भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पश्येयुरन्ये च तथा नृसिंहा दैवज्ञवाक्यं निपुणं च भूपः। सांवत्सरस्याथ सदस्यमुख्याः सदस्यमुख्यश्च पुरोहितश्च॥ प्रदक्षिणावर्त्तशिखस्तप्तजाम्बूनदप्रभः। रथौघमेघनिर्घोषो विधूमश्च हुताशनः॥ अनुलोमा सुगन्धिश्च स्वस्तिकाकारसन्निभः। वर्द्धमानाकृतिश्चैव नन्द्यावर्त्तनिभस्तथा॥ प्रसन्नाचिर्महाज्वालः स्फुलिङ्गरहितो हितः। *स्वाहा अवसाने ज्वलनविशेषणम्। मध्येन होतुरग्रेण। प्रस्तरस्य दर्भमुष्टेः। स्नानं समारभेत्प्राज्ञा होमकालं पुराहतः होमकालं होमसमाप्तौ आदा तु स्वच्छया स्नातः पुनर्मृद्भिः समारभेत्। पर्वताग्रमृदा तावन्मूर्द्धानं शोधयेन्नृप॥ वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात्। इन्द्रालयात्तदा ग्रीवां हृदयं तु नृपाजिरात्॥ करिदान्तोद्धृतमृदा दक्षिणं तु तथा भुजम्। वृषशृङ्गोद्धृतमृदा वामं चैव तथा भुजम्॥ सरोमृदा तथा पृष्ठमुदरं सङ्गमान्मृदा। नदीकूलद्वयमृदा पार्श्वौ संशोधयेत्तथा॥ वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते। गजस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा॥ अश्वस्थानात्तथा जङ्घे राज्ञः संशोधयेद्बुधः। रथचक्रोद्धृतमृदा तथैव चरणद्वयम्॥ मृत्पूतः स्नपनीयः स्यात्पञ्चगव्यजलेन तु।

  • अतः पूर्वे किञ्चित् त्रुटितं भाति।

विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५१ पञ्चगव्येन, जलेन कुशोदकेन च । ततो भद्रासनगतं मुख्यामात्यचतुष्टयम् । बलप्रधानं भूपालमभिषिञ्चेद्यथाविधि ॥ पूर्वतो हेमकुम्भेन घृतपूर्णेन वाडवः । वाडवो ब्राह्मणः । दक्षिणे क्षीरपूर्णेन रौप्यकुम्भेन क्षत्रियः ॥ दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमतस्तथा । कौबेर्यां मधुकेनाथ छन्दोगोऽथ कुशोदकैः ॥ मधुना कुशोदकैश्च छन्दोगः । सम्पातवन्तं कलशं तथाऽऽहृत्य पुरोहितः । विधाय वह्निरक्षां तु सदस्येषु यथाविधि ॥ विधाय वह्निरक्षाम्–वह्निं रक्षध्वमित्युक्त्वा । राजसूयाभिषेके तु ये मन्त्राः परिकीर्त्तिताः ॥ ते च मन्त्रा वक्ष्यन्ते । तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वरेण तु । स्वरेण मन्त्रघोषेण । ततः पुरोहितो गच्छेद्वेदिमूलं तथैव तु ॥ वेदिमूलं कुण्डम् । विभूषितं तु राजानं संस्थितं भद्र आसने । भद्रासनलक्षणम्– देवीपुराणे, हैमं च राजतं ताम्रं क्षीरवृक्षमयं च वा । भद्रासनं च कर्त्तव्यं सार्द्धहस्तसमुच्छ्रितम् ॥ सपादहस्तमानं च राज्ञो माण्डलिकान्तरात् ।

