अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
तत् कथं पञ्चमाहुतावेवान्यथा भवेत्। तस्मादानन्तर्यात् पुरुषाहुतिर्नान्नम्, रेतःसि-
ग्योगः। योगशब्देनात्रापि अन्याधिष्ठानेन रेतःसिग्योगाभावः ॥ २६ ॥
इति तृतीयाध्याये प्रथमपादे सप्तमं रेतःसिग्योगाधिकरणम् ॥ ७ ॥
भाष्यप्रकाशः।
तस्मान्नस्य रेतोभावो योनौ नियमेन सेकश्च पुत्रमन्थब्राह्मणोक्तरीत्या भवतीति सुखेन पूर्वोक्तदो-
षनिरास इत्यर्थः। कथमित्यादि। भवत्वन्यत् सर्वम्, तथापि पुरुषशब्दमात्रेण सर्वस्यान्नस्य
रेतस्त्वं कथं प्राप्यत इत्याकाङ्क्षायामाहेत्यर्थः। सिद्धमाहुः तस्मादित्यादि। अन्नपदोत्तरं
किन्त्विति शेषोऽध्याहार्यः। तथाच पुरुषाग्नौ आहुतिर्नान्नम्, किन्तु रेतःसिचि योऽन्नयोगः
सेत्यर्थः। ननु भवत्वेवमाहुतिसिद्धिः, तथापि पूर्वाधिकरणेनान्नेऽन्याधिष्ठानस्य साधितत्वात्
तज्जन्ये रेतस्यपि तत्सम्भव इत्याशङ्क्य तत्र तदभावमाहेत्याहुः योगशब्देनेत्यादि। तथाच तत्रैक
रश्मिः।
तेन ज्ञानोपयोगिदेहत्वेन इन्द्रियदेवत्वेन कार्यकारणभाव उक्तः। तत्र देवापेक्षेत्युक्तत्वात्तन्नेत्रस्य होम
इत्यर्थात् ज्ञानोपयोगिदेहत्वेन इन्द्रियदेवकृतहोमत्वेन कार्यकारणभावो वा। एतेन तथा सतीत्याद्यार्थो
जातः। अतः परं न कोपि व्यभिचार इति भाष्यसिद्धार्थः। तस्य देवैर्हुतस्यान्नस्यार्थात् देवकृतहोमस्य
रेतोभावः, न पुरीषभावः। पुरीषस्य ज्ञानोपयोगिदेहत्वाभावात्। योनाविति। धौतवाससो ज्ञानो-
पयोगिदेहानुपयोगात्। योनौ नियमेन सेकश्चेत्यर्थः। पुत्रमन्थेति। बृहदारण्यके ‘एषां वै भूतानां
पृथिवी रस’ इत्यारम्भकं पुत्रमन्थब्राह्मणम्। तदुक्तरीतिः। ‘एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽ-
पामोषधयः ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेत’ इति श्रुत्युक्ता तयान्नस्य
रेतोभावः पुरुषेऽन्नाहुतिद्वारा। तथा ‘स ह प्रजापतिरीक्षांचक्रे। हन्तास्मै प्रतिष्ठां कल्पयानीति।
स स्त्रियꣳससृजे, ताꣳसृष्ट्वाध उपास्ते’ इति श्रुत्युक्ता तया। योनौ नियमेन सेकश्च भवतीति सुखेन,
रेतस्त्वेन अन्नत्वेन कार्यकारणभावः, न पुरीषत्वेन अन्नत्वेन, अश्रुतत्वात्। अतएव विहितकर्तॄणां सा-
त्त्विकानां नियमेन योनौ सेकः, न (धौतवा)ससि। यथा ‘पुत्रे कृष्णप्रिये रति’रित्याचार्याः। पूर्वोक्तेति।
भाष्ये। न कोपि पूर्वोक्तो व्यभिचारः। स व्याख्यातस्तथा सतीत्यादिभाष्यविभागे पूर्वम्। किन्तु
रेतःसिचीति। तेन रेतःसिचि योग इति विगृह्य सप्तमीति योगविभागात् ‘सह सुपे’ति वा समासः।
तथा च रेतःसिचि योगः रेतः सिञ्चतीति रेतःसिच् कर्तरि क्विप्। किञ्च, रेतःसिच्यन्नयोगः रेतःसिक्पु-
रुषेऽन्नहोमात् अन्नयोगः। किञ्च, अन्नस्य विकारोऽन्नमय इति योगः। ‘द्व्यचश्छन्दसी’ति सूत्राद्विकारे
मयट्। अन्नमयत्वं ‘स एषोऽन्नरसमय’ इत्यत्र पुरुषे प्रसिद्धम्। सेत्यर्थ इत्यर्थः। किञ्च, भाष्यप्रकाशे
पूर्वोक्तः शङ्काग्रन्थोक्तो दोषस्तस्य निरास इत्यर्थः। पुरुषशब्देति। भाष्यीयचकारादन्नशब्देन
च। इत्यर्थ इति। अग्रे भाष्ये। अथेत्यानन्तर्य इत्याहुः अथेति। पुरुषशब्दमात्रेणान्नश-
ब्देन च तदानन्तर्यात्सर्वस्यान्नस्य रेतस्त्वं ज्ञायते, ज्ञाप्यते यो यदनन्तरं जायते, स तस्य कार्यमिति।
एवेति। ‘आपः पुरुषवचसो भवन्ती’ति श्रुतेरेवकारः। तत्कथमिति। तच्छरीरपञ्चमाहुतौ। अन्यथा
छान्दोग्ये गर्भत्वेन बृहदारण्यके पुरुषत्वेन च कथं भवेदिति प्रश्नः। पञ्चमाहुतौ ‘देवा रेतो जुह्वति तस्या
आहुतेर्गर्भः सम्भवती’ति छान्दोग्ये। बृहदारण्यके तु ‘तस्या आहुतेः पुरुषः सम्भवती’ति। एवकारोऽ-
न्याहुतिव्यवच्छेदकः। सिद्धमिति। सूत्रार्थं वदन्तः सिद्धमाहुः अन्नेऽन्येति। अन्नेऽन्येषां जीवानां अधि-
ष्ठानं स्थितिः तस्य। तत्सम्भव इति। अन्येषां जीवानां स्थितिसम्भवः। तन्न रेतसि। तदभावं
अन्यजीवस्थित्यभावम्। तत्रेति। रेतसि। योगशब्देनेत्यादीति। रेतःसिक्शब्देन चारितार्थ्ये सूत्रे
हूयमानं निरूप्य फलं निरूपयति । 'तस्या आहुतेर्गर्भः सम्भवती'त्युच्यते ।
तत्र सन्देहः । योनावन्तःस्थितमेव फलम्, बहिर्निर्गतं वेति । तत्र गर्भशब्देना-
न्तःस्थित एव । शरीरपरत्वे श्रुतिबाधः स्यात् । उपसंहारोप्यग्रे कर्तव्याभावादुप-
पद्यते । ततश्च षण्मासानन्तरं गर्भे ज्ञानसम्भवाज्जननानन्तरं न गुरूपसत्त्यादि
कर्तव्यमित्याशङ्क्य, परिहरति । योनेर्निर्गतं शरीरं गर्भशब्देनोच्यते । अग्रेरुत्पत्ति-
भाष्यप्रकाशः।
एव जीवः शुद्धस्तिष्ठति, न त्वन्योपि। अन्यथा बहव एव श्वादिवदुत्पद्येरन्, नत्वेक इत्यर्थः ॥२६॥
इति सप्तमं रेतःसिग्योगाधिकरणम् ॥ ७ ॥
योनेः शरीरम् ॥२७॥ सूत्रप्रयोजनमाहुः हूयमानमित्यादि । उपसंहार इति । 'इति
रश्मिः।
योगशब्दस्य किं प्रयोजनमित्यत उक्तं योगशब्देनेति । रेतःसिचि योग इति योगशब्देन । अन्ना-
पीति । रेतस्यपि । अन्याधिष्ठाने अन्येषां जीवानामधिष्ठाने रेतःसिग्योगाभावो न । अयमर्थः । रेतः-
सिक्शब्दो रूढः । 'रूढिर्योगमपहरती'ति प्रसिद्धेर्नैयायिकानाम् । तेन रेतःसिक्शब्दः एकजीवयुक्त-
रेतसि रूढः, सोऽन्याधिष्ठाने रेतसि सति पुरुषे न प्रवर्तते । अतोऽनेकजीवयुक्तोजः सिचि प्रवृत्त्यर्थं योग
आदर्तव्यः । अवयवशक्तिरूपः । तथाच रेतःसिग्योगाभावो न अनेकजीवयुक्तरेतःसिचि । अतो यमले
ज्ञानोपयोगिदेहसत्त्वान्नाहुत्यनुपपत्तिः । ननु 'रूढिर्योगमपहरती'त्युक्तमिति चेत् । न । वेदान्ते योगः, वेदे
योगरूढिरिति मीमांसाकारिकायामुक्तत्वेन नात्र तत्प्रवृत्तिरिति । तथा च सूत्रार्थः । रेतःसिग्योगः अथेति
द्विपदमिदं सूत्रम् । रेतःसिक्शब्दो यौगिकः, न रूढः, यमले ज्ञानोपयोगिदेहवति पुरुषाभ्याहुत्यप्रवृ-
त्तिप्रसङ्गात् । अतो रेतःसिचि योगः रेतःसिग्योगः । अथेत्यानन्तर्ये प्रसिद्धः । रेतःसिग्योगः पुरुषे ।
आनन्तर्यं रेतसि । पुरुषहुतान्नस्य रेतोभावश्रुतेः । 'पुरुषो वाव गौतमाग्नि'रित्यपक्रम्य 'देवा अन्नं
जुह्वति तस्या आहुते रेतः सम्भवती'ति श्रुतिः । 'तर्काप्रतिष्ठान'सूत्रेणानुमानस्याभावात् शब्दार्थयोर्वैयधि-
करण्यम् । 'केचिदत्र जन्मादिसूत्रमनुमानमिति वर्णयन्ती'ति भाष्ये केचित्पदात् । तथा च अथ पुरुषा-
ज्ञानन्तर्यात् रेतसि पुरुषे रेतःसिचि योगः, न रूढिरित्यर्थः । अत्र पञ्चमाहुतिर्विषयः । तत्र गर्भः फलं
पुरुषो वेति श्रुतिद्वयबीजे संशये । यद्वा । पुरुषेऽन्नहोमो रेतःसिचि वेति श्रुतिसूत्रबीजे संशये । पूर्व-
संशये तु गर्भ एव कारणत्वात्पुरुषोऽपीति पूर्वपक्षे, उभये फले श्रुतत्वादिति सिद्धान्तः । पुरुषेऽन्नहोमः
श्रुतत्वान्न तु रेतःसिचि सौत्रत्वादिति पूर्वपक्षे, रेतःसिगिति सिद्धान्तः ॥ २६ ॥ इति सप्तमं रेतः-
सिग्योग इत्यधिकरणम् ॥ ७ ॥
योनेः शरीरम् ॥ २७ ॥ हूयमानमित्यादीति । अन्नरूपं रेतोरूपं च । एवेति । दर्शना-
दित्येवकारः । श्रुतीति । 'गर्भः संभवती'ति श्रुतिबाधः । पूर्वपक्षसत्त्वाद्बाधशब्दः । पूर्वपक्षिणो हि
श्रुत्योर्विरोधे विकल्पस्य मानवस्सास्फूर्तेः । अर्थवादत्वात् । षण्मासेति । तदनन्तरं नवमे मासि ।
'अथ नवमे मासि स सर्वलक्षणज्ञानसंपूर्णो भवती'ति श्रुतेः । कुत उच्यत इत्यतो बृहदारण्यकसंग्रहा-
दित्याहुः अग्रेरिति । योषारूपात् । एवकारो बृहदारण्यके 'तस्या आहुतेः पुरुषः सम्भवती'ति श्रुतेः
गर्भपुरुषपदवाच्यशरीरेतरव्यवच्छेदकः । गर्भपुरुषरूपस्य फलरूपत्वात् । अग्रेरुत्पत्तिरित्यस्यैव फलतारूपत्वे-
६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७.
