भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १४ सू० ३९ स्वाप्ययसंपत्त्योर्भाष्यव्यपदेशं पुरस्कृत्य सर्वविप्लवं वदन्नुपेक्ष्यः ॥ ३९ ॥ भाष्यप्रकाशः । 'कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वाऽनुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत्' ॥ इत्यत्र कायाद्युपाधितोऽन्य आत्माऽपि कर्तृत्वेनोक्तः । तस्मान्न शङ्कालेश इति दिक् । यत्तु, नान्योऽतोऽस्ति, द्रष्टेत्यादिश्रुतेः परस्मादन्यो जीवो नाम कर्ता भोक्ता न विद्यते । आविद्यकत्वात् कर्तृत्वभोक्तृत्वयोरिति तत्राहुः स्वाप्येयेत्यादि । उक्तं पुरस्कृत्य स्वाग्रहेण तथा कुर्वन्नुपेक्ष्यः । अयमर्थः । उक्तश्रुतेर्जीवान्तर्यामिणोः शरीरशरीरिभावकथनोत्तरमेव पाठेन **

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१

भाष्यप्रकाशः। अपश्यत्त्वादिकं प्रतिपाद्य विभक्तत्वनिषेधेनाविभागानुसंधानदशायां द्वितीयस्य विभक्तत्वेन

रश्मिः।

द्वैतमिवेत्यारभ्यासमाप्ति संसारिप्रकरणम् । तस्य समानं प्रकरणं द्वितीयमैत्रेयीब्राह्मणे यद्वै तन्न पश्यतीत्यारभ्यासमाप्ति संसारिप्रकरणम् । तत्र षष्ठ्यन्तसोभयत्रान्वयः । अपश्यत्त्वेति । यद्वै तन्न पश्यतीत्यपश्यत्त्वम् । अपश्यत्वादिकमिति पदच्छेदः । आदिना पश्यत्त्वम् ‘पश्यन्वै तद्रष्टव्यं न पश्यति’ इति श्रुतेः । तदुभयं प्रतिपाद्य ‘नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ इत्यनया प्रथम- प्रतिज्ञाहेतुमुखेनापश्यत्त्वं प्रतिपाद्य ‘न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इत्यनया विशेषप्रज्ञानाभावरूपद्वितीयप्रतिज्ञाहेतुमुखेन पश्यत्त्वं च तत्र द्वितीयं प्रमातृ, अन्यच्चक्षुरादिकम्, विभक्तं प्रमेयम्, एतत्त्रयं प्रमातृप्रमाणविषयचैतन्यात्मकम् । परंतु चकाराभावाच्चैतन्यविभ............ दुरूह इति बोध्यम् । क्त्वान्तः प्रयोगः प्रतिपाद्येति । अतस्ततोऽन्यद्विभक्तमित्यादेरार्थिकार्थ उच्यते विभक्तत्वेत्यादिना । ततस्तत इत्यस्य द्रष्टृदृष्टिभ्यामित्यर्थस्तत्र विभक्तत्वनिषेध आर्थिकस्तेनेत्यर्थः । अविभागेति । न त्वभेदानुसंधानदशायामतोन्यशब्दो गौणोपि नेत्यपि भावः । अयमर्थः । भेदा- भेदवादे एवं च परममुक्तिदशायामपीत्यादिनेयं श्रुतिरुपन्यस्ता । तत्र च द्वैतदृष्टिनिवृत्त्या ‘यथोदकं शुद्धे निक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम’ इति काठकश्रुत्या भेदप्रतीत्य- भावरूप एवाभेदो न भेदाभावरूप इत्यभेदो भेदप्रतीत्यभावरूपोऽवतारितः । स यथा ‘यद्वै तन्न पश्यति पश्यन्वै तद्रष्टव्यं न पश्यति नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ इति श्रुत्यामन्यादर्शने पश्यत एवादर्शनस्य हेतुत्वं पश्यन्वा इत्यादिना निरूप्य तत्रैव द्वितीयत्वाभावस्य हेतुत्वं नन्वित्यादिना निरूप्य तत्रैव विभागाभावस्य हेतुत्वं ततोऽ- न्यत्वाभावसार्थिकस्य हेतुत्वं निरूपितम् । अग्रे च यत्र वाऽन्यदिव स्यादित्यादिना वैलक्षण्यहेतुक- मन्यदर्शनमनूप यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना स्वस्य द्रष्टृत्वाविभागेनाविज्ञाने तं केन विजानीयादित्यनेन ज्ञानकरणाभावं हेतुत्वेन वक्तीत्यतो भेदप्रतीत्यभावरूप एवाभेदो न तु भेदा- त्यन्ताभावरूप इति । अत एव मङ्गलमाचेरुः ‘ब्रह्माभेदोपासनाज्ज्ञानतो वा ब्रह्मात्मैक्येप्यङ्गताम- त्यजन्तः । यस्यैश्वर्यादासते यन्नियम्यास्तं श्रीकृष्णं देवदेवं नमामि’ इति । अत्र किंचिद्विस्तृयते । ब्रह्माभेदोपासनं न भक्तिमार्गे ‘अन्तरा भूतग्रामवत्स्वात्मनः’ इत्यत्र भाष्ये तथोपपादनात् । कदाचित्तु जायते व्यतिहारसूत्रे तथोपपादनात् । ज्ञानमार्गे तावद्वर्तते तेनावरणभङ्गो भवति । ज्ञानमार्गस्तु माहात्म्यज्ञानेन भक्तिद्वारा भगवत्प्राप्तिः ‘भगवान्ब्रह्म कात्स्न्येन त्रिरन्वीक्ष्य मनीषया’ इति वाक्यात् । तदुक्तं सप्तमे ज्ञानविज्ञानयोगाध्याये ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः

३२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १४ सू० ३९ भाष्यप्रकाशः । दर्शनं निषिध्य सर्वस्वात्मभावबोधनपूर्वकमन्यदर्शननिषेधात् सजातीयदर्शनपरत्वं वा, विज्ञातृ- विज्ञातृदर्शनपरत्वं वा । न तु द्रष्टृत्वादिनिषेधनपरत्वम्, पश्यत्त्वादीनां विनाशेनाविनाशित्व- रश्मिः। दिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्त- देशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा' इति । अत्रापि तत्त्वज्ञानार्थदर्शने कृते सत्यभेदः । तथापि यथा सेव्य- सेवकभावस्तथोपपादितं भक्तिरत्नटीकायाम् । नन्वत्र मयि चेत्यत्रास्मत्पदेन क्षेत्रज्ञबोधात्कथं भक्तिः प्रभुपर्यवसायिनीति चेन्न । 'पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम्' इति भगवद्वचनेनैक्यात् । पुनश्चतुर्दशे गुणत्रयविभागयोगाध्याये 'परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्' इति प्रस्तुत्य 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्' इत्यादिभिर्माहात्म्यं देवत्वरूपं भणितवान्भगवान् । ज्ञानस्य विजातीयसंवलितत्वे मार्गत्वं, केवलत्वे ब्रह्मधर्मत्वमित्येकादशस्कन्धसुबोधिन्यामस्ति । ननु माहात्म्यज्ञाने चतुर्दशोक्ते ब्रह्माभेदोपासना नास्ति । मम योनिरिति जीवसमूहाक्षरात्वषष्ठ्या भेदोक्तेः । अस्ति तु भावाद्वैतमतेन । तदुक्तं सप्तमस्कन्धे शिवमतेन 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत्' इत्यादिना । तत्र परममुक्तौ यदि भेदो वर्तते तदा तत्प्रतीत्यभावः कथम् । यदि तत्रै¹ भेदात्यन्ताभावाभावः कथमिति प्रश्ने पर्यवसितिमात्रादतो नान्य इति निषेधबलात्फले परममुक्तौ भेदोऽवश्यं पर्युदासार्थकनञादिभिर्व- क्तव्यः । आदिना भेदार्थकनञादिभिः । उक्तञ्चास्थूलमनण्वित्यस्याः श्रुतेर्व्याख्याने विद्वन्मण्डनो- पन्यासायाः सुवर्णसूत्रे पर्युदासे नञ् । एवं च फले मायिकभेदमिश्रतद्भेदसदृश आधिकारि- कमण्डलस्थभेद इति लीलान्तरेच्छया भेदप्रतीत्यभावरूपो भेदो न भेदात्यन्ताभावरूपः 'अवि- भक्तं च भूतेषु विभक्तमिव च स्थितम्' इति ब्रह्मस्वरूपपरगीतायां विभक्तमिव कथनादित्यलं विमर्षाय । अतोन्तर्यामिब्राह्मणेन नियम्यानां इव शब्देनाविभागानुसंधानं न त्वविभागस्तस्य दशा- यामित्यर्थः । अभेदज्ञानफलं भक्तिः 'नृप त्वात्मैव वल्लभः' इति वाक्यादित्युपपादितमाकरे नृसिं- होत्तरतापनीयटीकायामप्येतैः । द्वितीयस्येत्यादि । द्वितीयस्य दृष्टिरूपदर्शनस्य विभक्तत्वेना- र्थात्प्रतिषिध्य । अयमर्थः । तत्रैवाग्रे 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेत्' इत्या- दिना यत्र संसारिदशायां मायिकभेदेनान्यदिव ब्रह्मभावात्तत्रान्यो नेत्रादिरन्यद्विभक्तं पश्येदर्थादृष्टि- रूपं दर्शनं नान्यद्विभक्तं च तस्य द्वितीयस्य विभक्तत्वेनेत्यर्थः । सर्वस्येत्यादि 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्' इत्यादीनान्यदर्शननिषेधात् । अन्यत्वं विजातीयत्वं तद्दर्शननिषेधात् । पश्यन्वा इति श्रुतेश्च यत्सिद्धं तदाहुः सजातीयेत्यादि । विजातीयत्वं च सत्त्व- मनीश्वरत्वं वेत्याशयेनाहुः विज्ञात्रित्यादि । विज्ञाता द्रष्टा²ऽविज्ञातृ दृष्टिरूपं दर्शनं करणम् । तज्ज्ञा- परानपेक्षया न जानातीत्यविज्ञातृ भवति । न तु द्रष्टृत्वादीत्यादि । तथा च द्रष्टृत्वादिनिषेध- परं शंकराचार्यभाष्यं विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयन्ति स्म 'यत्र त्वस्य सर्वमात्मै- वाभूत्तत्केन कं पश्येत्' इति । अविनाशित्वेत्यादि । 'यद्वै तन्न पश्यति' इत्याद्याः श्रुतेः पूर्वं १. परममुक्तावपि । २. जीवः । 1418

