सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
तेषामेवाभावात् । न च यदैव संभवस्तदैव तत् कर्तव्यमिति वाच्यम् ।
तदसंभवापत्तेः । तथाहि । ब्रह्मणः परमपुरुषार्थत्वे ज्ञाते तज्ज्ञानस्यैव साधनत्वेऽ-
वगते तच्छेषत्वे च यागादीनामवगते तदर्थकर्मकरणे चित्तशुद्धौ सत्यां वैराग्यादि ।
इदं च वेदान्तविचारव्यतिरेकेण न भवतीत्यन्योन्याश्रयः ।
भाष्यप्रकाशः।
युज्येत 'यदि तत्सत्ता पूर्वं स्यात् । सा त्वतिदुर्लभा । न हि नित्यानित्यवस्तुविवेकमन्तरेणेहा-
मुत्रार्थभोगात् पुरुषो विरज्यते । न वा सांख्यदर्शनात्यन्ताभ्यासात्तदुदितसाधनाद्यन्तरेण तादृश-
विवेक उदेत्युदिते वा सर्वः शाम्यति दाम्यति वा । दुर्वासःप्रभृतिष्वपि तदभावस्य स्मरणात् ।
कथंचित् किंचित् कस्यचित् कदाचित् संभवेऽपि न सर्वसाधनानि तथा । तदेतदुक्तं, तेषा-
मेवाभावादिति । तथाच समुदितसाधनचतुष्टयसंपदत्यन्तदुर्लभेति तदानन्तर्यमत्र न शक्यवच-
नमित्यर्थः । सांख्याभ्यासाभावेऽपि लौकिकदुःखादिना विरज्यमाना दृश्यन्ते । किंचित्काम-
नयापि शाम्यन्ति दाम्यन्ति चेत्युक्तविवेकसहितवैराग्याद्यानन्तर्यमप्यत्र न युक्तम् । तदपायस्य
भूयोदर्शनादित्याशयेन वैराग्यादीनामेव ग्रहणम् । ननु केषांचित् पूर्वं वैराग्याद्यभावेऽपि पश्चात्
तानि दृश्यन्त इति तदानन्तर्यादरणे को दोष इत्यत आहुः न च यदैवेत्यादि । तदसंभवा-
पत्तेरिति वैराग्यादेर्विचारस्य चासंभवापत्तेरित्यर्थः । कथमिदमित्याकाङ्क्षायामेतदेव विभजन्ते
तथाहीत्यादि । दर्शनान्तराभिमानिनां ज्ञानकर्मसमुच्चयवादात् तत्तदुक्तज्ञानानां च भिन्नविध-
त्वात् तत्तदभिमतरीत्या साधनीभूतयागानुष्ठाने विवक्षितविचारोपयोगिचित्तशुद्ध्यभावात्
रश्मिः ।
आत्मातिरिक्तस्यानित्यत्वज्ञानात्मनित्यत्वज्ञाने तदधीनतयेत्यर्थः । कथंचिदिति ज्योतिषपश्वाङ्गादि-
प्रकारेण । कस्यचिदिति । नित्यानित्यवस्तुविवेकादौ यस्यकस्यचित् । कदाचिदिति अस्मदा-
दिर्दृष्टान्तः । तथेति सर्वत्वेन प्रकारेण संभवन्तीत्यर्थः । नन्वाशङ्काभाष्ये न च नित्यानित्यव-
स्तुविवेकवैराग्यशमदमादिरिति वक्तुं युक्तम्, प्रथमत्यागे मानाभावादित्याकाङ्क्षायामभूतपूर्वोक्तविवेक-
वैराग्यादिरपि नानन्तर्यनिरूपक इति बोधयितुं तयोपन्यास इत्याहुः सांख्याभ्यासेत्यादि ।
कामनयेति शमजन्यफलकामनया, दमजन्यफलकामनया च । भूयो दर्शनादिति ।
अस्मदादिर्दृष्टान्तः । तानीति वैराग्यादीनीत्यर्थः । असंभवेति अन्योन्याश्रयस्य द्विनिष्ठ-
त्वात् द्वयस्यासंभव उक्तविकल्पेन । इदमिति पूर्वोक्तम् । एतदिति समीपतरवर्तिभाष्यम् ।
विभजन्ते व्याकुर्वते । धर्मविचारस्य ब्रह्मशब्दसूचितस्य भाष्ये विचारात् समुच्चये स्फुरिते तेन
सहैवाहुः दर्शनेति । भिन्नविधत्वादिति । स्मृत्यात्मकं ज्ञानं भक्तिरूपं साधनमिति रामानु-
जाचार्यमतम् । मध्वमते ज्ञानं भक्त्यात्मकम् । नैयायिकास्तु 'द्रव्यगुणकर्मसामान्यविशेषसमवा-
यानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः तच्चेश्वरनोदनाभिव्यक्ताद्धर्मादेवेत्युच्यत' इति
भिन्नविधत्वादित्यर्थः । साधनीभूतेत्यादि । अयमर्थः । चित्तशुद्धिकारणता यागादेर्न सामान्य-
रूपेण, तथा सति विलक्षणचित्तशुद्ध्यनुत्पत्तिप्रसङ्गेऽपि तु तृणारणिमणिन्यायेन तत्तच्चित्तशुद्धिजन-
कत्वरूपेनेति तत्तन्मतीयविचारोपयोगिचित्तशुद्ध्युदयात् सिद्धान्तविचारोपयोगिचित्तशुद्ध्यभावा-
दिति । एवमेव विचारचित्तशुद्ध्योरपि कार्यकारणभावः । विवक्षितेति । 'यदेकमव्यक्तमनन्त-
54

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५

निर्धारिते तु वेदान्ते विचारो व्यर्थ एव । नच साक्षात्कारस्तत्फलम् । तस्य
शब्दशेषत्वेन तत्कल्पनायां प्रमाणाभावात् । 'दशमस्त्वमसि' इत्यादौ प्रत्यक्ष-

भाष्यप्रकाशः ।

ब्रह्मणः परमपुरुषार्थत्वज्ञानार्थं, ज्ञानस्य केवलस्यैव साधनत्वज्ञानं चावश्यकमिति तदर्थं चैकदे-
शिना वेदान्तविचारः पूर्वं मृग्यः । तथा सत्युक्तरीत्या तत्करणमिति चक्रकान्योन्याश्रय इति
तदसम्भवापत्तिरित्यर्थः । नन्वध्ययनदशायां गुरुमुखात् साधनान्तराद्वा वेदान्तार्थे निर्धारिते
सुखेन तत्सम्भवान्नान्योन्याश्रय इति शङ्कायां दूषणान्तरमाहुः निर्धारिते इत्यादि । विचारो
ह्यर्थनिर्धारार्थः अर्थनिर्धारश्च वैराग्यादिप्रयोजकतया यदि पूर्वमभ्युपेतस्तदा फले जाते निःप्रयो-
जनत्वात्रिःसंदिग्धविषयत्वाच्च स व्यर्थ इत्यर्थः । एवकारेण तदर्थकप्रवृत्तिविधातोपि संगृह्यते ।
[

५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
सामग्र्या बलवत्त्वात् देहादेः प्रत्यक्षत्वात् स्वदेहमपि पश्यन् दशमोऽहमिति मन्यते ।
न तथा प्रकृते । मनननिदिध्यासनविधीनामानर्थक्यप्रसङ्गात् ।
भाष्यप्रकाशः ।
नात् । तस्य प्रज्ञाचक्षुष्ट्वेन तया जायमानस्यापि चाक्षुषकल्पत्वाच्च न तृतीयः । तस्यात्मविस्मृ-
त्यभावेन तत्र शब्दस्याकारणत्वात् । न च पूर्वविकल्पोक्तानामात्मनिष्ठमान्तरमेव दशमत्वं
शब्दाद् भासत इति वाच्यम् । दशमत्वस्य वक्त्रपेक्षाबुद्धिजन्यत्वेन तस्यां च बुद्धौ संख्याघटकानां
परात्मनां भानाभावेन स्वस्यापि दशमत्वाभानप्रसङ्गात् । अतो नवमत्वादिवद् दशमत्वस्यापि
बाह्यत्वमेव । कृशोऽहमितिवद् दशमोऽहमितिप्रत्ययविषयस्यापि देहस्यैव वेद्यत्वाच्च । प्रकृते विचारे
तु वेदान्तवाक्यैर्ब्रह्मत्वेनात्मसाक्षात्कारस्य तवाभिप्रेतत्वेन न तथा धर्मधर्मिणोरुभयोरप्यान्तरत्वान्न
दृष्टान्तसाम्यम् । न हि समीपवर्तिभिरिन्द्रियैरग्राह्य आत्मा तद्ग्राह्येण बाह्येन शब्दप्रमाणेन ग्राहयितुं
रश्मिः ।
ननु स्पर्शेनानुमानेन वा नवान्यान् ज्ञास्यतीति, तत्राहुः तस्येत्यादि । प्रज्ञा लिङ्गपरामर्शो व्याप्ति-
ज्ञानं वा । चाक्षुषकल्पत्वाच्चेति । त्वाचत्वेनानुमितित्वेन च त्वदिष्टभावावादीषदूनचाक्षुष-
त्वादित्यर्थः । अन्यथान्धस्य पुरोवस्थितो घटोऽस्तीति शब्दात् घटसाक्षात्कारापत्तिः । शब्दस्य
कारणत्वे ततः पूर्वमात्मविस्मृतिः स्यादिति शब्दो न कारणमित्याहुः तस्यात्मेत्यादि । अभ्युप-
गमवादेनाशङ्कां निषेधन्ति न च पूर्व्वेत्यादि । चक्षुष्मतो देहविशिष्टात्मवेदिनोऽन्धस्य तथावेदिनो
विविक्तात्मवेदिनश्चेत्यर्थः । भानाभावेनेति । परमनोव्यावृत्तमनस एवात्मप्रत्यक्षजनक

