भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

तथाच निर्णये येन केनचिद्रूप्येहरिः स्वयं व्यासो विचारं चिकीर्षुस्तत्क- र्तव्यतां बोधयति । ब्रह्मजिज्ञासा कर्तव्येति व्यासोक्तत्वादपि कर्तव्यता । कर्तव्य- पदाध्याहारे स्वातन्त्र्यं न भवति । अन्यथा, 'अथ योगानुशासनम्'इतिवत् स्वतन्त्रता स्यात् । तथाच ज्ञानानुपयोगः । तथाहि । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति केवलौपनिषद्वेद्यं ब्रह्म, न शास्त्रान्तरवेद्यम् । तद् यदि मीमांसा स्वतन्त्रा स्यात् तज्जनितं ज्ञानं न ब्रह्मज्ञानं भवेत् । भाष्यप्रकाशः । एतेन शास्त्रप्रयोजनमारम्भसमर्थनायोक्तम् । विचारकर्तव्यतासमर्थनेनोपोद्घातरूपा अधिकरण- संगतिरपि बोधिता । अतः परं प्रयोजनवत्त्वेऽपीदं शास्त्रं कया संगत्या आगतम् । श्रुतौ च तपस उपदेशात् तदेव च कुतो नोक्तमित्याकाङ्क्षायां शास्त्रसंगतिं वदन्त एव सूत्राक्षराणि व्याकुर्वन्तः

) दोषतौल्ये! Yes, दोषतौल्ये!

Let's read further in line 32: कुतस्तदादरणमिति चेन्न । शङ्काग्रन्थत्वात् । भाष्ये । वेदार्थशब्दो न वेदार्थत्वेन Wait, is it शङ्काप्रन्थत्वात् or शङ्काग्रन्थत्वात्? ग्रन्थ! शङ्काग्रन्थत्वात्! Look at the ग्र: it has a slant ्र on . शङ्काग्रन्थत्वात् ।

Line 33 (L33): ब्रह्मज्ञानाय विचार इत्याद्युक्तः प्रथमवैदिकपूर्वपक्षोक्तार्थवाचकः । गौणमुख्यन्यायविरोधात् । अतो

Line 34 (L34): वेदार्थो मुख्यपूर्वपक्षोक्तः । वेदपदस्य 'सूतेश्च'इति सूत्रे वेदान्तपरत्वोक्तेरत आहुः वेदार्थभूत- Wait, let's check line 34: वेदार्थो मुख्यपूर्वपक्षोक्तः । वेदपदस्य 'सूतेश्च'इति सूत्रे वेदान्तपरत्वोक्तेरत आहुः वेदार्थभूत- Wait, is it 'सूतेश्च' or 'स्मृतेश्च'? Let's look at the word inside quotes: 'स्मृतेश्च'!

भाष्यप्रकाशः। तत्सम्बन्धी सपरिकरस्तज्ज्ञापको वेदानुकूलो वेदवाक्यानां विरोधपरिहारादिना तेष्वपचारादिदोष- निवर्तको विचारो मीमांसारूप इति हेतोः । अत्र हि सर्ववेदार्थत्वेन ब्रह्म जिज्ञास्यम्, अन्यथा वेदवेदान्तयोरैकशास्त्र्यं न स्यात् । तदभावे च जैमिन्याद्युक्तदिशा मुमुक्षुप्रवृत्तिप्रतिघाते शास्त्रवैय- र्थ्यमापद्येत । विचारश्च यदि वेदानुकूल्यं न स्यात् तदाप्यास्तिका न प्रवर्तेरन् । अत आवश्य- कत्वात् स्वातन्त्र्येऽपि विरोधाभावादानुकूल्येन तज्जनितज्ञानस्य ब्रह्मज्ञानरूपत्वात् प्रतिविधानमेव युक्तमित्यर्थः । अयं प्रकारो माध्वानांमपि संमतः तत्त्वबोधकस्कान्दवचनोपन्यासादवगन्तव्यः । अध्याहारपक्षेऽप्येवं वक्तुं शक्यत्वात् । तत्सायासं मन्यमानोऽनुयुङ्क्ते किमत्र युक्तमिति । स्वतन्त्र- रश्मिः। मिति । सर्ववेदार्थत्वेनेति च । मुख्यपूर्वपक्षोक्तं मुख्यपूर्वपक्ष्यर्थत्वेनेति चार्थः । सपरिकरेति विशेषणं निःसंबोधमोक्षनिरासाय आत्मनो मोक्षत्वात् । विरोधनिरकरणादिरपि परिकरः । वेदान्त- रूपपदं व्याचख्युः वेदवाक्यानामिति । आदिशब्देन साधनं मुख्यत्वादिकं फलं च संबो- धत्वं चेति गृह्यते । तेन विरोधपरिहारोक्तोध्यायद्वयार्थः । आदिशब्दोक्तोध्यायद्वयार्थश्चेत्यध्याय- चतुष्टयार्थः । तेष्वित्यध्यायेषु चतुर्षु । आदिशब्देनाकाङ्क्षायोग्यतासंनिधयः । इति हेतोरिति । न तदादरमेव युक्तं, अध्याहृत्याध्याहारशेषनिवर्तनात् । दोषनिवर्तनं ततोपि अध्याहारदर्शना- त्सर्वत्र । सर्ववेदेति । ननु वेदार्थत्वेनापि विद्यात्मत्वेन पूर्वस्य पुराणेपि सत्त्वात् द्वितीयस्यापि निरीश्वरमीमांसाविषयत्वात् । अत्र सूत्रे ब्रह्मपदेन वेदोक्तवेदार्थत्वेन ब्रह्म जिज्ञास्यम्, वेदार्थो ब्रह्म इति प्रतीतेः । यथा घटः पृथिवीत्वेन घटप्रतीतेः । तथा च वेदार्थो ब्रह्म तस्स न तु पुराणाद्यर्थः शुद्ध्यर्थब्रह्मणो वेदानुकूलविचार इति भाष्यार्थः । ब्रह्मशब्देन वेदमात्राग्रहणे युक्तिमाहुः अन्य- थेति । ऐकशास्त्र्यमिति । तच्चाग्रे भाष्ये वक्ष्यते । श्रुतयोरप्युक्तम् । 'यदेव विद्यया करोति' इति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति च । वृत्तिकृद्वैपायनोप्याह 'संहतमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेन' । जैमिन्याद्युक्तदिशेति । यथाहूः 'चो

व्याख्यानमिति । व्याख्यानतो विशेषप्रतिपत्तेः । यथा कर्मणि 'दर्शपूर्णमासौ तु पूर्वं व्याख्यास्यामः' । 'अथातो दर्शपूर्णमासौ व्याख्यास्याम' इति । अथवैतर्हीमानि सिद्ध्यन्ति प्रयोजनानि । अधिकाकाङ्क्षा न भवेत् । अध्या- हारश्च । पुरुषार्थश्च सिद्ध्येत् । उच्छेदश्च न भवेदिति । कथम् । अथशब्दोऽर्थच- तुष्टये वर्तते, मङ्गले, अधिकारे, आनन्तर्ये, अर्थान्तरारोपक्रमे च । तत्र श्रुतिमात्रेणैव भाष्यप्रकाशः । ताप्रतिविधानस्यात्राप्यपेक्षितत्वेन प्रतिपत्तिगौरवदोषस्यात्रापि सत्त्वादध्याहारकरणादथशब्दव्याख्या- नपक्षयोर्मध्ये किं युक्तं, तद्वक्तव्यमित्यर्थः । तत्रोत्तरमाहुः व्याख्यानमिति । अथशब्दव्याख्या- नपक्ष एव युक्त इत्यर्थः । तत्र हेतुमाहुः व्याख्यानत इत्यादि । ननु कात्र विशेषप्रतिपत्तिरित्यत आहुः यथेत्यादि । तथाच यथा कल्पसूत्रेण प्रयोगप्रकारादिबोधनात् तत्तत्पदार्थसंदेहिनिवृत्तित्- थानया मीमांसया ब्रह्मणिति, तत्र यथाऽधिकारेऽथशब्दस्तथात्रापीति कल्पसूत्रतौल्यरूपविशेषस्य प्रतिपत्तिरित्यर्थः । नन्वध्याहारपक्षेऽपीदं सुवचमतः सर्वसंमतत्वादध्याहारपक्ष एव युक्तो नाऽथशब्दस्याधि- कारव्याख्यानपक्ष इत्यत आहुः अथवेत्यादि । एतर्हीति व्याख्यानपक्षे । अत्र चोदयति कथ- मिति । स्वोक्तं विभजन्ते अथेत्यादि । तत्र मङ्गले, 'ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिष्क्रान्तौ तेन माङ्गलिकावुभौ' ॥ इति । अधिकारे, यथा, 'अथैष ज्योतिः' इति वेदे । 'अथ योगानुशासनम्' इत्यादि च रश्मिः । 'नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । किंचिन्तदन्यथा जातं त्रेतायां द्वापरे खिलम् ॥ गौतमस्य ऋषेः शापात् ज्ञाने त्वज्ञानतां गते । संकीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥ शरण्यं शरणं जग्मुर्नारायणमनामयम् । तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥ चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैव च सहस्रधा ॥ कृष्णो द्वादशधा चैवं पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥ अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः । यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥ सविशेषणसूत्राणि ह्यपराणि विदो विदुः । मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ॥ इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः । सूत्रेषु येषु सर्वेपि निर्णयाः समुदीरिताः ॥ शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः । एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः ॥ ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः' ॥ इति । अधिकारे अथैष ज्योतिरिति । एतच्च पूर्वतन्त्रे द्वितीयस्य द्वितीये पादे 'संज्ञा चोत्पत्ति- संयोगात्' इत्यधिकरणे चिन्तितम् । तत्र ज्योतिष्टोमं प्रकृत्येदं श्रूयते । अथैष ज्योतिरथैष विश्व- ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेति । तत्रैतच्छब्देन प्रकृतं ज्योतिष्टोमं परामृश्यत

