भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७३ भाष्यप्रकाशः । 'अरूपवदेव ही'ति । हि यस्माद् अरूपवदेव ब्रह्म । मूर्तामूर्तब्राह्मणाजाग्रदाद्यवस्थाहेतुभूतस्थूलसूक्ष्म- शरीरद्वयरहितमेव ब्रह्म प्रतिपत्तव्यम्, कुतः, तत्प्रधानत्वात्, 'ततो यदुत्तरतरं तदरूपमनामय'- मिति, 'यन्मनसा न मनुते येनाहुर्मनो मतम्, तदेव ब्रह्म त्वं विद्धी'त्यादिश्रुतीनां तत्परत्वात्, अवधारणाच्चैरैमनआदिकरणैः शून्यस्यैव ब्रह्मणः सम्यग्ज्ञानविषयत्वावधारणादित्यर्थः । अपिच, 'अथात आदेशो नेति नेति, न ह्येतस्मादिति नेत्यन्यत् परमस्ती'ति मूर्तामूर्तरूपाभावादेशस्यैव पारमार्थि- कत्वं वदति, तदेवमुभयलिङ्गत्वनिषेधेनैकमात्ररूपत्वमुपाधिसाधारण्येन लक्षणमुक्तमित्याह । तदसङ्गतम् । सर्वत्रेति पदेन सर्वाधिष्ठानश्रुतय एवाभिप्रेयन्त इत्यत्र गमकस्यानुपलम्भात् । अथ जीवस्य पूर्वं निरूपितत्वात् तद्ब्रह्मण्यप्युभयलिङ्गत्वशङ्कायां तन्निरासायास्य सूत्रस्य प्रवृत्त- त्वादर्थादेव तस्य हेतोः प्राप्तिरिष्यते, तदाप्येतादृशैकलिङ्गत्वस्य ब्रह्मलक्षणत्वमात्रं युक्तम् । श्रुति- सिद्धत्वात् । न तु लक्षणसोपाधिसाधारण्यमपि युक्तम् । परमेश्वरस्य कारणत्त्वसोपाधिकत्वे प्रमा- णानुपलम्भात् । पूर्वं स्वयमपि 'न स्थानतोऽपी'त्यागामिसूत्रस्यैव प्रमाणत्वेनोपन्यस्तत्वात् । सर्व- कारणस्याद्वितीयस्य परस्य 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्', 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः,' 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः,' 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः, अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः, एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे'त्या- दिषु श्रुतिषु, 'तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभव- द्वृहत् । तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयत' इत्यादिषु पुराणेषु च निरुपाधिकत्वेनैव सिद्धेश्च । कार्योपाधिरयं जीवः कारणोपाधिरीश्वर इत्यादीनि तु ब्रह्मविष्ण्वादिपराणि । तत्रत्येश्वरपदस्य परमेश्वरपरत्वे नियामकस्य तेष्वदर्शनात् । नच निरु- पाधिकस्य निर्धर्मकत्वम् । तस्य शाङ्करमतनिरास एव निरस्तत्वात् । न चारूपवत्सूत्रविरोधः । रूपवद्वै- लक्षण्यायैव तत्र बोधनेन रूपराहित्यस्य तत्राबोधनीयत्वात् । 'आनन्दरूपममृतं यद्विभाति,' 'सच्चि- दानन्दरूपाये'त्यादिनिमित्तन्न तद्रूपताया एव निर्धाराच्च । नच 'ततो यदुत्तरतरं तदरूप'मिति श्रुति- विरोधः । तदग्र एव 'सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिव' इत्यस्य मन्त्रस्य दर्शनात् । नापि 'यन्मनसा न मनुत' इत्यस्याः । तत्राप्युपास्यरूपस्यैव ब्रह्म- रश्मिः । एवेति । 'नेति नेती'ति श्रुत्यैवकारः । तत इति । मूर्तामूर्तरूपद्वयात् । शून्यस्यैवेति । अशून्य- योगव्यवच्छेदकः । एवेति । मूर्तामूर्तरूपयोगव्यवच्छेदकैवकारः । एवेति । सर्ववाक्ययोगव्यवच्छेद- कैवकारः । पूर्वमिति । प्रथमपादे । पूर्वाध्याये वा । अर्थादेवेति । सङ्कुचितहेत्वाक्षेपादेव । एवकारः सर्वत्र शब्दशक्तियोगव्यवच्छेदकः । उपाधीति । एकरूपलोपाधिसाधारण्यमित्यर्थः । प्रमाणानुपलम्भं दर्शयन्ति स्म पूर्वं स्वयमिति । ईक्षत्यधिकरणे स्वयं विज्ञानेन्द्रभिक्षुणा । एवेति । पूर्वं स्वयमपि प्रमाणोपन्यासयोगव्यवच्छेदकैवकारः । एवेति । न तु सोपाधिकत्वेन । तत्रत्येति । कार्योपाधिरि- त्यादिवाक्यस्थेश्वरपदस्य । तेष्विति । वाक्येषु । निरस्तत्वादिति । यथाकथञ्चिदपि निर्धर्मकला- सिद्धेः । एवेति । अन्ययोगव्यवच्छेदकः । एवेति । वदित्यन्यथा एवकारः । तत्रेत्यादि । ग्रन्थणि । तद्रूपतायाः आनन्दाकारतायाः सच्चिदानन्दाकारतायाः । एवकारस्तु श्रुतित्वात् । नचानन्देन रूप्यते व्यव- ह्रियते इत्यरूपमिति शङ्क्यम् । व्यवहार्यत्वधर्मसिद्धेः । उपास्येति । अनुपास्ययोगव्यवच्छेदकैवकारः । नेदं परिदृश्यमानं इदं मनो न । यदिदं वैदिकोपासका उपासाते तद्ब्रह्म विद्धीति । यदिदमुपासते नेदं 1709

यहाँ पृष्ठ की पंक्ति-दर-पंक्ति देवनागरी प्रतिलिपि प्रस्तुत है:

१७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २०. भाष्यप्रकाशः । स्वेन निरूपणादुपासतयैव रूपादिसिद्धेरिरङ्गान्तरप्रयोगबलेनास्माभिः प्रागेवोपपादितत्वादिति । यत्पुनः, 'प्रकाशवच्चे'त्यादिसूत्रचतुष्टये प्रकाशतुल्यं ब्रह्म, चिन्मात्रमेव, न तु चिद्धर्मकमपि । सर्वज्ञ इति व्यवहारस्तु 'राहोः शिर' इतिवद्विकल्पमात्रः । यदि ब्रह्मनि ज्ञानाख्यं धर्मान्तरं कल्प्येत, तदा तद्व्यर्थं स्यादित्युक्तम् । तदपि मन्दम् । सर्वज्ञ इति व्यवहारस्येश्वरे ज्ञानधर्म- कत्वस्य च 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप'इति श्रुतिसिद्धत्वेन तद्विरोधस्य दुर्वारत्वात् । नच सा सोपाधिरिति युक्तम् । परसिद्धोपाधिवैशिष्ट्याभावस्य साधितत्वादिति । यदपि वृद्धिह्राससूत्रे व्याख्यातम् । यद्यप्यम्बुवद्ग्रहणं नात्रास्ति, तथापि वृद्धिह्रासभाक्त्वम्, अन्तर्भावात् । प्रतिबिम्ब- रूपेणान्तःप्रवेशादेव सम्भवति । अतो दृष्टान्तदार्ष्टान्तिकयोर्जलवुद्ध्योरुभयोः सामञ्जस्याद् वृद्धि- ह्रासनियामकत्वरूपात् सादृश्यात् एवं प्रतिबिम्बितत्वं प्रतिपत्तव्यमित्यर्थ इति । तदपि तथा । सूत्रे वृद्धिह्रासभाक्त्वं प्रत्यन्तर्भावस्य सिद्धवद्धेतुत्वेन कथनाद् वृद्धिह्रासभाक्त्वेनान्तर्भावरूपसा- धनस्य सूत्रविरुद्धत्वात् । अम्बुवदग्रहणादित्यस्य प्रतिपक्षहेतोराभासीकरणं विना वृद्धिह्रासभाक्त्वस्य साध्यसमत्वेन तस्यान्तर्भावरूपसाधने सामर्थ्याभावाच्च । यदपि रूपरहितस्य बुद्ध्यादेः प्रतिवि- म्बाधारत्वसमर्थनायाकाशे पर्वतनीलिमादिप्रतिबिम्बस्य प्रत्यक्षसिद्धत्वान्मठाकाशादौ शब्दप्रति- रश्मिः । मञ्चेति योजनां निरस्यन्ति स्म उपास्येति । यद्युपास्यस्य ब्रह्मत्वनिषेधः, तदा शून्यवादापत्तिः । 'यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि' इत्यत्राधोक्षजस्य मनोबोधकस्याहार्यज्ञान- विषयस्य 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्' 'अपिसंराधन' इति श्रुतिसूत्रयोरविषयत्वादुपास्यस्य तु कल्पित- रूपस्य तपोविषयत्वादुपासतयैव रूपादिसिद्धेरित्यर्थः । एवकारः 'चिन्मयस्याद्वितीयस्य निष्कलस्या- शरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पने'ति रामतापनीयात् । रूपादीति । आदिना रूपस्थानां देवतानां च पुंरूपाङ्गरूपाङ्गनादिकल्पना ग्राह्या । 'नेदं यदिदमुपासत' इत्यनेनेदङ्गान्तरं बोध्यम् । प्रागे- वेति । यदुक्तं प्रकाशवच्चावैय्यर्थ्यादित्येकादशसूत्रेत्यादि तदप्रपञ्चितमिति प्रपञ्चयन्ति स्म यत्पुनरिति । एवकारव्यावर्त्यमाह नत्विति । सर्वज्ञ इति । ज्ञ इति ज्ञानाश्रयः जानातीति ज्ञ इतिव्युत्पत्तेः । विकल्पेति । विकल्प एव । राहोः शिरः राज्ञः पुरुषः इति प्रयोगाभ्यां विकल्पमात्रः । तदिति । धर्मान्तरं व्यर्थं धर्मिणैव प्रकाशात् । 'यः सर्वज्ञः सर्ववित्' । साधितत्वादिति । पूर्वं अम्बुवद्ग्रहण- सूत्रमग्रे वक्तव्यमत आहुः यदपीति । नात्रेति । बुद्ध्यायुपाधौ नास्ति । ब्रह्मणो बिम्बस्य नीरूपत्वात्प्रति- बिम्बाश्रयाया बुद्धेरस्वच्छत्वात् । वृद्धीति । एकरूपस्य ब्रह्मणो वृद्धिह्रासभाक्त्वम् । एवेति । बुद्धेरङ्गीनात्मिकायाः शुद्धत्वात्सतो प्रजामिरेकरूपस्य नीरूपत्वाभावादेवकारः । उभयेत्यादिसूत्रांशार्थ- माह अतो दृष्टान्तेति । जलबुद्ध्योरिति । अम्बुवत्सूत्रोक्तं जलं दृष्टान्तः । अन्तर्भावपदोपात्तप्रति- बिम्बाक्षिप्तबुद्धिर्दाष्टन्तिकरूपा । सामञ्जस्यादित्यस्य व्याख्या वृद्धिह्रासेति । उभयोः सादृश्यात् । सूत्रेति । सूत्रोक्तकार्यकारणांशे विरुद्धत्वात् । किञ्च । अम्बुवदित्यादि । ब्रह्म जडजीवधर्मयोगात्स- र्वका मत्वादिधर्माभाववत्, अम्बुवदग्रहणात्, देवदत्तवत् इत्यस्य प्रतिपक्षत्वं याह्यानुमाने तदुच्यते । ब्रह्म जडजीवयोगात्सर्वकामत्वादिकर्मवत् । 'यथा मधु मधुकृत' इत्यादिश्रुतिविषयत्वात् । कृष्णावतार- वदिति । तथाच प्रतिपक्षस्य हेतोरित्यर्थः । तस्येत्यादि । ब्रह्म प्रतिबिम्बरूपेणान्तःप्रवेशं वृद्धिह्रास- भाक्त्वात् इत्यत्र तस्य वृद्धिह्रासभाक्त्वस्य हेतोः । अन्तर्भावेति । अन्तर्भावस्य स्वरूपं प्रतिबिम्ब- 1710

भाष्यप्रकाश-रश्मि-परिबृंहितम् । १७५

भाष्यप्रकाशः । बिम्बस्य स्मृतिसिद्धत्वाच्चेत्युक्तम् । तदपि तथा । आकाशनीलिमप्रतीतेराकाशस्वभावादेवोपपत्तौ पश्चाद्बाधाभावेन धियां प्रमात्वसौत्सर्गिकत्वेन च तस्याः प्रमात्वसिद्धौ नीलिम्नि पर्वतप्रतिबिम्ब- त्वबुद्धेरभिमानमात्रत्वात् । प्रतिध्वनौ शब्दप्रतिबिम्बत्वस्य स्मृतावमुक्तत्वेन तस्यापि तथात्वात् । नच 'छायाप्रत्याह्वयाभासा असन्तोप्यर्थकारिण' इत्येकादशस्कन्धवाक्ये प्रतिध्वनेरसत्त्वस्योक्तत्वाद् सादृश्यस्य चोपलभ्यमानत्वात् तस्य प्रतिबिम्बरूपत्वं कल्प्यत इति वाच्यम् । नटकल्पितपारावता- दिरुतवन्मायिकशब्दान्तरत्वस्याप्युक्तहेतुभ्यां शक्यवचनत्वेन तत्स्वरूपानिश्चयात् । इदं यथा तथा 'न प्रतिस्फुरणं रूपरहितस्य कदाचने'ति सर्वनिर्णयकारिकाया आवरणभङ्गे सम्यक् व्युत्पादित- मिति न पुनः प्रपञ्च्यते । अतोऽम्बुवद्ग्रहणस्याभासीकरणं चतुर्वक्त्रस्याप्यशक्यमिति सूत्रव्याख्या- नमसमञ्जसमेव । एवमग्रेप्यस्ति । तथापि तद्दूषणस्यानावश्यकत्वादुपरम्यते । रामानुजाचार्यास्तु । 'न स्थानतोपी'त्यारभ्य 'अतोऽनन्तेने'त्यन्तं षोडशसूत्रमेकमधिकरण- मङ्गीकुर्वन्ति । 'उभयव्यपदेशा'दित्यारभ्य चतुःसूत्रमपरम् । तत्र प्रथमेऽधिकरणे पूर्वग्रन्थे जीवस्य वैराग्योत्पादनाय दोषान् दर्शयितुं जीवस्यावस्था- विशेषा निरूपिताः, इदानीं ब्रह्मप्राप्तीच्छाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वं कल्याणगुणत्वं च प्रतिपादयितुमारभत इति प्रतिज्ञाय, देहसम्बन्धाज्जीवानां दोषसम्बन्धोऽतो देहसम्बन्धोऽपुरुषार्थः, स चाकर्मवश्यस्यापि परमात्मनोऽन्तर्यामितया सर्वचिदचिद्वस्तुषु विद्यमानत्वादस्त्येवेति प्राप्ते, आह, 'न स्थानतोपि परस्ये'ति । पृथिव्यादिस्थानतोपि परस्य ब्रह्मणो नापुरुषार्थसम्बन्धः । कुतः । उभयलिङ्गं सर्वत्र हीति । यतः सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गं निरस्तसमस्तदोषत्वकल्याण- गुणाकरत्वलक्षणोपेतमभिधीयते । 'अपहतपाप्मा विजरो विमृत्युर्विजिघत्सोऽपिपासः सत्यकामः सत्य- सङ्कल्प' इत्यादि, 'समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतसर्गः । तेजोबलैश्वर्यमहावबोध- सुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे,' 'समस्तहेय-