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७
नचाधिकारिभेदः कल्पनीयः । शब्दज्ञाने तत्कल्पनायां प्रमाणाभावात् ।
भाष्यप्रकाशः।
शक्यते। अथ दर्शनाव्यवधानेन श्रवणस्य विधानाच्छक्यत इत्युच्यते तदा मनननिदिध्यासनविधि-
वैयर्थ्यम् । तथाच दृष्टान्तवैषम्य़ान्मनननिदिध्यासनविधिविरोधाच्चात्मसाक्षात्कारस्स न श्रवणफलत्वं
विचारफलत्वं वा वक्तुं शक्यमित्यर्थः । ननु मुख्याधिकारिणः शब्दादपरोक्षं भवति, न तु मन्दा-
देरिति तादृशेषु मननाद्युपयोगान्न तद्विध्यानर्थक्यमिति चेत्तत्राहुः न चेत्यादि । शब्दजन्ये ज्ञानेऽ-
धिकारिभेदस्तदा कल्प्यो यदि स विधिवैयर्थ्यं समादध्यात् । न तु तथा। मन्दस्य पदशक्त्या-
दिज्ञानशून्यतया मननाद्यसामर्थ्येन, मध्यमस्य च विदितपदपदार्थसंसर्गतयाऽऽकाङ्क्षादिबलेन
दशमादिवदपरोक्षभवनसौकर्ये मननाद्यनुपयोगेन ताभ्यां तदसमाधानात् । तत्कल्पनायां श्रुतार्था-
पत्तिरूपप्रमाणाभावादित्यर्थः । ननु विदितपदपदार्थसंसर्गस्यापि वाक्यतात्पर्याज्ञाने दशमादि-
रश्मिः ।
श्यात् । ननु 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्यनुकूलं शब्दा-
परोक्षमित्येवमाशङ्खामुखेन मननेत्यादिभाष्यमवतारयन्ति अथ दर्शनेत्यादि । शक्यत इति
शब्दादपरोक्षं शक्यते । आशङ्काप्रतिविधानभाष्यं विवृण्वन्ति नन्वित्यादि । तादृशेष्विति
भिन्नाधिकारिष्वित्यर्थः । न चेत्यादीति । न चाधिकारिभेदः कल्पनीय इत्यादित्येसत-
द्गुणसंविज्ञानो बहुव्रीहिः । समाधानभाष्यं व्याकुर्वन्ति शब्दजन्य इत्यादि । नतु तथेति ।
अधिकारिभेदो विधिवैयर्थ्यं तु न समादधातीत्यर्थः । ताभ्यामिति मन्दमध्यमाभ्याम् । मनना-
दिविध्यानर्थक्यानसमाधानादित्यर्थः । श्रुतार्थापत्तिरूपेति । प्रत्यक्षेण शब्देन वा प्रमितस्यार्थ-
स्यान्यन्तरमन्तरेणानुपपद्यमानस्योपपत्तयेऽर्थान्तरकल्पनमर्थापत्तिः । सा च प्रमाणान्तरमिति मीमांसकाः ।
लाघवादनुमानमिति नैयायिकाः । अर्थान्तरकल्पनया समाधेयत्वेनोच्यमानस्य प्रमाणसिद्धस्यार्थस्य
मिथः प्रतिघातरूपान्यथानुपपत्तिस्तत्र कारणम् । तात्पर्यवृत्तावन्तर्भाव इति मम प्रतिभाति । जीवन्देव-
दत्तो गृहे नास्तीत्यस्य बहिःसत्त्वप्रतीतीच्छयोच्चारितत्वाद् गृहाधिकरणको जीवनविशिष्टबहिःस्थितदेव-
दत्तप्रतियोगिको भाव इति सुखेन बोधात् । अथवा । गृहाधिकरणकजीवनविशिष्टबहिःस्थितदेव-
दत्तनिष्ठा सत्ता तत्प्रतियोगिको भावस्तन्निष्ठा सेति बोधः । एवं पीनो देवदत्तो दिवा न भुङ्क्ते
इत्यादावर्थानुपपत्तावपि पीन इत्यस्य नक्तं भोजनानुषङ्गकपीनत्वे तात्पर्यात् न दोष इति । तस्मा-
दन्यथानुपपत्तार्थापत्त्यां निवृत्तायां प्रमितयोः संसृष्टबुद्धिः प्रमेयप्रमारूपा भवतीति ज्ञेयम् ।
तथा च 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र प्रमाणसिद्धस्य
आत्मा वा अरे द्रष्टव्यः श्रोतव्यः इति अंशस्यार्थान्तरकल्पनया समाधेयत्वेन उच्यमानस्य मन्तव्यो
निदिध्यासितव्य इत्यस्यांशस्य च मिथः शेषशेषिभावे प्रतिघातः, श्रवणेनैवात्मदर्शनात् । इत्यमन्य-
थानुपपत्तावर्यापत्तिकारणभूतायां प्राप्तायामत्र मन्तव्यो निदिध्यासितव्य इतिशब्देन प्रमितस्य
मनननिदिध्यासनरूपस्यार्थस्य भिन्नाधिकारिरूपार्थान्तरमन्तरेणानुपपद्यमानस्योपपत्तये भिन्नाधिकारि-
१. जीवनसंसृष्टगृहाधिकरणाभावयोर्मिथः प्रतिघातः । २. दर्शनस्य न श्रवणशेषित्वं शब्दादपरोक्षपत्तेः, किंतु
प्रेमशेषित्वं प्रेम्णा दर्शनमिति । ३. मननस्य मीमांसारूपस्य न निदिध्यासनशेषित्वं किंतु अन्यथाभावनाविपरीतभावना
निवर्तकत्वाद् तच्छेषित्वम् । 57