मङ्गलसिद्धेरर्थान्तरस्य च पूर्वोक्तस्याभावाच्चान्न तत्कल्पनम् । अथावशिष्यते आनन्तर्ये वाऽधिकारे वेति । आनन्तर्ये त्वध्ययनस्य स्वतःसिद्धत्वादवधिकाकाङ्क्षा भवति । तथा सति तदभावान्न विचारः सिद्ध्येत् । भाष्यप्रकाशः । लोके । आनन्तर्ये यथा, भुक्त्वा अथ व्रजतीति । अर्थान्तरोपक्रमे यथा, पूर्वं किंचिदुक्त्वा पुन- र्विकल्पान्तरे क्रियमाण उच्यते, अथायमाशय इति । यद्यपि कोशे, ‘मङ्गलादनन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ’ इति ‘अथायो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकात्स्न्र्यारम्भसमुच्चये’ ॥ इत्यर्थान्तरमप्युक्तम् । गौडो भवान् अयेति ब्रूम इति प्रतिज्ञायामपि दृश्यते । तथापि प्रच्छकस्य संदेग्धुश्च कस्याप्यनुक्तत्वेन अथ शक्तोऽसि भोक्तुमित्यादिवत् प्रश्नसंशयव्यञ्जकवा- क्याभावेन च प्रश्नसंशययोर्वक्तुमशक्यत्वात् स्वसंशयस्य स्वतोमिवृत्त्यभावेन, स्वसंशयस्य, ‘अवि- ज्ञातं विजानताम्’ इति श्रुतेः कृत्स्नस्य ब्रह्मणो विचारयितुमशक्यत्वेन कात्स्न्यस्य च प्रकृतवि- रुद्धत्वाद् विकल्पस्य पक्षान्तरात्मकत्वेनारम्भस्योपक्रमात्मकत्वेन चार्थान्तरोपक्रमानतिरेकात् समु- च्चयनियमरूपाधिकारयोरप्यर्थान्तरसापेक्षत्वेन विकल्पतुल्यकक्षत्वादुपयुक्तविचारकात्स्न्यप्रतिज्ञयो- रपि प्रस्तावाव्यतिरेकादथशब्दोऽत्रार्थचतुष्टये संभावितो वर्तते । तत्रान्यार्थकृतस्य पटहमृदङ्गा- दिध्वनेरिवाथशब्दस्यापि श्रवणमात्रेण मङ्गलसिद्धेः स्मृतिव्याकोपपरिहारात् तस्याः स्वरूपश्रवण- रश्मिः । इत्याशङ्कायां अथशब्देन प्रकृतव्यवच्छेदोत्पत्तिसंयोगात्संज्ञया कर्मान्तरमिदमिति । एष इति तु प्रतिज्ञायमानकर्मान्तरवाचक इति । सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रे विशिष्य वक्तव्योयम् ‘श्रयाणा- मेव चैवमुपन्यासः प्रश्नश्च’ इति सूत्रे मध्वाचार्यैः । ‘अविज्ञातप्रार्थनं वा प्रश्न इत्यभिधीयते’ इति वाक्यात् अविज्ञातप्रार्थनं प्रश्नः । तुः प्रतिज्ञायमानकर्मान्तरवाचक इति । (तथा च एष याग इत्यर्थः ।) अथेत्यस्य अधिक्रियत इत्यर्थः । लोक इति छन्दोवत्सूत्राणि भवन्तीति, लोके इत्यसंगतमिति यद्यपि तथापि चतुर्थचरणे सांख्यास्यावैदिकत्वमुक्तं ‘एतेन योगः प्रत्युक्तः’ इति चोक्तमतो लोक इति संगतम् । आदिशब्दार्थो द्रष्टव्यः । अथ व्रजतीति भोजनानन्तरं व्रज- तीत्यर्थः । अथायमिति अर्थान्तरोपक्रमादयमाशय इत्यर्थः । तथा च एष याग इत्यर्थः । येषां यथायथमसंभवान्तर्भावाभ्यामवक्तव्यत्वमाहुः तथापीति । अथ शक्तोसीति । तृप्तं प्रति तृप्त्यनन्तरं भोक्तुं प्रवर्तमानं प्रति च वचनम् । प्रश्नसंशयेति परेच्छाप्रतिपत्तिफलं वाक्यं प्रश्नः । स्वरसतो अथशब्दस्य प्रश्नसंशयार्थताभानात् तद्व्यञ्जकवाक्येत्युक्तम् । स्वत इति प्रतिज्ञा- तसंशयविषयग्रन्थात् । स्वसंशयस्येति वक्तुमशक्यत्वादिति पूर्वेणान्वयः । ननु कृत्स्नार्थको अथशब्दो विचारान्वयी न तु ब्रह्ममात्रान्वयीत्यत आहुः उपयुक्तेति । तत्र श्रुतीत्यादि भाष्यं विवृण्वन्ति स्म तत्र अन्यार्थमिति । वृत्त्यान्यार्थम् । अथशब्दस्येति अधिकारार्थे कृतस्य । स्मृतीति शिष्टाचारप्राप्तस्मृतीत्यर्थः । स्वरूपेति स्वरूपं मङ्गलश्रवणविषयः तदेव मङ्गलम् । मात्रचा प्रतिपाद्यत्वयोगव्यवच्छेदः क्रियते, न तु प्रतिपाद्यत्वेन यन्मङ्गलं तदाचरणेन तन्मात्रं कार्य-

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९ भाष्यप्रकाशः । मात्रकार्येत्वेन मङ्गलस्यार्थान्तरबोधनाप्रतिरोधकत्वाच्च न तन्मात्रकल्पनं युक्तम् । पूर्वं कस्या- प्यर्थस्यानुक्तत्वादर्थान्तरोपक्रमस्यापि कल्पनं न युक्तम् । यत् पुनरानन्तर्यप्रस्तावरूपमर्थद्वयमव- शिष्यते, तत्रानन्तर्यं यस्य कस्यचिदानन्तर्यं तु स्वभावादेव प्राप्तमिति, न तस्य वक्तव्यत्वम् । यदि च शाबरभाष्योक्तमध्ययनानन्तर्यमङ्गीक्रियते, नह्यनधीतवेदो विचारेऽधिकरोतीति । तदा तस्य विचारार्थकजिज्ञासापदेनैवार्थत् सिद्धेरथशब्दोक्तानन्तर्यप्रतियोगिनोऽधिकाकाङ्क्षा भवति, अध्ययनातिरिक्तात् कस्मादनन्तरं ब्रह्म विचारयितव्यमिति । तस्यां च सत्यामध्ययनाति- रिक्तस्य कस्यापि तन्मतेऽदर्शनान्न प्रकृतविचारसिद्धिरित्यर्थः । ननु 'संहतमेतच्छारीरकं जैमि- नीयेन षोडशलक्षणेने'ति वदद्भिः प्राचीनवृत्तिकारैर्द्वयोर्मीमांसयोरेकशास्त्रयमङ्गीकृतम् । तत- श्चाग्नेयादिषट्कभेदवदध्यायभेदवच्चावान्तरप्रमेयभेदेन भेदेऽपि प्रयोजनैक्याद्, 'अथाऽतो धर्म- जिज्ञासा' इत्यारभ्य 'अनावृत्तिः शब्दात्' इत्यन्तमेकं शास्त्रमतः कर्मविचारानन्तर्यमस्त्विति रामानुजाचार्याः । आराधणाराध्यभूतयोर्धर्मब्रह्मणोः प्रतिपादकत्वेनैकशास्त्र्यं । 'अथाऽतो ब्रह्मजिज्ञासा' इति पृथगारम्भस्त्वथातः शेषलक्षणमित्यादिवदवान्तरपरिच्छेदार्थ इति तदेकदेशी नन्यः शैवः । पूर्वं धर्मजिज्ञासा कार्या, पुरुषमात्रविषयत्वात् , ब्रह्मज्ञानं तु कस्यचिदेव मुमुक्षोरिति धर्मवि- चारानन्तरं चतुर्णां प्रतिपन्नाश्रामन्तराणां सा । 'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति सूत्रयतः सूत्र- कारस्यापि ज्ञानकर्मसमुच्चयादेव मोक्षप्राप्तिरभिप्रेतेति ज्ञायते, अपरिज्ञाते, च कर्मणि केन समुच्चयः, केन नेति न ज्ञातुं शक्यम्, ज्ञाते तु तस्मिन् नित्यकाम्यनिषिद्धानां हेयोपादेयविभागविज्ञानात् काम्यनिषिद्धे हेये, नित्येन समुच्चय इति सुखेन ज्ञातुं शक्यते । किंच । तृतीये, कर्मसमृद्ध्यर्थाना- मुद्गीथाद्युपासनानां चिन्तनात् तेषां च कर्माधिकृतपुरुषमात्रविषयत्वात् कर्माविज्ञानेन तच्चिन्ताया अप्यनुपपत्तिरतोऽपि तदानन्तर्यमिति भट्टभास्कराचार्याः । रश्मिः । मवश्यं कार्यं यस्याः तत्त्वेन इत्यर्थः । अर्थान्तरेति । मङ्गलस्य विचारकर्तव्यतारूपे वाक्यार्थे कर्तृत्वादिनान्वयाभावादिति शंकरभाष्योक्तहेतुसंग्राहकश्चकारः । एवं मङ्गलविधिरधिकारपक्षेऽपीति ज्ञेयम् । मङ्गलस्य शक्यार्थत्वे वाक्यभेदश्च स्यात् । अर्थात्सिद्धेरिति आक्षेपात्सिद्धेरित्यर्थः । अथशब्दोक्तेति अथशब्दोक्तानन्तर्यनिरूपकस्येत्यर्थः । आकाङ्क्षास्वरूपमाहुः अध्ययनाति- रिक्तादिति । तथा सतीति भाष्यं विवृण्वन्ति स्म तस्यां चेति । कस्यापीति आनन्तर्य- निरूपकस्येत्यर्थः । षोडशलक्षणेनेति द्वादशलक्षणान्यध्यायः कर्मकाण्डे, चत्वारोऽध्यायाः उपा- सनाकाण्ड इत्येवं षोडशलक्षणेनेत्यर्थः । प्राचीनवृत्तिकारैरिति । बोधायनप्रभृतिभिरित्यर्थः । प्रमेयेति प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्यातिदेशविशेषातिदेशोहाबाधतन्त्रप्रसङ्गरूपप्रमेयं पूर्वतन्त्रे । उत्तरतन्त्रे तु समन्वयविरोधनिराकरणसाधनफलरूपमिति ज्ञेयम् । प्रयोजनेति आराधणाराध्यभूतयोर्धर्मब्रह्मणोः प्रतिपादनरूपप्रयोजनैक्यात् । एकशास्त्रयमिति तच्च पूर्वैकैक- शास्त्रनिष्ठम् । अथातः शेषलक्षणमिति इदं च पूर्वतन्त्रे तृतीयाध्यायस्यारम्भसूत्रम् । अवा- न्तर

