अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
श्रीकृष्णाय नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । शुद्धाद्वैतब्रह्मवादिनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि- श्रीमद्वल्लभाचार्यचरणप्रणीतम् । दशादिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत- भाष्यप्रकाशसंपूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वर- जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् । प्रथमाध्यायप्रथमपादस्यादिमसूत्रत्रयात्मकम् ( त्रिसूत्रीभाष्यम् ) ‘भगवद्धर्मपरायणस्वर्गीयगोवर्धनदास सुन्दरदास’ इत्यस्य पुष्टिमार्गीय- संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसंबद्धतः ‘प्रातर्भगवत्स्म- र्त्तृमूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी., वकील, हाईकोर्ट’ इत्येतेषां सुहृद्भिः संशोध्य ‘निर्णयसागर’ मुद्रणालये मुद्रयित्वा प्रकटीकृतम् । श्रीवल्लभाब्दाः ४५७. संवत् १९९२. मार्गशीर्ष कृष्ण ९. मूल्यं सपादद्वयरूपकम् ।
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya Sagar' Press, 26-28, Kolbhat Lane, Bombay 2. Published by Dhirajlal Vrajdas Sanklia, B. A., LL. B., Advocate at Khakhar Building, C. P. Tank, Bombay 4.
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । प्रथमः पादः भाष्यप्रकाशः। ॥ श्रीकृष्णाय नमः ॥ संगीतं श्रुतिमूर्धभिस्तदविदां वागाद्यतीतं विदां रश्मिः । श्रीकृष्णाय नमः । साकारब्रह्मवादस्थापकेभ्यः श्रीमदाचार्येभ्यो नमः । उद्धर्तुं ज्ञानरहितान् मादृशान्पराधीनः । कृतश्रम इवाभासि यतस्त्वं विठ्ठलेश्वरः ॥ १ ॥ जयति जगति वाणी वेदवेदान्तयुक्ता विविधमहिमशुद्धाद्वैतविद्याकृतेऽलम् । प्रभवति खलु वादे मायिनीतीह यस्य जयति विजितमायः श्रीमदाचार्यवर्यः ॥ २ ॥ पितृचरणोदितसरणी साकारब्रह्मस्थापिकायां तु । आदिमूर्तिभजनेषु प्रतिनिधीन् विठ्ठलान् नमामि ॥ ३ ॥ गुणत्रयातीतगुणाम्बुगेहे कृष्णाश्रयाद्याः सुरवर्यवृक्षाः । तदन्तरा मूलसुखार्थसारं शाखाद्विषद शब्देसहस्रपर्णम् ॥ ४ ॥ मुक्तालिवृन्दैरभितः स्तुतं च जुष्टं रसाकाङ्क्षिशुकादिभक्तैः । दिव्यं पुराणं च सहस्रनामकल्पद्रुमं नौमि रसार्थकामी ॥ ५ ॥ श्रीवल्लभाचार्यपदान्बुजयुग्मसंशोधिताशेषविशेषबुद्धिः । वेदान्तिहृत्पद्मविकासनेऽलं भाष्यप्रकाशे वितनोमि रश्मिम् ॥ ६ ॥ विविधदुरितपाशं व्याहतीकृत्य नस्त्वं प्रवि
मिति ।"
Line 26: "सदेत्यत्राप्यन्वेति । परतरमिति । 'पुरुषाश्न परं किंचित्सा काष्ठा सा परा गतिः' इति श्रुतेः ।" Wait, "पुरुषाश्न" or "पुरुषान्न"? 'पुरुषान्न परं किंचित्' (Katha Upanishad 1.3.11: पुरुषान्न परं किञ्चित्). In print: 'पुरुषान्न' or 'पुरुषाश्न'? The letter is 'न्न' (na + na).
Line 27: "श्रीकृष्णदेवमिति । एतच्च फलाध्यायतृतीयपादे 'समान एवं चाभेदात्' इति सूत्रे उपपादितम् ।"
Line 28: "अतिधृतिरत्र जातिः । शार्दूलविक्रीडितं छन्दः । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति"
Line 29: "तलक्षणात् । दासक्लेशहरमितिपेदेनाभिव्यज्यमानस्य भक्तनिष्ठभावस्य ग्रन्थकर्तृभावपोषणात् ।" Wait: "इतिपेदेनाभिव्यज्यमानस्य" or "इतिपदेनाभिव्यज्यमानस्य"? It has 'प' with no e-matra: "इतिपदेनाभिव्यज्यमानस्य".
Line
भाष्यप्रकाश-रश्मि-परिवृंहितम् । भाष्यप्रकाशः । वेदान्तार्थविकासकाद्भुतपदं शास्त्रं गुणैकोज्ज्वलम् ॥ २ ॥ एवं सर्वहितं चरन्नपि यदाखिद्यत्तदा नारदात् तत्रोपायमवेत्य खेदहतये दृष्ट्वा समाधौ हरिम् । श्रीमद्भागवतेन संशयमहन् भक्तिप्रचारोधत- र्तं कृष्णं मुनिमानमामि करुणं ज्ञानावतारं हरेः ॥ ३ ॥ सर्गादौ स्वमतं समस्य विधये यं ब्रह्मवादं जगौ कौन्तेयोद्धवयोः प्रकाश्य च पुनर्वेदान्तसारं हरिः । तं व्यासास्यगोचरं प्रथयितुं यैर्भाष्यमाविष्कृतं तानाचार्यवरान्नमामि करुणान् श्रीवल्लभाख्यान् प्रभून् ॥ ४ ॥ श्रीवल्लभप्रतिनिधिं तेजोरारिं दयार्णवम् । गुणातीतं गुणनिधिं श्रीगोपीनाथमाश्रये ॥ ५ ॥ श्रीविट्ठलेशपादाब्जनखचन्द्ररुचः सदा । [L
४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । तत्पुत्रान् सह सूनुभिर्निजगुरून् श्रीकृष्णचन्द्राह्वयान् भक्त्या नौमि पितामहं यदुपतिं तातं च पीताम्बरम् । वन्दे च व्रजराजमन्वयमणिं यद्रोचिषा मादृशो- ऽप्यासीन्मूर्ध्नि कृपापरः प्रभुवरः श्रीबालकृष्णः स्वयम् ॥ ७ ॥ श्रीवल्लभाचार्यपदाम्बुजाते भक्त्या मुदान्तर्हृदि संनिवेश्य । भाष्यप्रकाशे प्रयतेऽतिदीनो निःसाधनस्तत्करुणाबलेन ॥ ८ ॥ आचार्यवाचः प्रणमामि भाष्यसुबोधिनीस्था इतराश्च यास्ताः । मत्स्वान्त आगत्य कृपामृतास्ता मदीयवाचां रचयन्त्वलंकृतिम् ॥ ९ ॥ अथ स्वलौकिकानुभावप्रकटनहृदयस्य भगवत आज्ञया तदर्थमाविर्भूताः श्रीमदाचार्या- रश्मिः । सर्वानैव मान्यान् नमन्ति तत्पुत्रानिति ॥ ७ ॥ ग्रन्थकरणे स्वप्रतिभाहेतुं वदन्तस्तत्करणं प्रतिजानते श्रीवल्लभाचार्येत्यादि । त्रिष्टुप्जातिः । इन्द्रवज्राछन्दः । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति तलक्षणात् । भाष्यप्रकाश इति । प्रकाश- शब्द आतपं वक्ति । भाष्यसमाप्तौ 'आविष्कृतोऽयं भुवि भाष्य भास्करः' इति भाष्यस्य भास्करत्वोक्तेः । निमित्तत्वं सप्तम्यर्थः ॥ ८ ॥ 'मूर्तैर्महद्भिः' इति न्यायेन प्रार्थयन्ते आचार्यवाच इत्यादि । उपजातिः । 'अनन्तरोदीरित- लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् । गाथाछन्दः । वस्तुतस्तु रचयन्तु भूषामिति पाठः प्रतिभाति । तथा चाख्यानकीछन्दः 'आख्यानकी तौ जगुरू गमोजे जातावनोजे जगुरू गुरुश्चेत्' इतिलक्षणात् । ओजे विषमे पादे । अनोजे समे । हस्ताक्षरपुस्तके त्वयमपाठः, अन्याक्षरैर्लिखितश्च । आगत्य कृपामृता इत्यनेन वाचामाधिदैविकत्वं ध्वन्यते ॥ ९ ॥ भाष्यमवतारयन्ति अथेत्यादिना । भाष्ये परसवर्णभावस्तु वैकुण्ठस्थतास्फोटकः, न व्याकरण- विरोधाधायकः । सत्यलोक एव परसवर्णश्रवणात् । आकाशवाणीवत् । तथाहीति निदर्शनगर्भश्लो- कैस्त्वस्तु प्रक्षभावात् । यतः सत्यलोकमभिव्याप्यैव तथाहीति प्रयोगो मया श्रुतः पूर्ववदेव । सोपि मान्ये क्वचिदेव दृश्यते । वैकुण्ठस्थता तु श्रीमदाचार्याणां ब्रह्मभावेन सर्वरूपत्वात् स्फुटैव । 'नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम् । लक्ष्मीसहस्रलीलाभिः सेव्यमानं कलानिधिम्' इति- दशमश्रीसुबोधिनीप्रारम्भश्लोकात्, असंधिस्तु शिवादिभिरपि अकरणात् तस्याः । युक्तं चैतत् सारोत्र । अथेति, अथशब्दः आरम्भार्थकः । न त्वानन्तर्यार्थकः, आचार्यैः सूत्रपाठात् पूर्वं मङ्गलकरणात् । तथा चाहुराचार्याः सुबोधिन्यामथ व्याख्या इति । निबन्धाद्यानन्तर्यं वा तदर्थः । स्वलौकिकानुभावो ब्रह्मवादलक्षणो (पत्रावलम्बनोक्तः ) मायावादव्यतिरिक्तः । स्वस्य ब्रह्मणोऽ- लौकिको लोकोत्तरोऽनुभावो ब्रह्मज्ञानमनु पश्चाद्भावो भक्तिः प्रेम च योगिकोऽर्थः, रूढो भिन्नः । कीदृ- गित्याकाङ्क्षायां ब्रह्मणो वादो यत्र स्वलौकिकानुभावेन 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः'इति 4
[५] भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
भाष्यप्रकाशः । साक्षाद्ब्रह्मण्येव सर्ववेदान्ततात्पर्यगोचरत्वज्ञापनाय वेदार्थतामरसतरणेर्भगवतो बादरायणस्य सूत्राणि व्याकरिष्यमाणाः,
रश्मिः । निबन्धाज्ज्ञानमनु ब्रह्मभावो भक्तिः उच्यते तेन लक्षणं, ब्रह्मवादो लक्षणं यस्य सालौकिकोऽनुभावस्स लक्ष्यस्स स तयोक्तः । अनुभावस्वरूपं प्रथमे सुबोधिन्त्यां सप्तदशाध्याये 'इत्थंभूतानुभावः' इत्यत्रास्ति । मृतोपि जीवन् तिष्ठतीत्येवंभूतानुभावः इति । [तथा चायं निष्कर्षः । उक्ते प्रतीतसामग्रीकस्य कार्यस्य स्वस्य ब्रह्मण आचार्याणां चालौकिको लोकानधिगतो योयमनुभावः । मानुषीं तनुमाश्रितस्स सन्नमनुष्याकृतेश्च जगज्जन्मादिकर्तृत्वं सकलमतनिरासपूर्वकं अध्यायद्वयप्रतिपाद्यं साधनफलत्वे च । आचार्याणां तत्प्रतिपादकत्वं चतुर्षु अध्यायेषु स प्रथमस्कन्धारूढो यौगिकश्चेति यौगिको ज्ञानमनुभावो भक्तिश्चेति । तदुक्तं ब्रह्मकाण्डे 'तत्सैवात्मानुभावप्रकटनहृदयस्याज्ञया' इति । व्याख्यातं च टीकाकृद्भिः] सर्ववेदान्तेति सर्ववेदान्तानां तात्पर्यगोचरत्वस्य ज्ञापनाय । अत्रेदं ज्ञेयम् । अभिधालक्षणातात्पर्येषु तिसृषु वृत्तिषु तात्पर्यगोचरत्वमित्यर्थः । ननु तात्पर्यवृत्तिरेव नास्ति । तात्पर्यानुपपत्तेर्लक्षणाबीजत्वस्य 'यष्टीः प्रवेशय' 'काकेभ्यो दधि रक्ष्यताम्' इत्यादिषु स्पष्टतया वृत्त्यनौचित्यादिति चेत्, सत्यम्, वृत्तिद्वयपक्षोप्यस्ति । परेषामलंकारिकाणां वृत्तित्रयपक्षस्तु, 'भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य, यस्याऽनुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्' इत्यादौ व्यञ्जनावृत्तिमन्तरेण निर्वाहाभावादिति । न चात्र लक्षणयैव निर्वाह इति वाच्यम् । राजासंबन्धिनि गजे तदयोगात् । दूषणानां यौक्तिकत्वेन 'युक्तं च सन्ति सर्वत्र भाष्यन्ते ब्राह्मणा यथा' इति कृष्णवाक्यानुसृत्यार्थस्य बाधाद्यभावाच्च । स्फुटमन्यत्प्रस्थानरत्नाकरे । एवं च वृत्तिद्वयपक्षेपीदं युक्तम् । तथा हि प्रस्थानरत्नाकरे द्वेधावृत्तिप्रपञ्चे व्यञ्जनास्थले तात्पर्यवृत्त्या निर्वाहादभिधागौणीतात्पर्यरूपास्तिस्रो वृत्तय आलंकारिकरीत्या वृत्तिपदसहिता व्यवस्थापिता इति 'भद्रात्मनः' इत्यादौ अभिधामूलव्यञ्जनास्थलेऽभिधामूलतात्पर्यवृत्तिस्वीकारः । दार्ष्टान्तिके तु तात्पर्यमात्रं न वृत्तिः । एवं च 'साक्षाच्छक्तो लाक्षणिकः शब्दोऽत्र व्यञ्जकस्तथा' इत्यत्र 'साक्षाच्छक्तो लाक्षणिकः शब्दस्तात्पर्यवांस्तथा' इत्येवं राद्धान्तिकपाठेपि 'यतो वाचो निवर्तन्ते' इति श्रुत्याऽस्यापि शब्दस्य निवृत्तेः । अतो मूले तात्पर्यमात्रमुक्तं, न वृत्तिपदम् । नन्वेवमप्यभिधामूलव्यञ्जनास्थले अभिधैव व्यापारो नातिरिक्ता व्यञ्जनेत्यादि उपपाद्य यथासंभवं तात्पर्यवृत्त्यर्थः धर्माभिधासत्त्वेऽभावान्नातिरिक्ता व्यञ्जनेति पठनाद् 'भद्रात्मनः' इत्यादिस्थलेऽभिधादिवृत्तिमाश्रित्य दार्ष्टान्तिकेऽप्यभिधादिवृत्त्यावश्य- कत्वात् निर्विषयशब्दस्य यच्छब्दार्थमूललक्षणा निवृत्तिरिति चेत् मैवम् । ['यतो वाचः' इत्यस्या इदमित्थतया तत्स्वरूपे निरूपणनिषेधेन परत्वमत्रैव भाष्य ईक्षत्यधिकरणे चाञ्जसत्वनिषेधेन सामान्यतो यच्छब्दार्थे ब्रह्मणि निर्गुणानन्दमात्रतच्छब्दाभिधायाः स्वीकारात् । नन्वेवं सति तात्पर्य- गोचरत्वज्ञापनायेति मूलमशुद्धमिति चेत्, न, सर्ववेदान्तपदपरत्वान्मूलस्य । एकापेक्षया बहूनाम- नुग्रहस्य न्याय्यत्वात् । 'ॐतत्सदिति निर्देशो ब्रह
An exact line-by-line transcription of the page into clean Markdown in Unicode Devanagari:
६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । 'सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः' ॥ रश्मिः । तस्य समीपार्थकत्वम् । अन्यथा यत इति श्रुतिभाष्यविरोधापातः । नन्वेवं सति विराजि नारायणा- दिरूपेषु 'नारायणादिरूपाणि'इत्यादिवक्ष्यमाणा वेदस्य वेदान्तानां चाभिधावृत्तिर्विराजि प्रमेयेम् । 'मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् । एतावान् सर्ववेदार्थः' इत्येकादशे निरुक्तात् जगद्व्यापा- रवर्जाधिकरणे यद्रूपमुक्तम्, तत्तु परं भावं जानतां तात्पर्यं, तद्गोचरत्वं च । तत्र नूनं परस्मि- न्भावेऽभिधावृत्तिर्गौणी बोद्धारोपव्याख्यानरूपत्वात्, सर्वस्य शब्द