  • ब्र० सू० २०

५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजननात् प्रमाणसंकरोऽप्यस्ति ।
भाष्यप्रकाशः ।
वाक्यादप्यपरोक्षादर्शनान्मननादिना तज्ज्ञाने च तद्दर्शनात् तात्पर्यज्ञानशून्य्येनाधिकारिणा तत्समा-
धातुं शक्यत एवेति कथं प्रमाणाभाव इत्यत आहुः अत्यन्तेत्यादि । शब्दस्येति षष्ठ्या करणत्वं
बोध्यते । तथाच खपुष्पं सुरभीत्युक्तेऽत्यन्तासतोऽपि ज्ञानं जायते । एवं गुर्वा दिनोक्तवेदान्तवाक्ये
अगोचरस्याप्यात्मनस्त्वदभिमतं ज्ञानं भविष्यतीत्युक्तविधिवैयर्थ्यं दुर्वारमतः प्रमाणाभाव इत्यर्थः ।
ननु विधिवलादेव ज्ञायते सर्वेषां न भवतीत्यतो न तदभाव इत्यत आहुः प्रमाणेत्यादि । संकरो
मर्यादाभङ्गेन जायमानं कार्यम् । यथा वर्णसंकर इति । तथाच तत्र यथा न वर्णत्वमेवमत्रापि
दशमस्त्वमसीतिवाक्यस्य युष्मत्पदस्मारितपदार्थोल्लङ्घनेनासत्पदार्थविषयकज्ञानजनने तस्य ज्ञानस्य
प्रमाणत्वं न स्यादिति तादृशज्ञानोपपादनप्रयासवैफल्यम् । किञ्चैवं भग्नायां प्रमाणमर्यादायां तं
रश्मिः ।
कल्पनम् । तेन दर्शनमननादिरूपयोः प्रमितयोः शेषशेषिभावेन संस्पृष्टिशुद्धिरिति समन्वयः ।
सेयमधिकारिणि मननादिविध्यानर्थक्यस्य परिहृत्यैव भवति तादृशस्य तु प्रकृतेऽलाभाच्छ्रुतार्था-
पत्तिरूपप्रमाणाभावादित्यर्थः । तज्ज्ञान इति तात्पर्यज्ञाने चापरोक्षदर्शनादित्यर्थः । तदिति
विध्यानर्थक्यमित्यर्थः । शब्दस्य ज्ञानजननादिति पाठं मत्वा आहुः षष्ठ्येत्यादि । फलानां तृप्त
इति दृष्टान्तः । ज्ञानं जायत इति । अत्रैवं ज्ञेयम् । वाक्यं च सिद्धार्थ साध्यार्थं च, यद्यपि
सर्वमेव वाक्यं सिद्धार्थं भवति । भावित्वभूतत्वयोर्धर्मत्वेन निराश्रयत्वासंभवाद्वर्तमानकाले भावि-
भूतयोर्वस्तुनोः सत्ता स्वीकार्येति । न च कालस्तदाश्रयो भवतीति शङ्क्यम् । भावी कालो भूतः
कालः इति प्रतीत्यापत्तेरित्यादिकं स्थितं विद्वन्मण्डने । तथापि कारणकलापनिष्ठाद्यव्यवहार-
निबन्धनोयं साध्यत्वव्यवहार इति । वाक्ये द्वैविध्यम् । तत्र सिद्धार्थस्य वाक्यस्य संनिकृष्टे विषये
प्रत्यक्षसहकारित्वात् प्रत्यक्षहेतुत्वमेव । विप्रकृष्टविषये तु तदानींतनार्थसत्तायाः संदिग्धत्वेन संभा-
वनात्मकस्यैव ज्ञानस्य शब्दत्वेन संदिग्धमेव प्रामाण्यम् । बालादिवाक्येपि तथा । प्रतारक-
वाक्ये तु श्रोतुर्विश्वासजाड्यं प्रामाण्यबुद्ध्युत्पादकं न तु शब्दः । वक्तुरनाप्तत्वेन तत्र शब्दत्व-
विरहात् । भ्रान्तः सन् प्रतारको यद्वाक्यं प्रयुङ्क्ते तत्र तथा । प्रवृत्तिसामर्थ्यं तु वक्तुप्रतारकत्व-
बुद्धयभावहेतुका प्रामाण्यधीः प्रमेयबलेन श्रोतुर्जायत इति विश्वासजाड्यकृतत्वं तत्रेति । तस्य प्रतारक-
त्वज्ञानानन्तरं तु या प्रवृत्तिः सापि न शब्दकालाभ्यां किंतु अननुगतादेव कारणविशेषादिति न
सापि प्रामाण्यावेदिका । भ्रान्तवाक्यस्य तु शब्दत्वेऽपि न तज्जन्यं ज्ञानं प्रमाणं, वक्तृदोषात् ।
अतः सिद्धार्थानि वाक्यानि गौणमेव प्रामाण्यं बिभ्रति । साध्यार्थे तु वाक्यार्थो बुद्धिपरिकल्पितः ।
संसर्गिण्याः क्रियायास्तदानीमभावेन तत्संसर्गस्याप्यभावात् । तस्माद्वक्तुर्यथार्थवादित्वाभावेन तद्वा-
क्यस्याप्रामाण्यं यद्यपि तथापि प्रवृत्तिसामर्थ्यात् प्रमेयबलेनैव प्रामाण्यमिति । अत एव 'अत्यन्तासत्यपि
ज्ञानमर्थे शब्दः करोति हि' इति अभियुक्तोक्तिः । प्रमाणत्वं न स्यादिति । शाब्दबोधे पदजन्य-
पदार्थोपस्थितेः तन्त्रत्वादितिभावः ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५९
मनसा तज्जननेऽपि तथा । तस्मात् प्रथमं शाब्दमेव ज्ञानमिति मन्तव्यम्,
अनुभवसिद्धत्वात् । इदानीन्तनानामपि शमादिरहितानां निर्विचिकित्सितवेदार्थ-
ज्ञानोपलब्धेः । संन्यासानुपपत्तिश्च ।
भाष्यप्रकाशः ।
घटमानयेत्यत्रापि वाक्यार्थज्ञानं प्रत्यक्षं स्यात् । आत्मन इव घटस्यापि पूर्वमनुभूतत्वात् । चीत्कारेण
गजानुमितिरपि न स्यात् । यद्वा, प्रमाणे ज्ञानेऽनुव्यवसीयमानयोः प्रत्यक्षत्वपरोक्षत्वयोर्जातित्व-
बाधकसंकरापत्तिः स्यात् । नचेष्टापत्तिः । व्यवहारे भङ्गनयमपगच्छतस्तथा वक्तुमयुक्तत्वात् ।
भारत आजगरेऽपि,
'जातिरत्र महासर्प मनुष्यत्वे महामते ।
संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः' ।। इति ।
युधिष्ठिरेण ब्राह्मणत्वजातिबाधकतया संकरस्योपगतत्वाच्च । अतोनेकदूषणग्रासादधि-
कारिभेदशब्दापरोक्ष्योः कल्पनमेवायुुक्तमित्यर्थः । ननु मास्तु शब्दादपरोक्षं, तथाऽपि दशम-
स्त्वमितिवाक्यसहकृतचक्षुषा दशमोऽहमितिवन्मनसैवानुद्रष्टव्य इति श्रुतेस्तत्त्वमस्यादिवाक्यसहकृ-
तमनसैव विविक्तात्मसाक्षात्कारो भावीत्यधिकारिभेदो नायुक्त इति चेत्तत्राहुः मनसेत्यादि ।
वाक्यसहकृतमनसा यदि सर्वेषां साक्षात्कारस्तदा मननादिविधिवैयर्थ्यम् । यदि कस्यचिद् तदा
यस्य न साक्षात्कारस्तस्य वेदान्तार्थनिर्धार एव विचारफलत्वेन वाच्यस्तथा सत्युक्तरीत्या वैराग्या-
दिसंपादकत्वेन तस्य प्रागेवापेक्षितत्वात् पूर्वोक्तान्योन्याश्रयादिदोषतादवस्थ्यमित्यर्थः । सिद्धमाहुः
तस्मादित्यादि । मन्तव्यमिति सर्वेषां भवतीति मन्तव्यम् । अनुभवसिद्धत्वं विशदयन्ति
इदानीमित्यादि । तथाच पूर्वोक्तं दूषणं दुरुद्धरमित्यर्थः । उक्तदार्थ्याय दूषणान्तरमाहुः संन्यासे-
त्यादि । 'गृहाद्वा प्रव्रजेद् वनाद्वा प्रव्रजेत्' इतिश्रुतौ तत्तदाश्रामानन्तर्यकथनाद् दृढं वैराग्यं
रश्मिः ।
इल्पकारिणं प्रति विपरीतलक्षणयोक्तिः । अपकारिणि उपकारित्वरूपेण मुख्यार्थे बाधिते
सति विरोधरूपसंबन्धेन अपकारित्वलक्षणादिति वाच्यम् । तथा सति पारोक्ष्यापत्त्या प्रतिज्ञा-
व्याहतेः । वाक्यार्थज्ञानमिति वाक्यार्थस्य घटानयनस्य ज्ञानं प्रत्यक्षात्मकं स्यादित्यर्थः ।
पुरोवर्तिवाक्यार्थस्य ज्ञानं निशामनं भवतीति परोक्षवाचितपदेन घटो विशेत् इति ज्ञेयम् ।
गजानुमितिरिति । शब्दापरोक्षप्रतिज्ञा गजवान् देश इत्यनुमितिरित्यर्थः । किंतु गजप्रत्यक्षं
स्यादिति भावः । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः संकरः इति नैयायिकोक्तं
लक्षणमनुसृत्याहुर्यद्वेति । प्रमीयत इति प्रमाणमिति । भावव्युत्पत्तिमत्त्वादाहुः प्रमाणे ज्ञान
इति अहं ब्रह्मास्मीति ज्ञाने इत्यर्थः । अनुव्यवसीयेति ब्रह्म अहं जानामीति अनुव्यवसीय-
मानयोरित्यर्थः । अत्र ज्ञानानुकूलो व्यापार इत्यत्र ज्ञानस्य शाब्दत्वप्रत्यक्षत्वाभ्यां बोधः, न ज्ञान-
स्त्वेन प्रकारेण अन्वेषणमाणे ज्ञानत्वस्य तत्रैव पर्यवसानात् । अयुक्तत्वादिति आकृत्यधिकरणविरोधेन
तन्मत्वादित्यर्थः । यद्वा न भावव्युत्पत्तिः । करणव्युत्पत्तिरेव । तथा च व्यवसायज्ञानस्यानुव्यवसा-
यकारणत्वात् प्रमीयतेऽनेन व्यवसायेन तत् प्रमाणं ज्ञानं ब्रह्म इत्याकारकं तस्मिन् सति अनुव्यवसी-
यमानयोरेवानुव्यवसायप्रत्यक्षत्वपरोक्षत्वप्रकारकज्ञानं विषयतासंबन्धेन तस्य कर्तॄर्मोः । अत्र धात्व-
र्थफलमात्रं कृतिमत्त्वं कर्तृत्वं फलानुकूलव्यापारश्चानेकधा । भाष्ये इदानीमिति । 'अलौकिको
हि वेदार्थः' इति श्रुत्युक्तसाधनवतामिति विशेषणीयम् । निर्विचिकित्सेत्यादि । विचिकित्सा
तु संशयः । प्रकृते । पूर्वोक्तमिति अनुभवविरोधरूपमित्यर्थः । तत्तदाश्रामानन्तर्येति ।
59

६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
किंच । अध्याहारश्च कर्तव्यः । स च कर्तव्यादिपदानाम् । यदि तत् स्वार्थं,
व्यर्थमेव वाक्यं स्यात् । परार्थत्वे त्वशक्यं, न हि तैर्विचारः कर्तुं शक्यते । स्मृ-
तिवैयर्थ्यं च । असंगतिश्चास्य सूत्रस्य भवेत् ।
किंचाधिकारपक्षे पुरुषार्थः सिद्ध्यति, नानन्तर्यपक्षे उक्तन्यायात् ।
किंच, तादृशस्याधिकारिणः श्रवणमात्रेण कृतार्थस्य समाधिनिरतस्य
प्रवचनासंभवाच्छास्त्रोच्छेदः शास्त्रविरोधश्च । साधनानामग्रे स्वयमेव वक्तव्य-
त्वात् । अतोऽनेकद्रोषदुष्टत्वाद्धिकारार्थ एव श्रेयान् ।
भाष्यप्रकाशः ।
संन्यासाङ्गमिति ज्ञायते । श्रुत्यन्तरे च ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः’
इति वेदान्तार्थनिश्चयोत्तरं संन्यासस्योक्तत्वात् तदङ्गभूतवैराग्यस्य वेदान्तार्थनिश्चयोत्तरत्वमेवायाति ।
ततः पूर्वभावित्वं च विचारस्येति तत्तदभावे दृढवैराग्याभावात् संन्यासानुपपत्तिः । तथाचानन्तर्य-
पक्षे तन्निरूपकस्य वक्तुमशक्यत्वात् किमनन्तरमित्याकाङ्क्षायाः कथमपि न पूरणमित्यर्थः ।
द्वितीयं दूषणं विवृण्वन्ति किंचेत्यादि । तदिति विचारकरणम् । तथाच स्वयमेव मनसि
विचार्यमिति स्वार्थत्वे शास्त्रानर्थक्यमित्यर्थः । अशक्यमिति अशक्योपदेशरूपम् । तथाच
फलाऽभावाद् वैयर्थ्यमित्यर्थः । असंगतिरिति परैः कर्तव्यमितिप्रतिज्ञाया अग्रिमसूत्रीयस्वयंस्कृति-
विरुद्धत्वादसंगतिरित्यर्थः ।
तृतीयं विवृण्वन्ति किंचाधिकारेत्यादि । उक्तन्यायादिति तदसंभवात्तपेरित्यनेनोक्त-
न्यायात् । विचारव्यतिरेकेण ब्रह्मणः परमपुरुषार्थत्वज्ञानाद्यभावात् तदभावे चित्तशुद्ध्यभावान्न
विचाराभावाद् तथेत्यर्थः ।
चतुर्थं विवृण्वन्ति किंच, तादृशस्येत्यादि । तादृशस्येति साधनचतुष्टयसंपन्नस्य ।
साधनानामिति वैराग्यादिसाधनानाम् । अग्रे इति, तृतीयाध्याये । तथाचानन्तर्यनिरूपकतया
पूर्वसिद्धानां पुनः कथनानर्हत्वात्, कथनेन च पूर्वं तदभावनिश्चयात् सिद्धत्वस्वीकारे व्याख्येय-
शास्त्रविरोध इत्यर्थः । एतेन यन्मध्वैर्जातिकृतं गुणकृतं च ब्रह्मविद्यायामधिकारत्रैविध्यमङ्गीकृत्य
तदानन्तर्यमथशब्दार्थो, न त्वध्ययनमात्रानन्तर्यमिति साधनाध्यायानुसारेणाङ्गीक्रियते, तदपि
रश्मिः ।
‘ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेत्’ इति आश्रमक्रमेण संन्यासः । गृहाद्वेति
श्रुतौ तु अनियततत्तदाश्रामानन्तर्यकथनेनाश्रमा न संन्यासाङ्गानि अपि तु आश्रमानियमात्
‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति श्रुत्यन्तराद् दृढवैराग्यमित्यर्थः । तदङ्गभूतेति ।
हेतुगर्भं विशेषणमिदं तेन संन्यासाङ्गभूतत्वादित्यर्थः । एवायातीति । यथा भुक्त्वा पयः पिब-
तीत्यत्र पयःपानोपयोगिपात्रमपि भोजनोत्तरमेवायाति तद्वदित्यर्थः । तत इति वैराग्यादित्यर्थः ।
तत्तदभावे इति विचारवेदान्तविज्ञानाभाव इत्यर्थः । द्वितीयमिति । अध्याहारश्चेति
भाष्योक्तमित्यर्थः । अशक्येत्यादि । वैराग्याद्यनन्तरं साक्षात्कारादिनिवृत्तये ब्रह्मजिज्ञासा
कर्तव्येति तथाविधित्वं न स्यादिति भावः । तथा च सांख्यप्रवचनसूत्रं ‘नाशक्योपदेशविधि-
रूपदिष्टेप्यनुपदेशः’ इति । न च मात्र वृद्धिरिति वाच्यम् । साध्यापोष्येतव्य इत्यत्र माहेर-
ङ्गीकारेण तवाप्यावश्यकत्वात् । तृतीयमिति । पुरुषार्थश्च सिद्ध्येदिति भाष्योक्तमित्यर्थः ।
न्यायादिति अन्योन्याश्रयादित्यर्थः । तमेवाहुर्विचारेत्यादि । चित्तशुद्ध्यादीति । आदि-
60