५२ वीरमित्रोदयस्य राजनीतिप्रकाशे वराहसंहितायामपि, त्रिविधस्तस्योच्छ्रायो हस्तः, पादाधिकोऽर्द्धयुक्तश्च । माण्डलिकान्तरजित्समस्तराज्यार्थिनां शुभदः ॥ इति । तच्च भद्रासनं नूतनमेव कार्यम् । तदुक्तम्— विष्णुधर्मोत्तरे, भद्रासनं च छत्रं च बालव्यजनमेव च । खङ्गं चक्रं तथा चापं रत्नानि विविधानि च ॥ राज्ञो मृतस्य ये त्वासन् सर्व एते नराधिप । न ते कार्या नरेन्द्रस्य तेन दैवविदा तदा ॥ कामं सांवत्सरः कार्योऽह्यलाभेऽन्यस्य भूभुजा । गुणाधिकाश्चेन्नो कार्या येऽन्येऽत्राभिहिता मया ॥ इति । पूर्वे चेद्गुणाधिकास्तदा ये अन्ये कर्त्तव्या इत्यभिहितास्ते नो कार्या इत्यर्थः । तथा तत्रैव, शतच्छिद्रेण पात्रेण सौवर्णेन यथाविधि । अभिषिञ्चेत धर्मज्ञः सम्यग्वेदविशारदः ॥ या ओषधीरोपधिभिः श्रुताभिः सुसमाहृतः । ओषधिभिः अष्टौषधिगर्भकुम्भोदकेन । रथे तिष्ठेति गन्धैश्च आब्रह्मन्ब्राह्मणेति च । गन्धैः सर्वगन्धकुम्भोदकेन । बीजैः पुष्पैस्तथासीनं रामं पुष्पवतीति च । बीजैः बीजपूर्णकुम्भोदकेन । पुष्पैः पुष्पपूर्णकुम्भोदकेन । पुष्पवतीत्याथर्वणो मन्त्रः तेनैव चैव मन्त्रेण फलैस्तमभिषेचयेत् ॥ आशुः शिशान इत्येवं सर्वरत्नैश्च भार्गव ।

विष्णुधर्मोत्तरोक्तराजाभिषेकः । ५३ ये देवाः पुरः सदेति कुशाद्भिः परिमार्जयेत् ॥ ऋग्वेदवित्ततो राज्ञो रोचनया यथाविधि । मूर्द्धानं च तथा कण्ठं गन्धद्वारेति संस्पृशेत् ॥ ततो ब्राह्मणमुख्याश्च क्षत्रियाश्च विशस्तथा । शूद्राश्चावरमुख्याश्च नानातीर्थसमुद्भवैः ॥ अवरमुख्या मूर्द्धावसिक्तादयः । नादेयैः सारसैः कौपैर्नानाकलशसंस्थितैः ॥ चतुःसागरजैर्लाभादलाभे द्विजकल्पितैः । गङ्गायमुनयोश्चैव निर्झरैश्च तथा द्विजैः ॥ छत्रपाणिर्भवेत्कश्चित्केचिच्चामरपाणयः । अमात्यमुख्यास्तत्कालं केचिद्वेत्रधरास्तथा ॥ शङ्खभेरीनिनादेन वन्दिनां निस्वनेन च । गीतवादित्रघोषेण द्विजकोलाहलेन च ॥ राजानमभिषिञ्चेयुः समेत्य सहिता जनाः । सर्वलोकाभिषिक्तस्य सम्मिश्रजलसंयुक्तम् ॥ सम्मिश्रजलानि नादेयादीनि दश । सर्वौषधियुतं पुण्यं सर्वगन्धयुतं तथा ॥ रत्नबीजसमायुक्तं फलपुष्पयुतं तथा । पूजितं सितसूत्रेण वेष्टितग्रीवमेव च ॥ पूजितम्–सर्वतो गन्धादिनाऽभ्यर्चितम् । श्वेतवस्त्रावकान्तैश्च संवीतं शुचि भूषितम् । अवकाः शैवालम् । क्षीरवृक्षलताच्छन्नं सुहृष्टं काञ्चनं नवम् ॥ आदाय कलशं राज्ञः स्वयं सांवत्सरस्तदा । मन्त्रावसाने कलशं दद्याद्भृगुकुलोद्वह ॥