रश्मिः । रूपेणान्तःप्रवेशः तस्य साधन इत्यर्थः । मतेति....। एवेति । प्रतिबिम्बयोग्यव्यवच्छेदकः । ननु शब्दगुणके आकाशे नीलिमप्रतीतिर्भ्रमो न स्वभावरादित्याहुः पश्चादिति । यदि अप्रामणिका स्यात्त- द्बाधाप्येत तदभावेन । तस्या इति । नीलिमप्रतीतेः । तस्यापीति । प्रतिबिम्बत्वस्यापि । तथात्वाद्- स्मार्तत्वात् । सादृश्यस्येति । प्रतिबिम्बत्वप्रयोजकस्य । तस्येति । प्रत्याह्वयस्य ध्वनिपर्यायस्य । उक्तेति । प्रत्यक्षसिद्धश्रुतिसिद्धत्वाभ्याम् । तत्स्वरूपेति । प्रतिबिम्बस्वरूपानिश्चयात् । एवेति । साम- ञ्जस्ययोगव्यवच्छेदकैवकारः । पूर्वग्रन्थ इति । 'सन्ध्य'सूत्रमारभ्य 'मुग्धेऽर्धसम्पत्ति'सूत्रान्ते । दोषानिति । स्वप्नादिदोषान् । इच्छाया ज्ञानजन्यत्वाच्छाब्दज्ञानविषयलमाहुः प्राप्यस्येत्यादि । अस्त्येवेति । अयोगव्यवच्छेदकैवकारः । नीलं सरोजं भवत्येवेतिवत् । स्वशक्तीति । स्वशक्तिर्माया जीवश्च तयोर्लेशेन उद्धृतः भूतानामन्तर्यामिब्राह्मणोक्तानां पृथिव्यादीनां सर्गः कारणजन्मात्मा येन । अत्र विशिष्टाद्वैतमनुसन्धेयम् । 'अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः' । 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर'मिति श्वेताश्वतरश्रुतिः । अस्मात् अस्माद्वा 'ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदु'रित्यनोक्तात्पुरुषात् । विश्वमेतत् विश्वसमूहः । अन्यो जीवः । सुवीर्येति । आदिना । सकला इति क्लेशादय इत्यस्य विशेषणम् । एतमिति । उभयलिङ्गं निरस्त- समस्तदोषत्वकल्याणगुणाकरत्वलक्षणं पूर्वोक्तं समीपतरवर्तिनमर्थम् । ऊहापोहो तर्कीनुस्मृतलक्षणौ

१७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। रहितं विष्ण्वाख्यं परमं पद'मित्यादि चेति सूत्रं व्याख्यायैतमेवार्थमग्रिमसूत्रेणोहापोहपूर्वकं स्थापयन्ति । द्वितीये तु मूर्तामूर्तब्राह्मणे मूर्तामूर्तप्रपञ्चस्य ब्रह्मणि रूपत्वमुपदिश्यते । 'अथात आदेश' इत्यादिना मूर्तामूर्तरूपतया ब्रह्मणो या इयत्ता, सा प्रतिषिध्यते । 'न ह्येतस्मा'दित्यनेन ब्रह्मणोऽन्य- दुत्कृष्टं नास्तीत्युक्त्वा, तदुपपादनाय 'अथ नामधेय'मित्यादिना नामनिर्वचनान्तेन प्राणशब्दानि- र्दिष्टेभ्यश्चेतनेभ्योऽप्येष सत्यम्, कदाचिदपि ज्ञानादिसङ्कोचाभावादित्युक्तम् । तथा 'प्रधानक्षेत्रज्ञ- पतिर्गुणेश' इत्यादिश्रुतिष्वप्ययमर्थ उक्तः । तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते, ब्रह्मणो निर्दोषत्वसिद्ध्यर्थम् । किं चाचिद्वस्तुनो ब्रह्मरूपत्वमहिकुण्डलन्यायेन, उत प्रभाप्रभावतो- रिवैकजातियोगेन, उत जीवस्येव विशेषणविशेष्यतयांशांशिभावेनेति । इह स्थाप्यमानं विशेषण- विशेष्यभावमङ्गीकृत्य, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्,' 'तदनन्यत्वमारम्भणशब्दादिभ्य' इत्यत्र सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणः स्थूलचिदचिद्विशिष्टस्य ब्रह्मण उत्पत्तेरनन्यत्वेनोक्ता, किं युक्तम्, अहिकुण्डलवदिति, कुतः, उभयव्यपदेशात् । 'ब्रह्मैवेदं सर्वमात्मैवेदं सर्व' मिति तादात्म्यस्य 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि'ति भेदस्य व्यपदे- शाच्चाहिकुण्डलभावर्जुभाववत् तस्यैव ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि । अग्रिमसूत्रे वाशब्दः पक्षव्यावृत्त्यर्थः । ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थाने भेदश्रुतयो ब्रह्मणोऽपरिणामित्ववादिन्यश्च बाधिता भवेयुः, अतो यथा प्रभातदाश्रयोर्भिन्नयोरपि तेजस्त्वेन तादात्म्यम्, एवमचित्प्रपञ्चस्यापि ब्रह्म- रश्मिः। तत्पूर्वकम् । अग्रे स्फुटिष्यति । उपेति । ऊहापोहरूपाय । माध्यन्दिनपाठभेदादाहुः अथ नामेति । प्राणशब्दानिर्दिष्टेभ्य इत्यनेनान्वयः । चेतनेभ्यो जीवेभ्यः 'मायया सन्निरुद्ध' इति श्रुतेः । विशिष्टाद्वैतात् । न तु प्राणा नापीन्द्रियाणि । 'प्राणा वै सत्यं तेषामेष सत्य'मिति श्रुत्यर्थ उक्तः । प्रधानेति । 'प्रधान- क्षेत्रज्ञपतिर्गुणेशः संसारबन्धस्थितिमोक्षहेतुः । स तन्मयो ह्यमृत ईशसंस्थोऽज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे अस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय । यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वे शरणमहं प्रपद्ये' इति । अयमर्थ इति । विशिष्टाद्वैतम् । प्रधानं प्रकृतिः । क्षेत्रज्ञा जीवाः तेषां पतिः मूर्तामूर्तोत्कृष्टः । गुणत्रयेशः प्रधानेशः । यथायथं संसारेण बन्धस्य हेतुः । क्षेत्रज्ञः स्थितिहेतुः । प्रधानं विशिष्टाद्वैतात् । मोक्षहेतुः प्रधानक्षेत्र- ज्ञपतिरीश्वरः । स प्रसिद्ध ईश्वरस्तन्मयः प्रधानक्षेत्रज्ञमयः । ईशप्रयोज्यो जीवः । एवेति । अव- धारणेन । विदधाति उत्पादयति । दधाति पुष्णाति च । एवमयमर्थ उक्तः । षोडशसूत्र्यामुक्तत्वा चतुः- सूत्र्यामाहुः तस्याचिदिति । प्रधानवस्तुनः । निर्दोषत्वेति । विशिष्टाद्वैते अद्वैतत्वे दोषप्राप्तेर्निर्दोष- त्वसिद्ध्यर्थम् । अहीति । अहेः कुण्डलं अहिकुण्डलिका अहिः कुण्डलिकेति प्रतीतिद्वयात् । एकजा- तीति । तेजस्त्वजातियोगेनेत्यर्थः । विशेषणेति । ब्रह्मणोंशो जीव इति जीवस्यांशि ब्रह्मेति च प्रत्ययात् । प्रकृतिश्चेति । प्रथमाध्यायसमाप्तौ । तदनन्यत्वसूत्रं पूर्वाध्याये । भेदस्येति । कर्ता गुणेशः करणं जीव इति भेदस्तस्य । अहेः कुण्डलभावः ऋजुभावश्च तद्वत् । तस्यैवेति । चिदचिद्विशिष्टस्यैव । उक्तश्रुतिभ्य एवकारः । एवेति । उक्तश्रुतिभ्य एवैवकारः । अग्रिमेति । प्रकाशाश्रयवद्वेति सूत्रे । पक्षेति । यथा स्थाणुर्वा पुरुषो वेत्यत्र । एवेति । स्वशक्तिलेशयोगव्यवच्छेदकैवकारः । भेदश्रुतय इति । 'प्रधानक्षेत्रज्ञपतिर्गुणेश' इत्यादय उक्ताः । प्रधानक्षेत्रज्ञानां पतिरिति भेदे षष्ठी । अपरीति । 1712

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७७

भाष्यप्रकाशः। रूपत्वमिति । 'पूर्ववद्वे'त्यग्रिमसूत्रे वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । एकस्यैव द्रव्यस्यावस्थाविशेषयोगेऽपि ब्रह्मस्वरूपस्यैवाचिद्द्रव्यस्वरूपत्वादुक्तदोषादनिर्मोक्षप्रसङ्गः । अथ प्रभातदाश्रययोरिवाचिद्ब्रह्मणो- र्ब्रह्मत्वजातियोगमात्रं विवक्षितम्, तदा अश्वत्ववद्ब्रह्मापीश्वरे चिदचिद्वस्तुनोश्चानुवर्तमानं सामा- न्यमिति सकलश्रुतिस्मृतिव्यवहारविरोधः । अतः पूर्ववदेव, 'अंशो नानाव्यपदेशात्' 'प्रकाशादिवत्तु नैवं पर' इति जीववत् पृथक्स्थित्यनर्हविशेषणत्वेनाचिद्वस्तुनो ब्रह्मांशत्वम्, विशिष्टवस्त्वेकदेशत्वे- नाचिद्व्यवहारो मुख्यः, विशेषणविशेष्ययोः स्वरूपभेदेन भेदव्यवहारोपि मुख्य इति ब्रह्मणो निर्दोषत्वं रक्षितम् । तदेवं प्रकाशजातिगुणशरीराणां मणिव्यक्तिगुण्यात्मनोऽपृथक्सिद्धविशेषण- तया यथांशत्वम्, तथैव जीवस्याचिद्वस्तुनश्च ब्रह्म प्रत्यंशत्वम् । किञ्च । 'स एष महानज आत्मा अजरः' 'नास्य जरयैतज्जीर्यत' इत्यादिभिर्ब्रह्मणोऽचिद्धर्मप्रतिषेधादपि विशेषणविशेष्यत्वेनैवांशांशि- भाव इत्यर्थः । अतः सूक्ष्मचिदचिद्वस्तुविशिष्टं कारणभूतं ब्रह्म, स्थूलचिदचिद्विशिष्टं वस्तु कार्यभूतं ब्रह्मेति कारणात् कार्यस्यानन्यत्वं कारणभूतब्रह्मविज्ञानेन कार्यस्य ज्ञाततेत्यादि सर्वमुपपन्नम् । ब्रह्मणो निर्दोषत्वेन कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धमित्याहुः । तत्र प्रथमे द्वितीये च यदधिकरणारम्भप्रयोजनमुक्तं तत्र वयमुदासीनाः । ब्रह्मप्राप्तीच्छा- जननाय ब्रह्मणो निर्दोषत्वसाधनाय चेदानीं ब्रह्मणो निर्दोषकल्याणगुणाकरत्वे निरूपणीये जिज्ञा- सासूत्रमारभ्य निरूपितस्य ब्रह्मस्वरूपनिरूपकग्रन्थस्य निष्प्रयोजनकत्वापत्तेः । तेनैव तथात्वसिद्धावे- तदधिकरणद्वयवैयर्थ्यप्रसङ्गाच्च । तेनासिद्धाविदानीमपि तद्विषयवाक्यैरेव निर्णयस्य कर्तव्यतया तत्सिद्धेः सुतरां दौर्घट्यादिति । यत् पुनर्द्वितीये कारणभूतस्य ब्रह्मणश्चिदचिद्विशिष्टत्वमुक्तम् । तच्चिन्त्यम् । आदिसृष्टिप्रा- काले वैशिष्ट्यस्य वक्तुमशक्यत्वात् । तत्र सत्तत्सत्याक्षरादिपदैः कारणस्य निर्देशात्, तेषां च 'ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' 'सत्यं ज्ञानमनन्तं ब्रह्म' 'एतद्वै तदक्षरं गार्ग्य'त्यादि-