तस्यैव फलरूपत्वात् । मध्यभावस्याप्रयोजकत्वात् । मातृपरिपाल्यत्वाय गर्भ-
वचनम् । कललादिभावे पुरुषवचनत्वाभावादुपसंहारानुपपत्तिश्च । शरीरशब्देन
वैराग्यादियुक्तः सूचितः । न तु स्वयं तदभिमानेन जात इति । तस्मात्
भाष्यप्रकाशः ।
तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'त्युपसंहारः । मध्यभावस्याप्रयोजकत्वादित्यनेन
गार्भिकज्ञानित्वस्याप्यप्रयोजकत्वं संगृहीतम् । उत्पत्तिसमये वैष्णव्या मायया तस्य ज्ञानस्य तिरो-
धानात् । शरीरपरत्वे गर्भश्रुतिबाधं परिहरन्ति मातृरित्यादि । उपसंहारानुपपत्तिं पूर्वपक्षिमते
बोधयन्ति कलिलेत्यादि । शारीरशब्देनेति । शीर्यत इति शरीरमिति निरुक्तेन तेनेत्यर्थः ।
अधिकरणार्थनिगमनेनैतत्पादार्थमपि निगमयन्ति तस्मादित्यादि ॥
अत्रैतद्बोध्यम् । रंहतिसूत्रे 'प्रश्ननिरूपणाभ्या'मित्यनेन पञ्चाग्निविद्यैव विषयत्वेनादृता ।
पादान्ते च 'योनेः शरीर'मिति सूत्रेण 'पुरुषवचसो भवन्ती'ति पञ्चमाहुतिफलमेव विचारितमिति
स्पष्टं प्रतीयते । श्रुतौ च मध्ये यन्मार्गादिकं प्रश्नान्तरोत्तरत्वेनोक्तम्, तत्सर्वं पञ्चाग्निविद्याशेष-
त्वेनैव, मुख्या तु पञ्चाग्निविद्यैवेति 'य एतान् पञ्चाग्नीन् वेदे'त्युपसंहारात् तस्य फलसंबन्धाच्चाव-
गम्यते । एतस्य पादस्य मुख्यतया ज्ञानोपयोगिदेहप्राप्तिप्रकारविचारार्थता, न तु वैराग्योत्पादन-
रश्मिः ।
दकलात् । गार्भिकज्ञानित्वस्यापीति । अपिना गर्भपुरुषयोर्मध्यभावस्य । गार्भिकज्ञानं तृतीयस्कन्धे
प्रसिद्धम् । अप्रयोजकत्वं पञ्चाग्निविद्यायामपि । किञ्च, गार्भिकज्ञानित्वम् । 'ऋतुकाले प्रयोगादेकरात्रोषितं
कललं भवती'त्युपक्रम्य 'जातश्वाहं मृतश्चैव जन्म जन्म पुनः पुनः । यन्मे परिजनस्यार्थे कृतं कर्म
शुभाशुभम् । एकाकी तेन दह्नेऽहं गतास्ते फलभागिनः । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये महेश्वरम् ।
अशुभक्षयकारकं परमुक्तिप्रदायकम् । यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये नारायण'मिति गर्भोपनिषच्छ्रु-
त्योक्तम् । वैष्णव्येति । 'अथ योनिद्वारं संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु
वैष्णवेन वायुना संस्पृष्टः तदा न स्मरति जन्ममरणानि न कर्म शुभाशुभं विन्दती'ति गर्भोपनिषच्छ्रुतेः ।
तस्येति । गार्भिकस्य । शरीरेति । बृहदारण्यकोक्तपुरुषरूपफलपरत्वे । गर्भेति । गर्भश्रुतिविकल्पं
परिहरन्ति । बाधबाधोऽत्र बाधशब्दार्थः । कललेत्यादीति । 'एकरात्रोषितं कललं भवति सप्तरात्रोषितं
बुद्बुदं अर्धमासाभ्यन्तरे पिण्डं मासाभ्यन्तरे कठिनं मासद्वयेन शिर' इत्यादिश्रुतेः । कललं शुक्रशोणित-
मिश्रितम् । बुद्बुदं वर्तुलाकारम् । पिण्डं पेशीमांसपिण्डाकारम् । तेनेति । सूत्रेण । भाष्ये । नत्विति ।
देहशब्दाभावात्सूत्रे । तदभीति । शरीराभिमानोपचयेन । 'दिह उपचये' । पचाद्यच् । प्रकृते ।
निगमनेनेति । पञ्चम्यन्तघटितत्वेन तथा । तस्मात्पर्वतो वह्निमानिति निगमनवत् । तस्मादित्यादीति ।
साधनेति । 'अग्नयो हरन्ती'ति श्रुतेरग्निहोत्रादिसाधनं होमश्च साधनं तत्सहित इत्यर्थः । अधिकरणा-
र्थोऽयम् । ब्रह्मज्ञानमिति पादार्थः । 'तत्र प्रथमे पादे ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् ।
पञ्चाग्निविद्यैवेति । तन्निष्ठादेवकारोऽन्यव्यवच्छेदकः । । एवेति । पुरुषशरीरयोः पर्याय-
त्वादेवकारोऽन्ययोगव्यवच्छेदकः । 'यद्य इत्थं विदु'रित्याद्युक्तार्चिरादिमार्गत्रयं यमगतिमित्येतेषां योज-
नामाहुः श्रुतौ चेति । प्रश्नेति । पञ्चाग्निविद्याप्रश्नेतरप्रश्नाः 'वेत्थ यदितोऽधि प्रजाः प्रयन्ती'त्याद-
यश्चत्वारः । तदुत्तरत्वेन । एवेति । तन्मध्यपातिनां तच्छेषत्वमिति नियमादेवकारः । एवेत्यीत्युक्तैवका-
रसार्थक्यायाहुः य एतानिति । फलेति । 'य एतान् पञ्चाग्नीन्वेद न सह तैरप्याचरन् पाप्मना लिप्यते
1604
मात्रार्थतेति प्रथमसूत्रव्याख्यान एव व्युत्पादितम् । श्रुतावपि 'य इत्थं विदु'रित्यत्र 'य एतानेवं
पञ्चाग्नीन् वेदे'त्यत्र च 'शुद्धः पूतः पुण्यलोको भवती'त्यनेन ब्रह्मप्राप्तिरेव फलत्वेन प्रतिपादिता ।
वैराग्यं तु मध्ये धूममार्गव्युत्पादने 'अतो वै खलु दुर्निष्प्रपतर'मित्यादिना तृतीयस्थानव्युत्पादने
च 'तस्माज्जुगुप्सेते'त्यनेनोक्तम् । तथा सति तयोः पथोर्ज्ञानस्यैव फलम् । तदत्र ब्रह्मज्ञानोपकार-
कत्वेनोक्तम् । आहुतीनां यथाज्ञानोपयोगः, तदपि प्रागेवोक्तम् । इयं च मर्यादामार्गीया व्यवस्था ।
पुष्टिमार्गे तु पञ्चाहुतिनियमाभाव इत्यपि 'न तृतीय' इति सूत्रे साधितम्, अतो वैराग्यमात्रार्थत्वं
पादस्य यदुच्यते परैः, तदप्रयोजकम् ।
एवमनुशयाधिकरणे फलानुशयो यत्राङ्गीक्रियते, तदपि तथेत्यपि तत्रैव व्युत्पादितम् ।
अनिष्टादिकारिणामित्यधिकरणं तु सर्वैर्दशसूत्रमङ्गीक्रियते । तत्र सर्वेषां न चन्द्रगतिरिति
सिद्धान्तस्तु समानः । न तृतीय इत्यादिसूत्रचतुष्टयं तु तृतीयस्थानेऽन्यत्र च पञ्चाहुतिनियमाभाव-
बोधकम् । तत्र न तृतीये स्थाने आहुतिसंख्यानियम आदर्तव्यः । कुतः । तथोपलब्धेः । आहुति-
संख्यानियमं विनैव 'जायस्व म्रियस्वे'त्युक्तप्रकारेण तृतीयस्थानोपलब्धेः । किञ्च । 'पञ्चम्यामाहु-
तावापः पुरुषवचसो भवन्ती'ति मनुष्यशरीरहेतुत्वेनाहुतिनियमः सङ्गीर्यते, न कीटपतङ्गादिशरीर-
हेतुत्वेन । पुरुषशब्दस्य मनुष्यजातिपरत्वात् । अपि च । पञ्चम्यामाहुतावापां पुरुषवचस्त्वमुपदिश्यते,
न त्वपञ्चम्यां तन्निषिध्यते । वाक्यभेदप्रसङ्गात् । अतो येषामारोहावरोहौ संभवतः, तेषां पञ्चम्यां
शुद्धः पूतः पुण्यलोको भवति य एवं वेदे'ति श्रुत्युक्तफलसम्बन्धात् । एवेति । अन्यसूत्रव्याख्यान-
व्यवच्छेदकः एवेति । पुण्यलोक इति । पुण्यः पुण्यसाध्यो लोकोऽस्येति व्याख्यायाम् । ब्रह्म-
प्राप्तिरेवेति । लोको ब्रह्मलोकः । 'मुख्ये कार्यसम्प्रत्ययात्' । अत उक्तं ब्रह्मप्राप्तिरिति । एवकारस्तु
'ब्रह्मज्ञानौपयिकं जन्म विचार्यत' इति भाष्यात् । तृतीयेति । 'जायस्व म्रियस्वे'ति श्रुत्युक्तम् ।
तथा सतीति । वैराग्यब्रह्मज्ञानयोर्निरूपणीयत्वे सति । तदिति । वैराग्यम् । तयोः धूमतृतीयमार्गयोः ।
ज्ञानस्यैवेति । 'य एवं वेदे'ति श्रुत्युक्तज्ञानस्य । एवकारेण ब्रह्मज्ञानं न खसाधनवैराग्येण फलं भव-
तीत्यर्चिरादिमार्गज्ञानं व्यवच्छिद्यते । तदत्रेति । वैराग्यमत्र पञ्चाग्निविद्यायां साधनचतुष्टयान्तर्गतत्वा-
द्ब्रह्मज्ञानेत्यादिः । प्रागेवेति । प्रथमसूत्रे एवकारोऽन्ययोगव्यवच्छेदकः । परैरिति । शङ्कररामानुजप्र-
भृतिभिः । तथाच भाष्यम् । 'प्रथमे तावत्पादे पञ्चाग्निमाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः ।
'तस्माज्जुगुप्सेते'ति चान्ते श्रवणात् ।' 'उपासनारम्भाभ्यर्हितोपायश्च प्राप्यवस्तुव्यतिरिक्तवैतृष्ण्यं प्राप्य-
तृष्णा चेति तत्सिद्ध्यर्थं जीवस्य लोकान्तरेषु संचरतो जाग्रतः स्वपतः सुषुप्तस्य मूर्च्छतश्च दोषाः परस्य
च ब्रह्मणस्तद्रहितता कल्याणगुणाकरता च प्रथमद्वितीयपादयोः प्रतिपाद्यत' इति च भाष्यान्तरम् ।
तथेति । अप्रयोजकम् । तत्रैवेति । एवकारेणेतरयोगो व्यवच्छिद्यते । न चन्द्रगतिरिति । 'ये वै के
चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतेः सुकृतिविषयत्वात् पापिनां न चन्द्रगतिरिति
सिद्धान्तस्तु समान इति । परन्तु सूत्रचतुष्टयार्थासङ्गतिरिति भावः । तामेवाहुः न तृतीयेति ।
तृतीयं स्थानमुक्तम् । अन्यत्रेति । अर्चिरादिमार्गे धूममार्गे च । इत्युक्तेति । इति छान्दोग्योक्तप्र-
कारेण । वाक्यभेदेति । वाक्यस्य द्व्यर्थताप्रसङ्गात् । 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो
भवन्ति,' नत्वपञ्चम्यां भवन्तीति वाक्यस्य द्व्यर्थता वाक्यभेदरूपा । आरोहेति । 'ते धूममभिसम्भवन्ति
धूमाद्रात्रि'मित्याद्यारोहः । 'तस्मिन्द्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्त' इत्यवरोहः । 'अपि
७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० १ अ० ८ सू० २७.