५४ वीरमित्रोदयस्य राजनीतिप्रकाशे मन्त्राः सुरास्त्वा इत्यादयो वक्ष्यमाणाः । ततः पश्येन्मुखं राजा दर्पणे वापि सर्पिषि ॥ सोष्णीषः सितवस्त्रश्च मङ्गलालम्भनं ततः । कृत्वा सम्पूजयेद्विष्णुं ब्रह्माणं शङ्करं तथा ॥ लोकपालं ग्रहांश्चैव नक्षत्राणि च भार्गव । ततः स्वपूजां कुर्वीत शयनीयं ततो व्रजेत् ॥ व्याघ्रचर्मोत्तरं रम्यं सितवस्त्रोत्तरच्छदम् । पुरोधा मधुपर्केण तत्रस्थं तं समर्पयेत् ॥ राजाऽऽदौ चार्चयेत्तत्र सांवत्सरपुरोहितौ । मधुपर्केण धर्मज्ञस्ततस्तस्य स दैववित् ॥ पट्टबन्धं प्रकुर्वीत मुकुटस्य च बन्धनम् । पट्टलक्षणं तु— देवीपुराणे, सर्वस्नानमलङ्कारं रोचनारुष्यं च पट्टकम् । वृद्ध्याऽब्ध्यङ्गुलमङ्गुल्या षट्त्रिंशदङ्गुलावधि ॥ वृत्तं वा चतुरस्रं वा पञ्चकत्रिकगर्भितम् । वत्सेशपद्ममत्स्येभगोस्वस्तिकविनायकैः ॥ श्रीश्रीवृक्षवराहेभस्वामिदेवीशुभान्वितम् । अब्ध्यङ्गुलं सप्ताङ्गुलम्, अङ्गुल्या एकया सहितमष्टाङ्गुलम् इत्येकं पट्टलक्षणम्, तदारभ्य सप्ताङ्गुलकृतवृद्ध्या चत्वारि लक्षणानि, एवं पञ्चविधः । तस्य दैर्घ्यार्धेन मध्यदेशविस्तारः, तदर्धेन प्रान्तद्वयविस्तारः । स एवं वृत्तः कोणरहितश्चतुरस्रो वा । वत्सेशः श्रीवत्सधारी विष्णुः । इभो हस्ती, महामात्राधि- ष्ठितः । गौः स्त्रीगवी । केवल एव हस्ती वृषभश्च निषिद्धो— विश्वकर्मणा,

विष्णुधर्मोत्तरोक्तराजाभिषेकः ५५ व्याघ्रव्यालगजांसहा अश्वोष्ट्रौ मांहषो वृषः । भूषणेषु त्यजेदष्टौ यदीच्छेद्दीर्घजीवितम् ॥ इति । श्रीवृक्षो बिल्वः । इभो गणेशः । स्वामी कार्त्तिकेयः । वराहसंहितायामपि दैर्ध्यादिमानं भङ्ग्यन्तरेणोक्तम्, मध्य- विस्तारमुक्त्वा । सर्वे द्विगुणायामा मध्यादर्धेन तदर्धविस्ताराः । सर्वे विशुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्धयै ॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजमहिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ इति । विष्णुधर्मोत्तरे, ततः स बद्धमुकुटः काले पूर्वं मयोदिते । पराद्धर्यास्तरणोपेते मञ्चे बद्धोत्तरच्छदे ॥ परार्द्धं बहुमूल्यम् । ध्रुवाद्यौरितिमन्त्रेण सोपवेश्यः पुरोधसा । वृषस्य वृषदंशस्य द्वीपिनश्च मृगूद्रह ॥ तेषामुपरि सिंहस्य व्याघ्रस्य च परं ततः । वृषदंशो मार्जारः । द्वीपी चित्रकः । तत्रोपविष्टस्य तदा प्रतीहारः प्रदर्शयेत् । अमात्यांश्च तथा पौरान्नैगमांश्चापणेश्वरान् ॥ तथा प्रकृतयश्चान्या यथावदनुपूर्वशः । ततोऽग्रहारवस्त्रेभतुरङ्गकनकोत्तमैः ॥ गोजाविगृहदानैश्च सांवत्सरपुरोहितौ । पूजयित्वा ततः पश्चात् पूजयेद्ब्राह्मणत्रयम् ॥ अनेनैव विधानेन येन राजाऽभिषेचितः । ततः सदस्यान्सम्पूज्य सांवत्सरपुरोधसः ॥