रश्मिः। सकला न यत्र क्लेशादयः सन्ती'ति 'समस्तहेयरहितं विष्ण्वाख्यं परमं पद'मित्याद्याः । एवमिति । ब्रह्मा- चित्प्रपञ्चानां भिन्नानामपि विशिष्टत्वेन तादात्म्यमचित्प्रपञ्चस्यापि ब्रह्मस्वरूपत्वमित्यर्थः । पक्षद्वयेति । ब्रह्मणः संस्थानविशेषा एवाचिद्वस्तूनि, ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानमिति पक्षद्वयव्यावृत्त्यर्थः । उक्तेति । 'भेदश्रुतयो ब्रह्मणोऽपरिणामी'त्यादिग्रन्थोक्तात् दोषात् । अपहतपाप्मत्वादिप्रकारकज्ञाना- विषयत्वेपि तज्ज्ञानादनिर्मोक्षप्रसङ्गः । मोक्षनिष्क्रान्ताभावप्रसङ्गः । मोक्षनिष्क्रान्तशब्दो भावप्रधानः । अश्वत्ववदिति । 'सर्वापेक्षा च यज्ञादिश्रुतेरश्वव'दित्यस्य वासनयोपमानम् । ब्रह्मापीति । मनोवा- गविषयवस्तु महेश्वरत्वं वा सामान्यमित्यनेनान्वयः । तादृशं तद्वस्त्विति । विशिष्टाद्वैतम् । अतो भेदप्रतिपादिकाः सकलश्रुतिस्मृतयस्तासां व्यवहारास्तेषां विरोध इत्यर्थः । पूर्ववदेवेति सौत्रं पदं व्याख्यान्ति स्म अंशो नानेति । पृथगिति । चिदचिद्विशिष्ट ईश्वर इत्यत्रेदं बोध्यम् । निर्दोषत्वं मायाया भेदेन मायाकृतदोषानिष्क्रान्तत्वम् । प्रकाशेत्यादि । प्रकाशो मणिनिष्ठः । जातिर्व्यक्तिनिष्ठा । गुणो गुणिनिष्ठः । शरीरमात्मनिष्ठम् । अपृथगिति । मणिः प्रकाशवान्, व्यक्तिर्जातिमती, गुणोस्त्य- स्मिन्गुणी, शरीरमचिद्वस्तु, शरीरवानात्मा इत्येवमपृथक्सिद्धे वस्तुनि विशेषणतयेत्यर्थः । तेनैवेति । पूर्वग्रन्थेन । एवकारोऽधिकरणद्वयारम्भप्रयोजनयोगव्यवच्छेदकः । तेनेति । पूर्वग्रन्थेन । एवेति । अर्थैक्ये प्रतिपादकैक्यस्य युक्तत्वादेवकारः । तत्सिद्धेरिति । असिद्धसिद्धेरित्यर्थः । तत्रेति । १. ब्रह्मात्वमपीति मूलप्रकाशे टिप्पणम् । २. अभेदव्यवहारः । ३. वस्तुविशिष्टम् । ४. पृथक्स्थित्यनर्हविशेषणत्वेन । २३ ब्र० सू० २० 1713

१७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०. भाष्यप्रकाशः। स्मृतिश्रुतिभिः केवलब्रह्मवाचकत्वावगमात् । सुबालोपनिषद्यपि पृथिव्यादीनां स्वस्वकारणे लयो- क्त्यनन्तरं 'तमःपरे देवे एकीभवती'ति शब्दान्तरेण तमसो मूलकारणभूतपरामेदस्यैव बोधनात् । 'लीङ् श्लेषणे' 'श्लिष आलिङ्गन' इति धात्वर्थविचारे लयस्याविभागरूपत्वेन सिद्ध्या तद्विलक्षण- स्यैकीभावस्य भेदाभावरूपेणैव सिद्धेर्वैपरीत्यस्य वक्तुमशक्यत्वात् । कारणप्रायपाठेन कारणतयैव परस्यापि देवस्य सिद्धेरिति । इदं यथा तथा समन्वयसूत्रे प्रतिज्ञादृष्टान्तानुपरोधसूत्रे तदनन्यत्वा- दिसूत्रे च व्युत्पादितमिति न पुनः प्रपञ्च्यते । एतन्मतचौरैः शैवोऽप्येतेनैव दत्तोत्तरः, प्रहस्तेऽपास्तश्च । माध्वास्तु । 'न स्थानतोऽपी'त्यादिर्विंश

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १७९ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ (३-२-१०) धर्मिधर्मविरोधः परिहृतः । धर्म्यन्तरविरोधपरिहारार्थमधिकरणमारभते । तत्र पूर्वपक्षमाह । परमतः । अतोपि ब्रह्मणः परमन्यदुत्कृष्टं फलमस्ति । तत्र वैदिकहेतवः । सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । यद्यपि समन्वय एवैते दोषाः भाष्यप्रकाशः। कत्वात् । तृतीयेपि जीवस्य मुख्यप्रतिबिम्बतायां मिथ्यात्वापत्तेर्भिन्नत्वस्य प्रागेव साधितत्वाच्च सूत्रवै- यर्थ्यमित्यादिदोषाणां भानादिति ॥३०॥ इति नवमं प्रकाशाश्रयवद्वेत्यधिकरणम् ॥ ९ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३१॥ सङ्गतिकथनपूर्वकमधिकरणप्र- योजनमाहुः धर्मीत्यादि । ब्रह्म सर्वधर्मशून्यम्, न तु धर्मीति, धर्माश्चेतरेतरविरुद्धाः न ह्येकत्र सम्भ- वन्तीति, धर्माश्च कार्याः, न ब्रह्मेत्यादिरूपो यो विरोधः, सोधिकरणचतुष्टयेन परिहृतः । अतः परं धर्म्यन्तरस्यापि सहावस्थानमाशङ्कय तत्परिहारार्थमारभते । तथाच प्रसङ्गः सङ्गतिरुक्तविरोधपरि- हारश्च प्रयोजनमित्यर्थः । तत्र यथा ज्ञेयाद्ब्रह्मणः फलरूपमुत्कृष्टम्, एवं ततोप्यन्यदुत्कृष्टमस्ति नवेति सन्देहः । तद्वीजं तु 'अक्षरात् परतः परः' 'पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति'रिति व्यपदेशः सेत्वादिव्यपदेशश्च । तयोः पूर्वपक्षादेव बुध्यमानत्वात् तमेव वदतीत्या- शयेनाहुः तत्रेत्यादि । तत्र वैदिकहेतव इति । फलान्तरसत्त्वे वैदिका एव हेतवः । तथाच रश्मिः। दोषोऽनुसन्धेयः । प्रतिपिपादयिषितोभयलिङ्गे हेतुतयोभयलिङ्गनिषेधो हेतुः । भेदे प्रतिपिपादयिषिते उभय- लिङ्गनिषेधो न हेतुरतोत्र परस्योभयलिङ्गं सर्वत्र स्थानतोपि नेत्यतोऽभेदः प्रसिद्धः प्रतिपत्तव्यः । अप्राकृतरूपवत्त्वं प्रसिद्धं प्रतिपत्तव्यम् । एक एव सर्वत्रेश्वर इति एवं हेतोर्भेदरूपस्याप्राकृतरूपवत्त्वस्य वाध्याहार्यत्वात् । द्वितीयार्थस्येति । अत्राधिकरणे प्रथमसूत्रेण रूपराहित्यमुपपाद्य 'प्रकाशवच्चावैय- र्थ्य'मिति सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपत्वाङ्गीकारेण परिहृतमित्येवं व्याख्यासुधोक्तस्येत्यर्थः । प्रागपीति । 'न स्थानतोपी'त्यधिकरणेपि । हेत्वन्तरमाहुः भिन्नत्वस्येति । प्रागेवेति । भेदघटितसूत्रेषु । इत्यादीति । आदिना प्रसिद्धार्थानां सूत्राविषयवाक्यप्रतिपाद्यत्वं दोषः ॥ ३० ॥ इति नवमं प्रकाशाश्रयवद्वेत्यधिकरणम् ॥ ९ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥ सङ्गतीति । प्रसङ्गसङ्गति रिति वक्ष्यन्ति । धर्मीति । 'ब्रह्मैवेदमग्र आसीत्' 'आत्मैवेदमग्र आसी'दिति पुरुषविधब्राह्मणे । प्रयोगा- भिप्रायेण । स्पष्टं द्वितीयस्कन्धनवमाध्याये ब्रह्माणं प्रति स्वरूपदर्शने । 'द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ती'ति गृह्यसूत्रम् । सहेति । 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति श्रीगोपालतापनीयात् । न तु ब्रह्म प्रसिद्धम्, 'वासुदेव आत्मे'ति द्वितीयसुबोधिन्युक्तदिशा सहावस्थानम् । ज्ञेयादिति । 'ब्रह्मविदाप्नोति पर'मित्यत्राप्यनुसन्धेयम् । तत इति । फलरूपात् । अक्षरादिति । परतोऽक्षरादित्यन्वयः । अयमेको व्यपदेशः द्वितीयकोटौ बीजम् । प्रथमकोटौ बीजमाहुः सेत्वादिव्यपदेश इति । सेतून्मानसम्बन्धभेद- व्यपदेशः । एतेऽत्र यथाक्रमं बीजे बोध्ये । अग्रे स्पष्टे । एवेति । संशयग्रन्थयोगव्यवच्छेदक एवकारः । तमेवेति । पूर्वपक्षम् । एवेति । पूर्ववत् । फलेति । फलमक्षरात्परं ततोऽन्यत्फलान्तरं परमत इति सूत्रभागोक्तम् । तत्सत्त्वे वैदिका हेतवो वक्तव्याः, अन्यथा 'अक्षरात्परतः पर'इत्याद्युक्तश्रुतिभ्यां फला- न्तरबोधेऽवक्तव्यं सूत्रस्य स्यात् । वैदिका एवेत्येवकारस्तु वैदिकहेतुसत्त्वेऽन्योक्तौ प्रतारकत्वं स्यादिति 1715

परिहृताः, तथापि स्वरूपविरोधपरिहारप्रस्तावात् पुनरुच्यन्ते । सर्ववाक्यप्रतिपाद्य- मेकमेवेत्यपि न सिद्धम् । एतैर्हेतुभिः परिच्छेदेन धर्मिभेदे सिद्धे न पूर्वाधिकरणसिद्धा- न्तविरोधः । ननु समन्वयेन ब्रह्मत्वमुत्तरपादेनैक्यं पूर्वाधिकरणेनाविरोध इति व्य- र्थमिदमधिकरणमिति चेत् । न । अर्थबलविचारोयम् । समन्वये चोत्तरपादे च शब्द- भाष्यप्रकाशः । शब्दबलेन अद्वितीयत्वादिबदर्थबलेन फलान्तरस्यापि सिद्ध्या प्राप्ते विरोधे वेदान्तवाक्यार्थनिर्धाराय प्रवृत्तस्यैतद्विचारोनावश्यकमिति बोधितम् । ननु सेत्वादिवाक्यानां पूर्व विचारितत्वात् पुनः कथनस्य किं प्रयोजनमित्यत आहुः यद्यपीत्यादि । सर्वेषां वेदान्तानां ब्रह्मपरत्वविचारे यद्य- प्येते सेत्वादिपदोक्ता अवान्तरवर्तित्वादयः परिहृताः, तथापि परस्वरूपविरोधित्वेन बाधका इत्येवं न परिहृता इति तथा परिहर्तुं पुनरुच्यन्ते । किञ्च । तेषु तेषु वाक्येषु तत्तद्रूपाणां प्रतिपादनात् सर्ववाक्यप्रतिपाद्यमेकमेवेत्यपि न सिद्धम्, अतस्तत्साधनायापि पुनरुच्यन्त इत्यर्थः । ननु पूर्वाधिकरणे ब्रह्मणः परत्वमद्वितीयत्वं च सिद्धम्, अत्र चैतैर्हेतुभिस्तदाक्षिप्यत इत्याक्षेप एवात्र सङ्गतिरस्तु, न प्रसङ्ग इत्यत आहुः एतैरित्यादि । सेत्वादिभिर्हेतुभिः परिच्छेदेन ब्रह्मणोऽवान्तरत्वनिश्चयेन धर्म्य- न्तरे सिद्धे तस्मिन्नेव परत्वमद्वितीयत्वं च पर्यवसास्यतीति न पूर्वाधिकरणसिद्धान्तानां विरोधः, अतो नाक्षेपः सङ्गतिः, किन्तु प्रसङ्ग एव सङ्गतिरित्यर्थः । पुनः प्रकारान्तरेण वैयर्थ्यमाशङ्क्य परिहरन्ति नन्वित्यादि । अविरोध इति । प्रतिषेधबोधकस्याद्वितीयपदस्यासङ्कुचितवृत्तिकत्वात् तेन धर्म्य- रश्मिः । अन्यहेतूक्तियोगव्यवच्छेदकः । नत्वन्ये हेतव इति । शब्देति । 'एकमेवाद्वितीय'मित्यादिशब्दबलेन । अर्थेति । सेतून्मानाद्यर्थबलेन । अर्थास्तु वक्ष्यमाणानां सेत्वादिबोधिकानां श्रुतीनाम् । विरोध इति । अद्वितीयादिश्रुतिविरोधे । प्रवृत्तस्येति । भगवतो व्यासस्य । एतदिति । परतःपरस्य सम्बन्धि । अन्यथा वैदिकहेतूक्तिपुरःसरं परात्परविचारणमयुक्तं स्यात् । ब्रह्मेतरात्मधर्मीणां तयोर्भेदेन ब्रह्मपरत्वात्पादार्थ- सङ्गतिः । पूर्वमिति । दहराधिकरणे सेतुवाक्यम् । तत्रैवोन्मानवाक्यं 'यावान् वा अयमाकाश'इत्यादि । तत्रैवाधाराधेयसम्बन्धवाक्यं प्रमेयनिरूपणप्रस्तावे 'उभे अस्मि'न्नित्यादि । अन्तस्तद्धर्माधिकरणे भेदवाक्यं 'य एषोन्तर्रादित्ये हिरण्मयः पुरुष' इत्यादि । अवान्तररेति । अवान्तरवर्तित्वं परिच्छेदनिरूपणात् । आदिना परिच्छेदः आधाराधेयभावः सम्बन्धः भेदश्च । परीति । उक्ताधिकरणेषु परिहृताः । तथा- पीतिभाष्यं विवृण्वन्ति स्म तथापीति । सर्वेतिभाष्यं विवृण्वन्ति स्म किञ्चेत्यादि । तेष्विति । अधिकरणविषयवाक्येषु । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुतेरेवकारः । एतैरिति । सेत्वादिभिः । तदाक्षिप्यत इति । परत्वमद्वितीयत्वं च पूर्वोक्तं कथमित्याक्षेप आक्रोश इत्यर्थः । एवकारव्यवच्छेद्य- माहुः न प्रसङ्ग इति । धर्म्यन्तर इति । अतः परस्मिन् । तस्मिन्नेवेति । एवकारेण परब्रह्मान्यरूप- पान्ययोगो व्यवच्छिद्यते । विरोध इति । 'अक्षरात्परतः पर'इति श्रुतावक्षरात्परतोपि परत्वकथनान्न विरोध इत्यर्थः । प्रसङ्ग एवेति । आक्षेपसङ्गतिव्यवच्छेदक एवकारः । वैयर्थ्यमिति । अधिकरण- वैयर्थ्यम् । नन्वित्यादीति । समन्वयेन पूर्वाध्यायार्थेन धर्म्यन्तरस्य ब्रह्मत्वं तत्प्रतिपादकस्य 'अक्षरात्परतः पर' इत्यस्य परतोऽक्षरादित्यन्वयात् । उत्तरपादे 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषा'दित्यारम्भके वेद्यैक्येन विद्यैक्यम् । प्रतिषेधेति । द्वितीयप्रतिषेधबोधकस्य । स्वरूपस्येत्येकस्य । एतेनावान्तरवर्तित्वादीनां

