादिजलपाने पञ्चगव्यमात्रमुक्तम् - 'प्रपास्वरख्ये घटके च सौरे द्रोण्यां जलं कोशविनिर्गतं च। श्वपाकचण्डालपरिग्रहेषु पीत्वा जलं पञ्च- गव्येन शुद्ध्येत ॥' इति, तदशक्तविषयम् । 'प्रपां गतो विना तोयं शरीरं यो निषिञ्चति। एकाहक्षपणं कृत्वा सचेलं स्नानमाचरेत् ॥ सुराघटप्रपातोये पीत्वा नाढ्यं जलं तथा । अहोरात्रोषितो भूत्वा पञ्चगव्यं जलं पिबेत् ॥' इति ॥ अथ भावदुष्टभक्षणे प्रायश्चित्तम् - भावदुष्टं च यद्धूर्णत आकारतो वा विप्र- कृष्टतया जुगुप्सितशारीरमलादिवासनां जनयति तदुच्यते। अरिप्रयुक्तगरलादि- शङ्कायां वा । तत्र च पराशरः- 'वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते। भुक्तवान्नं ब्राह्मणः पश्चात्त्रिरात्रेण विशुद्ध्यति ॥' इति ।-एतत्कामकारविषयम् । यत्तु गौतमेन भावदुष्टं केवलः इत्यादि प्राक्पञ्चनखेभ्यः पठित्वा प्रायश्चित्तमुक्तम् - 'प्राक् पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति, तदकामविषयम् ॥ शङ्कायां तु- 'शङ्कास्थाने समुत्पन्ने अभोज्याभक्ष्यसंज्ञिते। आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ अक्षारलवणं रूक्षं पिबेद्ब्रह्मीं सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥ पलाशबिल्वपत्राणि कुशान्पद्मोदुम्बरम् । अपः पिबेत्क्वाथयित्वा त्रिरात्रेण विशुद्ध्यति ॥' इति वसिष्ठोक्तं द्रष्टव्यम् । मनुनाप्यभोज्यभोजनशङ्का- यामुक्तम् ( ५।२१ ) - 'संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्त- शुद्धयर्थं ज्ञातस्य तु विशेषतः ॥' इति ॥ अथ कालदुष्टभक्षणे प्रायश्चित्तम् - 'कालदुष्टं च पर्युषितानिर्दशगोक्षीरादि । तत्र चाकामतः 'शेषेषूपवसद्देहः' इति मनूक्तं वेदितव्यम् । कामतस्तु - 'केव- लानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्कं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं वेदितव्यम् । केवलान्यस्नेहोक्तानि । अनिर्दशगोक्षीरा- दिषु प्रायश्चित्तं प्राक् प्रदर्शितम् । नवोदकपाने तु पञ्चगव्यप्राशनम् - 'शृङ्गास्थिद- न्तजैः पात्रैः शङ्खशुक्तिकपर्दकैः । पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥' इति बृहद्याज्ञवल्क्यस्मरणात् ॥ कामतस्तूपवासः कर्तव्यः - 'काले नवोदकं शुद्धं न पिबेच्च त्र्यहं हि तत् । अकाले तु दशाहं स्यात्पीत्वा नाद्यादहर्निशम् ॥' इति स्मृत्यन्तरदर्शनात् । ग्रहणकाले भोजने तु चान्द्रायणम् - 'नवश्राद्धग्रामयाजका- ग्रसग्रहभोजने । नारीणां प्रथमे गर्भे भुक्त्वा चान्द्रायणं चरेत् ॥' इति शातातप- स्मरणात् ॥ यदा तु सग्रहादन्यत्र निषिद्धकाले भुङ्क्ते, तदाह मार्कण्डेयः- 'चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव । ग्रहणं तु भवेत्तस्मिन् पूर्वं भोजन- १. कोशविनिःसृतं वा ।
६०० याज्ञवल्क्यस्मृतिः क्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोद्यतस्तस्य नाश्नीया- त्तावदेव तु ॥' तथा—'ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तना- त्पूर्वं प्रथमे प्रथमादधः ॥' तथा—'अपराह्ने न मध्याह्ने सायाह्ने न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' (४।५५) इति । यच्च मनुनो- क्तम्—'नाश्नीयात्संधिवेलायां नातिप्रगे नाति सायमित्येवमादि' । यच्च बृह- च्छातातपेनोक्तम्—'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु—'प्राणा- यामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः' (५।२०) इति मनुक्तोपवासो द्रष्टव्यः ॥ अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः (११।१५३)— 'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥' इति अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । काम- तस्तु—'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतच्चामलकादिफलयुक्त- काञ्जिकादिव्यतिरेकेण द्रष्टव्यम् । 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्ने- हादिखु तु 'उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नी- यात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दने घृतप्राशनं च' इति गौतमोक्तं द्रष्ट- व्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह—'तस्य चाग्नौ न १क्रियते यस्य चान्नं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोप- वसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निर्द्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥' इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्—'शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुद्ध्यति ॥' इति । तथा स्मृत्यन्तरेऽप्युक्तम् 'वटाकार्कश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकर- ञ्जेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति तथा—'पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥ अथ हस्तदानादिक्रियादुष्टान्नभक्षणे प्रायश्चित्तम् । तत्र पराशरः— 'माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकम- भोजनम् ॥' इति । कामतस्तु—'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्ट- १. क्षिपते । २. चान्नं । ३. दुष्टान्नभोजने ।