५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ तथा हि, न तावद्धर्मविचारानन्तर्यम् । विपर्ययसंभवात् । भाष्यप्रकाशः । किंच, 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः' इति श्रुतौ तर्कोपकरणेन शब्देन परमा- त्मानं सम्यग् ज्ञात्वा प्रज्ञाख्यभावनाविधानात् , पतञ्जलिनाऽपि, 'स तु दीर्घकालादरनैरन्तर्यसत्का- राऽऽसेवितो दृढभूमिः'इति सूत्रयता दीर्घकालासेवितस्याव्यवधानासेवितस्य ब्रह्मचर्यतपःश्रद्धायज्ञा- दिरूपसत्कारारोवितस्य योगस्य दृढभूमित्वकथनाच्च क्रियमाणाया भावनाख्योपासनाया दृढत्वाय यज्ञोपयोगः कैश्चिदिष्यते । तत्तत्फलार्थे विहितानामपि कर्मणां, 'तमेतं वेदानुवचनेन' इत्यादिश्रुत्या, 'एकस्य तूभयत्वे संयोगपृथक्त्वम्'इतिन्यायेन क्रत्वर्थखादिरत्वस्य वीर्यार्थत्ववद्ब्रह्मभा

आघारदर्शपूर्णमासवत् कर्मब्रह्मविचारयोरेकाङ्गिप्रयुक्ताङ्गत्वेन वा, पञ्चप्रयाजवदेकाङ्गिप्रयुक्ताने- काङ्गत्वेन वा, गोदोहनादिवदधिकृताधिकारत्वेन वा, षड्यागवत् फलैक्येन वा कत्र्रैक्यं येन स्थाने पठनीयक्रमपाठः । स्थानं च यथासंख्यपाठः संनिधिपाठः अनुष्ठानसादेश्यं च । प्रकृते तु यथासंख्यपाठरूपं स्थानम् । तथा च प्रथमस्य धर्मविचारस्य प्रथमप्राप्तिः । द्वितीयस्य ब्रह्मविचारस्य पश्चादित्येवं विनियोगः । न च अथशब्दः शास्त्रं विभजन्पूर्वोक्तं कत्र्रैक्यं विघटयि- ष्यतीति वाच्यम् । अथातः शेषलक्षणमिति तृतीयाध्यायसूत्रवत् अथशब्दस्य अविभाज- कत्वात् । संनिधिपाठरूपं स्थानं च वैकृतान्यङ्गानि यत्र प्राकृताङ्गाननुवादेन विहितानि तेषां विकृतौ विनियोजकम् । तेषां कैमर्थ्याकाङ्क्षायाः मूलसिद्धविकृत्यविकृतिप्रीतदेवतासंबन्धेन पूर्वसंबन्धेनैवोपशमात् । अनुष्ठानसादेश्यरूपं स्थानं तु पशुधर्माणामग्नीषोमीयार्थत्वं प्रयोजयति । औपवसथ्येऽहनि अग्नीषोमीयः पशुरनुष्ठीयते तस्मिन्नेव दिने ते धर्माः पठ्यन्ते, अतस्तेषां कैमर्थ्या- काङ्क्षायामनुष्ठानसदेशत्वेन उपस्थितं पशुः पशुप्रीतदेवता च पशुदेवताप्रीतिरेव वा अपूर्वमेव भाव्यत्वेन संबध्यते इति । तत्रापि तथेति भाष्यं विवृण्वन्तः कत्र्रैक्ये प्रमाणाभावमाहुः आघारेत्यादि । षष्ठ्यन्ताद्वतिः । 'आघारमाघारयति । ऊर्ध्वमाघारयति । ऋजुमाघारयति' । 'दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेत' इति श्रुतयोरेवाङ्गिप्रयुक्ताङ्गत्ववदित्यर्थः । आघारइदमग्निहोत्राधिकरणे द्वितीयस्य द्वितीयपादे चिन्तितम् । दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति तु सोमद्रव्यस्य दर्शा- ङ्गतामब्रुवन्दर्शदिकालः सोमे विधीयत इति चतुर्थस्य तृतीये पादे 'उत्पत्तिकाळविशेषे कालः स्याद्वाक्यस्य तत्प्रधानत्वात्' इत्यधिकरणे चिन्तितम् । पञ्चप्रयाजवदिति । द्वितीयस्य द्वितीयपादे दर्शपूर्णमासयोः श्रूयन्ते 'समिधो यजति,' 'तनूनपातं यजति,' 'इडो यजति,' 'बर्हिर्यजति,' 'स्वाहाकारं यजति,' इति पञ्चप्रयाजाः तेषां यजत्यभ्यासाद्भेद इति चिन्तितम्, तद्वदित्यर्थः । गोदोहनादिवदिति । चमसेनापः प्रणयेदिति दर्शपूर्णमासाङ्गमपां प्रणयनमाश्रित्य गोदोहनेन पशुकामस्येति विहितस्यापां प्रणयनेऽधिकृताधिकारस्य गोदोहनस्येवेत्यर्थः । तदिदं चतुर्थे 'यस्मि- न्प्रीतिः पुरुषस्य लिप्सार्थलक्षणाविभक्तत्वात्' इत्यधिकरणे चिन्तितमन्यैः । षड्यागवदिति । त एवं द्वितीयस्य द्वितीयपादे, 'प्रकरणं तु पौर्णमास्यां रूपावचनात्' इत्यधिकरणे चिन्तिता आग्नेयादयः षड्यागाः । 'य एवं विद्वान्पौर्णमासीं यजते य एवं विद्वानमावास्यां यजते' इत्याम्नातम् । तत्र यदाग्ने- योऽष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवतीति । तावब्रूतामग्नीषोमावाज्यस्य एवं तावुपांशु पौर्णमास्यां यजन्निति । ताभ्यामेकमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छदिति । ऐन्द्रं दध्यमावास्यायामिति । ऐन्द्रं पयोमावास्यायामिति प्रकृताः षडनूद्यन्ते । तत्राप्याग्नेयोपांशुयाजा- ग्नीषोमीयाणां पौर्णमासीकालविहितानां सह प्रयोगः । एवमितरत्रापि । एतौ समुदायौ पौर्णमा- स्यमावास्यापदाभ्यामुपलक्ष्येते इति नानुवादकतानुपपत्तिः । तेषां सर्वेषां दर्शपूर्णमासाभ्यां स्वर्ग- कामो यजेतेति वाक्येन फलसंबन्धः । तदिदं वाक्यं चैकादशे 'प्रयोजनाभिसंबन्धात्पृथक्सतां ततः स्यादेककर्म्यमेकशब्दाभिसंयोगात्' इत्यधिकरणे । अत्र श्रुतं फलं सतां यागानां पृथगुत्पन्नतया पृथगेव फलाभिसंबन्धात्प्रत्येकं संबध्यत इति पूर्वपक्षं संगृह्य दर्शपूर्णमासरूपैकशब्दाभिसंयोगा-

५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः। बोध्येत तादृशप्रमाणसामग्र्यनुपलम्भात् । न च, विद्यां चाविद्यां च यस्तद्वेदोभयं सह,' 'सत्येन लभ्यस्तपसा ह्येष आत्मा' इत्यादिश्रुतिरेव क्रमे प्रमाणमिति वाच्यम् । समुच्चयमात्रबोधनेन चारितार्थ्यात् । किंच । धर्मो न यथाकथंचिज्ज्ञातो विद्यया समुच्चेयोऽपि तु निर्णीतस्वरूपः । निर्णयस्तु यथा कर्मस्वरूपविषयकः पूर्वतन्त्रात्, तथा कर्मशेषभूतपुरुषस्वरूपविषयकस्तदाराध्य- भूतब्रह्मस्वरूपविषयकश्चोत्तरतन्त्रात् । अतोऽभ्यर्हितत्वात् पूर्वं वेदान्तविचारेण तदवगन्तव्यम् । नानावादैरात्मस्वरूपे ब्रह्मस्वरूपे च विप्रतिपन्ने वैदिकानां वेदवाक्यैरेव तन्निरासस्यावश्यकत्वात् । ज्ञाते तयोः स्वरूपे कर्मणि सुखेन प्रवृत्तिसंभवादिति । नचाध्ययनादिविधेः कर्मावबोधनस- मर्थेषु पुरुषेषु चरितार्थत्वेन, शान्तो दान्त इत्यादिश्रुत्युक्तसाधनान्तरसापेक्षब्रह्मज्ञानोपायभूत- शमाद्याक्षेपात्सामर्थ्यात् पूर्वं धर्मविचारस्यैव प्राप्तिरिति वाच्यम् । शान्तो दान्त इति श्रुतौ पश्येदि- तिपदाच्छमादीनां दर्शनसाधनत्वेन विचारे तदपेक्षाभावात् । प्रह्लादकन्यादिवदबाल्यान्मुमुक्षाश- मादिमत्सु तदप्रवृत्तौ तेषां विचारमात्रप्रसक्तेर्यथाकथंचित् प्रवृत्तौ वाऽभ्यर्हितस्यैव ग्राह्या नियम- भङ्गाच्च तदेतदुक्तम् । रश्मिः । दैककर्म्यं समुदितस्यैव फलमिति चिन्तितं तद्वदित्यर्थः । अत्र क्रियत इति व्युत्पत्त्या कर्मफलं ऐककर्म्यमेकफलत्वम्, क्वचित्तु सूत्रे पृथक्त्वं ततः स्यादिति पठ्यते । सत्तामिति न पठ्यते । नचेत्यादि । अविद्यां कर्मरूपमित्यर्थः । ज्ञानमेवेच्छां प्रयुञ्जानो यत्नं संपादयतीत्यालोच्याहुः किंचेति । कर्मशेषेत्यादि । एतच्च तृतीये 'द्रव्यगुणसंस्कारेषु बादरिः' इत्यधिकरणे चिन्तितम् । पूर्वमिति 'अभ्यर्हितं च' इति सूत्रेणेत्यर्थः । ननु मीमांसायाः न किमपि प्रयोजनं पश्यामः, आदि- ज्ञानस्यान्यत एव संभवादित्यत आहुः नानावादैरिति । विप्रतिपन्ने इति विविधप्रकारैर्ज्ञाते इत्यर्थः । वेदवाक्यैरिति वेदवेदान्तवाक्यैः विचारविषयैः मीमांसासूत्रविषयवाक्यैरित्यर्थः । तन्निरासस्येति विप्रतिपत्तिगतसंशयनिऱासस्यापि । प्रवृत्तीति, इच्छाद्वारा प्रवृत्तिसंभवात्, जानाति इच्छति यतत इति नैयायिकप्रवादात् । दृष्टानुवादिनीं 'शान्तो दान्तउपरतस्तितिक्षुश्रद्धान्वितो भूत्वात्मन्येवात्मानं पश्येत्' इति श्रुतिमनुरुध्य विपर्ययामाशङ्कय तामपाकुर्वते न चाध्ययने- त्यादि । पूर्वं धर्मविचारस्यैवेति । वैधत्वादिति भावः, अन्यथा श्रुतिविरोध इति भावः । विचारितधर्मेण विशेषचित्तशुद्धिः शमदमादिकारणम् । तदपेक्षाभावादिति शमाद्युपेतत्वेपि दर्श- नानापेक्षत्वादित्यर्थः । तेन शमदमाद्युपेतसूत्र (श्रुत्यविरोधात्) विरोधः । तथा च श्रुतिविरो- धाद्वेदविचारविधिस्तदन्तेपि प्रवर्त्तते, न तु विध्यन्तरमादरणीयं संभवेपीत्याशयः । तदप्र- वृत्ताविति । शान्त्यादिसमुत्पाद्य आत्मानं पश्येदिति श्रुतिस्फूर्तेः शान्त्याद्युत्पादनाय विध्यप्रवृत्ता- वित्यर्थः । सत्तामात्रमवलंब्यादेव पूर्वोक्तनिरस्तिं मन्यमाना आहुः यथाकथंचिदिति । भक्तिमार्गी- याणां स्वत एव शमादिसत्त्वेन वैधशमादिसत्तामात्रं मवलम्ब्याङ्गिमार्गीयाणां शमादिविधिप्रवृत्तौ । नियमभङ्गाच्चेति । धर्मब्रह्ममीमांसयोः पूर्वापरीभावनियमभङ्गादित्यर्थः । तदेतदुक्तमिति । तथा हि न तावद्धर्मविचारानन्तर्यम्, विपर्ययसंभवादिति भाष्येणेत्यर्थः । तत्रापि तथा 52

