अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४९ तयोर्युगपत्करणेऽनुपस्थितेपि यदि पूर्वं भगवद्धर्मकरणमुच्यते, तदा त्वदुक्तं स्यात्, नत्वेवम्, किन्तूभयोर्युगपत्करण उपस्थिते बलाबलविचारे क्रियमाणे, भाष्यप्रकाशः । भगवद्धर्मादरे बोधिते भगवद्धर्मकरणे श्रुत्युक्तानां कर्मणां सार्थक्यं नान्यथेत्येवं श्रुतेस्तात्पर्येण उपनयनादिवल्लक्षण्येनैतदङ्गत्वं कर्मणश्च प्राधान्यं सिध्यतीत्याशङ्क्य भक्त्याद्यावश्यकत्वबोध- नतात्पर्यमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति तयोर्युगपदित्यादि । यजुर्ब्राह्मणश्रुतौ भगवज्ज्ञानस्या- वश्यकत्वं बोध्यते । तेन स्वाध्यायावर्तनदशायामपि तदावश्यकता आयाति । ऋक्संहिताश्रुतावपि 'यथाविद्' इति 'जानन्त' इति च स्तोतृविशेषणाद्विधेयस्य भगवद्धर्मस्य करणे ज्ञानस्याधिकारप्रयो- जकत्वं लभ्यते । मन्त्राणां विधायकत्वं तु 'वसन्ताय कपिञ्जलानालभेत'त्यत्र वरैरसङ्गतम् । 'वसन्ता- ये'त्यादीनां न मन्त्रत्वमिति स्वपक्षेपि मन्त्राणां स्वार्थे प्रामाण्यास्याङ्गीकाराद्विधिशक्तिकौण्ठ्याभावे विधायकत्वं न हीयते । अतो मुमुक्षूणां भगवद्धर्मा आवश्यकाः । कर्माणि तु 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण यज्ञेन तपसा श्रद्धया अनाशकेने'ति श्रुतेर्विविदिषायामेवे- पक्षीयानि । ज्ञानपर्यन्तत्वपक्षेप्यारादुपकारकाणीति विविदिषोक्त्यैव लभ्यत इति दूरापास्तं तत्प्राधान्यम् । एवं ज्ञानोत्तरं यत्र कथञ्चिद्वर्णाश्रमधर्मा भगवद्धर्माश्च युगपत्प्राप्ताः, तत्र प्रत्यवा- रश्मिः । सार्थक्यमिति । 'यदेव विद्यये'तिश्रुतेः पूर्वमीमांसाकाङ्क्षा । श्रुतेरिति । यजुर्ब्राह्मणश्रुतेः 'ॐमिति प्रतिपद्यत' इत्यादेः । सिध्यतीति । 'त इमे समासत' इत्यत्र यज्ञायेति शेषं पूरयित्वा सिध्यति । भक्त्यादीति । भक्तिमज्ज्ञानावश्यकत्वबोधनस्य तात्पर्यं ज्ञानकाण्डत्वा'त्तमेतं' मिति श्रौतं ज्ञानकाण्डीयं तात्पर्यमाहेत्यर्थः । तयोरित्यस्यार्थं ऋक्संहितायजुर्ब्राह्मणश्रुत्योरित्याहुः यजुर्ब्राह्मणेति । बोध्यते इति । यज्ञे बोध्यते । आयातीति । ब्रह्मयज्ञत्वादायाति । स्तोत्रिति । ज्ञानस्याधिकारित्यादौ हेतुः । विधेयस्येति । पिपर्तनेतिविधिविषयस्य भगवतोऽधोक्षजत्वाद्भगवद्धर्मस्य करणे ज्ञानस्य स्तोतृविशे- पणस्य । पिपर्तनेतिमध्यमपुरुषान्मन्त्रत्वम् । पूर्वतन्त्रे मध्यमपुरुषान्तस्य मन्त्रत्वोक्तेः । वदाहुः मन्त्रा- णामिति । स्वपक्ष इति । भावार्थपादभाष्ये । एतावता तयोरित्यस्यार्थ उक्तः । अत इति । कर्मणा पूर्तियुक्तं कुरुतेति पिपर्तनेत्यस्यार्थेपि ज्ञानकाण्डेन 'तमेतं वेदानुवचनेने'ति श्रुतिविषयत्वेन सेवाख्यक- र्मणा पूर्तियुक्तं कुरुतेत्यर्थादित्यर्थः । भगवद्धर्मा उक्ता ज्ञानविषयाः । आभासे श्रुतेरुपनायनादिवदित्यादि यदुक्तं तत्राहुः कर्माणि त्विति । 'विविदिषन्ती'त्यत्र रामानुजाचार्यवत्सन्प्रत्ययविवक्षायामाहुः ज्ञानप- र्यन्तत्वेति । आरात् समीप उपकारकाणि कर्माणीति । विविदिषोक्तिर्व्यञ्जनया । सन्प्रत्ययविवक्षोक्तेः । तत्प्राधान्यं कर्मप्राधान्यम् । भाष्यविवरणं तु अनुपस्थितेपीति । अपिनोपस्थिते । त्वदुक्तं कर्मणः प्राधान्यं स्यात्, शास्त्रस्य प्राथम्यात्, नत्वेवम्, शास्त्रप्राथम्यापेक्षया श्रुतिद्वयस्य प्राबल्यात् । 'तमेतं वेदानुवचनेने'ति 'यदेव विद्यये'ति श्रुतिद्वयम् । प्रकृते । किन्तूभयोरिति भाष्यविवरण- माहुः एवं ज्ञानेति । कर्मप्राधान्यज्ञानोत्तरम् । कथञ्चिदिति । कारणत्वेन प्रकारेण भगवति लोकसंग्राहका वर्णाश्रमधर्माः क्रियाशक्तिरूपाः भगवद्धर्मा ज्ञानशक्तिविषयभक्तिरूपाः । 'भगवान्पञ्च- शक्तिमानि'तिवाक्यात् । ज्ञानशक्तेः सविषयत्वात् भगवान्विषय इति चेदुक्ता अपि सन्तु, 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपी'ति वाक्यात् । प्राप्ता इति । भगवति प्राप्ताः । जीवे कथञ्चिन्मार्गग्रहेण प्राप्ताः । प्रत्यवायेति । यथा बलदेवे सूतवधानन्तरम् । आदिना 'मृगोर्ह्यस्त्युपैति स' इति जीवविषये 1885
३५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १४ सू० ४१ . अत आदराद्धेतोस्तद्वचनाद्भगवद्धर्माणां बलवत्त्वेनालोपवचनात् न कर्माङ्गत्वमे- तेषां सिध्यतीत्यर्थः ॥ ४१ ॥ इति तृतीयाध्याये तृतीयपादे चतुर्दशमादरादलोप इत्यधिकरणम् ॥ १४ ॥ भाष्यप्रकाशः । यादिबोधकवाक्यैः प्रबलदुर्बलभावे वैपरीत्येन भाते तदपवादायादरः प्रकाश्यते । ततश्च भगवद्धर्माणां बाधाभावः सिध्यति । तथा सतीतरेषामादराभावेपि प्रत्यवायश्रवणवैय्यर्थ्य- परिहाराय तेषां गौणकाले करणमर्धाधानवद्व्यवस्थाप्यते, अतो न भक्त्यादीनां कर्माङ्गत्वमित्यर्थः । अत्र कर्मणामनादरव्युत्पादनेन भगवद्धर्माविरुद्धरीत्या तत्करणस्य व्युत्पादनेन च निष्कामनित्य- कर्मकृतिबोधकं अपाश्रितार्भकाश्वत्थमिति विशेषणं प्रतिपादितं ज्ञेयम् । रश्मिः । एकादशवाक्योक्तमृत्युप्राप्तेर्निन्दा । वैपरीत्येनेति । बलाबलविचारे ज्ञानकाण्डत्वादुपनयनादिवि- त्याभासोक्तं वैपरीत्यम्, तेन 'यदेव विद्यये'ति श्रुत्या भाते 'तमेतं'मितिश्रुत्या ज्ञानकाण्डत्वेन च तस्य वैपरीत्यस्यापवादाय 'ऋषयोपि देव युष्मत्प्रसङ्गविमुखा इह सम्भरन्ती'त्युपष्टम्भाद्भगवद्धर्मेष्वादरः प्रका- श्यते, नतु वर्णाश्रमधर्मे । इतरेषामिति । वर्णाश्रमधर्माणाम् । अर्धाधानेति । अर्धाधाने कृते कामनासद्भावेपि विधिबलादर्धाधानं क्रियते तस्यैव । गौणकालोऽनधिकारकालो विधिलभ्यः । तदेत- त्षष्ठस्य द्वितीयपादे तृतीयाधिकरणे स्पष्टम् । सूत्राणां न्यायरूपत्वात् । 