भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

३४ युक्तिकल्पतरौ— सर्व्वारम्भफल-सिद्धिरुदये राशौ च भर्त्तुः शुभे ; स्वग्राम्य-स्थिरतोदये च भवनं कार्य्यं प्रवेशोऽपिवा ॥२२४॥ पौष्णे धनिष्ठाऽथ वारुणेषु, स्वायम्भुवेऽर्के त्रिषुचोत्तरेषु । अक्षीण चन्द्रे शुभवासरेच तथा विविक्ते च गृहप्रवेशः ॥२२५॥ तिथिवारश्च लग्नादि समारम्भे यथोदितम् । प्रवेशेऽपि(८) गृहं स्यात्तु(६) तथा ज्योतिर्विदो जनाः ॥२२६॥ --------------------------------- * --------------------------------- अथ द्वारम् । नैकद्वारं वास्तुखण्डं न चतुर्द्वारमारभेत् । एकद्वारं दुःसरणं चतुर्द्वारं दुरापहम् ॥ २२७ ॥ त्रि-द्वारमेव नृपतेर्वास्तुकर्म्म प्रशस्यते । द्वे मुख्ये तत्र चान्यत्स्यादमुख्यमिति निर्णयः ॥ २२८ ॥ राजद्वारन्तु (१०) तत्रैकं यमद्वारन्तथापरम् । अपद्वारं तथान्यत्स्यादिति द्वारस्य निर्णयः ॥ २२९ ॥ ब्रह्म-क्षत्रिय-वैश्यानां प्रागुदक् पश्चिमैः क्रमात् । मुख्यद्वारं दक्षिणस्य परन्तस्यापि दक्षिणे ॥ २३० ॥ बलवद्वै वैरिमुख्यं द्वारमित्यस्य सम्मतम् । राज-द्वारेऽन्य भूपानां शिष्टानां वा प्रवेशयेत् ॥ २३१ ॥ यात्रा प्रसाद-पर्व्वाणि राजद्वारेषु कारयेत् । यमद्वारिच्छिदाकर्म्म द्विषताञ्च प्रवेशनम् ॥ २३२ ॥

( ८ ) प्रवेशोऽपि इति (क) पुस्तक पाठः । ( ९ ) स्यात्तुं स्तथा इति (क) पुस्तक पाठः । ( १० ) द्वारस्तु इति (ख) पुस्तक पाठः ।

वास्तुयुक्तिः । ३५ निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् । अपद्वारेऽवरोधस्य गमनागमन-क्रिया ॥ राज्ञो विलास-यात्रा च मर्मज्ञस्य प्रवेशनम् ॥ २३३ ॥ ——— * ——— अथ प्राचौर-निर्णयः । गजैरभेद्या मनुजैरलंङ्घयाः । प्राचौरखण्डा नृपतेर्भवन्ति ॥ २३४ ॥ राजदण्डोन्नताः सर्व्वे प्राचौरा पृथिवीभुजः । विंशतिस्तेषु पश्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ २३५ ॥ पश्चात् पञ्च च विज्ञेयाः प्राचौराः पृथिवीभुजः । सर्व्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ २३६ ॥ प्रति प्राकार(११) संस्थानं द्वारं नाभिमुखस्थितम् । तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ २३७ ॥ तद्यथा,— राज-छत्रान्तरे पञ्च राजद्वारे महीपतेः । राजदण्डत्रये सार्द्धे यमद्वारे प्रतिष्ठिताः ॥ २३८ ॥ अद्वारे (१२) राजदण्डार्द्धे प्राचौराः पृथिवोपतेः । एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ २३६ ॥ राजच्छत्रद्वयं सार्द्धं मायामे जय-वास्तुनि । परिणामे(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ २४० ॥ —————————————————————————————— ( ११) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः । ( १२) अत्वाद्वारे इति एतत् सन्दर्भस्थः पारिभाषिकः पाठार्थोन्ज्ञेयः ।