भाष्यप्रकाशः।
देहोद्भवः । अन्येषां तु विनैव संख्यां भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते । अपि च । द्रोणधृष्टद्यु-
म्नसीताद्रौपदीप्रभृतीनां चायोनिजत्वं स्मर्यते । द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति । धृष्टद्युम्नादीनां
तु योषित्पुरुषविषये द्वे न स्तः । तत्र यथा संख्यानादरः, तथान्यत्रापि ज्ञेयः । बलाकापि रेतःसिचं
विनैव गर्भ धत्त इति लोकरूढिः । अपि च । चतुर्विधे भूतग्रामे स्वेदजोद्भिज्जयोरुत्पत्तिर्ग्राम्यधर्मं विनैव
दृश्यत इत्येवं सूत्रत्रये व्याख्याय, छान्दोग्ये 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं
जीवजमुद्भिज्ज'मिति भूतग्रामत्रैविध्यश्रावणात्, कथं चातुर्विध्यमित्याकाङ्क्षायाम्, 'तृतीयशब्दावरोधः
संशोकजस्ये'ति सूत्रं लिखित्वा, 'आण्डजं जीवजमुद्भिज्ज'मित्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोप-
संग्रहो ज्ञेयः । स्वेदजोद्भिज्जयोर्भूम्युदकोष्मप्रभवत्वेन तुल्यत्वादिति व्याकुर्वन्ति ।
तदपि तथा । पञ्चाग्निविद्यायाः पुरुषशरीरभवनं प्रकृत्यैव प्रवृत्ततया तृतीयस्थाने आहुति-
शङ्काया एवानुदयेन तत्र समाधेरपेक्षैव नेति सूत्रवैयर्थ्यप्रसङ्गात् । किञ्च, आहुतिनियमस्य बहुषु
व्यभिचारेण तासामाहुतीनां कैमर्थ्याकाङ्क्षायां तद्विषयविचारे धूममार्गीयाः सर्वे तु न संभवन्तीति
तदाकाङ्क्षापूरणाभावादपि ग्रन्थशैथिल्यम् । संशोकजशब्देन स्वेदजग्रहणमपि न रोचिष्णु । ईदृश-
शब्दप्रयोगे प्रयोजनाभावादिति ।
रश्मिः।
स्मर्यत' इति सूत्रार्थमाहुः अपिचेत्यादिना । स्मर्यते इति । यथा '
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७१
भाष्यप्रकाशः।
तथा, साभाव्यापत्तिसूत्रे, समानो भावो रूपं येषां ते सभावाः । तेषां भावः साभाव्यं
सारूप्यमिति वाचस्पतिव्याख्यानमप्ययुक्तम् । भावशब्दे परे समानपदस्य सादेश इत्यत्र पाणि-
नीयानुशासनादर्शनात् ।
रामानुजाचार्यभास्कराचार्याभ्यां तु स्वाभाव्यापत्तिरित्येवं सूत्रपाठो भेद्यते ।
मध्वाचार्यैस्तु तद्भावापत्तिरित्येवं भेद्यते ।
तन्मतं तु न मयानूद्यते । अप्रसिद्धश्रुत्युदाहरणेन मिन्नविधत्वादिति ।
भिक्षुस्तु, कृतात्ययसूत्रादारभ्य संशोकजस्येत्यन्तं चतुर्दशसूत्रमेकमधिकरणं जीवावरोह-
प्रतिपादकमङ्गीकृत्य, कृतात्ययादिसूत्रचतुष्टये कर्मशेषरूपमनुशयम्, अनिष्टादिकारिणामित्यादि-
सूत्रचतुष्टये प्रयतां सर्वेषां चन्द्रमण्डलगमनं सूर्यमण्डलस्यदेवैस्तेषां भक्षणम्, न तृतीय इति सूत्रे
च, यथोक्तारोहावरोहौ स्वर्गिनारक्यपेक्षया तृतीये यूकादिजीवे न स्तः । कुतः । तथोपलब्धेः ।
'अथैतयोः पथोर्न कतरेणचन तानीमान्यसकृदावर्तीनि क्षुद्राणि भूतानि भवन्ति जायस्व
म्रियस्वे'त्येतत् तृतीयं स्थानम् । तेनासौ लोको न संपूर्यते । 'तस्माज्जुगुप्सेते'ति छान्दोग्यश्रुतौ
आरोहावरोहाभावोपलब्धेरित्येवं व्याख्याय, अग्रिमसूत्रद्वयव्याख्यानेऽन्येषामप्यारोहाभावं साध-
यित्वा, श्रुतौ या पञ्चाग्निक्रमेण भूतानामुत्पत्तिः, साप्युत्सर्गाभिप्रायेत्युक्तवान् । संशोकजपदं च
सर्वव्याख्यातवान् ।
रश्मिः।
योजनवती सेति । पाणिनीयेति । अयमाशयः । समानस्य सादेशे प्रकारद्वयं संभावितम् । 'समानस्य
छन्दस्यमूर्धप्रभृत्युदकेषु' इति सूत्रे समानस्येति योगविभागेन सादेशः । यथा सपक्षः साधर्म्यमित्यादि ।
अथवा । 'ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुष्वि'ति सूत्रे रूपशब्दस्यार्थपरत्वमङ्गी-
कृत्य सादेश इति । तदसङ्गतम् । योगविभागस्य भाष्यानुक्तत्वादिति स्थितं शेखरे । अतएव सपक्षः
साधर्म्यमित्यत्र सदृशवचनस्य सहशब्दस्य सादेश इति दीक्षिताः । एवं द्वितीयसूत्रेपि रूपपदस्यार्थपरत्व-
मप्यन्यैर्न स्वीकृतमिति । अत उक्तं पाणिनीयानुशासनादर्शनादिति । तत्त्वं त्वेतत् । समानो भावो
येषामित्यस्वपदविग्रहं स्वीकृत्य सदृशवाचकस्य सहशब्दस्य 'वोपसर्जनस्ये'ति सूत्रेण सादेशे सत्त्वे ष्यञि
च कृते साभाव्यमिति सिध्यतीति व्याख्यानान्तरमेतदिति । को विशेष इति चेदुच्यते । साभाव्यापत्ति-
रित्यस्य तन्मते आहुतावाकाशसाम्यापादनमित्यर्थो भवति । आपत्तिशब्देन तस्यैवार्थस्य प्रतीतेः । स
चासङ्गतः । सादृश्यापादनस्याविवक्षितत्वात् । यद्यप्यापत्तेः प्रापणमप्यर्थः, तथाप्यवक्तव्यः । असमर्थत्वा-
द्विरुद्धमतिकृत्वाच्च । 'तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संप्रति सादर'-
मित्यत्र गमनार्थे हन्तीतिवत् । 'सुधाकरकराकारविशारदविचेष्टितैः । अकार्यमित्रमेकोऽसौ तस्य किं वर्ण-
याम्यह'मित्यत्राकार्यमित्रमितिवच्च । अत्र कार्यं विना मित्रं मित्रमिति विवक्षितम् । अकार्येषु मित्रमिति
प्रतीतिः । तस्मादस्मदुक्तमेव साधीयः । किञ्च, अस्वपदविग्रहस्वीकारोपि समस्यमानयावत्पदघटितत्वस्य
विग्रहेऽभावेन मुख्यलक्षणानाक्रान्तत्वात् यथाकथञ्चित् अस्वपदविग्रहोऽत्र वक्तव्यः । तदपेक्षयाऽसमस्त-
त्वेन व्याख्यानमेव ज्याय इति । अत एव न बहुव्रीहेस्तादृशनित्यत्वमिति शब्दरत्नकारः । सूत्रपाठ
इति । भिद्यते स ताभ्यां भेद्यते । ण्यन्ताद्यङ् । तद्भावेति । पुस्तकान्तरे तु तत्स्वाभाव्यापत्तिरिति
पठ्यते । व्याख्यानं तु तद्गतौ गतिः, तत्स्थितौ स्थितिरित्येव तद्भावापत्तिरिति । अप्रसिद्धेति । पुस्तका-
न्तरे तु 'धूमो भूत्वाभ्रं भवती'ति श्रुतिरुदाहृता । प्रयतामिति । प्रयाणं कुर्वताम् । अन्येषामिति ।
1607
७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ८ सू० २७
योग्यदेहः साधनसहितो ब्रह्मज्ञानार्थं निरूपितः ॥ २७ ॥
इति तृतीयाध्याये प्रथमपादेऽष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥
भाष्यप्रकाशः ।
तत्र प्रयतां सर्वेषां चन्द्रगत्योक्ता, सा न युक्ता । प्रयाणस्य मरणरूपत्वेन क्षुद्रजन्तुष्वपि
तुल्यतया तेषामप्यारोहाद्यापातात् । तेषामसकृदावृत्तिश्रुत्या निवारणे कौषीतकिश्रुतिस्थसर्वपदस्य
सङ्कोचार्हताया आवश्यकत्वे अनिष्टाधिकारिणामपि 'वैवस्वते विविच्यन्ते' इति श्रुत्या वारणादिष्टा-
दिकारिपरतया संकोचेपि बाधकाभावात् । पञ्चाग्निक्रमेणोत्पत्तेरौत्सर्गिकत्वोक्तिरपि तथा । बहुषु
व्यभिचारे औत्सर्गिकत्वस्य वक्तुमयुक्तत्वात् । संशोकजव्याख्यानमग्रिमाधिकरणस्थसाभाव्यपद-
व्याख्यानं च पूर्ववदेवासंगतम् । यत्पुनरवान्तरसृष्टेरपि ब्रह्मकर्तृकत्वप्रतिपादनार्थमयं पाद इत्युक्तम् ।
तच्चविरुद्धत्वादनुमन्यामहे ॥ २७ ॥ इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥
इति श्रीवल्लभाचार्यचरणनखचन्द्रकिरणनिवारितहृदयध्वान्तेन
पीताम्बरात्मजेन पुरुषोत्तमेन कृते ब्रह्मसूत्रभाष्यप्रकाशे
तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥ श्रीः ॥
रश्मिः ।
क्षुद्रादिजीवानाम् । निवारण इति । चन्द्रगतिनिवारणे । चन्द्रगतावसकृदावृत्त्यभावात् । कौषी-
तकीति । 'ये वै के चास्माल्लोकात्प्रयान्ति चन्द्रमसमेव ते सर्वे गच्छन्ती'ति श्रुतिः । वारणादिति ।
चन्द्रगतिवारणात् । सङ्कोच इति । विपरीतलक्षणया संकोचे । यथा 'बहूपकृतं त्वये'त्यपकारिणि