न च ज्ञातुमिच्छा जिज्ञासा नाधिकर्तुं शक्येति वाच्यम् । जिज्ञासापदस्य
विचारार्थकत्वात् ।
भाष्यप्रकाशः ।
प्रत्युक्तम्, विचारब्रह्मविद्ययोरैक्याभावात् । अतो न तदुपन्यस्तश्रुतिस्मृतीनामपि विरोधः ।
एवमथशब्दार्थं निर्णीय जिज्ञासाशब्दार्थं निश्चेतुमधिकारार्थविरुद्धं मतान्तरीयं तदर्थमनूद्य
परिहरन्ति न चेत्यादि । ज्ञातुमिच्छा जिज्ञासेति 'धातोः कर्मणः' इति धातुवाच्यसार्थस्येप्सित-
त्वस्मरणाज्ज्ञानप्रधानेयमिच्छा प्रस्तोतुमशक्येत्यर्थः । विचारार्थकत्वादिति जिज्ञासितं सुसंपन्नमपि
ते महदद्भुतम्' इति, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति, 'अजिज्ञासितमद्धर्मो गुरुं मुनि-
मुपाव्रजेत्' इति, 'जिज्ञासायां संप्रवृत्ते नाद्रियेत् कर्मचोदनाम्' इत्यादिषु जिज्ञासितजिज्ञासापदयोरि-
हेच्छावाचकत्वे वाक्यार्थेऽनन्वयेन तत्र विचारार्थकत्वनिश्चयेन तथात्वात् । तथाचैवविधाप्तवाक्य-
रश्मिः ।
पदेन वैराग्यशमदमादिः । चतुर्थमिति । उच्छेदश्च न भवेदिति भाष्योक्तमित्यर्थः । सिद्ध-
स्वेत्यादि । आनन्तर्यनिरूपकत्वाङ्गीकारे साधनाध्यायविरोध इत्यर्थः । जातिकृतमित्यादि ।
ब्राह्मण्यादिजातित्रयकृतं सेवा(वैराग्या)दिगुणत्रयकृतं चेत्यर्थः । अधिकारश्लोको भागवततन्त्रे ।
'मन्दमध्योत्तमत्वेन त्रिविधास्त्वधिकारिणः ।
तत्र मन्दा मनुष्येषु य उत्तमगुणा मताः ॥
मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।
इति जातिकृतो भेदस्थान्यो गुणपूर्वकः ॥
भक्तिमान्परमे विष्णौ यस्त्वध्ययनवाञ्छरः ।
अधमः शमादिसंयुक्तो मध्यमः स उदाहृतः ॥
आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।
विज्ञाय जातवैराग्यो विष्णुपदैकसंश्रयः ॥
स उत्तमोऽधिकारी स्यात् संन्यस्ताखिलकर्मवान् ॥
इति स्मृतयो माध्वभाष्ये । ऐक्याभावादिति । हेतुहेतुमद्भावेन तथात्वादित्यर्थः ।
तदुपन्यस्तेति । 'शान्तो दान्त उपरत:' इति 'परीक्ष्य लोकान् कर्मचितान्' इति 'नास्त्यकृतः
कृतेन' इति 'यमेव' इति 'यस्य देवे' इति श्रुतयः । स्मृतयस्तूक्ताः । विरोध इति ।
ब्रह्मविद्यापरत्वादिति भावः, भागवततन्त्रे विचाराभावात् । मतान्तरीयमिति । शंकराचार्यादि-
मतीयजिज्ञासापदार्थमनूद्य इत्यर्थः । अथशब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः ब्रह्मजिज्ञा-
साया अनधिकार्यत्वादिति । ज्ञातुमिच्छा जिज्ञासा इति च तद्भाष्यम् । अत्र भाष्याशयवर्णकः ।
जिज्ञासापदं ज्ञानेच्छां वक्ति विचारं लक्षयति वा । नाद्यः । अथशब्दसारम्भार्थत्वे ब्रह्मज्ञानेच्छाया
अनारभ्यत्वात्सूत्रार्थासंगतिः । प्रत्यधिकरणविचारकरणेनेच्छाकरणाभावादिति । नापरः । कर्त-
व्यपदाध्याहारं विना अन्वयानुपपत्त्यभावेन विचारलक्षकत्वायोगात् । तदध्याहारे तु अथशब्द-
वैयर्थ्यम् । तेनैवारम्भोक्तेरिति भाष्याशय इति एतदुभयमालोच्याहुः धातोः कर्मण इति ।
'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सूत्रम् । 'इषिकर्मणः इषिणैककर्तृकाद्धातोः
सन्प्रत्ययो वा स्यादिच्छायाम्' इति वृत्तिः । असंदेहाय पुष्कलवाक्यान्याहुः जिज्ञासितमित्यादि ।
वाक्यार्थे इत्यादि । नारदकृतव्यासाभिनन्दनरूपे भारतादिकरणरूपस्वाभाविकधर्मेपि विशेष-
61

अत एव जिज्ञासितुमिच्छेदिति पुराविदां वचनानि । जिज्ञासापदेन चैत-
ज्ज्ञापयति ब्रह्मज्ञानं पुरुषार्थसाधनत्वादिष्टम् । तदिच्छापूरणाय विचार आरभ्यत
इति । यस्मात् कर्मादिभ्यो ज्ञानमेव पुरुषार्थसाधनमित्यतस्तज्ज्ञानाय विचारोऽधि-
क्रियत इति
भाष्यप्रकाशः ।
आहितां रूढिमनादृत्य वृथा यौगिकादरणमप्रयोजकमित्यर्थः । अत्र शाबरभाष्यसंमतिमाहुः अत
एवेत्यादि । ननु विचारे प्रारब्धणीये, अथातो ब्रह्मविचार इत्येव कुतो नोक्तमित्याशङ्कायामाहुः
जिज्ञासापदेनेत्यादि । भृगुप्रपाठके, 'अधीहि भगवो ब्रह्म' इतिश्रुतेर्ब्रह्मज्ञानेच्छ्योपसन्नाय भृगवे,
'यतो वा इमानि' इति ब्रह्मलक्षणकथनपूर्वकं तद्विजिज्ञासस्वेतिपदेन तदिच्छापूरणाय विचारोपदे-
शादिहापि तथैव विचार आरभ्यत इति ज्ञापयतीत्यर्थः । नचात्र तपोऽनुपदेशाच्छ्रुति

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६३
अतःशब्दार्थः ।
भाष्यप्रकाशः ।
तथाच, अतः-अस्मात्सूत्रादारभ्येत्यर्थमाहुः । तत्र पूर्वस्मिन् मते देशदृष्टान्ताद्धर्मज्ञानस्य न तेन
रूपेण हेतुत्वं, किंतु वृत्तत्वेन वाच्यम्, तच्चानन्तर्यपक्षदूषणादेवापास्तम् । धर्मज्ञानत्वेन हेतुत्वं
तु प्रत्यक्षबाधितम् । द्वितीये तु, स्मृतौ कर्मणामस्पष्टत्वेन विशेषितत्वात् तदेवातश्शब्देन गोचरी-
क्रियते, न तु पूर्वावधिरनुक्तसिद्धत्वात् । एवं श्रुतावपि पूर्वं, त एते सर्व एव समाः सर्वेऽनन्ता
इत्यनेन प्राणानां वाङ्मनःप्राणानां साम्यबोधनादुपासकेन कस्य कर्म व्रतत्वेन धार्यमित्यपेक्षायां यस्य
व्रतमुत्कृष्टं तन्निर्णायनार्थं व्रतमीमांसायाः प्रवर्तितत्वेन तदुत्कर्षज्ञापनमेव हेतुत्वेनाभिप्रेयते, न तु
पूर्वावधिरिति बोध्यम् । तेन मतद्वयमप्ययुक्तमितिज्ञापनायोक्तमिति । अतःशब्दार्थ इति तथाच
रश्मिः ।
अस्मादिति कर्मज्ञानाधिकारादित्यर्थः । धर्मज्ञानस्येति । यद्यपि कर्मज्ञानमुक्तं पूर्वं 'देवो वः सविता
प्रार्पयतु श्रेष्ठतमाय कर्मणे' इति यजुःसंहिताश्रुतेः, तथापि 'धर्मं चर' इति शिक्षाश्रुतेः धर्मज्ञानं
पूर्वमित्याशयेनोक्तमत एव 'अथातो धर्मजिज्ञासा' इत्युक्तम् । 'कर्मैके तत्र दर्शनात्' इति सूत्रं त्वग्रे ।
न तेन रूपेणेति दृष्टान्ते देशत्वरूपेण हेतुत्वाभावादत्रापि न कर्मज्ञानत्वरूपेण हेतुत्वं किंतु क्षेम-
त्वेन सुमिक्षत्वेन च तद्वदत्रापि पूर्ववृत्तत्वेन वाच्यमित्यर्थः । आनन्तर्यपक्षदूषणादेवेति ।
अधातः साङ्गशिरसो वेदस्याधिगताल्पास्थिरफलके बलकर्मज्ञानतया संजाता मोक्षाभिलाषस्यानल्पस्थिर-
फलमह्मजिज्ञासास्यानन्तरभाविनीति तथत्वादित्यर्थः । तथा यदुक्तं 'अक्षय्यं ह वै चातुर्मास्य-
याजिनः सुकृतं भवति' इति धर्मस्यापि नित्यफलमवगच्छतो विवेकाद्यसंभवादानन्तर्यसंभावनां
मृते अतःशब्द इति । तथा चोक्तश्रुतिः 'यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो
लोकः क्षीयते' इति श्रुतिबोधितॆति । अतो विवेकादिसंभवादित्यर्थः । तस्यापि तथात्वादिति प्रत्य-
क्षबाधितमिति । धर्मजिज्ञासायाः प्रागपि अधीतवेदस्य ब्रह्मजिज्ञासोपपत्तेस्त्येत्यर्थः ।
कर्मत्वं तु क्रियासाधारणधर्मत्वं च चोदनालक्षणोर्थ इति विभेदः । सूचीकटाहन्यायेनाहुः द्विती-
ये तु । स्मृताविति । तदेवेति अस्पष्टत्वमेवेत्यर्थः । अन्यथा विशेषणवैय्यर्थ्यापत्तिरिति भावः । ते
एत इति वाङ्मनःप्राणा इत्यर्थः । कर्म व्रतत्वेनेति व्यापारो व्रतत्वेनेति निश्चयविषयत्वेनेत्यर्थः ।
इत्यपेक्षायामिति । एतदग्रे यस्य व्रतमुत्कृष्टं तन्निष्पायनार्थमित्यपि दृश्यते । तदुत्कर्षेति यस्य
व्रतमुत्कृष्टं तदुत्कर्षज्ञापनमित्यर्थः । तथा अत इत्यस्योत्कर्षज्ञापकत्वादित्यर्थः । उत्कृष्टश्च प्राणः
'यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति' इति, 'प्राणाद्वा एष उदेति प्राणेऽस्तमेति' इति श्रुतेः । भाष्ये
ज्ञानमेवेति । सर्वात्मभावस्य सर्वत्र विगाढभावहेतुकस्यानुभववादिकार्यकः प्रियत्वानुभव
इत्यर्थः । अयमेव स्नेहः । एतच्च 'अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम्' इति सूत्र-
विचार सापनाव्याये स्पष्टयितव्यम् । अधिक्रियत इति । अधिकार उत्तरत्रानुवृत्तिः । अत एव
'उक्तमिष्यत' इति सूत्रभाष्यलिङ्गमित्यनुवर्त्तत इति । ननु तथाप्येवं सति भाष्ये एवं स्फुटमुक्तं
स्यात्, मैवम् । जिज्ञासापदज्ञापितेस भगवच्छासाश्रयगोचरस्य ज्ञानसैतादृशस्नेहेत्वात् । 'पुरु-
षार्थोतः शब्दाद् इति बादरायणः' इति सूत्रात् । अतः सर्वात्मभावात् । नच प्राणो वै षष्ठमिति
चेदन्न ब्रवीमि । स्मृतिलक्षणङ्गीकारात्, न च श्रुतिविरोधस्स्यादङ्गत्वात् । न च प्रमाणाभावः 'भक्त्या
63