३६ युक्तिकल्पतरौ- राजषट्ठाभिधानेन स्थानमेतन्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ २४१ ॥ अज्ञानाद्भ्रान्तो राजा योऽन्यत्र गृहमारेभेत् । सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ २४२ ॥ यमदण्डोदयदण्डौ कोणादिति (१३) रुपप्लवः * । ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ २४३ ॥ नम्पृश्यते (१४) राजपट्टे स्तैः सर्पैर्गरुड़ो यथा । द्विगुणादि रतोऽपि स्यात् क्रमादङ्गादि वास्तुषु ॥ राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥ २४४ ॥ * अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः । राज द्वारे हि प्राकारा राजच्छत्रान्तरे मताः । यमद्वारे † सार्द्धराज-छत्रान्ते रचयेन्नृपः ॥ २४५ ॥ अपद्वारे राजदण्डं जित आरम्भिताः पुनः । अद्वारे भूपतेस्तस्य राज-दण्ड-(१५) त्रयान्तरे ॥ २४६ ॥ (१३) केनो ? इति (क)-कोनो इति (ख) पुस्तक पाठः । (१४) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः । (१५) राजदण्डाच्चत्र्यान्तरे इति (ग) पुस्तक पाठः ।

  • अत्रेति पदेन “अति वृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः” ॥ इति ज्योतिःशास्त्रीयवचनोपात्त' ज्ञेयम् । † यमद्वारेति एतद्ग्रन्थस्थः पारिभाविकोऽर्थो ज्ञेयः ।

वास्तुयुक्तिः । ३७ एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते । आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥ राजच्छत्रैकमानेन राज-दण्ड उदाहृतः । अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥ अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् । अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥ यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् । य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥ गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् । सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥ गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् । भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥ तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥ तत्र भविष्योत्तरे,— मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् । द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥ सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥ विनोदश्च विलासश्च विजयो विमलस्तथा ॥ वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥


(१) राजा दण्डतो इति (क) पुस्तक पाठः । (२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः । (३) तेन मध्यमेन इति (ख) पुस्तक पाठः । ,, मध्यममेव इति (ग) पुस्तक पाठः । (४) रङ्ग इति (ग) पुस्तक पाठः ।

३८ युक्‍तिकल्पतरौ— अथैषां लक्षणानि । यदत्रैवोच्यते (५) मानं तस्य तेनैव कल्पना * । राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥ २५५ ॥ आयामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः । परिणाहे चतुर्भिश्च राज-हस्तैः प्रतिष्ठितः ॥ २५६ ॥ अस्याधिदेवता भौमो रक्षतोयं (६) वसुन्धरा । द्वाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ २५७ ॥ रक्तपट्टावृतो गेहः सकलार्थ-प्रसाधकः । अत्र स्थित्वा महीपालः सुचिरं पाति (७) मेदिनीम् ॥ २५८॥ दीर्घ-एकपञ्चाशत् ५१, प्रस्थ-चत्वारिंशत् ४० । इति सुन्दरः । द्वौ राजहस्तावायामे परिणाहे तथैव च । इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ २५९ ॥ दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः । चतुर्दशास्य द्वाराणि कृष्णचित्रावृतानि च (८) ॥ २६० ॥ पीत पट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः । (५) यद्यत्नै वोच्यते इति (ख) पुस्तक पाठः । (६) रक्षतौमम् इति (ख)-रक्षतोदम् इति (ग) पुस्तक पाठः । (७) पति इति (ख) पुस्तक पाठः । (८) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः ।