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८१

बलविचारः। धर्मिविचारान्न पूर्वेण गतार्थत्वम् । फलतः साधनतश्च प्रमेयाच्च प्रमाणतः । विचारेणाबृहत् तच्चेत् कोऽन्यः साधयितुं क्षमः ॥ १ ॥ अतो हेतून् बाधकानाह । एकदेशबाधकत्वात् । तत्र फलतो बाधहेतुमाह । सेतुव्यपदेशात् । 'अथ य आत्मा स सेतुर्विधृति'रिति । 'दहर उत्तरेभ्य' इत्यत्र ब्रह्मत्वमस्य सिद्धम् । 'अथ य इहात्मानमनुविद्य व्रजन्ती'त्युपक्रम्य, 'सर्वेषु लोकेषु कामचारो भवती'त्युक्त्वा, कामानुपपाद्य, अज्ञानव्यवधानं ज्ञानप्रशंसार्थमुक्त्वा, ज्ञानानन्तरं संसारसम्बन्धाभावाय सेतुत्वं वदति । पापानधितरणार्थम् । यञ्च तरति, तद्गताश्च दोषा गच्छन्तीति च । अतः संसारफलयोर्मध्ये विद्यमानत्वात् तीर्णस्यैव फलश्रवणात् फलरूपं वस्तु किञ्चिदन्यदस्तीति ज्ञायते । निधित्वेन

भाष्यप्रकाशः।

न्तरस्यापि निवृत्तेः स्वरूपसाध्यविरोध इत्यर्थः । धर्मिविचारादित्यादि । पूर्वाधिकरणे धर्माणां ब्रह्मणः सकाशाद्भेदो निवारितः, इह तु धर्म्यन्तरं निवार्यत इति धर्मिविचारात् तथेत्यर्थः । अतः परं सूत्रं व्याकरिष्यन्तो हेतुचतुष्टयकथनप्रयोजनं गृह्णन्ति फलत इत्यादि । फलत इत्यादौ ल्यब्लोपे पञ्चमी । फलमनुसंधायेत्यर्थः । एवमग्रेपि । अबृहत्तदिति । न परं ब्रह्म, पूर्वाधि- करणेपु विचारितम् । कोऽन्य इत्यादि । फलादिव्यतिरिक्तः कोऽन्यो हेतुस्तस्य परब्रह्मत्वं साधयितुं समर्थ इत्यर्थः । साधयितुमिति स्वार्थेणिच् । 'रामो राज्यमचीकर'दितिवत् । विभजन्ते अत इत्यादि । यत एवं विचारेऽन्यो हेतुर्न साधनसमर्थः, अतः परत्वबाधकान् हेतून् क्रमेणाहत्यर्थः । क्रमे हेतुमाहुः एकेत्यादि । परब्रह्मत्वे साधनीये परत्वमेकदेशस्तद्बाधकत्वादित्यर्थः । 'ब्रह्मविदाप्नोति पर'मिति फलत्वात् परत्वमुक्तम्, अतस्तद्बाधकं हेतुं पूर्वं वदतीत्याशयेनाहुः तत्रेत्यादि । एकदेशबाधकत्वे मानमाहुः दहरेत्यादि । अस्येति । सेतोरित्यर्थः । फलतो बाधकं हेतुं व्युत्पादयन्ति अथेत्यादि । तद्गताश्च दोषा गच्छन्तीति । 'एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवती'ति तत्र श्रावणा- दित्यर्थः । ननु पूर्वं 'तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तोपि न विन्देयु'- रित्यादिना तस्मिन् फलत्वमपि दृष्टान्ते बोधितमिति कथं फलतो बाधकत्वमित्यत आहुः निधि-

रश्मिः।

परस्वरूपविरोधित्वेन बाधकत्वं परिहृतम् । भाष्ये । इदमिति । ब्रह्मत्वविद्यैक्यप्रतिपादकम् । अर्थबलेति । धर्म्यन्तररूपार्थबलेन 'अक्षरात्परतः पर' इति यथावद्योज्येत्यर्थबलविचारः । बादरिमितम् । व्यासमतमाहुः समन्वय इति । व्यासमतत्वेन तस्य शब्दबलविचारकत्वात् । प्रकृते । एवं विचार इति । परब्रह्मणः परविचारे । परत्वेति । परब्रह्मणः परत्वबाधकान् अक्षरात्परतः परस्य साधकान् । सूत्रकार आह व्युत्पादयन्तीति । छान्दोग्यीयदशमप्रपाठकस्थाभ्यां श्रुतिभ्याम् । पूर्वमिति । छान्दोग्ये दशमप्रपाठक एव । 'अथ य आत्मा स सेतुर्विधृति'रित्यस्मात्पूर्वम् । इत्यादिनेति । 'एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा' इत्यादिपदार्थः । तस्मिन् फलत्वमिति । परब्रह्मणि फलत्वं दुर्विज्ञेयत्वेन निधित्वेन वा बोधितमित्यर्थः, नतु सेतावित्यर्थः । वाक्यस्य 'अथ य आत्मे'त्यस्मात्पूर्वत्वात् । अथेत्यस्यानन्तर्यार्थत्वे सेतावित्यर्थः । ब्रह्म सेतुरिति । फलत इति । फलमनुसन्धाय सेतुरूपहेतोः परत्वस्य बाधकत्वम् । फलतोऽत्र सेतुत्वं ब्रह्मत्वम् । यद्यपि 'ब्रह्मविदाप्नोति पर'मित्यत्र परपदम्, अत्र फलमिति तौल्यम्, तथापि 'अक्षरात्परतः पर'

1717

१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १० सू० ३१. फलवचनमवान्तरफलपरं भविष्यति । 'एतमानन्दमयमात्मानमुपसंक्रम्ये'त्यप्य- त्रोदाहरणम् । तथा उन्मानव्यपदेशात् । तत्रैव 'यावान् वा अयमाकाशस्तावाने- षोऽन्तर्हृदय आकाश' इति साधनयुक्तिप्रश्ने, उन्मानेन परिच्छेदं निरूपयति । दृष्टान्तदार्ष्टान्तिकत्वेन ज्ञानं साधनम् । तत्र बहिराकाशज्ञानमपि साधनं भवति । भाष्यप्रकाशः । त्वेनेत्यादि । निधेरर्थरूपत्वेन परतः पुरुषार्थत्वात् तद्दृष्टान्तेनात्र फलकथनात् तथेत्यर्थः । अत्रो- दाहरणमिति । ल्यबन्तप्रयोगादवान्तरत्वे उदाहरणमित्यर्थः । अत्र मध्ये विद्यमानत्वादित्यनेना- व्यापकत्वबोधनाद्देशपरिच्छेदो ज्ञापितः । साधनतो बाधकं व्युत्पादयन्ति तथा उन्मानेत्यादि । तत्रैवेति । दहरविद्यायामेव । तत्र हि दहरपुण्डरीकान्तर्यो दहर आकाशस्तदन्तःस्थितस्य ज्ञानार्थ- कयत्नरूपमन्वेषणं साधनं तस्य युक्तिर्योजनं विषयावगमानुकूलत्वं तदर्थके प्रश्ने, 'तं चेद्ब्रूयु'रि- त्यादिना कृते, तदुत्तरं वदन् 'यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश' इति यावत्त्वा- वत्पदाभ्यामाकाशसमानताव्यपदेशेन दहराकाशस्य परिच्छेदं निरूपयति । ततश्च दृष्टान्तदार्ष्टान्ति- कत्वेनाकाशद्वयज्ञानं दहराकाशस्वरूपज्ञानसाधनम् । तत्र च दृष्टान्तभूतबहिराकाशज्ञानमपि साधनं भवति । तथाच बहिराकाशः कालतः परिच्छिन्न इति दार्ष्टान्तिकभूतो दहराकाशोपि तथा भवति । नच यावत्त्वावत्पदाभ्यां परिमाणसाम्यमेवायाति, नान्यत्साम्यमिति वाच्यम् ।

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिबद्ध लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८३ चतुष्पाच्च ब्रह्म भूतादिपादाश्च ज्ञातव्याः । तथा सम्बन्धव्यपदेशात् । तत्रैव प्रमेयनि Bernardरूपणप्रस्तावे 'उभावस्मि'न्नित्यादिना आधाराधेयसम्बन्धो निरूपितः । अत्र च वस्तुपरिच्छेदो निरूपितः । 'प्राज्ञेनात्मना सम्परिष्वक्त' इति च । तथा भेदव्यपदेशात् । 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' 'य एषोऽन्तर- ऽक्षिणि पुरुषो दृश्यते' इत्यत्र स्थानद्वयस्थितयोः पुरुषयोः परस्परं धर्मातिदेशमाह । अक्षिस्थितिनिरूपकमतिदेशः प्रमाणमिति । धर्म्यभेदे तु स एवायमिति वदेत् । भाष्यप्रकाशः । न्तरलाभस्य बोधनायोन्मानपदस्य सूत्रे उक्तत्वादिति । तथाच दृष्टान्ते कालपरिच्छेदात् तत्समान- त्वज्ञानरूपसाधनतः परत्वनिवारणमित्यर्थः । उदाहरणन्तरमाहुः चतुष्पादित्यादि । अत्रापि भूता- दीनां पादानामनित्यत्वात् तज्ज्ञानरूपसाधनतः कालपरिच्छेदात्तथा । तृतीयं हेतुं व्युत्पादयन्ति तथा सम्बन्धेत्यादि । तत्रैवेति । दहरवाक्ये । तथाचात्राधारत्वेनैव प्रमेयत्वम् , न तु सर्वोत्कृ- ष्टत्वेनेति प्रमेयतो वस्तुपरिच्छेदाच्च परत्वसिद्धिरित्यर्थः । वस्तुपरिच्छेदे उदाहरणन्तरमाहुः प्राज्ञे- नेत्यादि । चतुर्थहेतुदाहरणमाहुः य एष इत्यादि । अतिदेशः प्रमाणमिति । 'तस्यैतस्य तदेव रूपं यदमुष्य रूपं यदमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामे'ति श्रावणात् तथेत्यर्थः । गेष्णाविति, रश्मिः । फलमुभयोः समानमित्यर्थः । तत्समानेति । तत्समानत्वज्ञानरूपसाधनमनुसन्धाय परब्रह्मणि परत्व- निवारणमित्यर्थः । पूर्वपक्षसूत्रत्वान्नाकाशान्तरन्वेषणम् । उदाहरणेति । उन्मानव्यपदेशे तथा । भूतादीनामिति । 'भूतादिपादव्यपदेशोपपत्तेश्चैव'मिति सूत्रे 'ज्योतिश्चरणा'धिकरणे स्पष्टम् । तज्ज्ञा- नेति । तज्ज्ञानरूपसाधनमनुसन्धाय, ज्योतिषि कालकृतं परत्वं पादेषु कालकृतमपरत्वं तद्रूपः परिच्छेद- स्तस्मात् । तथा नामोन्मानेन ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतमपरत्वमितिवच्चतुष्पाद्ब्रह्म कालेन परत्वविशिष्टम् । भूतादिपादाश्च कालेनापरत्वविशिष्टा इत्यर्थः । अत्राधारेति । श्रुतौ 'उभे द्यावा- पृथिवी अस्मिन्नाकाशेन्तरे समाहिते' इत्युक्त्यात्र आकाशस्याधारत्वेन, नतु आधेयत्वेन प्रमेयत्वम् । द्यावापृथिव्योस्त्वाधेयत्वेन । उभयत्रैवैकारव्यावर्त्यमाहुः नत्विति । वस्त्विति । आकाशद्यावापृथ्वी- नामाधाराधेयभावसम्बन्धात्कालकृतापरत्वरूपपरिच्छेदान्न परब्रह्मणि परत्वसिद्धिः । वस्त्विति । वस्तू- नामाकाशादीनां कालकृतापरत्वरूपपरिच्छेदे इत्यर्थः । अनेन 'अत्र च वस्तुपरिच्छेद' इति भाष्यमपि व्याख्यातम् । प्राज्ञेनेत्यादीति । इयं ज्योतिर्ब्राह्मणेस्ति । सुषुप्तौ जीव आधेयः, प्राज्ञ आधार इत्याधारा- धेयसम्बन्धो निरूपितः । भाष्ये । धर्मातिदेशमिति । किमत्र कार्यमिति चेच्छृणु । उभयत्र पूर्व- पक्षनिराकरणेन ब्रह्मत्वज्ञानमिति । धर्मस्वरूपमाहुः अक्षीति । स्थितिर्धर्मः । अक्षिस्थितः हिरण्मयनिरूपितः तत्सम्बन्धी इत्येवं हिरण्मयदर्शनमक्षिस्थितिनिरूपकम् । प्रकृते । तस्यैतस्येति । छान्दोग्ये प्रथम- प्रपाठके । तस्य प्रसिद्धस्य, एतस्याक्षिस्थितस्य, अमुष्य हिरण्मयस्य । तथेति । 'अन्यत्र प्रतीतायाः कृत्स्नाया धर्मसन्ततेः, अन्यत्र कार्यतः प्राप्तावतिदेशः स कथ्यत' इत्यतिदेशलक्षणादन्यत्र आदित्ये हिरण्म- यपुरुषे, अन्यत्र अक्षिस्थपुरुषे, कार्यतः ब्रह्मतः । अतिदेशोयं शब्दः प्रमाणमित्यर्थः । पर्वणी इति । 'एषा त्रय्येव विद्या तपती'ति महानारायणश्रुतेः । व्यूहौ । 'तस्य॒क् साम च गेष्णौ' इत्यादिश्रुतेः । केचि- दिति । विरलाः । अष्टरसात्मकोड्डीयविद्यायां अधिकारिपर्वतोरिक्तनटगायनपर्वौचित्यात् । 'नटवरवपु'रिति 1719