पङ्क्तिभोजने पङ्क्त्यग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतक शूद्रान्नभोजने शूद्रैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु-ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा- तूपवसेदहः ॥' इति वृद्धयाज्ञवल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु- 'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिवेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च- गव्येन शुद्ध्यति' इति क्रतूक्तं विज्ञेयम् । धमनदुष्टेऽपि- 'आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा । मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु 'भुक्ते चेत्पार्वणश्राद्धे प्राणायामा- न्षडाचरेत् । उपवासस्त्रिमासादिवत्सरान्तं प्रकीर्तितः ॥ प्राणायामत्रयं वृद्धाव- होरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतं पारणके तथा ॥ द्विगुणं क्षत्रियस्यै- त्त्रिगुणं वैश्यभोजने । सान्नाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम् । हारीतेनाप्युक्तम् - 'एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयाद्- घृतम् ॥' इति । विष्णुनाप्युक्तम् - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥' इति । - इदं चापद्विषयम् । अनापदि तु- 'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराँणेषु प्राजापत्यं विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । 'प्राजापत्यं तु मिश्रके' इत्येतदाद्यमासि- कविषयं द्रष्टव्यम् । द्वितीयादिषु तु - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धं स्यात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथा- ब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रं मासद्वये स्मृतम् ॥ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु- मनीषिभिः ॥ शूद्रस्य तु नवश्राद्धे चरेच्चान्द्रायणद्वयम् । सार्धं चान्द्रायणं मासे त्रिपक्षे त्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्ध्वं सान्तपनं स्मृतम् ॥' इति । यत्तु शंखवचनम् - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पञ्चत्रयेऽ- तिकृच्छ्रः स्यात्षण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुन- राब्दिके । अत ऊर्ध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥' इति, तत्सर्पादिक्षत- विषयम्; 'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपङ्क्तेयविषयं वा ॥ 'चाण्डालादुद- कार्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतना-
१. मासिके । २. प्रायश्चित्तं । ३. द्विरात्रम् ।
६०२ \qquad याज्ञवल्क्यस्मृतिः नाश्नकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां षोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥' इति, तथा—'अपाङ्क्तेयान्युद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वाऽन्नं शिशुचान्द्रायणं चरेत् ॥' इति, 'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति । संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चि- त्ताभिधानात् ॥ ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह—'मासिकादिषु योऽश्नीयादसमाप्तव्रतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥' इति ।-इदमज्ञानविषयम् । कामतोऽपि स एवाह— 'मधु मांसं च योऽश्नीयाच्छ्राद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम्—'आमश्राद्धे तदर्धं तु प्रायश्चित्तं तु सर्वदा' इति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्—'दशकृत्वः पिबेच्चापो गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत शुद्ध्येत्तु तदनन्तरम् ॥' इति,- तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः—'निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जात- कर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुप- वासेन शुद्ध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनर्धौम्यो विशेष- माह—'ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नव श्राद्धे द्विजश्चा- न्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं; सोमसाहचर्यात् ॥ अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम्—'यत्स्वरूपतोऽनिषिद्धमपि विशिष्ट- पुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि ।' तत्र योगीश्वरेण—'अदत्ता- न्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैरभोज्यान्नाः प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । (४।२०५- २१७)—'नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्वातुरार्णां च न भुञ्जीत कदाचन । गणान्नं गणिकान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्षणो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं सूतिकान्नं च पर्यायान्नमनिर्देशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव क्रतुविक्रयिणस्तथा ॥ शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य च । सुवर्णकर्तुर्वैणस्य सोमविक्रयिणस्तथा । ध्रवतां शौण्डिकानां च चैलनिर्ने-
१. पतितान्नमवेक्षितम् ।
प्रायश्चित्ताध्यायः ६०३
जकस्य च ॥ रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे । मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ॥ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥' इति ॥ अत्र च पदार्था अभक्ष्यकाण्डे व्याख्याताः । अत्र प्रायश्चित्तमाह ( मनुः ४।२२२ )- 'भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो विण्मूत्रमेव च ॥' इति । पैठीनसिनाप्यकामतस्त्रिरात्रमेवोक्तम्- 'कुनखी- श्यावदन्तः पित्रा विवदमानः स्त्रीजितः कुष्ठी पिशुनः सोमविक्रयी वाणिजको ग्रामयाजकोऽभिशस्तो वृषल्यामभिजितः परिवृत्तिः परिविन्द्वानो दिधिषूपतिः पुनर्भूपुत्रश्चौरः काण्डपृष्ठः सेवकश्चेत्यभोज्यान्ना अपाङ्केया अश्राद्धार्हाः एषां भुक्त्वा दत्त्वा चाऽविज्ञानात्त्रिरात्रम्' इति ॥ शंखेन त्वेतानेव किंचिदधिकान्प- ठित्वा चान्द्रायणमुक्तं, -तदभ्यासविषयम् ॥ गौतमेन पुनः 'उच्छिष्टपुंश्चल्य- भिशस्ता' इत्यादिना अभोज्यान्पठित्वा 'प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च' इति प्रायश्चित्तमुक्तं, -तदापद्विषयम् ॥ यस्तु बलात्कारेण भोज्यते तस्यापस्तम्बेन विशेष उक्तः- 'बलाद्दासीकृता ये तु म्लेच्छचण्डालदस्युभिः । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ॥ उच्छिष्टमार्जनं चैव तथोच्छिष्टस्य भोजनम् । खरोष्ट्र- विड्वराहाणामामिषस्य च भक्षणम् ॥ तत्स्त्रीणां च तथा सङ्गस्ताभिश्च सह भोजनम् । मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ॥ चान्द्रायणं स्वाहिताग्नेः पराकस्त्वथवा भवेत् । चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥ संवत्सरोषितः शूद्रो मासार्थं यावकं पिबेत् । मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुद्ध्यति ॥ ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः । संवत्सरैस्त्रिभिश्चैव तद्भावं स निगच्छति' इति ॥ आशौचपरिगृहीतान्नभोजने तु छागलेय आह- 'अज्ञानाद् भुञ्जते विप्राः सूतके मृतके तथा ॥ प्राणायामशतं कृत्वा शुद्ध्यन्ते शूद्रसूतके ॥ वैश्ये षष्ठिर्भ- वेदाज्ञि विंशतिर्ब्राह्मणे दश । एकाहं च त्र्यहं पञ्च सप्तरात्रमभोजनः ॥ ततः शुद्धिर्भवत्येषां पञ्चगव्यं पिबेत्ततः ॥' इति ब्राह्मणादिक्रमेणैकाहत्र्यहादयो योज्याः । -इदमकामविषयम् ॥ कामतस्तु मार्कण्डेय आह- 'भुक्त्वा तु ब्राह्मणाशौचे चरेत्सान्तपनं द्विजः । भुक्त्वा तु क्षत्रियाशौचे तथा कृच्छ्रो विधीयते ॥ वैश्याशौचे तथा भुक्त्वा महासान्तपनं चरेत् । शूद्रस्यैव तथा भुक्त्वा त्रिमासान्व्रतमाचरेत् ॥ यत्तु शंखेनोक्तम् - 'शूद्रस्य सूतके भुक्त्वा षण्मासान्व्रतमाचरेत् । वैश्यस्य तु तथा भुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥ क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् । ब्राह्मणस्य तथाऽशौचे भुक्त्वा
१. तथा तस्यैव भोजनं । २. अज्ञानाद्भोजने । ३. शुचिर्भवेद्विप्रः पञ्चगव्यं पिबेन्नरः इति । ४. द्विजश्चान्द्रायणं चरेदिति ।
६०४ याज्ञवल्क्यस्मृतिः मासव्रती भवेत् ॥' इति ।-इदमभ्यासविषयम् । एतच्च प्रायश्चित्तमाशौचानन्तरं वेदितव्यम् । 'ब्राह्मणादीनामाशाचे यः सकृदेवान्नमश्नाति तस्य तावदाशौचं यावत् तेषामाशौचम् , व्यपगमे तु प्रायश्चित्तं कुर्यात्' इति विष्णुस्मरणात् ॥ अपुत्राद्यन्नभोजने तु लिखित आह—'भुक्त्वा वार्धुषिकस्यान्नमव्रतस्या- सुतस्य च । शूद्रस्य च तथा भुक्त्वा त्रिरात्रं स्यादभोजनम् ॥' तथा—'परपा- कनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्तवान्नं द्विजश्चान्द्रायणं चरेत् ॥' इति ।-एतच्चाभ्यासविषयम् ॥ परपाकेन निवृत्तःर्देर्लक्षणं च तेनैवोक्तम्—'गृही- स्वाग्निं समारोप्य पञ्चयज्ञान् निर्वपेत् । परपाकनिवृत्तोऽसौ मुनिभिः परिकी- र्तितः ॥ पञ्चयज्ञांस्तु यः कृत्वा परान्न्रादुपजीवति । सततं प्रातरुत्थाय परपाकर- तस्तु सः ॥ गृहस्थधर्मवृत्तौ यो ददाति परिवर्जितः । ऋषिभिर्धर्मतत्त्वज्ञैरपचः संप्रकीर्तितः ॥'इति । यत्तु ब्रह्मचर्य्याद्यन्नभोजने वृद्धयाज्ञवल्क्य आह-'यतिश्च ब्रह्म- चारी च पक्वान्नस्वामिनावुभौ । तयोरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥' इति, यच्च पार्वणश्राद्धाद्यकर्तृरन्नभोजने भरद्वाज आह—'पक्षे वा यदि वा मासे यस्य नाश्नन्ति देवताः ॥ भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥' इति,- तदुभयमप्यभ्यासविषयम् ॥ पूर्वपरिगणितातिरिक्ता ये निषिद्धाचरणशीलास्तदन्न- भोजने तु—'निराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् । अत्रैव संवत्सराभ्यासे षट्त्रिंशन्मत एवोक्तम्—'उपपातकयुक्तस्य अब्दमेकं निरन्तरम् । अन्नं भुक्त्वा द्विजः कुर्यात्पराकं तु विशोधनम् ॥' इति ।-इदं चाभक्ष्यभक्षणप्रायश्चित्तकाण्ड- गतमविशेषोदितव्रतकदम्बकं हि द्विजाग्रयस्यैव । क्षत्रियादीनां तु पादपादहान्या भवति; 'विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽर्धं पाद एकस्तु शूद्रजातिषु. शस्यते ॥' इति विष्णुस्मरणात् ॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रकरणम् । निमित्तपरिगणनवेलायामुपपातकानन्तरं जातिभ्रंशकरादीनि परिगणितानि, तत्र प्रायश्चित्तान्युच्यन्ते । तत्र मनुः ( ११।१२४-१२५ )—'जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ संकरा- पात्रकृत्यासु मासं शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहम् ॥' इति । अन्यतममिति सर्वत्र संबध्यते । यमेनाप्यत्र विशेष उक्तः—'संकरीकरणं कृत्वा मासम्नाति यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं समाचरेत् ॥ अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुद्धयति ॥ शीतकृच्छ्रेण वा शुद्धिमैहासान्तपनेन
१. पञ्चयज्ञान्स्वयं कृत्वा परान्नमुपजीवति ।
च । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतेनापि जातिभ्रंश- करे विशेष उक्तः- 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गत- मभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥ भाषा—निषिद्ध दान लेने पर ब्रह्मचारी होकर, केवल दूध पीते हुए, गोशाला में निवास करते हुए और गायत्री के जप में रत होकर एक मास व्यतीत करने पर शुद्ध होता है ॥ २८९ ॥ अधुना प्रकृतमनुसरामः—'महापापकमतिपातकमनुपातकमपपातकं प्रकीर्ण- कमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधं प्रायश्चित्तमभिधाय क्रमप्राप्तं प्रकीर्णकं प्रायश्चित्तमाह— १प्राणायामी जले स्नात्वा खरयानोष्र्टयानगः । नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥२९०॥ खरयुक्तं यानं खरयानम्, उष्ट्रयुक्तं यानमुष्ट्रयानं, रथगन्ड्यादि तेनाध्व- गमनं कृत्वा दिगम्बरः स्नात्वाऽभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुद्ध्यति ।-इदं च कामकारविषयम् ।-'उष्ट्रयानं समारुह्य खरयानं तु कामतः संवासा जलमाप्लुत्य प्राणायामेन शुद्ध्यति ॥' ( ११।