  • मान-लक्षणान्यन्यानि वास्तुशास्त्रे, पुराणे, ज्योतिःशास्त्रे च सन्ति ।

वास्तुयुक्तिः । ३८ अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृन्तति ॥ २६१ ॥ दीर्घ-एकविंशतिः २१, प्रस्थ-विंशतिः २० । इति सर्व्वतोभद्रः । अष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयम् । राजहस्तोन्नतः (९) कार्य्यो बुधश्चास्याधिदेवता ॥ २६२ ॥ रक्षका वसवश्चास्य पूज्यास्तत्र प्रयत्नतः । अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥ २६३ ॥ पीतपट्टावृतो ह्येष सर्व्वानिष्ट-विनाशनः । तत्र स्नाता क्षिति-पतिर्नरिष्टै(१०)रवमृद्यते ॥ २६४ ॥ राजदण्डो (११) भवेद्दीर्घः प्रसरे राज-हस्तकः । राजहस्ते राजहस्ते प्रकोष्ठान् तत्र कारयेत् (१२) ॥२६५॥ अयं नान्दीमुखो नाम चन्द्रश्चास्याधिदेवता । नक्षत्र-लोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥ २६६ ॥ द्वाविंशतिस्तु द्वाराणि दीर्घे दश तथान्तरे । अन्यत्र दीर्घ-एकं स्यात् प्रसरे एकमेव च ॥ २६७ ॥ दीर्घ-द्वितये दशद्वाराणि प्रसर-द्वितये एकं कृत्वा वा द्वितीयमेवं द्वाविंशति-(२२) द्वाराणि । शुक्ल-चित्रेण सहितः शुक्लपट्टेन शोभितः । सर्व्वार्थ-साधको राज्ञां लक्ष्मो-विजय-वर्द्धनः ॥ २६८ ॥ दीर्घ-एकादश-११, प्रस्थे-१०, इति नान्दीमुखः । (९) अत्रैतत् सन्दर्भस्थ-पारिभाषिको राजहस्तो ग्राह्यः । (१०) नरिष्ट रवमृद्यते इति (ग) पुस्तक पाठः । (११) अत्र राजदण्डपदेनैतत्सन्दर्भस्थः पारिभाषिको ग्राह्यः । (१२) राजहस्त...इत्यारभ्य रक्षक-इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।

४० युक्तिकल्पतरौ— दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ । विनोद एष द्वाराणि त्रिंशत् कोष्ठद्वयं भवेत् ॥ २६९ ॥ रक्तचित्रेण चित्राङ्गो रक्तावस्तोपशोभितः (१) । अत्रस्थाता नरपतिर्भवेत् कीर्त्ति-प्रतापवान् ॥ सूर्य्योऽधिदेवता चास्य रक्षकाः सकल-ग्रहाः ॥ २७० ॥ दैर्घ्ये एकत्रिंशत् ३१, प्रस्थे विंशतिः २० । दीर्घेन राजदण्डाद्धँ प्रसरे वाजहस्तकौ । विलास एष द्वाराणि चत्वारिंशद्बुधाः (२) विदुः ॥ २७१ ॥ गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् । चित्र-पद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥ २७२ ॥ दुर्भिक्ष-शमनो ह्येष (३) शस्यसम्पत्ति-कारकः । अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥ २७३ ॥ दैर्घ-एकपञ्चाशत् ५१, प्रस्थे विंशतिः, २० । इति विलास-गृहम् । द्वादशहस्तप्रसरे दीर्घे द्वौ राजहस्तकौ कथितौ । विजये द्वादशभवन-द्वाराणि स्यु र्जयप्रदान्यत्र ॥ २७४ ॥ सूर्य्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् । अरुणाम्भोज-चित्राङ्गो अरुणाम्बर-भूषितः ॥ अत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्धराम् ॥ २७५ ॥ दैर्घ्ये एकविंशतिः २१, प्रस्थे द्वादश, १२ । ────────────────────────────────────────── ( १ ) उपरच्छौत इति (ग) पुस्तक पाठः । ( २ ) बुधोविदुः इति (ख) पुस्तक पाठः । ( ३ ) दमनोह्येष इति (ग) पुस्तक पाठः ।

वास्तु युक्तिः । ४१ आयामे राज-दण्डौ द्वौ प्रसरे राजदण्डकः । शतद्वारोपसहितः प्रकोष्ठैर्दशभिर्युतः ॥ २७६ ॥ दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता । नानावर्णेन चित्रेण वसनेन विभूषितः ॥ २७७ ॥ अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते । यस्मिन्त्राज्ये प्रतिष्ठेह विमलोऽग्टह-सत्तमः ॥ २७८ ॥ दुर्भिक्षं नात्र्जायेत नेतयो ( ५ ) न च विप्लवः । नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥ पत्यादि-( ६ ) गुणबाहुल्य मन्यत्कथितंबुधैः ॥ २७९ ॥ दैर्घ्यं द्विशतम्- २००, प्रस्थे-एकशतम् १०० ॥ आयाम-परिणाहाभ्यां राज्ञः षोडशहस्तकः । द्वाराणि षोडशैवास्य गुरुश्चास्याधिदेवता ॥ २८० ॥ रचिकादे वताचास्य शुक्लवस्त्रैर्