लक्षणया बहूपकृतपदसंकोचः । औत्सर्गिकत्वेति । साप्युत्सर्गाभिप्रायेणेति ग्रन्थेन पूर्वमुक्ता । बहु-
ष्विति । 'सदेव सोम्येदमग्र आसीत्' 'तस्माद्वा एतस्मादात्मनः' 'तदात्मानं स्वयमकुरुते'त्यादिषु ।
शङ्करैः प्रथमाधिकरणे बीजैः सम्परिष्वक्त एव गच्छतीति साधितम् । द्वितीये सानुशया अवरोहन्ति ।
तृतीये पापिनां स्वर्गे गमनाभावः । चतुर्थे धूमादिभावो धूमादिभिः सम्बन्धः । पञ्चमे व्रीह्यादिभावा-
न्निर्गमो दुष्कर इति विलम्बः पूर्वं त्वरेति । षष्ठे स्वर्गादवरोहतां व्रीह्यादौ संश्लेषमात्रमिति । सिद्धान्ते तु
प्रथमे सफला प्रथमाहुतिः । द्वितीये द्वितीयाहुतिः सफला । तृतीये पुष्टिमार्गीयाणां मर्यादामार्गीयाणां
च सोमभावः, न सर्वेषाम् । चतुर्थे मर्यादायामेव पञ्चमाहुतिः निरोधलक्षणग्रन्थोक्तकर्तॄनुमेया । तस्या
नियमः । न पुष्टौ । 'जायस्व म्रियस्वे'ति मार्गस्य यममार्गप्रवेशश्च । पञ्चमे तृतीयाहुतिः सफला ।
षष्ठे संस्कारेणाङ्गशुद्धिः । सप्तमे रेतसः पुरुषभावः । अष्टमे बहिर्निर्गतस्यैव पुरुषत्वमिति ॥ २७ ॥
इत्यष्टमं योनेः शरीरमित्यधिकरणम् ॥ ८ ॥
इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण
सम्पूर्णविद्या विट्ठलरायजीदौहित्रीयगोकुलोत्सवजिदात्मजगोपेश्वरजिता
कृते भाष्यप्रकाशरश्मौ तृतीयाध्यायस्य रश्मौ
प्रथमपादः सम्पूर्णतामगमत् ॥ ३ ॥ १ ॥
इति श्रीकृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीये उपनिषदां बोधकताप्रकारनिरूपके साधनाध्याये
अधिकारिजन्मनिर्धारो नाम प्रथमः पादः ॥
1608
श्रीकृष्णाय नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि-
श्रीमद्वल्लभाचार्यचरणप्रणीतम् ।
दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत-
भाष्यप्रकाशसंपूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वरजि-
चरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् ।
तृतीयाध्यायस्य द्वितीयः पादः ।
'भगवद्धर्मपरायण सद्व्रत श्रेष्ठि गोवर्धनदास सुन्दरदास' इत्यस्य
पुष्टिमार्गीयसंस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंग्रहतो
'भृगुपुरस्थ मूलचन्द्र तुलसीदास तेलीवाला, बी. ए.,
एल्एल्. बी., वकील, हाइ कोर्ट' इत्यनेन संशोध्य
'निर्णयसागर' मुद्रणालये मुद्रयित्वा
प्रकटीकृतम् ।
श्रीवल्लभाब्दाः ४४८. संवत् १९८२.
मूल्यं मुद्रिकाद्वयम् ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है, जिस पर केवल कुछ अनपेक्षित बिंदु/दाग (scan specks) उपस्थित हैं।
श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।*
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
तृतीयोऽध्यायः ।
द्वितीयः पादः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ ( ३-२-१- )
पूर्वपादे अधिकारियोग्यदेहो निरूपितः । द्वितीये जीवस्य मुक्तियोग्यता
भाष्यप्रकाशः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादयोः सङ्गतिमाहुः पूर्वे-
त्यादि । अधिकारिणो ज्ञानोपदेशयोग्यदेहप्राप्तावपि यदि स्वरूपतो मुक्तियोग्यता न स्यात्, तदा
तादृशदेहाप्तिर्वैयर्थ्यम्, अतस्तदर्थं द्वितीयपादे सा निरूप्यते । यदि हि सा न स्यात्, उपदेशो न
स्थिरीभवेत्, अतस्तदर्थं तन्निरूपणमित्यर्थः ।
माध्वास्तु माहात्म्यज्ञानपूर्वकस्नेहस्य भक्तित्वादमुक्ते माहात्म्ये तदज्ञानेऽस्य भक्तेरप्य-
सम्भवात् तत्सिद्धये माहात्म्यप्रदर्शनायायं पाद इत्याहुः ।
तन्न माहात्म्योक्तिस्तु पूर्वमपि निराबाधा ।
भिक्षुस्तु, पूर्वस्मिन् पादे ब्रह्मणः सकाशादवान्तरसृष्टिरुक्ता । अत्र त्वेकस्मिन् देहेऽपि
खमादिसृष्टिस्तत उच्यते । तावता जन्मादिसूत्रस्थं लक्षणं विचारितं भवति । ततः स्वरूपलक्षणं
विचार्यते, ततः प्रपञ्चब्रह्मणोर्भेदाभेदावित्याह ।
तत्रापि विचारस्य कैमर्थ्याकाङ्क्षा न पूर्यते । तस्मादुक्तमेव प्रयोजनम् । ततश्चैककार्यत्वं
पादयोः सङ्गतिः । अस्या योग्यताया आन्तरत्वं च पादानन्तर्ये हेतुरिति द्रष्टव्यम् ।
रश्मिः ।
सन्ध्ये सृष्टिराह हि ॥ १ ॥ तदर्थमिति । उपदेशस्थिरीकरणार्थम् । तन्निरूपणं
स्वरूपतो मुक्तियोग्यतानिरूपणम् । तदज्ञान इति । विषयत्वेन माहात्म्याज्ञाने । कारणाभावेन ज्ञाना-
भावात् । अस्य पञ्चाग्निविद्यासाधितदेहकस्य । तत्सिद्धये माहात्म्यज्ञानसिद्धये । पूर्वमिति । पूर्व
गतपादे । तेनास्यार्थस्यातिव्याप्तिः । स्वरूपतो मुक्तियोग्यता तु दीक्षितस्य स्वेऽश्वमेधोजनादौ प्राय-
श्चित्तस्मरणात्स्वेऽश्वमेधोजनादिदोषनिवृत्त्या तादृशदोषज्ञानार्थमधिकरणारम्भः । अग्रे दोषासंसर्गे विषय-
निर्धारार्थं ब्रह्मस्वरूपविचार इति नातिव्याप्तिः । माहात्म्यज्ञानं तु श्रवणाङ्गमीमांसाफलं षोडशपा-
दानुस्यूतम् । खमादीति । आदि सुषुप्तिः । तत इति । तदनन्तरं द्वितीयपादे । तत इति ।
तदनन्तरं तृतीयपादे । तत इति । तदनन्तरं चतुर्थपादे । कैमर्थ्येति । असंदिग्धस्य स्वरूप-
लक्षणस्य सूत्रविषयस्य महता प्रबन्धेन विचारः किमर्थ इति कैमर्थ्याकाङ्क्षा । उक्तमिति । खमदो-
षज्ञानम् । एवेति । प्रयोजनद्वयनिरासादेवकारः । एककार्यत्वमिति । अविरोधस्य द्वितीयाध्या-
१० ब्र० सू० २ ०
निरूप्यते । तत्र प्रथमं स्वप्नं निरूपयति । स्वप्नस्य सत्यत्वे तत्कृतगुणदोषसम्बन्धो
जीवस्य भवेत् । ततश्च निरूपिता शुद्धिर्व्यर्था स्यात् । अतः स्वप्नस्य मिथ्यात्वं
प्रदर्शयितुमधिकरणारम्भः ।
तत्र पूर्वपक्षमाह । सन्ध्ये स्वप्ने सृष्टिराह । 'तस्य वा एतस्य पुरुषस्य द्वे एव
स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थान'मित्युपक्रम्य, 'न तत्र
रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत' इत्यादिना
सृष्टिराह । सन्ध्ये स्थाने सृष्टिरस्ति । यतः श्रुतिः स्वयमेवाह । युक्तश्चायमर्थः ।
भाष्यप्रकाशः ।
पूर्वाधिकरणविषयमाहुः तत्रेत्यादि । तत्रेति । योग्यतायां निरूप्यायाम् । ननु तथा
सति प्रथमं स्वप्ननिरूपणस्य किं प्रयोजनम्, अत आहुः स्वप्नस्येत्यादि । जीवस्येति । प्राप्तयोग्य-
देहस्यापि जीवस्य ।
शङ्करभास्कराचार्ययोर्मते तु स्वयंज्योतिष्ट्वसिद्ध्यर्थं स्वप्ननिरूपणम् ।
तत्तु मुक्तियोग्यतायामेव पर्यवस्यति ।
रामानुजाचार्यास्तु, पूर्वपादे जीवस्य कर्मगतिं प्रदर्श्य दुःखित्वं स्थापितम्, इदानीमस्य
स्वप्नावस्था परीक्ष्यत इत्याहुः ।
एवं तच्छैरोपि ।
तन्मते वैराग्यार्थतामात्रमायातीति बोध्यम् ।
प्रकृते त्वधिकरणप्रयोजनोक्त्यैव स्वप्नसृष्टिः सत्या मिथ्या वेति संशयोप्युक्त इति तम-
नुक्त्वा पूर्वपक्षमेवाहुः तत्रेत्यादि । सन्ध्यमिति । एतल्लोकपरलोकयोः सन्धौ भवम् ।
रश्मिः ।
यार्थस्य शाब्दज्ञानजननस्वभावस्य पादयोः सङ्गतिरित्यर्थः । पूर्वोक्तशाब्दज्ञानस्य ज्ञानोपयोगिदेहसाधनं
कार्यम् । तदनन्तरं किमन्यकार्यजनकत्वमिति जिज्ञासायां स्वरूपतो मुक्तियोग्यतारूपकार्यनिरूपणात् ।
एकस्य कारणस्य कार्यत्वमित्येककार्यत्वम् । पादयोस्तु प्रसङ्गः । स्वयमिति । 'अत्रात्मा स्वयंज्यो-