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९ भाष्यप्रकाशः। इति भाष्यलक्षणात् सूत्रोपन्यास एवानुसरणसिद्धेः प्रकृतेरादित एव भाष्यत्वाय सूत्री- रश्मिः। कथं सालौकिकानुभावप्रकटनमिति चेन्नैवम्। तैः सगुणब्रह्मणः सकाशात् सृष्टिरिति निरूपणान्न तात्पर्यविषयत्वम्, किंतु अभिधेयत्वमिति, लौकिकत्वात् । तत्र ब्रह्मनिर्गुणादिपदानांमभिधामूलं तात्पर्यम्, ब्रह्मणि नारायणादिपदानां कथमु तात्पर्य, लक्षणाया अप्यभावेन लक्षणामूलव्यञ्जनापरपर्या- यतात्पर्यस्याप्यभावादिति चेन्न । जन्यजनकभावसंबन्धस्य शक्यसंबन्धस्य सत्त्वेन लक्षणा गौणीरूपा भविष्यति, सति प्रमाणे तात्पर्यं त्वलौकिकपरमोत्कृष्टत्वे, यथा 'गङ्गायां घोष' इत्यत्र शक्यस्य प्रवाहस्य संबन्धः संयोगः, तस्य तीरे सत्त्वात्तीरे लक्षणा, शैत्यपावनादौ तदभावात्, तात्पर्यवृत्तिरालंकारिकाणां
श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ अथातो ब्रह्मजिज्ञासा ॥ १ ॥ ( १-१-१ ) भाष्यप्रकाशः। भाष्यशब्देनैव मङ्गलसिद्धेश्च सूत्रमेवादौ पठन्ति अथातो ब्रह्मजिज्ञासेति । नच मङ्गलाचरणा- न्तरादर्शनाच्छिष्टाचारविरोधः शङ्कनीयः । महाभाष्ययोगभाष्ययोर्ग्रन्थकृत्कृतसाद्यशब्दाति- रश्मिः । श्रुत्यनुसारित्वान्नातिव्याप्तिः आर्थिकार्यस्पर्शस्यास्मद्भाष्येपि न सेति । यत्तु शंकराचार्यैः 'शास्त्रयोनि- त्वात्' इति सूत्रांशं प्रथमान्तत्वेनानन्दमयाधिकरणं च भक्त्वोत्सूत्रं व्याख्यातम्, 'भावे चोपलब्धेः' इति सूत्रं 'भावाच्चोपलब्धेः' इति पाठं भित्त्वा व्याख्यातम्, मध्वरामानुजभास्कराचार्यैः 'सामाव्याप- त्तिरूपपत्तेः' इति सूत्रं 'क्षामाव्यापत्तिः' इत्येवं पाठं भित्त्वा व्याख्यातम्' तत्राव्याप्तिर्न दोषाय, अन्यत्र तु गौण्या निर्वाहः । सूत्रमेवेति । सर्वतः सारभूतार्थबोधकत्वे सूचकत्वे च सति स्वल्पाक्षरपदत्वमिति सूत्रलक्षणम् । 'खल्वहं ब्रह्म सूत्रं सूचनात्सूत्रम्' इत्यारुणि श्रुतेः । 'लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च, । सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः' ॥ इति स्मृतेश्च । वस्तुतस्तु यत्राभियुक्तानां सूत्रत्वव्यवहारस्तानि सूत्राणीति । अतो महति 'अचतुरविचतुर'इत्यस्मिन्पाणिनीये सूत्रे नाव्यासः ॥ अथातो ब्रह्मजिज्ञासेति इति ॥ १ ॥ प्रतीकमिदम्, क्रियाविशेषणं तृतीयान्तव्य- तिरिक्तम् । तृतीयान्तं तु करणमिति विवेकः । ननु ब्रह्मपदेन किमुच्यते प्राणो वा ब्रह्मैव वा । तथाहि 'एष उ एव बृहस्पतिः' इति श्रुतेः प्राण एष प्राण इत्यर्थात् । न च प्राणेत्यनया श्रुत्या बृहस्पतित्वं विहितम्, न ब्रह्मत्वमिति वाच्यम् । 'ब्रह्म वै देवानां बृहस्पतिः' इत्यारण्यकसमाप्ति- ग्रन्थसम्भूतैरिति चेत्, मैवम् । द्वितीयाध्याये चतुर्थचरणे 'श्रेष्ठश्च' इत्यधिकरणे 'न वायुक्रिये पृथ- गुपदेशात्' इति सूत्रे प्राणस्योपपादितत्वान्तरत्वात् । न च ब्रह्मापेक्षया ब्रह्मणस्पतिजिज्ञासा प्रस्तोतव्येति शङ्क्यम् । बृहदारण्यके 'एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एषे पतिस्तस्मादु ब्रह्मणस्पतिः' इतिश्रुतोर्ब्रह्मपदेन वाग्ग्रहणेनादोषात्, तत्त्वान्तरत्वाच्चेति । अत एव जिज्ञासासूत्रे ब्रह्मपदेन वेदान्ता गृहीताः । 'वाग्वै ब्रह्म' इति श्रुतेः । न च शुकादिप्रभृतीनां जिज्ञासा जैमिनि- सूत्रानुसारिणाधिकर्त्तव्येति वाच्यम् । पौर्वापर्य्यात्वात् । 'न च वेदादृते किञ्चिन्नामं ब्रह्माभिधा- यकम्' इति महाकौर्म्यात् । 'नन्वेवमपि स दोषस्तदवस्थ एवेति चेत्, न । जैमिनेर्भगवतो व्यासस्य शिष्यत्वाच्छास्त्रभेदाच्च । न च वेदजिज्ञासाधिकर्त्तव्या नामाख्यातोपसर्गनिपातादिभिर्धर्मजिज्ञासया षड- ङ्गैरितराङ्गैश्च तस्या निराकाङ्क्षत्वात् । इतरत् सर्वं साधनाध्यायतुर्यपादेऽचीकुपद्भाष्येऽथशब्दतोऽवधे- यम् । शङ्कनीय इति तर्कितव्य इत्यर्थः । आद्यपूर्वसाप्यद्यमर्थः । ग्रन्थकृत्कृतस्येति । तत्र ग्रन्थो नाम संबन्धप्रयोजनज्ञानाधीनशुश्रूषाजन्यश्रुतिविषयः संदर्भः । 'सिद्धार्थं सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः' ॥ १. अस्मत्सन्निधौ द्वित्राणि रश्मेः पुस्तकानि सन्ति, तेषां रश्मिकारसंशोधितं पुस्तकं शुद्धं समीचीनं च । तत्र इत आरभ्य एकोनविंशतिः पत्राणि न लभ्यन्ते तदर्थमतीव प्रवर्त्तितोपि तत् संपादने न सफलप्रयत्नोऽभवम् । प्रस्थान्तराणि तु अशुद्धिप्रचु- रत्विन्नपुस्तकानि न विश्वसनीयानि तथापि तदवलम्बनेन ग्रन्थसंशोधने कृते बहूनिस्खलितानि नयनपथातिथीनि भवन्ति तानि विद्वद्भिः संशोध्य्यानि इत्यभ्यर्थयते मुद्रिकर्त्ताः । 8
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९ इदमत्र विचार्यते । वेदान्तानां विचार आरम्भणीयो न वेति । भाष्यप्रकाशः । रिक्तस्य मङ्गलस्यादर्शनेन, शाबरभाष्ये च 'अथातो धर्मजिज्ञासा' इति सूत्रमेवोपम्यस्य भाष्या- रम्भदर्शनेन च विरोधाभावादिति । अस्यारम्भसूत्रत्वादत्राधिकारिविषयसंबन्धप्रयोजननिरूपण- द्वारा शास्त्रारम्भः समर्थनीयः । शास्त्रप्रवृत्त्यावश्यकत्वहेतुरूपा संगतिश्च निरूपणीया । अन्यथा प्रेक्षावत्प्रवृत्त्यभावेन शास्त्रवैयर्थ्यं स्यात् । शास्त्रस्य वैधत्वमपि विचारणीयम् । अन्यथा वेदान्तानु- पयुक्तत्वं, प्रामाणिकानादरणीयत्वं च स्यात् । यदिदं सर्वं हृदि कृत्वा भगवता श्रीबादरायणाचा- र्येणेदमधिकरणरूपं सूत्रं प्रणीयते, न तु ब्रह्मविचारप्रतिज्ञामात्रमत्र क्रियत इत्याशयेनाडुः इदमित्यादि । विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । संगतिश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम्' ॥ इति लक्षणाद् विषयादिपञ्चकघटितं वाक्यमधिकरणम् । तेनास्मिन् सूत्रे, इदं वक्ष्यमाणं बुद्धिस्यं विचार्यते । अग्रिमसूत्रेषु वेदान्तानां विचारणीयत्वादुपोद्धातेन चिन्त्यत इत्यर्थः । विषयादि- कमाहुः वेदान्तानामित्यादि । नन्वत्रायं विषयाद्युपन्यासो न युक्तः, असौत्रत्वात् । रश्मिः । इत्युक्तेः शुश्रूषायाः संबन्धप्रयोजनज्ञानाधीनत्वम् । तर्ह्येतेति मङ्गलेनापि भाव्यं तत्राहूः शाबरभाष्ये चेति । अन्यथेति वैधत्वाभाव इत्यर्थः । प्रणीयत इति । स्मेति शेषः । उपोद्घातेनेति । तेनोपोद्घातोत्र संगतिरित्युक्तम् । तत्त्वं च प्रकृतसिद्धयनुकूलचिन्ताकालाव- च्छेदेन प्रकृतानुकूलत्वं प्रकृतोपपादकत्वं वा । एवमपि विशेषलक्षणसमन्वयेपि सामान्यलक्षणस्यान- न्तर्याभिधानघटितत्वेनास सूत्रस्य च प्राथम्यान्न नैयायिक लक्षणसमन्वयः । किंतु, अधिकरणस्य पञ्चावयवत्वेन 'अथातो ब्रह्मजिज्ञासा' इति सावधानपुरुषप्रयुज्यमानवाक्यप्रयोजनकप्रकृतोपपाद- कत्वावच्छेदेन ब्रह्मभक्तिविचारत्वेन रूपेण स्मृतस्य ब्रह्मभक्तिविचारस्योपेक्षानर्हत्वमिलेवं संगति- सिद्धान्तलक्षणसमन्वय इति बोध्यम् । इदं चेक्षत्यधिकरणे संगतिग्रन्थनिरूपणावसरे स्फुटमुप- पाद्यम्, इयं चाध्यायानां पादानां च संगतिः । त्रिपदं जिज्ञासासूत्रं अथातो ब्रह्मजिज्ञासेति । तत्र अतःशब्दार्थः स्वयमग्रे वक्तव्यः । तस्याधिकरणरचनानुपयोगात् । ब्रह्मशब्दार्थो वेदान्ता- नामिति । जिज्ञासाशब्दार्थो विचारः । अथशब्दार्थः आरम्भः । कर्तव्यादिपदाध्याहारापेक्षयारम्भो घञन्तादिरत आरम्भणीयो रमिरनीयर्प्रत्ययान्तः । अत उक्तं वेदान्तानां विचार आरम्भणीयो नवेति । अत्र प्रतीतार्थग्रहिलवादी तु शङ्कते नन्वत्रेति । असौत्रेति । सौत्रः प्रतीतोर्थः तद्भिन्नत्वात् । तद्विषयादिकमाहुः विषयादिकमाहुरिति । सूत्रे ब्रह्मपदस्य वेदेपि वृत्तिदर्शनेन तत्संबन्धि- वेदान्तानां सूचनेन ब्रह्मपरत्वेपि ब्रह्मजिज्ञासेति शेषषष्ठया समासस्य वक्ष्यमाणत्वेन च जिज्ञासा- पदस्य विचारार्थकत्वस्य च तथात्वेनाथशब्दस्यारम्भापरपर्यायाधिकारार्थत्वस्यापि तथात्वेनायमेव विषयादिरित्याशयेन विषयादिकमाहुरित्यर्थः । वेदान्तानां विचार आरम्भणीयो न वेति भाष्यात् । आरम्भार्थ उद्यम एवोत्तरत्रानुवृत्तिरूपाधिकारनिवेशाच्चेति । तथाहि, उद्यमत्वे सत्युत्तरत्रानुवृत्तिरासमन्तात् ताच्छ्दारम्भार्थः । भाष्ये विचार इति । सूत्रैर्वस्तुतस्तत्परीक्षण- मित्यर्थः । मीमांसेति यावत् । शेषे षष्ठी । अन्यथा, 'स्मृतेश्च' इत्यादिसूत्रेषु स्मृतीनां विचारकर्मता १ प्र० सू० २ ० 9
किंतु ब्रह्मजिज्ञासा कार्या न वा, ब्रह्म जिज्ञास्यं न वा, इत्येवं सूत्रानुसरणाद् युक्त इति चेन्न । तपोप- न्यासे, 'तपसा ब्रह्म विजिज्ञासस्व' इतिश्रुत्या तपस एवोपदेशात् तद्विहाय व्यासपादैः किमिति वेदान्तवाक्यानि विचार्यन्ते, तपः कुतो नोपदिश्यत इत्याशङ्का स्यात्, श्रुतिविरुद्धत्वं च मायात् । एवमुपन्यासे त्वधीतवेदस्य, 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतिस्फुरणादस्यां च श्रुतार्थनिश्चयं प्रति वेदान्तविज्ञानस्य हेतुताकथनात् तस्य च विचारसाध्यत्वात् तत्स्फूर्त्या- च्छङ्कोदयाद् युक्त इति । किंच । जिज्ञासापदस्य च यौगिकार्थ एव प्रायः प्रसिद्ध इति ब्रह्मज्ञानेच्छा कर्तव्या न वा, ब्रह्म ज्ञानेच्छाविषयं कार्यं न वेति प्रथमो बोधे, ततस्तावन्मात्रस्यापुरुषार्थत्वात् तत्रानु- पपत्तौ भातायां पश्चाद् विचारं लक्षयित्वा ततस्तत्कर्तव्यत्वादिकं विचार्यम् । तदपि वेदान्तैरेव वक्ष्यमाणरीत्या विचार्यम् । अन्यथाकस्मिकता स्यात् । अत आवश्यकत्वादपि युक्तः । न स्यात् । स्मृतयो विचार्यन्त इति । कर्मषष्ठ्या स्मृतीनां विचारकर्मत्वात् । तथाच कर्मषष्ठीपरिग्रहे प्रतिज्ञाहान्याख्यनिग्रहस्थानापत्तिः । प्रकृते किंतु ब्रह्मेति । ब्रह्मपदेन वेदान्ताः । अन्वयोऽनुपपत्त्या अध्याहारनिवृत्तये वा पक्षान्तरमाहुः ब्रह्म जिज्ञास्यं न वेति । तपसेति । नन्वियं श्रुतिः ब्रह्मप्रत्यक्षात्मकज्ञानसाधनविचारसाधनं तपः संतापात्मकमाह, द्वितीयस्कन्धनवमाध्याये तथोक्तेः । वेदान्तवाक्यानि तुपाङ्गत्वेन विचार्यन्त इति उपाङ्गविषयत्वा- भावादिति चेत् तत्राहुः इत्याशङ्केति । तथा च तर्कस्यान्यथाज्ञानत्वादुपाङ्गविषयेऽपि प्रत्यक्षसाधक- विचारसाधनतपःप्रतिपादकश्रुतिस्फुरणमिति भावः । विचार्यन्त इति । सूत्रान्तरेषु विचार्यन्त इत्यर्थः । श्रुतिस्फुरणादिति । नन्वितिकरणाभावात् कथं वेदान्तानामिति पदस्य 'वेदान्तविज्ञाने'ति श्रुतौ वेदान्तानामित्यन्तर्वर्तिविभक्तिमाश्रित्य वाक्यप्रतीकत्वमिति चेन्नैवम् । 'यावद्धस्तवत्सकाल्पकवपु- र्यावत्कराङ्गादिकम्' इत्युपक्रम्य 'सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ' इति प्रक्षिप्ताध्या- यश्लोके सर्वं विष्णुमयमिति पदद्वयसेतिकरणाभावेऽपि सर्वं विष्णुमयं जगदिति वाक्यप्रतीकतायाः श्रीधरैः स्वीकारात् । आचार्यैरप्येवमिति । नन्वेवमपि सूत्रेण 'तपसा ब्रह्म विजिज्ञासस्व' इति श्रुति- स्फुरणस्य दुर्निवारत्वेन तस्यां च तपसो ब्रह्मजिज्ञासाकारणतोपन्यासेन वेदान्तश्रुतिस्फुरणात्, तस्यां चार्थविचारस्य वेदान्तज्ञानकारणता, एवं चोभयोरर्थयोः स्फुरणमधिकम्, न तु शङ्कोदय इत्यरुच्याहुः किंचेति । ब्रह्म, ज्ञानेच्छाविषयं कार्यं न वेति । क्रियाविशेषणत्वाद्वितीयान्तम्, आर्द्रं पचतीतिवत् । सन्प्रत्ययान्तधातुपस्थाप्यक्रियाविशेषणानां कर्मत्वमिति व्युत्पत्तेः । उभय- लिङ्गता वा विषयपदस्य । तत्रेति यौगिकार्थे इत्यर्थः । लक्षयित्वेति असाध्यत्वात्स्व- संबन्धेन लक्षयित्वेत्यर्थः । नन्वेवमपि स्फुरितश्रुतिविरोधो नापैतीति चेत् न । तपो न मुख्य- साधनमित्यानन्दमयाधिकरणे वक्ष्यमाणत्वादिति, करणाभावश्रुतेरस्फुरणमेव वा । न्यायस्य काचि-