अवस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ २८४ ॥ दैर्घ्ये एकशतम् १०० , प्रस्थे पञ्चाशत् ५० ॥ इति केलिः । राज-हस्तेन कोणःस्या देवं केलि-चतुष्टयं । चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ २८५ ॥ नक्तंचरा रक्षकाश्च नाना स्वर्णाम्बरादिकम् । अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ २८६ ॥ आयामे राजहस्तःस्यात्परिणाहोऽष्टहस्तकम् । नानारूपं कुटोरूपः (९) वीरो नाम जयप्रदः ॥ २८७ ॥ बृहस्पतिर्द्देवताऽस्य रक्षकाश्चास्य खेचराः । विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ २८८ ॥ दैर्घ्ये एकादश- ११, प्रस्थे अष्टौ = । इति धीरः । (केलि-प्रभेदोवा) ॥ योयस्य गदितोवर्ण स्तथास्याच्चामरोऽपिच । राज-हस्तान्त

वास्तुयुक्तिः । ४३ इति सिंहासन-स्थानमिति राष्ट्रस्य मस्तकम् । इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ २६३ ॥ जलयन्त्रादयो * येऽन्ये तेषां नास्ति विनिश्चयः । खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ २६४ ॥ सचिरं(११) पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि । योवा तत्पर-गेहस्थो दुर्मोहाद्धरणीपतिः । न चिरं पाति वसुधां घोरं रोगञ्चविन्दति ॥ २६५ ॥ खलग्न-पति-मित्रस्य गृहवारोनदुष्यति । परञ्च,— हीरकस्य † विशुद्धस्य ब्रह्मजातेर्महाद्युतेः । सूर्यांश्रु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिखाः ॥ २६६ ॥ गृहाग्रे धारयेद्राजा तद्वज्रं वज्रधारणम् ॥ २६७ ॥ वास्तुवस्तु,— गेहेषु मणि-विन्यासो विधेयः सदनो

Digitized By Siddhanta eGangotri Gyaan Kosha ४४ युक्तिकल्पतरौ- भोजोऽपि,- वास्तुखण्डाष्ट-* रूपःस्यात् यथार्थैर्नामभिः स्वकैः । यमद्वारात्समारभ्य यावदद्धारमिष्यते ॥ २९६ ॥ तद्यथा,- मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च । वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ ३०० ॥ यमनैर्ऋत-तोयेश वायु-यक्षेश-शङ्कराः । इन्द्रोरग्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ ३०१ ॥ मृत्यौ कारांलयं कुर्य्यात् भय-स्थानिच पत्तयः । स्थिरे सहचरानूक्षेत् चण्डे वाजि-गजादयः ॥ ३०२ ॥ धनेशान्यादिकं ( १ ) रक्षेत् विभवे कोष-रक्षणम् । राजपट्टे ‡ भवेद्धीरः तापे कश्चि ( २ ) न्त्रवालयेत् ॥ प्राचीर-प्रतिभागान्ते ( ३ ) दूति भोजस्य सम्मतम् ॥ ३०३ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ राजगृह-युक्तिः ॥ तत्र वास्तुप्लव-लक्षणम् । वास्तु-मानेन नियमो गृह-मानेन निर्णयः । पूर्व्वप्लवो वृद्धिकरो धनदस्योत्तर-प्लवः ॥ ३०४ ॥ (१) धनधान्यादिकं इति (क)-(ग) पुस्तक पाठः । (२) कश्चिन्नरा(चा)लयेत् इति (ख) पुस्तक पाठः । (३) प्राचीर भाग्यन्ते इति (ख) पुस्तक पाठः ।

  • अष्टः शङ्कः, पद्ममिति वा ‡ राजपट्ट्य पखरवान्तर्गतमैकग्वम् इति गौड़ाः । यस्मिन्नासने पट्टाख्ये नृपमहिष्यो- रभिषेको भवति तदेव राजपट्ट इति केचित् । नीलकान्तमथिरित्यन्ये देवीपुराणे तु अन्यथास्ति पट्टलक्षणम् । CC-0. Gurukul Kangri Collection, Haridwar.