५६ वीरमित्रोदयस्य राजनीतिप्रकाशे ततो ब्राह्मणमुख्यानां पूजनं तु समाचरेत् । गोवस्त्रतिलरूप्यान्नफलकाञ्चनगोरसैः ॥ मोदकैः श्वेतपुष्पैश्च महीदानैश्च सुव्रत । आथर्वणपरिशिष्टे तु विशेषः । मधुपर्काद्येन विधिना सर्वार्थं सम्पाद्य दक्षिणां दद्यात्, को- टिमध्यात्तृतीयं भागं यथाभूमिप्रमाणेना वा । हस्त्यश्वरथयानं दिव्यमाभरणमातपत्रं हिरण्यं क्षितिगोधनधान्यरत्नादिकं स्वगुरवे दद्यात्, येन वा तुष्येत । इति । तदुत्तरकर्त्तव्यं च विष्णुधर्मोत्तरे अभिहितम्— मङ्गलालम्भनं कृत्वा गृहीत्वा सशरं धनुः । वह्निं प्रदक्षिणं कृत्वा प्रणिपत्य तथा गुरून् ॥ पृष्ठतो वृषमालभ्य गां सवत्सां च पार्थिव । पूजयित्वा तुरङ्गं च मन्त्रितं चाभिषेचितम् ॥ तमारुह्य ततो नागं पूजयेच्चाभिषेचितम् । मन्त्रितं दक्षिणे कर्णे स्वयं दैवविदा ततः ॥ आरुह्य राजमार्गेण स्वपुरं तु परिभ्रमेत् । मुख्यामात्यैः ससामन्तैः सांवत्सरपुरोहितैः ॥ सहितः कुञ्जरारूढैरभिगच्छेच्च देवताः । तासां सम्पूजनं कृत्वा नगरे या निषेविताः ॥ प्रविश्यान्तर्गृहं राजा प्रहृष्टनरवाहनः । दानमानादिसत्कारैर्हृदीयात्मप्रकृतीस्ततः ॥ सम्पूजितास्ताश्च विसर्जायित्वा गृहे स्वके स्यान्मुदितो महात्मा । विधानमेतत्समवाप्य राजा कृत्स्नां च धात्रीं वशगां विदध्यात् ॥ वृद्धवसिष्ठोऽपि, प्राग्भागे मन्दिरस्याथ गोमयेन तु कारयेत् ।

मण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम् ॥ तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम् । गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह ॥ दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः । शतौषधीमूलहेमरत्नद्वीजपल्लवैः ॥ मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम् । उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम् ॥ राजसर्षपमुस्तं च देवदारुसमन्वितम् । देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः ॥ आभिषेकैर्वेदमन्त्रैः शुभलग्ने शुभान्विते । भद्रासनस्थे नृपतावभिषेकं तु कारयेत् ॥ नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः । आशिषो वाचनं कृत्वा चार्चयेच्च सुरान् पितॄन् ॥ आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत् । ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च ॥ प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै । याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च ॥ आदित्या अभिषिञ्चन्तु प्रतीच्यां दिशि वृद्धये । विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये ॥ दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय च । साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत् ॥ व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम् । भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम् ॥ पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः । उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम् ॥

५८ वीरमित्रोदयस्य राजनीतिप्रकाशे विद्वत्पुरोहितामात्यवृद्धैर्बन्धुसमन्वितः । तदा सञ्चिन्त्य सप्ताङ्गं प्रजा धर्मेण पालयेत् ॥ एवं यः कुरुते सम्यक् स राजा वर्द्धते चिरम् ॥ इति । सामविधानब्राह्मणेऽपि, राजानमभिषेचयेत्तिष्येण श्रवणे- न वा। व्रीहियवैस्तिलमाषैर्दधिमधुसुमनोजात रूपैर्यशस्विनीभ्यो न- दीभ्यः समुद्राच्चोदकान्याहृत्योदुम्बरे भद्रासने वैयाघ्रे चर्मण्युत्त- रलोम्न्यासिनं जीवन्तीनां गवां शृङ्गकोशैरभिषिञ्चेद्भ्रातृव्य इ- ति रहस्येन । यमेवं कामयेतैकराजः स्यान्नास्य चक्रं प्रतिहन्येते- त्येकवृषेणाभिषिञ्चेत् । अभिषेक्त्रे दद्याद्ग्रामवरं दासीशतं गो- सहस्रं तदधीनश्च भवेत् । इति । अस्यार्थ माधवाचार्य आह-पुरोहितो राजानमभिषेच- येत् अभिषिञ्चेत्, वक्ष्यमाणैः साधनैः । यद्यपि राजशब्दः अभिषेकसंस्कृतस्य क्षत्रियस्य वाचकस्तथापि भाविनीं संज्ञा- माश्रित्य “यूपं तक्षति” इत्यादिवत् अभिषेक्तव्यराजानमित्युप- चारप्रयोगः । अवेष्ट्यधिकरणे तु भाविसंज्ञां प्रत्याख्याय यूपं तक्षतीत्यनेन वैषम्यमुक्तम् । तिष्यः पुष्यः । व्रीह्या- दिजातरूपान्तैर्द्रव्यैर्मिश्रितैः । यशस्विनीभ्यः पावनत्वप्रयु- क्तख्यातियुक्ताभ्यो गङ्गातुङ्गभद्रादिभ्यो नदीभ्यः समुद्राच्चोद- कानि पृथक्पृथगाहृत्य तैः उदुम्बरसम्बन्धिनि भद्रासने चतु- ष्पदोपेते पर्यास्तृते व्याघ्रचर्मणि उपरिस्थितलोम्नि आसीनं जीवोपेतानां गवां शृङ्गाणि छित्त्वा तदग्रच्छिद्रनिःस्रुतैर्जलैर- भ्रातृव्य इति रहस्येन साम्ना, उदकानि शृङ्गकोशैरिति उभयत्र बहुवचननिर्देशात्पृथक् गङ्गाद्युदकैरभिषिञ्चेत् । पृथगाहरणस्या- पीदमेव प्रयोजनम् । कामनाभेदेन मन्त्रविशेषमाह-पुरोहितो यं राजानमेवं कामयेत कृत्स्नस्य भूमण्डलस्यैक एव राजा

