आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
ानि च नृणां भृशम् ॥ १७२ ॥" Wait! Look at the words: "घ्नन्ति" (ghnanti) "पुण्ययशः" (puṇyayaśaḥ) Wait, is it "क्रान्ति" or "कान्ति"? Look at: 'का' with '्' or no '्'? Let's look at 'क्रान्ति': Is there a slant line across the vertical stem of 'क'? Wait, compare 'कृच्छ्र' (line 17) with this 'क': This 'क' has a slant line going down-left! Like 'क्र'! Wait, look at 'क्र' in 'प्रकारस्तु' (line 1): 'प्र' has a slant. 'क्र' in 'वैक्रान्त' has a slant across the loop/stem. Here: it has a slant across the vertical stem: 'क्रान्ति'! Wait, "पुण्ययशःक्रान्ति"? Or "पुण्ययशःकान्ति"? Wait, could it be "कान्ति"? In Sanskrit, it's usually "कान्ति" (lustre, beauty). But sometimes printers print "क्रान्ति" or "कान्ति". Let's look really closely at the letter: The letter has: The 'क' loop on the left and hook on the right. There is a slant line on the stem!
ऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां न्यसेदित्यर्थः । अथाशक्तस्य ग्रहप्रातिकूल्ये धारणदाने आह— माणिक्यं द्युमणेर्बुधस्य गरुडोद्गारो गुरोः पुष्पकं गोमेदं तमसः प्रवालमवनीसूनोर्विधौर्मौक्तिकम् । नीलं मन्दगतेः कवेस्तु कुलिशं केतोर्विडालाक्षकं रत्नं रत्नविदो वदन्ति विहितं दानेऽथवा धारणे ॥ १७४ द्युमणेः सूर्यस्य, तमसः राहोः, अवनीसूनोर्मङ्गलस्य, मन्द- गतेः शनैश्चरस्य, कवेः शुक्रस्य, विडालाक्षकं विदूरमणिः, एषां प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ मुक्ताफलानां द्रुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह— मुक्ताफलानि सप्ताहं वेतसाऽम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥ पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ १७६ ॥ इति मुक्तादिरत्नद्रुतयः । अथ सौराष्ट्रीसत्त्वम्— सिताऽसिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् । शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् । धमनान्मुञ्चते सत्त्वं क्रामकं¹ कोष्ठयन्त्रके ॥ १७७ ॥ अथ सस्यकसत्त्वम्— सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः । स्त्रीमूत्रे वाऽथ यामैकं तत्पादांशां निशां क्षिपेत् ॥ १७८ ॥ मर्द्य करञ्जतैलेन यामैकं गोलकं च तत् । अन्धमूषागतं ध्मातं घटिकार्धं दृढाग्निना । इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ १७९ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे त्रयोदशोऽध्यायः ॥ १३ ॥ १ ‘क्रामके’ ग. ।
१४.] आयुर्वेदप्रकाशः । १८७ अथ चतुर्दशोऽध्यायः । अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्यायं व्याख्यास्यामः। अथ विषोत्पत्तिः— शृणु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् । भेदांस्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥ देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः । पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥ एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः । मन्थानं मन्दरं कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥ क्षीराब्धिमन्थनं तत्र प्रारब्धं सुरसुन्दरि । सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥ अतीव मन्थनाद्देवि मन्दराघातवेगतः । अहिराजश्रमादेव विषज्वाला विनिर्गता ॥ ५ ॥ ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे । (तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् । प्रलयानलसंकाशं क्रुद्धः काल इवोत्कटम् ॥) तां दृष्ट्वा विबुधाः सर्वे दानवाश्च महावलाः ॥ ६ ॥ विषण्णवदनाः सद्यः प्राप्ताश्चैव मदन्तिकम् । ततस्तैः प्रार्थ्यमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥ ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् । पत्ररूपेण कुत्रापि मृत्तिकारूपतः क्वचित् ॥ ८ ॥ कन्दरूपेण कुत्रापि तेषां लक्षणमुच्यते । विषं तु गरलं क्ष्वेडं कालकूटं च नामतः । अष्टादशविधं ज्ञेयं विषं कन्दभवं बुधैः ॥ ९ ॥ तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् । दशोग्रभेदाः संस्पर्शादाघ्राणादपि मारकाः ॥ १० ॥
१८८ आयुर्वेदीयग्रन्थमाला । [अध्यायः यथा— सक्तुको मुस्तकः कौर्मो दार्वीकः सार्पपस्तथा । सैकतो वत्सनाभश्च श्वेतशृङ्गी तथैव च ॥ ११ ॥ एतानि भेषज्यकृते विषाण्यष्टौ समाहरेत् । जराव्याधिहराणि स्युर्विधिना शीलितानि हि ॥ १२ ॥ लक्षणानि— चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् । सक्तुकं तं विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥ ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति । कूर्माकृति भवेत्कौर्मं दार्वीकं हि फणाकृति ॥ १४ ॥ ज्वरहत्सार्पपं रोमि सर्षपाभकणान्वितम् । स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्विरोमकः ॥ १५ ॥ ज्वरादिसर्वरोगघ्नः कन्दः सैकत उच्यते । यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ॥ १६ ॥ न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः । आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥ १७ ॥ प्रयोज्यो रोगहरणे जारणायां रसायने । गोशृङ्गवद्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥ १८ ॥ एतानि सक्तुकादीनि वातरक्ते त्रिदोषके । मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥ वातरक्ते वातप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे वा इति तत्त्वार्थः । अथ वर्ज्यानि— कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा । हालाहलश्च कर्कोटो ग्रन्थिर्हारिद्रकस्तथा ॥ २० ॥ १ 'दीर्घरोगं' ग. । २ 'सर्षपाभकणाकृति' ग. ।
१४.] आयुर्वेदप्रकाशः । १८९ रक्तशृङ्गी केसरश्च यमदंष्ट्रा च पण्डितैः । त्याज्यानीमानि योगेषु विषाणि दश तत्त्वतः ॥ २१ ॥ लक्षणानि— देवासुररणे देवैर्हतस्य पृथुमालिनः १ । दैत्यस्य रुधिराञ्जातस्तरुराश्वत्थसंनिभः ॥ २२ ॥ निर्यासः कालकूतोऽस्य मुनिभिः परिकीर्तितः । सोऽहिच्छत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् ॥ २३ ॥ शृङ्गवेरः पर्वतविशेषः ॥ घनं रूक्षं सुकठिनं भिन्नाञ्जनसमप्रभम् । कन्दाकारं समाख्यातं कालकूटं महाविषम् ॥ २४ ॥ लक्षणान्तरम्— वृत्तः कन्दो भवेच्छुष्को जम्बीरफलवच्च यः । तत्कालकूटं जानीयाद्घ्राणमात्रान्मृतिप्रदम् ॥ २५ ॥ मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते । दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥ २६ ॥ गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा । तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥ २७ ॥ असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये । दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते ॥ २८ ॥ अन्तर्नीलो बहिः श्वेतो हालाहल उदाहृतः । कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥ २९ ॥ हरिद्राग्रन्थिवद्ग्रन्थिः सः स्यात्कृष्णोऽतिभीषणः । मूलाग्रयोस्तु वृत्तः स्यादायतः पीतगर्भकः ॥ ३० ॥ कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स तु कन्दकः । गोशृङ्गेऽग्रे च निक्षिप्ते नास्याऽसृक्प्रवर्तते ॥ ३१ ॥ १ 'वृषुमालिनः' ग. । २ 'भवेत्कृष्णो' ग. ।