'असमाप्यं समाप्यं वा काम्यं कामे निवर्तिते । आद्यः प्रयोजनाभावान्नत्यो निन्दादिसंश्रवा'दिति । अत्र 'चित्रया यजेत पशुकामः' 'कारीर्या यजेत वृष्टिकामः' इत्यादिषु कामप्रेरितेन पुरुषेण कर्मोपक्रान्तम् । तस्य च समाप्तेः प्रागेव केनापि निमित्तेन तत्तत्फलप्राप्तौ दोषदर्शनेन कामो निवर्तते । तदा कर्मानुष्ठाने प्रयोजनाभावात् न समापनीय- मिति चेत् । मैवम् । प्रक्रान्तस्य कर्मणोऽसमाप्तौ निन्दाप्रायश्चित्तयोः श्रवणात् । 'देवताभ्यो वा एष प्रवृ- श्च्यते यो यक्ष्य इत्युक्त्वा न यजते' 'त्रैधातवीयेन यजेत न देवताभ्य आवृश्च्यते'ति तदुभयं श्रुतं तस्मा- त्समापनीयमित्यर्थः । ओ व्रश्चू छेदने । अत इति । वैपरीत्यापवादात् । तत्करणस्य कर्मकरणस्य । निष्कामेति । 'कर्माणि साधनत्वेन निरूपयती'ति सुबोधिन्याभासात् । 'अपाश्रितः आश्रितः अर्भका- श्वत्थो येन । आश्रितः पश्चादिति वा । अर्भाणां कं सुखं यस्मात् । बालकसुखदायी । अर्भकरूपः कोमलः अश्वत्थो वा । तस्यैवारणी भवतः । कर्माणि सर्वाणि तत्साधनान्येव । अपाश्रयपदेन च साधनत्वेनैव कर्मणामपेक्षा, नतु तद्गतं फलमप्यपेक्षत इति सूचितम् । अपाश्रिता अर्भका यस्मिन्निति बालाधिकारः कर्मणि सूचित' इति सुबोधिनी । आभासे साधननिरूपणं लोकसंग्रहार्थम् । पश्चादिति । मायाया निवृत्तेः पश्चात् । स चाश्वत्थो धर्मरूपोपि ऐश्वर्यधर्मरूपः अन्ययाकरणसमर्थः । अन्यथा ब्रह्मणा प्रार्थि- तोपि न स्वरूपमन्यथयेत् । वीर्यं तु नाश्येयम् । 'नैच्छद्वपु'रितिवाक्यात् । ननु नित्यानन्दे प्रभासली- लानुपपन्नेत्यत आहुः अर्भानामिति । ऐश्वर्याविशेषेऽधोक्षजो बाल इति न नित्यानन्दत्वविरोधः । धर्मोऽश्वत्थः 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति । स एवैश्वर्यमित्यर्भकरूपः । अधुना लोकसंग्रहार्थं कर्माश्रयणरूपं तेन बृहदारण्यकोक्तोऽश्वत्थः कालात्मा भगवाञ्जातोऽश्वत्थादमिरूपोपि, अश्वत्थे धर्मे तन्नि- ष्ठाश्चे च तिरोभवतीत्यश्वत्थाश्रयणेच्छाया आहुः तस्यैवेति । महीधर्यां वेदटीकायामश्वत्थगर्भशमीशाखा- हरणोक्तेः । तत्साधनानीत्यरणिकाष्ठानयनसाधनानि साक्षात्परम्परयेति बोध्यम् । अपाश्रित आश्रित इत्यर्थ उक्तोऽपररी अनर्थकाविति सूत्रात् । अधुनाऽपार्थ हीनं वदन्ति अपाश्रयेति । कर्मणा- 1886
An exact line-by-line transcription of the Sanskrit text from the provided image:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५१ तन्निर्धारणानियमस्तदृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥ (३-३-१५.) अथेवं विचार्यते । पुरुषोत्तमविदः कर्म कर्तव्यम्, न वेति । तत्र मार्गत्रयफलात्मके तस्मिन् सम्पन्ने पुनस्तस्य खतोऽपुरुषार्थस्य करणम- प्रयोजकमिति न कर्तव्यमेवेति पूर्वपक्षः । तत्र सिद्धान्तमाह तन्निर्धारणेत्यादिना । अत्रेद्माकूतम् । भक्तिमार्गे हि मर्यादापुष्टिभेदेनास्ति द्वैविध्यम् । तत्र मर्यादायां पुष्टौ चैतादृशस्य न कर्मकरणं सम्भवति । अत एव तैत्तिरीयोपनिषत्सु पठ्यते 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । 'एत ँ ह वा व न तपति किमह ँ साधु नाकरवं किमहं पापमकरवमिती'ति । श्रूयते चोभयविधानामपि कर्मकरणमम्बरीषोद्धवपाण्डवा-
वीनाम् । एवं सत्युभयविधानां मध्ये, मम कर्मकरणे प्रभोरिच्छास्तीति यो निर्धारयति, स करोति । य एतद्विपरीतम्, स न करोति । यथा शुकजडादिः । एतन्निर्धारणश्च भगवदधीनः, अतो भक्तेष्वपि तन्निर्धारणानियमः, अतः कर्म कर्तव्य- मेवातन्निर्धारणे त्वाधुनिकानाम् । एवं सतीच्छाज्ञानवता तत्सन्देहवता च कर्म कर्तव्यमिति सिद्धम् । तत्रोभयोः फलं वदन्नादावाद्यस्याह तद्दृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्य स तथा । तस्य जीवकृतकर्मफलात् पृथक् भिन्नमीश्वरकृतकर्मणो यत्फलं वेदमर्यादारक्षा लोकसंग्रहश्च तत्फलमित्यर्थः । हिशब्देन 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्त- श्चिकीर्षुर्लोकसंग्रह'मिति भगवद्वाक्यरूपोपपत्तिः सूचिता । द्वितीयस्य मध्यमा- धिकारात् काले सङ्गादिजनितचित्तमालिन्येन भगवत्सांनिध्ये प्रतिबन्ध
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५३ अथवा । पूर्वसूत्राभ्यां भगवद्धर्मकृतेरावश्यकत्वमुक्तम् । सर्वात्मभाववतो भाष्यप्रकाशः। अत्र भगवत्स्वरूपविषयकपूर्णज्ञानवतामेव तदिच्छया वर्णाश्रमधर्मकरणतदकरणयोर्विभजनात् पूर्णज्ञानप्राप्यत्वबोधकं अकृशमिति विशेषणं प्रतिपादितं ज्ञेयम् । न कृशं यस्येति तदर्थादिति । एवमेतत्सूत्रव्याख्याने प्रत्यवायश्रवणादिना गौणकालेऽप्यवश्यकर्तव्यतया पूर्वाधिकरणे साधितानां कर्मणां वैयर्थ्यपरिजिहीर्षया फलस्य वक्तव्यत्वेन पृथग्ध्यप्रतिबन्धः फलमिति सूत्रभागसार्थक्यमायाति, न सम्पूर्णस्य सूत्रस्येत्यरुच्या व्याख्यानान्तरार्थं सूत्रमवतारयन्ति अथवेत्यादि । पूर्वसूत्राभ्यां भगवद्धर्माणां मोक्षफलानां श्रवणादीनां कृतेः करणस्यावश्य- कत्वमुक्तम्, यः पुनः सर्वात्मभाववान्, तस्य तूक्तभगवद्वचनात्, तं प्रति मोक्षसाध- रश्मिः। भगवदिति । इच्छाया भगवन्निष्ठत्वेन तन्निष्ठसत्ताया अपि परम्परया भगवन्निष्ठत्वेन विषयविधया भगवद- धीनत्वम्, मुख्यत्वात्, इतरयोश्च विशेषणत्वात् । ननु प्रभोरिच्छास्तीत्यत्र प्रभुसम्बन्धीच्छानिष्ठः सत्तानुकूलो व्यापार इति वैयाकरणबोधतः कथमितरयोर्विशेषणत्वमिति चेत् । न । अनौचित्याद्भगवतो विशेषणत्वे सखण्डब्रह्मवादेन । एतद्भगवदधीनपदेन सूच्यते । एतत्फलमाहुः अतो भक्तेष्विति । येषां पुनर्भग- वान् साधनं फलं च तेष्वपीत्यर्थः । तादृशेष्विच्छासत्तयोरभावात् । तथा चैतन्निश्चयस्य ज्ञानरूपस्य सकलभक्तसाधारणं भगवदधीनत्वमुररीकार्यमिति भावः । नचान्योन्याश्रयः भगवदधीनो निर्धारः निर्धा- राधीनो भगवान् साधनमिति ज्ञानमिति वाच्यम् । पूर्वं कर्मकरणनिर्धारेण कार्येणाधीनस्य भगवत्सा- धनमस्ति कारणं विना कार्याभावादिति भगवात्साधनमिति पश्चाज्ज्ञानस्य सम्भवेनान्योन्याश्रयाभावात् । भाष्ये । वेदेत्यादि । इदं गीतातृतीयाध्याये 'लोकसङ्ग्रहमेवापि संपश्यन्कर्तुमर्हसी'ति लोकसङ्ग्रहः । 