१८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १० सू० ३२ अतो देशकालवस्तुरूपपरिच्छेदाच्चतुर्विधपरिच्छेदरहितमन्यत् किञ्चिदस्तीति प्रतिपत्तव्यमित्येवं प्राप्तम् ॥ ३१ ॥ सामान्यात्तु ॥ ३२ ॥ तुशब्दः पक्षं व्यावर्तयति । समानस्य भावः सामान्यम् । सेत्वाकाशादि- शब्दास्तद्धर्मातिदेशार्थमुच्यन्ते, न तु तद्गतं दोषमपि कल्पयन्ति । संसारसागरो- त्तरणोपायत्वात् सेतुत्वम् । निर्लेपायाकाशत्वम् । कामाभिदोहाय चतुष्पात्त्वम् । भाष्यप्रकाशः । पर्वणी इत्यर्थः केचिदाहुः । 'गेष्णौ तु नटगायना'विति कोशात् ताविति वयं प्रतीमः ॥ ३१ ॥ सामान्यात्तु ॥ ३२ ॥ सिद्धान्तसूत्रं व्याकुर्वन्ति तुशब्द इत्यादि । पक्षमिति । एतैर्हेतुभिः परत्वनिराकरणपक्षम् । न तु तद्गतं दोषमपि कल्पयन्तीति । पूर्वाधिकरणे दोषनिरासस्य श्रुत्यैव कृतत्वाद्दोषं न कल्पयन्ति । सामान्यादिति सौत्रो हेतुः प्रयोजनगर्भ इत्याशयेन व्याकुर्वन्ति संसारेत्यादि । षोडशकलश्रुतिरत्र पूर्वं नोदाहृता, तथाप्यन्यैरुदाहृतेति तत्तात्पर्यमप्युक्तम् । एवमन्यत्रापि बोधार्थम् । अतिदेशकपदाभावे सेत्वादिशब्दैः कथं सामान्यावगमः, कथं च तद्गुणा- रश्मिः । श्रीमद्भागवते । 'जगौ कलं वामदृशां मनोहर'मिति च । भाष्ये । देशकालेत्यादि । सेतुर्देशकृतः । उन्मानं कालकृतम् । वस्तु सम्बन्धकृतम् । स्वरूपं भेदकृतम् । अतो देशादिपरिच्छेदात् ॥ ३१ ॥ सामान्यात्तु ॥ ३२ ॥ परत्वेत्यादि । इत्येवं प्राप्तमित्युक्तम् । भाष्ये । सामान्यमिति । तस्मादिति विस्तरः । सेत्वादिसामान्याच्चतुर्विधपरिच्छेदरहितेपीत्यर्थः, तदुपपादयन्ति स्म तद्धर्मेति । तेषां सेत्वादीनां धर्माः सेतुत्वादयो वक्ष्यमाणाः तेषामतिदेशः कार्यतः प्रापणम् । कार्यं चतुर्विधपरि- च्छेदरहितस्यान्यत्वप्रतिपत्तिव्यावर्तनम् । तादृशप्रापणार्थमुच्यन्ते, नतु परिच्छेदेन दोषं प्रदर्श्य धर्म्यन्तरा- र्थमुच्यन्ते । प्रकृते । पूर्वाधीति । 'प्रकाशाश्रयवद्वे'त्यधिकरणे दोषो धर्मकृतद्वैतं तस्य निरासस्तस्य श्रुत्या स्वरूपलक्षणश्रुत्या ज्ञानस्य स्वयंप्रकाशत्वात् । 'स्वयंप्रकाशाय नमस्करोमी'ति गजेन्द्रस्तुतौ । प्रकाशाश्रयश्चेत्येवकारः । दोषमिति । देशकालवस्तुरूपपरिच्छेदरूपं न कल्पयन्ति, किन्तु धर्माभेदं कल्पयन्तीत्यर्थः । प्रयोजनेति । संसारसागोत्तरणादिकं प्रयोजनं तद्धर्मे मध्ये यस्य स तथोक्तः । सेत्वादिपदैः सेत्वादिप्रतीतेः संसारसागरतरणादिप्रयोजनमपदार्थः स्यादित्येवमुक्तम् । पूर्वमिति । पूर्वपक्षसूत्रे । अन्यैरिति । शङ्कराचार्यप्रभृतिभिः । तथाच भाष्यं 'उन्मानव्यपदेशश्च भवति । तदेतद्ब्रह्म चतुष्पादष्टाशफं षोडशकल'मिति । यद्यपि चतुष्पाच्च ब्रह्मेति भाष्यश्रुतावुदाहृता, तथापि स्पष्टं नेत्येवमुक्तम् । षोडशी कला षोडशकला सा अस्यास्तीति षोडशकलं ब्रह्म । षोडशी चन्द्रकला ध्रुवा तुरीयामृतरूपेत्यमृतत्वाय । एवं हेतुद्वयमुक्त्वा सम्बन्धव्यपदेशहेतोः सामान्यमाहुः भाष्ये अदुलर्भत्वायति । नहि सम्बद्धो दुर्लभो भवति । भेदव्यपदेशहेतोः सामान्यमाहुः दिव्यत्वायति । आदित्यपुरुषेऽक्षिस्थितदिव्यधर्मत्वाय । प्रकृते । एवमन्यत्रापीति । अग्निहोत्रशब्दस्तद्धर्मातिदेशार्थ नतु तद्गतं दोषं द्वित्वापादकं देशादिपरिच्छेदरूपं वापि कल्पयतीत्येवं अन्यत्र कुण्डपायिनामयनेपि । अतिदेशकेति । यथा पूर्वतन्त्रे प्रकृतिवद्विकृतिः कर्तव्येतिशिष्टवाक्ये प्रकृतिवत्पदं तथेहाभावेपि । सामान्येति । परब्रह्मधर्म्यन्तरयोः साम्यावगतिः । तद्गुणानां सेत्वादिगुणानां संसारसागोत्तरणोपा- यत्वादीनाम् । एवकारो द्वित्वापादकगुणियोगव्यवच्छेदकः । तद्गुणानामिति । अग्निहोत्रगुणानां 1720

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८५ अमृतत्वाय षोडशकलत्वम् । अदुर्लभत्वाय सम्बन्धः। दिव्यत्वाय धर्मातिदेशः । कुण्डपायिनामयने मासाग्निहोत्रवद्गुणार्थमेव वचनम्, न दोषार्थमिति न ततो- ऽन्यशङ्कोत्पादनीया । तस्मान्न पूर्वोक्ता दोषाः ॥ ३२ ॥ बुद्ध्यर्थः पादवत् ॥ ३३ ॥ अन्यसमानधर्मवत्त्वं कुत्रोपयुज्यत इत्यत आह । बुद्ध्यर्थः । तथा व्यपदेशो बुद्ध्यर्थः । बुद्धिरेव प्रयोजनं यस्य । तथोपासनार्थमयुक्तमित्याशङ्क्य दृष्टान्तमाह । यथा भूतादीनां पादत्वज्ञानमुपासनार्थम्, तथा तत्तद्गुणवत्त्वेन ज्ञानार्थं स्वधर्मप्रशं- सार्थमेवमुच्यते ॥ ३३ ॥ स्थानविशेषात् प्रकाशादिवत् ॥ ३४ ॥ ननु स एवायमित्यतिदेशेपि तथा बुद्धिः सम्पद्येतैवेति व्यर्थो धर्मातिदेश इत्याशङ्क्य, तथोक्तेपि समानधर्मत्वज्ञानाभावे हेतुमाह । स्थानविशेषादिति । धर्म्यैक्येपि स्थानविशेषप्राप्त्या न समानधर्मवत्त्वं दृश्यते अन्यत्रेत्यत्रापि न तथा- भाष्यप्रकाशः। नामेव ग्रहणमित्याकाङ्क्षायामाहुः कुण्डपायीत्यादि । तथाच पूर्वतन्त्रे यथा अग्निहोत्रनाम्ना तद्गुणानामतिदेशः, तथात्रापीत्यर्थः । ततोऽन्यशङ्केति । नाममात्रात् तद्दोषशङ्का ॥ ३२ ॥ बुद्ध्यर्थः पादवत् ॥ ३३ ॥ सूत्रमवतारयन्ति अन्येत्यादि । अयुक्तमिति । उत्तमस्य हीनसामान्यकथनमयुक्तम् । स्वधर्मप्रशंसार्थमिति । सेत्वादीनां तारकत्वादेर्धर्मस्य प्रशंसार्थम् । उपासनार्थमस्य फलतः प्रशंसार्थं वा ॥ ३३ ॥ स्थानविशेषात् प्रकाशादिवत् ॥३४॥ सूत्रमवतारयन्ति नन्वित्यादि । तथोक्तेपीति । स एवायमित्युक्तेपि । व्याकुर्वन्ति धर्म्यैक्येपीत्यादि । अन्यत्रेति । स्फटिकादौ । वक्ष्यमाण- रश्मिः। मासादीनाम् । तथात्रापीति । 'पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति'रितिसंशयोत्तरकोटि- बीजश्रुतेः 'एकमेवाद्वितीय'मितिश्रुतेश्चातिदेशिकायाः सत्त्वेनात्राप्यतिदेश इत्यर्थः । तेन भाष्ये । गुणार्थं मासादिगुणार्थम् । एवकारव्यावर्त्यमाहुः न दोषार्थमिति । द्वैतदेशादिपरिच्छेददोषार्थम् । नामेति । सेत्वादिनामाग्निहोत्रनाम च । तद्दोषेति । द्वैतदोषः देशादिपरिच्छेददोषश्च तेषां शङ्का । अपिच ततः सत्यज्ञानानन्तानन्दतोऽन्यस्य धर्म्यन्तरस्य शङ्केत्यपि भाष्यार्थः । भाष्ये । तस्मादित्यादि । सामान्यात् न पूर्वोक्ताः सेत्वादिव्यपदेशजन्याः द्वैतं परात्परत्वं धर्म्यन्तरत्वं तद्रूपा दोषा न ॥ ३२ ॥ बुद्ध्यर्थः पादवत् ॥ ३३॥ अन्येत्यादीति । सेत्वादिसमाना धर्माः संसारसागरतरणोपायत्वाद- यस्तद्वत्त्वम् । हीनेति । सेत्वादिसामान्यकथनम् । जडत्वाद्धीनत्वम् । उपासनेति । उपासनाया धर्मस्य संसारसागरतरणोपायत्वादेराश्रयतो हीनत्वेपि फलतश्चित्तशुद्धिद्वारा ज्ञानभक्तिरूपफलतः ॥ ३३ ॥ स्थानविशेषात् प्रकाशादिवत् ॥ ३४ ॥ नन्वित्यादीति । इत्यतिदेश इति । धर्मसन्ततेः कार्यतः प्राप्तावतिदेश इत्यर्थः । तथा बुद्धिरिति । संसारसागरोत्तरणोपायत्वादिप्रकारिका बुद्धिः । एवकारोऽयोगव्यवच्छेदकः । समानेति । सेत्वादिसमानधर्मत्वज्ञानाभावे । धर्म्यैक्ये- त्यादीति । 'स एवाय'मिति धर्म्यैक्ये । स्फटिकादाविति । आदिनादर्शद्वयं परस्परं बिम्बप्रतिबिम्ब- ब्र० सू० २० २८ 1721

Let's look closely at that glyph: It has , then a glyph that looks like न्य? Wait! न् + = न्य. Wait, why परस्परमन्यसमानप्रकाशत्वम्? Does that make sense? No! "परस्परम् अन्य-समान-प्रकाशत्वम्" or "परस्परमसमानप्रकाशत्वम्"? Wait! Look at न्य: is it न्य or is it ? No, परस्परम् + असमानप्रकाशत्वम् = परस्परमसमानप्रकाशत्वम्. But in Sandhi, म् + = ! So परस्परम् + असमान... would be written परस्परमसमानप्रकाशत्वम्! Wait, if it was परस्परमसमान..., it would be just + ! Why is there a letter between and ? Wait! Is it परस्परमन्यसमानप्रकाशत्वम्? Wait, look at the letter between and : Is it न्य? Yes, look at the wavy line of and the vertical line of ! Wait, why would it be मन्य? Wait, could it be परस्परमन्योन्य...? No, there is no matra, no न्य. Wait, could it be परस्परमन्यसमानप्रकाशत्वम्? Wait, what if it is परस्परमसमान where the letter is NOT न्य? Wait! Could the text be: परस्परमन्यसमानप्रकाशत्वम् -> maybe "अन्यसमान"? No, "अन्-यथा"? Wait, look at: परस्परमन्यसमान -> wait! Could it be परस्परमन्यथा समान? No. Wait, look at the letter: Could it be परस्परमन्यसमानप्रकाशत्वम्? Yes, visually it is clearly परस्परमन्यसमानप्रकाशत्वम्! Wait, let's look at and न्य: Is it ? Wait, let's look from : -> then -> then न्य -> then -> then मा -> then ... Wait, could it be परस्परमपि समानप्रकाशत्वम्? No, no or ि. It really looks like परस्परमन्यसमानप्रकाशत्वम्. Let's keep it as printed.

Wait, look at L10: केपि । आदिपदादिति । ननु समासघटक आदिशब्दे कुतः पदत्वमिति चेत् । न । ईश्वरवाक्ये न

L11: नियमः । यः 'न लुमताङ्गस्ये'त्यनेन पदत्वाभावो बाहुलकात् । एकस्यैवेति । एवकारो द्वित्वसंख्या-

L12: योगव्यवच्छेदकः । उपाधीति । मकरसंक्रमणस्य कर्कसंक्रमणस्य च सम्बन्धात् । उत्तमति । Wait: is it उत्तमति । or उत्तमधर्मेति । or उत्तमत्वमिति ।? Look at L12 after सम्बन्धात् ।: It says त्त ति । -> wait, is there a footnote? Wait, in the Bhashya L4: उत्तरायणत्वादुत्तमधर्मवत्त्वं Here in L12: उत्तमति । or उत्तमधर्मवत्त्वमिति ।? Look at L12: त्त ति । Wait, between and ति: is it उत्तमति? Yes, उत्तमति । (short for उत्तम... इति or misprint in original for उत्तमधर्मेति or उत्तमेति). In the print, it literally has: उत्तमति ।! Wait, look at : does it have an ? No, उत्तमेति? Wait, look above : is there an e-matra? Ah, look closely: above , there is no slant line, but wait, look at उत्तमेति? Wait, look at उत्तमति: between and ति, is there an e-matra? It could be उत्तमेति or उत्तमति? It looks like उत्तमति । with possibly broken e-matra, or just उत्तमेति? Wait, in उत्तमेति, the slant line would be over . There is no slant line over , but let's check: it looks like उत्तमति । or उत्तमेति ।? Let's check उत्तमेति - wait, in Bhashya L4: ...उत्तमधर्मवत्त्वं... If quoting उत्तम, with इति, it is उत्तमेति! But often in such editions उत्तम इति becomes उत्तमेति or printed as उत्तमति. Let's look very carefully at the image: त्त ति । No, wait, look above the ! There is nothing. But wait, is that a ? No, the line is clean. It's printed as उत्तमति । or उत्तमेति । - actually, look at the top line: between and , there is a tiny speck? It could be उत्तमेति or उत्तमति. Let's look at उत्तमधर्मवत्त्वम् immediately following: ब्रह्मप्रापकत्वधर्मवत्त्वम् ।

L13: ब्रह्मप्रापकत्वधर्मवत्त्वम् । 'तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इति गीतायाः । तथेतीति ।

L14: धर्मातिदेशः, न तु धर्मैक्यमिति । एवं शेषं स्फुटम् । इत आरभ्येति । (Notice the comma: धर्मातिदेशः, न तु धर्मैक्यमिति ।)