१९० आयुर्वेदग्रन्थमाला । [अध्यायः कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् । शुष्कार्द्रवत्सकिञ्जल्कं मध्ये तत्केसरं विदुः ॥ ३२ ॥ श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते । रसायने धातुवादे विषवादे क्वचित्क्वचित् । दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ ३३ ॥ अथ कैश्चिन्नव भेदा उक्तास्ते यथा— वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः । सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ॥ ३४ ॥ हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव । पलाशपत्रवत्पत्रैस्तद्वीजसदृशैः फलैः ॥ ३५ ॥ स्थूलः कन्दो भवेत्तस्य प्रभावस्तु महान् स्मृतः । सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ॥ ३६ ॥ यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः । वर्णतो लोहितो यः स्याद्वर्हिमान् दहनप्रभः ॥ ३७ ॥ महादाहकरो घ्राणात्कथितः स प्रदीपनः । वर्णतः कपिलो यत्स्यात्तथा भवति सारकः । ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ ३८ ॥ शेषाः पूर्वमुक्ता एव । अथैषामुत्पत्तिस्थानानि—वत्सनाभः पर्वतक्षोणीषूत्पद्यते, हारिद्रो हरिद्राकक्षेषु, सक्तुकः पर्वतदेशे, प्रदीपनः समकक्षेषु, सौराष्ट्रिकः सुराष्ट्रदेशे, शृङ्गिकः कपि- लेषु नदीकक्षेषु, कालकूटोऽहिच्छत्रादौ, हालाहलः किष्कि- न्धादौ, ब्रह्मपुत्रैः ब्रह्मनाम कश्चन पर्वतप्रदेशस्तस्य कक्षेषु ॥ अथैषां वर्णाः— ब्राह्मणं पाण्डुरविषं क्षत्रियं रक्तवर्णकम् । वैश्यं पीतप्रभं शूद्रं कृष्णवर्णं विनिन्दितम् ॥ ३९ ॥
१४.] आयुर्वेदप्रकाशः । १९१ ब्राह्मणं दीयते रोगे क्षत्रियं विषभक्षणे । वैश्यं व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥ ४० ॥ अथ विषगुणाः— विषं रसायनं वल्यं वातश्लेष्मविकारनुत् । कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ ४१ ॥ व्यवायि शीतनुद्ग्राहि कुष्ठवातास्रनाशनम् । अग्निमान्द्यं श्वासकासं प्लीहोदरभगन्दरान् । गुल्मपाण्डुव्रणांशांसि नाशयेद्विधिसेवितम् ॥ ४२ ॥ अन्यत्रापि— विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । आग्नेयं वातकफहृद्योगवाहि मदावहम् ॥ ४३ ॥ तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । पथ्याशिनां त्रिदोषघ्नं बृंहणं वीर्यवर्धनम् ॥ ४४ ॥ व्यवायि सकलकायं व्याप्य पाकगमनशीलं, विकाशि ओजःशोषणपूर्वकसंधिबन्धाशिथिलीकरणशीलं, आग्नेयं अ- धिकाग्न्यंशं, योगवाहि सङ्गिगुणग्राहकं, मदावहं तमोगुणा- धिक्येन बुद्धिविध्वंसकम् । अथ विषशोधनम्— ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधिते । तस्माद्विषं प्रयोगेषु शोधितं योजयेद्भिषक् ॥ ४५ ॥ यथा— उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु । अव्यावृतं विषहरैर्वातादिभिरशोषितम् ॥ ४६ ॥ विषहरैर्मयूरमण्यादिभिः ॥ विषभागांश्चणकवत्स्थूलान् कृत्वा तु भाजने । तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ ४७ ॥