'यद्यदाचरति श्रेष्ठ' इत्यारभ्य 'उपहन्यामिमाः प्रजा' इत्यन्तेन वेदमर्यादारक्षा । ननु 'न कुर्यां कर्म चे- दह'मितीश्वरं प्रति व्यतिरेकमुखेन विधिरस्ति तत्र गीतायां अर्जुनं प्रति लोकसंग्रहकथनवद्वेदमर्यादारक्षा- प्युक्ता न सर्वान्तर्याह्यसेत्याकाङ्क्षायां हिकारस्यार्थमाहुः हीति । अत्र विद्वांसं प्रत्याज्ञास्तीति नोक्तदोष इत्यर्थः । भगवद्वाक्येन रूप्यते व्यवह्रियत इति भगवद्वाक्यरूपा उपपत्तिः युक्तिः । यदीदं भगवद्वाक्यं न स्यात्, उक्तदोषः स्यादिति अव्ययानां वैयाकरणमते द्योतकत्वात्सूच्येतेति । प्रकृते । भगेत्यादि । पूर्णेति । 'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत' इति श्रुत्या पूर्वं पूर्णं भगवता भक्तमनोरथयानुरूपं पूर्तिकर्मज्ञानं तद्वताम्, विभजनात् अम्बरीषाद्युदाहरणसमर्थितात् । अकृ- शमिति । (अकृशमिति ज्ञानम्, पूर्णत्वात्, अन्येषां परिच्छेदरूपत्वात् । अनेन पूर्णमेव ज्ञानं साधनमिति, न तु खण्डब्रह्मज्ञानानि शारीरकादीनि । सर्वेषां भक्तानामुपसंहृतत्वात् दौर्बल्यमाशङ्क्य निराकृतम् । भक्तानां तत्रैव प्रवेशात् । अनेनान्येपि दैहिका धर्मा निवारिताः । उत्पत्तिकार्यंतपस्यादीनि चाक्षर- साम्यात् निवारितानि । 'अस् भुवि' 'डुकृञ् करणे' 'शम उपशमे' इति धात्वादयो गृहीताः । प्रपञ्च- कर्मज्ञानानि वा ज्ञानसाधनानि, ततः ससाधनं ज्ञानमुक्तं भवति ।) तथाचायं सूत्रार्थः । मम कर्म- करणेऽकरणे वा भगवदिच्छास्तीति निर्धारणाञ्जिज्ञासाद्यनुष्ठानिकानाम्, अतस्तैर्निष्कामतया कर्म कर्तव्यमेव । तदृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्याम्बरीषोद्धवयुधिष्ठिरादेस्तस्य पृथक् जीवकृतकर्मणो यत्फलं तस्माद्भिन्नं सन्मार्ग रक्षालोकसङ्ग्रहादिकं तदेव फलम्, न तु स्वर्गादिकम् । पूर्वोक्तनिष्कामकर्मकर्तुस्तु अप्रतिबन्धः कर्मजप्रतिबन्धाभावः फलं युक्तमिति । इदानीं मुख्यायाः एकादशसर्वस्वत्वेन सर्वनिर्णये उक्तायाः न्यूनताख्यनिग्रहस्थाननिवारिकायाः प्रसङ्गतः प्रस्तावनामाहुः य इति । उक्तेति । भाष्योक्तभग- ४५ ब्र० सू० २० 1889
३५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १५ सू० ४२. 'न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति भगवद्वचनाद्विधेयाभावादसम्भवाच्च कर्मज्ञानयोर्विहितभक्तेश्च करणं न सम्भवतीति तस्य किं फलमित्याकाङ्क्षापूरणाय तदनुवदति तन्निर्धारणेत्यादिना । तस्मिन् धर्मिण्येव, न तु धर्मेष्वपि दृष्टिरस्य स तथा । दृष्टिपदेन ज्ञानमात्रमुच्यते । तेन अन्यविषयकदर्शनश्रवणादिज्ञानाभाव उक्तो भवति । एतादृशस्य प्रभुसङ्गममात्रमपेक्षितम् । तत्र भगवदुक्तस्वसङ्गमाव- धिकस्य भक्तस्य सङ्गमसमयनिर्धारो भवति । अतादृशस्य तस्य स नेति तन्निर्धा- रणानियमः । एतेन फलप्राप्तेः प्रागवस्थोक्ता भवति । फलस्वरूपमाह पृथक्फल- मिति । अस्यानिर्वचनीयत्वादनुभवैकवेद्यत्वान्मोक्षान्तं यत्फलं शास्त्र उक्तं तस्माद्भिन्न
तत्फलस्यानिवार्य्यता युक्तैवेति हिशब्देनाह। ज्ञानमोक्षादिना तद्भावाप्रतिबन्धश्च फलमित्यर्थः । प्रासङ्गिकमेतत्सूत्रम् ॥ ४२ ॥ इति तृतीयाध्याये तृतीयपादे पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ भाष्यप्रकाशः। बन्धाभावश्च फलमिति भक्तिविचारे मुख्यभक्तेरपि स्मृत्या प्रसङ्गत उक्तमित्यर्थः । अस्मिन् इदं केवलं सूत्रमेव, न त्वधिकरणम् । एतज्ज्ञापनायोक्तमेतत्सूत्रमिति । अत्रान्ये तु, 'ओमित्येतदक्षरमुद्गीथमुपासीते'त्यादीनि कर्माङ्गान्यपासनानि तत्तत्कर्मसु जुहूपर्णतादिवन्नित्यं क्रतुसम्बन्धीनि न वेति शङ्कायां न नित्यानीति सिद्धान्तयन्ति । 'अङ्गेषु यथाश्रयभाव' इत्यन्तिमाधिकरणं चैतस्यैव प्रपञ्च इत्याहुः । तत्तेनैवास्य गतार्थत्वाद्वैयर्थ्यमस्य सूत्रस्य तन्मते दुर्वारमिति ज्ञेयम् ॥ ४२ ॥ इति पञ्चदशं तन्निर्धारणाधिकरणम् ॥ १५ ॥ [
३५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १६ सू० ४३. प्रदानवदेव तदुक्तम् ॥ ४३ ॥ (३-३-१६.) अथेवं विचार्यते । सर्वात्मभावो विहितकर्मज्ञानभक्तिसाध्यः, न वेति । तत्र पुराणे 'तस्मात् त्वमुद्धवोत्सृज्ये'त्युपक्रम्य, 'मामेकमेव शरणमात्मानं सर्व- देहिनाम् । याहि सर्वात्मभावेन यास्यसे ह्यकुतोभय'मिति वाक्ये मुक्त्यात्मका- कुतोभयसाधनरूपशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनेन स्वप्रयत्नसाध्यत्वं गम्यते । अतः साधनसाध्य इति पूर्वः पक्षः । तत्र सिद्धान्तं वक्तुं तदुपदेशस्वरूपमाह प्रदानवदिति । यद्ययं साधनोपदेशः स्यात्, स्यात्तदा साधनत्वेन सर्वात्मभावेन शरणप्राप्तेः स्वकृतिसाध्यत्वम्, न त्वेवम्, किन्तु, तदुक्तं भगवदुक्तम् । प्रदानवत् । प्रकृष्टं दानं प्रदानं वरदानमिति