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ११ भाष्यप्रकाशः। किंच। व्यासप्रवृत्तिबीजबोधनार्थत्वेनापि युक्तः। तथाहि । प्रथमस्कन्धे चतुर्थाध्याये 'द्वापरे समनुप्राप्ते' इत्यारभ्य, 'एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः' इत्यन्तेन सर्वेषां श्रेयोऽर्थं प्रवृत्तिर्व्यासचरणानामुक्ता। पञ्चमे च, 'जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम्' इति नारदेन ब्रह्मविचारान्तायाः कृतेस्तथात्वं बोधितम् । तथाच ज्ञानविधिनार्थज्ञानार्थं प्रवृत्तानपि यदा जैमिनीयादिदर्शनैरेकदेशीयविरुद्धज्ञानवतो दृष्टवांस्तदा भारतकरणोत्तरमत्र प्रवृत्तः वेदार्थनिश्चयो वेदान्तार्थनिश्चयं विना न भविष्यतीति । अत एवात्राग्रे वेदान्तवाक्यैरेव ब्रह्म- विचारदर्शनं ब्रह्मणि सर्ववेदार्थत्वस्याग्रे स्थाप्यत्वाच्च । तदर्थं वेदान्तविचारावश्यकत्वमवश्यं साधनीयम् । तेन तत्र हेत्वाकाङ्क्षोपशमात् । अतस्तदुप
१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ किं तावत् प्राप्तम् । नारम्भणीय इति । कुतः । साङ्गोऽध्येयस्तथा ज्ञेयो वेदः भाष्यप्रकाशः। तत्र विषयो नामापाततः प्रतिपन्नः संदिग्धोऽर्थः । तादृशश्चात्र वेदान्तविचारो न तु वेदा- न्ताः । तेषामग्रिमसूत्रेषु विचार्यत्वात् । विशयः संशयः । एकधर्मिकविरुद्धकोटिद्वयावगाहि ज्ञानम् । तदाकारश्चात्र, आरम्भणीयो न वेत्यनेनोक्तः । पूर्वपक्षः प्रतिवादिमतम् । तदाहुः नारम्भणीय इति । तत्र पृच्छति कुत इति । 'वेदान्तविज्ञानसुनिश्चितार्थाः' इति श्रुतावर्थनिश्चयं प्रति वेदान्तवि- ज्ञानस्य हेतुताबोधनाद् विचारं विना च तदसंभवात् स आवश्यक इति कुतो नेत्युच्यत इत्यर्थः । एवं प्रश्ने प्रतिवादी अनारम्भणीयतामुपपादयन् गृह्णाति साङ्ग इत्यादि । अयमर्थः । वेदान्तवि- चारस्यारम्भणीयत्वं वदता सिद्धान्तिना विधिप्रयुक्त्यारम्भणीयत्वं वक्तव्यम् । तत्र विचारे प्रत्यक्ष- विधेरदर्शनात् कथंचिद् कुतश्चिद् वैधत्वं साधनीयम् । ततश्च कर्मादिविधिभ्यस्तत्सिद्धेरसंभवाद- ध्ययनादिविधिभ्यः साधनीयम् । तत्र, 'स्वाध्यायोऽध्येतव्यः' इत्येकः । 'अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत' इत्यपरः । 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इत्यन्यः । एते त्रयः पूर्वकाण्डस्थाः । 'श्रोतव्यः' इत्यादिरुत्तरकाण्डस्थश्चेतरः । तत्र भाट्टास्तावदेवं मन्यन्ते । अध्ययनविधेरक्षरग्रहणमात्रपर्यवसानेऽदृष्टकल्पनापत्तेरर्थज्ञान- रूपदृष्टफलार्थतैव युक्ता । न च विमतं वेदाध्ययनमर्थज्ञानहेतुरध्ययनत्वाद् भारताध्ययनवदित्य- नुमानेनाध्ययनस्य स्वाध्यायसंस्कारद्वाराऽर्थज्ञानहेतुत्वप्राप्तेर्न तावत्पर्यन्तं विधिव्यापारो युक्त इति वाच्यम् । विमतं वेदाध्ययनं नार्थज्ञानहेतुर्वेदाध्ययनत्वादाधुनिकाध्ययनवदिति प्रत्यनुमानेन तद्बाधात् । न च लोकेऽवगतसामर्थ्यानां शब्दानां वेदेऽपि बोधकत्वान्लिखितपाठादिनाऽप्यर्थ- ज्ञानसंभवादर्थबलादेव तत्प्राप्तेरर्थज्ञानांशे तस्यापूर्वविधित्वाभावाच्च तत्पर्यन्तं विधिव्यापारो युज्यत रश्मिः । तत्र विषय इत्यादि । वेदान्तविचार इति । 'जन्माद्यस्य यतः' इत्यारभ्य 'अनावृत्तिः शब्दादना- वृत्तिः शब्दात्' इत्यन्तसूत्रजातं ब्रह्मविचारशास्त्रं तत्तादृशमित्यर्थः । वेदान्तविज्ञानेति बुद्धिविज्ञानं मन्तव्यमिति प्रसिद्धश्रुतिमपहाय श्रुत्यन्तरोपन्यासोनेकस्मृत्यनुगृहीतत्वार्थः । तदसंभवा- दिति । वेदान्तविज्ञानजन्यनिश्चितार्थे सुष्ठु ( असंदिग्धोपि वेदार्थ इति भाष्येप्याह ) तस्यासं- भवादित्यर्थः । गृह्णातीति हेतून् संगृह्णातीत्यर्थः । यदि च प्रतीकमत्र कर्मत्वेनान्वेति तदा तु ज्ञेयोपि पूरणीयः । प्रथमप्रतीकेपि सूत्रविशेषणं भवितुमर्हति प्रतीकं 'अथातो ब्रह्मजिज्ञासा'इति सूत्रमेवादौ पठन्तीति । तथा च त्रेधान्वयः प्रतीकस्य कर्मत्वेनाऽभेदेन करणत्वेन चेति सिद्धम् । तत्र स्वाध्याय इत्यादि । अत्रार्धं वाक्यं तैत्तिरीयब्राह्मणस्थम्, अन्यद्वाक्यद्वयं शाखान्तरीयम् । अध्यापयीतेत्यत्राध्यापयेदिति केचित् पठन्ति, तृतीयं च 'ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽ- ध्येयो ज्ञेयश्च' इति पठन्ति । स्वाध्यायसंस्कारद्वारेति । 'अपहतपाप्मा स्वाध्यायो देवपवित्र- मिति' श्रुतेरपहतपाप्मत्वमादिपदोक्तमयातयामित्वं च तद्रूपसंस्कारद्वारेत्यर्थः । अथवा स्वाध्याय एव संस्कारस्तद्वारेत्यर्थः । अध्ययनं वेदे स्वाध्यायतासंपादनं यदर्थज्ञानहेतुरिति यावत् । विधि- व्यापार इति शाब्दी प्रवर्त्तनेत्यर्थः । दृष्टान्तवैषम्यान्नियमविधिमाश्रित्य शङ्कां निषेधति 12
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३
भाष्यप्रकाशः । इति वाच्यम् । अर्थज्ञानांशेऽस्य नियमविधित्वानङ्गीकारात् । न च यथाऽवघातनिष्पन्नैरेव तण्डुलै- र्दर्शपूर्णमासापूर्वसिद्धिर्न पेषणादिनिष्पन्नैस्तथाऽध्ययनावगतेनैवार्थेन क्रत्वपूर्वसिद्धिर्नतु प्रकारान्तराव- गतेनेति फलांशे नियमविधित्वं न युक्तम्, अनारभ्याधीतत्वेन श्रुत्याद्यभावेन च क्रत्वर्थताया अशक्यवचनत्वादिति वाच्यम् । वैदिकशब्दानां विलक्षणत्वेन पूर्वोक्तरीत्या सम्यगर्थज्ञानाभावे गृह्लादीनां द्रव्यादियज्ञासिद्धेः सर्वधर्मलोपप्रसङ्गात् । अतः पूर्वोक्तदूषणेनापूर्वविधित्वनियमविधि- त्वयोरशक्यवचनत्वेऽपि, 'वसन्ते ब्राह्मणमुपनयीत' इत्यादिवाक्येषु द्वितीयानिर्देशेन तेषां संस्का- र्यत्वावगमात् संस्कारस्य च कार्यान्तरयोग्यतासंपादनरूपत्वादुपनयनसंस्कृतानां त्रैवर्णिकानां कार्यान्तरापेक्षत्वेन तत्संनिधिपठितस्वाध्ययनस्य चानिर्दिष्टकर्तृकतया कर्त्रपेक्षत्वेन परस्पराकाङ्क्षा- संनिधियोग्यत्वैस्त्रैवर्णिकानां यज्ञरूपकार्यान्तराधिकारनियमार्थत्वस्याध्ययनविधौ सुखेन संभवात् । एवं चाधानाग्निहोत्रादिविधयस्त्रैवर्णिकेषु विद्वत्सु सत्सु तानेवाधिकुर्वन्ति । अन्यथा चतुर्था- देरप्याक्षिपेरन् । सोऽयमधिकारो वक्ष्यमाणेऽपशूद्राधिकरणेऽध्ययनविधिप्रसादलभ्य इत्यध्ययन- विधिरर्थज्ञानपर्यवसायीति । प्राभाकरास्तु, 'संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः' इत्याचार्यकरणे विहितेनोपनयीतेत्यात्मनेपदेनोपनयनरूपस्य माणवकसंस्कारस्याचार्यत्वसिद्धिप्रयोजनताप्रत्ययेऽपि,