१९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः शोषयेन्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः । प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ४८ ॥ इयं शुद्धिः ग्रीष्मर्त्वादावुचिता, तत्र तीव्रातपसद्भावात् ॥ रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् । विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ४९ ॥ अथ तीव्रातपाभावे प्रकारान्तरेण शोधनं— विषभागांश्चणकवत्स्थूलान् कृत्वा तु स्वेदयेत् । गोदुग्धे घटिकाः पञ्च शुद्धिमायाति तद्विषम् ॥ ५० ॥ न प्रोक्तं शोधनं यस्य विषस्योपविषस्य वा । गोदुग्धे स्वेदनं तस्य कर्तव्यं शुद्धिकारकम् ॥ ५१ ॥ योगतरङ्गिण्याम्— विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत् । गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ ५२ ॥ गोमूत्रं तु प्रदातव्यं प्रत्यहं नूतनं बुधैः । त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् । शुध्यत्येवं विषं सेवायोग्यं भवति रोगजित् ॥ ५३ ॥ अथान्यः प्रकारः— खण्डीकृत्य विषं वस्त्रपरिवद्धं तु दोलया । अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ ५४ ॥ क्षीराभावे ह्यजायास्तु गव्यक्षीरेण शोधयेत् । जायते दोषनिर्मुक्तं विषं योगेषु योजयेत् ॥ ५५ ॥ अथान्यः प्रकारः— विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ ५६ ॥ इति विषशुद्धिः ॥
१४.] आयुर्वेदप्रकाशः । १९३ समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते । योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥ अन्यमतम्— तुल्येन टङ्कणेनैव द्विगुणेनोपणेन च । विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥ ५८ ॥ इति विषकल्पार्थं विषमारणम् । अथ विषसेवा— नानारसौषधैर्यै तु दुष्टा यान्तीह नो गदाः । ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ५९ ॥ शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । हेमन्तशिशिरर्तौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥ चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि । अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥ विषं तस्मै न दातव्यं दत्तं चेद्रोगकारकम् । दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२ ॥ क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे । ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् । पथ्यैः स्वस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ ६३ ॥ अथ विषानधिकारिणः— न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि । क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४ ॥ गर्भिण्यां बालवृद्धेषु न विषं राजमन्दिरे । न दातव्यं न भोक्तव्यं विषं वादे कदाचन ॥ ६५ ॥ आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् । विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥ सर्वरोगोपशमनं दृष्टिपुष्टिकरं विषम् । विधिना मात्रया काले भवेत्पथ्याशिनां नृणाम् ॥ ६७ ॥ १७
१९४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ विषमात्राकथनम्— यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया । सर्वरोगहरं नॄणां जायते शोधितं विषम् ॥ ६८ ॥ मतान्तरम्— प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् । तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ ६९ ॥ षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् । सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७० ॥ क्रमहान्या तथा देयं द्वितीये सप्तके विषम् । यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७१ ॥ वृद्ध्या हान्या प्रदातव्यं चतुर्थे सप्तके तथा । एवं सात्म्ये समायाते परां मात्रां भिषग्वरः ॥ ७२ ॥ स्थिरीकुर्याद्यथेच्छं तु ततस्त्यागं तु कारयेत् । सेवनक्रमहान्याऽयं विषकल्प इतीरितः ॥ ७३ ॥ यवमात्रं ग्रसेत्स्वच्छो गुञ्जामात्रं तु कुष्ठवान् । एवं यवाष्टपर्यन्तं परा मात्राऽधिका नहि ॥ ७४ ॥ अथ विषे पथ्यानि— घृतं क्षीरं सितां क्षौद्रं गोधूमांस्तण्डुलान्यवान् । मरिचं सैन्धवं द्राक्षां मधुरं पानकं हिमम् ॥ ७५ ॥ ब्रह्मचर्यं हिमं देशं हिमं कालं हिमं जलम् । विषस्य सेवको मर्त्यो भजेदतिविचक्षणः ॥ ७६ ॥ अथ विषपरीक्षा— मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् । अष्टौ वेगास्तदा तेन जायन्ते तस्य देहिनः ॥ ७७ ॥ प्रशमः प्रथमे वेगे द्वितीये वेपथुर्भवेत् । वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ ७८ ॥
१४. ] आयुर्वेदप्रकाशः । १९५ फेनं वमेत्पञ्चमे तु षष्ठे वैकल्यमेव च । जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७९ ॥ विषवेगानिति ज्ञात्वा मन्त्रद्रव्यैर्विनाशयेत् । यावन्नष्टमवेगं तु संप्राप्नोति हि मानवः ॥ ८० ॥ अतिमात्रं यदा भुक्तं वमनं तस्य कारयेत् । अजादुग्धं ददेत्तावद्यावद्वान्तिर्न जायते ॥ ८१ ॥ अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः । विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ ८२ ॥ तदा जीर्णमिति क्वचित्पाठः ॥ विषं हन्याद्रसः पीतो रजनीमेघनादयोः । सर्पाक्षी टङ्कणं वाऽपि घृतेन विषहृत्परम् ॥ ८३ ॥ चत्वारो योगाः— पुत्रजीवकमज्जा वा पीता निम्बुकवारिणा । विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ८४ ॥ गोधृतपीता हरति विषं गरलं च वन्ध्यकर्कोटी । सकलविषोपशमनी त्रिमूली सुरभिजिह्वा च ॥ ८५ ॥ अतिमात्रं यदा भुक्तं तदाऽऽज्यं टङ्कणं पिबेत् । विषं सवेगं तेनाशु नाशमाप्नोति निश्चितम् ॥ ८६ ॥ वाग्भटः— आदौ वान्तविरिक्तस्य हरिद्रे कटभीं गुडम् । सिन्धुवारकनिष्पाववाष्पिकाशतपर्विका- ॥ ८७ ॥ तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम् । नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥ ८८ ॥ विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा । सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ८९ ॥
१९६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः शुद्धे हृदि ततः शाणं हेमचूर्णं च दापयेत् । न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ९० ॥ जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः । साधकानां हितार्थाय सदाशिवमुखोद्गतम् ॥ ९१ ॥ क्षिप्रं सर्वविषघ्नं च मन्त्रं वै प्रवदाम्यहम् । ॐ नमो भगवति श्रीघोणे हर २ दर २ पर २ वर २ वध २ लर २ लीं २ हर २ भां २ सर २ शं २ क्ष्व २ क्षीं २ ह्रीं २ भगवति श्रीघोणे यः ३ सः ३ वर २ रं सं ४ ख- ण्डावरूपे ह्रीं ३ वर विहङ्गम मानुषयोगक्षेमं वद शेखरि- रखः स्वाहा इति मन्त्रः । विद्यायाः स्मृतिमात्रेण नश्यन्ते गुह्यकादयः । सप्तजप्तेन तोयेन प्रोक्षयेद्विषदूषितम् ॥ ९२ ॥ उत्तिष्ठति स वेगेन शिखावन्धेन धारयेत् । त्रिमन्त्रितेन शङ्खेन दुन्दुभिं वादयेद्यदि ॥ ९३ ॥ देशान्तरस्थं शब्देन निर्विषं कुरुते क्षणात् । विषं दृष्ट्वा यदा मन्त्री मन्त्रमावर्तयेत्सकृत् ॥ ९४ ॥ यान्ति निर्विषतां दृष्ट्वा अपि भारशतानि च । अथापरं मनुं वक्ष्ये साधकानां हिताय वै । येन निर्विषतामेति सर्पादिविषपीडितः ॥ ९५ ॥ ॐ नमो प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विन- तासुताय हे गरुड २ काश्यपसुत २ वैनतेय २ तार्क्ष्यस्वर्ण- वज्रचञ्चुवज्रतुण्डवज्रनखप्रहरणाय अनन्तवासुकितक्षककर्को- टकपद्ममहापद्मशङ्खपालकुलिकजयविजय अष्टमहानागकाल उ- च्चाटनी मूषकविषप्रहरणाय हन २ धुन २ शीघ्रं कम्प २ आवेश २ ठः ठः रहे श्रीगरुडाय नमः । इति ॥