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिबद्ध लिप्यन्तरण है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५७ स्फूर्त्या तद्भावाभाव्येन गुणगानादिसाधनेषु कृतेष्वप्यप्राप्तौ स्वाशक्यत्वं ज्ञात्वा प्रभुमेव शरणं गच्छति, एतच्च न स्वकृतिसाध्यमिति सुष्टूक्तं प्रदानव- दिति । भक्तस्येप्सितोऽर्थो हि वरो भवति । सर्वात्मभावस्यानुभवैकवेद्यत्वेन भाष्यप्रकाशः। तत्तुल्यत्वमित्याकाङ्क्षायामाहुः भक्तस्येत्यादि । स्पष्टम् । नन्वेवमपि शरणगतेरेव स्वकृत्यसाध्यत्वं रश्मिः । स्म प्रकृष्टमिति । अयं न विग्रहः एकादशसर्वस्वत्वेनोक्तार्थजातस्य प्रकृष्टदानकर्मत्वेन प्रकृष्टदानतु- ल्यत्वाभावादत आहुः वरेति । वरस्य सिद्धस्य न तु साधनसाध्यस्य दानं वरदानमिति षष्ठीतत्पुरुषः । तथाच वरस्य सिद्धस्य कथनरूपदानमिव तदुक्तं भगवदुक्तं भगवत्कथनमिति यावदित्यर्थः । नच प्रकृष्टस्य दानमिति भाष्यापत्तिरिति वाच्यम् । प्रकृष्टं दानं वरस्य दानमित्यनयोः पर्यायत्वात् । एवेति । ‘आत्मानं च स्वयं वेद तस्मादन्यवचो मृषे’ति निबन्धात् । ननु वरदानं साधनमेव तेनापि फलवता वर्त्यत इति चेत् , तत्राहुः वरेणेति । स्वकृतिसाध्यसाधनत्वं साधनत्वम् । स्वकृत्यसाध्यसाधनत्वं तु न । अनुग्रहवद्वरदान- स्यापि भगवद्धर्मत्वात् । सर्वात्मभावे स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पादनं दानं न यतः । प्रकृष्टमभीष्ट- मिति यावत् । भगवतोऽभीष्टम् । ‘ईप्सितत्वासम्भवेपी’ति वक्ष्यमाणभाष्यात् । तथेति । साधनेतरत्व- प्रकारेण वरकथनरूपं दानम् । ‘युक्तं भगैः स्वरितरत्र चाध्रुवै’रिति वाक्यात् । वरदानं भगवन्निष्ठं साधनं भक्तनिष्ठमिति विभेदः । प्रायस्तत्तत्फलं प्रति तत्तन्निष्ठस्यैव साधनत्वम् । क्वचिदेव पितृनिष्ठ- प्रायश्चित्तेन पुत्रनिष्ठा शुद्धिः । ननु मुख्यभक्तावपि दाढ्यार्थं ‘कामादीतरत्र’सूत्रोक्तकामादीनां तेभ्य एव मुक्तिसाधकानां का गतिरिति चेत्, तत्राहुः शत्त्वित्यादि । शत्रुसंहाराभ्यां भयं तदादिना, आदिना द्वेषः । न पुरुषार्थत्वमिति । किन्तु क्रत्वर्थत्वम्, क्रतूपौष्कल्याय विधीयते, या प्रयाजादिवत् शरणाप्तिः, सा क्रत्वर्था भगवत्सम्बन्धरूपक्रत्वर्था । मुख्यभक्तिदार्ढ्यार्थत्वेन मुख्यभक्तिरूपक्रत्वर्था वा । ननु क्रतुर्धर्मो यज्ञ इति यावत्, तत् कथं मुख्यभक्तेः क्रतुत्वमिति चेत्, न, ‘अप्रतीकालम्बन’सूत्रे तत्क्रतुपदस्य ‘प्राचीनभगवद्भजनलक्षणक्रतुश्च नीयत’ इति भाष्यात् । नहि भयादिना शरणाप्त्या पुरुषस्य कश्चित् प्रीतिविशेष उत्पद्यते, येन पुरुषार्था भवेत् । मुख्यभक्तिलक्षणक्रतुस्तु न क्रत्वर्थः, स्वस्यैव क्रतुत्वात् । पुरुषप्रीतये विधीयमानाः पुरुषार्थाः यथा मुख्यभक्त्यादयः । प्रकृते । शत्त्वा- दीति । पुरुषार्थत्वमित्यन्वयः । यथा गोदोहनादेः पुरुषार्थत्वम्, न क्रत्वर्थत्वम्, चमसेनापि क्रतूपौ- ष्कल्यसिद्धेर्गोदोहनाभावेपि । एवं शत्त्वादिभयन्निवृत्त्यभावेपि तद्द्वयेन मुख्यभक्तिलक्षणक्रतूपौष्कल्य- सिद्धेः । एतच्च पूर्वमीमांसायां चतुर्थाध्याये स्फुटम् । अर्थस्येति । सर्वात्मभावेन मुक्त्यात्मकाकुतोभय- साधनरूपशरणप्राप्तिकथनरूपसुसिद्धच्यरूपवाक्यस्योक्तं कथनं स एवार्थस्तस्य । एकतिङ्वाक्यमिति पक्षे वाक्यद्वयोक्तार्थस्य । प्रदानेति । वरस्य यद्दानं तत्तुल्यत्वम् । यथा वरस्य सिद्धस्य दानं कथनं ‘मयेमा रंस्यथ क्षपाः’ इति कथनम् । तथा तादृशशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनमिति प्रदानतुल्यत्वम् । एतादृशमिति । ‘तानि पर’ इति सूत्रभाष्योक्तं भगवन्मतसिद्धं च शरणगमनं सर्वात्मभावस्य स्वकृत्य- साध्यत्वेन तत्पूर्वकरीत्या, न स्वकृतिसाध्यमित्यर्थः । प्रदानवदित्यत्र । डुदाञ् दाने भावे घञ् । प्रथ- मान्ताद्वतिः । तेन सर्वात्मभावेन मुक्त्यात्मकाकुतोभयसाधनरूपशरणप्राप्तिकथननरूपवाक्यस्योक्तं कथनम्, स एवार्थो वरदानेन ‘मयेमा रंस्यथ क्षपा’ इति वरस्य कथनेन तुल्यः । अस्येति । भावस्यास्येति योजना । भावस्य सर्वात्मभावस्य सम्बन्धिनोऽस्य प्रत्यक्षस्य कथनस्येत्यर्थः । प्रदानत्वं वरस्य दानत्वं कथनरूपम् । स्पष्टमिति । ईप्सितत्वासम्भवे भक्तेन मह्यं सर्वात्मभावं देहीति स्वानुभ- 1893
पूर्वमज्ञानेनेप्सितत्वासम्भवेपि स्वत एव कृपया ऽदानमिति वदित्युक्तम् । अथवा । 'सर्वात्मभावेन मां याही'ति सम्बन्धः । यद्वा । प्रदानवद्वित्यस्य पूर्ववदेव व्याकृतिः । तत्र साधनासाध्यत्वे प्रमाणमाह तदुक्तमिति । 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य' इति श्रुत्या वरणातिरिक्तसाधनाप्राप्यत्वमुक्तयत इति तत्तथैवेत्यर्थः । भाष्यप्रकाशः । सिद्ध्यति, न तु सर्वात्मभावसेत्यतो वाक्यस्य योजनान्तरमाहुः अथेत्यादि । शरणपदं मामित्यस्य विशेषणम् । तथाच सर्वात्मभावसैव प्रदानतुल्यत्वं निराबाधमित्यर्थः । यद्यपि 'गतेरर्थवत्त्व'मित्यारभ्य सर्वोपि वरणश्रुतेरेव प्रपञ्चः, तथाप्यत्र पुराणवाक्यमात्रस्य विषयत्वेनो- पन्यासेनापाततः पौराणत्वशङ्का अस्य विचारस्य स्यादिति तन्निरासाय सूत्रार्थं प्रकारान्तरेण
साधनकक्षप्राप्तिबोधकमेकादशस्कन्धीयं भगवद्वाक्यं वरणलभ्यत्वबोधकश्रुत्यर्थनिर्णायकत्वादुप- न्यस्तम्, अतो न विचारस्याश्रौतत्वमित्यर्थः। एवं चात्र सर्वात्मभावोक्तिसन्दर्भे 'रामेण सार्ध' मित्यत्र 'मय्यनुरक्तचित्ता' इति भक्तविशेषणादिभ्योऽनुरागात्मा भगवददर्शने तीव्रवियोगा- धिप्रभृतिजनको विगाढभावः परमासक्तिरूपो य उक्तः, स सर्वात्मभावः शरणागतिकारणत्वे- नाभिप्रेतार्थत्वात्। वरणेत्यादि। वरण(लभ्य)लभ्यत्वं मध्यमपदलोपी समासः। उक्तवाराहवाक्यात्। तद्बोधकश्रुत्यर्थनिर्णायकत्वादित्यर्थः। ननु 'याहि सर्वात्मभावेने'ति वाक्ये सर्वात्मभावपदेनैकाद- शसर्वस्वकथनान्तर्गतेनैकेन कथं श्रुतीनां बह्वीनां सर्वात्मभावपरत्वम्, सर्वात्मभावपदस्य समासान्तरे- रण्यविधसर्वात्मभावपरत्वे प्रकृतसर्वात्मभावानुपोद्वलकत्वादित्याशङ्कायामेकादशद्वादशाध्यायसन्दर्भमाहुः एवं चेत्यादि। तथा च सर्वात्मभावोक्तिसन्दर्भे वर्तत इत्यदोषः। उपपाद्यांशमाहुः रामेणेति। अत्र समासनिश्चयोपि भविष्यति। परमासक्तिरूप इति। 'आसक्तिः प्रेम्णो भावकन्दलरूपादुत्तरं तादृशे प्रेम्णि तत्करणेन तदुत्कर्षावस्था रागादिरूपे'ति भक्तिवर्धिनीविवृतौ श्रीपुरुषोत्तमकृतायाम्। 'स्वविषये विविधमनोरथजनको भाव आसक्ति'रिति श्रीकल्याणरायाः। बद्धधीर्वा अत्र सन्दर्भ इति पदद्वये द्वादशा- ध्यायोक्तेः। अत्रातिव्याप्तिवारणाय परमेति। परमत्वं परज्ञानकरणत्वं अनुषङ्गत्वं वा 'अनु- षङ्गबद्धधिय' इति द्वादशाध्यायवाक्यात्। एवमपि परज्ञानकरणाक्षरज्ञानासक्तावति