२०१ ) इति मनुस्मरणात् अकामतः स्नानमात्रं कल्प्यम् । साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया; तस्य गुरुत्वात् ॥२९०॥ भाषा—गदहे से खींची जाने वाली सवारी अथवा ऊँट-गाड़ी पर चढ़ने, नंगे होकर नहाने और खाने तथा दिन से ( अपनी ही स्त्री से ) स्त्री-संभोग करने पर जल में प्रवेश कर प्राणायाम करने एवं स्नान करने से शुद्धि होती है ॥ २९० ॥ ३गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९१ ॥ किंच, गुरु जनकादिकं त्वंकृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म- च्छब्दोच्चारणेन निर्भर्त्स्य विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं हुं तूष्णी- मास्स्व, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य कण्ठे वाससा मृदुस्पर्शैनापि बद्ध्वा क्षिप्रं पादप्रणिपातादिना प्रसाद्य १. प्राणायामं जले । २. स्नात्वा तु विप्रो दिग्वासा । ३. गुरुं त्वंकृत्य हुंकृत्य विप्रं ।
६०६ याज्ञवल्क्यस्मृतिः क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्नन्कृत्स्नं वासरं नयेत् ॥ यत्तु यमेनोक्तम्- 'वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया । त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति, -तदभ्यासविषयम् ॥ २९१ ॥ भाषा-गुरु ( पिता आदि श्रेष्ठ जनों ) को 'तू' कहने पर ( भर्त्सना करने पर) अथवा क्रोध से ब्राह्मण को डाँटने पर, उसके गले में वस्त्र बाँधने पर शीघ्र उनके पैरों पर गिर कर उन्हें प्रसन्न करे ॥ २९१ ॥ विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ २९२ ॥ विप्रजिघांसया दण्डोद्यमे कृच्छ्रः शुद्धिहेतुः, निपातने ताडने अतिकृच्छ्रः, असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः, अभ्यन्तरशोणितेऽपि कृच्छ्रः शुद्धिहेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्तः- 'काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकृच्छ्रः स्यात्पश कस्त्वङ्गकर्तने ॥' इति । पादप्रहारे तु यम आह- 'पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया । दिव- सोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना स्वन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि (११।२०२)- 'विनाद्भिरप्सु वाप्यार्तः शारीरं १संनिषेव्य तु । २सचैलो बहिरारुप्लुत्य गामालभ्य विशुद्ध्यति ॥' इति । विनाद्भिरित्यसंनिहितास्वपीत्यर्थः । शारीरं मूत्रपुरीषादि । -इदमकामविष- यम् । कामतस्तु- 'आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा सचैलो जलमाविशेत् ॥' इति यमोक्तं वेदितव्यम् ॥ यत्तु सुमन्तुवचनम्- 'अप्स्र्वग्नौ वा मेहतस्तप्तकृच्छ्रम्' इति, -तदनार्तविषयमभ्यासविषयं वा ॥ नित्य- श्रौतादिकर्मलोपे तु मनुरह (११।२०३)- 'वेदोदितानां नित्यानां कर्मणां समति- क्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥' इति । श्रौतेषु दर्शपूर्णमासादि- कर्मसु स्मार्तेषु च नित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैरुपवासस्य समुच्चयः। स्नातकव्रतानि च- 'न जीर्णमलवड्वासा भवेच्च विभवे सति' इत्येवमादीनि प्रागु- क्तानि । स्नातकव्रतमधिकृत्य क्रतुनाप्युक्तम्- 'एतेषामाचाराणामेकैकस्य व्यति- क्रमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृह- स्पतिराह- 'अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुद्ध्यति ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेदभार्यां वा सोऽपि कृच्छ्रार्धमाचरेत् ॥' इति । द्वितीयादिभार्योपरमे तु देवल आह- 'मृतां द्वितीयां यो भार्या दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु १. संनिवेश्य च । २. सचेलः स्नानमाचरेत् ।
प्रायश्चित्ताध्यायः ६०७
सुरापानसमं हि तत् ॥' इति । स्वभार्याभिशंसने तु यम आह—'स्वभार्या तु यदा क्रोधादगम्येति नरो वदेत् । प्राजापत्यं चरेद्विप्रः क्षत्रियो दिवसान्नव ॥ षड्रात्रं तु चरेद्वैश्यस्त्रिरात्रं शूद्र आचरेत् ॥' इति ॥ अस्नानभोजनादौ हारीत आह—'वहन्कमण्डलुं रिक्तमस्र्नातोऽश्नंश्च भोज- नम् । अहोरात्रेण शुद्धिः स्याद्दिनजप्येन चैव हि ॥' इति । एकपङ्क्त्युपवि- ष्टानां स्नेहादिना वैषम्येण दानादौ यम आह—'न पङ्क्त्यां विषमं दद्यान्न याचेत न दापयेत् । (याचको दापको दाता न वै स्वर्गस्य गामिनः ॥ ) प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्ततः ॥ नदीसंक्रमहन्तुश्च कन्याविघ्नकरस्य च ॥ समे विषमकर्तुश्च निष्कृतिर्नोपपद्यते ॥ त्रयाणामपि चैतेषां प्रत्यापत्तिं च मार्गताम् । भैक्षलब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥' इति । संक्रम उद- कावतरणमार्गः । समे विषमकर्ता पूजादौ ॥ इन्द्रधनुर्दर्शनादावृष्यशृङ्ग आह— 'इन्द्रचापं पलाशानि यद्यन्यस्य प्रदर्शयेत् । प्रायश्चित्तमहोरात्रं धनुर्दण्डश्च दक्षिणा ॥' पतितादिसंभाषणे तु गौतम आह—'न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत । संभाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह वा संभाषेत तत्पान्ध्रधनलाभबधे पृथग्वर्षाणि' इति । भार्यान्नधनानां लाभस्य वधे विघ्न- करणे प्रत्येकं संवत्सरं प्राकृतं ब्रह्मचर्यम् ॥ तथा—ब्रह्मसूत्रं विना विण्मूत्रोत्स- र्गादौ स्मृत्यन्तरे प्रायश्चित्तमुक्तम्—'विना यज्ञोपवीतेन यद्युच्छिष्टो भवेद् द्विजः । प्रायश्चित्तमहोरात्रं गायत्र्यष्टशतं तु वा ॥' तत्र ऊर्ध्वोच्छिष्टे उपवासः, अधरो- च्छिष्टस्योदकपानादिषु गायत्रीजप इति व्यवस्था । अकामतस्तु—'पिबेत् मेह- तश्चैव भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ भुक्त्वा शौचाचमनमकृत्वोत्थाने तु—'यद्युत्तिष्ठ- त्यनाचान्तो भुक्त्वा वाऽनशनात्ततः । सद्यःस्नानं प्रकुर्वीत सोऽन्यथा पतितो भवेत् ॥' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् ॥ चौराद्युत्सर्गादौ वसिष्ठ आह—'दण्ड्यो- त्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा कुनखी श्यावदन्तश्च कृच्छ्रं द्वादशरात्रं चरित्वोद्धरेयाताम्' इति । उद्धरे- यातां कुत्सितानां दन्तानां नखानां चोद्धरणं कुर्यातामित्यर्थः । स्तेनंपतितादि- पङ्क्तिभोजने तु मार्कण्डेय आह--'अपाङ्क्तेयस्य यः कश्चित्पङ्क्तौ भुङ्क्ते द्विजो- त्तमः । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥' इति ॥ नीलीविषये त्वापस्तम्ब आह-'नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ रोमकूपैर्यदा गच्छेद्सो नील्यास्तु