१४.] आयुर्वेदप्रकाशः । १९७ मन्त्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् । सप्तवाराभिजप्तं तु पाययेद्गतचेतनम् ॥ ९६ ॥ सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् । त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥ मुखमध्ये तदा सेकाः कर्तव्यास्तज्जलस्य हि । अथवा मस्तके तस्य तर्जन्या ताडयेद्बुधः । त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥ ९८ ॥ अथ वृश्चिकविषहरणमन्त्रः— ॐ कालो विंछु कर्तरीयालो सोनानी चाँच रूपानो पन्नोरो विंछु उतरे तो उतारु न तो गरुडमो हंकारुं आवेगो मोर खावेगो तोड विंछू विनरे तो हाक हलोला करे मेरी भक्ति गुरुकी शक्ति फुरो मन्त्र ईश्वरोवाच ॥ मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया । मार्जयन्मन्त्रमुच्चार्य सप्तकृत्वा त्रिवारकम् ॥ ९९ ॥ सद्यो निर्विषतां कुर्यान्नरं वृश्चिकदंशितम् । बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥ अथापरो वृश्चिकविषहरो मन्त्रः—ॐ नमो पुनपुरो ॥ मार्जयन्मुखवातेन मन्त्रेणानेन मन्त्रवित् । तिस्रो रेखाः प्रकुर्यात्तु सरला भुवि चात्मनः ॥ १०१ ॥ सन्मुखास्तासु मन्त्रेण रेखैकां तिर्यगायताम् । प्रकुर्वन्निर्विषीकुर्यान्मन्त्रावृत्त्या मुहुर्मुहुः ॥ १०२ ॥ मुहुर्मुहुरिति २१ वारं; अनुभूतं मन्त्रद्वयमपि । अथोप- विषाणि— अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥
१९८ आयुर्वेदीयग्रन्थमाला । [अध्यायः एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते । मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ॥ १०४ ॥ अर्कसेहुण्डयोर्दुग्धमितराणां जटा भवेत् । रसः प्रयोज्यो योगेषु यद्वा पञ्चाङ्गजो रसः ॥ १०५ ॥ मतान्तरम् — अर्कस्नुग्लाङ्गलीगुञ्जाहयारिविषमुष्टयः । आफेनोन्मत्तजेपाला नवोपविषजातयः ॥ १०६ ॥ भङ्गा तु अनिश्चितैव, मांसगणे अजावीवत् । अथोपविषशुद्धिः— लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । इति लाङ्गलीशुद्धिः । गुञ्जा काञ्जिकसंस्विन्ना प्रहरं शुद्धिम्ऋच्छति । इति गुञ्जाशुद्धिः । किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ॥ १०७ ॥ इति विषमुष्टिशुद्धिः । जेपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासादितम् । लिप्तं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥ इति जेपालशुद्धिः । धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः । कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥ इति धत्तूरबीजशुद्धिः । अहिफेनं शृङ्गवेररसैर्भाव्यं त्रिसप्तधा । शुद्ध्यत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ ११० ॥ इत्यहिफेनशुद्धिः । १ यदाह चरकः,—“योनावजाविके मिश्रगोचरत्वादनिश्चिते”—इति ।
१४.] आयुर्वेदप्रकाशः । १९९ बब्बूलत्वक्कषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥ इति भङ्गाशुद्धिः । अथ विषतैलम्— गृह्णीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् । तैलं तेन रसो मर्द्यः श्रुत्कारी स महान्भवेत् ॥ ११२ ॥ एवं धत्तूरबीजादेस्तैलं ग्राह्यं विधानतः । योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥ अथ विषवज्रपातः— रङ्गं विषं टङ्कणमूर्षणं च तुत्थं समांशं कुरु देवदाल्याः । रसेन पिष्टो विषवज्रपातो रसो भवेत्सर्वविषैकहन्ता ॥ ११४॥ निष्कोऽस्य संजीवयति प्रयुक्तो नृमूत्रयोगेन च सर्वथैव । जटाविषेणाकुलितं तथाऽन्यैर्दुष्टैर्विषैर्घूर्णितमातुरं च ॥ ११५ ॥ रङ्गं वङ्गभस्म । इति विषवज्रपातो रसः । अथ लवणभेदी सुधानिधिः— पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुना चैकशः सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्निं हठा- च्छुभ्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः॥११६॥ तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं च यै- रूर्ध्वं रेचयति त्रियाममसकृत्पेयं जलं शीतलम् । एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥ पांशुपटु खारीलवणम् । वज्र्यम्बुना वज्रीदुग्धेन, चैकशः सूतं च पिष्टम् । मृगेन्द्रकुटिलोद्भूतं सिंहश्मश्रुभक्षणजनि-