नोपदिष्ट इति सिध्यति । तत्र परमासक्तिश्चानन्दजन्यैव । लोके आनन्दजनक एवासक्तिदर्शनात् । एवं च यत् यज्जनकम्, तत्तद्गुणकं तत्तदात्मकं चेति व्याप्तेः पूर्वं सिद्धत्वात् । 'सर्वोऽपि आत्मनो भाव' इति सुबोधिन्यां व्याख्यानात् । श्रुतौ निरवद्यानन्दरूपत्वेन रसरूपत्वेन पुत्रादिभ्योऽपि प्रेयस्त्वेन च सिद्धस्यात्मनो यो भावो धर्मः प्रियत्वाख्य आनन्दात्मा, यन्मात्रां सर्व उपजीवन्ति, स सर्वस्तदंशिभूतो भगवद्धर्म ऐश्वर्यादिवदतिरिक्त एव ज्ञेयः । तस्य दानं त्वानुभावनम् । युक्तं चैतत् । अन्यथा सर्वेषामेव तथा स्फुरेदिति । अतो विगाढभावेन इति सूत्रेण आत्मसर्वभाव इत्यापत्तिः । सर्वं च आत्मा च भावश्चेत्येतेषां समाहार इति समाहारद्वन्द्वोपि न । नपुंसकत्वापत्तेः । अव्ययीभावोपि न । अव्ययीभावश्चेत्यव्ययप्रसङ्गात् । द्विगुरपि न । सङ्ख्यापूर्व- त्वाभावात् । शरणेति । पूर्व
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३ भगवदुक्ताकुतोभयपदस्य न मुक्तिरर्थः, किन्तु 'यतो वाच' इत्यादिनानन्दस्य स्वरूपमुक्त्वा 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति श्रुत्युक्तं यत्पूर्वोक्तं रसात्मकपुरुषोत्तमभजनानन्दानुभवोत्तरकालीनमकुतोभयं तदर्थः ॥ ४३ ॥ इति तृतीयाध्याये तृतीयपादे षोडशं प्रदानवदित्यधिकरणम् ॥ १६ ॥ भाष्यप्रकाशः। सर्वत्र तथानुभवरूपं यत्कार्यं तादृशः प्रियत्वानुभवः सर्वात्मभाव इति फलति । तेन भगवद्धर्म- विगाढभावतथास्फूर्तिषु सर्वात्मभावप्रयोग आधिदैविकादिभावो ज्ञेयः । ननु पूर्वोक्त- वाक्ये अकुतोभयसाधनत्वेन शरणागतेर्वा सर्वात्मभावपूर्वकस्वप्राप्तेर्वापदेशः । अकुतोभयं चाक्षर- प्राप्तिरूपा मुक्तिरेव । 'अभयं वै जनक प्राप्तोऽसी'त्यादिश्रुत्या निश्चीयते । एवं सति सर्वात्म- भाव
३६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १६ सू० ४३. भाष्यप्रकाशः । रसरूपतायाः प्रतिपादितत्वादस्याः श्रुतेरुक्तविध एवार्थ इति निश्चीयते । ततश्च तत्र योऽर्थो 'न बिभेति कुतश्चने'ति वाक्येनोक्तः, सोऽत्राकुतोभयपदेनोच्यत इति नात्र त्वदुक्तयुक्ति- गन्धोपि । किञ्च । भगवद्वाक्येपि 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखे'ति तादृशेऽधिकारिणि परमगोप्यकथनं स्वत एव प्रतिज्ञाय, 'केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसे'ति श्लोके भावेन बहूनां स्वप्राप्तिमुक्त्वा, ततः को भाव इत्याकाङ्क्षायाम्, 'रामेण सार्धं मधुरां प्रणीत' इत्यादिश्लोकचतुष्टयेन भावस्य भक्तिरूपं स्वरूपं ज्ञापयितुं विगाढभावात्मिकां तत्काष्ठाम्, तया काष्ठया परब्रह्मरूपस्वप्राप्तिं स्वरूपज्ञानाद्यभाववतां बहूनामुक्त्वा, तदनन्तरं 'तस्मा'दित्यादिवाक्यद्वयेन स्वप्राप्त्यकुतोभयाप्ती अवदत् । तेनोक्तश्रुत्युक्तरसात्मकब्रह्मानुभवोत्तर- कालीनतैवाकुतोभयस्य स्फुटतीति न पूर्वोक्तार्थे द्रविडमण्डकमित्यर्थः । अत्र सर्वात्मभावस्य वरणातिरिक्तसाधनासाध्यत्वनिरूपणेन इतरत्र वैराग्यबोधकस्य त्यक्तपिप्पलमित्यस्य विशेषण- स्यार्थो बोधितो ज्ञेयः । अन्ये तु । वाजसनेयकादौ व्रतमीमांसादावध्यात्मधिदैवतयोः श्रावितौ प्राणवायू पृथगुपगन्तव्यावपृथग्वेति सन्देहे, तत्त्वाभेदादपृथगिति प्राप्तौ, आध्यानार्थादुपदेशभेदात् पृथगिति सिद्धान्तयन्ति । स च निरूपणप्रकारभेदेन 'नानांशब्दा'दिति सूत्रेण च सिध्यतीति नेदं सूत्रमाकाङ्क्षतीति दिक् ॥ ४३ ॥ इति षोडशं प्रदानवदित्यधिकरणम् ॥ १६ ॥ रश्मिः। तल्लेखे विवृतोऽयं न्यायः । रसरूपताया इति । 'रसो वै स' इति श्रुतेरित्यर्थः । 'रस आस्वादने' इत्यस्य रूपम् । व्याख्यानान्न तु 'रस शब्द' इत्यस्य । अस्तु । ईश्वरत्वात् । तादृशे भृत्यादिसदृशे । स्वत एवेति । उद्धवप्रश्नं विना प्रतिज्ञा कृपालुत्वं द्योतयति । तत्काष्ठामिति । भावप्रकर्षम् । 'काष्ठा दारुहरिद्रायां कालमानप्रकर्षयो'रिति विश्वात् । परब्रह्मेति । 'मत्स्वरूपविदोबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रश' इति वाक्याद्बहूनां शतसहस्राणामित्यर्थः । नेति । मुक्तिस्कन्ध- सर्वस्वत्वाच्च । वरणेत्यादि । वरणजसर्वात्मभावातिरिक्तानि साधनानि तैर साध्यत्वनिरूपणेनेत्यर्थः । मध्यमपदलोपी समासः । इतरत्रेति । साधनेषु षोडशाधिकरण्या विशेषणमाहुः त्यक्तेति । त्यक्तं पिप्पलं कर्मफलं येन वैराग्यमेतत् । कर्मफलं पिप्पलस्य सुबोधिन्यामुक्तम् । अन्ये त्विति । शङ्कराचार्यादयः । तत्त्वेति । 'यः प्राणः स वायु'रितिश्रुतेः । आध्यानेति । आध्यानार्थो ह्ययमाध्यात्मिकाधिदैवभागोपदेश इति शङ्करभाष्यात् । ननु निरूपणं प्रकारभेदेपि 'यः प्राण' इत्युक्तश्रुतेः प्राणवाय्वोर्निरूपणप्रकाराभेदान्न सिध्यतीति पाक्षिकदोषशङ्कायामाहुः नानेति । इदं सूत्रं वक्ष्यमाणम् । न च नानाशब्दादिभेदादिति सूत्रे यः प्राणः स वायुरितिवदुपास्यभेदो नास्तीति शङ्क्यम् । तत्रोपास्याभेदेपीति भाष्यात् । सूत्रार्थस्तु प्राणवायू आध्यानार्थं पृथगुपगन्तव्यौ एकादशकपालप्रदानवत् । यथा 'इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे' इत्यत्र पुरोडाशनिष्पत्तौ राजादिगुणभेदात् यथान्यासमेव देवतापृथक्त्वात् प्रदानपृथक्त्वं भवति । एवं तत्त्वाभेदेपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वम् । तदुक्तं संकर्षे 'नाना वा देवता पृथग्ज्ञाना'- दिति । संकर्षो देवताकाण्डं तत्रेत्यर्थः । वाकारोऽवधारणे ॥ ४३ ॥ इति षोडशं प्रदानवदित्यधि- करणम् ॥ १६ ॥ 1898