१. निष्कृतिर्न विधीयते । २. प्राजापत्यं तु मार्गणम् ।
६०८ याज्ञवल्क्यस्मृतिः
कर्हिचित् । त्रिषु वर्णेषु सामान्यं तप्तकृच्छ्रं विशोधनम् ॥ पालनं विक्रयश्चैव तद्वृत्त्या चोपजीवनम् । पातनं च भवेद्विप्रैस्त्रिभिः कृच्छ्रैर्व्यपोहति ॥ नीलीदारु यदा भिन्द्याद् ब्राह्मणस्य शरीरतः । शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥ स्त्रीणां क्रीडार्थसंभोगे शयनीये न दुष्यति ॥' इति । भृगुणाप्युक्तम्--'स्त्रीधृता शयने नीली ब्राह्मणस्य न दुष्यति । नृपस्य वृद्धौ वैश्यस्य पर्वद्वयं विधारणम्' इति ॥ तथा वस्त्रविशेषकृतश्च प्रतिप्रसवः--'कम्बले पट्टसूत्रे च नीलीरागो न दुष्यति ॥' इति स्मरणात् ॥ ब्रह्मतरुनिर्मितखट्वाचारोहणे शङ्ख आह-- 'अध्यस्य शयनं यानमासनं पादके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ क्षत्रियस्तु रणे पृष्ठं दत्त्वा प्राणपरायणः । संवत्सरं व्रतं कुर्याच्छुच्व्रा- वृत्तं फलप्रदम् ॥ द्वौ विप्रौ ब्राह्मणाग्नी वा दम्पती गोद्विजोत्तमौ । अन्तरेण यदा गच्छेत्कृच्छ्रं सान्तपनं चरेत् ॥ होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । अन्त- रेण यदा गच्छेद्व द्विजश्चान्द्रायणं चरेत् ॥' इति । दोहे सांनाय्याद्यङ्गभूते ।-एत- चाभ्यासविषयम् । सच्छिद्रादित्याद्यरिष्टदर्शनादौ शङ्ख आह--'दुःस्वप्नारिष्ट- दर्शनादौ घृतं सुवर्णं च दद्यात् ॥' इति । क्वचिद् देशविशेषगमनेऽपि देवल आह--'सिन्धुसौवीरसौराष्ट्रांस्तथा प्रत्य- न्तवासिनः । अङ्गवङ्गकलिङ्गांश्चान् गत्वा संस्कारमर्हति ॥' एतच्च तीर्थयात्रा- व्यतिरेकेण द्रष्टव्यम् ॥ स्वपुरीषदर्शनादौ यम आह--'प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् । दृष्ट्वा सूर्यं निरीक्षेत गामग्निं ब्राह्मणं तथा ॥' इति । शङ्खोऽप्याह--'पादप्रतपनं कृत्वा कृत्वा वह्निमथस्तथा । कुशैः प्रमृज्य पादौ तु दिनमेकं व्रती भवेत् ॥' इति ॥ क्षत्रियाद्युपसंग्रहे हारीत आह--'क्षत्रिया- भिवादनेऽहोरात्रमुपवसेत् , वैश्याभिवादने द्विरात्रम् , शूद्रस्याभिवादने त्रिरा- त्रमुपवासः' इति ॥ तथा 'शय्यारूढपादुकोपानहारोपितपादोच्छिष्टान्धकारस्थ- श्राद्धकृज्जपदेवपूजानिरताभिवादने त्रिरात्रमुपवासः स्यादन्यत्र निमन्त्रितेना- न्यत्र भोजनेऽपि त्रिरात्रम्' इति ॥ समित्पुष्पादिवस्तस्याभिवादनेऽप्येतदेव--'समित्पुष्पकुशाज्याम्बुमृदन्नाक्षत- पाणिकम् ; जपं होमं च कुर्वाणं नाभिवादैत वै द्विजम् ॥' इत्यापस्तम्बीये जपा- दिभिः समभिव्याहारात् । अभिवादकस्यापीदमेव प्रायश्चित्तम्--'नोदकुम्भ- हस्तोऽभिवादयेत् न भैक्षं चरन्न पुष्पाण्यादिहस्तो नाशुचिर्न जपन्न देवपितृकार्यं कुर्वन्न शयानः' इति तस्यापि शङ्खेन प्रतिषेधात् । एवमन्यान्यपि वचांसि स्मृत्यन्तरतोऽन्वेष्याणि, ग्रन्थगौरवभयादत्र न लिख्यन्ते ॥ २९२ ॥
१. त्रिवर्णेषु च सामान्यम् । २. भवेद्विप्रे त्रिभिः । ३. अङ्गवङ्ग- कलिङ्गांश्च ।
इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।
प्रायश्चित्ताध्यायः ६०६ भाषा-किसी ब्राह्मण को मारने की इच्छा से डंडा उठाने पर कृच्छ्र व्रत से और डंडा मार देने पर अतिकृच्छ्र व्रत से, मारकर रुधिर निकाल देने पर कृच्छ्रातिकृच्छ्र व्रत से और उसके चोट के स्थान पर रुधिर आ जाने पर कृच्छ्र व्रत से शुद्धि होती है ॥ २९२ ॥ इति प्रकीर्णकप्रायश्चित्तप्रकरणम् । निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुमशक्यत्वात्सामान्यतयोपदिष्टा- नुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह- देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्तौ न निष्कृतिः ॥२९३॥ यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविप- त्तिर्न भवति तथा विषयविशेषे कल्पनीयम् ; इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथा च वक्ष्यति-'वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक्' इति, तत्र यदि हिमवद्गिरिनिकटवर्तिनामुदकवास उपदिश्यते अतिशीताकुले वा शिशिरादि- काले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोदकवासः कल्पनीयः । तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं प्रायश्चित्तमुपदिश्यते 'तदा प्राणा विपद्येरन्' इति ततोऽन्यवयस्के तत्प्रायश्चित्तं कल्प्यम् । अत एव स्मृत्यन्तरे 'क्वचिदर्धं क्वचित्पादः' इति वृद्धादिषु प्रायश्चित्तस्य ह्रासोऽभिहितः, तच्च प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्विक्तपित्तादेर्वा पराका- दिकं नापि स्त्रीशूद्रादेर्जपादिकम् । अत एव 'गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये' इत्युक्तम् । तथा 'प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्राक् प्रायश्चित्तस्य ह्रासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यदिहितं तदेव कामकृते द्विगुणं, कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा-'महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत' इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महापापापेक्षयोपपातके मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिना कस्मात्कुर्यात्तथा । 'नोद्गच्छतोऽम्भसि स्नायान्न च श्मश्रूवादि वर्तयेत् । अन्तर्व- १. प्रायश्चित्तनिमित्तस्य । २. चापेक्ष्य । ३. नोक्ता च । ४. उदवास । ५. द्वादशवार्षिकादिकम् । ६. जृम्भितास्फोटनानि ।