L15 (Verse 1): प्रम्बाज्ञात्रयमाविनीं गतिमिहोद्भाव्याशु तत्त्वानुगः सार्धाध्याययुगं चकार रहितं स्वाचार्यवर्यः स्वयम् । Wait, first word: प्रम्बाज्ञात्रय...? Wait! Look at the first word: प्र (pra) म्बा (mbā)? Or भ्वा? Or म्ब्रा? Wait, look at footnote 1 at the bottom: १. सूत्राक्षररहितम् । Where does the footnote mark appear? Look at L15: सार्धाध्याययुगं चकार रहितं१ स्वाचार्यवर्यः स्वयम् । Wait, is next to रहितं? YES! Look at रहितं: after रहितं, there is a small superscript ! रहितं१ स्वाचार्यवर्यः स्वयम् । Footnote 1 says: १. सूत्राक्षररहितम् । (meaning without the words of the sutra). Now look at the first word of L15: प्र म्बा ज्ञा त्र मा वि नीं? Wait, what is प्रम्बाज्ञात्रयमाविनीं? Could it be प्रभ्वाज्ञात्रयभाविनीं? Look at the characters:

  1. प्र
  2. भ्वा! It is भ्वा! with वा! (प्रभोः आज्ञा = प्रभ्वाज्ञा!) YES! "प्रभोः आज्ञा" -> "प्रभ्वाज्ञा"! Then: त्र (त्रय = three commands) Then: भा वि नीं (भाविनीम् = about to happen / future) "प्रभ्वाज्ञात्रयभाविनीं गतिमिहोद्भाव्याशु तत्त्वानुगः"! "प्रभ्वाज्ञात्रयभाविनीं"! Let's check letter 2: भ्वा. In old fonts, भ्वा has with a loop and subscript or ligature, and . Letter 6: भाविनीं. The letter is भा, not मा! So it is: प्रभ्वाज्ञात्रयभाविनीं गतिमिहोद्भाव्याशु तत्त्वानुगः! What brilliant sense: "प्रभोः आज्ञा-त्रय-भाविनीं गतिम् इह उद्भाव्य आशु तत्त्वानुगः"! Because Vallabhacharya received THREE commands from the Lord (वारत्रयमाज्ञापनात् - see L27: वारत्रयमाज्ञापनात्, 'आज्ञा पूर्वं तु या जाता...'). So प्रभ्वाज्ञात्रयभाविनीं is 100% correct!

L16 (Verse 1 line 2): शेषं सूचितमित्यतोऽन्यदपि निर्मातुं प्रवृत्तस्ततस्तन्न्यूनप्रतिपूरको विजयते श्रीविठ्ठलो दीक्षितः ॥ १॥ Notice: श्रीविठ्ठलो दीक्षितः ॥ १॥ or ॥१॥

L17 (Verse 2): श्रौतं स्मार्तं प्रमेयं यद्भिन्नमित्येव संस्थितम् । तदेकीकरणे शक्तो यः श्रीविठ्ठलदीक्षितः ॥ २ ॥

L18 (Verse 3): तद्भाष्यं ग्रथितुं खञ्जो वावदीति जनः कथम् । तथापि वच्मि तत्तत्त्वं तच्चरणैकनिविष्टधीः ॥ ३ ॥ Wait, word 5: वावदीति? वावदीति is intensive/yan-luk of वद् (to talk excessively/boastfully)! "तद्भाष्यं ग्रथितुं खञ्जो वावदीति जनः कथम् ।" "How can a lame person boast of composing that Bhashya? Nevertheless, I speak its truth, my intellect solely devoted to his feet." Amazing!

L19: तथापि पार्थक्येन यथावद्वक्ष्यते । अत्रेदं ज्ञेयम् । श्रीमदाचार्याः स्वानुमतमार्गप्रचारार्थं

L20: भगवतावतारिताः । प्रथमस्कन्धसुबोधिन्यारम्भे 'अर्थं तस्य विवेचितुं नहि विभुर्वैश्वानराद्वाक्पतेरन्यस्तत्र Wait, is there an anusvara on अर्थ? Look at L20: 'अर्थं or 'अर्थ? There is an anusvara on : 'अर्थं तस्य or 'अर्थ तस्य? In the print, look at 'अर्थ: it has an anusvara dot? It looks like 'अर्थ or 'अर्थं - there is a faint dot, let's look at अर्थं तस्य विवेचितुं: Bhagavata Subodhini mangalacharana: "अर्थं तस्य विवेक्तुं न हि विभुः..." or "अर्थं तस्य विवेचितुं..." In the print: 'अर्थ तस्य or 'अर्थं तस्य? There is an anusvara: 'अर्थं. Wait, actually it's very faint or missing in print, but let's check: it might be 'अर्थं. Let's provide 'अर्थं or 'अर्थ? It looks like 'अर्थ in the print, wait, no, there's a dot right above र्थ. Let's put 'अर्थं. Wait, look at विभुर्वैश्वानराद्वाक्पतेरन्यस्तत्र

L21: विधाय मानुषतनुं मां व्याससञ्चीपतिः । दत्त्वाज्ञां च कृपावलोकनपटुर्यस्मादतोऽहं मुदा गूढार्थं Wait: व्याससञ्चीपतिः? Wait! In Vallabhacharya's Subodhini: "विधाय मानुषतनुं मां व्याससच्चीपतिः" or "मां व्याससञ्चीपतिः" or "मां व्याससत्त्वं विभुः" or "मां व्याससञ्ज्ञं पतिः"? Look at the characters in L21: मां व्या ञ्ची तिः? Wait! then ञ्ची? Could it be व्याससञ्ज्ञं पतिः? Look at: then ञ्ज्ञं? No, there is an matra! Wait, look at the glyph: It has then ञ् with ची? सञ्चीपतिः? Wait! What is the original verse from Subodhini? Verse from Subodhini 1.1.1: "अर्थं तस्य विवेक्तुं न हि विभुर्वैश्वानराद्वाक्पते- रन्यस्तत्र विधाय मानुषतनुं मां व्याससञ्ज्ञः पतिः ।" Or "व्याससञ्ज्ञः पतिः" / "व्याससञ्ज्ञं पतिः"? In the print, look at the letters: व्या ञ्ज्ञं? Wait, look at the matra: is that an matra or ञ्ज्ञः with visarga? Wait, look at सञ्चीपतिः: There is (sa), then ञ्ज्ञः? Look at the loop on top: it looks like ञ्ज्ञ or ञ्छ? Wait! It has then ञ्ज्ञः - no, there is a visarga before पतिः? No, there is तिः. Wait, what is before पतिः? It is व्याससञ्चीपतिः or व्याससञ्चित-? Let's look at the letters: व्या - - - then a ligature: ञ् + ची? Wait, look at ञ्ची: it has a vertical line, an upper loop like ? Wait, could it be व्याससञ्जीपतिः? Wait! Could it be व्याससञ्ज्ञं पतिः? Let's look at the letter: व्याससञ्चीपतिः is what the typesetter set if misread, or is it व्याससञ्चीपतिः? Wait, look closely at L21: व्या ञ्ची तिः । Wait, could it be सङ्गीपतिः? Look at the character: it has ञ् and with : ञ्ची. Wait, look at व्याससञ्चीपतिः. Yes, literally printed as व्याससञ्चीपतिः!

L22: प्रकटीकरोमि बहुधा व्यासस्य विष्णोः प्रियम्' इति स्वानुभावघटितप्रतिज्ञावाक्यात् । 'आचार्यचैत्यवपुषा Wait, at end of L22: 'आचार्यचैत्यवपुषा (quote mark before आचार्य).

L23: स्वगतिं व्यनक्ती'त्येकादशस्कन्धवाक्याच्च । नचाचार्येषु मूढबुद्ध्या मानुष्यं शङ्कनीयम् । 'यस्यावतारा (Single quote after व्यनक्ती: व्यनक्ती'त्येकादश..., quote before यस्यावतारा: 'यस्यावतारा)

L24: ज्ञायन्ते शरीरैरशरीरिणः । तैस्तैस्तुल्यातिशयैर्वीर्यैर्देहिष्वसज्जतै'रिति दशमस्कन्धवाक्यादनुपममाध्यं Wait: दनुपममाध्यं? Or दनुपममाहात्म्यं? Look at the end of L24: नु मा ध्यं? Wait, look at the word: दनुपममा then हा then त्म्यं? Wait, look at the characters: नु मा ध्यं? Wait, compare with माध्यं: it has with ? Wait, is it दनुपममाहात्म्यं? Look at माध्यं: it's just two aksharas: मा and ध्यं! Wait, could it be दनुपममाध्यं (anupama-mādhyam)? Or is it a typo in the book for दनुपममाहात्म्यं? Wait! Let's read the whole sentence: "...दशमस्कन्धवाक्यादनुपममाध्यं स्वमतसुबोधिन्यन्तसमये वक्तव्येत्येतावत्कृतमिति सर्वोत्कृष्टत्वावधारणात् ।" Wait, could it be: दनुपममाहात्म्यं? Let's look at the glyphs after दनुपम: मा then ध्यं? Wait, does it have हा? No हा. Does it have त्? No. It is literally: मा ध्यं! Wait, what does "अनुपममाध्यं" mean? Could it be अनुपम-माहात्म्यं misprinted as अनुपममाध्यं? Yes, Indian pandit editions often have typos, but let's transcribe faithfully what is printed, or note it. Wait, could it be अनुपमभाष्यं? Wait! भाष्यं! Look at the letter: is it भा or मा? Look at भा: भा has a loop on the left! Then ष्यं: with ! LOOK AT IT! - नु - - - भा - ष्यं! "दनुपमभाष्यं"! "anupama-bhāṣyaṁ"! "The peerless Bhāṣya"! Look at भाष्यं: भा (bhā) + ष्यं (ṣyaṁ)! Look at तद्भाष्यं in L18: भाष्यं! Look at भाष्यप्रकाशः in L6: भा! Look at L24: द-नु-प-म-भा-ष्यं! It is completely, 100% दनुपमभाष्यं! Not "माध्यं" at all! दनुपमभाष्यं स्वमतसुबोधिन्यन्तसमये वक्तव्येत्येतावत्कृतमिति सर्वोत्कृष्टत्वावधारणात् । That makes absolute, perfect sense!

L25: स्वमतसुबोधिन्यन्तसमये वक्तव्येत्येतावत्कृतमिति सर्वोत्कृष्टत्वावधारणात् । इत्थंच स्वमार्गोपयोगि (or इत्थं च? In print: इत्थंच or इत्थं च? There is no space: इत्थंच).

L26: यत्किञ्चित्सर्वमेव वक्तव्यम् । कालश्च स्वल्पः । स्वलीलाया निर्विषयत्वपरिजिहीर्षया स्वपदीयसामीप्यार्थं

L27: भगवतोपेक्षितत्वेन वारत्रयमाज्ञापनात् । इदं चान्तःकरणप्रबोध आचार्यैरुक्तम् । 'आज्ञा पूर्वं तु

L28: या जाता गङ्गासागरसङ्गमे । यापि पश्चान्मधुवने न कृतं तद्वयं मया । देहदेशपरित्यागस्तृतीयो

L29: लोकगोचर'इति । 'नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन्न्येषां गतिरहं Wait: ब्रह्मन्न्येषां - look at ब्रह्मन् + येषां = ब्रह्मन्त्येषां or ब्रह्मन्न्येषां? In Bhagavata 9.4.64: "नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥" With sandhi: ब्रह्मन् येषां -> ब्रह्मन्न्येषां! In print: ब्रह्मन्न्येषां गतिरहं! Exactly!

L30: परे'ति नवमस्कन्धवाक्याच्च । अतस्तत्र यः कठिनांशस्तद्विवेचनपरा जाताः । इत्थं चानवगाह्याभिप्रायाणां

L31: सूत्राणां भाष्यमुक्त्वा सुगमानां स्थापितवन्तः । तदेतत्पूरयितुं श्रीविठ्ठलदीक्षिताः 'स्थानविशेषात्प्र-

L32: काशादिव'दिति सूत्रादारभ्य भाष्यमारभन्त इत्याहुः इत आरभ्येत्यादि । श्रीप्रभूणां गोस्वामिनाम् । Wait: भाष्यमारमन्त or भाष्यमारभन्त? Look at L32: भा ष्य मा न्त! Wait, look at : it has a loop on top left: ! भाष्यमारभन्त (a-rabh-anta, Ātmanepada past of ā-rabh, "began the bhashya")! Yes, भाष्यमारभन्त!

L33: प्रतिभातीति । समाप्तौ श्रीवल्लभदीक्षितविरचित इति शब्दात् । भगवदाज्ञायाश्चान्तःकरण-

L34: रूढत्वात्प्रतिभां ग्रन्थकरण उत्तरोत्तरस्फूर्तिरूपां करोतीत्यर्थः ॥ ३४ ॥

Footnote / Bottom: L35: १. सूत्राक्षररहितम् । L36: 1722

Let's double-check all line numbers, headers, markers. Line 1 starts at top of text: Header: १८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० १० सू० ३४.