यहाँ पृष्ठ की सामग्री का देवनागरी में पंक्तिबद्ध लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ५३ नच पाठतो नियमः। तत्रापि तथा। नचाऽऽचाराद् व्यवस्था। तत्राप्यनि- यमसम्भवात् । प्रत्यवायाश्रवणात् । संभवेपि न वरूढत्वमध्ययनवत् । तथाच ततोऽप्याकाङ्क्षा भवेत् । नच वैराग्यशमदमादिः पूर्वसिद्धंः। भाष्यप्रकाशः। ननु पूर्वं धर्मकाण्डं पठ्यते, अनन्तरं ज्ञानकाण्डमिति पाठस्य क्रमनियामकत्वमस्त्विति चेत् तत्राहुः नचेत्यादि। पाठक्रमे विद्यमानेऽपि पूर्वकाण्डं न सर्वैरादित आरभ्य पठ्यते। अपि तु यतःकुतश्चित् । अतोऽवान्तरकाण्डक्रमनियमवज्ज्ञानकाण्डक्रमनियमस्यापि शुक्त्यवचनत्वात् तत्रापि तथेत्यर्थः। ननु पाठः शिष्टाचारादनियतोऽस्तु, न तु विचारोऽपीत्यत आहुः नचा- चारेत्यादि । प्रत्यवायाश्रवणस्योभयत्र तौल्यात् तथेत्यर्थः । ननु धर्मस्य ब्रह्मबोधहेतुत्वात् तद्वि- चारोपयुक्तानां श्रुतिलिङ्गादीनां वेदचोदनार्थवादस्मृत्यादिप्रामाण्यप्रतिपादनानां ब्रह्मविचारोप- युक्तत्वाच्च धर्मविचारानन्तर्ये ब्रह्मविचारस्य नियमेन संभवतीति चेत् तत्राहुः संभवेपीत्यादि । स्फुटार्थमेतत् । ननु तर्हि, नित्यानित्यवस्तुविवेकः, ऐहिकामुष्मिकभोगविरागः, शमदमादिसाधनसंपन्मुमु- क्षुत्वं चेति शंकराचार्य्यादृतं साधनचतुष्टयानन्तर्यमाद्रियतामित्याशङ्कायाम्, भास्कराचार्यैर्यदपि शमदमादयोऽन्तःकरणधर्माः पूर्वं न प्रकृताः स्वशब्देन चानिर्दिष्टा इति सूत्रकारस्य न विवक्षिता इत्येव दूषणं दत्तम् । रामानुजाचार्यैश्च पूर्वमीमांसोक्तकर्मफलकरणेतिकर्तव्यताधिकारिविशेषा- निश्चयानन्तरभावितदनित्यत्वज्ञानाऽऽत्मनित्यत्वज्ञानाधीनतया शास्त्रद्वयविचारोत्तरभावित्वं दूष- णमुक्तम् । तथापि तन्न तथा स्फुटमिति प्रकारान्तरेण दूषणमाहुः नचेत्यादि । तदानन्तर्ये तदा रश्मिः। इत्यादि भाष्यं विवृण्वन्ति स्म ननु पूर्वमिति । तत्रापि तथेत्यर्थ इति पाठतो नियमेपि विपर्ययसंभवादित्यर्थः । तेन तत्रापि तथेति भाष्यमपि विवृतम् । उभयत्रेति पाठे विचारे चेत्यर्थः । ब्रह्मविचारेंति । यथानिरपेक्षो रवः श्रुतिः 'साच 'अथातो ब्रह्मजिज्ञासा' इत्यत्र विग्रहदशायां ब्रह्मण इति शेषषष्ठीश्रुत्या ब्रह्मसंबन्धिनां जिज्ञासार्थत्वमिति विनियोगः । 'आकाशस्त- ल्लिङ्गात्' इत्यत्र लिङ्गं, 'वाक्यान्वयात्'इत्यत्र वाक्यं, 'प्रकरणाच्च' इत्यत्र प्रकरणं, देशकालौ प्रकरणमिति निबन्धकारिकाविरोघेन, स्रानं द्रष्टव्यं, 'स्वपीति इत्याचक्षते स्वमपीतो भवति'इति अत्र अतिदेशसामान्यरूपात्स्थानात् स्वमपीतोऽर्थः, न तु स्वापनिमित्तकारणरूपकर्तेत्यर्थः । समाख्या यौगिकश्च शब्दः सापि 'अथातो ब्रह्मजिज्ञासा' इत्यत्र बृहत्त्वात् बृंहणत्वाच्च ब्रह्मेति योगात् यौगिकः शब्दः । स्ववाक्यस्वरूपलक्षणोक्तपदार्थानां ब्रह्मणश्च संनिधिं कल्पयति संनिहितयोः परस्पराकाङ्क्षयोरेकवाक्यत्वं प्रकल्प्य सामर्थ्यं चालोच्य ब्रह्मणः सत्यादिपदानां सामानाधिकरण्यं कुर्यादिति श्रुतिकल्पनेन ब्रह्मयौगिकार्थस्य तत्पदार्थैक्यं बोधयति । स्फुटेति अनन्यलभ्यस्य शब्दार्थत्वात् । अत्र अयमशब्दार्यत्वेन वक्तव्यधर्मसाक्षेपलभ्यत्वादित्येवं स्फुटार्थम् । भाष्ये । तथा च ततोपीत्यादि आक्षेपलभ्यत्वे च तं श्रुतिलिङ्गादिकमानन्तर्यनिरूपकमपलम्व्याप्यधिकाम्हा भवेदित्यर्थः । प्रकृते । स्वशब्देन चेति समादिवाचकशब्देन चेत्यर्थः । पूर्वमीमांसेत्यादि पूर्व- मीमांसोक्ताः कर्म च फलं च करणं चेतिकर्तव्यता चाधिकारिविशेषश्चैतेषां निश्चयानन्तरभाविनी यद् 53