वास्तुयुक्तिः । ४५ दक्षिणे मृत्युदो वास्तु र्धनहापश्चिम-प्लवः । कोणे रेखाद्वयं कृत्वा मध्यरेखाद्वयन्तथा ॥ ३०५ ॥ ऐशान-कोणतोरेखा दक्षिणाद्ये ( ४ ) र्ध्वजास्तथा । नाचामरो नामणिश्च नापताकापि नाध्वजः ॥ ३०६ ॥ नकुम्भादिर्नवितानो नाचित्रो नातिचित्रधृक् । नात्युच्चो नातिनीचोवा नाप्रकीर्णः प्रकीर्णकः । ३०७ ॥ नाधातु र्नागवाक्षश्च नचैकानेक-द्वारभाग् । नियमस्तु महोन्द्राणां सर्व्वसम्पत्ति-हेतवे ॥ ३०८ ॥ इति राज-गृहयुक्तिः । अन्येषान्तु यथा वास्तुमानेन नियमः ।— ध्वजोधूमस्तथा सिंहःश्वा ( ५ ) वृषोगर्दभो गजः । काक इत्येष गदितो वास्तुस्थानस्य निर्णयः । अयुग्मे सुखसम्पत्तिः युग्मञ्चविपदास्पदम् ॥ ३०९ ॥ एव मन्यत्रापि । ध्वजे विभूति र्विपदश्चधूमे, सिंहेविभोगः शुनि सर्व्वनाशः । वृषे सुखं गर्दभतो विनाशः ; गजे धनं काक-पदेच मृत्युः ॥३१०॥ कोणरेखा कोणसुचिः ( १ ) सुखसम्पत्ति-नाशिनी । पूर्व्व-पश्चिमतोदण्ड उदयाख्यः सुखावहः ॥ ३११ ॥ दक्षिणोत्तरतोदण्डो वंशहा यमदण्डकः । गृहानि पातयेद्धीमान् एषांदण्ड-( २ ) व्यधान्तरे ॥ ३१२ ।

( ४ ) दक्षिणाग्रैः इति (ग) पुस्तक पाठः । ( ५ ) श्वावतो इति (ख) पुस्तक पाठः । ( १ ) कोन सूचो (शुचि) इति (ख)-(ग) पुस्तक पाठः । ( २ ) दण्डः व्यधान्तरे ? इति (क) पुस्तक पाठः ।

तोहीना चतुःशालं ( ३ ) सुखावहम् ॥ ३१३ ॥ * Note:पूर्व्वतोहीनाorपूर्व्वतो हीना? It's पूर्व्वतोहीना. * ( ३ )has spaces inside. * सुखावहम् ॥ ३१३ ॥`

*   : `पश्चिमास्यं यजेद्वेश्म सिंहेतूदङ्मुखं शुभम् ।`
    *   `सिंहेतूदङ्मुखं`: `सिंहेतूदङ्मुखं` (ङ with subscript ख, `ङ्ख` or `ङ्मुखं`? `ङ्मुखं`: `ङ्` + `म`? No, wait! Look at the letter: `सिंहेतूदङ्मुखं` -> wait, is it `दङ्मुखं`? `द` + `ङ्` + `ख`? No, `दङ्मुखं` -> `द` with `ङ्मुखं`: `ङ्` + `म`? Look at `सिंहेतूदङ्मुखं`: `सिं` `हे` `तू` `द` `ङ्मु` `खं`! Wait, look at `दङ्मुखं`: `द` has a hook below? It's `दङ्मुखं`? No, `तूदङ्मुखं`? In `सिंहेतूदङ्मुखं`: `सिंहे` `तू` `दङ्मुख