धर्मो यज्ञःप्रदः सुखदश्चातः करोमीत्यादाविहेष्टव्यतःपदप्रयोगदर्शनादयमेवार्थो न त्वन्यविध
इत्यर्थः । नन्वस्य प्रथमसूत्रत्वादत्र प्रेक्षावत्प्रवृत्तिसिद्धयर्थमधिकारिविषयसंबन्धप्रयोजनानि

रश्मिः ।

संजातया भक्त्या' इति वाक्यानुभवात् । न च प्रमाणाभावः 'नायमात्मा बलहीनेन लभ्यः' इति
श्रुतिगुंभात् । बलं भक्तिरिति भाष्यम् । न च प्राणो वै बलमिति शङ्क्यम्, अप्रकरणात् ।
न च ज्ञानं तत्, 'ब्रह्मविदाप्नोति' इति श्रुतेः । मैवम् । 'भक्तिरहस्यभजनं तदिहामुत्र फलभोग-
नैराश्येनामुष्मिन्मनःकल्पनम्' इति उद्देश्यविधेयभावात् । ज्ञानत्वेन सर्वात्मभावमुद्दिश्य ज्ञानं तु
गीतायां विहितमिति । किं च 'भक्त्याहमेकया ग्राह्यः' इति स्मृतिर्वेदविरोधाभावात्स्वमूलं श्रुतिं
ज्ञापयिष्यति । ननु 'ब्रह्मविदाप्नोति परम्' 'तमेव विदित्वा' इत्यादिविप्रकृष्ट

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५
अधिकारी तु त्रैवर्णिक एव। न हि वेदविचारस्य वेदाधिकारिव्यतिरिक्तः
शक्यते कल्पयितुम्। न हि मन्दमतेर्वेदोनार्यातीति त्रैवर्णिके मतिमत्त्वमधि-
कारिविशेषणं कल्प्यते। अन्धपङ्ग्वादीनामिव कर्मणि, गृहाद्यासक्तस्य मननाद्य-
संभवात् साक्षात्कारो न भविष्यति।
न च धर्मन्यायेन गतार्थत्वमस्य। अप्रतिज्ञानादनुपलब्धेश्च। न च जगत्कारणं
परमात्मा वा प्रकृतिर्वा परमाणवो वेति संदेहे किंचिदधिकरणमस्ति।
भाष्यप्रकाशः।
भाष्यानि। तत्रानन्तर्यपक्षे विचारितधर्मो वा शमादिमान् वाधिकारी प्राप्यते। अधिकारपक्षे
तु तदप्राप्त्या शास्त्रस्यानर्थक्यप्रसङ्गः, सर्वाधिकारकत्वं वा स्यादित्याशङ्कायामाहुः अधिकारी
त्यादि। तथाच ब्रह्मणो वेदार्थत्वात् तद्विचारेऽधिकृते ब्रह्मजिज्ञासापदादेव तत्प्राप्तेर्न पूर्वोक्तो
दोष इत्यर्थः। नन्वेवं त्रैवर्णिकाधिकारोपगमे तेषां सर्वेषामधिकारप्राप्त्या, शान्तो दान्त इति श्रुति-
विरोधात् तत्संकोच आवश्यक इति शमाद्यानन्तर्यपक्ष एव श्रेयानित्यत आहुः नहि मन्देत्यादि।
तथाच तत्र यथा मतिमत्त्वस्यार्थात् प्राप्तिस्तथात्राप्युपयुक्तस्य विशेषणस्य प्राप्तिरिति संकोचस्यानाव-
श्यकत्वादधिकारो न दुप्यतीत्यर्थः। ननु यद्येवं स्याच्छ्रुतिः किमिति वदेदित्याकाङ्क्षायामाहुः
अन्धेत्यादि। तथाच तेषां यथाज्यावेक्षणविष्णुकमक्रमणादिकरणाशक्त्या तत्कृतकर्मणो व्यङ्गत्वात्
फलाजनकत्वं, तथैतदीयशाब्दज्ञानस्यापि व्यङ्गत्वात् साक्षात्कारजनकत्वमिति बोधयितुं फलोपका-
राय वदति, आत्मन्येवात्मानं पश्येदिति। अतो विचारे स्वरूपोपकारार्थं शमाद्यनङ्गीकारेऽपि न
श्रुतिविरोध इत्यर्थः। ननु यदि त्रैवर्णिकाधिकारेणार्थादध्ययनानन्तर्यसिद्ध्या तदर्थं वेदार्थभूतब्रह्म-
विचारः प्रतिज्ञात इत्यायाति तदा शास्त्रवैयर्थ्यापत्तिः। धर्मजिज्ञासेत्यत्र धर्मशब्दस्य वेदार्थमात्रो-
पलक्षकत्या पूर्वतन्त्रन्यायेनैव वेदार्थज्ञानसिद्धेरित्यत आहुः नचेत्यादि। धर्मन्यायेनेति
पूर्वमीमांसया। अप्रतिज्ञानादिति जैमिनिना ब्रह्मविचारस्याप्रतिज्ञानात्। अनुपलब्धेरित्यस्यैव
विवरणम्, न च जगदित्यादि।
रश्मिः।
प्राप्यत इति यथायथं रामानुजशंकराचार्यमते प्राप्यत इत्यर्थः। तत्प्राप्तेरिति त्रैवर्णिकाधिकार-
प्राप्तेर्गतोक्तजिज्ञासुप्राप्तेश्चेत्यर्थः। अधिकारो नाम ब्रह्मानन्दज्ञातृत्वम्। 'मन्दाः सुमन्दमतयो
मन्दभाग्या ह्युपद्रुताः' इति श्रोतुर्विशेषणान्मतिमत्त्वम्। 'शान्तो दान्तः' इति श्रुत्युक्तमित्यादि-
शब्दः तृतीयाध्याये विचारयिष्यते। तत्संकोच इति त्रैवर्णिकानामधिकारविशेषसंकोच इत्यर्थः।
तथा च तत्रेति पूर्वतन्त्र इत्यर्थः। अर्थादिति ज्ञानिनो विधेयत्वेन भक्तस्य स्वतःसिद्धत्वेन
शमादय इति तत्रैवोक्तम्। एवं चाक्षेपादित्यर्थः। एवं स्यादिति अनावश्यकत्वं स्यादित्यर्थः।
तेषां यथाज्येत्यादि। इदं पूर्वतन्त्रे षष्ठे 'फलार्थत्वातु कर्मणः शास्त्रं सर्वाधिकारं स्यात्'
इत्यधिकरणे चिन्तितम्। व्यङ्गत्वादिति भावनाद्यसंभवाद्यङ्गत्त्वाद् 'अनियमः सर्वासाम्'
इत्यधिकरणे महन्माहात्म्यवतां भक्तेरन्वशं साधनत्वोक्तेः साक्षात्कारो न भविष्यतीत्यर्थः।
न श्रुतिविरोध इत्यर्थ इति दर्शनविधिशेषत्वात्तस्या इत्यर्थः। तथा च शमादिसहकृतमन-
नादित्वेनात्मसाक्षात्कारत्वेन कार्यकारणभावः। विचारत्वेन शाब्दत्वेन च कार्यकारणभाव इति
भावः। ननु मुख्यफलाभावे व्यर्थो विचार इत्याशङ्का तु अग्रे फलकामनाया अनुपयोगादिति भाष्य-
१ प्र० सू० २ ० 65