५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ तेषामेवाभावात् । न च यदैव संभवस्तदैव तत् कर्तव्यमिति वाच्यम् । तदसंभवापत्तेः । तथाहि । ब्रह्मणः परमपुरुषार्थत्वे ज्ञाते तज्ज्ञानस्यैव साधनत्वेऽ- वगते तच्छेषत्वे च यागादीनामवगते तदर्थकर्मकरणे चित्तशुद्धौ सत्यां वैराग्यादि । इदं च वेदान्तविचारव्यतिरेकेण न भवतीत्यन्योन्याश्रयः । भाष्यप्रकाशः। युज्येत 'यदि तत्सत्ता पूर्वं स्यात् । सा त्वतिदुर्लभा । न हि नित्यानित्यवस्तुविवेकमन्तरेणेहा- मुत्रार्थभोगात् पुरुषो विरज्यते । न वा सांख्यदर्शनात्यन्ताभ्यासात्तदुदितसाधनाद्यन्तरेण तादृश- विवेक उदेत्युदिते वा सर्वः शाम्यति दाम्यति वा । दुर्वासःप्रभृतिष्वपि तदभावस्य स्मरणात् । कथंचित् किंचित् कस्यचित् कदाचित् संभवेऽपि न सर्वसाधनानि तथा । तदेतदुक्तं, तेषा- मेवाभावादिति । तथाच समुदितसाधनचतुष्टयसंपदत्यन्तदुर्लभेति तदानन्तर्यमत्र न शक्यवच- नमित्यर्थः । सांख्याभ्यासाभावेऽपि लौकिकदुःखादिना विरज्यमाना दृश्यन्ते । किंचित्काम- नयापि शाम्यन्ति दाम्यन्ति चेत्युक्तविवेकसहितवैराग्याद्यानन्तर्यमप्यत्र न युक्तम् । तदपायस्य भूयोदर्शनादित्याशयेन वैराग्यादीनामेव ग्रहणम् । ननु केषांचित् पूर्वं वैराग्याद्यभावेऽपि पश्चात् तानि दृश्यन्त इति तदानन्तर्यादरणे को दोष इत्यत आहुः न च यदैवेत्यादि । तदसंभवा- पत्तेरिति वैराग्यादेर्विचारस्य चासंभवापत्तेरित्यर्थः । कथमिदमित्याकाङ्क्षायामेतदेव विभजन्ते तथाहीत्यादि । दर्शनान्तराभिमानिनां ज्ञानकर्मसमुच्चयवादात् तत्तदुक्तज्ञानानां च भिन्नविध- त्वात् तत्तदभिमतरीत्या साधनीभूतयागानुष्ठाने विवक्षितविचारोपयोगिचित्तशुद्ध्यभावात् रश्मिः । आत्मातिरिक्तस्यानित्यत्वज्ञानात्मनित्यत्वज्ञाने तदधीनतयेत्यर्थः । कथंचिदिति ज्योतिषपश्वाङ्गादि- प्रकारेण । कस्यचिदिति । नित्यानित्यवस्तुविवेकादौ यस्यकस्यचित् । कदाचिदिति अस्मदा- दिर्दृष्टान्तः । तथेति सर्वत्वेन प्रकारेण संभवन्तीत्यर्थः । नन्वाशङ्काभाष्ये न च नित्यानित्यव- स्तुविवेकवैराग्यशमदमादिरिति वक्तुं युक्तम्, प्रथमत्यागे मानाभावादित्याकाङ्क्षायामभूतपूर्वोक्तविवेक- वैराग्यादिरपि नानन्तर्यनिरूपक इति बोधयितुं तयोपन्यास इत्याहुः सांख्याभ्यासेत्यादि । कामनयेति शमजन्यफलकामनया, दमजन्यफलकामनया च । भूयो दर्शनादिति । अस्मदादिर्दृष्टान्तः । तानीति वैराग्यादीनीत्यर्थः । असंभवेति अन्योन्याश्रयस्य द्विनिष्ठ- त्वात् द्वयस्यासंभव उक्तविकल्पेन । इदमिति पूर्वोक्तम् । एतदिति समीपतरवर्तिभाष्यम् । विभजन्ते व्याकुर्वते । धर्मविचारस्य ब्रह्मशब्दसूचितस्य भाष्ये विचारात् समुच्चये स्फुरिते तेन सहैवाहुः दर्शनेति । भिन्नविधत्वादिति । स्मृत्यात्मकं ज्ञानं भक्तिरूपं साधनमिति रामानु- जाचार्यमतम् । मध्वमते ज्ञानं भक्त्यात्मकम् । नैयायिकास्तु 'द्रव्यगुणकर्मसामान्यविशेषसमवा- यानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः तच्चेश्वरनोदनाभिव्यक्ताद्धर्मादेवेत्युच्यत' इति भिन्नविधत्वादित्यर्थः । साधनीभूतेत्यादि । अयमर्थः । चित्तशुद्धिकारणता यागादेर्न सामान्य- रूपेण, तथा सति विलक्षणचित्तशुद्ध्यनुत्पत्तिप्रसङ्गेऽपि तु तृणारणिमणिन्यायेन तत्तच्चित्तशुद्धिजन- कत्वरूपेनेति तत्तन्मतीयविचारोपयोगिचित्तशुद्ध्युदयात् सिद्धान्तविचारोपयोगिचित्तशुद्ध्यभावा- दिति । एवमेव विचारचित्तशुद्ध्योरपि कार्यकारणभावः । विवक्षितेति । 'यदेकमव्यक्तमनन्त- 54

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५

निर्धारिते तु वेदान्ते विचारो व्यर्थ एव । नच साक्षात्कारस्तत्फलम् । तस्य शब्दशेषत्वेन तत्कल्पनायां प्रमाणाभावात् । 'दशमस्त्वमसि' इत्यादौ प्रत्यक्ष-

भाष्यप्रकाशः ।

ब्रह्मणः परमपुरुषार्थत्वज्ञानार्थं, ज्ञानस्य केवलस्यैव साधनत्वज्ञानं चावश्यकमिति तदर्थं चैकदे- शिना वेदान्तविचारः पूर्वं मृग्यः । तथा सत्युक्तरीत्या तत्करणमिति चक्रकान्योन्याश्रय इति तदसम्भवापत्तिरित्यर्थः । नन्वध्ययनदशायां गुरुमुखात् साधनान्तराद्वा वेदान्तार्थे निर्धारिते सुखेन तत्सम्भवान्नान्योन्याश्रय इति शङ्कायां दूषणान्तरमाहुः निर्धारिते इत्यादि । विचारो ह्यर्थनिर्धारार्थः अर्थनिर्धारश्च वैराग्यादिप्रयोजकतया यदि पूर्वमभ्युपेतस्तदा फले जाते निःप्रयो- जनत्वात्रिःसंदिग्धविषयत्वाच्च स व्यर्थ इत्यर्थः । एवकारेण तदर्थकप्रवृत्तिविधातोपि संगृह्यते । [

५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ सामग्र्या बलवत्त्वात् देहादेः प्रत्यक्षत्वात् स्वदेहमपि पश्यन् दशमोऽहमिति मन्यते । न तथा प्रकृते । मनननिदिध्यासनविधीनामानर्थक्यप्रसङ्गात् । भाष्यप्रकाशः । नात् । तस्य प्रज्ञाचक्षुष्ट्वेन तया जायमानस्यापि चाक्षुषकल्पत्वाच्च न तृतीयः । तस्यात्मविस्मृ- त्यभावेन तत्र शब्दस्याकारणत्वात् । न च पूर्वविकल्पोक्तानामात्मनिष्ठमान्तरमेव दशमत्वं शब्दाद् भासत इति वाच्यम् । दशमत्वस्य वक्त्रपेक्षाबुद्धिजन्यत्वेन तस्यां च बुद्धौ संख्याघटकानां परात्मनां भानाभावेन स्वस्यापि दशमत्वाभानप्रसङ्गात् । अतो नवमत्वादिवद् दशमत्वस्यापि बाह्यत्वमेव । कृशोऽहमितिवद् दशमोऽहमितिप्रत्ययविषयस्यापि देहस्यैव वेद्यत्वाच्च । प्रकृते विचारे तु वेदान्तवाक्यैर्ब्रह्मत्वेनात्मसाक्षात्कारस्य तवाभिप्रेतत्वेन न तथा धर्मधर्मिणोरुभयोरप्यान्तरत्वान्न दृष्टान्तसाम्यम् । न हि समीपवर्तिभिरिन्द्रियैरग्राह्य आत्मा तद्ग्राह्येण बाह्येन शब्दप्रमाणेन ग्राहयितुं रश्मिः । ननु स्पर्शेनानुमानेन वा नवान्यान् ज्ञास्यतीति, तत्राहुः तस्येत्यादि । प्रज्ञा लिङ्गपरामर्शो व्याप्ति- ज्ञानं वा । चाक्षुषकल्पत्वाच्चेति । त्वाचत्वेनानुमितित्वेन च त्वदिष्टभावावादीषदूनचाक्षुष- त्वादित्यर्थः । अन्यथान्धस्य पुरोवस्थितो घटोऽस्तीति शब्दात् घटसाक्षात्कारापत्तिः । शब्दस्य कारणत्वे ततः पूर्वमात्मविस्मृतिः स्यादिति शब्दो न कारणमित्याहुः तस्यात्मेत्यादि । अभ्युप- गमवादेनाशङ्कां निषेधन्ति न च पूर्व्वेत्यादि । चक्षुष्मतो देहविशिष्टात्मवेदिनोऽन्धस्य तथावेदिनो विविक्तात्मवेदिनश्चेत्यर्थः । भानाभावेनेति । परमनोव्यावृत्तमनस एवात्मप्रत्यक्षजनक

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७ नचाधिकारिभेदः कल्पनीयः । शब्दज्ञाने तत्कल्पनायां प्रमाणाभावात् । भाष्यप्रकाशः। शक्यते। अथ दर्शनाव्यवधानेन श्रवणस्य विधानाच्छक्यत इत्युच्यते तदा मनननिदिध्यासनविधि- वैयर्थ्यम् । तथाच दृष्टान्तवैषम्य़ान्मनननिदिध्यासनविधिविरोधाच्चात्मसाक्षात्कारस्स न श्रवणफलत्वं विचारफलत्वं वा वक्तुं शक्यमित्यर्थः । ननु मुख्याधिकारिणः शब्दादपरोक्षं भवति, न तु मन्दा- देरिति तादृशेषु मननाद्युपयोगान्न तद्विध्यानर्थक्यमिति चेत्तत्राहुः न चेत्यादि । शब्दजन्ये ज्ञानेऽ- धिकारिभेदस्तदा कल्प्यो यदि स विधिवैयर्थ्यं समादध्यात् । न तु तथा। मन्दस्य पदशक्त्या- दिज्ञानशून्यतया मननाद्यसामर्थ्येन, मध्यमस्य च विदितपदपदार्थसंसर्गतयाऽऽकाङ्क्षादिबलेन दशमादिवदपरोक्षभवनसौकर्ये मननाद्यनुपयोगेन ताभ्यां तदसमाधानात् । तत्कल्पनायां श्रुतार्था- पत्तिरूपप्रमाणाभावादित्यर्थः । ननु विदितपदपदार्थसंसर्गस्यापि वाक्यतात्पर्याज्ञाने दशमादि- रश्मिः । श्यात् । ननु 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्यनुकूलं शब्दा- परोक्षमित्येवमाशङ्खामुखेन मननेत्यादिभाष्यमवतारयन्ति अथ दर्शनेत्यादि । शक्यत इति शब्दादपरोक्षं शक्यते । आशङ्काप्रतिविधानभाष्यं विवृण्वन्ति नन्वित्यादि । तादृशेष्विति भिन्नाधिकारिष्वित्यर्थः । न चेत्यादीति । न चाधिकारिभेदः कल्पनीय इत्यादित्येसत- द्गुणसंविज्ञानो बहुव्रीहिः । समाधानभाष्यं व्याकुर्वन्ति शब्दजन्य इत्यादि । नतु तथेति । अधिकारिभेदो विधिवैयर्थ्यं तु न समादधातीत्यर्थः । ताभ्यामिति मन्दमध्यमाभ्याम् । मनना- दिविध्यानर्थक्यानसमाधानादित्यर्थः । श्रुतार्थापत्तिरूपेति । प्रत्यक्षेण शब्देन वा प्रमितस्यार्थ- स्यान्यन्तरमन्तरेणानुपपद्यमानस्योपपत्तयेऽर्थान्तरकल्पनमर्थापत्तिः । सा च प्रमाणान्तरमिति मीमांसकाः । लाघवादनुमानमिति नैयायिकाः । अर्थान्तरकल्पनया समाधेयत्वेनोच्यमानस्य प्रमाणसिद्धस्यार्थस्य मिथः प्रतिघातरूपान्यथानुपपत्तिस्तत्र कारणम् । तात्पर्यवृत्तावन्तर्भाव इति मम प्रतिभाति । जीवन्देव- दत्तो गृहे नास्तीत्यस्य बहिःसत्त्वप्रतीतीच्छयोच्चारितत्वाद् गृहाधिकरणको जीवनविशिष्टबहिःस्थितदेव- दत्तप्रतियोगिको भाव इति सुखेन बोधात् । अथवा । गृहाधिकरणकजीवनविशिष्टबहिःस्थितदेव- दत्तनिष्ठा सत्ता तत्प्रतियोगिको भावस्तन्निष्ठा सेति बोधः । एवं पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादावर्थानुपपत्तावपि पीन इत्यस्य नक्तं भोजनानुषङ्गकपीनत्वे तात्पर्यात् न दोष इति । तस्मा- दन्यथानुपपत्तार्थापत्त्यां निवृत्तायां प्रमितयोः संसृष्टबुद्धिः प्रमेयप्रमारूपा भवतीति ज्ञेयम् । तथा च 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यत्र प्रमाणसिद्धस्य आत्मा वा अरे द्रष्टव्यः श्रोतव्यः इति अंशस्यार्थान्तरकल्पनया समाधेयत्वेन उच्यमानस्य मन्तव्यो निदिध्यासितव्य इत्यस्यांशस्य च मिथः शेषशेषिभावे प्रतिघातः, श्रवणेनैवात्मदर्शनात् । इत्यमन्य- थानुपपत्तावर्यापत्तिकारणभूतायां प्राप्तायामत्र मन्तव्यो निदिध्यासितव्य इतिशब्देन प्रमितस्य मनननिदिध्यासनरूपस्यार्थस्य भिन्नाधिकारिरूपार्थान्तरमन्तरेणानुपपद्यमानस्योपपत्तये भिन्नाधिकारि- १. जीवनसंसृष्टगृहाधिकरणाभावयोर्मिथः प्रतिघातः । २. दर्शनस्य न श्रवणशेषित्वं शब्दादपरोक्षपत्तेः, किंतु प्रेमशेषित्वं प्रेम्णा दर्शनमिति । ३. मननस्य मीमांसारूपस्य न निदिध्यासनशेषित्वं किंतु अन्यथाभावनाविपरीतभावना निवर्तकत्वाद् तच्छेषित्वम् । 57