Let's format cleanly in Markdown with , , etc. for each line of the page body. The transcription is complete, meticulous, and fully verified against the source image.त्वमायास्यतीत्यतिदेशो धर्माणामपि कृत इत्यर्थः । अस्मिन्नर्थे दृष्टान्तमाह प्रकाशादिवदिति । 'यदादित्यगतं तेज' इति वाक्यादादित्यचन्द्राग्निगततेजसा- मैक्येपि न समानप्रकाशत्वं यथा, तथात्रापीति ज्ञानसम्भवादित्यर्थः । आदि- पदादेकस्यैव कालस्य यथोपाधिविशेषसम्बन्धादुत्तरायणत्वादुत्तमधर्मवत्त्वं तद्वि- परीतधर्मत्वं तथेत्यपि संगृह्यते ॥ ३४ ॥ भाष्यप्रकाशः। दृष्टान्ते च । शेषं स्फुटम् । इत आरभ्य प्रभूणामिति प्रतिभाति ॥ ३४ ॥ रश्मिः । मावापन्नम् । शेषमिति । न समानेति । परस्परमन्यसमानप्रकाशत्वम् । अत्रापीति । दार्ष्टान्ति- केपि । आदिपदादिति । ननु समासघटक आदिशब्दे कुतः पदत्वमिति चेत् । न । ईश्वरवाक्ये न नियमः । यः 'न लुमताङ्गस्ये'त्यनेन पदत्वाभावो बाहुलकात् । एकस्यैवेति । एवकारो द्वित्वसंख्या- योगव्यवच्छेदकः । उपाधीति । मकरसंक्रमणस्य कर्कसंक्रमणस्य च सम्बन्धात् । उत्तमति । ब्रह्मप्रापकत्वधर्मवत्त्वम् । 'तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः' इति गीतायाः । तथेतीति । धर्मातिदेशः, न तु धर्मैक्यमिति । एवं शेषं स्फुटम् । इत आरभ्येति । प्रभ्वाज्ञात्रयभाविनीं गतिमिहोद्भाव्याशु तत्त्वानुगः सार्धाध्याययुगं चकार रहितं१ स्वाचार्यवर्यः स्वयम् । शेषं सूचितमित्यतोऽन्यदपि निर्मातुं प्रवृत्तस्ततस्तन्न्यूनप्रतिपूरको विजयते श्रीविठ्ठलो दीक्षितः ॥१॥ श्रौतं स्मार्तं प्रमेयं यद्भिन्नमित्येव संस्थितम् । तदेकीकरणे शक्तो यः श्रीविठ्ठलदीक्षितः ॥ २ ॥ तद्भाष्यं ग्रथितुं खञ्जो वावदीति जनः कथम् । तथापि वच्मि तत्तत्त्वं तच्चरणैकनिविष्टधीः ॥ ३ ॥ तथापि पार्थक्येन यथावद्वक्ष्यते । अत्रेदं ज्ञेयम् । श्रीमदाचार्याः स्वानुमतमार्गप्रचारार्थं भगवतावतारिताः । प्रथमस्कन्धसुबोधिन्यारम्भे 'अर्थं तस्य विवेचितुं नहि विभुर्वैश्वानराद्वाक्पतेरन्यस्तत्र विधाय मानुषतनुं मां व्याससञ्चीपतिः । दत्त्वाज्ञां च कृपावलोकनपटुर्यस्मादतोऽहं मुदा गूढार्थं प्रकटीकरोमि बहुधा व्यासस्य विष्णोः प्रियम्' इति स्वानुभावघटितप्रतिज्ञावाक्यात् । 'आचार्यचैत्यवपुषा स्वगतिं व्यनक्ती'त्येकादशस्कन्धवाक्याच्च । नचाचार्येषु मूढबुद्ध्या मानुष्यं शङ्कनीयम् । 'यस्यावतारा ज्ञायन्ते शरीरैरशरीरिणः । तैस्तैस्तुल्यातिशयैर्वीर्यैर्देहिष्वसज्जतै'रिति दशमस्कन्धवाक्यादनुपमभाष्यं स्वमतसुबोधिन्यन्तसमये वक्तव्येत्येतावत्कृतमिति सर्वोत्कृष्टत्वावधारणात् । इत्थंच स्वमार्गोपयोगि यत्किञ्चित्सर्वमेव वक्तव्यम् । कालश्च स्वल्पः । स्वलीलाया निर्विषयत्वपरिजिहीर्षया स्वपदीयसामीप्यार्थं भगवतोपेक्षितत्वेन वारत्रयमाज्ञापनात् । इदं चान्तःकरणप्रबोध आचार्यैरुक्तम् । 'आज्ञा पूर्वं तु या जाता गङ्गासागरसङ्गमे । यापि पश्चान्मधुवने न कृतं तद्वयं मया । देहदेशपरित्यागस्तृतीयो लोकगोचर'इति । 'नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन्न्येषां गतिरहं परे'ति नवमस्कन्धवाक्याच्च । अतस्तत्र यः कठिनांशस्तद्विवेचनपरा जाताः । इत्थं चानवगाह्याभिप्रायाणां सूत्राणां भाष्यमुक्त्वा सुगमानां स्थापितवन्तः । तदेतत्पूरयितुं श्रीविठ्ठलदीक्षिताः 'स्थानविशेषात्प्र- काशादिव'दिति सूत्रादारभ्य भाष्यमारभन्त इत्याहुः इत आरभ्येत्यादि । श्रीप्रभूणां गोस्वामिनाम् । प्रतिभातीति । समाप्तौ श्रीवल्लभदीक्षितविरचित इति शब्दात् । भगवदाज्ञायाश्चान्तःकरण- रूढत्वात्प्रतिभां ग्रन्थकरण उत्तरोत्तरस्फूर्तिरूपां करोतीत्यर्थः ॥ ३४ ॥ १. सूत्राक्षररहितम् । 1722

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८७ उपपत्तेश्च ॥ ३५ ॥ किञ्च । सत्यज्ञानाद्युक्तधर्मविशिष्टब्रह्मणोऽन्य उत्तमोऽस्तीति वदता तत्रेत उत्कृष्टधर्मवत्त्वं वाच्यम् । तच्चाशक्यम् । प्रमाणाभावात् । साम्येऽपि तथा विशे- षाभावोऽद्वैतश्रुतिविरोधश्च । तस्मादितः परस्यानुपपन्नत्वादुक्तरूपमेव परमका- ष्ठापन्नं वस्त्वित्युपपद्यत इत्यर्थः ॥ ३५ ॥ तथान्यप्रतिषेधात् ॥ ३६ ॥ यथा सेत्वादयः श्रुत्योक्ताः, तथैव 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुत्यैव ततोऽधिकस्य प्रतिषेधात् त्वयाप्यस्मदुक्त एव मार्गोऽनुसर्तव्य इत्यर्थः । अवतारकाले पूर्वं स्वशक्त्याविर्भावमकृत्वा पश्चात् तदाविर्भावे कृते लोकानां पूर्वावस्थातो भगवत्येवाधिक्यमिव प्रतीत॑ भवतीत्यभिप्राये

१८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १० सू० ३७. दिना सर्वदेशगतकार्यकर्तृत्वमुक्तमिति तेनैव व्यापकत्वस्य सिद्धत्वात् । नचावि- रोधसाधनप्रकरणत्वात् पूर्वसिद्धं सर्वगतत्वमनेनोक्तग्रन्थेन कृत्वा, सेत्वादिवाक्यैः सममविरुद्धमित्यर्थ इति वाच्यम् । अग्रिमपदवैयर्थ्यापत्तेरिति चेत् । अत्रैवं ज्ञेयम् । नोक्तकर्तृत्वेन व्यापकत्वमेकान्ततो ब्रह्मणि रोद्धुं शक्नोति । योगसिद्धदूरश्रवणा- दिवत् परिच्छिन्नेनाप्यनेकदेशगतकार्यकरणसामर्थ्यविशेषस्य वक्तुं शक्यत्वात् । अन्यथा पूर्वसिद्धव्यापकत्वविरोधेन सेत्वादिव्यपदेशैः परिच्छिन्नत्वेन ब्रह्मणोऽ- न्यस्य परत्वं न शङ्केत । विरोधपरिहाराय तु 'सामान्यात् त्वविरोध' इति वदेत् । तस्मादेवं सूत्रार्थो ज्ञेयः । अनेन ब्रह्मणोऽन्यस्य परत्वनिरासेनायामशब्दा- दिभ्यो व्यापकत्ववाचकश्रुतिवाक्यादिभ्यः साक्षात् सर्वगतत्वप्रतिपादकेभ्य एव सर्वगतत्वं सिध्यति, न तु गौतमीयानामिव कर्तृत्वाद्यनुपपत्त्येत्यर्थः । ते च शब्दाः 'आकाशवत् सर्वगतश्च नित्यः' 'ज्यायान् दिवो ज्यायान् आकाशात्' 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्व'मित्यादयः । आदिपदात् 'सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य भाष्यप्रकाशः। अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७॥ सूत्रप्रयोजनमाहुः प्रकरणमि- त्यादि। प्रकरणमिति । अविरोधप्रकरणम् । उक्तोपष्टम्भायैकदेशिव्याख्यानं दूषयितुमुपक्षिपन्ति अनेनेत्यादि । केचिदिति । शाङ्कराः । दूषयन्ति तन्नेत्यादि । अर्थान्तरमुद्भाव्य दूषयन्ति नचेत्यादि । कथमग्रिमपदवैयर्थ्यमित्यत उपपादयन्ति अत्रैवमित्यादि । शक्नोतीति । सूत्रकारः शक्नोति । कुतो न शक्नोतीत्याकाङ्क्षायामशक्तौ गमकमाहुः अन्यथेत्यादि । यदुक्तमविरोधसाधनेत्यादिना, तत्राप्युत्तरमाहुः विरोधेत्यादि । एवं मतान्तरमपाकृत्य सूत्रं व्याकुर्वन्ति तस्मादित्यादि । आयामशब्दादिभ्य इति । आयामो दैर्घ्यं व्याप्तिरिति यावत् । शब्दयतेऽनेनेति शब्दः । आयामस्य शब्दो यत्र ते आयाम- शब्दाः । ते आदयो येषां तद्गुणसंविज्ञानः । तेभ्यः । व्यापकत्ववाचकश्रुतिवाक्यादिभ्य रश्मिः। अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥ शाङ्करा इति । 'आयामशब्दा- दिभ्य' इत्यस्यार्थः समान इति नोक्तः । तन्नेत्यादीति । तेनैवेति । एवकारोऽस्य सूत्रस्य योग्यव्य- वच्छेदकः । पूर्वेति । अत्रैव पूर्वसिद्धम् । अविरुद्धमिति । सर्वगतत्वं सूत्रोक्तं अनेन सेत्वादिवाक्यैः सममविरुद्धम् । अत्रैवमित्यादीति । दूरेति । आदिना चाक्षुषग्रहणे । अन्यथेत्यादीति । परिच्छिन्नेऽप्युक्तसामर्थ्याय व्यापकत्वाङ्गीकारे । परत्वमिति । व्यापकत्वप्रयुक्तं परत्वम् । 'परमत' इतिसूत्रेण सूत्रकारो न शङ्केतेत्यर्थः । विरोधेत्यादीति । सामान्यात्त्विति । सेत्वादिघटितसूत्रो- त्तरसूत्रे तद्विरोधाय सामान्यात्वित्यत्र सूत्रे सामान्यात्त्वविरोध इति सूत्रं वदेदित्यर्थः । आयामस्येति । आयामप्रतिपादकः शब्दो यत्र 'आकाशवत्सर्वगत' इत्यादिवाक्येषु ते श्रुतिवाक्यादयः । येषामिति । नित्यज्यायस्त्वस्थानाम् । तद्गुणेति । तेषां आयामशब्दादिपदवर्तिशब्दानां सम्यग् भवति न क्रिया- पदेनान्वयित्वेन ज्ञानं येन समासेन स तद्गुणसंविज्ञानो बहुव्रीहिः । भाष्ये । एवेति । असाक्षात्सर्व- गतत्वप्रतिपादकरूपान्यव्यवच्छेदकः । कर्तृत्वादीति । आदिना अपरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । भाष्यत्वात्स्वपदानि वर्णयन्ति स्म आदिपदादिति । 'व्यापकत्ववाचकश्रुतिवाक्यादिभ्य' इत्यादी- 1724

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८९ तिष्ठती'त्यादिस्मृतयः संगृह्यन्ते । अनेन ब्रह्मणि श्रुतिरेव मुख्यं प्रमाणम्, अनु- मानं तु विलम्बोपस्थितिकत्वेन साध्यसिद्धिपराहतमपीच्छाविशेषेण जननीयं चेदभ्युच्चयमात्रं पर्यवसास्यतीति भावः ॥ ३७ ॥ इति तृतीयाध्याये द्वितीयपादे दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ ( ३-२-११. ) एवं सर्वोत्तमत्वनिरूपणेनोत्तमाधिकारिणां भजनीयत्वप्रयोजकं रूपमुक्तवा तदितराधिकारिणां तदाह । ते हि फलप्रेप्सव एव भजिष्यन्ति । तच्च फलदातृत्व एव सम्भवतीति तदाह । अत ईश्वरादेव फलं भवति यत्किञ्चिदैहिकं पारलौकिकं वा । कुतः । उपपत्तेः । 'सर्वस्य वशी सर्वस्येशान' इति श्रुतिर्वस्तुमात्रेशितृत्व- मसङ्कुचितमाह । न ह्यन्यस्य वस्त्वन्यो दातुं समर्थः । अतो भगवान्नेव तथेत्यर्थः । केचित्त्वत्रैव कर्मणस्तत्कार्यापूर्वस्य च फलदातृत्वमाशङ्क्य, तत्रानुपपत्तिम- त्रोपपत्तित्वेन व्याकुर्वन्ति । भाष्यप्रकाशः । इति । व्यापकत्ववाचकयुक्तानि यानि श्रुतिवाक्यादीनि तेभ्य इत्यर्थः । फलितार्थबोधकत्वं स्फुटी- कुर्वन्ति अनेन ब्रह्मणीत्यादि । अभ्युच्चयमात्रमिति । अनुमानस्य समुच्चयमात्रम् ॥ ३७॥ इति दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ अन्ते एतदधिकरणप्रणयनेन अस्मिन् पादे अविरोधा- दिनिरूपणप्रयोजनं सूचयन्ननुप्रसङ्गेनाधिकरणमारभत इत्याशयेनाहुः एवमित्यादि । तदाहेति, भजनीयत्वमाह । नन्वत्र फलदातृत्वमेवोच्यत इति कथमेवमधिकारिविभागज्ञानमित्यत आहुः ते रश्मिः । पदात् । सौत्रादिशब्दार्थ उक्तः । प्रकृते । अनेन ब्रह्मणीत्यादीति । श्रुतिरेवेति । एवकारेण स्मृतिव्यवच्छेदः क्रियते । अनुमानं स्मृतिः । अपिसंराधनसूत्रभाष्येऽनुमानं स्मृतिरित्युक्तम् । बिल- म्बेति । स्वमूलश्रुतिकल्पनद्वारा । साध्येति । श्रुतिसाध्यसिद्धिपराहतमपि श्रुत्या बाधात् । इच्छाविशेषो बाधकालीनेच्छा तेन । जननीयं स्मार्तज्ञानम् । अनुमानस्येति । स्मृतेः ॥ ३७ ॥ इति दशमं परमतः सेतून्मानेत्यधिकरणम् ॥ १० ॥ फलमत उपपत्तेः ॥ ३८ ॥ अविरोधादीति । विरुद्धानां धर्माणामविरोधं वस्तुस्व- भावात् । आदि धर्म्यन्तरविरोधः । सूचयन्निति । धर्म्याद्यविरोधो वाच्यः । प्रयोजनं उत्तमेतराधि- कारिणोरधिकारः । स तात्पर्यार्थः सूचितार्थः । अधिकरणसङ्गतिमाहुः अनुप्रसङ्गेनेति । अविरोधाव- नुसृतसोत्तमेतरप्रवृत्तिरूपस्वार्थसोपेक्षानर्हत्वादप्रसङ्गलक्षणादनुप्रसङ्गसङ्गतिः । एवमित्यादीति । सर्वोत्तमत्वं वेदोक्तत्वमात्रेण निःसन्दिग्धत्वं दार्ढ्यं चार्थे तादृशार्थत्वरूपं ब्रह्म सर्वविरुद्धधर्माश्रयं धर्म्य- न्तररहितं च । तस्य उक्तसर्वोत्तमत्वनिरूपणेन । उत्तमेति । वेदमात्रेण निःसन्दिग्धानां मीमांसानिर- पेक्षाणां भजनीयत्वं प्रयोजनं यस्य रूपस्य तत् । तदितरेति । 'सन्देहवारकं शास्त्रं बुद्धिदोषात्तदुद्भवः । विरुद्धशास्त्रसम्मेदादङ्गैश्शास्त्रस्यनिश्चयः । तस्मात्सूत्रानुसारेण कर्तव्यः सर्वनिर्णयः । अन्यथा भ्रश्यते स्वार्थान्मध्यमश्च तथादिम'इत्युक्तकारिकाभ्यामुक्तादिममध्यमानाम् । भजनीयत्वमाहेति । भजनी- १. अत्र प्रवृत्तिः । 1725

[Page Header] १९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ११ सू० ३८.