६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
स्यादेतत् । अथातो धर्मजिज्ञासेति धर्मविचारं प्रतिज्ञाय नोदकवाक्यार्थस्य
धर्मत्वमुक्त्वा प्रामाण्यपुरःसरं सर्वे संदेहा निवारिताः । तत्र ब्रह्मज्ञानस्यापि
धर्मत्वम् 'आत्मेत्येवोपासीत' 'आत्मानं लोकमुपासीत' 'तद् ब्रह्मेत्युपासीत'
'आत्मा वा अरे द्रष्टव्यः' इत्यादिनोदनावाक्यार्थत्वात् । 'अयं हि परमो धर्मो
यद्योगेनात्मदर्शनम्' इति स्मृतेश्च । सृष्ट्यादिवाक्यानां त्वर्थवादत्वम् । आरोपाप-
भाष्यप्रकाशः ।
एवमानन्तर्यपक्षे निरस्ते पूर्वमीमांसकोऽस्यास्त्रैवर्णिकाधिकारकत्वं सर्ववेदार्थज्ञानार्थत्वं च
श्रुत्वा प्रत्यवतिष्ठते स्यादेतदित्यादि । यदि त्रैवर्णिक एवाधीतवेदोऽधिकारी, यदि च सर्ववेदार्थ
एव ज्ञातुमिष्टस्तदा वक्ष्यमाणमेवाङ्गीकार्यमित्यर्थः । प्रामाण्यपुरःसरमिति औत्पत्तिकसूत्रे
[

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७
वादविषयधर्मप्रतिपादकत्वेन विधेयोपासनाविषयस्तावकत्वात् ।
न च ज्ञानादीनामविधेयत्वं प्रमाणवस्तुपरतन्त्रत्वेनाकृतिसाध्यत्वादिति
वाच्यम् । न हि सर्वात्मना असाध्यम् । प्रकारभेदस्त्वप्रयोजकः । सर्वस्यापि
कारणेषु पुरुषव्यापृतिः । तदत्र वृत्तिसंपादने प्रमाणासंपादने वा पुरुषकृतिसा-
ध्यत्वम् ।
भाष्यप्रकाशः ।
विषयस्यात्मनः प्रशंसार्थं क्वचित् कर्तृत्वमारोप्यते, अन्यत्र च तदपोद्यते । क्वचित् सर्वकाDIR
दिकं प्रतिपाद्यते, अन्यत्रापोद्यते । यदि तद्वास्त्वं स्यान्नापोद्येतेति तर्केणारोपपवादविषयो यः
कर्तृत्वादिधर्मस्तत्प्रतिपादकत्वेन तेषां विधेयस्तावकत्वनिश्चयात् । सिद्धेऽर्थवादत्वे तेषां स्वार्थे तात्प-
र्याभावेन ब्रह्मणि विरुद्धधर्माधारत्वादिकल्पनास्याप्रयोजकत्वात् । तदर्थत्वेऽपि गतार्थत्वमित्यर्थः ।
ननूपासनावाक्यशेषाणामस्त्वर्थवादत्वं, न तु ज्ञानवाक्यशेषाणामपि । ज्ञानस्य प्रमाणवस्तुभ्यां
जायमानत्वेन तदर्थं कृत्यपेक्षाभावेन तस्य विध्यर्थत्वाभावात्, कृतिसाध्यत्वस्यैव विध्यर्थत्वात् ।
नच तव्यविरोधः आवश्यकार्थेऽपि जायमानत्वात् । अतस्तच्छेषाणां स्तावकत्वाभावेन तद्विचार-
स्यावश्यकत्वाभात्सा गतार्थत्वमिति । शमाद्यानन्तर्यवादिनः शङ्कायामाह नचेत्यादि । आदिपदेनेच्छा-
प्रयत्नो । तेन 'तदन्वेष्टव्यम्', 'तद्विजिज्ञासितव्यम्', 'मन्तव्यो निदिध्यासितव्यः' इत्यादीनां संग्रहः ।
तद् दूषयति नहीत्यादि । सविकल्पादिजनककृत्यपेक्षायास्तत्रापि सत्त्वात् तथेत्यर्थः । ननु तथापि
कर्मवत् साक्षात्कृतिसाध्यत्वाभावात् कथं ज्ञानादीनां विधेयत्वमित्यत आह प्रकारेत्यादि । ज्ञाना-
देरविधेयत्वसाधनायैवं प्रकारभेदो यः कल्प्यते सत्वविधेयताप्रयोजको न भवति । यतो धर्मस्या-
पूर्वात्मकत्वेन तस्य सर्वस्यापि कारणीभूते क्रियाकलाप एव यत्नात्मा पुरुषव्यापारो दृश्यते, न तु
साक्षात् । तत्तस्मादत्र ज्ञानादौ वृत्तिसंपादने बुद्धिजन्यायाः पदार्थान्तररूपाया बुद्धयवस्थाविशेष-
रश्मिः ।
स्नापनात्तयेत्यर्थः । अयं हीति निश्चयेन । परो मीयते ज्ञायते येन तादृशो धर्मः स कः यद्योगः
स च कर्मसु कौशलं ब्रह्मसेवारूपं भगवता स्वैश्वर्यस्य निर्विषयत्वपरिजिहीर्षया जीवाय दत्तं तेनात्म-
दर्शनं ब्रह्मबोधनमिति योजना, इदमवान्तरफलं मुख्यमन्यदिति, सिद्धान्तमुक्तावल्यां स्फुटम् ।
क्वचिदिति 'यतो वा इमानि' इत्यादावित्यर्थः । आरोप्यत इति अध्यस्यत इत्यर्थः । अन्यत्रेति
निष्कलं निष्क्रियमित्यादावित्यर्थः । क्वचिदिति सर्वकाम इत्यादावित्यर्थः । अन्यत्रेति अकाम
इत्यादावित्यर्थः । विधेयस्तावकत्वेनेत्यादि विधेया योपासना तद्विषयीभूतात्मस्तावकत्व-
निश्चयादित्यर्थः । ननु न प्रतीतं निषेधामत आह तदर्थत्वेऽपीति । विरुद्धधर्माधारत्वार्थ-
त्वेऽपि, अर्थवादत्वेन गतार्थत्वमित्यर्थः । ज्ञानवाक्यशेषाणामिति । 'आत्मा वा अरे द्रष्टव्यः'
इत्याद्युक्तानां ज्ञानानां वाक्यशेषा 'मैत्रेय्यात्मनो वा दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्वं
विदितम्' इत्याद्यास्तेषामित्यर्थः । प्रमाणवस्तुभ्यामिति इन्द्रियविषयाभ्यामित्यर्थः । शङ्काया-
माहेति शङ्कायां प्राप्तायां न चेत्यादिनिषेधमाहेत्यर्थः । तथेति सर्वात्मना असाध्यत्वाभावनिश्चय
इत्यर्थः । तदित्यव्ययमित्याशयेनाडुः तत्तस्मादिति । वृत्तिसंपादनेति पूर्वोक्तभाष्यं व्याकु-
र्वन्ति बुद्धिजन्याया इति । पदार्थान्तरेत्यादि । व्याख्यातमेतत् । सांख्यैराहंकारिके तत्त्वान्तर-
रूपत्वमङ्गीक्रियते इति पदार्थान्तररूपायाः । श्रुतीममुपनिषन्त्यनुसारेणाहुः बुद्धयवस्थेति ।
67

६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
अन्यथा सिद्धान्तेऽपि मननादिशास्त्रवैफल्यापत्तेः । साधनप्रतिपादकश्रुति-
विरोधश्च । येनापि सर्वक्रियाफलत्वं निराकार्यं तेनापि गुरूपसत्त्यादिना यतित-
व्यमेव ज्ञानार्थे । तस्माद् यत्रापि विध्यश्रवणं, तत्रापि विधिं परिकल्प्य तन्त्रत्यानां
तच्छेषत्वं कल्प्यमिति, नार्थोऽनया मीमांसया । अन्यथा विरोधोऽपि ।
स्यादेतत् । ब्रह्मविचार एवारम्भणीयो, न धर्मविचारः । सर्ववेद्व्यासकर्त्रा
वेदव्यासेनाकृतत्वात् तुच्छफलत्वाच्च । कल्पोक्तप्रकारेण निःसन्दिग्धं करण-
भाष्यप्रकाशः ।
रूपाया वा तस्या उत्पादने प्रमाणसंपादने वा, 'आवृत्तचक्षुरमृतत्वमिच्छन्' इति, 'अतो निर्विषयं
नित्यं मनः कार्यं मुमुक्षुणा' इत्यादि श्रुतेस्तदङ्गचक्षुरादिसंपादने वा तथात्वमिति, न ज्ञानादेरविधेय-
त्वमिति तव्योऽपि विधावेवेत्यर्थः । अविधेयत्वोपगमे दूषणमप्याह अन्यथेत्यादि । साधनप्रति-
पादकश्रुतयस्तु, 'तपसा ब्रह्म विजिज्ञासस्व,' 'वसाऽपराणि पञ्च वर्षाणि,' 'शान्तो दान्तः' इत्याद्याः ।
तन्त्रत्यानामिति वाक्यानां ब्रह्मादिपदानां चेत्यर्थः । अन्यथेत्यादि विध्यकल्पने ऐक्यार्था-
भावेन वाक्यभेदापत्तावैकशास्त्र्यविरोधः । अपिशब्दात् कर्मप्रतिपादनतन्निन्दनकृतो विरोधो
वेदोऽखिलो धर्ममूलमित्यादिस्मृतिविरोधश्च संगृह्यते । अत्रैकदेशी वितण्डया प्रत्याह स्यादेतद्ब्रह्मे-
त्यादि । सर्ववेदेत्यादि । तथाच जैमिनिस्तच्छिष्यः सामगो, न सर्वज्ञ इति तदुक्तं न प्रमाण-
रश्मिः ।
तस्या इति वृत्तेर्नयनान्तरभूतायाः । नैयायिकास्तु नयनकिरणानां निर्गतेन न विषयसंनिकर्षाज्ज्ञानं
तेन यावता संस्काराख्यं गुणान्तरं चरमस्मृतिनाश्यमात्मन्यङ्गीकुर्वन्तो वृत्तिपदार्थमेव नेच्छन्ति ।
प्रमाणसंपादनेति भाष्यमिदं अग्रे व्याख्यातम् । तथात्वमिति परंपरया कृतिसाध्यत्वम् ।
भाष्ये अन्यथेत्यादि परंपरापि कृतिसाध्यत्वाभावे । द्रष्टव्य इति उपक्रम्य पठितस्य युक्तिभिरनु-
चिन्तनरूपमननादिशास्त्रस्य वैफल्यापत्तेरित्यर्थः । श्रवणेनैव दर्शनाङ्गीकाराद्विरोध इति प्रोक्तम् ।
स्वयमर्थवादत्वस्य विधिवाक्यातिरिक्तस्याङ्गीकारादपिपदम् । येनापि सर्वक्रियाफलत्वमिति ।
शब्दमात्रेण साक्षात्कारमङ्गीकुर्वतापि वैयाकरणेनापीति वा सर्वविधिव्यापारसाध्यत्वमित्यर्थः ।
यतितव्यमिति तथा चानिच्छतापि अनुभवबलात्परंपरया कृतिसाध्यत्वं स्वीकार्यमिति भावः ।
अन्यथासिद्धत्वं तु नैयायिकमते न तु मीमांसकमते 'इमामगृभ्णन्त्सरशनामृतस्येत्यश्वाभिधानीमादत्ते' ।
यत्रापीति । 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' इत्यत्र विधिश्रवणेपि यत्र मैत्रेयीब्राह्मणे
'आत्मा वा अरे द्रष्टव्यः' इत्यादी तत्रापि तव्यादिं विधावङ्गीकृत्य 'न वा अरे पत्युः कामाय पतिः
प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति' इत्यादीनामर्थवादत्वम् । आत्मा यत्र प्रियः
किमुत वाच्यमात्मनोऽपि आत्मा प्रिय इति प्रियत्वाल्लब्धीफलदाता स श्रोतव्य इत्येवं तन्त्रत्यानां
तच्छेषत्वं विधिशेषत्वं कल्प्यमित्यर्थः । प्रकृते, ऐकार्थ्याभावेनेति । उभयोर्मीमांसयोरित्यर्थः ।
तथा चायं मीमांसकत्वोक्तिं न संगच्छतीत्यर्थः । संहतमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति
बोधायनसूत्रात् । तन्निन्दनेति कर्मविच्छेदकस्य निन्दनं दुर्भाषणत्वादिरूपं तत्कृत इत्यर्थः ।
अत्र तत्पदं कर्मपरामर्शिविच्छेदकं लक्षयति । अत्र वितण्डयेति वादभेदेन स्वपक्षदोषमनुद्धृत्य
परपक्षदोषदानरूपेण प्रतिकूलमाहेत्यर्थः । सामग इति 'सामगो जैमिनिः कविः' इति वाक्यादि-
68