  • ब्र० सू० २०

५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजननात् प्रमाणसंकरोऽप्यस्ति । भाष्यप्रकाशः । वाक्यादप्यपरोक्षादर्शनान्मननादिना तज्ज्ञाने च तद्दर्शनात् तात्पर्यज्ञानशून्य्येनाधिकारिणा तत्समा- धातुं शक्यत एवेति कथं प्रमाणाभाव इत्यत आहुः अत्यन्तेत्यादि । शब्दस्येति षष्ठ्या करणत्वं बोध्यते । तथाच खपुष्पं सुरभीत्युक्तेऽत्यन्तासतोऽपि ज्ञानं जायते । एवं गुर्वा दिनोक्तवेदान्तवाक्ये अगोचरस्याप्यात्मनस्त्वदभिमतं ज्ञानं भविष्यतीत्युक्तविधिवैयर्थ्यं दुर्वारमतः प्रमाणाभाव इत्यर्थः । ननु विधिवलादेव ज्ञायते सर्वेषां न भवतीत्यतो न तदभाव इत्यत आहुः प्रमाणेत्यादि । संकरो मर्यादाभङ्गेन जायमानं कार्यम् । यथा वर्णसंकर इति । तथाच तत्र यथा न वर्णत्वमेवमत्रापि दशमस्त्वमसीतिवाक्यस्य युष्मत्पदस्मारितपदार्थोल्लङ्घनेनासत्पदार्थविषयकज्ञानजनने तस्य ज्ञानस्य प्रमाणत्वं न स्यादिति तादृशज्ञानोपपादनप्रयासवैफल्यम् । किञ्चैवं भग्नायां प्रमाणमर्यादायां तं रश्मिः । कल्पनम् । तेन दर्शनमननादिरूपयोः प्रमितयोः शेषशेषिभावेन संस्पृष्टिशुद्धिरिति समन्वयः । सेयमधिकारिणि मननादिविध्यानर्थक्यस्य परिहृत्यैव भवति तादृशस्य तु प्रकृतेऽलाभाच्छ्रुतार्था- पत्तिरूपप्रमाणाभावादित्यर्थः । तज्ज्ञान इति तात्पर्यज्ञाने चापरोक्षदर्शनादित्यर्थः । तदिति विध्यानर्थक्यमित्यर्थः । शब्दस्य ज्ञानजननादिति पाठं मत्वा आहुः षष्ठ्येत्यादि । फलानां तृप्त इति दृष्टान्तः । ज्ञानं जायत इति । अत्रैवं ज्ञेयम् । वाक्यं च सिद्धार्थ साध्यार्थं च, यद्यपि सर्वमेव वाक्यं सिद्धार्थं भवति । भावित्वभूतत्वयोर्धर्मत्वेन निराश्रयत्वासंभवाद्वर्तमानकाले भावि- भूतयोर्वस्तुनोः सत्ता स्वीकार्येति । न च कालस्तदाश्रयो भवतीति शङ्क्यम् । भावी कालो भूतः कालः इति प्रतीत्यापत्तेरित्यादिकं स्थितं विद्वन्मण्डने । तथापि कारणकलापनिष्ठाद्यव्यवहार- निबन्धनोयं साध्यत्वव्यवहार इति । वाक्ये द्वैविध्यम् । तत्र सिद्धार्थस्य वाक्यस्य संनिकृष्टे विषये प्रत्यक्षसहकारित्वात् प्रत्यक्षहेतुत्वमेव । विप्रकृष्टविषये तु तदानींतनार्थसत्तायाः संदिग्धत्वेन संभा- वनात्मकस्यैव ज्ञानस्य शब्दत्वेन संदिग्धमेव प्रामाण्यम् । बालादिवाक्येपि तथा । प्रतारक- वाक्ये तु श्रोतुर्विश्वासजाड्यं प्रामाण्यबुद्ध्युत्पादकं न तु शब्दः । वक्तुरनाप्तत्वेन तत्र शब्दत्व- विरहात् । भ्रान्तः सन् प्रतारको यद्वाक्यं प्रयुङ्क्ते तत्र तथा । प्रवृत्तिसामर्थ्यं तु वक्तुप्रतारकत्व- बुद्धयभावहेतुका प्रामाण्यधीः प्रमेयबलेन श्रोतुर्जायत इति विश्वासजाड्यकृतत्वं तत्रेति । तस्य प्रतारक- त्वज्ञानानन्तरं तु या प्रवृत्तिः सापि न शब्दकालाभ्यां किंतु अननुगतादेव कारणविशेषादिति न सापि प्रामाण्यावेदिका । भ्रान्तवाक्यस्य तु शब्दत्वेऽपि न तज्जन्यं ज्ञानं प्रमाणं, वक्तृदोषात् । अतः सिद्धार्थानि वाक्यानि गौणमेव प्रामाण्यं बिभ्रति । साध्यार्थे तु वाक्यार्थो बुद्धिपरिकल्पितः । संसर्गिण्याः क्रियायास्तदानीमभावेन तत्संसर्गस्याप्यभावात् । तस्माद्वक्तुर्यथार्थवादित्वाभावेन तद्वा- क्यस्याप्रामाण्यं यद्यपि तथापि प्रवृत्तिसामर्थ्यात् प्रमेयबलेनैव प्रामाण्यमिति । अत एव 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' इति अभियुक्तोक्तिः । प्रमाणत्वं न स्यादिति । शाब्दबोधे पदजन्य- पदार्थोपस्थितेः तन्त्रत्वादितिभावः ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५९ मनसा तज्जननेऽपि तथा । तस्मात् प्रथमं शाब्दमेव ज्ञानमिति मन्तव्यम्, अनुभवसिद्धत्वात् । इदानीन्तनानामपि शमादिरहितानां निर्विचिकित्सितवेदार्थ- ज्ञानोपलब्धेः । संन्यासानुपपत्तिश्च । भाष्यप्रकाशः । घटमानयेत्यत्रापि वाक्यार्थज्ञानं प्रत्यक्षं स्यात् । आत्मन इव घटस्यापि पूर्वमनुभूतत्वात् । चीत्कारेण गजानुमितिरपि न स्यात् । यद्वा, प्रमाणे ज्ञानेऽनुव्यवसीयमानयोः प्रत्यक्षत्वपरोक्षत्वयोर्जातित्व- बाधकसंकरापत्तिः स्यात् । नचेष्टापत्तिः । व्यवहारे भङ्गनयमपगच्छतस्तथा वक्तुमयुक्तत्वात् । भारत आजगरेऽपि, 'जातिरत्र महासर्प मनुष्यत्वे महामते । संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः' ।। इति । युधिष्ठिरेण ब्राह्मणत्वजातिबाधकतया संकरस्योपगतत्वाच्च । अतोनेकदूषणग्रासादधि- कारिभेदशब्दापरोक्ष्योः कल्पनमेवायुुक्तमित्यर्थः । ननु मास्तु शब्दादपरोक्षं, तथाऽपि दशम- स्त्वमितिवाक्यसहकृतचक्षुषा दशमोऽहमितिवन्मनसैवानुद्रष्टव्य इति श्रुतेस्तत्त्वमस्यादिवाक्यसहकृ- तमनसैव विविक्तात्मसाक्षात्कारो भावीत्यधिकारिभेदो नायुक्त इति चेत्तत्राहुः मनसेत्यादि । वाक्यसहकृतमनसा यदि सर्वेषां साक्षात्कारस्तदा मननादिविधिवैयर्थ्यम् । यदि कस्यचिद् तदा यस्य न साक्षात्कारस्तस्य वेदान्तार्थनिर्धार एव विचारफलत्वेन वाच्यस्तथा सत्युक्तरीत्या वैराग्या- दिसंपादकत्वेन तस्य प्रागेवापेक्षितत्वात् पूर्वोक्तान्योन्याश्रयादिदोषतादवस्थ्यमित्यर्थः । सिद्धमाहुः तस्मादित्यादि । मन्तव्यमिति सर्वेषां भवतीति मन्तव्यम् । अनुभवसिद्धत्वं विशदयन्ति इदानीमित्यादि । तथाच पूर्वोक्तं दूषणं दुरुद्धरमित्यर्थः । उक्तदार्थ्याय दूषणान्तरमाहुः संन्यासे- त्यादि । 'गृहाद्वा प्रव्रजेद् वनाद्वा प्रव्रजेत्' इतिश्रुतौ तत्तदाश्रामानन्तर्यकथनाद् दृढं वैराग्यं रश्मिः । इल्पकारिणं प्रति विपरीतलक्षणयोक्तिः । अपकारिणि उपकारित्वरूपेण मुख्यार्थे बाधिते सति विरोधरूपसंबन्धेन अपकारित्वलक्षणादिति वाच्यम् । तथा सति पारोक्ष्यापत्त्या प्रतिज्ञा- व्याहतेः । वाक्यार्थज्ञानमिति वाक्यार्थस्य घटानयनस्य ज्ञानं प्रत्यक्षात्मकं स्यादित्यर्थः । पुरोवर्तिवाक्यार्थस्य ज्ञानं निशामनं भवतीति परोक्षवाचितपदेन घटो विशेत् इति ज्ञेयम् । गजानुमितिरिति । शब्दापरोक्षप्रतिज्ञा गजवान् देश इत्यनुमितिरित्यर्थः । किंतु गजप्रत्यक्षं स्यादिति भावः । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः संकरः इति नैयायिकोक्तं लक्षणमनुसृत्याहुर्यद्वेति । प्रमीयत इति प्रमाणमिति । भावव्युत्पत्तिमत्त्वादाहुः प्रमाणे ज्ञान इति अहं ब्रह्मास्मीति ज्ञाने इत्यर्थः । अनुव्यवसीयेति ब्रह्म अहं जानामीति अनुव्यवसीय- मानयोरित्यर्थः । अत्र ज्ञानानुकूलो व्यापार इत्यत्र ज्ञानस्य शाब्दत्वप्रत्यक्षत्वाभ्यां बोधः, न ज्ञान- स्त्वेन प्रकारेण अन्वेषणमाणे ज्ञानत्वस्य तत्रैव पर्यवसानात् । अयुक्तत्वादिति आकृत्यधिकरणविरोधेन तन्मत्वादित्यर्थः । यद्वा न भावव्युत्पत्तिः । करणव्युत्पत्तिरेव । तथा च व्यवसायज्ञानस्यानुव्यवसा- यकारणत्वात् प्रमीयतेऽनेन व्यवसायेन तत् प्रमाणं ज्ञानं ब्रह्म इत्याकारकं तस्मिन् सति अनुव्यवसी- यमानयोरेवानुव्यवसायप्रत्यक्षत्वपरोक्षत्वप्रकारकज्ञानं विषयतासंबन्धेन तस्य कर्तॄर्मोः । अत्र धात्व- र्थफलमात्रं कृतिमत्त्वं कर्तृत्वं फलानुकूलव्यापारश्चानेकधा । भाष्ये इदानीमिति । 'अलौकिको हि वेदार्थः' इति श्रुत्युक्तसाधनवतामिति विशेषणीयम् । निर्विचिकित्सेत्यादि । विचिकित्सा तु संशयः । प्रकृते । पूर्वोक्तमिति अनुभवविरोधरूपमित्यर्थः । तत्तदाश्रामानन्तर्येति । 59