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३ लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥ ( ३-३-१७. ) ननु प्रतिबन्धककालादृष्टादिसद्भावेपि वरणकार्यं स्यात्, उत तन्निवृत्ताविति संशये, प्रतिबन्धकाभावस्य सर्वत्र हेतुत्वात् तन्निवृत्तावेव तथेति पूर्वपक्षे, सिद्धा- न्तमाह लिङ्गेत्यादिना । सामोपनिषत्सु नवमे प्रपाठके सनत्कुमारनारदसंवादे प्रथमत एव मुख्या ब्रह्म- भाष्यप्रकाशः। लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥ पूर्वाधिकरणे सर्वात्मभावरूपाया मुख्यभक्तेर्वरणैकलभ्यत्वं स्थापितम्, वरणश्रुतौ तु परमात्मनो वरणैकलभ्यत्वमुच्यते, न तु सर्वात्मभावस्येति कथमस्य तत्प्रपञ्चत्वमिति शङ्कायां तस्य वरणैकलभ्यत्वं पुनर्द्रढीकर्तुं तत्स्वरूपं च श्रुत्या विवेक्तुमधिकरणान्तरं प्रणयतीत्याशयेन तदवतार
विद्योपदेशार्हो न भवतीति ज्ञात्वा, सनत्कुमारो नारदाधिकारं च ज्ञातुं 'यद्वेत्थ तेन मोपसीदे'त्युक्तो नारदः स्वयं विदितमृग्वेदादिसर्पदेवजनविद्यान्तमुक्त्वा, 'सोऽहं भगवो मन्त्रविदेवास्मी'ति स्वाधिकारमुक्त्वा, आह 'नात्मविच्छ्रुतं ह्येवमेव भगवद्दृशेभ्यस्तरति शोकमात्मविदिति, सोऽहं भगवः शोचामि तं भाष्यप्रकाशः 'उपसीदे'ति श्रौतस्य पदस्य 'तं होवाचे'ति श्रौतेनैव पदेनान्वयः । 'यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति होवाच ।' यत्त्वं जानासि तत्कथनेन मदुपसन्नो भव, स्वाधीतं वद; ततोऽतिरिक्तं तुभ्यं कथयिष्यामीत्युक्तवान् । तदा इत्युक्तः सनत्कुमारेण नारदः स्वविदितं ऋग्वेदादिसर्पदेवजनविद्यान्तं आह । अत्र ऋग्वेदादिपुराणान्त
मां भगवाञ्छोकस्य पारं तारयत्वि'ति नारदेनोक्तः सनत्कुमारः पूर्वस्मात्पूर्वस्माद् भूयो वदेति पृष्टः, भूयःपदमधिकार्थकम्, नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञान- बलान्नापस्तेजआकाशस्मराशाप्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्त्वा, प्राणो- ब्रह्मत्वेनोपासनं तत्फलं च पूर्ववदुवाच, तत्र भूयःपदं न बाहुल्यार्थकम्, नापि पुनरर्थकम्, किन्त्वाधिक्यार्थकम्, आधिक्यमुत्कर्षस्तदर्थकमिति तत्तन्माहात्म्यकथनादवसीयते, एवं नामवाङ्मा- नःसङ्कल्पचित्तध्यानविज्ञानबलान्नापस्तेज आकाशस्मराशा उक्ताः। तत्र नामवाचौ प्रसिद्धौ, मनो मननव्यापारविशिष्टमन्तःकरणम्, मननव्यापारश्च विवक्षात्मकः। सङ्कल्पोपि कर्तव्या- कर्तव्योर्विषयसमर्थनरूपस्तादृशान्तःकरणस्यैव वृत्तिविशेषः। चित्तं चेतयितृत्वं प्राप्तकालानुस- न्धानवत्त्वम्, अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च। ध्यानं शास्त्रोक्तदेवतालम्बनो विजातीयानन्तरितः प्रत्ययसन्तान एकाग्रतापरपर्यायः। चिरकालस्थायिज्ञानवादे तु तादृश एक एव प्रत्ययो बोध्यः। विज्ञानं शास्त्रार्थविषयकं विशिष्टज्ञानम्। बलं अन्नभक्षणजनितं मनसो विशेयविभावनसामर्थ्यम्। अन्नमापस्तेज आकाशश्च प्रसिद्धाः। स्मरः स्मरणं अप्रयत्नश्चित्तव्यापारः। आशा अप्राप्तवस्त्वाकाङ्क्षा तृष्णाकामाद्यपरपर्याया। एवमेतेषां स्वरूपमुपनिषद्व्याख्यानादवग- न्तव्यम्। एतेषामत्र ब्रह्मत्वेनोपासनमुक्तम्, प्राणस्य त्वाशातो भूयस्त्वं माहात्म्यं चोक्त्वा, 'स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी'त्यनेन तद्दर्शनादिमतोऽतिवादित्वं यद्यप्युक्तम्, तथापि तत्र विद्याया अपर्यवसानादग्रे जन्यप्रायपाठे 'आत्मतः प्राण' इति श्रावणाच्च सोऽत्र परतत्त्वेन नाभिप्रेतः, किन्त्वासन्यत्वेन। स चोक्तमाहात्म्यवत्त्वादपहतपाप्मत्वाच्चान्येभ्य उक्तेभ्य उत्कृष्ट इति तेभ्योऽप्युत्कृष्टवादित्वमेवातिवादित्वम्, न तु परमकाष्ठापन्नोत्कृष्टवादित्वरूपं तदिति सोऽपि ब्रह्मत्वेनोपास्यतयैवाभिप्रेतः। तदेतदभिसन्धाय भाष्ये प्राणोपि तथोपास्य- मध्ये गणितः प्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्तेवेति। श्रुतौ तथानुक्तिस्तु नारदस्य मुख्यविद्याग्रहणयोग्यता जाता न वेति परीक्षार्थम्। अत एवाग्रे 'तं चेद् ब्रूयुरतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयान्नापह्नुवीते'त्युक्त्वा, 'एष तु वा अतिवदति, यः सत्येनातिवदती'ति यती'ति श्रुतेः। 'दिवं च पृथिवीं च वायुं चाकाशं चे'ति श्रुत्या रूपविज्ञापकलम्। वाङ्माहात्म्यं वाग्देवत्वम्। ब्रह्मत्वेनेति। 'तत्रास्य कामचारो भवति, यो वाचं ब्रह्मेत्युपास्ते' इति श्रुतेः। अत्र भूयःपदं 'भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम्। निश्चये च निषेधे च साकल्यातीतयोरपी'ति विश्वादनेकार्थमिति तदर्थं निश्चिक्युः तत्रेति। अथेति। तथा च श्रुत्या पूर्वोक्तार्यबाधात् नाम- नारायणादितो लक्षणया बोलकर्षकमिति भावः। विषयेति। विषयो यस्य यो ज्ञातः स तस्य प्रयोजनं फलम्। प्रत्ययसन्ताने स्वमतमाहुः चिरेति। बलमिति। विज्ञानानन्तरं स्नेहरूपबलस्यापि वक्तुं शक्यत्वेपि ह्यनुग्रहादीनां विशेषकारणानामनुक्तेः प्रसिद्धमेव बलमुररीकृतम्। तथा च भाष्यम्। ज्ञात एव स्नेह इति। बलं भक्तिरिति च। यद्वा। अन्नाप्तेजआकाशस्मराशाकाङ्क्षाणामग्र आधिक्येन वक्ष्यमाणत्वात् तेषां चानन्दमयाधिकरणोक्तरीत्या वक्तव्यत्वात् बलं भक्तिर्वा। जगति भक्तिः स्वांशब- लत्वेन भवति। च प्रसिद्धा इति। चकारेणानन्दमयाधिकरणे प्रसिद्धाः। न चाप्रयोजकत्वम्। शास्त्रार्थविषयकविशिष्टज्ञानाद्भूयस्त्वात्। माहात्म्यमिति। देवत्वम्। अतिवादित्वमिति। अग्रे स्पष्टम्। अपरीति। अग्रे ततोपि भूयः प्रश्नोत्तराभ्याम्। तथेति। ब्रह्मत्वेन। वदानीति लङर्थे लोड् 1901