संभवाच्च । आचारपरंपर्यापि करणसंभवाच्च । पुनर्ह्यपि संदेहे सूत्रभाष्यया-
ज्ञिकानामेवानुवृत्तिः क्रियते, न मीमांसकस्य । तस्मात् साङ्गवेदाध्येतुर्निःसंदेह-
करणसंभवान्न पूर्व्याऽपि कृत्यम् ।
किंच परमकृपालुर्वेदः संसारिणः संसारान्मोचयितुं कर्माणि चित्तशुद्ध्यर्थं
बोधितवानिति कूपेऽन्धपातनवदप्रामाणिकत्वभियावसीयते । विपरीतबोधिका
तु पूर्वमीमांसा तस्मादपि न कर्तव्येति ।
मैवम् । किं विचारमात्रं न कर्तव्यं, पूर्वकाण्डविचारो वा । नाद्यः । तुल्यत्वात्
समर्थितत्वाच्च ।
द्वितीये सामान्यन्यायेन संदेहे निर्णये लक्षणवत्तदुपयोगः । अनिष्टतया
निरूपणं न मीमांसादोषः । किंतु विचारकाणां स्वभावभेदात् ।
भाष्यप्रकाशः ।
मित्यर्थः । उपासनायामप्यनुपयोगमाह आचारेत्यादि । सूत्रभाष्येति कल्पसूत्रभाष्येत्यर्थः ।
[L1

'?
Wait, look at 'क्ष' in 'पक्षिवृषभाणां' just above it!
'क्षि' in 'पक्षिवृषभाणां' has a loop.
Does this letter look like that?
It has: a letter with 'े' on top!
Wait! It's:
भ, क ् ष, ्य, े, त, ि -> भक्ष्येति?
Wait, what about "भक्ष्येति संहिता"?
Wait, does Taittiriya Samhita have a mantra or passage about Krishnaajina?
Yes, "कृष्णाजिनं..."
Wait, what if it's "कृष्णाजिनं भक्ष्येति संहिता"?
Wait, could it be "कृष्णाजिनं मेध्यमिति"?
No, look at the letters:
First: 'भ'
Second: 'क्ष'
Third: '्ये' ? No, 'ये' ?
Fourth: 'ति'
Wait, let's look really closely:
Letter 1: 'भ' or 'प्र'?
Wait, look at 'प्र' in 'प्रकृते' (L27). 'प्र' has a diagonal to the left.
This letter has a top opening, like 'भ'.
Letter 2: vertical with a loop: 'क्ष'? Or 'स्त'? 'स्तृ'?
Wait! Could it be "स्तृणीतेति"?
No, it has only two or three aksharas!
Let's look at the characters:
कृ ष्ण ा

भाष्यप्रकाशः ।
मेवोवाचेति न दोषः । ब्रह्म च न शरीरमात्रं, येन सृष्ट्यादिवाक्येषु वाचो धेनुत्ववत् तस्मिन्
जगत्कर्तृत्वादीनामसंभवतां धर्माणामारोपापवादादिभिर्विधेयोपासनाविषयस्तावकतयोपासनाशेषता
संभवन्ती गतार्थत्वानुपयोगौ दृढीकुर्यात् । किंचोपासनाविषये आत्मनि निरङ्कुशजगत्कर्तृत्वादयो
ये धर्माः स्तुत्यर्थमारोप्यन्ते, ते किमत्यन्तासन्तः खपुष्पवद्, उत क्वचित् सन्तो रजतवत् । तत्राद्ये
आरोप एव बाधितः । द्वितीये तु सिद्धमतिरिक्तेन ब्रह्मणा । तच्च पूर्वकाण्डे परोक्षवादत्वान्न स्फुटं
प्रतिपादितमिति तत्प्रतिपादकमुत्तरकाण्डं न धर्मप्रतिपादकम् । अत्र उपासनाया धर्मत्वेऽपि नोत्तर-
मीमांसाया गतार्थत्वमित्यर्थः । नन्वस्त्वेवं, तथापि सृष्ट्यादिवाक्यानां विधिमन्त्रादिरूपत्वाभावा-
दर्थवादत्वमेव वक्तव्यम् । ततश्च ब्रह्मस्तावकत्वात् तेषां न स्वार्थे प्रामाण्यमिति तद्विचारशास्त्रस्य
रश्मिः ।
मनुवृत्तिरङ्ग' इति श्लोकोक्तो धर्मः । अत एव धर्मजिज्ञासां चकार न तु कर्मजिज्ञासाम् । 'देवो वः
सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे' इति संहितोक्तत्वेपि निरोधलक्षणग्रन्थोक्ताधिदैविकश्रवणादिरूप-
मर्यादासेवात्वेन श्रुत्यधिकारिधर्मत्वात् । यथा 'अस्त्वेवमङ्ग उपदेशपदे त्वयीशे' इत्युक्त्वा 'प्रेष्ठो
भवान् तनुभृतां खलु बन्धुरात्मा' इति श्रुत्यधिकारि यद्वाक्यं तदुक्तो धर्म आधिदैविकः । तथा च
यथा 'धर्मं चर' इत्याचार्योपदेशेन भक्ता अपि भगवद्वाक्यानि पूर्वपक्षयाञ्चक्रुस्तथाचार्योपदेशेन
धर्मजिज्ञासां चकार । कर्मणस्तूक्तस्य सर्वानधिकारानुन्मूल्यत्वेऽपि कर्मणे न कर्मजिज्ञासा इत्युवाच ।
अग्रे 'कर्मैके तत्र दर्शनात्' इति सूत्रं चकार । तथा चाध्यात्मिकमेवोवाचेत्यर्थः, आध्यात्मिकस्तु
'धर्मः प्रोज्झितकैतवोऽत्र' इति वाक्यादेकादशैकोनविंशाध्यायोक्तश्रवणादिसरणिरूपो धर्मः ।
गतेति । ब्रह्ममीमांसा यतः । बाधिन इति । तादृशस्यादर्शनादिति भावः । अतिरिक्तनेति सद्ध-
र्माश्रयस्य वक्तव्यत्वादित्यर्थः । परोक्षवादत्वादिति 'परोक्षवादो वेदोऽयम्' 'परोक्षं च मम
प्रियम्' 'परोक्षप्रिया इव हि देवाः' इति वाक्यनिकुरुम्बात् । न धर्मप्रतिपादकमिति । अपूर्व-
प्रतिपादकं नेत्यन्ये । सिद्धान्ते धर्मस्यैव फलपर्यन्तावस्थानोपगमात् । एतदेवाग्रे पूर्वखण्डने स्फुटी-
व्यति । तथाचोक्तम्-
'किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
एतस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् ।
एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ॥
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' ॥ इति
नच वेदो मां स्वव्यापारावधिं कृत्वा भिदां मायामात्रमित्यनूद्य 'नेह नानास्ति किंचन' इति
प्रतिषिध्य भेदं, प्रसीदति निवृत्तव्यापारो भवतीति निरुणद्धि इति वाच्यम् । सर्वसामर्थ्यस्य ब्रह्मणो
मायाकृतां विपर्यस्तबुद्धिकृतां नेदं ब्रह्मकार्यमित्याकारिकां भिदामनूद्य प्रतिषेधति कार्यभावात्पूर्वं रूपं
वक्तीत्येकदेशिनः । विरुद्धसर्वधर्माश्रयस्य आनन्दस्य प्रतीयमानां भिदां मायामात्रं क्रीडार्था माया या
मुख्या शक्तिस्तन्मात्रं, नतु आविद्यकमित्यनूद्य प्रतिषेधति । ब्रह्मैव सर्वं, भेदो बुद्धिदोषाद्भातीति
सिद्धान्तः । प्रकाशाश्रयाधिकरणे स्फुटमिदम् । न च मायाविद्ययोरेकीभाव इति सांप्रतम् । 'विद्य-
याऽविद्या शक्त्या मायया च निषेवितम्' इति वाक्येन भेदावगमात् । भाष्ये । ज्ञानरूपत्वादिति