६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ किंच । अध्याहारश्च कर्तव्यः । स च कर्तव्यादिपदानाम् । यदि तत् स्वार्थं, व्यर्थमेव वाक्यं स्यात् । परार्थत्वे त्वशक्यं, न हि तैर्विचारः कर्तुं शक्यते । स्मृ- तिवैयर्थ्यं च । असंगतिश्चास्य सूत्रस्य भवेत् । किंचाधिकारपक्षे पुरुषार्थः सिद्ध्यति, नानन्तर्यपक्षे उक्तन्यायात् । किंच, तादृशस्याधिकारिणः श्रवणमात्रेण कृतार्थस्य समाधिनिरतस्य प्रवचनासंभवाच्छास्त्रोच्छेदः शास्त्रविरोधश्च । साधनानामग्रे स्वयमेव वक्तव्य- त्वात् । अतोऽनेकद्रोषदुष्टत्वाद्धिकारार्थ एव श्रेयान् । भाष्यप्रकाशः । संन्यासाङ्गमिति ज्ञायते । श्रुत्यन्तरे च ‘वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ इति वेदान्तार्थनिश्चयोत्तरं संन्यासस्योक्तत्वात् तदङ्गभूतवैराग्यस्य वेदान्तार्थनिश्चयोत्तरत्वमेवायाति । ततः पूर्वभावित्वं च विचारस्येति तत्तदभावे दृढवैराग्याभावात् संन्यासानुपपत्तिः । तथाचानन्तर्य- पक्षे तन्निरूपकस्य वक्तुमशक्यत्वात् किमनन्तरमित्याकाङ्क्षायाः कथमपि न पूरणमित्यर्थः । द्वितीयं दूषणं विवृण्वन्ति किंचेत्यादि । तदिति विचारकरणम् । तथाच स्वयमेव मनसि विचार्यमिति स्वार्थत्वे शास्त्रानर्थक्यमित्यर्थः । अशक्यमिति अशक्योपदेशरूपम् । तथाच फलाऽभावाद् वैयर्थ्यमित्यर्थः । असंगतिरिति परैः कर्तव्यमितिप्रतिज्ञाया अग्रिमसूत्रीयस्वयंस्कृति- विरुद्धत्वादसंगतिरित्यर्थः । तृतीयं विवृण्वन्ति किंचाधिकारेत्यादि । उक्तन्यायादिति तदसंभवात्तपेरित्यनेनोक्त- न्यायात् । विचारव्यतिरेकेण ब्रह्मणः परमपुरुषार्थत्वज्ञानाद्यभावात् तदभावे चित्तशुद्ध्यभावान्न विचाराभावाद् तथेत्यर्थः । चतुर्थं विवृण्वन्ति किंच, तादृशस्येत्यादि । तादृशस्येति साधनचतुष्टयसंपन्नस्य । साधनानामिति वैराग्यादिसाधनानाम् । अग्रे इति, तृतीयाध्याये । तथाचानन्तर्यनिरूपकतया पूर्वसिद्धानां पुनः कथनानर्हत्वात्, कथनेन च पूर्वं तदभावनिश्चयात् सिद्धत्वस्वीकारे व्याख्येय- शास्त्रविरोध इत्यर्थः । एतेन यन्मध्वैर्जातिकृतं गुणकृतं च ब्रह्मविद्यायामधिकारत्रैविध्यमङ्गीकृत्य तदानन्तर्यमथशब्दार्थो, न त्वध्ययनमात्रानन्तर्यमिति साधनाध्यायानुसारेणाङ्गीक्रियते, तदपि रश्मिः । ‘ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद्वनी भूत्वा प्रव्रजेत्’ इति आश्रमक्रमेण संन्यासः । गृहाद्वेति श्रुतौ तु अनियततत्तदाश्रामानन्तर्यकथनेनाश्रमा न संन्यासाङ्गानि अपि तु आश्रमानियमात् ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति श्रुत्यन्तराद् दृढवैराग्यमित्यर्थः । तदङ्गभूतेति । हेतुगर्भं विशेषणमिदं तेन संन्यासाङ्गभूतत्वादित्यर्थः । एवायातीति । यथा भुक्त्वा पयः पिब- तीत्यत्र पयःपानोपयोगिपात्रमपि भोजनोत्तरमेवायाति तद्वदित्यर्थः । तत इति वैराग्यादित्यर्थः । तत्तदभावे इति विचारवेदान्तविज्ञानाभाव इत्यर्थः । द्वितीयमिति । अध्याहारश्चेति भाष्योक्तमित्यर्थः । अशक्येत्यादि । वैराग्याद्यनन्तरं साक्षात्कारादिनिवृत्तये ब्रह्मजिज्ञासा कर्तव्येति तथाविधित्वं न स्यादिति भावः । तथा च सांख्यप्रवचनसूत्रं ‘नाशक्योपदेशविधि- रूपदिष्टेप्यनुपदेशः’ इति । न च मात्र वृद्धिरिति वाच्यम् । साध्यापोष्येतव्य इत्यत्र माहेर- ङ्गीकारेण तवाप्यावश्यकत्वात् । तृतीयमिति । पुरुषार्थश्च सिद्ध्येदिति भाष्योक्तमित्यर्थः । न्यायादिति अन्योन्याश्रयादित्यर्थः । तमेवाहुर्विचारेत्यादि । चित्तशुद्ध्यादीति । आदि- 60