तिर्भवती'ति श्रुतेः । 'अत्र' स्वप्ने । तत्तु मुक्तीति । शाब्दविषयं स्वयंज्योतिष्ट्वं मुक्तियो-
ग्यतायाम् । एवेति । मुक्तेः स्वयंज्योतिष्ट्वम् । ज्योतिश्चरणाधिकरणे च ब्रह्मणः स्वयंज्योतिष्ट्वमित्ये-
वकारः । पर्यवस्येति । मुक्तियोग्यता स्वामिकदोषाभावः । तत्र स्वयंज्योतिष्ट्वं स्वयंप्रकाशत्वं स्वामिक-
दोषरहितत्वेऽभिन्नात्मत्वं विषयान्तराप्रकाशयत्वं स्वयंज्योतिष्ट्वं 'अत्रात्मे'ति श्रुतेरित्येवं पर्यवस्यतीत्यर्थः ।
तच्छौर इति । भगवच्छैवाचार्यः । वैराग्येति । जगतः कर्मगत्यधीनत्वे दुःखित्वं विषयवैतृष्ण्य-
रूपवैराग्यार्थतामात्रम् । स्वप्नावस्थापरीक्षणेन च वैराग्यमिति तथा । मात्रचा ज्ञानोपयोगिदेह-
व्यवच्छेदः । एवेति । जगद्दुःखिः सत्यत्वे बीजम्, निरूपितशुद्धिवैयर्थ्यं मिथ्यात्वे बीजमित्येवकारः ।
पूर्वपक्षमेवेति । संशयव्यवच्छेदक एवकारः ।
भाष्ये । सृष्टिराहेति । अत्र सृष्टिमाहेत्यापत्त्या तन्निवृत्तये सूत्रमेव विवृण्वन्ति स्म सन्ध्य-
इत्यादि । सूत्रे 'सन्ध्य' इत्यस्य 'स्थान' इति विशेष्यं 'सृष्टि'रित्याग्रे 'ऽस्ती'त्यस्यानुसन्धानं विभक्तिप्र-
योजकम्, तदाह सृष्टिरस्तीति । आहेत्यस्यार्थमाह पूर्वपक्षी यत इति । आहेत्यत्र श्रुतिः कर्त्री ।
एवकारः श्रुत्यन्ययोगव्यवच्छेदकः । सौत्रीहीत्यस्यार्थमाहुः युक्त इति ।
1610
यथा श्रुतिर्वदति, तथैव स्वप्ने दृश्यते । देवादिकवाक्यानां प्रबोधेपि बाधाभावात् ।
नचेयमेव सृष्टिस्तत्र दृश्यते । 'न तत्र रथा' इत्यादिना निषेधात् । श्रुतिवादिनां
भाष्यप्रकाशः।
स्वप्न इयमेव सृष्टिः सूर्यत इति नैयायिकादयो मन्यन्ते ।
तदयुक्तम् । स्वप्ने दर्शनाद्यभिमानस्य क्वचित् पश्यामीत्याद्यनुव्यवसायस्य जागरणोत्तरं चेदं
मया दृष्टमिदं भुक्तमित्यादिज्ञानस्य च बाधापत्तेः । नचेयमेव दृश्यत इत्यपि युक्तम् । स्थूलानां
गजतुरगादीनां शरीरान्तर्मातुमशक्यत्वात् । नच मिद्धामनःसंयोगे स्मृत्युपनीतमारोपितं भासत
इत्यपि युक्तम् । आरोपनियामकस्य तत्तद्वस्तुसादृश्यस्यात्मनि मिद्धायां चासिद्धत्वात् । अप्रामाणि-
कस्य तस्य कल्पने गौरवाच्च । क्षणे क्षणेऽन्यान्यदर्शनेऽन्यस्यान्यथात्वेपि नियामकाभावाच्च । नच
क्षणानामेव नियामकत्वम् । साधनान्तर
७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० २.
श्रुतिरेव प्रमाणम् । किं पुनरनुभवसंवादिनी । तस्मात् स्वप्ने सृष्टिरस्ति ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
काठके चतुर्थवल्ल्यां श्रूयते । 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मि-
माणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यत' इति निर्मातारमेके वदन्ति ।
यद्यपि 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यपि ब्रह्मप्रकरणम्, तथापि
नियतधर्मपक्षे जीव एव कर्तेति प्रतिभाति । तदर्थं निःसन्दिग्धं वचनमुदाहरन्ति ।
भगवन्निर्मितत्वात् स्वप्नस्यस्यापि सत्यत्वम् । न हि कर्तुः स्वापोऽस्ति, येन भ्रमः
भाष्यप्रकाशः।
युक्तिविरुद्धः श्रुतिविरुद्धश्चेत्याहुः नचेत्यादि । अन्यत् स्पष्टम् ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ ननु पूर्वसूत्रविषयवाक्येनैव सृष्टौ सिद्धायां पुनरेतत्सूत्र-
प्रणयनस्य किं प्रयोजनमित्यत आहुः यद्यपीत्यादि । ब्रह्मप्रकरणमिति । इति सिद्धमिति
शेषः । नियतधर्मपक्ष इत्यादि । 'कतम आत्मे'ति प्रश्ने, 'योऽयं विज्ञानमयः पुरुषः प्राणेष्वि'-
त्युपक्रम्याग्रे 'स्वयं विहत्य स्वयं निर्माये'ति कथनात्, तस्यैवाग्रे 'न तत्र रथा' इत्यादिना विवर-
णात्तस्यैवायं धर्म इति पक्षे अदृष्टद्वारा जीव एव कर्तेति प्रतिभाति । तदर्थं तन्निवृत्तये । तथाच
निःसन्दिग्धं भगवत्कृतत्वप्रतिपादनायास्य सूत्रस्य प्रणयनमित्यर्थः । एवं निर्बन्धेन प्रतिपादनस्य
फलमाह भगवदित्यादि । तथाच पूर्वस्मिन् वाक्ये 'स्वयं निर्माये'त्यनन्तरं 'प्रस्वपिती'ति स्वाप-
श्रावणादत्र तद्राहित्यश्रावणाद्भगवानेव कर्तेति लिङ्गबलात् प्रकरणात् 'तदेव शुक्र'मित्यादिवाक्य-
रश्मिः।
श्रुतीति । 'अत्रात्मे'ति श्रुतिविरुद्धः । स्वप्नविषयकज्ञानाधिकरणमात्मा स्वयंज्योतिरित्यार्थात् । स्वप्न-
मिथ्यात्वे निर्विषयकज्ञानाभावान्न ज्ञानाधिकरणत्वमात्मनः स्यात् । अन्यदिति । सृष्टिरिति । पूर्व-
पक्ष्युक्ता । एवमन्यत्स्पष्टम् ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ प्राणेष्विति । प्राणा इन्द्रियाणि । सूक्ष्मदेहे । तस्यै-
वेति । विहननस्वयंनिर्माणस्याग्रे । एवकारोऽन्ययोगव्यवच्छेदकः । तस्यैवेति । विहृत्य निर्मातुः ।
विवरणक्रियमाणसम्बन्धादेवकारः । अयमिति । 'न तत्र रथा' इत्युक्तः स्वप्नः । जीव एवेति ।
स्वयंशब्देनापि जीवपरामर्शात् पूर्वपक्षोक्तपुरुषयोगव्यवच्छेदक एवकारः । तदर्थमितिभाष्यं विवृ-
ण्वन्ति स्म तदर्थमिति । व्याख्येयम् । भाष्ये । उदाहरन्तीति । तद्विदः । प्रकृते । पूर्वस्मि-
न्निति । पूर्वसूत्रीयपूर्वस्मिन् ज्योतिर्ब्राह्मणे । प्रस्वपितीति । 'स्वेन भासा स्वेन ज्योतिषा प्रस्वपि-
ती'ति । अग्रेति । बृहदारण्यकज्योतिर्ब्राह्मणे । तत्रेति । द्वितीयसूत्रीयोत्तरस्मिन् काठके स्वापरा-
हित्यात् 'तदेवामृतमुच्यते'इत्यनन्तरं 'तदेव शुक्र'मित्यादिश्रुतेः । ननु राहित्यश्रावणं कुत्रेति चेत् । न ।
राहित्यस्य श्रावणादिति न विगृह्यसमासः, किन्तु स्वापराहित्येन 'तदेव शुक्र'मित्यादिश्रावणात् ।
तद्राहित्यपदं तद्राहित्यश्रावणे लाक्षणिकमिति समासः । तदेव 'अव्यक्तं तद्ब्रह्मे'त्याद्यपि पाठः । एवेति ।
जीवयोगव्यवच्छेदकः । कर्तेति । निर्माणकर्ता निर्माता । इति हेतोः स्वापराहित्यलिङ्गबलात् । प्रकर-
णात् । 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्र 'न तत्र रथा' इत्यत्र ब्रह्मप्रकरणात् । तदेव शुक्रमिति । बृह-
दारण्यके जीवः, काठके 'पुरुषो ब्रह्मे'ति किं ब्राह्मं तत्र । यद्वा । पुरुषः जीवो ब्राह्मः, ब्रह्म वा । तत्र
वाक्यशेषः । 'तदेव शुक्र'मित्यादिः । अत्र तद्ब्रह्मेतिपदाद्ब्रह्म ब्राह्ममित्येष वाक्यशेषः तस्मात् । नहि
1612
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७
स्यात् । 'जागर्त्ती'ति वचनात् । इच्छापूर्वकं च सर्वं सृजति । 'शतायुषः पुत्रपौत्रा'-
निति कामविषयाः पुत्रादय उक्ताः । ते च निर्मिताः परलोकसाधका इति लो-
कत्रयकल्पना । चकारद्वयेन कारणकार्यगताः सर्वे धर्मा उक्ताः । तस्माच्छ्रुत्यु-
पपत्तिभ्यां स्वप्नप्रपञ्चस्य सिद्धत्वात् तत्कृतगुणदोषसम्बन्धे पूर्वोक्तदेहनिर्माणं
व्यर्थमित्येवं प्राप्तम् ॥ २ ॥
भाष्यप्रकाशः ।
शेषाभावसीयते । अतो भ्रमाभावादपि स्वप्नसृष्टेः सत्यत्वम् । किञ्च । 'ये ये कामा दुर्लभा मर्त्य-
लोके तांस्तान् कामान् छन्दतः प्रार्थयस्वे'ति पूर्वं कामशब्दस्य कामविषयेषु प्रयुक्तत्वात् 'कामं कामं
पुरुषो निर्मिमाण' इत्यत्रापि कामपदेन तद्विषय एव लभ्यते । वीप्सया क्रियाविशेषणत्वेन वेच्छा-
पूर्वकतेत्यतोपि भगवत्
७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १ सू० ३.