न्ध्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥' इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् । ननु किंचिदपि निमित्तजातमनुक्तनिष्कृतिक- मुपलभ्यते; 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामना- दिष्टस्य चैव हि ॥' इत्यनुक्तनिष्कृतिष्वपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमे- नाप्येतान्येवानादेशे विकल्पेन क्रियेरन्स्त्र्यैकाहादयः प्रतिपादिताः । उच्यते,- सत्यमस्त्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षि- तत्वादस्त्येव कल्पनावरारः । नच हसितादिषु सर्वत्र प्राणायामशतं युक्तम्; निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा । ननु कथं पापस्य लघुत्वं ? येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । नच प्राय- श्चित्ताल्पत्वादिति वाच्यम् । अनुक्तनिष्कृतित्वादेव । सत्यम्,-किंतु अर्थवादसं- कीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः । तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकमुक्तम् , तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शना- देव दोषालपत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शि- तश्च दण्डस्य गुरुलघुभावः 'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः' इत्यादिना ॥ भाषा-देश, समय, आयु, शक्ति और पाप का सावधानी से निरीक्षण करके ही अन्य प्रायश्चित्तों की कल्पना कर लेनी चाहिए जिनका विधान नहीं किया गया है ॥ २९३ ॥ इति पतितत्यागविधिः । एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्तं, यस्त्वौद्धत्यादेतन्न चिकी- र्षति तस्य किं कार्यमित्यत आह- दासीकुम्भं बहिर्ग्रामान्नि नयेरन्स्वबान्धवाः । पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ २९४ ॥ जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षास्ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपां पूर्णं कुम्भं घटं ग्रामाद्बहि- र्नि नयेयुः । एतच्चतुर्थ्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् । (११।१८२)-'पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञात्यूत्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डा- दिप्रयुक्ता निनयेत् । यथाह मनुः ( ११।१८३ ) - 'दासी घटमपां पूर्णं पर्य-
१. दर्शनाद्दोषाल्पत्व । २. बहिर्ग्रामान्निनयेयुः । ३. बान्धवैः सह ।
प्रायश्चित्ताध्यायः ६११ स्येष्रेतवत्पदा । अहोरात्रमुपासीरन्नाशौचं बान्धवैः सह ॥' इति । प्रेतवद्विधि दक्षिणामुखापसव्ययोः प्राप्त्यर्थम् । -एतच्च निनयनमुदकपिण्डदानादिप्रेतक्रियो- त्तरकालं द्रष्टव्यम् । 'तस्य विद्यागुरुयोनिसंबन्धाश्च संनिपात्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युः, पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वाऽवकरात् पात्रमानीब दासीघटाम् पूरयित्वा दक्षिणामुखः पदा विपर्यस्येदिदम् । अमुमनुदकं करोमि इति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनि- संबन्धाश्च वीचेरन् अप उपस्पृश्य ग्रामं प्रविशेयुः' ( १९।५।७ ) इति गौतम- स्मरणात् । अयं च त्यागो यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः । तस्य गुरोर्बान्धवानां राज्ञश्च समक्षं दोषानभिख्याप्यानुभाष्य पुनः पुनराचारं लभस्वेति, स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति शङ्खस्मरणात् । ततस्तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर्वर्जयेयुः । तथा च मनुः ( ११।१८४ ) - 'निवर्तेरंस्ततस्तस्मात्संभाषणस- हासने । दायाद्यस्य प्रदानं च यात्रामेव च लौकिकीम् ॥' इति । यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । 'अत ऊर्ध्वं तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वं चेन्त्रिरात्रम्' इति ॥ २९४ ॥ भाषा-पतित व्यक्ति के जाति वाले और बान्धव सभी दासी के द्वारा ( उसके नाम से ) जल से भरा हुआ घड़ा गाँव से बाहर निकलवा दें और सभी कार्यों से उसका बहिष्कार करें ॥ २९४ ॥ यदा तु बन्धुत्यागादन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं, तदा किं कार्य- मित्यत आह- चरितव्रत आयाते निनयेरन्नवं घटम् । जुगुप्सेरन्न चोभ्येनं संवसेयुश्च सर्वशः ॥ २९५ ॥ कृतप्रायश्चित्ते बन्धुसमीपं पुनरायाते तत्सपिण्डाद्यास्तेन सहिता नवम् अनु- पहतं घटम् उदकपूर्णं निनयेयुः । -एतच्च निनयनं पुण्यहशविस्नानोत्तरकालं द्रष्ट- व्यम् । ( ११।१८६ ) - 'प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥' इति मनुस्मरणात् । गौतमेन तु विशेष उक्तः - 'यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमाद् हृदात्पूरयित्वा स्रवन्तीभ्यो वा, तत एनमप उपस्पर्शयेयुः; अथास्मै तत्पात्रं दद्युस्तत्सं प्रतिगृह्य जपेत् 'शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिह गृह्णामि' इत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डै- १. विपरिषिंचेयुः । २. चाऽप्येनं दंषिषेयुश्च । ३९ या०