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ भाष्यप्रकाशः। बोधनपीडाप्रसङ्गात्, अतः स्वाग्रहेण तत् सर्वं विभावयन्नुपेक्ष्य इत्यर्थः । एवं च यच्चैरुच्यते विधिशास्त्रं तु यथाप्राप्तं कर्तृत्वमादाय कर्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति । कर्ता विज्ञानात्मा पुरुष इत्याद्यपि शास्त्रमनुवादरूपत्वाद् यथाप्राप्तमाविद्यकं कर्तृत्वमनुवदिष्यति । एतेन विहारोपादाने परिहृते, तयोरप्यनुवादरूपत्वात् । यत् पुनः संध्ये स्थाने परिवर्तनविहारः प्राणानामुपादानं चोक्तम् । तत्राप्यन्येषां प्राणानां विरमणं, न तु धियोऽपि । 'सधीः स्वप्नो भूत्वेमं लोकमतिक्रामती'ति धीसंबन्धश्रावणात् । उपादाने यद्यपि करणे कर्मकरणविभक्तिनिर्देश- स्तथापि तत्संसृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् । केवले कर्तृत्वासंभवस्य दर्शितत्वात् । यथा लोके योधा युध्यन्ते, योधै राजा युध्यत इति तथात्रापि । किंचास्मिन्नुपादाने करणव्यापारो- परममात्रं विवक्षितं, न स्वातन्त्र्यम् । कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमदर्शनात् । तस्मादात्मनः कर्तृत्वमुपाधिनिबन्धनमेवेति । तदपि फल्गु । सनत्कुमारादीनां चङ्क्रमणादि- दर्शनेन भूमविद्यास्थवाक्येन च निरध्यासानात्मतः एव सर्वकार्यकर्तृत्वे सिद्धे तदनुसारेणान्य- द्रष्टृत्वान्यदर्शननिषेधकश्श्रुत्यर्थ उक्तरीत्योक्तयुक्तिभिश्च प्राञ्जले स्वाभाविककर्तृत्वनिषेधकप्रमाणा- भावाद् विधिशास्त्रमनुवादकशास्त्रं विहारोपादानशास्त्रं च प्रतिपादयिष्यत्यनुवदिष्यति च । एवं च संध्ये स्थाने, धियो विरमणाभावेऽपि न कश्चिद्दोषः । धीसाहित्येऽपि तदानीं तस्या उपाधितागमकस्याभावात् । करणत्वेन संबन्धस्येष्टत्वात् करणगतविभक्तिकोपाभावात् तदानु- कूल्याच्च । योधदृष्टान्तेन धियः कर्तृत्वसाधनमात्मनस्तन्निराकरणं चाप्यसंगतमेव । योधानां चेतनत्वेन करणानां चाचेतनत्वेन राज्ञश्च प्रयोजकत्वेनात्मनश्च प्रयोजककर्तृतया अप्यनुपगमेन दृष्टान्तदार्ष्टान्तिकवैषम्यात् । अतोऽस्मिन्नुपादाने जीवस्य स्वातन्त्र्यं लक्षणोपायमेधमिति दिक् । रश्मिः। पठ्यते मैत्रेयीं प्रति याज्ञवल्क्यवचनम् । 'न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽय- मात्मानुच्छित्तिधर्मा' इति । तत्र पुनरुक्त्यभावायानुच्छित्तयो धर्मा यस्य सोनुच्छित्तिधर्मेति समासा- न्त्येत्यर्थः । इत्यर्थ इति एवं च 'नान्योतः' इति श्रुतौ यत इत्यस्य जीवान्तर्यामिभ्यामित्य- प्यर्थः । वेदान्तविषयमुक्त्वा वेदविषयमाहुः एवं चेति । यथाप्राप्तमिति बुद्धयुपाधिप्राप्तम् । अनुवादेति अर्थवादरूपानुवादरूपत्वादित्यर्थः । श्रुतिः प्रत्यक्षसिद्धमर्थमनुवदतीति । यथा 'अग्नि- र्हिमस्य भेषजम्' इति श्रुतिः पूर्वतन्त्र उक्ता । विहारेति । विहारोपादानसूत्रयोक्ते एते । परीति संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति शंकरभाष्यश्रुतेः परि- वर्तनं च तद्विहार इति समासः । करण इति करणे विज्ञाने । 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति श्रुतौ कर्मेत्यादिः । तत्समिति बुद्धिसंसृक्तस्य । एवकारः केवलव्यवच्छेदकः । दर्शीति स्वाप्ययेत्यादिभाष्याभासे दर्शितत्वात् । अत्रापीति बुद्धिः पदार्थाञ्जानाति बुद्ध्या पदार्थाञ्जानातीति प्रयोगात् । धियः कर्तृत्वमात्मनस्तन्निराकरणं च । स्वातन्त्र्यमिति जीवस्य स्वातन्त्र्यं कर्तृत्वम् । अबुद्धीति न बुद्धिर्जीवकर्तृत्वनिर्वहिका, पूर्वं करणव्यापारोपरमात्पूर्वं यस्य पुंसः स तथोक्तस्तस्य । स्वातन्त्र्याभाववत इत्यर्थः । चङ्क्रमणादीति । आदिना प्रवचनम् । अनु- वदिष्यतीति न चानधिगतार्थगन्तृत्वरूपप्रमाणविरोधः । आत्मत्वेन वेदस्यावेद्येप्युक्त्यक्तेः । तद्वेति विभक्त्यानुकूल्यात् । एवेति दृष्टान्ताभावादुक्ता । स्वातन्त्र्यमिति जीवः प्राणानां 1419

यभावात्->बुद्धयभावात्`.

*   Line 12:
    `विवक्षितमिति वक्तुं शक्यते तथा तादृशस्थले बुद्धयभावात्सर्वत्रापि न तन्निबन्धनं कर्तृत्वमपि तु`

*   Line 13:
    `स्वाभाविकमित्यपि वक्तुं शक्यत इति । मनोनन्तरइति शंकरभाष्यव्याख्याने द्रष्टव्यम् । वाग्बुद्धयोः`
    Notice: `मनोनन्तरइति` (no space, or space?). In print: `मनोनन्तरइति`.