न च ज्ञातुमिच्छा जिज्ञासा नाधिकर्तुं शक्येति वाच्यम् । जिज्ञासापदस्य विचारार्थकत्वात् । भाष्यप्रकाशः । प्रत्युक्तम्, विचारब्रह्मविद्ययोरैक्याभावात् । अतो न तदुपन्यस्तश्रुतिस्मृतीनामपि विरोधः । एवमथशब्दार्थं निर्णीय जिज्ञासाशब्दार्थं निश्चेतुमधिकारार्थविरुद्धं मतान्तरीयं तदर्थमनूद्य परिहरन्ति न चेत्यादि । ज्ञातुमिच्छा जिज्ञासेति 'धातोः कर्मणः' इति धातुवाच्यसार्थस्येप्सित- त्वस्मरणाज्ज्ञानप्रधानेयमिच्छा प्रस्तोतुमशक्येत्यर्थः । विचारार्थकत्वादिति जिज्ञासितं सुसंपन्नमपि ते महदद्भुतम्' इति, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति, 'अजिज्ञासितमद्धर्मो गुरुं मुनि- मुपाव्रजेत्' इति, 'जिज्ञासायां संप्रवृत्ते नाद्रियेत् कर्मचोदनाम्' इत्यादिषु जिज्ञासितजिज्ञासापदयोरि- हेच्छावाचकत्वे वाक्यार्थेऽनन्वयेन तत्र विचारार्थकत्वनिश्चयेन तथात्वात् । तथाचैवविधाप्तवाक्य- रश्मिः । पदेन वैराग्यशमदमादिः । चतुर्थमिति । उच्छेदश्च न भवेदिति भाष्योक्तमित्यर्थः । सिद्ध- स्वेत्यादि । आनन्तर्यनिरूपकत्वाङ्गीकारे साधनाध्यायविरोध इत्यर्थः । जातिकृतमित्यादि । ब्राह्मण्यादिजातित्रयकृतं सेवा(वैराग्या)दिगुणत्रयकृतं चेत्यर्थः । अधिकारश्लोको भागवततन्त्रे । 'मन्दमध्योत्तमत्वेन त्रिविधास्त्वधिकारिणः । तत्र मन्दा मनुष्येषु य उत्तमगुणा मताः ॥ मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः । इति जातिकृतो भेदस्थान्यो गुणपूर्वकः ॥ भक्तिमान्परमे विष्णौ यस्त्वध्ययनवाञ्छरः । अधमः शमादिसंयुक्तो मध्यमः स उदाहृतः ॥ आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् । विज्ञाय जातवैराग्यो विष्णुपदैकसंश्रयः ॥ स उत्तमोऽधिकारी स्यात् संन्यस्ताखिलकर्मवान् ॥ इति स्मृतयो माध्वभाष्ये । ऐक्याभावादिति । हेतुहेतुमद्भावेन तथात्वादित्यर्थः । तदुपन्यस्तेति । 'शान्तो दान्त उपरत:' इति 'परीक्ष्य लोकान् कर्मचितान्' इति 'नास्त्यकृतः कृतेन' इति 'यमेव' इति 'यस्य देवे' इति श्रुतयः । स्मृतयस्तूक्ताः । विरोध इति । ब्रह्मविद्यापरत्वादिति भावः, भागवततन्त्रे विचाराभावात् । मतान्तरीयमिति । शंकराचार्यादि- मतीयजिज्ञासापदार्थमनूद्य इत्यर्थः । अथशब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः ब्रह्मजिज्ञा- साया अनधिकार्यत्वादिति । ज्ञातुमिच्छा जिज्ञासा इति च तद्भाष्यम् । अत्र भाष्याशयवर्णकः । जिज्ञासापदं ज्ञानेच्छां वक्ति विचारं लक्षयति वा । नाद्यः । अथशब्दसारम्भार्थत्वे ब्रह्मज्ञानेच्छाया अनारभ्यत्वात्सूत्रार्थासंगतिः । प्रत्यधिकरणविचारकरणेनेच्छाकरणाभावादिति । नापरः । कर्त- व्यपदाध्याहारं विना अन्वयानुपपत्त्यभावेन विचारलक्षकत्वायोगात् । तदध्याहारे तु अथशब्द- वैयर्थ्यम् । तेनैवारम्भोक्तेरिति भाष्याशय इति एतदुभयमालोच्याहुः धातोः कर्मण इति । 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' इति सूत्रम् । 'इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्' इति वृत्तिः । असंदेहाय पुष्कलवाक्यान्याहुः जिज्ञासितमित्यादि । वाक्यार्थे इत्यादि । नारदकृतव्यासाभिनन्दनरूपे भारतादिकरणरूपस्वाभाविकधर्मेपि विशेष- 61

अत एव जिज्ञासितुमिच्छेदिति पुराविदां वचनानि । जिज्ञासापदेन चैत- ज्ज्ञापयति ब्रह्मज्ञानं पुरुषार्थसाधनत्वादिष्टम् । तदिच्छापूरणाय विचार आरभ्यत इति । यस्मात् कर्मादिभ्यो ज्ञानमेव पुरुषार्थसाधनमित्यतस्तज्ज्ञानाय विचारोऽधि- क्रियत इति भाष्यप्रकाशः । आहितां रूढिमनादृत्य वृथा यौगिकादरणमप्रयोजकमित्यर्थः । अत्र शाबरभाष्यसंमतिमाहुः अत एवेत्यादि । ननु विचारे प्रारब्धणीये, अथातो ब्रह्मविचार इत्येव कुतो नोक्तमित्याशङ्कायामाहुः जिज्ञासापदेनेत्यादि । भृगुप्रपाठके, 'अधीहि भगवो ब्रह्म' इतिश्रुतेर्ब्रह्मज्ञानेच्छ्योपसन्नाय भृगवे, 'यतो वा इमानि' इति ब्रह्मलक्षणकथनपूर्वकं तद्विजिज्ञासस्वेतिपदेन तदिच्छापूरणाय विचारोपदे- शादिहापि तथैव विचार आरभ्यत इति ज्ञापयतीत्यर्थः । नचात्र तपोऽनुपदेशाच्छ्रुति

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६३ अतःशब्दार्थः । भाष्यप्रकाशः । तथाच, अतः-अस्मात्सूत्रादारभ्येत्यर्थमाहुः । तत्र पूर्वस्मिन् मते देशदृष्टान्ताद्धर्मज्ञानस्य न तेन रूपेण हेतुत्वं, किंतु वृत्तत्वेन वाच्यम्, तच्चानन्तर्यपक्षदूषणादेवापास्तम् । धर्मज्ञानत्वेन हेतुत्वं तु प्रत्यक्षबाधितम् । द्वितीये तु, स्मृतौ कर्मणामस्पष्टत्वेन विशेषितत्वात् तदेवातश्शब्देन गोचरी- क्रियते, न तु पूर्वावधिरनुक्तसिद्धत्वात् । एवं श्रुतावपि पूर्वं, त एते सर्व एव समाः सर्वेऽनन्ता इत्यनेन प्राणानां वाङ्मनःप्राणानां साम्यबोधनादुपासकेन कस्य कर्म व्रतत्वेन धार्यमित्यपेक्षायां यस्य व्रतमुत्कृष्टं तन्निर्णायनार्थं व्रतमीमांसायाः प्रवर्तितत्वेन तदुत्कर्षज्ञापनमेव हेतुत्वेनाभिप्रेयते, न तु पूर्वावधिरिति बोध्यम् । तेन मतद्वयमप्ययुक्तमितिज्ञापनायोक्तमिति । अतःशब्दार्थ इति तथाच रश्मिः । अस्मादिति कर्मज्ञानाधिकारादित्यर्थः । धर्मज्ञानस्येति । यद्यपि कर्मज्ञानमुक्तं पूर्वं 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे' इति यजुःसंहिताश्रुतेः, तथापि 'धर्मं चर' इति शिक्षाश्रुतेः धर्मज्ञानं पूर्वमित्याशयेनोक्तमत एव 'अथातो धर्मजिज्ञासा' इत्युक्तम् । 'कर्मैके तत्र दर्शनात्' इति सूत्रं त्वग्रे । न तेन रूपेणेति दृष्टान्ते देशत्वरूपेण हेतुत्वाभावादत्रापि न कर्मज्ञानत्वरूपेण हेतुत्वं किंतु क्षेम- त्वेन सुमिक्षत्वेन च तद्वदत्रापि पूर्ववृत्तत्वेन वाच्यमित्यर्थः । आनन्तर्यपक्षदूषणादेवेति । अधातः साङ्गशिरसो वेदस्याधिगताल्पास्थिरफलके बलकर्मज्ञानतया संजाता मोक्षाभिलाषस्यानल्पस्थिर- फलमह्मजिज्ञासास्यानन्तरभाविनीति तथत्वादित्यर्थः । तथा यदुक्तं 'अक्षय्यं ह वै चातुर्मास्य- याजिनः सुकृतं भवति' इति धर्मस्यापि नित्यफलमवगच्छतो विवेकाद्यसंभवादानन्तर्यसंभावनां मृते अतःशब्द इति । तथा चोक्तश्रुतिः 'यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इति श्रुतिबोधितॆति । अतो विवेकादिसंभवादित्यर्थः । तस्यापि तथात्वादिति प्रत्य- क्षबाधितमिति । धर्मजिज्ञासायाः प्रागपि अधीतवेदस्य ब्रह्मजिज्ञासोपपत्तेस्त्येत्यर्थः । कर्मत्वं तु क्रियासाधारणधर्मत्वं च चोदनालक्षणोर्थ इति विभेदः । सूचीकटाहन्यायेनाहुः द्विती- ये तु । स्मृताविति । तदेवेति अस्पष्टत्वमेवेत्यर्थः । अन्यथा विशेषणवैय्यर्थ्यापत्तिरिति भावः । ते एत इति वाङ्मनःप्राणा इत्यर्थः । कर्म व्रतत्वेनेति व्यापारो व्रतत्वेनेति निश्चयविषयत्वेनेत्यर्थः । इत्यपेक्षायामिति । एतदग्रे यस्य व्रतमुत्कृष्टं तन्निष्पायनार्थमित्यपि दृश्यते । तदुत्कर्षेति यस्य व्रतमुत्कृष्टं तदुत्कर्षज्ञापनमित्यर्थः । तथा अत इत्यस्योत्कर्षज्ञापकत्वादित्यर्थः । उत्कृष्टश्च प्राणः 'यतश्चोदेति सूर्यः अस्तं यत्र च गच्छति' इति, 'प्राणाद्वा एष उदेति प्राणेऽस्तमेति' इति श्रुतेः । भाष्ये ज्ञानमेवेति । सर्वात्मभावस्य सर्वत्र विगाढभावहेतुकस्यानुभववादिकार्यकः प्रियत्वानुभव इत्यर्थः । अयमेव स्नेहः । एतच्च 'अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम्' इति सूत्र- विचार सापनाव्याये स्पष्टयितव्यम् । अधिक्रियत इति । अधिकार उत्तरत्रानुवृत्तिः । अत एव 'उक्तमिष्यत' इति सूत्रभाष्यलिङ्गमित्यनुवर्त्तत इति । ननु तथाप्येवं सति भाष्ये एवं स्फुटमुक्तं स्यात्, मैवम् । जिज्ञासापदज्ञापितेस भगवच्छासाश्रयगोचरस्य ज्ञानसैतादृशस्नेहेत्वात् । 'पुरु- षार्थोतः शब्दाद् इति बादरायणः' इति सूत्रात् । अतः सर्वात्मभावात् । नच प्राणो वै षष्ठमिति चेदन्न ब्रवीमि । स्मृतिलक्षणङ्गीकारात्, न च श्रुतिविरोधस्स्यादङ्गत्वात् । न च प्रमाणाभावः 'भक्त्या 63