रश्मिः । न च यथेति । दर्शपूर्णमासापूर्वसिद्धिरिति । अवान्तरापूर्वद्वारेण दर्शपूर्णमासपरमापूर्व- सिद्धिरित्यर्थः । श्रुत्याद्यभावेनेति । निरपेक्षो रवः श्रुतिः । आदिना लिङ्गादयः । वैदिकेत्यादि । स्वरादिकृतं वैलक्षण्यम् । स्फुटं प्रस्थानरत्नाकरे इदम् । द्रव्यादियज्ञासिद्धेरिति । 'द्रव्ययज्ञा- स्तपोयज्ञाः' इति गीतोदितास्त इत्यर्थः । सर्वधर्मलोपप्रसङ्गादिति । अतोऽनारभ्याधीतत्वेपि क्रत्वर्थतावश्यमभ्युपेयेत्यर्थः । अत इति । क्रत्वर्थत्वादित्यर्थः । सर्वधर्मलोपप्रसङ्गादित्यर्थो वा । एतच्च यज्ञरूपेत्यादिनान्वेति । पूर्वोक्तदूषणेनेति लिखितपाठादिनार्थज्ञानसंभवरूपेण दृष्टान्त- वैषम्यरूपेण चेत्यर्थः । संस्कार्यत्वावगमादिति । आप्यत्वोत्पाद्यत्वयोरसंभवेन तथात्वावगमा- दित्यर्थः । यज्ञरूपकार्यान्तरइति । स्वाध्यायब्राह्मणे 'यत्स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तत् ब्रह्मयज्ञः संतिष्ठते' इत्युपक्रम्य 'तस्मात्स्वाध्यायोऽध्येतव्यः' 'यं यं क्रतुमधीते तेन तेना- स्येष्टं भवति'इति तदुत्तरश्रुतेरिति भावः । एवं चाधानाग्निहोत्रादिविधय इति । 'वसन्ते ब्राह्मणोऽग्निमादधीत', 'यावज्जीवमग्निहोत्रं जुहोति', 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत'इत्येवमाद्या विधय इत्यर्थः । तानेवाधिकुर्वन्तीति । उक्तविधयस्तावद्विद्यार्जनमाक्षिपन्त्यनुपपत्त्या । यदा तु स्वाध्या- यविधिबोधिताध्ययनोपात्तविद्या द्विजन्मानो लभन्ते तदा तैरेव लब्धात्मानो न चतुर्थस्य विद्या- माक्षिपन्ति, अनुपपत्तिक्षयात् । यद्यपि चैवं विहितोपायसिद्धज्ञानवत एव विधयोऽधिकुर्वन्ति, तर्हि तदेव ज्ञानमकर्मकालोपात्तमप्यमिवत् क्रत्वङ्गमिति तच्छून्यस्य खाच्छन्द्येन विद्यामर्जयतः शूद्रस्याधिकारो न सिद्धयतीति त्रैवर्णिकानेवाधिकुर्वन्तीत्यर्थः । अन्यथेति अध्ययनविध्याक्षिप्त- त्वाभावे इत्यर्थः । चतुर्थादेरिति । अधिकारमिति शेषः । संबन्धसामान्यविवक्षया षष्ठी वा । इद- मत्र श्रीजैमिन्यभिप्रायं निखिलं संगत्वैर्महाहुः सोऽयमित्यादि । अपशूद्राधिकरण इति । इद-
13
१४ | श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । 'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते' ॥ इति स्मृतौ क्त्वाप्रत्ययेनोपनयनस्याध्यापनाङ्गताप्रतीतेस्तत् कथमध्यापनस्योपकरोतीत्यपे- क्षायां, 'शिष्यम्' इति, 'तमध्यापयेत्' इति च द्वितीयोक्तकर्मत्वलिङ्गादुपनेयात्मसिद्धिद्वारेति निधीयते । उपनीतोऽपि नाकिंचित्करोऽङ्गमिति तद्व्यापारापेक्षायां वाक्यान्तर उपनयनं प्रक्रम्य विहितं वेदाध्ययनमेवाध्यापनोपकारकत्वादुपनीतव्यापारतयाऽध्यवसीयते । तदेवं साङ्गमुपनयनं प्रयुञ्जा- नोऽध्यापनविधित्सुद्वारेणाध्ययनं प्रयुङ्क्ते । ततश्चाध्ययनस्यापि प्रयोजने विचार्यमाणे स्वसमवेत- त्वेनान्तरङ्गत्वार्दर्थज्ञानमेव तथात्वेन निधीयते, न त्वाचार्यत्वसिद्धिव्र्बहिरङ्गत्वत् । न च प्रथमा- वगतत्वेनाचार्यत्वसिद्धेरेवाध्ययनप्रयोजनं, न तु पश्चादवगतमर्थज्ञानमिति वाच्यम् । तत्सिद्धिं विनाऽप्यध्ययनानुष्ठानसंभवेन प्रथमं तदनवगमात् । न च शब्दादवगतो नियोग एव प्रयोजनम- स्त्विति वाच्यम् । अर्थज्ञानस्यापि प्रतीयमानत्वेन त्यागायोगात् । नचैवमध्ययनस्यार्थज्ञानार्थत्वे- ऽध्ययनविधिनेवार्थज्ञानप्राप्तिः किमिति नाद्रियत इति शङ्कथम् । अध्ययनविधेरधिकारशून्यत्वादा- चार्यकरणविधिप्रयुक्त्याऽऽत्मलाभानङ्गीकारे विश्वजिदादिवन्नियोज्यकल्पनापत्तेः । अतोऽध्या- पनविधिप्रयुक्तमेवाध्ययनमर्थज्ञानं च, नाध्ययनविधिप्रयुक्तमित्याहुः । एवं मीमांसकमतेऽप्यर्थज्ञानस्य वैधत्वात् तदाक्षिप्तविचारस्यापि वैधत्वम् । रामानुजाचार्यास्तु, अध्ययनविधिना स्वाध्यायाख्यस्य वेदस्याक्षरराशेर्ग्रहणं विधीयते । तत्रे- तिकर्त्तव्यताकाङ्क्षायामध्यापनविधिना, 'श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान्' ॥ रश्मिः । मधिकरणं षष्ठस पठेस्ति । द्वितीयोक्तकर्मत्वलिङ्गादिति । तत्सामर्थ्यादित्यर्थः । स्वेत्यादि । स्वमात्मास्मन्मते मनस्तत्समवेतत्वेन स्वत्यापेक्षत्वरूपान्तरङ्गत्यादित्यर्थः । बहिरङ्गत्यादिति प्रयो- गोपाधित्वेन तथात्वादित्यर्थः । तथाहि, संमाननेत्यायुक्तसूत्रे उत्सञ्जनज्ञानव्ययविवगणनानि नयते- र्वाच्यानि । इतरे तु प्रयोगोपाधयः । उत्सञ्जने दण्डमुद्यम्यते उत्क्षिपतीत्यर्थः । 'ब्राह्मणमुपनयीत' विधिनात्मसमीपं प्रापयेदित्यर्थः । उपनयनपूर्वकेणाध्यापनेनोपनेतरि ह्याचार्यत्वं क्रियत इति । आत्मलाभानङ्गीकार इति अधिकारिरूपलाभानङ्गीकार इत्यर्थः । विश्वजिदादिवदिति । एतच्चतुर्थस्य तृतीयपादे 'चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत नह्यशब्दं प्रतीयते' इत्यधि- करणे 'विश्वजिता यजेत' इत्यत्र फलाश्रवणेपि अध्याहृतफलान्वयमङ्गीकृत्य तत्किमित्यपेक्षायां 'सः स्वर्गः स्यात् सर्वान् प्रत्यविशेषात्'इत्यधिकरणे स्वर्गः फलमिति चिन्तितं, तेन स्वर्गकामो नियोज्य इति सिद्धं, तद्वदित्यर्थः । अत इति । प्रयोगोपाधिनाप्याचार्यत्वकामात्मलाभेन लाघवादित्यर्थः । तदाक्षिप्तेति । अविचारिताश्च शब्दा नार्थं प्रत्याययन्तीति भाष्यात् । 'येन विना यदनुपपन्नं तद् तेनाक्षिप्यते' इति । प्रौष्ठपद्यामिति भाद्रपद्याम् । उपाकृत्येति उपकारं कृत्येत्यर्थः । उपाकर्म कृत्वेति वार्धः । अर्धपञ्चमानिति । अर्धपञ्चमः पौषो माघो वा येषु भाद्रपदाश्विनकार्तिकमार्गशीर्षेषु आश्विन- 14
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५
भाष्यप्रकाशः ।