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
तुशब्दः पक्षं व्यावर्तयति । स्वप्नसृष्टिर्मायामात्रम् । तत्र हेतुः । कार्त्स्न्येना-
नभिव्यक्तस्वरूपत्वात् । कृत्स्नत्वेन यस्य यादृशं स्वरूपं देशकालवस्तुसापेक्षं
तथाभिव्यक्तिः कार्त्स्न्येनाभिव्यक्तिस्तदभावात् ।
भाष्यप्रकाशः ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ सिद्धान्तं व्याकुर्वन्ति
तुशब्द इत्यादि । पक्षमिति । सत्यत्वपक्षम् । मायामात्रमिति ।
वैदिके निघण्टौ प्रज्ञानामसु 'माया, वयुनम्, अभिख्ये'ति पाठादर्थशून्यः प्रत्ययो माया,
तदात्मकमिति भास्कराचार्याः ।
मायाशब्दो ह्याश्चर्यवाची । 'जनकस्य कुले जाता देवमायेव निर्मिते'त्यादिषु तथा दर्शनात् ।
'न तत्र रथा' इत्यत्रापि सकलपुरुषानुभाव्यतया न भवन्ति । 'अथ रथान् सृजत' इत्यपि स्वप्नदृ-
गनुभाव्यतया तत्कालमात्रावसानात् सृजत इत्याश्चर्यरूपत्वमुपपद्यते । न हीदृशी सृष्टिर्जीवेन कर्तुं
शक्या । संसारदशायां जीवस्य कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वात् तादृशसामर्थ्यायोगात् । अतः
सा आश्चर्यात्मिकेति रामानुजाचार्याः ।
सिद्धान्ते तु सामर्थ्यविशेषो माया । अष्टमस्कन्धे 'नटवन्मूढ मायाभिर्मायेशान्नो जिगीष-
सी'ति । प्रथमस्कन्धे च 'अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयाम् । यया सम्मो-
हितो जीव आत्मानं त्रिगुणात्मकम् । परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यत' इति कथनात् ।
अत ईश्वरस्य या व्यामोहिका शक्तिः, सा माया प्रकृते ज्ञेया । तन्मात्रं तदेकोपादानकम् ।
तेन बाह्योपादानादिव्यावृत्तिः । कृत्स्नत्वेनेति । देशः कालो विषयसन्निधिरिन्द्रियव्यापारो
बाधाभावश्चेति कार्त्स्न्यम्, तेन । तथा चैन्द्रजालिकेन नटेन यथा सामाजिकव्यामोहेन कौतुकार्थं
मायामात्रसृष्टिः क्रियते, तथेश्वरेण जीवव्यामोहनाद्यर्थं स्वप्नसृष्टिः क्रियत इति न तस्याः
सत्यत्वमित्यर्थः ।
अत्र बहूनि मतानि ।
तत्र भास्कराचार्याः । पूर्ववासनावासितं शुभाशुभकर्मप्रेरितं नाडीषु परिवर्तमानं मनः
स्मृतिज्ञानहेतुर्भवति । स एव स्मर्यमाणोऽर्थः प्रत्ययालम्बनः । 'यान्येव जाग्रत् पश्यति, तानि
सुप्त' इति श्रुतेः । इयं च जीवसृष्टिः । सुखदुःखप्रतिभासनात् । नेश्वरस्य । 'य एष स्वप्ने महीय-
मानश्चरति एष आत्मो'ति श्रुतेरित्याहुः ।
तेन तन्मते जीवकर्तृका स्मर्यमाणार्थविषयप्रत्ययमात्रमेव स्वप्नसृष्टिरिति सिध्यति ।
रश्मिः ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥ अर्थेति । अर्थो विषयः ।
विषयशून्यं ज्ञानम् । तदात्मकमिति । मात्रचोर्थः । सामाजिकेति । सामाजिकानां व्यामोहो येन
नटेन । मोहनादीति । आदिनेष्टानिष्टसूचनम् । पूर्वेति । त्यक्तपूर्वापरानुसन्धानं यदादानं पदार्थस्य
सा वासना । स्मृतीति । स्वाप्निकस्मृतिज्ञानयोर्हेतुः । स एवेति । पूर्ववासनावासितः । अन्यथाऽलौकिकं
स्मर्यमाणं स्यादित्येवकारः । प्रत्ययेति । ज्ञानस्मृतिविषयः । जाग्रदिति । सप्तम्यालुक् ।
1614
भिक्षुस्तु । सन्ध्यसूत्रे, 'न तत्र रथा' इति श्रुतेः 'स्वप्ने च जीवः सुखदुःखभोक्ता स्वमा-
यया कल्पितविश्वलोकं' इति कैवल्योपनिषच्छ्रुतेश्चोदाहरणेन सृष्टिम्अङ्गीकृत्य, ततो निर्मातृसूत्रे
स्वप्नसृष्टिमीश्वरकर्तृकामुक्त्वा, तर्हि 'स्वयं विहत्य स्वयं निर्माये'त्यन्यनिरपेक्षताबोधकस्य स्वयंपदस्य
कथं सङ्गतिरित्याशङ्कायाम्, उपाधिद्वारकोपादानाभिप्रायेण स्वयंपदप्रयोग इति 'न तत्र रथा'
इत्यत्रोक्तं जीवकर्तृत्वमपि 'पच्यन्ते तण्डुलः स्वयमेवे' तिवदुपाधिद्वारकपरिणामस्वातन्त्र्यविवक्षयोप-
पन्नमित्युक्त्वा, ततो 'न तत्र रथा' इत्यत्रादृष्टद्वारा परम्परया गौणं कर्तृत्वं जीवस्योक्तम्, अतो न
विरोध इति कस्यचिन्मतं चोक्त्वा, ततो ननु स्वप्ने ज्ञानमात्रमेवास्तु, किं तत्र सृष्टिकल्पनयेत्या-
शङ्कायामाह, स्वप्ने जाग्रद्वदेव पुत्रादयः प्रतीयन्ते, ते चात्मचैतन्यमात्रा भवितुं नार्हन्ति, नित्य-
त्वापत्तेः, स्वरूपचैतन्यस्य निराकारत्वाच्च, कर्मकर्तृविरोधेनैकस्य भास्यभासकतानुपपत्तेश्च, जाग्र-
त्पदार्थानामपि तथात्वापत्त्या विज्ञानवादिबौद्धमताभ्युपगमापत्तेश्च । यदि च बुद्धेर्घटाकारः परि-
णाम एव ज्ञानशब्देनोच्यते, तदा स एवास्माभिः स्वप्नसृष्टिरुच्यते । नैवमिष्यत इति विशेषः ।
स्वाप्नाः पदार्थाः बाह्या भवितुं न युक्ताः । बाधकं विना अन्तःस्थत्वांशे स्फुटप्रत्यक्षत्वांशे च
बाधोत्तरमप्यनुभूयमाने भ्रमत्वकल्पनानौचित्यादित्याह । मायामात्रसूत्रे, स्वाप्ना विषया ऐन्द्रजा-
लिकवत् परमेश्वरमायाकार्यतया मायामात्राः, न त्वभावस्वरूपास्तुच्छाः । 'नाभाव उपलब्धे'रिति
सूत्रेणात्यन्तासत उपलब्धिप्रतिषेधात् । ऐन्द्रजालिकेश्वरयोर्विशेषस्त्वियान्, यदैन्द्रजालिकस्य
मन्त्रादि, ईश्वरस्तु माययैव व्यामोहयतीति तयैव मनसः परिणाममात्रमर्थं कटककुण्डलादिवन्नि-
र्म्मिमीते । स्वाप्नविषये बुद्धिवृत्यतिरिक्ताकारा बुद्धिवृत्तिरेव मोहो भ्रम इत्यतस्मिंस्तद्बुद्धिर्भ्रम
इत्यादिरूपं लक्षणमपि तुल्यमित्याद्याह ।
तेन तन्मते बुद्धिग्राह्यो मनःपरिणामविशेषः स्वप्नसृष्टिरिति सिध्यति ।
माध्वास्तु । सन्ध्यं स्थानं मायामात्रम्, मनोगतान् पूर्वानुभूतवस्तुसंस्कारानुपदानीकृत्य
निमित्तभूतया स्वेच्छयैवेश्वरेण निर्मितम् । 'मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्श-
यति जीवाय स स्वप्न इति गीयते' । 'यदन्यथात्वजाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्य-
क्तरूपत्वान्नान्यसाधनजं भवे'दिति ब्रह्माण्डवाक्यात् । अत्र स्वशिरश्छेदनादीनामसत्त्वनिरासायाना-
स्वयमिति । जीवः । अन्येति । ईश्वरनिरपेक्षतेत्यादिः । उपाधीति । अदृष्टमुपाधिः । उक्तेश्वरकर्तृत्वविरोधं
परिहरन्ति स्म न तत्रेति । पच्यत इति । ईश्वरः जडजीवान् सृजति । यदा तु सौकर्यातिशयं द्योतयितुं
कर्तृव्यापारो न विवक्ष्यते, कर्मणः कर्तृत्वं विवक्ष्यते, तदा सृज्यते जीवः स्वयमेवेति तन्मते उपाधिरणुत्वं
तद्द्वारकपरिणामः सृष्टिरूपस्तस्मिन् स्वातन्त्र्यं कर्तृत्वं तस्य विवक्षयोपपन्नम् । आहेति । 'पुत्रादयश्चे'ति
सूत्र आह कर्मकर्त्रीति । ज्ञानं कर्तृ तत्कथं कर्म आत्मचैतन्यमात्रं पुत्रादिरूपमिति विरोधः ।
कर्मकर्तृत्वसहानवस्थानलक्षणस्तेन । एकस्येति । ईश्वरस्य । तथात्वेति । आत्मचैतन्यत्वापत्त्या । परि-
णाम एवेति । एवकारः पदार्थायोगव्यवच्छेदकः । स्फुटेति । अयमंशः स्वाप्नः । जाग्रतश्च बुद्धि-
वृत्तिरेवेति । तामसी बुद्धिः, अतो गीतोक्तो मोहस्तस्या वृत्तिः । इत्यादीति । तदभाववति तत्प्रका-
रकं ज्ञानमादिशब्दार्थः । यद्वा । विशेषदर्शननाश्यत्वमादिशब्दार्थः । इत्याद्याहेति । ग्रन्थगौरवभि-
यैतावत्तैव निर्वाहः । मनःपरिणामेति । मनोपि द्वारमित्येवमुक्तम् । जीवस्योपाधिद्वारकपरिणाम-
विशेष इत्यर्थः । माध्वाः स्वप्नं सत्यमाहुः । तद्विषयकं ज्ञानं तु मिथ्येत्याहुः । अतो विषयपदव्याख्या
क्रियते अत्र स्वशिर इत्यादि । अनादीति । अनादीति 'मनोगता'नित्यत्र विशेषणं दत्त्वानादिमनो-
८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १ सू० ३.