राजयोग्यः पुरोहितः । ५९ स्यान्नास्य चक्रे भूमण्डलं केनचिदपि वैरिणा प्रतिहतं भवेदिति, तं रहस्यस्थाने एकवृषेणेतिसाम्नाऽभिषिञ्चेत् । अन्यत्प्रागुक्तमेव । राजा पुरोहितायोत्कृष्टं ग्रामं दासीशतं सहस्रं गाश्च दद्यात्तदधी- नश्च भवेत् । अत्र यादृशं पुरोहितं कुर्यात्तादृश उक्त— आथर्वणे, तस्मात्कुलीनं श्रोत्रियं भृग्वङ्गिरोविदं विनयाकृतिशौचा- चारयुक्तमलोलुपं व्रतनियमचारित्रवृत्तलक्षणगुणसम्पन्नं सन्धि- विग्रहचिकित्सकं माहेन्द्रजालभूतकर्मादिष्वभिविन्दकं जितस्था- नासनं हिमातपवर्षसहं ह्रीधृतिकर्मार्जवशमदयानशक्तिसम्पन्नं बृहस्पत्युशनसोः (कृतौ पारगं) स्थानाकृतिप्रमाणवर्णश्रुतवपुषा चानुमेयं तेजस्विनं गम्भीरं सत्त्वयुक्तं गुरुं वृणुयाद्भूपतिरिति । विष्णुस्मृतौ, वेदेतिहासधर्मशास्त्रेषु कुशलं कुलीनमव्यङ्गं तपस्विनं च पुरो- हितं कुर्यात् । इति । गौतमे, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं न्यायवृत्तं तपस्विनम् । इति । आथर्वणपरिशिष्टे, तस्माद्गुरुं वेदरहस्ययुक्तं चतुर्विधे कर्मणि चाप्रमत्तम् । शान्तं च दान्तं च जितेन्द्रियं च कुर्यान्नरेन्द्रः प्रियदर्शनं च॥ इति। याज्ञवल्क्ये, पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ सर्वेषु दृष्टादृष्टार्थेषु कर्मसु पुरो निहितं दानमानसतत्कारैरा-

६० वीरमित्रोदयस्य राजनीतिप्रकाशे

त्मसम्बन्धिनं कुर्यात् । दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम् । उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्ध- म् । दण्डनीत्याम् अर्थशास्त्रे । अथर्वाङ्गिरसे शान्त्यादिकर्मणि । यादृशो निषिद्धः पुरोहितस्तादृश उक्त— आथर्वणपरिशिष्टे, नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा । न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम् ॥ हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम् । क्लीबमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा गुरुं नैव कुर्यात् । इति । तादृशस्य करणे फलान्यपि तत्रैवोक्तानि । हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः । स्तेये त्वशक्ते च समस्तदोषाः क्लीवे विवर्णे नृपतिर्विनश्येत् ॥ भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः । विवर्णनेत्रे पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान् ॥ कृष्णे कोशक्षयं विद्याद्वक्ते वाहनसङ्क्षयः । पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥ बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । सभारः पङ्के हस्तीव सह तेनैव मज्जति ॥ अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः । उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥ वधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम् । करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः ॥ अन्वयाकृतिसम्पन्नं तस्माद्भृग्वङ्गिरोविदम् । गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥

पूर्वराजमरणोत्तरनूतनराजाभिषेके विशेषः । ६१ मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु । य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित्॥इति। ब्रह्मवेदोऽथर्ववेदः । बह्वृचादिनिषेधस्याथर्ववेदवेत्तरि शा- न्त्यादिवेत्तरि तात्पर्यम्, न तु बह्वृचादिनिषेधे । तथा, यस्यान्यकुलोपयुक्तपुरोधाः शान्तिकपौष्टिकप्रायश्चि- त्ताभिचारिकनैमित्तिकौर्ध्वदेहिकान्यथर्वाविहितानि कर्माणि कु- र्यात्स तस्य प्रत्यङ्गिरा भूत्वा हस्त्यश्वरथपदात्यादीनि नाशयेत्- इत्याद्युक्तम् । अस्यापि शान्त्यादिज्ञातरि तात्पर्यम्, न त्वथर्ववेदवेत्तरि । स च ब्राह्मण एव कार्यः । तदुक्तम्- ऐतरेयब्राह्मणे, न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मेऽन्नमदन्ति । इति । पूर्वराजमरणोत्तरं नूतनराजाभिषेके विशेष उक्तो- विष्णुधर्मोत्तरे, मृते राज्ञि न कालस्य नियमोऽत्र विधीयते । तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥ विधिवत् प्राकृतस्नानविधिना । घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ । अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥ स सान्त्वयित्वा तु जनं मुक्त्वा बन्धनगांस्ततः । अभयं घोषयित्वा तु कालाकाङ्क्षी ततो भवेत् ॥ मृत इत्यस्वस्थस्याप्युपलक्षकम् । यदा पूर्वस्मिन् राज्ञि मृते- ऽस्वस्थे वोत्तरस्याभिषेकस्तदा स्नपनादौ न कालनियमः । त- त्राभिषेक्तव्यस्य सांवत्सरपुरोहितौ तिलसर्षपैर्विधिवत्स्नपनं कार-

यित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा- सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द- र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा- ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा- न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय- स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि- षेक एव कार्यः । अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः । शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा- जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि- ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि- श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना- यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु- ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै- र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-

अभिषेकप्रयोगः । ६३ चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र य- थाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत् । ततो ऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन प्रत्यृचं जुहुयात् । शेषममृतावत् । इत्यैन्द्रशान्तिप्रयोगः । अथाभिषेकप्रयोगः । तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादि- भिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलि- प्तः शुचिः शुक्लवासाः सोष्णीषो वेदिदेशे स्नातेन श्वेतवस्त्र- माल्याद्यलङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्व- कं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिता- भ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्क- ल्पयेत् । ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्र- क्षत्रियविशाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैक- स्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीर- लतापल्लवोपेतं सर्वतस्त्रिगुणसितसूत्रेण वेष्टितं श्वेताम्बरवेष्टि- तकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्णं कलशं मध्ये, तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेम- कुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदक- कुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान् कलशान् कलशस्थापनविधिना स्थापयेत् । यथासम्भवं पूर्वो- क्तपर्वताग्रादिमृदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं १ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः ।

"? Wait, look at line 9 end: "स्नानशालाया-" Then line 10: "मान्त्रैर्मृत्तिकादिभिः" ? Wait, look at line 10: First glyph: 'मा'! Second glyph: 'न्त्रै'! With repha! 'मान्त्रैर्मृत्तिकादिभिः'??? YES! Look at the first glyph of line 10: It is 'मा'! Wait, does it have a 'म'? Look at 'म' in 'मृदः' (line 11), 'मावोरिषत्' (line 12), 'मूर्द्धानं' (line 13). In line 12: 'मावोरिषत्': 'मा' has a loop at bottom left, vertical, top bar, and 'ा' (aa-matra)! Now look at the first character of line 10: IT IS AN EXACT MATCH FOR 'मा'! Wait, but does it have something on the left? Wait, look at line 10, the very first character: Is it 'मा' or 'झा' or 'आ'? Wait, look at: It has a loop at bottom left, then goes up, then a middle horizontal bar? No, it has a loop, goes right, then vertical: that is 'म'! Wait, to the left of it, what is that? Wait, is that a '