इत्यादिभिरपेक्षितानि विधीयन्ते । तेनाचार्योच्चारणानूच्चारणरूपमध्ययनमक्षरराशिग्रहण- फलमित्यवगम्यते । तच्च चतुर्वर्गफलस्य विधिवाक्ये कर्मत्वेन बोधितस्य स्वाध्यायस्य कार्यान्तर- योग्यतासंपादनरूपः संस्कारः । तेनाध्ययनविधिरक्षरग्रहणमात्रपर्यवसायी । अध्ययनगृहीतं च स्वभाषादेवार्थबोधकमिति स्वाध्यायस्यापि तथात्वात् तत्रापाततोऽवगम्यमानानामर्थानां स्वरूप- प्रकारविशेषनिर्णयाय वेदवाक्यविचाररूपमीमांसाद्वयश्रवणेऽधीतवेदः पुरुषः स्वत एव प्रवर्तते । तत्र कर्मस्वरूपनिरूपणे तेषामल्पास्थिरफलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चाऽमृतस्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलकवेदान्तविचाररूपशारीरकमीमांसायामधिकरो- तीत्याहुः । शैवास्तु, अध्ययनविधेरक्षरग्रहणमात्रपरत्वमङ्गीकृत्याध्ययनेनाऽऽपाततोऽर्थप्रतीतेस्तदनु ब्रह्म- स्थुलोपासनभूतज्योतिष्टोमादिविधायकानां सूक्ष्मोपासनभूतदहरादिविद्याविधायकानां चेतरेतर- विरोधाभासं पश्यंस्तद्विचारे पुरुषार्थाकाङ्क्षी पुरुषः स्वयमेव प्रवर्ततेऽतो नानिबन्धनो विचार इत्याह । भट्टभास्कराचार्यास्तु स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेऽपि ब्रह्मज्ञानं तेनाक्षेप्तुं न शक्यम् । 'यज्ञेन दानेन' इति, 'शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्येत्' इति श्रुत्या ब्रह्मज्ञानस्योपायान्तरसापेक्षत्वात् । कर्मावबोधनसमर्थेषु पुरुषेष्वध्ययनविधेः कृतार्थत्वेनो- पायान्तराक्षेपाक्षमत्वात् । 'श्रवणायापि बहुभिर्यो न लभ्यः' इत्यादिश्रुतेर्ब्रह्मणो दुर्ज्ञेयत्वाच्च । अतो ब्रह्मजिज्ञासा न तत्कारिता किंतु, 'श्रोतव्यो मन्तव्यः', 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः', 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इत्यादिवेदान्तविधिकारिता वास्त्वित्याहुः । तत्राध्ययनविधेरर्थज्ञानार्थत्वकल्पनमसंगतम् । 'यं यं क्रतुमधीते तेन तेनासेष्टं भवति' इतिवाक्येनाक्षरग्रहणमात्रेऽपि फलबोधने तदतिहाय फलान्तरकल्पनायायुक्तत्वात् ।
रश्मिः ।
कार्त्तिकमार्गशीर्षपौषेषु वा तादृशान् मासानित्यर्थः । चतुर्वर्गे त्वत्र बहुव्रीहिः । विधीति । 'स्वाध्यायोऽ- ध्येतव्यः' इति वाक्ये । गृहीतं चेति शास्त्रमित्यर्थः । इत्याहुरिति । तेनात्राक्षरग्रहणमधिक- मिति पूर्वस्माद्विशेषः । विरोधेत्यादि । 'आभासत्वे विरोधस्य विरोधाभास इष्यते' इत्यलंकारं लक्षयित्वा 'विनापि तन्वि हारेण वक्षोजौ तव हारिणौ' मनोहारिणौ इत्युदाहरणम् । 'घटाद्विना घटीयो धनेशः संराजतेऽधुने'ति चोदाहरणम्, तत्र श्लेषेपादाभासः । एवं चैकशाखाद्विरोधः । साधन- योरेकत्र सहानवस्थानलक्षणः आभासो विरोधस्तैवं कर्माणि ज्ञानप्रयोजकतया मोक्षे समुच्चीयन्त इति वक्ष्यन्ति । भगवांश्चैवाचार्य इति गुणकर्मत्वादङ्गत्वं ज्योतिष्टोमादीनामिति । इत्याहेति । तेनैतन्मते विचारसार्थक्यमात्रम्, न तु तस्य वैधत्वावैधत्वविवेचनमिति । ग्रामं गच्छतीत्यादौ ग्रामसंयोगोऽवान्त- रसंयोगान् गृह्णातीति तदनुसारेणाध्ययनस्याक्षरग्रहणमात्रं फलमित्याशयेनाहुः लभेति । दूरान्वयदीपोपि मीमांसकमते यः सोपि न । अक्षरग्रहणमात्र इति । दृश्यमाने इह इत्यर्थः । इदानीं 'लभ्यमाने फले दृष्ठे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नार्थक्यं भविष्यति' इति वाक्यात् । स्वर्गब्रह्मज्ञानादि तु साधनान्तरंयागविज्ञानादिभिरिष्टत्वेनोक्तं भवति ।
15
१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः। वाक्यबलेनाऽदृष्टद्वारकत्वस्याप्यदुष्टत्वात् । तेन तेन क्रत्वध्ययनेनासाध्येतुरिष्टं मनोवाञ्छितं भवतीति दृष्टफलार्थत्वस्यापि शक्यवचनत्वाच्च । नच प्रत्यक्षविरोधः । इदानीन्तनाध्ययनस्य व्यङ्ग- त्वेनादोषात् । नच व्यङ्गत्वे मानाभावः । स्वाध्यायपदस्य वेदे योगरूढ्या सुष्ठुससमन्तादध्यायो यस्येति योगस्यापि ग्राह्यत्वे देशकालगुरुशिष्यनिष्ठानां शोभनगुणानां पाठार्थानुष्ठानेषु शङ्का- राहित्यरूपस्य समन्तत्वस्य च ग्रहणेन स्वाध्याय इति समाख्यया एव तत्र मानत्वात् । नचैवं सत्यर्थज्ञानस्यापि प्राप्तेः कथं तदर्थत्वकल्पनस्यासंगतिरिति शङ्क्यम् । तैस्तस्य माणवकाधिकार- रश्मिः। ननु तत्राधीत इत्यध्ययनस्य स्वर्गब्रह्मज्ञानपर्यन्तमस्मानादिष्टपदोक्तसाध्यसाधनभावव्याहति- रित्याशङ्काहुः वाक्यबलेनेत्यादि वाक्यं यं यं क्रतुमिति । अभ्युपगम्याहुः तेन तेनेति दृष्ट- फलार्थत्वेन । दृष्टफलार्थत्वस्येष्टार्थत्वसेनेति यावत् । इति योगस्यापीति । पूर्वकाण्डविषयत्वेन रूढे शब्दे । देशकालेत्यादि । यज्ञाद्यनुष्ठापका देशादयः । पूर्वतन्त्रे एकादशस्य द्वितीये पादे 'एकदेशकाल- कर्तृत्वं' इत्यधिकरणे समे दर्शपूर्णमासाभ्यां यजेत पौर्णमास्यां पौर्णमास्या यजतीति समत्वपौर्णमासीत्वे देशकालयोर्गुणौ चिन्तितौ । गुरुशिष्ययोस्त्वत्रैव स्पष्टा इति । समाख्याया इति । यौगिकस्य शब्दस्येत्यर्थः । तन्मतमनुसृत्य दूषयन्ति तैस्तस्येति । मीमांसकैरित्यर्थः । सिद्धान्तस्तु प्राथमिकमध्ययनमध्यापनविधिप्रयुक्तम्, माणवकोपनयनस्याध्यापनाङ्गत्ववद- ध्ययनाङ्गत्वेपि तस्य बालत्वेन स्वतोऽध्ययने प्रवर्तनादर्शनात्, किंच 'द्वितीयं प्राप्यानुपूर्व्या जन्मोपनयनं द्विजः' इत्युपनीतमुपक्रम्य 'आचार्य मां विजानीयात्' इति तस्याचार्ये भगवद्बुद्धिकरणं विहितम् । तथा 'गच्छेदाचार्यसंसदि' इति स्मृत्यन्तरे चाचार्यसंसद्गमनं च विहितम् । तदुभयमपि क्रीडना- सक्तस्य बालस्य न संभवति । तस्माच्छुतिचोदितोऽध्ययनज्ञानयोर्विधिर्न माणवकमधिकरोति । अपि च । त्रैवर्णिकाः कर्तव्यमपेक्षमाणा अध्ययनं च कर्तारमपेक्षमाणमुभये सापेक्षा अन्योन्यं भवन्ति । तत्र विद्वत्तायोग्यतद्वयोग्र्यौ कर्तारावपेक्षेतेऽध्ययनम् । नाद्यः । फलोपधायकभोग्यमपेक्षमाणं न माणवकमपेक्षेत, नेतरः तादृशफलानिष्पत्तेः । न चैवं त्रैवर्णिकाधिकारनियमभङ्ग इति वाच्यम् । अष्टवर्षवाक्ये उपनयनाध्यापनयोः संनिधानादध्ययनं विना