अयमाशयः । श्रुतिः सृष्टिमेवाह, न तस्य सत्यत्वमपि । यथा 'ऐतदात्म्यमिदं
सर्वं तत् सत्य'मिति 'आत्मान५ स्वयमकुरुत' 'तत् सत्यमित्याचक्षते' 'कथमसतः
सज्जायेत'त्यादिश्रुतिसहस्रेभ्योऽस्य सत्यत्वं प्रतीयते, नैवं स्वप्नप्रपञ्चस्य श्रुतिराह ।
सत्यप्रयोजनाभावाच्च । स्वमात्रविहारस्तु महामायावित्वान्माययापि सिध्यति ।
भाष्यप्रकाशः।
दिमनोगतग्रहणम् । 'यदन्यथात्व'मित्यादिना च स्वप्नविषयाणां जाग्रत्पदार्थत्वमेव बाध्यत इति
तत्प्रतीतिरेव भ्रान्ता, न स्वप्नप्रतीतिरित्याहुः ।
तेन तट्टीकाकारमते संस्काराणामुपादानत्वम्, भाष्यकारमते तु संस्काराणामेव विषय-
त्वम् । मायापदं च मनसः संस्कारस्य वा वाचकमिति सिध्यति ।
तत्र सूत्राशयं स्फुटीकुर्वन्तः स्वप्नसृष्टेः सत्यत्वं प्रथमं निरस्यन्ति अयमाशय इत्यादि ।
अस्येति । बाह्यप्रपञ्चस्य । अत्र च सत्यत्वं जाग्रत्क्रियमाणा या तत्तत्प्रतिनियता यावदर्थक्रिया
तत्कारित्वं विवक्षितम् । न तु साक्षात् परम्परया वा ब्रह्मोपादानकत्वमात्रम् । परम्परया ब्रह्मोपा-
दानकत्वस्य मायामात्रेपि सत्त्वात् । नाप्यर्थक्रियाकारित्वमात्रम् । तस्य प्रतिबिम्बादिष्वपि दर्श-
नात् । 'छायाप्रत्याह्वयाभासा असन्तोऽप्यर्थकारिण' इति भगवद्वाक्याच्च । नैवमिति । न सत्यत्वं
ब्रह्मात्मकत्वं वा । तथाच तादृशश्रुत्यभावेपि भगवत्कर्तृकत्वादाश्चर्यरूपत्वाच्च यः सत्यत्वाग्रहः,
सोऽसङ्गत इत्यर्थः । ननु सत्यत्वस्याभावितत्वेपि 'स वै नैव रेमे' इत्यत्र सृष्टेर्विहारार्थत्वस्य श्रावि-
तत्वात्सङ्कल्पेन सत्यत्वं कल्प्यत इत्याशङ्कायामाहुः सत्येत्यादि । विभजन्ते स्वमात्रेत्यादि ।
रश्मिः ।
गतानां ग्रहणम् । तत्प्रतीतिरिति । जाग्रत्पदार्थत्वप्रतीतिः । एवकारेण स्वप्नप्रतीतियोगव्यवच्छेदः ।
तथाच यत्स्वप्नविषयाणां जाग्रत्वं जाग्रत्पदार्थत्वं अन्यथात्वं सा भ्रान्तिः । तन्न स्वप्ने । तत्कृता
जाग्रत्पदार्थसादृश्यकृता । अनभिव्यक्तत्वादिति सौत्रांशार्थः । अनभिव्यक्तेति । अनभिव्यक्तरूपत्वा-
त्स्वप्नस्य नान्येन जाग्रत्पदार्थसादृश्यान्येन साधनेन जन्यत इति भवेदित्यर्थः । तट्टीकेति । ब्रह्माण्ड-
वाक्यातिरिक्ता टीका । ब्रह्माण्डवाक्यानि तु भाष्यमिति पूर्वं विवेचनीयम् । ब्रह्माण्डे 'संस्कारा'निति
द्वितीया विषयार्थका । एवकारो ब्रह्माण्डवाक्यप्रामाण्यात् । मायापदमिति । 'मनोगतांस्तु संस्कारा'-
नित्यत्र वाचकम् । मायामात्रपदं मनोमात्रं संस्कारमात्रं वेत्यर्थकम् । भाष्ये । देशकालवस्तुनानभि-
व्यक्तस्वरूपत्वपदार्थः । अन्यलभ्यत्वात् । केनापि रूपेणानभिव्यक्तम् । स्वरूपं तु स्वप्नदेशकालपरीक्षा-
बोधकशब्दलभ्यं पुराणे प्रसिद्धम् । तथा च हेतुतावच्छेदकगौरवापत्त्यानभिव्यक्तेरिति हेतुः । तदाहुः
तथाभिव्यक्तिरिति । तथेति । कात्स्न्र्येन । तथाच कार्त्स्न्येनानभिव्यक्त्यभावत्वं हेतुतावच्छेदकम् ।
अत्राग्रे सहस्रशब्दाद्बहुवचनम् । संख्येयवाचकत्वात् । संख्यावाचकत्वे त्वेकत्वम् । 'विंशत्याद्याः
सदैकत्व' इति कोशात् । प्रकृते । सत्यत्वं च त्रैकालिकाबाध्यविषयत्वम् । तच्च बाधित्वान्यलक्षणमाहुः
अत्र चेति । जाग्रदिति । जाग्रति क्रियमाणा । 'सहसुपे'ति समासः । तत्तदिति । घटादिप्रतिनियता
जलाहरणादिरूपा, भोजनप्रयोजकत्वादिरूपा च । यावदर्थक्रिया यावदर्थाः यावद्धटादिवर्तमानकालं
अर्था घटादयः तेषां क्रियार्थक्रिया । सत्त्वादिति । माया ब्रह्मोपादानिकेति । प्रतिबिम्बेति ।
आदिना छायाप्रत्याह्वयादिः । माययेति । 'विष्णुर्नाम महायोगी महामायो महातपा' इति योगतत्त्वो-
पनिषच्छ्रुतेः । स वा इति । पुरुषविधब्राह्मणे । सृष्टेरिति । 'स द्वितीयमैच्छदि'त्यादिना ।
1616
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ८१
नापि भिन्नः प्रपञ्चः। जीवस्यैकत्वात्। 'अविद्यया मन्यते' इति वचनान्न तत्सुख-
भाष्यप्रकाशः।
तथाच नटवन्माययापि विहारसम्भवान्न तद्वलेन सत्यत्वं कल्पयितुं शक्यमित्यर्थः । ननु यत्र
स्वप्नसृष्टिस्थले 'तस्य वा एतस्य पुरुषस्ये'ति जीव एवोपक्रान्तः, 'प्रस्वपिती'ति स्वापलिङ्गाच्च बोधितः,
अतस्तत्कृता सा मिथ्यास्तु, तत्र विहारोपि जीवस्यैव, नेश्वरस्य, काठके तु प्रकरणलिङ्गवाक्य-
शेषैः परमात्मैव प्रतीयत इति तत्कृतः प्रपञ्चो भिन्नोऽस्तु, तस्य सत्यत्व आश्रयरूपत्वे च को दोष
इत्यत आहुः नापीत्यादि । यो हि प्रपञ्चो भिन्न आपाद्यते, स न सर्वसाधारणः, कात्स्न्ये॑नाभि-
व्यक्तस्वरूपो वा, येन भिन्नत्वं कल्पयितुं शक्येत, किन्तु यदेकेन दृश्यते, तन्नेतरेणेति प्रतिनि-
यतो द्रष्टुर्जीवस्यैकत्वात्, अतो न भिन्नः । किञ्च । स यदि भिन्नः सत्यः स्यात्, तदा तद्भोगोपि
भिन्नः सत्योऽनुभूयेत, श्रुत्या वोच्येत । श्रुत्या तु जीवस्य भोगस्तत्राज्ञानिक एव बोध्यते ।
हितारूपा नाडीरुपक्रम्य 'अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छायायति गर्तमिव पतति
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया भयं मन्यत' इति वचनात् । एवमेव 'अथ यत्र राजेव देव
इवे'त्यादिनोक्तं सुखमप्याज्ञानिकम् । 'अविद्यया मन्यत' इत्यस्य देहलीदीपन्यायेनोभयत्र सम्बन्धात् ।
काठके तु न भोगवचनम् ।
अतः परं भेदसाधकत्वेन कर्तृभेदोऽवशिष्यते । सोऽप्ययुक्तः । स्वप्नसृष्टिवाक्येपि जीवकर्तृ-
त्वावबोधनेन तदभावात् । तत्र हि 'आत्मज्योतिरेवायं पुरुष' इति कथनोत्तरं 'कतम आत्मे'ति प्रश्ने,
रश्मिः।
जीव एवेति। एवकारः 'कतम आत्मेति, योयं विज्ञानमयः प्राणेष्वि'त्युपक्रमे विज्ञानमयपदात्। जीवस्यै-
वेति । एवकार उपक्रमादीश्वरयोगव्यवच्छेदकः । काठके त्विति । तुना ज्योतिर्ब्राह्मणं व्यावृत्य॑ते ।
प्रकरणं ब्रह्मणः । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातन'मित्युपक्रमात् । 'सुप्तेषु जागर्ती'ति लिङ्गम् ।
शब्दस्य सामर्थ्यम् । स्वप्नो जीवावस्था, जागर्तीति ब्रह्मलिङ्गम् । 'तदेवं शुक्रं तद्ब्रह्मे'ति वाक्यशेषः ।
उपक्रमः यथा 'मरणं प्राप्य आत्मा भवति गौतम' इति जीवलिङ्गं च सन्देहबीजम् । तेन स्वप्नकर्ता
जीवः परमात्मा वेति संशय उक्तवाक्यशेषः प्रवर्त्तते । तैः । परमात्मैवेत्येवकारः 'यस्मिंल्लोकाः श्रिताः
सर्वे' इति श्रुतेः । जीवस्येतिभाष्यं विवृण्वन्ति स्म यो हीति । काठकोक्तो हि । भिन्नः ज्योति-
र्ब्राह्मणोक्ताद्भिन्नः । आपाद्यत इति । यदि प्रपञ्चो भिन्नो न स्यात्, प्रकरणलिङ्गवाक्यशेषाः परमा-
त्मनो न स्युरिति । अतः काठके ज्योतिर्ब्राह्मणे प्रपञ्चो भिन्न इत्यापाद्यते । स इति । स्वाप्निकः प्रपञ्चः ।
न भिन्न इति । ज्योतिर्ब्राह्मणोक्तात्काठकोक्तः प्रपञ्चो न भिन्नः । अविद्ययेति भाष्यं विवृण्वन्ति स्म
किञ्चेति । तत्राज्ञानिक एवेति । तत्र स्वप्ने । आज्ञानिक आविद्यकः । एवेति । बाधात् ।
हिताख्येति । ज्योतिर्ब्राह्मणे । अर्थस्तु उक्तसुषुप्तावस्थाकामभगवत्तोरविद्यायाः स्वाप्निकायाः सम्बन्धो
न स्वाभाविक इति दर्शयितुम् । 'ता वा अस्यैता हिता नाम नाड्यः' इत्यादिना नाडीनिरूपणम् ।
अस्येति । अकामभगवतो भेदे षष्ठी । अतोऽविद्यानाडीभिन्नाः स्वाप्निक्यः । ता उपक्रम्य 'अथ
यत्रैन'मित्यादिग्रन्थः । पूर्वं 'न कश्चन स्वप्नं पश्यती'त्युक्तम्, तत्र प्रतियोगी स्वप्नं निरूपयन्ति स्म ।
यत्र स्वप्ने एनं स्वप्नसदृशं घ्नन्तीव तस्करादयो ये केचन जिनन्तीव वशीकुर्वन्तीव दासरूपेण । कदा-