श्वाज्यं जुहुयाद्धिरण्यं दद्याद्द्वां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुद्धयेदेतदेव शान्त्युदकं सर्वेषूपपातकेषु' ( गौ० १९।१०।१७) इति । तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्ये क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ २९५ ॥ भाषा-प्रायश्चित्त का व्रत करके यदि बन्धु बान्धवों में मिलने के लिये आवे तो सपिण्ड उसके साथ दूसरा जल से पूर्ण नया घड़ा ( किसी तालाब में स्नान करके वहाँ से ) मँगवावें । तब उसको घृणित न समझें और उसे सब प्रकार से अपने साथ सम्मिलित कर लें ॥ २९५ ॥ पूर्वोक्तस्य पतितपरित्यागादिविधेरतिदेशमाह- पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तिके देयमन्नं वासः सरक्षणम् ॥ २९६ ॥ य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रह- विधिश्च स एव पतितानां स्त्रीणामपि वेदितव्यः । इयांस्तु विशेषः-पति- ताभ्योऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस्तृणपर्णमयं कुटीगृहकं प्रधान- गृहसमीपे देयम् । तथा प्राणधारणमात्रमन्नं मलिनं च वस्त्रं पुनः पुरुषान्त- रोपभोगनिवारणसहितं सतिरस्कारं देयम् ॥ २९६ ॥ भाषा-यही विधि पतित स्त्रियों के लिए भी है; उन्हें घर के निकट दूसरा निवासस्थान दे देना चाहिए और केवल जीवन चलाने भर अन्न और वस्त्र देना चाहिए और उसकी रक्षा करनी चाहिए ॥ २९६ ॥ ननु काः पतितास्ता यासामयं परित्यागविधिरित्यत आह- नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥ २६७ ॥ हीनवर्णगमनं गर्भपातनमब्राह्मण्या अपि भर्तुः अब्राह्मणस्यापि हिंसन- मित्येतानि स्त्रीणामसाधारणानि पतननिमित्तानि । 'अपि'शब्दात्पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपपातकान्यभ्यस्तानि चोपपा- तकादीनि तान्यपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अत एव शौनकः- 'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ब्राह्मणी हीन- वर्णसेवायामधिकं पतति' इति । यत्तु वसिष्ठेनोक्तम्-( २८।७ ) 'त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः । भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥' इति 'भ्रूणहत्या' ग्रहणं कृतं तद् दृष्टान्तार्थं न पुनरितरेषां महा- पातकादीनां पतनहेतुत्वनिरासार्थम् । यदपि तेनैव-( २१।१० ) 'चतस्रस्तु
Here is the complete line-by-line Devanagari transcription of the page:
प्रायश्चित्ताध्यायः ६१३ यस्त्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' इति । 'चतसृणामेव परित्याग' इत्युक्तं तस्यापि तासां प्रायश्चित्तमचि- कीर्षन्तीनां मध्ये चतसृणामेव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतु- स्वादुपच्छेदेन त्यागं कुर्यान्नान्यासा मित्यभिप्रायः । अतश्चान्यासां पतितानां प्रायश्चित्तमकुर्वतीनामपि 'वासो गृहान्तिके देय'मित्यादिकं कर्तव्यमित्यव- गम्यते ॥ २९७ ॥ भाषा-निम्नवर्ण के पुरुष के पास जाना, गर्भपात करना, पति की हिंसा इन सब कर्मों से स्त्रियाँ विशेष रूप से पतित होती हैं ॥ २९७ ॥ 'जुगुप्सेरन्न चाप्येनं संविशेयुश्च सर्वशः' (प्रा० २९५) इत्यस्यापवादमाह- शरणागतबालस्त्रीहिंसकान्'संवसेन्न तु । चीर्णव्रतानपि सतः कृतघ्नंसहितानूिमान् ॥ २९८ ॥ शरणागतादिव्यापादनकारिणः कृतघ्नसहितान्प्रायश्चित्तेन वीतदोषानपि न संव्यवहरेदिति वाचनिकोऽयं प्रतिषेधः, किमिति वचनं न कुर्यात् ? नहि वचनस्यातिभारोऽस्ति, अतश्च यद्यपि व्यभिचारिणीनां वधेऽल्पीय एव प्राय- प्रायश्चित्तं, तथापि वाचनिकोऽयं संव्यवहारप्रतिषेधः ॥ २९८ ॥ भाषा-शरण में आये हुए बालक और स्त्री की हिंसा करने वाले और कृतघ्नियों के प्रायश्चित्त द्वारा दोष हीन होने पर भी इनके साथ कोई व्यवहार नहीं रखना चाहिए ॥ २९८ ॥ एवं प्रसङ्गेन स्त्रीषु विशेषमभिधाय प्रकृत एव चरितव्रतविधौ विशेषमाह- घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । सं दद्यात्प्रथमं गोभिः सत्कृतस्य हि' सत्क्रिया ॥ २९९ ॥ घटेऽपवर्जिते हृदादुद्धृत्य पूर्णे कुम्भेऽवनिनीतेऽसौ चरितव्रतः सपिण्डादिम- ध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभिः ज्ञात्वादिभिः सत्क्रिया कार्या । गोभिश्च तस्य सत्कारस्तद्दत्तयवसभाषणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठेत् । यदाह हारीतः- 'स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इति इतरथा नेत्यभिप्रेतम् ॥ २९९ ॥ महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकव्रतसंदोहमभिधायाधुना सकल- व्रतसाधारणं धर्ममाह- विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । १. संविशेन्न तु । २. सदा । ३. प्रद्यद्यात्प्रथमम् । ४. सह क्रियतः ।
६१४ याज्ञवल्क्यस्मृतिः यो दोषो यावत्कर्तुं संपाद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षद्रुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गि- रसा विशेष उक्तः—'कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्धये- त्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । पर्षदानुमतस्तत्त्वं सर्वं विख्यापयेन्नरः । व्रतमादाय भूयोऽपि तथा स्नात्वा व्रतं चरेत् ॥' इति । विख्यापनं च पर्षद्वक्षिणादानान्तरं कार्यम् । यथाह पराशरः— 'पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृषम्' इति ।-एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तूक्तम्— 'तस्माद् द्विजः प्राप्तपापः सकृदा- प्लुत्य वारिणि । विख्याप्य पापं पर्षद्भ्यः किंचिद्दत्त्वा व्रतं चरेत् ॥' इति तत्प्रकी- र्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम्—'त्रैविद्यो हेतुकस्तर्की नैरुक्तो^२ धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदैषा दशावरा ॥' हेतुको मीमांसार्थादि- तत्त्वज्ञः, तर्की न्यायशास्त्रकुशलः, तथान्यदपि पर्षद्वयं तेनैव दर्शितम्— (मनु० १२।११२) 'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । अपरा पर्षद्द्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा—(मनु० १२।