*   Line 14:
    `पूर्वोत्तरक्रमत्वान्मनोरूपवेदरूपवागनन्तरं विज्ञानरूपबुद्धेः पाठात् । वाक्येति विज्ञानं बुद्धिमंतमेदेन`
    Wait, `बुद्धिमंतमेदेन` or `बुद्धिमत्भेदेन` or `बुद्धिमत्तभेदेन`?
    Look closely at `बुद्धिमंतमेदेन`:
    Wait, is that `बुद्धिमदभेदेन`?
    Look at the letters:
    `बु` `द्‍ध` `ि` `म` `ं` `त` `म` `े` `द` `े` `न`?
    Wait, `बुद्धिमदभेदेन`!
    Look at `द`: in this font, `द` has a tail.
    Is it `

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२५ यथा च तक्षोभयथा ॥ ४० ॥ ननु कर्मकराणां कर्तृत्वभोक्तृत्वभेदो दृश्यते तथा कर्तृत्वभोक्तृत्वयोर्भेदो भविष्यतीति चेन्न । यथा तक्षा रथं निर्माय तत्रारूढो विहरति, पीठं वा । स्वतो वा न व्याप्रियते वाश्यादिद्वारेण वा । चकारादन्येऽपि स्वार्थकर्तारः । अन्यार्थ- मपि करोतीति चेत् तथा प्रकृतेऽपि सर्वहितार्थं प्रयतमानत्वात् । नच कर्तृत्वमात्रं दुःखरूपम् । पयःपानादेः सुखरूपत्वात् । तथाच स्वार्थपरार्थकर्तृत्वं कारयितृत्वं च सिद्धम् ॥ ४० ॥ इति द्वितीयाध्याये तृतीयपादे कर्ता शास्त्रार्थवत्त्वादिति चतुर्दशमधिकरणम् ॥१४॥ परात्तु तच्छ्रुतेः ॥ ४१ ॥ (२-३-१५) कर्तृत्वं ब्रह्मगतमेव तत्संबन्धादेव जीवे कर्तृत्वं तदंशत्त्वादैश्वर्यादिवत् । न तु

... Wait! If Rashmi explains "एवेति 'कर्ता कारयिता हरिः' इति श्रुतेरेवकारः", then what was the word before 'एव'? Could it be "तत एव"? "कारयितृत्वश्रुतिस्तु तत एव"! Look at line 19 again with this insight! कारयितृत्वश्रुतिस्तु (kārayitṛtva-śrutis tu) तत (tata) एव (eva) -> तत एव! Wait, look at line 19: Is that "तूतैैव"? NO! Look: "कारयितृत्वश्रुतिस्तु" - then "तत एव"?! Wait, look at: कारयितृत्वश्रुतिस् (kārayitṛtva-śrutis) त (ta) with ू (uu)? No! Is that a 'तु'? Let's look at the letters: कारयितृत्वश्रुतिस् - त - ू - त - ै - व ? Wait, if it's "कारयितृत्वश्रुतिस्तु तत एव": Then it would be: श्रुतिस् + तु = श्रुतिस्तु. Then "तत एव" -> त + त + े + व ? Wait, in the scan: कारयितृत्वश्रुतिस् Then: त (with what matra? It has a vertical loop below... wait, no, that'

। Now, why is it कारणम्? Because आविर्भावक is the cause! "कारणमाविर्भावकस्यैवाचारत्वात्"? Wait, "आविर्भावकस्यैवाचारत्वात्" or "आविर्भावकस्यैवाचार्यत्वात्"? Wait, what is "आचारत्वात्"? Let's look at: "कारणमाविर्भावकस्यैवाऽऽचारत्वात्"? Or "कारणमाविर्भावकस्यैवा..."? Wait, look at the glyphs: व - क - स्यै - वा - चा - र - त्वा - त् Wait, is the third glyph 'स्यै'? Yes, 'स' with 'य' and double matra 'ै'. The fourth glyph is 'वा': 'व' with 'ा'. The fifth glyph is 'चा': 'च' with 'ा'. The sixth is 'र': 'र'. The seventh is 'त्वा': 'त्' + 'वा'. The eighth is 'त्': 'त्'. So it is: "वकस्यैवाचारत्वात्"! Wait, what is "आविर्भावकस्यैवाचारत्वात्"? Wait, or "आविर्भावकस्यैवाकारत्वात्"? No, it's 'चा' (or 'धा'?). Wait, could it be "आविर्भावकस्यैवा...त्वात्"? Wait, look at the word: is it "आ

१२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० १ अ० १५ सू० ४२ वैयर्थ्यापत्तेः । अप्रामाणिकत्वं च । फलदाने कर्मापेक्षः । कर्मकारणे प्रयत्नापेक्षः । प्रयत्ने कामापेक्षः । कामे प्रवाहापेक्ष इति मर्यादारक्षार्थं वेदं चकार । ततो न भाष्यप्रकाशः। भगवानेव कारणमिति सर्वत्र तत्कारणत्वाय तदानीं प्रयत्नोत्तरकाले फलदातृत्वमभिव्यापिका या इच्छा आलोचनाकारान्तःपातिनी तामेव श्रुतिरनुवदति, 'उन्निनीषत्यथोनिनीषति' इति । अतो गुणदोषकथनपूर्वकं बालेच्छानुसारिसामग्रीसंपादके पितरि यथा न दोषः, किंतु बाल- स्वभावे, तथा ब्रह्मण्यपि न दोषः, किंतु जीव एवेत्यर्थः । ननूक्तदृष्टान्तन्यायेनैव कारयती- त्यत्र किं गमकमित्याकाङ्क्षायां सूत्रोक्तं, विहितप्रतिषिद्धावैयर्थ्यादिभ्य इति हेतुं विवृण्वन्ति अन्यथेत्यादि । यद्युक्तन्यायं विहाय केवलं जीवकृतकर्मापेक्षः कारयतीत्येवाङ्गीक्रियते तदा विहितप्रतिषिद्धयोर्यागादिब्राह्मणहननादिरूपयोः कर्मणोर्वैयर्थ्यं स्यात् । पूर्वपूर्वजीवकर्मानुसरणे ईश्वरस्य तदधीनतया तेषामेव प्राधान्याच्चात एव दुःखवदप्रार्थितस्य सुखस्यापि सिद्धेः । आदि- पदादप्रामाणिकत्वं च । इदं विहितमिदं निषिद्धमिति बोधकस्य प्रमाणव्यापारस्य वैयर्थ्यात् । अतो विहितप्रतिषिद्धावैयर्थ्यप्रमाणव्यापारवैयर्थ्याप्रामाणिकत्वात्तत्प्रमाणानुसारिभ्यो हेतुभ्य इदं ज्ञायते, यत् फलदाने कर्मापेक्ष इत्यादिमर्यादारक्षार्थं तज्ज्ञापकं स्वनिःश्वासरूपं वेदं प्रकटीचकार, यथा लोके राज्यमर्यादारक्षकं नीतिशास्त्रम् । ततो, 'लोकवत्तु लीलाकैवल्यम्' रश्मिः। यथाबालमित्यादि भङ्गीत्यर्थः । एवमिति कारणेषु स्वेन पञ्चकत्वे संपादने कृते सति । एवेति 'सदेव सोम्येदमग्र आसीत्' इति श्रुतावेवकार इत्येवकारः । तदानीमित्यस्य विवरणं प्रय- त्नेति । फलदातृत्वे या इच्छा तामनुवदतीत्यत्र भाष्येऽभिव्यापकाधारे सप्तमीत्याशयेनाहुः फलेति । आलोचनाकारः 'बहुस्यां प्रजायेय' इत्यत्र बहुस्यामिति सोन्तःपाती यस्याः सा आलोचनाकारान्तः- पातिनी उक्तेच्छा । सर्वेत्यादि भाष्यप्रयोजनमाहुः अत इति । न दोष इति । ननु बालदोषः पितुः स्मर्यतेऽतः कथं न दोष इति चेन्न नात्र बालः स्तनन्धयोऽपितु पूर्वव्यतिरिक्त इति न दोषः । एवेति मुण्डके 'सर्व एव आत्मानो व्युच्चरन्ति' इति आम्नानाज्जीवस्यांशत्वाद्यथा लोकशरीरांशे दोषो न त्वंशिनि शरीरे तथेत्येवकारः । एवेति एवकारः कर्माधीनेश्वरं व्यवच्छिनत्ति । तत इति पूर्वजीवकर्मभ्यः । एवेति गौणमुख्यन्यायात् । दुःखेति । तदुक्तं श्रीभागवते 'तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः । यल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा' इति । अप्रामाणिकत्वमितिभाष्यं विवृण्वन्ति स्म आदीति सूत्रीयादिपदात् । पदशब्दप्रयोगः समासावयवसुपोर्लुका . लुप्तत्वे पदत्वाभावेऽपि शब्दे पदत्वारोपात् व्यपेक्षाव्यञ्जन- सामर्थ्ये । अप्रामाणिकत्वमिति भाष्ये प्रमाणेन प्राप्यत इति प्रामाणिकं विहितं प्रतिषिद्धं च कर्म । शैषिकः प्रत्ययः, न प्रामाणिकमप्रामाणिकम् नञ्तत्पुरुषः । तस्य भावोऽप्रामाणिकत्व- मित्याशयेनाहुः इदमित्यादि । इति बोधकस्येति । इत्येवंप्रकारेण विहितप्रतिषिद्धस्वप्र- कारको यो बोधः प्रमा तत्कर्तुः प्रमाणस्येति वक्तव्ये बोधयतीत्यत्र व्यापारनिष्ठव्यापारविवक्षया प्रमाणव्यापारस्येत्युक्तम् । व्यापारेण व्यापारिणो नान्यथासिद्धत्वमिति नाङ्गीकृतम् । अन्यथानुप- पत्त्यात् । हेतुभ्य इति त्रिभ्य इत्यर्थः । फलेति । फलदाने कर्मापेक्ष इत्यादिर्या मर्यादेत्यादिः । अत्र प्रवहणं प्रवाहः सर्गपरंपराया अविच्छेदः । तज्ज्ञापकं मर्यादाज्ञापकम् । नीतीति तथा 1424