चाध्यापनासिद्धेस्तदाक्षिप्तनैवाध्यय- नेनोक्ताधिकारनियमसिद्धेः । न च स्वाध्यायवाक्यवैयर्थ्यमिति शङ्क्यम्, वेदस्य स्वाध्यायत्व- बोधनेन तस्य कृतार्थत्वात् । एतेनाध्ययनविध्यभावे माणवकस्याध्ययनार्था प्रवृत्तिर्न स्यादिति प्रत्यु- क्तम् । स्वस्याचार्यत्वसिषाधयिषुर्णैव तेऽध्यापनीया इति । न च किमनेन निर्बन्धेन अध्ययन- विधिरेव माणवकं प्रवर्तयत्विति शङ्क्यम्, विधिव्यापारकौण्ठ्यप्रसङ्गात् । यत्तूपनीतव्यापारापेक्षायामु- पनयनमुपक्रम्य विहितमध्ययनमध्यापनोपकारकत्वेन तदङ्गं नार्थज्ञानाङ्गं साध्यद्वयस्यैकत्रासंभवा- दित्युक्तं तदपि न । एकस्यापि वाहनकरणकयानस्य सुखोद्देशदेशप्राप्त्योरङ्गत्वात् । तदप्यध्या- पनाक्षिप्तमध्ययनं लौकिकमेवोरीकार्यम्, तावताऽध्यापनसंभवात्; विहितस्यापि तत एवाङ्गी- कारे तुरेशाभावात् ततो नापूर्वं सिध्येदित्युक्तम्, तदपि तथा । लौकिकेन तेनाचार्यत्वासिद्धेः । वेदाध्ययनेनैव तत्स्मरणात् । न चापूर्वासिद्धिरिति वाच्यम्, आचार्यकृतोद्देशेनापि तत्सिद्धेः । पूर्वतन्त्रीयचतुर्थतृतीयांश 'फलसंयोगस्त्वचोदिते न स्याच्छेषभूतत्वात्' इत्यधिकरणचिन्तितजातेष्टौ पितु- कृतोद्देशवदिति दिक् । 16
त्वेनाङ्गीकारात् । वेदस्य गुरुमुखाद् ग्रहणदशायां तं प्रति स्वाध्यायत्वस्य भावित्वेन तदानी- मभावात् । 'वेदमन्च्याऽऽचार्योऽन्तेवासिनमनुशास्ति, सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमद', इति तैत्तिरीयाणां शिक्षोपनिषच्छ्रुत्या तथानिश्चयात् । आधानाग्निहोत्रादिविधीनामपि तत्र तदाक्षेपकत्वस्याध्ययनविधिप्रसादलभ्यत्वोपगमेन प्रसादस्य च माणवके सामर्थ्याभावादभावेन तेषामप्याक्षेपकतायां कौण्ठ्यात् । आश्रिते चैकवाक्यत्वे, ज्ञेयश्चेति विध्यन्तरस्यापि संप्राह्यत्वात् तद्बलादेवार्थज्ञानमङ्गीकार्यम् । अन्यथा तद्वैयर्थ्यादिति । अत एव प्राथमिकाध्ययनस्यापि तदर्थत्वमसङ्गतम् । किंत्वध्यापनप्रयुक्तत्वं यदुक्तं तन्मात्रं युक्तम् । ज्ञातृनियोज्यस्याचार्यत्व- कामिनस्तत्रैव विधौ सत्त्वेन लिङ्प्रयोगेण च तत्र विधित्वस्यासंदिग्धत्वात् । कृत्यानां त्वाव- श्यकार्थेऽप्यनुशासनात् । वयसा जातस्नातकियाणां त्रैवर्णिकानामध्ययनस्यावश्यकत्वबोधनेन वाक्यसार्थक्यसिद्धेः । एवं च यद्यप्यध्यापनविधावध्यापनमात्रं श्रुतं, तथापि, 'साङ्गो वेदोऽध्येयो ज्ञेयश्च' इतिभावनावद् गुरुणाङ्गापाठनेऽर्थाज्ञापने च तदसिद्ध्या वैयर्थ्ये वाक्यस्य प्रसक्ते तद्वारणार्य तथाध्यापनमङ्गीकरणीयम् । आचार्यलक्षणस्मृतौ वेदस्य 'सकल्पं सरहस्यं च' इति विशेषणाच्च । रश्मिः । प्रकृतमनुसरामः । दूषणमाहुः वेदस्येत्यादि । अभावादिति । तथा च माणवकं प्रति स्वाध्यायसमाख्यासामर्थ्यविरहेणार्थज्ञानस्याप्यनुपलभ्भेन तदर्थत्वकल्पनमिति भावः । ननु स्वस्वसाधारण्याेन पितृपितामहादिपरंपराप्राप्ता शाखा स्वाध्याय इति योगस्य सायणीयेऽङ्गीकारात्, पूर्वोक्तं न साधीय इति शङ्कामपनुदन्तो वेदे स्वाध्यायत्वस्य भावित्वं श्रौतमित्याहुः वेदमन्- च्येत्यादि । तथानिश्चयादिति वेदे स्वाध्यायत्वस्य भावित्वनिश्चयादित्यर्थः । अन्यथा स्वाध्यायमन्च्येत्येव वदेदिति भावः । तदाक्षेपकत्वस्येति विद्वच्चैवर्णिकाक्षेपकत्वस्येत्यर्थः । आक्षे- पकतायामिति अर्थज्ञानाक्षेपकतायामित्यर्थः । अतः परमवशिष्टमर्थज्ञानांशे नियमविधित्वम्, तदपि प्राभाकरमतदूषणेन दूषितं भविष्यतीत्याशयेनाहुः आश्रिते चेति । इतीति । अयमत्र प्रकर्षं श्रूते । तथा च विधिवैयर्थ्यं प्रकृष्टो हेतुरित्यर्थः । प्रत्यक्षश्रुतिलभ्यत्वसंभवे चोदकप्राप्तस्रवस्वीकार- स्यानुचितत्वादित्यपरः । एतच्च पूर्वतन्त्रे द्वादशस्य चतुर्थे पादे 'विप्रतिषेधे परम्' इत्यधिकरणे चिन्ति- तम् । यत्रात्विज्ययाजमानयोः कर्मणोर्युगपदालम्भास्तत्र ये यजमानास्ते ऋत्विज इति विहित- मार्त्विज्यं चोदकप्राप्तयाजमानाद् बलीय इति । विधाविति उपनयीतेति विधावित्यर्थः । पूर्व- तन्त्रे अपूर्वत्वोपपादनाक्षादध्ययनविधिप्रयोजनमाहुः कृत्यानामित्यादि । अनुशासनादिति । 'आवश्यकाधमर्णयोर्णिनि'रित्येतदनन्तरं 'कृत्याश्च'इत्यनुशासनादित्यर्थः । वाक्यसार्थक्यसिद्धेरिति । तेन नात्र नित्यानुवादगन्धोपीत्याशयः विधिपक्षेप्युपादेय इति वक्ष्यन्ति । न चैवमनधीयाना ब्रात्या भवन्तीति वाक्यवैयर्थ्यम् । 'तयोरेव कृत्यक्तखलर्थाः' 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च'इत्यादिसूत्रैराने- कार्थेषु प्राप्तस्य तव्यस्यावश्यकार्थत्वावेदकत्वात् । वाक्यत्रयैकवाक्यतया यत्सिद्धं तदाहुः एवं चेत्यादि । विशेषणाच्चेति । अनेनाध्यापनविधौ नियोज्याभावादध्यापनसमभिव्याहृतेनोपनयी- तेत्यात्मनेपदेनाचार्यकरणलाभे तत्कामिना नियोज्याकाङ्क्षा पूरणीया । तथा सत्यध्यापनसाचार्यत्व- सिद्धिः प्रयोजनं नत्वर्थज्ञापन्नमपि, ततश्च सिद्धे आचार्यत्वे तस्यार्थज्ञापनानावश्यकत्वान्माणव- १ तै० आ० १०।२०
१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० १ पा ० १ अ ० १ सू ० १ भाष्यप्रकाशः । एवं साङ्गेऽधीते ज्ञाते च तस्य स्वाध्यायः सिध्यति । तदोक्तं फलमपि संपद्यत इति वाक्यत्रयैक- वाक्यतयावसीयते तस्मात् प्राथमिकमध्ययनमध्यापनप्रयुक्तम्, अर्थज्ञानं च प्रत्यक्षश्रुतिलभ्य- 'मिति भाट्टप्राभाकरयोः पूर्वोक्तकल्पना असंगतैव । कृत्यप्रत्यययोर्विध्यर्थकत्वपक्षेप्युक्त एव प्रकारो युक्तः । अन्यथा विधिकौण्ठ्यप्रसङ्गात् । एवं च रामानुजाचार्यैरध्ययनविधेरक्षरग्रहणपर्य- वसायित्वं, स्वाध्यायस्य च स्वभावार्थबोधकत्वं यदुक्तं तदप्युक्तदिशैव युक्तम् । नत्वन्यथापि । एवमेव भास्कराचार्योक्ते स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेपि बोध्यम् । शैवस्तु विचारसार्थक्य- मात्रमाह, न तु शास्त्रप्रयोजकं कंचन विधिमपीति तन्मते वैधत्वमेवायाति । तेन तत्तूदासीनप्रा- य