वास्तुयुक्तिः । ४७ स्ववास्तु-वृक्षतोदोषः कुल-सम्पत्ति-नाशनः । वर्जयेत् पूर्व्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तथा ॥ ३२२ ॥ ऐशान्यांरक्त-पुष्पञ्च आग्नेय्यां क्षीरिणस्तथा । यत्र तत्र स्थितावृक्षा विल्व दाड़िम-केशराः ॥ ३२३ ॥ पनसा नारिकेलाश्च (१०) शुभं कुर्व्वन्ति निश्चयम् । निशा नीली पलाशश्च चिञ्चा(वा) श्वेतापराजिता ॥ ३२४ ॥ कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् । गृहपातन मिच्छन्ति नागस्य स्वपने * क्रमात् ॥ ३२५ ॥ पूर्वादिषु शिरःकृत्वा नागः शेते त्रिभिस्त्रिभिः । भाद्राद्यैर्व्वाम-पार्श्वेन तस्य क्रोडेऽगृहं शुभम् ॥ ३२६ ॥ तत्र प्रमाणम्— स्वामि-हस्त-प्रमाणे न ज्येष्ठपत्नी-सुतेन(वा) च । गृहाद्यन्तर-संस्थानं मापयेदभितो नरः ॥ ३२७ ॥ तत्र सामान्य-लक्षणम् । गृह भूमि-समाहृत-पिण्डपदम्, वसु-लोचन-वाण-गजैर्गुणितम् । रवि-भूधर-भूधर-योग-हृतम् ; द्रविण (द्रविण ?) (११) व्यनुसङ्कलितम् ॥ ३२८ ॥ एकाशीतिगुणे हस्ते दिवाणैक-हते चते । षड्वाणे न च सम्भक्ते पिण्डःस्यात सर्व्ववेश्मनः ॥ ३२९ ॥ (१०) नालीकेड़ (नारिकेलश्च) (ख)-(ग) पुस्तक पाठः । (११) प्रविण इति इति (क)-(ग) पुस्तक पाठः ।

  • नागस्य शयने,—ज्योतिःशास्त्रे गृहारम्भे नागशुद्धिरभिहितास्ति। नागानां शिरशि गृहारम्भोऽनिष्टम् । तेषान्तु क्रीड़े शुभम् ।

४८ युक्तिकल्पतरौ— तद्यथा,— ध्वजादि-गेह-संस्थाने गृहमानं शुभावहम् । दीर्घे पुत्र-(१२) फलं गेहं सिंहस्थाने प्रकीर्त्तितम् ॥ ३३० ॥ दीर्घे भानुः परिणाहे सप्तचैराङ्गुलिद्वयम् । इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदीरितम् ॥ ३३१ ॥ दीर्घे षष्ट' (१३)...सचतुरङ्गुलम् । इदं धनफलं गेहम् गजस्थाने ह्युदीरितम् ॥ ३३२ ॥ दीर्घे षट् प्रहरे पञ्च चतस्रोऽङ्गुलयोरपि । इदं पुत्रकलं गेहं गजस्थाने प्रकीर्त्तितम् ॥ ३३३ ॥ दीर्घे त्रयोदशभुजाङ्गुलयश्चैक-विंशतिः । प्रहरेऽष्टौ (१४) सुखफलं गजस्थाने गृहं विदुः ॥ ३३४ ॥ इति द्वादशकं प्रोक्तं गृहाणां सर्व्वसम्मतम् । एवं गृहं समाचर्य्य गृहस्थः शुभ (१५) मिच्छति ॥ ३३५ ॥ भोजस्तु,— आयाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (१६) विजायते । येन केनापि चाङ्गेन शोधनीयः स इष्यते ॥ ३३६ ॥ (१२) पुत्रफलमिति (क) पुस्तक पाठः । (१३) अत्रै तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा लुटितमिवमन्ये । इति पाठम् । (१४) प्रसरेऽष्टौ इति (क) पुस्तक पाठः । (१५) सुखम् इति (ख) पुस्तक पाठः । (१६) योऽङ्ग-पिण्डोविराजते इति (ख) पुस्तक पाठः । —अत्र ध्रुवाङ्ग-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्तं ज्ञेयम् ।

गृहयुक्तिः । ४९ एक-द्वि-पञ्च-सप्तानि शुभान्यन्यानि चान्यथा । आयाम-परिणाहाभ्यां सार्द्ध-द्वादश-हस्तकम् ॥ ३३७ ॥ एकन्तु मङ्गलं नाम गृहं सुख-विवर्द्धनम् । आयाम-परिणाहाभ्यां सार्द्धहस्त-चतुर्दश ॥ ३३८ ॥ इदं ‘कमलकं’ नाम गृह-सम्पत्ति-कारकम् । आयाम-परिणाहाभ्यां सार्द्ध-हस्तस्तु षोडश ॥ ३३९ ॥ इदं हि सर्व्वतोभद्रं स्वामिनः सुखकारकम् । आयाम-परिणाहाभ्यां सार्द्धाष्टादश-हस्तकम् ॥ ३४० ॥ ‘कल्याण’नाम वेश्मदं धन-धान्य-सुखप्रदम् । आयाम-परिणाहाभ्यां सार्द्धविंशति-हस्तकम् ॥ ३४१ ॥ इदं हि सुखदं नाम भर्तुः सुख-विवर्द्धनम् । मया-यदिदमुद्दिष्टं गृहपञ्चकमद्भुतम् ॥ ३४२ ॥ न तेषु स्थान-