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२९ ब्रह्मणि दोषगन्धोऽपि । नचानीश्वरत्वम् । मर्यादामार्गस्य तथैव निर्माणात् यन्नान्यथा स पुष्टिमध्य इति ॥ ४२ ॥ इति द्वितीयाध्याये तृतीयपादे परात्तु तच्छ्रुतेरिति पञ्चदशमधिकरणम् ॥ १५ ॥ भाष्यप्रकाशः। इति न्यायेन जीवकृतप्रयत्नानुसरणान्न ब्रह्मणि वैषम्यादिदोषगन्धः। नाप्यनीश्वरत्वम् । मर्यादामार्गस्य तादृशापेक्षावैशिष्ट्यपूर्वकत्वेन स्वयमेव निर्माणादिति । नन्वयमपि न नियमः । 'अह्यापूतम्' इति, 'ते नाधीतश्रुतिगणाः' इत्यादिवाक्येषु तदनपेक्ष्यैव गोकुलेभ्यः फलदानकथनाच्छ्रुतावपि, 'सुहृदः पुण्यकृत्यां द्विषन्तः पापकृत्याम्' इति कथनादित्यत आहुः यत्रेत्यादि । तथाचेदमपि लोकवत्तु लीलेति न्यायादेव समाहितम् । लोके राज्ञामपि कृपापात्रेषु तथा दर्शनादिति । विद्वन्मण्डने तु, 'स वै नैव रेमे' इति श्रुत्यनुसारेण, यती प्रयत्न इतिधात्वर्थमादाय भगवत्कृतो यः क्रीडार्थमुद्यमः सोऽत्र प्रयत्नशब्दे गृहीतः । सिद्धान्तस्तूभयत्राप्येक एव । तेना- त्रेदं सिद्धम्, फलदाने भगवान् जीवकृतप्रयत्नापेक्षोऽपि न स्वातन्त्र्याद्धीयते । तथैवालोचितत्वात्, आलोचनानुसारेण विविधं फलं जीवेभ्यो दददपि, न वैषम्यादिदोषभाग् भवति, सर्वरूपत्वात् । कर्मणामप्यनादित्वं भगवद्धर्मत्वात् । कचिन्मर्यादां भिनत्त्यपि, स्वतन्त्रत्वात् । तथोक्तं द्वितीय- स्कन्धसुबोधिन्याम् यत्किञ्चिद् दूषणं तत्र दूष्यं चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभते ॥ ४२ ॥ इति इति पञ्चदशं परात्तु तच्छ्रुतेरित्यधिकरणम् ॥ १५ ॥ रश्मिः। बृहत्त्वादिति श्रुतिरूपम् । इयं वक्ष्यमाणप्रणाली । तत इति भाष्यं विवृण्वन्ति स्म तत इति । नचेति भाष्यविवरणं नापीति । मर्यादेति भाष्यविवरणं मर्यादेति । भाष्यभाव्यश्रुतिमाहुः श्रुताविति 'तस्य पुत्रा दायमुपयन्ति सुहृदः पुण्यकृत्याम्'इत्यादिः । अस्याः पुष्टिमार्गीयत्वं तु भगव- दनुगृहीतस्य पुण्यकृत्यायाः भोगाभावेऽपि सुहृद्गामित्वं पापकृत्याया भोगाभावेऽपि द्विषद्गामि- त्वमितरेषां त्वेतयोर्भोगादेव क्षय इति न भोगाभावे मोक्षः । तथेति । इष्टदेशप्रापण- प्रकारदर्शनादिति मतं हेतुमाहुः विद्वन्मण्डन इति । गृहीत इति । तेन सुबोधिन्यनुसारि- प्रयत्नः न तु वेदव्यासमतवर्तिब्रह्ममतप्रयत्न इति न मतभेदोप्यस्ति । सिद्धान्त इति वैषम्य- नैर्घृण्यदोषपरिहाररूपः । यत्रेति भाष्यतात्पर्यमाहुः कचिदिति । पुष्टिप्रसङ्गात्किंचिदाहुः यत्किंचि- दिति । अत्रेति अत्रत्यः पुष्टिमार्ग इत्यर्थः । स्वयमिति तदात्मानमिति श्रुतेः । एवकारस्तु 'तदात्मान५ स्वयमकुरुत'इति श्रुतेः पुष्टिमात्रविषयत्वात् ॥ ४२ ॥ इति चतुर्दशं परात्तु तच्छ्रुतेरित्यधिकरणम् ॥ १४ ॥ १. रश्मिकारमते चतुर्दशमधिकरणम् । १७ ब्र० सू० २० 1425

३६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० १६ सू० ४३ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवा- दित्वमधीयत एके ॥ ४३ ॥ (२-३-१६) जीवस्य ब्रह्मसंबन्धिरूपमुच्यते । जीवो नाम ब्रह्मणोंऽशः । कुतः । नाना- व्यपदेशात् । 'सर्वे एवात्मानो व्युच्चरन्ति कपूयचरणा रमणीयचरणाः' इति च । ननु ब्रह्मणो निरवयवत्वात् कथं जीवस्यांशत्वमिति वाच्यम् । न हि ब्रह्म निरंशं सांशमिति वा क्वचिल्लोके सिद्धम् । वेदैकसमधिगम्यत्वात् । सा च भाष्यप्रकाशः। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥ अधिकरणमवतारयन्ति जीवस्येत्यादि । स्वसंबन्धि तु, 'ज्ञोऽत एव' इति सूत्रे ज्ञानरूपत्वबोधना- दुक्तम् । इदानीं 'यो यदंशः स तं भजेत्' इति भजनयोग्यत्वं वक्तुं मतान्तरवद् अन्यत्वं परिहर्तुं मुक्तिदशायां ब्रह्मत्वव्यपदेशस्य मुख्यवृत्तत्वे हेतुं बोधयितुं ब्रह्मानेकत्वं च परिहर्तुं ब्रह्मसंबन्धि- रूपकथनार्थमिदमारभ्यत इत्यर्थः । सूत्रं विवृण्वन्ति जीवो नामेत्यादि । नानाव्यपदेशादिति नानात्वेन व्यपदेशो नानाव्यपदेशस्तस्मात्, श्रुतौ बहुत्वसंख्याविशिष्टत्वेन कथनाद् ब्रह्मणः सकाशाद् विस्फुलिङ्गवद् विभागकथनाच्चेत्यर्थः । विद्वन्मण्डने तु नानाविधो व्यपदेशो नानाव्यपदेशः, क्वचिद् ब्रह्मत्वेन, क्वचिद्भक्त- त्वेन, क्वचिदंशत्वेन, क्वचिच्चिद्रूपत्वेन, क्वचिदीक्षितव्यत्वेन, क्वचिदणुत्वेन, क्वचिद् व्यापकत्वेने- त्येवंरूपः । 'अयमात्मा ब्रह्म सर्वानुभूः', 'सर्व एवात्मानो व्युच्चरन्ति', 'ज्ञाज्ञौ द्वावजावीशानीशौ', 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय', 'क्षरात्मानावीशते देव एकः', 'एषोऽणुरात्मा चेतसा वेदितव्यः', 'तज्जीवो नभोपमः' इत्यादिषु । तस्माद् ब्रह्मणोंऽश एव जीवः, न ह्येवं विरुद्धधर्मा- श्रयत्वं कार्यस्य संभवतीत्यपि व्याख्यातम् । अत्रैकदेशिभिर्दर्शनान्तराभिमानिभिश्च कृतामाशङ्कामनूद्य निषेधन्ति ननु ब्रह्मण इत्यादि । रश्मिः। अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥ अवेति एककार्यत्वसंगत्यावतारयन्तीत्यर्थः । तामेवाहुः स्वेति । किमन्यजीवसंबन्धिरूपमिति जिज्ञा- सयाधिकरणावतरणात् । ज्ञोऽत इति । अन्याधिकरणानामेतन्मूलत्वाद्व्यवहितमधिकरणं परित्यज्ये- तदुपात्तम् । स्वं जीवः जीवत्वविशिष्टः विशिष्टे शक्तं जीवपदं तत्संबन्धः समवाय