२०० आयुर्वेदीयग्रन्थमाला । [अध्यायः तम् । रसकर्पूरवदस्य प्रक्रिया । इति सकलविषघ्नो लवणभेदी सुधानिधिरसः ॥ अथ क्षारकल्पना— क्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् । नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे ॥ ११८ ॥ विमर्द्य धारयेद्रात्रौ प्रातरच्छं जलं नयेत् । तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ ११९ ॥ ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः । चूर्णाभः प्रतिसार्यः स्यात् पेयः स्यात्क्वाथवत्स्थितः । इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ १२० ॥ इति क्षारकल्पना । इत्यायुर्वेदप्रकाशे श्रीमदुपाध्यायसारस्वतकुलावतंसकाशीनिवासिश्रीमाधव- विरचिते विषोपविषादिसाधनाध्यायः समाप्तः ॥ समाप्तोऽयमायुर्वेदप्रकाशः ।
आयुर्वेदप्रकाशे प्रमाणतयोपन्यस्तानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि। १रसपद्धतिः ४-१९ इत्यादौ । २वाग्भटः (रसवाग्भटः) ४-२४ इत्यादौ । ३रसरत्नाकरः ८-२२ इत्यादौ । भास्करः १३-२ इति । ४रसचिन्तामणिः १३-१६ इत्यादौ । महेश्वरः १४-५ इत्यादौ । शिवागमः १४-२६ इत्यादौ । ५रसार्णवतन्त्रं १६-१४ इत्यादौ । बृहद्वशिष्ठपुराणं १७-१२ इति । १ अयं ग्रन्थः श्रीबिन्दुपण्डितविरचितः; तथाच तद्ग्रन्थस्यारम्भश्लोकः,- "नत्वा निष्कपटं निरञ्जनधिया निर्विघ्नमीशप्रियामायुर्वेदविदां मुदे सुभिषजामेषा मया बिन्दुना । ग्रन्थेभ्यः परिगृह्य सारमखिलं सूत्रैश्चिकित्सासखीवृक्षेभ्यः स्रगिव प्रसूननिचयैः संग्रह्यते पद्धतिः ॥" इति । रसपद्धत्युपरि महादेवपण्डितविरचिता टीकाऽपि वर्तते । सटीकाया रसपद्धत्या एकं हस्तलिखितपुस्तकं श्रीनासिकक्षेत्र- निवासिनां मदीयपरमसुहृदां वैद्यवर्याणां 'कृष्णशास्त्री देवधर' इत्येतेषां सकाशाल्लब्धं, आयुर्वेदप्रकाशसंशोधने चैतत्पुस्तकस्य महानुपयोगो जातः । २ अत्र वाग्भटशब्देन रसरत्नसमुच्चयकर्ता रसवाग्भट एवाभिप्रेतः, नतु अष्टाङ्गहृदयतन्त्रकर्ता वाग्भटः । रसरत्नसमुच्चयकर्तारं अग्रे बहुषु स्थलेषु रस- वाग्भट इति नाम्ना स्वयमेव निर्दिशति माधवः । यथा ५९ पृष्ठे, ३ पंक्त्याम् । ३ श्रीनित्यनाथसिद्धविरचितोऽयं ग्रन्थः रसखण्ड-रसेन्द्रखण्ड-वादखण्ड- रसायनखण्ड-मन्त्रखण्डाख्यैः पञ्चभिः खण्डैर्विभक्तः । तेषु रसखण्डो रसेन्द्रख- ण्डश्च कलकत्तानगरे मुम्बय्यां च मुद्रितः, रसायनखण्डस्तु आयुर्वेदीयग्रन्थमालायां मुद्रितोऽस्ति । ४ अयं श्रीरामचन्द्रगुहविरचितो रसेन्द्रचिन्तामणिरेव ज्ञेयः । ५ अत्र प्रमाणतयोपन्यस्ताः श्लोका रसार्णवतन्त्रे ११ पटले उपलभ्यन्ते ।
to र it looks almost like a matra, but it is indeed the footnote digit १!
Wait, should we write १ as footnote reference?
Let's see the footnotes:
१ महादेवतनयविष्णु पण्डितविरचितोऽयं ग्रन्थः । (Note: विष्णु पण्डित or विष्णुपण्डित? In image: विष्णु पण्डित has a tiny space or विष्णुपण्डित? It's विष्णु पण्डित or विष्णुपण्डित).
२ भगवद्गोविन्दपादाचार्यविरचितो रसहृदयतन्त्राख्यो ग्रन्थ आयुर्वेदिय- -> wait, आयुर्वेदीय-? In image: आयुर्वेदीय- (with ee-matra: दी).