३६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० ४४. पासकस्यातिवादित्वं सत्यवादित्वेनोक्त्वा, विजिज्ञासितव्यत्वेन सत्यविज्ञानमति- श्रद्धा निष्ठाकृति सुखानि पूर्वपूर्वकारणत्वेनोत्तरोत्तराण्युक्त्वा, सुखस्वरूपजिज्ञासा- यामाह 'यो वै भूमा तत्सुख'मिति । भूम्नः स्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । भाष्यप्रकाशः। प्राणोपासकस्यातिवादित्वं सत्यवादित्वेनोक्तम् । यद्येवं शिष्टप्रयोगेऽसाधिकजिज्ञासोत्पत्स्यते, तदा योग्यः, नो चेदयोग्य इत्येतदर्थमेवमुक्त्वा, ततो नारदेन प्राणस्य तत्त्वं न प्राणः, किन्त्वन्यदिति बुद्ध्वा, 'सोऽहं भगवः सत्येनातिवदानी'ति साभिप्राय उक्तः, तत्र 'अतिवदानी'त्यन्तर्भावितसन्नर्थः । सत्येनातिविवक्षामीत्याशयात् । तदा सनत्कुमारः 'सत्यं त्वेव विजिज्ञासितव्य'मित्यादिना तस्य सत्यादिजिज्ञासामुत्पाद्य, विजिज्ञासितव्यत्वेन सत्यविज्ञानमतिनिष्ठाकृतिसुखानि पूर्वपूर्वकारण- त्वेनोत्तरोत्तराण्युक्तवान् । तत्र सत्यं अर्थमनतिक्रम्य स्थितं वस्तुस्वरूपम्, विज्ञानं तद्विषयकं विशिष्टज्ञानम्, मतिस्तर्केण तदर्थस्वरूपविचारः, श्रद्धा आस्तिक्यबुद्धिः, निष्ठा तद्विषयक आदरस्तत्परत्वरूपः, कृतिस्तद्विषयसाधनानुकूल इन्द्रियव्यापारः, सुखं अनुकूलबुद्धिवेद्य आन्तरो धर्म इत्येवं लौकिकसमानाकारं तत्स्वरूपं ज्ञातव्यमिति सत्यादिषु कृत्यन्तेषु विशेषाकथनादायातीति तथोक्त्वा, ततः सुखे विशेषं वक्तुं सुखस्वरूपजिज्ञासायामाह । 'यो वै भूमा तत् सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य' इति भूम्नो विचार्यत्वमुक्तम् । तेन प्राणस्य सत्यवदनादीनां च स एव कारणं तत्त्वं च, अतस्तमेव कृत्यादिप्रणाल्या ज्ञात्वा, सत्यवदनेऽति- वादित्वम्, नान्यथेत्यवगत्य, किंखरूपो विचार्य इत्याकाङ्क्षायां पप्रच्छ 'भूमानं भगवो विजिज्ञास' इति । एवं नारदस्य भूमस्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । इह यच्छब्दगतसप्तम्या अधिकरणार्थत्वे ब्रह्मणो व्यापकत्वेन सर्वेषां तदुपश्लिष्टतया तद्व्याप्यतया च सर्वेषां सर्वदान्यज्ञानाभावापत्तेः सप्तम्याः सत्यर्थत्वेऽपि ब्रह्मणः सर्वत्र सत्त्वेन सर्वस्य तथात्वापत्तेश्चात्र कश्चिद्विशेषो वाच्यः । तथाच यस्मिन् दृष्टे श्रुते विज्ञाते सति द्रष्टुः रश्मिः। छान्दसः । विवक्षामीति व्याख्यानात् । उपनिषद्द्व्याख्यानाच्च । कृत्यादीति । कृतेरादिभूताया प्रणाल्या । ज्ञात्वेति । 'भूमा त्वेव विजिज्ञासितव्य' इत्यत्रैवैकारः सर्वत्र, नत्वेवंकारः । अतः कृत्या- दिप्रणाल्या तदुक्तिवैयर्थ्यपरिजिहीर्षया ज्ञात्वा विजिज्ञास इत्यत्रेच्छाविषयज्ञानं यत् तद्विषयीकरणं भूम्नः प्रतीयत इति । आहेति । मूललक्षणमाह । औपश्लेषिकवैषयिकाभिव्यापकाधारेषु वैषयिका- धाराङ्गीकारो न सम्भवति, ह्यन्यपदार्थस्य विषयत्वादिति शङ्कायां यत्रेति सप्तम्याः सतिसप्तमीत्वं समर्थयाम्बभूवुः इहेत्यादिना । अन्यज्ञानाभावापत्तेरिति । न च ब्रह्मणो होपश्लिष्टत्वेऽपि व्याप्य- त्वेपि 'पश्यन् चक्षुर्भवती'त्यादिरीत्या चिक्रीडिषया वा पुराणमते मायया वा न सर्वेषां सर्वदान्यज्ञाना- भावापत्तिरिति वाच्यम् । भूमाधिकरणे भूम्नो ब्रह्मत्वेन सिद्धस्तात्र ज्ञानप्रकारविशेषनिरूपणे ज्ञानेनाज्ञान- निवृत्त्या तथात्वापत्तिः जीवस्य ब्रह्मभेदात् । भेदे तु अचलत्वसूत्रोक्ताभासे भक्तमनोरथपूरकत्वात् भगवतश्चक्षुर्भवनादीनां नित्यलीलास्थानां 'आत्मत आविर्भावतिरोभावा'विति श्रुतेर्भक्ताधीनात्मतो भवनाद्ब्र- ह्मस्वरूपस्यात्मनो लीलाप्तसंकल्पपदार्थरूपत्वेन लीलास्थानां सर्वेषां सर्वदान्यज्ञानाभावापत्तिः, न तु प्रपञ्च- स्थानामपीत्यदोषात् । तथात्वे । पूर्वोक्तदिशा सर्वस्य निरधिष्ठस्य नित्यलीलास्थस्य च तथात्वं सर्वदा- न्यज्ञानाभावापत्तिमत्त्वं तस्यापत्तेः । कश्चिद्विशेष इति । आशङ्कोत्तरणोपपादनं वाच्यः । तथा चेति । पूर्वोक्तप्रकारे सति । सतीति । न च 'फले सप्तमी यत्रे'त्यत्र यत्फलकोन्यदर्शनाभाव इति कर्मणोऽ- 1902
श्रोतुर्विज्ञातुरन्यविषयकदर्शनश्रवणविज्ञानाभावो भवति, स भूमेति लक्षणकथनेन नित्यनिरवधि- सुखरूपं तत्स्वरूपं स्वेतरस्मिन् सुखत्वसुखसाधनत्वज्ञानाभावजननं तत्कार्यं चेति सिद्ध्यति । तेनैवं स्वरूपकार्यलक्षणयुक्तं विचार्यमिति फलति । तत्र भूम्नि दृष्टे श्रुते विज्ञातेऽन्यदर्शनादिकं कुतो न भवति, किं विशेषदर्शने रजतादिकमिवान्यन्नश्यति, उत कारणे कार्यमिव भूम्न्य- न्यल्लीयते, अथवा सूर्यतेजोनक्षत्रादिकमिव भूमा अन्यत्तिरस्करोतीति शङ्कायामाह 'अथ यत्रा- न्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्, यो वै भूमा तदमृतम्, अथ यदल्पं तन्म- र्त्य'मित्यनेन । अनित्यत्वे सति सावधिसुखरूपत्वे सत्यन्यत्र सुखत्वसुखसाधनत्वज्ञानजनक- त्वमल्पसुखत्वमिति सिद्ध्यति । तथाच न पूर्वविकल्पितं किञ्चिद्भवति, अपि तु भूम्नि दृष्टे श्रुते विज्ञाते तदानन्दैकतानतया अन्यदल्पं न सुखत्वेन सुखसाधनत्वेन च पश्यति, न शृणोति न विजानातीत्यर्थः सिध्यति । तत्र ननु यदि भूम्नो दर्शनश्रवणविज्ञानेष्वन्यतमेनैवं भाव आनन्दैक- तानत्वरूपः, तर्हि शृण्वतो मम कुतो नास्ति । अथ समुदितैस्तैस्तदा यत्र भूमा स्वरूपं स्वकार्यं च प्रकाशयंस्तिष्ठति, तस्यैव भावो नान्यस्येत्याशयः, तदा स आधारो वक्तव्य इत्याशयेन पृच्छति 'स भगवः कस्मिन् प्रतिष्ठित' इति, उक्तरीत्या कमभिव्याप्य स्थित इत्यर्थः । तत्रोत्तरमाह 'स्वे महिम्नी'ति । स्वविभूतौ । अत्रापि को महिमेत्याशङ्का भविष्यतीति तद्वारणार्य स्वयमेवाह न्यस्य फलेन यच्छब्दार्थेन समवायादिति वाच्यम् । अन्यदर्शनाभावस्य सुषुप्तावपि सत्त्वेनात्मा फलं स्यादिति तत्फलं तु भक्त्येकसाध्यत्वात् । न च भक्तिप्रकरणादन्यदर्शनाभावो भक्तिरेवेति तस्यात्मा फलं कथं न भवतीति वाच्यम् । अत्रार्थेऽन्येषां रामानुजाचार्यादीनामसंमतेर्वक्ष्यमाणत्वात् । 