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३१ श्रुतिर्यथोपपद्यते तथा तदनुल्लङ्घनेन वेदार्थज्ञानार्थं युक्तिर्वक्तव्या । सा चेत् स्वयं नावगता, तपो विधेयम् । अभिज्ञा वा प्रष्टव्या इति । न तु सर्वविप्लवः कर्तव्यः । तत्रैषा युक्तिः— 'विस्फुलिङ्गा इवाग्नेर्हि जडजीवा विनिर्गताः' । 'सर्वतःपाणिपादान्तात् सर्वतोऽक्षिशिरोमुखात्' । 'निरिन्द्रियात् स्वरूपेण तादृशादिति निश्चयः' । भाष्यप्रकाशः। निषेधे हेतुं व्युत्पादयन्ति न हि ब्रह्मेत्यादि । युक्तिर्वक्तव्येति यथा न्यग्रोधफलमाहरे- त्यादिः । तपो विधेयमिति 'तपसा ब्रह्म विजिज्ञासस्व' इति श्रुतेः । अभिज्ञा वा प्रष्टव्या इतीति 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादिश्रुतेः । इति प्रकारे एवं श्र

५३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १६ सू० ४३ 'सर्वंशेन जडाः पूर्वं चिदंशेनेतरे अपि । अन्यधर्मतिरोभावान्मूलेच्छातोऽक्षतश्श्रिणः' इति ॥ ब्रह्मवादे अंशपक्ष एव । ननु अंशत्वे सजातीयत्वमायाति । श्रुत्यन्तरे पुनर्ब्रह्मदाशा ब्रह्ममे कितवा उत । अत्र सर्वस्यापि ब्रह्मविज्ञानेन विज्ञानप्रतिज्ञानाद् दाशादीनामपि ब्रह्मत्वं प्रतीयते । तत्कार्यत्व एव स्यादिति चेन्न । अन्यथा चापि प्रकारान्तरेणापि भाष्यप्रकाशः। एवं सृष्टिं कारणस्वरूपं चोक्त्वा जडजीववैलक्षण्ये हेतुमाहुः सर्वंशेनेत्यादि । वैलक्षण्ये क्रमे च विस्फुलिङ्गश्रुतिरेव प्रमाणमिति वैलक्षण्यरूपान् कार्यादेवं कारणविभागोऽनुमीयते । 'स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवताम्' इति श्रुत्यन्तरे तथा दर्शनात् । जडजीवयोर्विरुद्धधर्माधारत्वाभावे युक्तिमाहुः अन्येत्यादि । अन्य आनन्दांशस्तस्य धर्मा विरुद्धधर्माश्रयत्वं तस्य तिरोभावो येषु तादृशाः । तत्र हेतुर्मूलेच्छा, 'प्रजायेय' इतीच्छा ततः । अक्षतस्त्रिण इति क्षतश्वो ब्रह्मभावस्तद्रन्तः क्षतस्त्रिणस्तद्भित्रा म्राह्मेभ्यो देहादिभ्यो मुक्तेभ्यो जीवेभ्यश्च भिन्ना इत्यर्थः । तथाचैवं श्रुतौ लोकविरुद्धस्य सर्वतःपाणिपादत्वादेः श्रावणेन ब्रह्मणि निरंशेऽपि लोकविरुद्धस्य सांशत्वस्य व्युच्चरणादिश्रुतिगलेनाङ्गीकर्तुं शक्यत्वाद् विरुद्धधर्माश्रयत्वं युक्तिरिति तथा श्रुतिमूलकयुक्त्या ब्रह्मवादे अंशपक्ष एवाद्रियते, तं विहाय केवलं निष्कलश्रुतिं पुरस्कृत्यौपचारिकत्वांशत्वकल्पनया सर्वश्रुतिविप्लवो न कर्तव्यः। ब्रह्मणो लोकविलक्षणत्वादित्यर्थः । अंशत्व एव किंचिदाशङ्क्य सूत्रांशेन परिहरतीत्याशयेनाहुः नन्वित्यादि । अत्रेति अस्यां श्रुतौ । तत्कार्यत्व एव स्यादिति तेषां ब्रह्मत्वं ब्रह्मकार्यत्व एव युज्येत, घटमृदोरिव दाश्वादित्रह्मगोर्वैजात्यस्य स्फुटत्वात् । तथाच व्युच्चरणश्रुत्युक्तानां प्राणलोकादीनामिवार्मनामपि रश्मिः। जडजीवेति । व्युच्चरन्तीत्यत्र वि विशेषेण वैलक्षण्येन । अनुमीयत इति कार्यं विभक्तं वैलक्ष- ण्यात्, घटपटादिवत् यच्चैवं तच्चैवं अनेकपटवदित्येवमनुमीयते । स इममिति बृहदार- ण्यके पुरुषविधाब्राह्मणेऽस्ति । आपातयदित्यत्र पतनं विभागानुकूलो व्यापार इति तथा । जडेति कारणधर्मयोग्ययोः । तद्भिन्ना इति । अक्षतस्त्रिण इत्यत्र भेदो नञर्थ इति भावः । 'क्षतश्चः कर्ता' इति न व्याख्यातम् । अन्यथासंभवादतस्तिरोहितासानन्दत्वाविर्भावो ब्रह्मभावस्तद्वानन्तिकोऽयमे सति स विधिकीर्षितः कर्तृत्वे मुख्यो मुख्यंस्यप्रयोजकः सर्वात्मभावस्ततोपि मुख्य इति सोर्थ उक्तः । युक्तिरिति 'आगमस्याविरोधेन ऊहनं तर्क उच्यते' इत्यमृतबिन्दूपनिषदः । ऊहनं विरुद्धधर्माश्रय- त्वस्येति विरुद्धधर्माश्रयत्वपदं सोहने लाक्षणिकम् । विरुद्धधर्माणामाश्रय आश्रयणं यत्रोहन इति बहुव्रीहिर्वा । ब्रह्मवाद् इति भाष्यविवरणं ब्रह्मवाद् इति । एवेति । अनेकभूतभौतिक- देवतिर्यङ्मनुष्यानेकलोकानुत्तरचनानुष्ठत्रह्माण्डकोटिरूपस्य मनसाप्याकलयितुमशक्यरचनसानायासे- नोत्पत्तिस्थितिमङ्गकरणं न लौकिकमिति भाष्येऽशक्यरचनस्येत्युक्त्यानिर्वचनीयकर्तृत्वानुपकेरवेति अन्यथा निलाणुपरिमाणकमगवत्संबद्धो जीवेन कृत उत्पद्येत । लोकेति अनिर्वचनीय- त्वात् । इम इति प्रत्यङ्गेनेन प्रयोगेन । एवेति केवलनां जीवाना मप्रत्यक्षत्वात्- 1428

तः इति ।" Wait, is there a space/danda between परिहारः and अतः? Yes, "परिहारः अतः इति ।" That makes 1000% grammatical, syntactical, and philosophical sense! "साजात्याभावात्साजात्यबोधकश्रुतिविरोधपरिहारः अतः इति ।" Amazing!