विष्णुधर्मोत्तोक्तराजाभिषेकप्रयोगः । ६५ अथ भद्रासनगतम्-“तेजोऽसि शुक्रम्”इति घृतपूरितेन हेमकुम्भे- न पूर्वदिगवस्थितेन पूर्वतः स्थित्वा ब्राह्मणामात्योऽभिषिञ्चेत् । क्षीरपूर्णेन रौप्यकुम्भेन दक्षिणतः स्थित्वा क्षत्रियामात्य “आप्यायस्व” इति सिञ्चेत् । “दधिक्राव्ण” इति दधिपूरितेन ताम्रकुम्भेन पश्चिमादिगवस्थितेन पश्चिमतः स्थित्वा वैश्यामात्यो- ऽभिषिञ्चेत् । “मधुवाता” इति त्र्यृचेन मधुपूर्र्णेन मृत्कुम्भे- नोत्तरदिगवस्थितेनोत्तरतः स्थित्वा छन्दोगामात्येऽभिषि- ञ्चेत् । स एव तत्रैव स्थित्वा कुशोदकपूरितेनान्यकुम्भेन “देवस्य त्वा” इति सिञ्चेत् । तत्र पूरणे पूरयामि, अभिषेके अभिषिञ्चामीति मन्त्रे वाक्यशेषः । ततः पुरोहितो वह्निं रक्ष- ध्वमिति सदस्यान् सम्प्रेष्य सम्पातवन्तं सौवर्णं कलशमादाय राजसमीपं गत्वा ब्राह्मणस्वरयुतैः शङ्खभेर्यादिशब्दयुतै राजसू- यगतराजाभिषेकमन्त्रैरभिषिञ्चेत् । ते यथा-“सोमस्य त्वा द्यु- म्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण । क्षत्राणां क्षत्रपतिरेद्ध्यति दिद्यून्पाहि” । “इमं देवा असपत्नं सुवद्धं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्म- णानां राजा”इति याजुषाः । इममित्यत्र द्वितीयान्तं राजनाम । अमुष्येत्यत्र षष्ठ्यन्तं तत्पितृनाम । अमुष्या इत्यत्र षष्ठ्यन्तं तन्मातृनाम। आर्ग्वेदिकास्तु “इमा आपः शिवतमा”इति तृचः । “देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम- ग्नेस्तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि । बलाय श्रि- यै यशसेऽन्नाद्याय”इति यजुः । भूर्भुवः स्वरिति व्याहृतय इति । एवमन्येऽपि तत्तच्छाखीया द्रष्टव्याः। ततः पुरोहितः कुण्डसमीपं गच्छेत् । ततः सुगन्ध्युद्वर्त्तनद्रव्येणोद्वर्त्तिताङ्गं भद्रासनगतमेव रा- ९

६६ वीरमित्रोदयस्य राजनीतिप्रकाशे जानं शतच्छिद्रेण सौवर्णेन वेदधर्मशास्त्राभिज्ञोऽन्यो ब्राह्मणो “या ओषधीः” इति मन्त्रेण पिष्टसर्वौषध्युदकपूर्णकुम्भेन, “रथे तिष्ठन्” इति मन्त्रेण गन्धपूर्णोदककुम्भेन, “आब्रह्मन्ब्राह्मण” इति यजुषा व्रीह्यादिबीजोदकपूर्णेन, “पुष्पवती” इत्याथर्वणमन्त्रेण पुष्पपूर्णो- दककुम्भेन, तेनैव मन्त्रेण तत्कालसम्भृतफलपूर्णकुम्भेन, “आशुः शिशान” इतित्सूक्तेन सर्वरत्नपूर्णकुम्भोदकेन “ये देवाः पुरः सद” इति यजुषा कुशपञ्चपल्लवपूर्णोदककुम्भेन राजानमभिषिञ्चेत् । ततोऽन्य ऋग्वेदवित् ब्राह्मणो गोरोचनापिष्टेन “गन्धद्वाराम्” इति मन्त्रेण राज्ञो मूर्द्धानं कण्ठं च संस्पृशेत् । ततो मुख्या ब्राह्मणक्ष- त्रियवैश्यशूद्राः पतिव्रताः पुत्रवत्यो नार्यो मूर्द्धावसिक्ताद्याश्च यथासम्भवं समुद्रादिनानातीर्थाहृतैर्जलैरभिषिञ्चेयुः । शूद्राद्या- स्तूष्णीम् । तत्रामात्यमुख्याश्छत्रचामरवेत्रादीनि राजचिह्नान्यु- हरेयुः । तत्र वन्दिनश्च स्तुतिं कुर्युः । ब्राह्मणा मन्त्रघोषं, वाद- काः शङ्खभेर्यादिघोषं च कुर्युः । ततः सांवत्सरो मुख्यं सौवर्णं कलशमादाय ततो गृहीतेन कुशोदकेन “सुरास्त्वाम्” इत्या- दिभिर्विष्णुधर्मोत्तरोक्तैर्मन्त्रैरभिषिञ्चेत् । सकलमन्त्राभिषेचनान्ते अवशिष्टं कलशजलं कलशेनैव सर्वं मूर्ध्नि न्यसेत् । तथा च विष्णुधर्मोत्तरे, श्रीराम उवाच । मन्त्रेण येन दैवज्ञः कुर्याद्राज्ञोऽभिषेचनम् । तमहं श्रोतुमिच्छामि त्वत्तो वरुणनन्दन ॥ पुष्कर उवाच । शृणुष्वावहितो मन्त्रं राम कल्मषनाशनम् । येनाभिषिक्तो नृपतिश्चिरं यशसि तिष्ठति ॥ राज्ञोऽभिषेकशब्दान्ते दैववित् कुशवारिणा ।