ग्रन्थमालायां मुद्रितोऽस्ति ।
३ अयं श्रीअनन्तदेवसूरिविरचितः, मुम्बय्यां वेंकटेश्वरयन्त्रालये मुद्रितोऽस्ति ।
४ अत्र प्रमाणतयोपन्यस्तः श्लोकः श्रीसोमदेवविरचितरसेन्द्रचूडामणौ ५
अध्याये वर्तते ।
Wait, let's look at the footnotes at the bottom:
Line 1: horizontal line (divider)
Footnote line 1: १ महादेवतनयविष्णु पण्डितविरचितोऽयं ग्रन्थः । (wait
आयुर्वेदप्रकाशपाठसंशोधनम् ।
अपपाठः | सुपाठः | पृ० | पं० प्रजायते । | प्रजायते ॥ ५६ ॥ | ७ | २२ रसेषु ॥ ५६ ॥ | रसेषु ॥ | ,, | २३ मलदोषापनुत्त्युर्थं | मलदोषापनुत्त्यर्थं | ,, | २६ लिप्त्वाऽधोभाण्डे | लिप्त्वा अधोभाण्डे | १० | १ संधिलेपं | सन्धिलेपं | ,, | २ सर्पाक्षी चित्रिका वन्ध्या° | सर्पाक्षीचित्रिकावन्ध्या° | १२ | १५ सर्वकुष्ठहा | सूर्यकुष्ठहा | १५ | २ संमूर्च्छयं | संमूर्च्छर्यं | १६ | १७ सुताम्राद्रियुक् । | सुताम्राद्रियुक् | १९ | २१ १ 'वारसम्' क. । | १ 'र्वा रसम्' क. । | ,, | २५ सप्तधा । | सप्तधा | २१ | २३ गन्धमभावे | ग्राह्यमभावे | २८ | २१ दत्त्वा च वालुकामुपरि | दत्त्वा च वालुकामूर्ध्वं | २९ | २० लोहभेकि सिद्धमते | सिद्धमते लोहभेकि | ३५ | १७ पाकाद्यग्निविपक्रिमाः | पाकादग्निविपक्रिमाः | ३६ | ९ केवलामारोटकमेव | केवलमारोटकमेव | ,, | १८ °कज्जलि° | °कज्जली° | ३९ | ११ मूपामध्यगस्तिष्ठे° | मुखमध्यगतस्तिष्ठ° | ४१ | २० कूप्या | कूप्यां | ४६ | १ सा यन्त्रे | तां यन्त्रे | ,, | ६ हिमं | हिमां | ,, | ,, पारदं दशटङ्कं स्यादशटङ्कं च | पारदो दशटङ्कः स्याद्- | | गन्धकम् । | षटङ्कश्च गन्धकः । | ४९ | २१ तांश्च तान्नाशयेच्छ्रेष्ठः | तांस्तांश्च नाशयेच्छ्रेष्ठः | ५० | ७ रसायनं त्रिदोषघ्नो | रसायनस्त्रिदोषघ्नो | ५२ | १८ शिफावारिपिष्टं | शिफां वारिपिष्टां | ,, | २२ खेदं | खेदो | ५५ | १५ कुलत्थ | कुलत्थान् | ५९ | १४ चित्रा गिरिजाभवं | चित्रागिरिजाभवं | ६० | २४
२ अपपाठः सुपाठः पृ० पं० असिताया असितायाः ६१ ३ २ ‘अकृष्णाया’ ग. । २ ‘अकृष्णायाः’ ग. ,, २५ देहशुद्धिः देहशुद्धि ७२ १४ °प्रयोगेण °प्रयोगेन ७३ १५ निषेचयेत् निषेवयेत् ८४ ३ दृष्टे नष्टे ९२ २१ °कुलित्था चूर्ण °कुलित्थाचूर्णं ९६ १५ °शुद्धिः °शुद्धयः ,, २१ रसकं तुत्थभेदः रसकस्तुत्थभेदः १०० १४ त्रिधाऽपरा तथाऽपरा १०२ १७ सार्धनिष्काभरा सार्धनिष्कमित्ता ,, २६ °ब्रध्नार्शोरक्तग्रन्थि °ब्रध्नार्शो रक्तग्रन्थि १०४ ५ रेची रेकी १०७ ६ विरेची विरेकी ,, १० बिड्° बिड° ,, २४ कम्पिल्लाक्षपलो कम्पिल्लश्वपलो १०८ १५ व्यवहाराभावतः किं च अभावाव्यवहारस्य किं च श्वेतकुष्ठहरं हि तत् किलासनाशि तत् ११८ २० रससंयुक्तं रसरहितं १२३ ६ यवासा यवसाह्वा १२६ १९ प्रोक्ताव्यवस्था प्रोक्ता व्यवस्था १३२ १२ अथलोहदोषाः अथ लोहदोषाः १३५ ८ सोमामृताभिदमिदं सोमामृताभिधमिदं १३८ २४ सोमामृताभिदं सोमामृताभिधं ,, २५ तयो रम्व्वा तयोरम्व्वा १४९ ५ गैरेय° शैलेय° १५० १३ वङ्गवत्प्लवते वङ्गवद्द्रवते १६१ १४ भूर्भि विज्ञानं १६५ ११ पीतारुण° नीलारुण° १८० २६