Now let's read the rest of line 31: "अतः इति । अन्येत्यादि एके शाखिन इत्युक्त्यान्वयम्" Wait, look at line 31 after "अतः इति ।": "अन्त्येत्यादि एके शाखिन इत्युक्त्यान्वयम्" or "अन्येत्यादि"? Let's look at: अ - न्ये - त्या - दि (anyetyadi) or अ - न्त्या - दि? Wait, Prakasha line 16 says: "अन्यहेतुकत्वाद्"! Prakasha: "अतः साजात्याभावस्यान्यहेतुकत्वाद् वस्तुतः साजात्यस्य सत्त्वात्..." So Rashmi quotes Prakasha's "अन्यहेतुकत्वात्": "अन्येत्यादि" (referring to 'अन्यहेतुकत्वाद्')! Wait, look at the characters: अ - न्ये - त्या - दि (anyetyadi)! Then: "एके शाखिन इत्युक्त्यान्वयम्" or "इत्युक्त्यान्वयः

११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०३ अ०१६ सू० ४४-४६ मन्त्रवर्णात् ॥ ४४ ॥ 'पुरुष एवेदꣳ सर्वम्' इत्युक्त्वा, 'पादोऽस्य विश्वाभूतानि' इति भूतानां जीवानां पादत्वं, पादेषु स्थितत्वेन वा अंशत्वमिति ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ वेदे खतन्त्रतया उपपाद्य वेदान्तरेऽपि तस्यार्थस्यानुसरणम्, 'ममैवांशो जीवलोके जीवभूतः सनातनः' इति ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ जीवस्यांशत्वे हस्तादिवत् तद्दुःखेन परस्यापि दुःखित्वं स्यादिति चेन्न । एवं परो न भवति । एवमिति प्रकारभेदः । क्लिष्टत्वेनाऽनुभव इति यावत् । भाष्यप्रकाशः। मन्त्रवर्णात् ॥ ४४ ॥ श्रुत्यन्तरसंमतिं दर्शयितुं हेत्वन्तरं वदतीत्याशयं स्फुटीकुर्वन्ति पुरुष एवेत्यादि । पुरुषसूक्तव्याख्यानाऽध्याये, 'पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः' इति व्याख्यानात् पक्षान्तरमाहुः पादेष्वित्यादि ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ अर्थस्तु स्फुटः ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ एवं त्रिभिर्जीवांशत्वं निर्दोषेऽंशत्वे प्राप्तान् दोषान् परिहरतीत्याशयेन सूत्रं व्याकुर्वन्ति जीवस्येत्यादि । अंशत्वे हस्तादिवदिति । हस्तादि- वदंशत्व इत्यन्वयः । परिहारं व्याकुर्वन्ति । एवं पर इत्यादि । अत्र, नैवं पर इति निषेधेन प्रकारभेदो बोध्यते, तेन तद्धेतुभूतः प्रकारोऽपि भेदकत्वेन सूच्यते, तथाच यस्मात् परो जीव- वन्न तस्माज्जीववद् दुःखी नेति । तथा सत्येवमिति जीवनिष्ठः प्रकारभेद उच्यते । स च दुःखे क्लिष्टत्वेनानुभवरूपः । स तु परस्य नास्ति, किंतु प्रियत्वेनानुभवरूपः । अतः परोऽन्यथा । रश्मिः। मन्त्रवर्णात् ॥ ४४ ॥ पादत्वमंशत्वमिति श्रुत्यन्तरेत्यादिः । पुरुष एवेत्यादीति । इदं परिदृश्यमानं जगत् अस्य पुंसः पादो विश्वानि भूतानीत्यर्थः । पुरुषेति श्रीभागवते द्वितीयस्कन्ध इत्यादिर्बोध्यः । पादेष्विति । अत्र विशेषो ज्योतिश्चरणाधिकरणे विवृतः । पक्षेति पादाधिकरणपक्षमाहुः ॥ ४४ ॥ अपि स्मर्यते ॥ ४५ ॥ स्फुट इति । भाष्ये वेदान्तर इति इतिहास इत्यर्थः । 'इतिहासपुराणं वेदानां पञ्चमो वेदः' इति श्रुतेरित्येवं स्फुट इत्यर्थः ॥ ४५ ॥ प्रकाशादिवन्नैवं परः ॥ ४६ ॥ ननु भाष्य एव परो नेति परे नकारान्वयो भातीत्येवमिति । प्रकारभेद इति भाष्यं कथमित्याकाङ्क्षायामाहुः अत्र नैवं पर इति । नकारार्थो भेदः एवमर्थप्रकारस्तस्य प्रकारस्य प्रतियोगितासंबन्धेन नकारार्थेऽभेदेऽन्वयः । एवं प्रकार- भेदस्तदाहुः प्रकारेति । तद्धेतुरिति नकारार्थभूताभावहेतुभूतः । अभावज्ञानस्य प्रतियोगि- ज्ञानाधीनत्वात् । भेदकत्वेन ब्रह्मणः सकाशाद्भेदकत्वेन । एवमितीति व्याख्येयम् । एवमिति जीवनिष्ठः प्रकारस्तस्य भेद इत्येकदेशान्वयः चैत्रस्य गुरुकुलमितिवत् । नकारार्थस्य प्रकारप्रति- योगित्वं भाष्ये तु परप्रतियोगित्वं नकारार्थस्येत्याशङ्कापास्ता । नैवं पर इत्यन्वयाङ्गीकारात् । स चेति प्रकारभेदः । क्लिष्टत्वेनेति प्रतिकुलवेदनीयत्वेन । भेदेन सहानुभवाभेदान्वयासंभवाद्राद्धान्तम् । 1430

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३५ अन्यथा, सर्वरूपत्वात् । कुत एवं तत्राह । प्रकाशादिवत् । 'नाग्नेर्हि तापो न हिमस्य तत् स्यात्' इति । प्रकाशग्रहणं धर्मत्वद्योतनाय । दुःखाद्योऽपि ब्रह्मधर्मा इति । अतो द्वैतबुद्ध्या अंशस्यैव दुःखित्वं, न परस्य । अथवा प्रकाशः प्रकाश्य- दोषेण यथा न दुष्टः । रूपस्यापि तदंशत्वादिति ॥ ४६ ॥ भाष्यप्रकाशः । तत्र हेतुः सर्वरूपत्वादिति । तथाच पूर्वसूत्रे यथा दाशकितवादिरूपस्तथात्र दुःखरूपोऽपि, अतो दुःखे दुःखत्वेन भानरहितत्वात् परो नैवमित्यर्थः । न हि स्वस्म स्वस्मिन्नप्रियत्वं भासते । ननु कुत एवमवगम्यते, तत्राह प्रकाशादिवदिति । यथा प्रकाशशैत्यादयो धर्मा नाग्निहिमा- दीनां दुःखदिट्त्वबुद्धिजनकास्तथा दुःखमपि परस्य न दुःखजनकं, न वा द्विष्टत्वानुभव- जनकमित्यर्थः । वाक्यं तु एकादशस्कन्धे भिक्षुगीतायाम्, 'कालस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्' इति अत्र परस्येतिपदंक्षांशिन इत्यर्थो बोध्यः । दुःखादीनां ब्रह्मधर्मत्वमानन्दतिरोभाव- रूपत्वात् । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः' इति वाक्येन तिरोभावस्य भगवद्धर्म- त्वादिति । ननु तर्ह्यग्न्यादिवदिति कुतो नोक्तं तत्राहुः प्रकाशेत्यादि । तथाचाग्न्यादि- वदित्युक्ते सामर्थ्यविशेषादेव प्रकारभेदो बुध्येत, न तु धर्मधर्मिभावात्, अतस्तद्बोधनार्थं तथा नोक्तमित्यर्थः । एतस्य पक्षस्य दुरुहत्वेन क्लिष्टत्वात् पक्षान्तरमाहुः अथवेत्यादि । रूपस्य प्रकाशांशत्वं तु, 'सूर्यचक्षुस्तथा रूपं ज्योतिषो न पृथग् भवेत्' इति द्वादशस्कन्धे उक्तम्, तथाच सौरः प्रकाशो रूपप्रकाशकः प्रकाश्यं रूपमपि तदंशस्तथापि तद्दोषेण यथा प्रकाशस्य न दुष्टत्वं तथा जीवस्वाभिमानादिदोषग्रासेऽपि न परस्य तद्दोषवत्त्वमित्यर्थः । क्वचित् पापस्यापि तदंश- त्वादिति पाठः । तदा त्वादिपदेन सूत्रे पापं ग्राह्यम् । तथाच 'धर्मः स्तनोट्धर्मपथश्च पृष्ठः' इति वाक्यात् पापं विराजोऽङ्गः । तस्माद् यथा विराजो न दुःखं तद्वदित्यर्थो वाच्यः ॥ ४६ ॥ रश्मिः । द्विष्टत्वेन योऽनुभवो द्विष्टज्ञानं तेन रूप्यते व्यवह्रियते उक्तज्ञानविषय इत्यभेदान्वयः । यद्वा प्रकारभेदः प्रकारविशेषः । 'भेदो द्वैधे विशेषे स्यात्' इति विश्वात् । भेदोऽभाव इति नैयायिकाः । तेनानु- भवेनाभेदान्वयः सुष्ठु भाष्ये संगच्छते । यद्वा तद्धेतुभूत इत्यस्य प्रकाशशस्य प्रकारविशेषहेतुभूतः प्रकारः, सामान्यप्रकार इत्यर्थः । भेदकत्वेनेत्यस्य विशेषकत्वेनेत्यर्थः । भिदिर् विदारणे । यत्किंचिदज्ञानवि- दारणेषु विशेषक इति यावत् । 'विशेषकः स्यात्तिलके विशेषावाहकेपि च' इति विश्वः । अन्यथेत्यादि भाष्यं विवरीतुमाहुः स त्विति । अन्यथेति भाष्यं व्याकुर्वन्ति स्म अत इति । अन्यथेति । इदं भाष्यं । प्रियत्वेन द्विष्टानुभवः प्रकारः परस्य सर्वसमत्वात् न द्विष्टत्वेन द्विष्टानुभवः । ईश्वरे द्विष्टानुभावस्तु नास्ति । 'ऋतं तपः सत्यं तपः' इति श्रुतेः । द्वितीयस्कन्धनवमाध्याये तप संताप इत्यस्य ग्रहणात् । अत इति समत्वात्सर्वरूपत्वाद्वा इति । कुत इत्यादि भाष्यं विवृण्वन्ति स्म ननु कुत इति । प्रकाशेति आदिशब्देन विषम् । अग्निहिमेति आदिना सर्पः । दुःखेति दुःखे द्विष्टत्वबुद्धे- र्जनकाः । इत्यर्थ इति अर्थः श्रीधर्यां स्फुटः । सामर्थ्येति क्षमावमिह सामर्थ्य वदन्ति । धर्मेति तद्वृत्तित्वं धर्मत्वम् । अत इति दधिदुग्धवद्रूपघटवच्चेति दृष्टान्तसत्त्वाच्च । पापस्येति पाठः । रूपस्येति पठित्वा व्याचख्युः रूपस्येति । विराजोंशा इति परंपरया बोध्यः पृष्ठांशत्वात् ॥ ४६ ॥ 1431