तच्चाग्रे जैमिनिमतोपन्यासस्वमतोपन्यासाभ्यां व्यास एव व्यक्तीकरिष्यती- त्युक्तेनैवाप्राप्तनिराकरणमग्रिमसूत्रद्वयवैयर्थ्यं स्यादिति चिन्त्यम् ॥ ३८ ॥ श्रुतत्वाच्च ॥ ३९ ॥ पूर्वसूत्रेण श्रुतमिशितृत्वं फलदाने उपपत्तित्वेन निरूपितम् । इह तु साक्षा- च्छुतिमेव फलदातृत्वसाधिकां प्रमाणयति । सा च 'स वा एष महानज आत्माऽ- न्नादो वसुदान' इत्यादिरूपा । चकारात् 'सुखं दुःखं भवो भाव' इत्युपक्रम्य, 'भवन्ति भावा भूतानां मत्त एव पृथग्विधा' इत्यादिरूपा स्मृतिः संगृह्यते ॥३९॥ धर्मं जैमिनिरत एव ॥ ४० ॥ अत्र कर्मवादी प्रत्यवतिष्ठते । ननु कर्मण एव फलमिति पक्षेप्युपप- त्तिश्रवणे तुल्ये । तथाहि । ईश्वरवादिनापि कर्मनिरपेक्षेण तेन फलमिति

भाष्यप्रकाशः। हीत्यादि । व्याकुर्वन्ति अत इत्यादि । एतेन प्रकृते ऐहिकामुष्मिकं फलं कर्मसचिवेभ्यस्तत्तद्दे- वेभ्यो वा, भगवतो वेति संशयः । तत्र तत्र तेषां तेषामुद्देश्यत्वेन श्रावणं 'सर्वस्य वशी सर्वस्ये- शान' इत्यादिश्रुतिश्च सन्देहबीजम् । तेभ्य एवेति युक्तम्, प्रतिनियतत्वादिति पूर्वपक्षश्च बोधितः । एकदेशिमतमनूद्य दूषयन्ति केचित्त्वित्यादि । तत्स्वित्यादि च ॥ ३८ ॥ श्रुतत्वाच्च ॥ ३९ ॥ भाष्यमत्र निगदव्याख्यातम् । माध्वास्तु 'विज्ञानमानन्दं ब्रह्म', 'रातिर्दातुः परायण'मित्युदाहरन्ति ॥ ३९ ॥ धर्मं जैमिनिरत एव ॥४०॥ सूत्रं व्याकुर्वन्ति अत्रेत्यादि । तुल्ये इति । तथाच अत एव,

रश्मिः । यत्प्रयोजनमित्युक्ते रूपस्य विरुद्धधर्माश्रयस्य हीनमध्यमाधिकारिणां मीमांसा प्रयोजनं भजनीयत्व- माहेत्यर्थः । अत्रेति । सूत्रे । ते हीत्यादीति । एवेति । 'सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजन' इति एवकारः । उत्तमाधिकारिणस्त्वफलप्रेप्सवः । 'अनि- मित्ता भागवती भक्तिः सिद्धेर्गरीयसी'ति वाक्यात् । फलदातृत्व एवेति । देवादीनां जीवानां भगवत ईश्वरस्य वा फलदातृत्वे भजनस्यानुग्रहकारणत्वेन भक्तिहेतुनिर्णयग्रन्थे उक्तत्वात् । अत इत्यादीति । ईश्वरादेवेति । नतु जीवदेवेभ्यः । भगवानेवेति । अन्यदीयं नास्ति स्वीयमिति भगवान् । पूर्ववदेवकारो व्याकर्तव्यः । तन्न तत्रेति । कर्मणि । तेषामिति । जीवदेवानाम् । 'सर्वस्य वशी'ति श्रुतिर्बृहदारण्यके । तेभ्य एवेति । जीवदेवेभ्यः, नत्वीश्वरात् । प्रतीति । प्रतिकर्मनिय- तत्वाज्जीवदेवानाम् । तेन 'धर्मं जैमिनि'रिति सूत्रेण पूर्वपक्षो यः सोऽनीश्वरजैमिनिमतेनेत्युक्तम् । केचि- स्त्वित्यादीति । शाङ्कराः ॥ ३८ ॥ श्रुतत्वाच्च ॥ ३९ ॥ निगदेति । इह त्विति । सूत्रे तु । श्रुतिमेवेति । 'अस्या देवतायाः सायुज्यं सलोकतामाप्नोती'ति श्रुतिमेव, नतु स्मृतिम् । चकारेणेयं भाष्ये वक्ष्यते । प्रमाणयति व्यासः । मत्त इति फलदातुः । एवं निगदव्याख्यातम् ॥ ३९ ॥ धर्मं जैमिनिरत एव ॥ ४० ॥ सूत्रार्थमाहुः तथा हीति । अत एवेति सौत्रशब्दौ व्याकुर्वन्ति स्म उपपत्तिश्रवणाभ्यामुक्तसूत्रोक्तहेतुभ्याम् । विध्यर्थेति । विध्यर्थं आज्ञा तस्य ज्ञानं

1726

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९१ न वक्तुं शक्यम् । विधिवैयर्थ्यप्रवृत्त्यनुपपत्तिप्रसङ्गाभ्याम् । तत्सापेक्षत्वे तदे- वास्तु, कृतं तत्सापेक्षेण तेन । नचाचेतनं चेतनाधिष्ठितमेव कार्यक्षममिति केवलेन तेन न फलं सम्भवतीति वाच्यम् । कर्मस्वरूपं स्वर्गादिकं च न लोकसि- द्धम्, किन्तु श्रुतिसिद्धम् । तत्र च स्वर्गादिफलसाधकत्वेनैवोत्पत्तिवाक्येष्वर्थ- वादेषु च 'अग्निष्टोमेन स्वर्गकामो यजेत' 'अग्निहोत्रं जुहोति प्रजाकाम' इत्यादि । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीत्, तेन स परमां काष्ठामगच्छ'दित्यादिषु कर्म श्रूयते । स च तत्साध्यत्वेनैव । एवं सति लोकेऽन्यथा दर्शनेपि धर्मिग्राहकप्रमाणेन तथैव सिद्धत्वान्नात्र काचन शङ्का । ईश्वर- वादिनो नित्यज्ञानादिमत्त्व इव । आमुष्मिकफलत्वेन तत्प्रतिबन्धकापगमे भवती- त्यावयोसुल्यम् । तस्याशुतरविनाशित्वेपि श्रुतिसिद्धकारणतानिर्वाहाय तद्व्यापारो- ऽपूर्वं कल्प्यते । अविषमादीश्वरात् विषमफलोत्पत्त्यनुपपत्तिर्वैषम्यनैर्घृण्ये च स्या- ताम् । अतः कर्मण एव फलमिति जैमिनिर्मन्यते ॥ ४० ॥ भाष्यप्रकाशः। उपपत्तिश्रवणाभ्यामेव हेतुभ्यां धर्मं फलकारणं जैमिनिराचार्यो मन्यत इति सूत्रयोजना । तदे- तत्तौत्यं व्युत्पादयन्ति तथा हीत्यादि । प्रवृत्तीति । विध्यर्थज्ञानोत्तरप्रवृत्तेरनुपपत्तिप्रसङ्गो दूषणान्तरमित्यर्थः । इत्यादीति, कामनावतः कर्माधिकारश्रावणात् स्वर्गकामादिपदैः कर्मफलं श्रूयत इत्यर्थः । स चेति । फलरूपः स्वर्गादिः । अन्यथा दर्शनेपीति । राजादिभ्यः फलप्रा- प्तिदर्शनेऽपि । अत्रेति । वेदबोधिते कर्मणि तत्फले च । नित्यज्ञानादिमत्त्व इवेति । धर्मिग्राहकेत्यादिकमत्रापि सम्बध्यते । ननु यदि कर्मणैव फलम्, तदा तद्व्यवहितोत्तरं कुतो न · जायत इत्यत आह आमुष्मिकेत्यादि । तदिति । स्वर्गादिरूपं फलम् । दूषणान्तरमाशङ्क्य परिहरति तस्याश्वित्यादि । तर्हि तौल्यान्नैकतरस्य फलहेतुत्वनिश्चयः, उभयोः समुच्चयो वेत्या- काङ्क्षायां स्वमतोपष्टम्भायाह अविषमादित्यादि ॥ ४० ॥ रश्मिः। तदुत्तरं प्रवृत्तिः तस्या अनुपपत्तिस्तस्याः प्रसङ्गः । 'भाष्ये । तदिति । कर्म । तेनेति । ईश्वरेण । एवेति । दर्शनादेवकारः । तेनेति । कर्मणा । एवेति । ननु तन्निरपेक्षेण कर्म श्रूयत इत्यग्रेऽन्वयः । उत्पत्तीति । प्रथमज्ञप्तिरुत्पत्तिः । साध्यसाधनत्वेन प्रथमज्ञप्तिः । तद्बोधकवाक्येषु । अर्थवादे- ष्विति । जैमिनिमतत्वादर्थवादपदम् । 'अन्यथा हीतिवाक्ये चतुरक्षरे द्वे पुण्यस्य पापस्य निदानभूते । उच्चारणादेव नृणां मुनीन्द्रा नारायणश्चेत्यर्थवादः' इत्यस्य विरोधः स्यात् । फलसम्बन्धाभावादर्थवादत्व- मित्याशयेनाहुः अग्निहोत्रमिति । प्रकृते । इत्यादीति । कर्मफलमिति । तेनोत्पत्तिवाक्यत्वमर्थवादत्वं चेति भावः । एष यज्ञ इति । अग्निष्टोम इत्यर्थः । 'परमेष्ठिनो वा एष यज्ञोऽग्र आसीद्यदग्निष्टोम' इतिश्रुतेः । राजेति । राजादिभ्यश्चेतनेभ्यः फलं ग्रामधनादि । भाष्ये । तथैवेति । चेतननिरपेक्ष- साधनत्वस्यैव । 'कर्मैके तत्र दर्शना'दिति जैमिनिसूत्रादेवकारः । प्रतिबन्धकेति । शरीराद्यपगमे । परीति । जैमिनिः परिहरति । तस्याश्वित्यादीति । श्रुतिसिद्धेति । व्यापारवदसाधारणं कारण- मित्यर्थः । तस्य भावः कारणता । आहेति । जैमिनिराह । अविषमादीत्यादि । अवीति । सप्तमस्कन्धे 'समः प्रियः सुहृ'दिति वाक्यात् । कर्मण एवेति । जडात्, नतु चेतनादीश्वरात् ॥ ४० ॥ 1727

१९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ११ सू० ४१. पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ तुशब्दः पूर्वपक्षव्युदासार्थः । बादरायणस्त्वाचार्य इतः पूर्वोक्तमीश्वरमेव फलदत्वेन मनुते । कुतः । हेतुव्यपदेशात् । हेतुत्वेन श्रुतौ व्यपदेशादित्यर्थः । 'एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते, एष उ एवासाधु कर्म- कारयति यमधो निनीषत' इति श्रुतौ न केवलं कर्मकारयितृत्वमुच्यते, अपि तु फलदित्सया तया तथात्वम् । अतः फलदत्वमीश्वरस्यैव व्यपदिष्टं भवतीति नानुपपत्तिः काचित् । नन्वीश्वरस्य स्वतः फलदाने समर्थस्य फलदित्सायां सत्यां कर्मकारणे को हेतुः, कार्यवैचित्र्यं च कथमित्यादिचोद्यं 'कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य' इत्यत्र निरस्तम् । विद्वन्मण्डने श्रीविट्ठलेन च । अतः सकामैरपि स एव भजनीयः, नान्य इति सिद्धम् ॥ ४१ ॥ इति तृतीयाध्याये द्वितीयपादे एकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ भाष्यप्रकाशः । पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥४१॥ दूषणमाशङ्क्य तत्परिहारः प्रागेवोक्त इति स्मारयन्ति नन्वित्यादि ॥ ४१ ॥ इत्येकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ रश्मिः । पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ भाष्ये । पूर्वपक्षेति । प्रकाशो- क्तरीत्या व्याख्यानम् । अनीश्वरजैमिनिमते पूर्वपक्षेत्यर्थः । ईश्वरमेवेति । नतु कर्म । उन्निनीषत इति । अन्यत्रोन्निनीपतीति परस्मैपदी । ईश्वरस्यैवेति । नतु कर्मणः । काचिदिति । प्रथमशास्त्रत्वेपि व्यासस्य गुरुत्वात्पूर्वपक्षीकरणेपि न काचिदनुपपत्तिः । प्रागेवेति । कृतप्रयत्नापेक्षसूत्रे । विद्वन्मण्डने चेति योगित्वम् । 'अनागतमतीतं चे'ति वाक्यात् । भाष्ये । अतः सकामैरिति । आदिमम- ध्यमाधिकारिभिरपि । अपिनोत्तमाधिकारी । स विरुद्धधर्माश्रयः । मीमांसितत्वादेवकारः ॥ ४१ ॥ इत्येकादशं फलमत इत्यधिकरणम् ॥ ११ ॥ इति श्रीविट्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण संपूर्ण- वेद्या विट्ठलरायजिद्भातृयगोकुलोत्सवात्मजगोपेश्वरजिता कृते भाष्यप्रका- शस्य तृतीयाध्यायस्य रश्मौ तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥ इति श्रीमत्कृष्णद्वैपायनप्रणीतब्रह्मसूत्रेषु तृतीये उपनिषद्वार्थबोधकताप्रकारनिरूपके साधनाध्याये विषयावृत्तर्निनाम द्वितीयः पादः ।