चिद्धस्तीव विच्छायायति विच्छादयति, विद्रावयति । तथा गर्तं जीर्णकूपादिकं प्रति पततीव, न वस्तुतः ।
किं तत इत्यत आह यदि॑ति । यदेव जाग्रत् जाग्रतः सम्बन्धि भयं पश्यति । षष्ठ्या लुक् । अन्ये तु
जाग्रत् जागरिति इति सप्तम्यालुक् सूचयन्ति । तदत्र स्वप्ने र्मेति । अग्रे स्पष्टम् । कर्तृभेद इति ।
ब्र० सू० २ ० ११ 1617
दुःखभोगार्थमपि सत्यत्वमङ्गीकर्तव्यम् । स्थानद्वयप्रतिज्ञा च विरुध्येत । 'जीवतो
मृताँश्च पश्यती'ति लोकद्वयदर्शनम् । अतो लोकद्वयप्रतिच्छायरूपत्वान्मायया
क्रीडायामन्यानुरोधाभावेनातिसुखत्वात् भगवत्कृतमात्रवाचकत्वाच्च श्रुतेरतिरि-
भाष्यप्रकाशः ।
'योऽयं विज्ञानमयः पुरुषः प्राणेषु हृद्यन्तर्ज्योति'रिति प्रतिवचनं दत्वा, तादृशत्वं जीवस्याप्यस्तीति
तन्निराकरणार्थं 'स समानः सन्नुभौ लोकौ सञ्चरती'त्यादिना जीवतुल्यतया क्रीडितुरन्यस्य कथ-
नेन तस्मिन्नेव तत्कर्तृत्वस्य 'सुषुप्त्युत्क्रान्त्योर्भेदेने'ति सूत्रे व्यवस्थापितत्वात् । जीवस्य स्वदुःख-
भयादिजनकसृष्टिकरणायोगाच्च । कार्त्स्न्येनानभिव्यक्तस्वरूपतया सत्यसङ्कल्पत्वाद्यभावाच्च । अत-
स्तत्र भगवान्नेव कर्ता । जीवस्त्वविद्यया दुःखादिकमिव कर्तृत्वमपि मन्यते । अतो न तत्सुखदुः-
खभोगार्थमपि स्वप्नप्रपञ्चस्य सत्यत्वमङ्गीकर्तव्यम् । किञ्च । यदि स्वाप्नप्रपञ्चस्य सत्यत्वं स्यात्,
तदा 'तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं चे'ति श्रुत्युक्ता स्थान-
द्वयप्रतिज्ञा च विरुध्येत ।
ननु तत्रैव 'सन्ध्यं च तृतीयं स्थानं तस्मिन् सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च पर-
लोकस्थानं चे'ति तृतीयमप्युक्तम् ।
सत्यमुक्तम्, परं तूभयविलक्षणतया, तत्र च लोकद्वयदर्शनं जीवतां मृतानां च दर्शनेन ।
न हि ते तत्र सन्तीति प्रागेवोक्तम् । अतस्तृतीयत्वेऽपि लोकद्वयप्रतिच्छायारूपत्वान्न तेन प्रतिज्ञा-
विरोधः । सत्यत्वे स स्यादेव । नच किमीदृशसृष्ट्या क्रीडयेति शङ्क्यम् । मायया क्रीडायामन्यानु-
रोधाभावेनातिसुखत्वात् । अतो भगवत्कृतमात्रवाचकत्वात् काठकश्रुतेस्तन्मूलेनातिरिक्तसत्यसृष्टि-
कल्पनायां प्रमाणाभावान्नातिरिक्तः स्वाप्नः प्रपञ्च इत्यर्थः ।
ननु कार्त्स्न्येनानभिव्यक्तत्वस्य जीवविशेषणत्वे 'न तत्र रथा' इति श्रुतेराश्चर्यपरत्वे सति
जीवदर्शनस्य भ्रान्तित्वात् किं वा स्वप्नस्य भवदभिमतमायामात्रत्वगमकम्, येन तत्कृतगुणदोष-
रश्मिः ।
ब्रह्मजीवरूपस्वप्नकर्तृभेदः । प्राणेष्विति । सामीप्यसप्तमीति केचित् । सूक्ष्मदेह इति व्याख्यातम् ।
तादृशत्वं विज्ञानमयत्वम् । स समान इति । स ईश्वरः समानो जीवसमानः । अन्यस्येति ।
ईश्वरस्य । तस्मिन्नेवेति । ब्रह्मण्येव, नतु जीवे । बलवदनिष्टाननुबन्धीष्टसाधनज्ञानप्रवर्तकं तत्कृष्ण-
सम्बन्धीत्याहुः जीवस्य स्वेति । तत्रेति । स्वप्ने । भगवान्नेव, नतु जीव इति जीवयोग्यव्यवच्छेदक
एवकारः । मन्यत इति । अहं कर्तेत्यभिमन्यते । 'परात्तु तच्छ्रुते'रिति सूत्रात् । स्थानद्वयेतिभाष्यं
विवृण्वन्ति स्म किञ्चेति । जीवत इत्यादिभाष्यं विवृण्वन्ति स्म ननु तत्रैवेति । बृहदारण्यक एव ।
काठकव्यवच्छेदक एवकारः । इदंलोकपरलोकस्थाने उभे स्थाने । नहि ते तत्रेति । सन्ध्ये स्थाने
मृताः सन्ति । मुक्तानामैक्येऽमुक्तानां संकर्मत्वेऽपि पृथग्दर्शनानर्हत्वेन परलोके सत्त्वात् । प्रागेवेति ।
'सन्ध्यं तृतीय'२स्वप्नस्थानमिति, तस्मिन्सन्ध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं परलोकस्थानं चे'त्यस्याः
प्रागेवोक्तम् । उभयविलक्षणतयेत्युक्तं विशदयन्तो लोकेतिभाष्यं विवृण्वन्ति स्म अतस्तृतीयत्त्व इति ।
'जीवतो मृताँश्च पश्यती'ति लोकद्वयप्रतिच्छायरूपत्वात् लोकद्वयसूक्ष्मरूपत्वात् । न तेनेति । न
तृतीयेन द्वयप्रतिज्ञाविरोध इत्यर्थः । स इति । प्रतिज्ञाविरोधः । माययेतिभाष्यं विवरीतुं शङ्कते
नचेति । अन्येति । विषयानुरोधाभावेन मिथ्यात्वादिति भावः । भगवत्कृतेतिभाष्यं विवृण्वन्ति स्म
1618
रुत्कल्पनायां प्रमाणाभावाज्ज्योतिःशास्त्रनियमाभावाच्च मायामात्रमेव स्वप्न इति
न तत्कृतगुणदोषसम्बन्धः। दीक्षितस्यान्नभोजनादिप्रायश्चित्तं तु भगवत्क्रीडाया-
मपि प्रतिच्छायत्वात् क्रियते । तदानीं कर्तृत्वस्यारोपात् । अन्यदा कर्तृत्वस्याशा-
स्त्रत्वान्न धर्माधर्मजनकत्वम् । देवताज्ञादिस्तु जीवब्रह्मणोर्विद्यमानत्वादुक्ता ।
भाष्यप्रकाशः ।
सम्बन्धो नाङ्गीक्रियते इत्याशङ्कायामाहुः ज्योतिरित्यादि । मेषादिराशिगे सूर्ये एतावद्दिनम्,
एतावती रात्रिः, अस्मिन् देशे चेत्यादिनियमस्य तत्राभावात् तथेति न तत्कृतगुणदोषसम्बन्ध
इत्यर्थः ।
ननु यदि स्वप्नप्रपञ्चो मिथ्या, तदा दीक्षितेन स्वप्नेऽन्नभोजनादौ कृते यद्दीक्षितस्य प्रायश्चि-
त्तविधानं तद्विरुध्येत, मिथ्याभूते भोजनादौ तदयोगादित्यत आहुः दीक्षितस्येत्यादि । यद्यपि
तन्न भोजनम्, तथापि स्वाप्निक्यां भगवत्क्रीडायां भोजनसदृशत्वात् तदानीं जीवेऽपि कर्तृत्वस्या-
विध्यनारोपात् प्रायश्चित्तं क्रियते । यथा व्रीह्यभावेपि नीवारेण कार्यसिद्धिः, तद्वदत्रारोपितकर्तृत्व-
मादायाप्यपराधसिद्धेः । शास्त्रेण यज्ञकर्मण्येव कर्तृत्वे नियमिते निषिद्धेष्वभिमानिककर्तृत्वस्यापि
दोषत्वादिति । अतो न तेन तस्य सत्यत्वसिद्धिरित्यर्थः । एतदुपष्टम्भाय युक्त्यन्तरमाहुः अन्यदे-
त्यादि । तथाच यदि सा सत्या स्यात्, तदा तेनान्यदापि धर्माधर्मौ स्याताम् । तथा सति 'स्वप्ने-
ऽवगम्यागमनं च धन्य'मित्यादिकं न स्मर्येतेति सा मिथ्यैवेत्यर्थः ।
ननु यदि स्वप्नः सर्वोपि मिथ्या स्यात्, तदा तत्र देवतादर्शनाज्ञादिकं न स्यात्, भवद्भा-
तुम्र्त्वाादिविसंवादि स्यादित्यत आहुः देवतेत्यादि । जीवा इन्द्रादयो योगोत्थसामर्थ्याः, ब्रह्म स्वत
एवातिसमर्थम् । अतः समाधाविव स्वप्नेऽप्यन्तर्हृदि प्रविश्य विद्यमानत्वाद्दर्शनाज्ञादिकं ददाति,
तदानीं बुद्धिजार्गतीति स्वप्नदृशा जीवोप्यनुभवति । तेन तस्य तदानीं रथादिवत् करणाभावेन
स्वप्नत्वाभावान्नतत्सत्यता युक्ता । किञ्च । तत्र यज्ज्ञानं जायते, तन्न लौकिकम्, तत्तदि-
रश्मिः ।
अतो भगवदिति । तद्बलेनेति । भगवत्कृतमात्रवाचकशब्दबलेन । सूर्ये इति । सप्तम्यन्तम् ।
एतावत् त्रिंशद्धटिकापलचतुःपञ्चाशद्दिनम्, एतावती एकोनत्रिंशद्धटिकापलषट् [रात्रिः] । आदिना वृषेर्के
द्वात्रिंशद्धटिकापलचतुर्विंशद्दिनम् । एकोनत्रिंशद्धटिकापलषट्त्रिंशद्रात्रिरनया । देश इति । ब्रह्मावर्तादौ ।
तत्रेति । स्वप्ने । तथेति । मायामात्रत्वम् । अन्नेति । आदिना रेतःस्रावः । आरोपादिति ।
ग्राह्यस्य कर्तृत्वस्य । यज्ञकर्मण्येवेति । एवकारेण स्वप्नयोग्यव्यवच्छेद(कः) क्रियते । निषिद्धेष्विति ।
स्वप्नाचार्याज्ञाविस्वासादिषु । तेनेति । आरोपितकर्तृत्वेन । तस्य स्वप्नस्य । सेति । स्वप्नसृष्टिः ।
अन्यदेति । दीक्षान्यकाले । भोजनकर्तृत्वेऽस्य न विद्यते शास्त्रं यस्मिन् तादृशत्वात् । धर्माधर्म-
जनकत्वं गुणदोषजनकत्वम् । देवतेति । आदिना बाहुना मेलनम् । अनुभवादीति । आदि-
नाप्तवाक्यम् । स्वत एवेति । उपाधिव्यवच्छेदकैवकारः । बुद्धिरिति । स्वप्नग्राहिका । तस्येति ।
दर्शनाज्ञादिकस्य । रथादिवदिति । आदिनाऽविद्य । करणाभावे हेतुरनुभवतीत्यनुभव उक्तः । अत उक्तं
करणाभावेन । तत्सत्यता दर्शनाज्ञादेः सत्यता । अलौकिकेतिभाष्यं विवृण्वन्ति स्म किञ्चेति ।
१. अष्टाविंश ।
1619