१३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ०२ पा०३ अ०१६ सू०४७-४८ स्मरन्ति च ॥ ४७ ॥ स्मरन्ति च सर्वेऽपि ऋषयोऽशिनो दुःखसंबंधं स्मरन्ति । 'तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवांभसा' ॥ इति । 'कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते' । 'एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः'। चकारात्, 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' ॥ ४७ ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ ननु जीवस्य भगवदंशत्वे विधिविषयत्वाभावात् कर्मसंबन्धाभावेन कथं भाष्यप्रकाशः। स्मरन्ति च ॥ ४७ ॥ स्मरन्ति च ऋषय इति ग्रहणकमग्रे व्याख्यानम् । निर्गुण इति प्राकृतसंसर्गशून्यः । एकस्तथेति श्रुतिस्तु कठवल्लीस्था । एतत्पूर्वार्द्धं तु, 'सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः' इति । द्वितीया श्वेताश्वतरस्था । एतत्पूर्वार्द्धं 'द्वा सुपर्णा' इत्यादि । तया विरुद्धधर्मवत्त्वं भेदश्च जीवपरमात्मनोः सिध्यति । एवं सूत्रद्वयेन एको दोषः परिहृतः । पूर्वश्रुतौ चाक्षुषैरित्यस्य तच्चक्षुःसंबन्धिमिस्तिमिरादिभिरित्यर्थः ॥ ४७ ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥ ४८ ॥ पुनर्दाेषान्तरमाशङ्क्य परिहरतीत्याहुः नन्वित्यादि । अयमर्थः । 'कर्ता शास्त्रार्थवत्त्वात्' इत्यत्र ब्रह्मण आप्तकामत्येन फलानुपयोगाज्जडस्य च ज्ञानाभावेन कर्मकरणाशक्यत्वाद् विधिनिषेधशास्त्रमनर्थकं स्यादिति, तत्परिहारार्थं जीवस्य विधिनिषेधविषयतया कर्तृत्वमङ्गीकृतम् । अंशत्वे तद्विरुध्यते । भगवत इव जीवस्यापि तथात्वस्याऽवश्यवक्तव्यत्वेन कथं फलसंबन्धः । तथाच विधिनिषेधवैयर्थ्य- रश्मिः। स्मरन्ति च ॥ ४७ ॥ ग्रहणकमिति वार्तिकमेवेदं भाष्यप्रकाशम् । घञन्तं पुंसी- त्यस्य लौकिकत्वात् सूत्रापेक्षितं ग्रहणयतीति ग्रहणकं सूत्रशेषमिति यावत् । अग्र इति । ननु द्वेर्विवरणमुपपद्यत इति तत्कुतो न व्याख्यानमिति चेत्तत्सत्यम् । व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदे- हादल्ल

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३७ फलसंबन्धः । जीवस्य च पुनरनेकदेहसंबन्धात् कः शूद्रः, का भार्येति ज्ञानमप्य- शक्यमतः कर्ममार्गस्य व्याकुलत्वात् कथं जीवस्यापि दुःखित्वमित्याशङ्क्य परिहरति । अनुज्ञापरिहारौ विधिनिषेधौ, जीवस्य देहसंबन्धाद् यो देहो यदा गृहीतस्तत्कृतौ । यथा शवाग्निश्चण्डालभाण्डस्थमुदकं तद्घटादिश्च परिह्रियते । एवमुत्कृष्टं परिगृह्यते । तथा जीवेऽपि देहसंबन्धकृतः । संबन्धश्चाध्यासिको भगवत्कृतश्च । आध्यासिको हि ज्ञानान्निवर्तते । द्वितीयो भगवतैव । जीव- न्मुक्तानामपि व्यवहारदर्शनात् । श्रुतिस्तु भगवत्कृतसंबन्धमेवाश्रित्याग्नि- होत्रादिकं विधत्ते । अन्यथा विद्यां स्वज्ञानं च बोधयन्ती कर्माणि न विदध्यात् । भाष्यप्रकाशः । तादवस्थ्यात् तत्सूत्रव्याघातः । किंच । शास्त्रस्य जीवाधिकारकत्वाज्जीवस्य चानेकदेहसंबन्धात् को जीवः शूद्रः, का भार्येति ज्ञानमप्यशक्यम् । तदज्ञाने, 'ऋतौ भार्यामुपेयात्', 'न शूद्राय मतिं दद्यात्' इत्याद्यनुज्ञापरिहारविषयज्ञानाभावः । अतः कर्ममार्गस्य व्याकुलत्वाद् विहित- निषिद्धान्व्यवस्थायां कथं जीवस्यापि निषिद्धफलभूतं दुःखित्वमिति द्वयमाशङ्क्य परिहरतीति । परिहारं व्याकुर्वन्ति अनुज्ञेत्यादि । सत्यं, जीवस्य यद्यपि भगवदंशत्वान्न स्वरूपतो विधिनिषेधविषयत्वं, तथापि तत्तद्देहसंबन्धकृतमागन्तुकं तद् भवत्येव, यथाम्ब्वग्निपृथिवीनां स्वतो विध्याद्यविषयत्वेऽपि शवादिसंबन्धान्निषेधविषयत्वं, श्रोत्रियादिसंबन्धाच्च विधि- विषयत्वं, तद्वदस्यापि देहसंबन्धाज्जाते तस्मिंस्तत एव तत्फलसंबन्धस्यापि सौकर्येण तयोरपि सार्थक्ये सति न शास्त्रार्थवत्त्वसूत्रव्याहतिर्न वा कर्ममार्गव्याकुलता येन दुःखित्वाद्यनुपपत्ति- रित्यर्थः । ननु देहसंबन्धेन विधिविषयत्वे देहसंबन्धस्याज्ञानकृतत्वाच्छास्त्रस्याप्यज्ञाधिकार- कत्वं सिद्ध्यति, अज्ञानं च बुद्धयुपाधिकस्यैव, न तु स्वत इति, शास्त्रार्थवत्त्वसूत्रव्याहतिर्न परिहृता भवतीत्याशङ्कायामाहुः संबन्धश्चेत्यादि । स्वज्ञानमिति 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' रश्मिः । संबन्धाभावस्य । स्वस्येति लोकाश्रयणात् । तथेत्येतावत्तैव चारितार्थ्यात् । तत्सूत्रेति कर्ता शास्त्रेति सूत्रस्य व्याघातः । जीवस्येतिभाष्यं हेतुपूर्वकं विवृण्वन्ति स्म किं चेत्यादि । द्वयमिति जीवस्य दुःखित्वमपिना भगवतो दुःखित्वं चेति द्वयम् । श्रोत्रियेति श्रोत्रियश्छन्दोऽधीते यः सः । तस्मिन्निति विधिविषयत्वे । बुद्धीति जीवो विशेष्यम् । निरुपाधिकव्यवच्छेदक एवकारः । न परीति । बुद्धौ कर्तृत्वस्य पर्यवसानाज्जीवे चापर्यवसानाच्छास्त्रार्थवत्त्वस्य बुद्धयवसितत्वेन न परिहृता भवतीत्यर्थः । संबन्धश्चेत्यादीति जीवन्मुक्तानामपि दे