'सर्वं हि पश्यः पश्यती'ति श्रुतिविरोधाच्च । न च सुषुप्तिलक्षणे दृष्टे विज्ञाते इति कुतो लब्धमिति वाच्यम् । एतादृशविशेषणमन्तरा कस्मिन्नर्थे सप्तमीत्यपि वाच्यम् । सत्यर्थे सप्तमीति चेत् । सुषुप्तिर्व्याक्रियताम् । ननु सुषुप्तौ व्याक्रियमाणायां शङ्करभाष्यपूर्वपक्षस्य सिद्धान्तीकरणात् सम्प्रदायप्रदीपोक्ता भगवदाज्ञा से- त्स्यति शङ्कराचार्यमतस्था मन्मतं पूर्वपक्षयन्ति तत्त्वं सिद्धान्तयेत्याकारिकेति चेत्, न । अहङ्कारादेशात् । 'अथाहङ्कारादेश' इति वक्ष्यमाणश्रुतेः । तस्य तुरीयग्राहकत्वं प्रतिभाति । चित्तस्य सुषुप्तिग्राहकत्वात् । तथाच 'अशक्ये हरिरैवास्ति मोहं मा गाः कथञ्चन' इति वाक्यान्न दोषः । किञ्च । सर्वस्य तथात्वापत्ते- श्चेत्युक्तदोषाच्च । तथाच श्रुतिः 'सर्वं हि पश्यः पश्यती'ति । अत्र रामानुजमाध्वभास्कराचार्या भिक्षुशैवौ च भगवन्तौ 'यत्र नान्यत् पश्यत्यादे'र्भूमातिरिक्तावदर्शननिषेधो नार्थः, किन्तु निरवधि- सुखरूपे ब्रह्मण्यनुभूयमाने ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वात् कृत्स्नस्य वस्तुजातस्यैश्वर्यविशिष्टब्रह्मभिन्नत्वेन न पश्यतीति । एतदेवोपपादयति वाक्यशेषः । 'स वा एवं पश्यन्नेवं मन्वान' इत्यादिः । अग्रे 'न पश्यो मृत्युं पश्यति, न रोगं नोत दुःखताम्, सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश' इति मन्त्रश्चेति वदन्ति । पूर्वोक्ताविरुद्धमेतत् । भूमाधिकरणभाष्यप्रकाशे एतदुक्तम् । इतीति । इति स्वरूप- लक्षणं कार्यलक्षणं च सिध्यतीत्यर्थः । किमित्यादि । विशेषदर्शनम् । नेदं रजतमित्याकारकं रजतादिकम्, शुक्ताविदं रजतमिति । आदिना रज्जौ सर्पोऽयमिति । नायं सर्पः, रज्जुरेवेति विशेषदर्शनम् । कारणे जले कार्यं पृथिवी । स्वेति । विभूत्यध्यायोक्तायाम् । अत्रापीति । १. संपद्यते । २. तदेकतानतारूपः । 1903
१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. भाष्यप्रकाशः। 'यदि वा न महिम्नीति गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभायं क्षेत्राण्यायतना- नी'ति । तथाचैतेषु तत्प्रतिष्ठाया अदर्शनात्कथमेतदिति शङ्कां मा कृथाः । तत्र हेतुमाह 'नाहमेवं ब्रवीमी'ति । एतादृशे महिम्नि प्रतिष्ठित इत्यहं न ब्रवीमि । तर्हि क्व प्रतिष्ठित इत्यत आह 'ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति । अत्र 'इति होवाचे'ति श्रुतिवाक्यम्, शेषं सनत्कुमारस्य । तथाच गोअश्वादिभ्योऽन्यो महिमा तस्मिन् प्रतिष्ठित इति । तथाच लौकिकमहिम्नभिन्नः स्वे आत्मीये वृते भक्ते योऽथवा स्वामिन्नो यो महिमा तस्मिन्नु- क्तरीत्या स्थित इत्यर्थः । अतस्तेनापि प्रकारेण विचार्य इत्यर्थतः सिध्यति । तर्हि, स कीदृग् केन तत्रैव प्रतिष्ठित इत्याकाङ्क्षायां तं विवृणोति 'स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्व'मित्यारभ्याग्रेऽहंकारादेशं तत आत्मादेशं च पूर्ववत् 'आत्मैवेदं सर्व'मितीत्यन्तम् । तथाच यस्य पूर्वं 'स एवाधस्ता'दित्याद्युक्तरीत्या सर्वदिक्षु भूमभानं सर्वं परिदृश्यमानं भूमेति च भानम् । अथ तदनन्तरम्, अत एत- स्माज्ज्ञानाद्देवोरहंकारादेश एव पूर्ववद्भूमाभिन्नस्वभानम् । अथ तदनन्तरम्, अतस्तादृशभानाद्धेतो- रात्मादेश एव पूर्ववद्भूमाभिन्नात्ममानमिति । एवं प्रकारकभानवान् यः स पुरुषस्तत्र यो महिमा रश्मिः। विभूतिष्वपीत्यर्थः । अस्येति । नारदस्य । स्वयं सनत्कुमारः । यदि वा नेति । यदि वा परमार्थत आधारं पृच्छसि तर्हि ब्रूमः । महिम्नि गो अश्वं गवाश्वं तदादिरूपे महिम्नि । नेति । न प्रतिष्ठित इतीत्यर्थः । कथमेतदिति । कथं केन प्रकारेण । 'स्वे महिम्नी'ति श्रुतिवाक्यमित्यर्थः । न ब्रवीमीति । अन्ये ज्ञानिनस्तु ब्रुवन्तीत्यर्थः । अन्यज्ञानिनां परमार्थः गीताविभूत्यध्याये । 'धेनुनामस्मि कामधुक्' 'उच्चैःश्रवसमश्वानाम्' 'ऐरावतं गजेन्द्राणाम्' 'श्रीमदूर्जितमेव वा' 'रुद्राणां शङ्करश्चास्मि' 'देवर्षीणां च नारदः' 'सिद्धानां कपिलो मुनिः' 'कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इत्येतेषु वाक्येषु गवाश्वादीनां श्रीकृष्णविद्विभेदः । अत एव 'ह्यन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति श्रुतेर्ज्ञानिनो भूमा तु स्वतो न भिन्न इति भावं वदन्ति । सर्वालंभावरूपमुख्यभक्तिप्रकरणाङ्कतानामुक्तश्रुतिप्रतिपाद्यपरमार्थमाहुः तथा चेति । गवाश्वादिभ्योऽन्यो महिमा यस्तस्मिन् तद्रूपेऽन्यस्मिन् प्रतिष्ठित इति । हि युक्तश्चाय- मर्थः । ज्ञानमार्गीयादर्याद्भिन्नाः । ननु ज्ञानमार्गीयार्थो भक्तिमार्गीयो वेति चेत् । न । महाभाष्ये 'चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासो अस्ये'ति श्रुतेर्निरुक्तावाशुशुक्षणपरत्वेन व्याख्यातापि शब्दपरत्वेन व्याकरणदत्रापि ज्ञानमार्गपरत्वेन व्याकृता भक्तिमार्गपरत्वेन व्याकृतेति । स्वामिन्न इति । स्वं भगवान् । उक्तेति । उक्ता 'अन्यो ही'त्यादिश्रुत्योक्ता रीतिस्तया । श्रुति- प्रामाण्यात् स्वस्मिन्नपि (स्वयं) स्थित इत्यर्थः । अस्मिन् पक्षे 'अन्यो ही'त्यादिश्रुत्यर्थः स्पष्टः । भूमा तु स्वतो न भिन्न इति भावः । स इति । महिमा । श्रुतौ स इति भूमा । पूर्ववदिति । 'अहमे- वाधस्ता'दित्यादिपूर्ववत् । 'आत्मैवाधस्ता'दित्यादि पूर्ववच्च । भूमेति । ययाधस्ताद् घट इत्यत्राधस्त- नघटभानम् । इदम्पदार्थमाहुः परीति । इदमस्तु प्रत्यक्षगे रूपमिति । स्वेति । भूमाभिन्नानां स्वेषां मानम्, 'कृष्णोऽहं पश्यत गति'मित्यत्र यथा भूमा भगवान् तत्त्वेन स्वेषां भक्तानां भानम् । हेतोरिति । सम्भारिभावरूपत्वादित्यर्थः । आत्मपदं मुख्ययात्मपरम् । अहङ्कारादेशस्य सम्भारिभावत्वज्ञापनाय पुनर्भूमा- भिन्नात्मज्ञानमित्यर्थः । एवमग्रे भाष्ये स्फुटम् । महिमेति । सस्फूर्तिसर्वात्मभावस्तस्मिन् प्रसिद्धे 1904