७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १
रश्मिः ।
क्रियारूपत्वखण्डने तात्पर्यादेवमुक्तम्, आनन्दस्यैव त्रिषु मुख्यत्वात् । न च द्वैतापत्तिः । द्वैतं हि
द्वयोर्भाव उच्यते 'प्रज्ञादिभ्यश्च' इत्यणा, ब्रह्मैव सर्वमिति क्व द्वौ । न ह्येकस्मिन्द्वीपे द्वाविति प्रतीतिरस्ति ।
तदुक्तम्-
'कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत् ।
अवस्तुत्वाद्धिकल्पस्य भावाद्वैतं तदुच्यते' ।। इति सप्तमस्कन्धे ।
यदपि द्वयोर्भावो द्विता तत्र भवं द्वैतं संशयरूपं ज्ञानं, द्वाभ्यामितं प्रकारद्वयेन विरु-
द्धधर्माश्रिङ्गाधारवर्तिना युक्तं वस्तु द्वीतं तत्र भवं द्वैतं तदेव संशयज्ञानमिति कैयटानुरोधे लब्धैतं
संशयाभावः । अतश्च ब्रह्मैव सर्वमिति निश्चय इति तदप्यविरुद्धम् । अथवा यथाश्रुतार्थः एका-
दशस्कन्धे सांख्यनिरूपणे स्फुटत्वात्, भाष्ये तु स्तुत्यानन्द आनन्दमये विश्रान्त इत्यदोषः । तत्र
ज्ञानं दशधा इति तृतीयसुबोधिन्यां 'अथ ते तदनुज्ञाता' इत्यत्र निरूपितम् । एतच्च ज्ञानं 'सत्यं
ज्ञानमनन्तं ब्रह्म' इति श्रुतेर्ब्रह्मात्मकम् । तल्लक्षणं तु 'त्रितयं तत्र यो वेद स ह्यात्मा स्वाश्रयाश्रयः'
इति वाक्ये आधिदैविकादित्रिकव्यतिरिक्तत्वे सति तत्रितयज्ञातृत्वमिति सिध्यति । स्वाश्रयश्चासौ
आश्रयः इति कर्मधारय एवोद्देश्यविधेयभावात्स्वरूपकथनपूर्वकं लक्ष्यनिर्देशः, तच्च भावनयाभि-
व्यज्यते 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः' इति श्रुतेः । जीवानार्माप
अत्रैवाभिनिवेशः सजातीयत्वात् । तद्गुणोऽपि चैतन्यं तत्रैव निविशते तदविनाभूतत्वात् 'जीवस्यानु-
स्मृतिः सती' इत्युत्तरार्धे तत्स्वरूपमुक्तम् । पूर्वापरानुसंधानरूपा स्मृतिश्चैतन्यमिति । व्युच्चरणात्पूर्वम-
भेदेन, व्युच्चरणोत्तरमविद्यासंबन्धात्प्राक्कालवर्तिनो ज्ञानस्य सोहमिति पूर्वापरानुसंधानरूपस्यैव सिद्ध-
त्वात् तत्त्वमस्याद्युपदेशोत्तरमपि तथैव प्रतिसंधानादजपायामपि तथात्वान्तादृशत्वनिश्चयः । अयमेव
स्वरूपलाभो विद्यया संपाद्यः विस्मृतकण्ठमणिन्यायात् । तेथापि नित्यम् । 'सत्त्वशुद्धौ ध्रुवा स्मृतिः'
इति श्रुतेः । पूर्वोक्तमेव ज्ञानं धर्मात्मकप्रकाशरूपेणाविर्भवद् भगवद्गुणतां श्रयति सूर्यप्रकाशवत् ।
तदनित्यमपि 'तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्' 'युक्तं भगैः स्वैरितरत्र चाध्रुवैः' इत्यादि-
वाक्येभ्यः । चैतन्यमप्यत्रैव वा निविशते इति द्वितीयं, तृतीयं तु वेदशरीरं दशद्भवति ।
'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः ।
मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥'
इत्येकादशस्कन्धात् सृष्ट्यर्थं भगवन्मनोमयादिसरण्या दधाति, तथाहि ब्रह्मणो हृदयाकाशे स्वयं
ब्रह्म आसन्थेन करणतामापन्नेन नादरूपं दधदाविर्भवति, तदुक्तं घोषेण गुहां प्रविष्टः इत्यन्तेन ।
स पूर्वमव्यक्त एव ततो नानावर्णादिसंकल्पकमनोमयं 'सूक्ष्मरूपमुपेत्य ब्रह्ममुखतः प्रकटः सन्मा-
त्रास्वरवर्णात्मना स्थूलरूपेण शब्दब्रह्मात्मकवेदरूपश्चकास्ति । स च नादोऽस्मदादिष्वपि प्राणघोष-
रूपेण वर्तते व्यापकत्वात्, श्रावणस्तदनुभवस्तु श्रोत्रवृत्तिनिरोधसंपाद्यो भगवतैव कृत्वा जीवेन ।
नान्यः प्रकारः श्रावणे जीवानुभवे । जीवानुभवस्तु भगवतेति निरुद्धद्वारनिह्रजीवो न कार्यं करोतीति ।
अयमेव नादः स्फोट इत्युच्यते स्फुटति वागनेनेति व्युत्पत्तेः । तदुक्तम्-
१. अङ्गुष्ठमजन्यस्यापी ।
72

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३

रश्मिः ।

'समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥
सबभूवो प्रणवः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम्' ॥ इति ।
तेन स्फुटत्यर्थोऽनेन इति स्फोट इति वैयाकरणोक्तं प्रत्युक्तम् । नैयायिकास्तु स्फोटं नाद्रियन्ते ।
तथा हि । घट इत्युक्ते घकाराकारटकाराकारविसर्जनीयैरर्थप्रत्ययाभावाद्दर्णानां क्रमिकत्वेन पदवाक्य-
रूपवर्णसमुदायाभावेन ततोऽप्यर्थप्रत्ययात्पूर्वपूर्ववर्णानुभवजन्यसंस्कारसहकृतान्तिमवर्णादप्यनेकादृष्ट-
संस्कारकल्पनागौरवग्रस्तादर्थप्रत्ययाभावाद्वर्णाभिव्यङ्गयोऽतिरिक्तः स्फोटाख्यः शब्दार्थं प्रत्याययति । एवं
पदस्फोटो वाक्यस्फोटश्च । इति प्राञ्चो वैयाकरणाः । आधुनिकास्तु स एवायं घकार इति प्रत्य-
भिज्ञाबलाद्वर्णरूपः स्फोटः तथा पदवाक्यस्फोटावपि । न चेयमेकार्यबोधकत्वमवलम्बत इति
शङ्क्यम् । जलाहरणादिरूपैकार्यजनकत्वस्य सोऽयं घट इत्यादौ शक्यवचनत्वादिति मन्यन्ते तन्न,
तादृशसहकारिसंपन्नोऽन्तिमवर्ण एव वाचक इति स्फोटकल्पनायामपि गौरवसौल्यम् । अपि च
वर्णव्यङ्ग्यो यत्किंचिद्वर्णव्यङ्ग्यो वा तावद्वर्णाभिव्यक्तिव्यङ्ग्यो वा नेभौ । क्रमिकाणामाशुविनाशिनां
यौगपद्यासंभवात् घकारमात्रोच्चारणे पदस्फोटप्रत्ययेऽर्थप्रत्ययापत्तिवर्णान्तरवैकल्याभ्यां तदसंभ-
वाच्च । अथ पूर्ववर्णसंस्कारसहितचरमवर्णोपलम्भः तद्व्यञ्जक इति उच्यते तर्हि स एवार्थप्रत्या-
यकोऽस्तु कृतं स्फोटेन । न च पदप्रतीतिः स्फोटसाधिका तावद्वर्णगोचरप्रत्ययाभावेपि तावद्वर्ण-
गोचरसंस्कारात्समूहालम्बनरूपतावद्वर्णगोचरस्मरणसंभवात्क्रमविशेषवत्तावद्वर्णगोचरत्वेन स्फोटासाधक-
त्वात् । नहि वर्णमात्रं पदं सरोरसयोः नदीदीनयोः अविशेषापत्तेः । किंतु आनुपूर्वीविशेषाविशिष्टताव-
द्वर्णरूपम् । नचाप्रत्यक्षः घोत्तरं शृणोमीति प्रत्ययात् घोत्तरत्वं हि टस्यानुपूर्वीति । ततः सृष्टिश्च 'शब्द
इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्' इति सूत्रभाष्ये स्फुटिष्यति । तादृशशरीरयुक्तमपि रूपं
'अनन्ता वै वेदाः' इति तैत्तिरीयब्राह्मणश्रुत्या अनन्तं विरंशिष । तुरीयं तु इदमेव शरीरविशिष्टं
भगवदाश्रितमेव पाश्चात्यां विशिष्टशक्तिमापद्य व्यह्य इव विकृतास्तत्रासकरवालेत्यादिरूपाः सर्वे
शब्दा भवन्त्यादिसृष्टौ । तथा हि पूर्वोक्तो नादः सुषुम्णामार्गेण आधारहृत्कण्ठमुखेषु संचरन्
परापश्यन्तीमध्यमावैखरीरूपेणाविर्भवतीति । एतच्चामाण्योपपादनावसरे स्फुटमुपपाद्यम् । एत-
च्चतुर्विधं नित्यम् । ततः तादृशवेदविकृतशब्दात्मकद्विविधशरीरविशिष्टमेव तल्लोके प्रकटीभवितुं
समवायित्वेन प्रमातारं निमित्तत्वेन प्रमेयं चाश्रयते । न च प्रमाणविरहः शङ्कनीयः । पश्यन्त्याख्य-
शब्दावस्थापोषक श्रुतिसद्भावात् । 'चत्वारि वाक्परिमिता पदानि तानि विदुब्राह्मणा ये मनी-
षिणः । गुहा त्रीणि निहितानि नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति' इति श्रुतिः । आधारनाभि-
हृदयवदनरूपाणि चत्वारि पदानि स्थानानि । तत्र परापश्यन्तीमध्यमावैखरीरूपाश्चतस्रः शब्दा-
वस्थास्तासु त्रीणि परापश्यन्तीमध्यमाख्यानि गुहायां निहितानि । अतः नेङ्गयन्ति न जानन्ति,
तुरीयं वैखर्याख्यं अत एव केषांचित् ।
'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्व शब्देन भासते' ॥ इति ।
प्रमेयमाश्रयस्य तु ज्ञानस्य शब्दानुविद्धत्वाच्छब्दस्य च नित्यगर्वसंपन्नत्वाच्छब्दविशिष्टस्यैव,

१० ब्र० सू० २४ 73