१३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० ३ अ० ११ सू० ४८ शाब्दज्ञानस्य पूर्वमेव सिद्धत्वात् । कथं सिद्धवद् यावज्जीवं विदध्यात् । न्यासोऽपि देहसंबन्ध एव ॥ ४८ ॥ भाष्यप्रकाशः। इत्यादिभिः सार्थज्ञानम् । पूर्वमेव सिद्धत्वादिति अध्यापनाध्ययनविधिभ्यां कृतेऽध्ययने तत्काल एव सिद्धत्वात् । तथाच कामाधिकारको विधिर्विश्वासोपजननायोऽज्ञाधिकारको भवतु नाम, यावज्जीवादिरूपो नित्यविधिस्तु नाज्ञाधिकारकः, अतो न शास्त्रार्थव्यवस्थाघात इत्यर्थः । ननु यावज्जीवविधिश्चेज्ज्ञानिपरस्तदा, 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्यादिसंन्यासविधि- वैयर्थ्यम् । अतो नेयं व्यवस्था युक्तेत्यत आहुः न्यासोऽपीत्यादि । तथाच जरामर्याग्निहोत्रस्य तत्रापि संभवान्न वैयर्थ्यम् । ये पुनर्ब्रह्मभूता आदितः साधनसंपत्त्या वा देहसंबन्धं नानुसंदधते, 'दैवादुपेतमुत दैववशादपेतम्' इति न्यायेन देहं धारयन्ति पूर्णा एव ज्ञानिनस्तेषां तु शुकादिवत् स्वत एव तत्र तत्र प्रवृत्तेर्न विधिनियम्यत्वम् । अत एव, 'यं प्रव्रजन्तमनुपेतमपेतकृत्यम्' इति, 'पञ्चषष्ठायनार्भाभाः' इति, 'स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः' इति 'योगेश्वरस्य भवतो नाऽऽज्ञायोऽपि नियामकः' इत्यादीनि वाक्यानि, दत्तात्रेयस्य च मार्कण्डेयपुराणे स्वैराचरण- मिति सर्वं संगच्छते । अतो, न कोऽपि दोष इत्यर्थः ॥ ४८ ॥ रश्मिः। भगवत्कृतसंबन्धवतां कर्माकरणे । स्वार्थेति । स्वज्ञानमिति भाष्ये स्वशब्द आत्मीयवाचक इति भावः । भाष्ये जीवन्मुक्तानां शाब्दज्ञानेनाध्यासनिवृत्त्या श्रुतिः कर्माणि बोधयिष्यतीत्याशङ्कायामाहुः शाब्देति । प्रकृते । तत्काल इति अष्टादिनाऽध्ययनाध्यापनकाले । तदुक्तं परस्पराभिनन्दने- नार्थः स्फुरतीति । एवेति 'अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ये तत्र ब्राह्मणाः संमर्शिनः युक्ता आयुक्ताः अलूक्षा धर्मकामाः स्युर्यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः' इति श्रुतेरेवकारः । 'अलौकिको हि वेदार्थः' इति श्रुतेर्विमर्शिनः परमात्मप्रसादवन्तः । 'किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने' इति वाक्यात् विमर्शनार्थज्ञानमिति । भाष्ये कथ- मित्यादि । उक्तहेतोर्निवृत्ताविद्याकर्मणां कथं श्रुतिस्त्वित्याद्युक्तप्रकारातिरिक्तप्रकारेण सिद्धवदित्यादिः । निवृत्ताविद्याकर्मणां साध्याविद्याकर्मप्रसाधनं विना यावज्जीवमग्निहोत्रं जुहुयादिति विरुद्धं याव- ज्जीवं कर्म विदध्यादित्यर्थः । अग्निहोत्रं जुहोतीत्यनयाग्निहोत्रविधानेन यावज्जीवमग्निहोत्रं जुहुयादिति नापूर्वविधिरपि तु गुणविधिर्यावज्जीवत्वविधिः दध्ना जुहोतीतिवत् । अतः श्रुतिस्तु भगवत्कृत- संबन्धमित्यादिः । तथा चेति कर्मणां विधाधीनत्वेत्यर्थः । कामेत्यादि । प्रवृत्तं च निवृत्तं च तत्र पूर्वं प्रवृत्तम् 'फलश्रुतिरियं नृणां न श्रेयो रोचनं परम्' इति वाक्यात् । तमाहुः विश्वा- सेति । ज्ञानिपर इति ज्ञानिकर्मपरः । अत्र देहसंबन्धो भगवत्कृतो ग्राह्यः । अपिनाग्निहो- त्रादिरिति व्यवसोपपन्नेत्याहुः तथा चेति । जरामर्याग्निहोत्रं महानारायणोपनिषदन्ते 'तस्यैवं विदुषो यज्ञस्यात्मा यजमानः' इत्युपक्रम्य 'एतद्वै जरामर्यमग्निहोत्र ५ सत्रम्' इति श्रुतेः । तत्रापीति संन्यासेपि । संभवात् अयमर्थः । महानारायणोपनिषद्स्यात्मसूत्रात्पूर्वं 'वसुंरण्वोविभूरसि' इति संन्यास- प्रकरणस्थश्रुतिपर्यालोचनया संभवात् । श्रुतेः संन्यासप्रकरणस्थत्वं तु द्वितीयस्कन्धद्वितीयाध्याये 'स्थिरं सुखम्' इत्यत्र सुबोधिन्यामस्ति । विधीति विधिविषयत्वम् । योपीति योपि वर्तते सोपि नियामक इत्यर्थः । स्वैरेति यथाचार्याणाम् । न कोपीति प्राणाग्निहोत्रोपनिषदुक्तप्राणाग्नि- होत्रस्य स्वैरचारिषु संभवाद्यावज्जीवश्रुतिविरोधरूपदोषोऽपि नेत्यर्थः । अत्रापि विरुद्धयोः 'यावज्जीवम्' 'यदहरेव' श्रुत्योर्विरोधपरिहार इति पादार्थः ॥ ४८ ॥ 1434

भाष्यप्रकाश-रश्मि-परिबृंहितम् । ११९ असंततेश्चाव्यतिकरः ॥ ४९ ॥ ननु देहस्यापि बाल्यकौमारादिभेदात् कथं कर्मकाले ब्राह्मणत्वादि, जीवैक्यादिति चेद् देहान्तरेऽपि स्यादिति, तन्नाह देहान्तरे संततिरपि नास्ति। बाल्यादिभेदे पुनः संततिरेका। अतः संततिभेदान्न कर्मणां सांकर्यमिति ॥ ४९ ॥ आभास एव च ॥ ५० ॥ ननु सच्चिदानन्दस्य ब्रह्मणोऽंशः सच्चिदानन्द एव भवेदतः कथं प्रवाहे प्रवेशो भगवतश्च सर्वकार्याणि तत्राह आभास एव जीवः । आनन्दांशस्य भाष्यप्रकाशः। असंततेश्चाव्यतिकरः ॥ ४९ ॥ सूत्रमवतारयन्ति नन्वित्यादि । यदत्र देहसंबन्धेन विधिनिषेधव्यवस्थापनं तदयुक्तम् । यस्मिन्जन्मनि यो देहो गृहीतस्तस्य देहस्यापि नित्यप्रलयेन बाल्यकौमारादिभेदादाधानादिकर्मकाले तस्य देहस्याभावेन ब्राह्मणत्वादिकं कथं वक्तव्यम्, तदभावे च, 'वसन्ते ब्राह्मण आदधीत', 'न ब्राह्मणं हिंस्यात्' इत्यादिविधिनिषेधव्यवस्था दुरुपपादा। अतः कर्मव्याकुलत्वमसमाधेयम्। अथ जीवैक्यान्नानुपपत्तिरित्युच्यते चेत् तस्य देहान्तरेऽपि तुल्यत्वात् तस्याप्याधाना