५० युत्तिकल्पतरौ— अथासन-युक्तिः । [ अत्र सिंहासन-युक्तिरुच्यते ] विशेषाख्यं सामान्य-मासनं द्विविधं मतम् । सिंहासनं विशेषाख्यं सामान्यं खट्वादिकम् (१) । राज्ञो वरतम(२)न्नाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥ शुभे मुहूर्त्ते शुभ-मास-योगे, सुवारवेला-तिथिचन्द्र-योगे । काले निरुत्पात-निरिति-भावे (†) ; सिंहासनावस्थ-विधिं वदन्ति ॥ ३४८ ॥ स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते । आसनारम्भ मिच्छन्ति गृहारम्भोऽपि येषु च ॥ ३४९ ॥ एतेन गृहारम्भ-सिंहासनयोरारम्भः । तत्र क्रमः,— बाण-वेदाग्नि-(४) पक्तानि सोपानादि-युगैः क्रमात् । चत्वारिंशत्तथा त्रिंशद् विंशतिः

आसनयुक्तिः । ५१ सिंहान्वितानि ज्ञेयानि चरणानि युगे (५) क्रमात् । पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ ३५१ ॥ अष्टौ सिंहासनान्येति नीति-शास्त्र-विदो विदुः । आदित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ ३५२ ॥ राज्ञः स्वहस्तैरष्टाभिरायाम-परिणाहयोः । ‘राज पात्र’मिदं नाम सोपानं पुरुषोन्नतम् ॥ ३५३ ॥ तदर्द्धमानन्तन्मध्ये राजासनमुदाहृतम् । अर्द्धोन्नत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ ३५४ ॥ दिगष्टर्द्धार्ब्बि-(६) कोणः स्याद्ब्रह्मादीनां यथाक्रमम् ॥ ३५५॥ अथाष्टानां लक्षणानि । गम्भारी-काष्ठ-घटितः पद्ममालोप-चित्रितः । पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृतः (७) ॥ ३५६ ॥ चरणाग्रे पञ्चकोषात् पद्मराग-विचित्रिताः । दिक्ष्वष्टौ पुत्तिका राज द्वादशाङ्गुलि-सम्मिताः ॥ ३५७ ॥ राजासन-चतस्रस्तु एवं द्वादश-पुत्तिकाः । रत्नैश्च नवभिः कार्य्यं निर्मााणञ्चान्तराऽन्तरा ॥ ३५८ ॥ रक्तावस्त्रावृतं ह्येतत् ‘पद्म-सिंहासनं’ मतम् । अत्रोषित्वा नरपतिः प्रतापमति-विन्दति ॥ ३५९ ॥ भद्रन्वाकाष्ठ(८)घटितः शङ्खमालोपशोभितः । शुद्धस्फटिक-चित्राङ्गः शुद्ध-रौप्योपशोभितः ॥ ३६० ॥


( ५ ) युगैः क्रमात् इति (ख)-(ग) पुस्तक पाठः । ( ६ ) दिगष्टर्द्धर्ब्बि इति (ख) दिगष्टार्द्धवि-(ग) पुस्तक पाठः । ( ७ ) सम्भृत इति (ख)-(ग) पुस्तक पाठः । ( ८ ) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः ।

५२ युक्तिकल्पतरौ— चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः । स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥ शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् । पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥ विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः । चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥ माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् । 'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥ शालकाष्ठेन घटितो हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥ चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः । गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥ 'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) । चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥ शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः । चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥ मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् । शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥ ( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः । ( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः । ( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः । ( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः । ( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः । ( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।

आसनयुक्तिः । ५३ अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् । भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥ शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः । द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥ ‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् । निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥ इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् । चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥ नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् । लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥ केशरे(वे) णोपघटितं हयमालोपशोभितम् । समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥ चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् । ‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥ इत्येतत्कथितं सारं महासिंहासनाष्टकम् । यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥ एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः । अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥ परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥ स्वलग्न-मित्रासन-मध्य-संस्थिति- र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥ इति श्रीभोजराजीये विशेषासनोद्देशः ॥ (१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः । (१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।