कुर्यान्मन्त्रान्ते कलशं न्यसेत् ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥ रुद्रो धर्मो मनुर्दक्षी रुचिः श्रद्धा तु पार्थिव । भृगुरत्रिवसिष्ठश्च सनकश्च सनन्दनः ॥ सनत्कुमारश्च तथा भगवानथ चाङ्गिराः । पुलहश्च पुलस्त्यश्च मरीचिः कश्यपः प्रभुः ॥ एते त्वामभिषिञ्चन्तु प्रजाध्यक्षाः समागताः । प्रभाकरा बर्हिषदो अग्निष्वात्तास्तथैव च ॥ क्रव्यादाश्चोपहूताश्च आज्यपाश्च सुकालिनः । एते त्वामभिषिञ्चन्तु पितरश्चाग्निभिः सह ॥ लक्ष्मीर्वैदी शची

६८ वीरमित्रोदयस्य राजनीतिप्रकाशे कद्रूः क्रोधवशा प्राची विनता सुरभिस्तथा । एतास्त्वामभिषिञ्चन्तु कश्यपस्य प्रियाः स्त्रियः ॥ पत्नी तु बहुपुत्रस्य सपुत्रा या च भामिनी । समायात्वभिषेकाय विजयाय च पार्थिव ॥ कृशाश्वपत्नी च तथा सुप्रभा तु जया तथा । सुदर्शनस्तयोः पुत्रो विजयं च ददातु ते ॥ मनोरमा भानुमती विशाला या च बाहुदा । अरिष्टनेमिपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव ॥ कृत्तिका रोहिणी देवी इला रुद्राणिरेव च । पुनर्वसुश्च पुष्यश्च तथाऽश्लेषा च पार्थिव ॥ मघा च फाल्गुनी पूर्वा उत्तरा च क्षितीश्वर । हस्तश्चित्रा तथा स्वाती विशाखा च तथा नृप ॥ अनुराधा तथा ज्येष्ठा मूलं च वसुधाधिप । आषाढा च तथा पूर्वा तथान्या चोत्तरा द्वया ॥ अभिजिश्च तथा श्रुत्या धनिष्ठा च तथैव च । तथा शतभिषा चैव पूर्वाभाद्रपदा च या ॥ उत्तरा रेवती राजन्नश्विनी भरणी तथा । एतास्त्वामभिषिञ्चन्तु सोमपत्न्यः समागताः ॥ मृगी च मृगमन्दा¹ च श्वेता भद्रासना हरिः । पूता च कपिला दंष्ट्रा सुरसा² सरसा तथा ॥ एताः पुलस्त्यपत्न्यस्त्वामभिषिञ्चन्तु पार्थिव । श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री तथा शुकी ॥ पत्न्यस्त्वामभिषिञ्चन्तु अरुणस्यार्कसारथेः । १ मृगचर्मा इत्यपि पाठः । २ सुरभा सुलभा इत्यपि पाठः ।

विष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९ आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥ एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः । उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥ गौरी शिवा च बुद्धिश्च वलया चैव नन्दना । आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । महाकालश्च कालश्च मन्वन्तरयुगानि च ॥ संवत्सराणि सर्वाणि तथा चैवायनद्वयम् । ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥ सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च । एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥ आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः । ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥ स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा । औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ । धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥ एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश । विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥ मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ । वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥ एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश । रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥ वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः । १ सुशान्तः सुसुखी इत्यपि पाठः ।