११३) '^३एकोऽपि वेदविद्धर्मं यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मो नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया । यत्तु स्मृत्यन्तरेऽभिहि- तम्—'पातकेषु शतं पर्षत्सहस्त्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति,-तदपि महापातकादिदोषानुसारेण पर्षदो गुरु लघुभावप्रति- पादनपरं न पुनः संख्यानियमार्थम्; मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः—'स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्—'आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥' इत्यङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतमुपदेष्टव्यम्—'अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्राय- श्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतेनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः—'न्यायतो ब्राह्मणः क्षिप्रं क्षत्रि- यादेः कृतेनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् । तथा शूद्रं समा- साद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इति । तत्र च वागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् , इतरेषां तु तपः । 'कर्मनि-
१. विख्यातापायं वक्तव्यम्ः । २. निरुक्तो । ३. एकोऽपि धर्मविद्धर्मम् । ४-५. तथा च कर्तव्यं ।
प्रायश्चित्ताध्यायः ४१५ द्वास्तपोनिष्ठाः कदाचित्पापमागताः। जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्या- द्विशेषतः' ॥ २९९ ॥ भाषा—जलाशय से जल से भरा हुआ घड़ा लेकर आने पर सपिण्ड आदि जाति के लोगों के बीच गायों को कोमल दूब खिलावे । गौएँ यदि उसका सत्कार करती हैं ( उसकी दी हुई घास खाती हैं ) तभी जाति के लोग उसका सत्कार करें ( जाति में सम्मिलित करें ) ॥ २९९ ॥ इति प्रकाशप्रायश्चित्तप्रकरणम् । अथ रहस्यप्रायश्चित्तम् । 'व्याख्याय ख्यातदुरितशातनों व्रतसंततिम् । रहःकृताघसन्दोहहारिणीं व्याहरन्मुनिः ॥' तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्ममाह— अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० ॥ कर्तृव्यतिरिक्तैरनभिख्यातो दोषो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनु- तिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य रहस्यव्रतमिति मन्तव्यम् । तत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्न- विभाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठेत् । यस्तु स्वयमनभिज्ञोऽसौ केन- चिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहो- व्रतमनुतिष्ठेत् । अत एव स्त्रीशूद्रयोश्चाप्युक्तेनैव मार्गेण रहस्यव्रतज्ञानसिद्धेरधि- कारसिद्धिः । नच वाक्यं रहस्यव्रतानां जपादिप्रधानत्वाद्विद्ययोश्च स्त्रीशूद्रयो- स्तदनुपपत्तेरनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् । दानादेरप्युपदेशाद् गौतमोक्तप्राणायामादेरपि संभवाच्च । इतरेषामपि मन्त्रदै- वतर्षिच्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगि, न स्वन्यविषयम् । नहि तडाग- निर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं त्ववश्यमपेक्षणीयम् ; 'अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापये- ज्जपेद्वापि पापीयाञ्जायते तु सः ॥' इति व्यासस्मरणात् । अन्नाद्याहारविशे- षानुक्तौ पयःप्रभृतयः, कालविशेषानुक्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलो- च्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३०० ॥ १. अभिख्यापितदोषस्तु रहस्यव्रतमाचरेत् ।
६१६ याज्ञवल्क्यस्मृतिः भाषा—जिसका दोष सबको ज्ञात हो गया हो वह पर्षद की आज्ञा से (जैसा पर्षद द्वारा विहित हो वैसा) व्रत करे और जिसका पाप लोगों को ज्ञात न हो वह गुप्त रूप से व्रत करे ॥ ३०० ॥ एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्र- मेणैव रहस्यप्रायश्चित्तान्याह— त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्ध्येत दत्त्वा गां च पयस्विनीम् ॥ ३०१ ॥ त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति ऋचमानुष्टुभं आववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपञ्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः—'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्षणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वाऽन्यद्वाऽगम्यागमनं कृत्वाऽघमर्षणमे- वान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति ।—एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८)—'सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति,—तदप्यस्मिन्नेव विषये गोदानांश- क्तस्य वेदितव्यम् । यत्तु गौतमेन षट्त्रिंशद्वार्षव्रतमुक्तवोक्तं 'तद्व्रत एव ब्रह्मह- त्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' (२४।१०) इति,—तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम्—'ग्रामात्प्राचीं चोदीचीं दिशमुपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्क्लिन्न- वासोः सकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्ने शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापात- केभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरति' (३।६।४) इति,—तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवन- स्थवधविषयं वा । यत्तु मनुनोक्तम् (११।२५८)—'अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति,— तत्कामतः श्रोत्रियादिवधविषयम्, इतरत्तु कामतोऽभ्यासविषयं वा । बृहद्वि- ष्णुनाक्तम्—'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूते- न्धनमग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' १. विशुद्धयेत्तु । २. गां दत्त्वा च पयः । ३. ऽगङ्ग्या गमनम् । ४. कामतो ऽवध । ५. वासाः सकृत् ।