आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ मतान्तरं यथा— कुण्डाम्भसि लोहमये सबिडं सग्रासमीशजं पात्रे । अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥२१७ इयतैव रसायनतात्पर्यं पर्यवसति, किंतु वादस्य न प्राधान्यम् ॥ इति हेमजारणा ॥ अथ संप्रत्युभयप्राधान्येन जारणा यथा, तत्र घनसत्त्वजा- रणम् । यत उक्तं— घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः । कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ २१८ ॥ मुक्त्वैकमभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः । तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ २१९ ॥ रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ २२० ॥ त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि । चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूरारम्लैः ॥ २२१ क्षितिखगः कासीसम् । अम्लाभावे पूर्वसाधितकाञ्जिक- मपि ज्ञेयम् । अन्यच्च— अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ २२२ ॥ इत्यभ्रकसत्त्वजारणा ॥ अथ गर्भद्रुतिः । व्योमसत्त्वसमांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवी गर्भद्रावी भवेद्रसः ॥ २२३ ॥ एवं हेमताराद्यादयः खखरिपुणा निर्व्यूढाः प्रयोजनमव- लोक्य प्रयोज्याः । गर्भद्रुतिमन्तरेण जारणैव न स्यात् ।
१.] आयुर्वेदप्रकाशः । ३१ अतस्तल्लक्षणमाह—वह्निव्यतिरेकेऽपि रसग्रासीकृतानां (लो- हानां) द्रवत्वं गर्भद्रुतिः ॥ बीजानां संस्कारः कर्तव्यस्तार्प्यसत्त्वसंयोगात् । येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥ २२४ ॥ शिलया निहतं नागं ताप्यं वा सिन्धुना हतम् । ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ २२५ ॥ अथ दोलाजारणम् ।— षडम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते । बहिश्च बद्धे वस्त्रेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥ क्षारारनालमूत्रेषु स्वेदयेत्रिदिनं भिषक् । क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ २२७ ॥ इति गर्भद्रुतिः ॥ अथ ग्रासस्य चारणप्रमाणम् । चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ २२८ ॥ चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः । जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥ ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ २३० ॥ अन्यत्तु दुर्जरत्वान्न लिखितम् । भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति । यथा— पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वाऽऽदौ । गर्भद्रावे निपुणो जरयति बीजं कलांशेन ॥ २३१ ॥ १ 'कोऽपि तादृशः प्रथमम्' इति रसहृदये पाठः । २ 'रसराजस्याम्ल्यो- गेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतीत्यर्थः ।
३२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तन्मते चतुःषष्टिश्चत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥ अथ रञ्जनम् । तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ॥ केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णं लाक्षारसानिभं रसम् ॥ २३२ ॥ गन्धकेन हतं नागं जारयेत्कमलोदरे । एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ २३३ ॥ कमलोदरे ताम्रे । एतत्तु नागसंबंधान्न रसायनकर्मणि । किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रोत्तारणादनु तद्बीजं समजीर्णं सत् तन्नेत्रेणैव रञ्जयति ॥ कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन । दरदनिहतासिना वा निर्व्यूढं हेम तद्बीजम् ॥ २३४ ॥ .......................वलिना व्यूढं केवलार्कमपि ॥ [L1
१.] आयुर्वेदप्रकाशः। ३३ वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु । एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ २३८ ॥ अथ हेमबीजम्— नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च । प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ २३९ ॥ माक्षिकेण हतं ताम्रं तारं वा रञ्जयेन्मुहुः । तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ २४० ॥ बीजमेतद्वरं श्रेष्ठं नागबीजं प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ॥ २४१ ॥ अथ रञ्जनार्थं सारणार्थं च तैलम् ।— मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ॥ २४२ ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तैलं विपाचयेत्तेन कुर्याद्बीजादिरञ्जनम् ॥ २४३ ॥ द्विगुणं रक्तपुष्पाणां रक्तपीतगणस्य च । क्वाथं, चतुर्गुणं क्षीरं, तैलमेकं सुरेश्वरि ॥ २४४ ॥ ज्योतिष्मतीकरञ्जाक्षकडुतुम्बीसमुद्भवम् । पाटलाकाकतुण्ड्यम्बुमहाराष्ट्रीरसैः पृथक् ॥ २४५ ॥ भेकशूकरमेषाहिमत्स्यकूर्मजलौकसाम् । वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ २४६ ॥ भूलतामलमाक्षीकद्वन्द्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ॥ २४७ ॥ अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् । अथ द्वन्द्वमेलापकौ- षधानि—'ऊर्णातङ्कणगिरिजतुमहिषीकर्णाक्षिमलशक्रगोपकर्क- टकाः' इति द्वन्द्वमेलापकौषधानि ॥
३४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथाऽपरम्— यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः । रसं चतुर्गुणं योज्यं कङ्गुणीतैलमध्यतः ॥ २४८ ॥ पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । द्रावितं तारबीजं तदेकविंशतिवारकम् । रञ्जितं जायते सम्यग्रसराजस्य रञ्जनम् ॥ २४९ ॥ अन्यच्च— कुटिले बलमत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः । रागस्नेहबलानि तु कमले नित्यं¹ प्रशंसन्ति ॥ २५० ॥ बलमास्तेऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धस्तु सारलोहे क्रमणं²मथ नागवङ्गगतम् ॥ २५१ ॥ क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः । हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ २५२ ॥ तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ २५३ ॥ घनवदभ्रकवत् ॥ सर्वैरेभिर्लोहैर्माक्षिक³मृदितैर्द्रुतैस्तथा गर्भे । बिडयोगेन च जीर्णे⁴ रसराजो बन्धमुपयाति ॥ २५४ ॥ निर्बीजे⁵ समजीर्णे पादोने षोडशांशतया । अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ २५५ ॥ समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च; इतो न्यूनजीर्णस्य पत्रलेपाधिकार एव । यथा—
१ 'शंसन्ति धातुविदः' इति रसहृदये पाठः । २ 'सारणमथ नागवङ्गाभ्यां' इति रसहृदये पाठः । ३ 'माक्षिकनिहतैः' इति रसहृदये पाठः । ४ 'जीर्णैः' जीर्णो' ख. । ५ 'निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन । अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥' इति रसहृदये पाठः ।
१. ] आयुर्वेदप्रकाशः । ३५ अत्यम्लितमुद्वर्तिततारारिष्टादिपत्रमतिशुद्धम् । आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ २५६ पुटः प्रायेण चूलिकाधस्तादस्य ॥ अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगषड्रक्तमृदा वर्णपुटोऽयं ततो देयः ॥ २५७ ॥ अर्धेनेत्युपलक्षणम् । क्षितिखगः कासीसम् ॥ अन्यच्च— रज्जुभिर्भेकवङ्गेभैः स्तम्भयोः सारलोहयोः । बध्यते रसवेतण्डो युक्त्या श्रीगुरुदत्तया ॥ २५८ ॥ शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् । कीलालायःकृतो योगः खटिकालेपनाधिकः ॥ २५९ ॥ मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिविलेशयमन्त्रिजिव्हैः । यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतन्ति न विस्मयध्वम् ॥ २६० ॥ लोहं गन्धं टङ्कणं आमयित्वा तेनोन्मिश्रं भेकमावर्तयेत्तु । तालं कृत्वा तुर्यवङ्गान्तराले रूपस्यान्तस्तच्च सिद्धोक्तबीजे २६१ लोहभेकि सिद्धमते तारभेकीति बीजद्वयम् ॥ द्रुतदर्दुरपूतिलोहसेकः कुरुते हिङ्गुलखण्डपक्षखण्डम् ॥ २६२ १ भेको अभ्रकं, इभो नागः । २ सारलोहयोः स्वर्णरौप्ययोः । ३ रसवे- तण्डो रसमातङ्गः । ४ मण्डूको अभ्रकम् । ५ '-यन्त्रजिव्हैः' क. । क्षितिः कासीसं, विलेशयो नागः, मन्त्रिजिव्होऽग्निः काञ्चनमित्यर्थः । ६ यन्त्रोत्तमेन भूधरयन्त्रेण । ७ गन्धं टङ्कणं च आमयित्वा संमर्द्य, तेनोन्मिश्रं लोहं भेकं (अभ्रकं) च वह्नौ आवर्तयेत् द्रावयेत्, तत् 'लोहभेकि' नाम सिद्धबीजम् । तुर्यवङ्गान्तराले तालं कृत्वा (तालयोगेन वङ्गं हत्वेत्यर्थः ) तद्वङ्गं रूपस्यान्तर्द्द- द्यात्, तच्च रूप्यं सिद्धोक्तबीजे (पूर्वोक्तबीजे) आवर्तयेत् । इदं तु 'तारभेकि' नामसिद्धबीजम् । ८ दर्दुरः अभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां द्रुतानां सेको हिङ्गुलखण्डस्योपरि कृतश्चेत्तस्य पक्षखण्डं पक्षच्छेदं करोति, हिङ्गुलभस्म जायते इत्यर्थः ।
३६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः शशिहेलिहिरण्यमूषिका ध्रुवमक्षीणधियामनेन लक्ष्मीम् । इति सिद्धमते खोटः ॥ अत्रभेकादिशब्दा धातुवाचका इत्यलं रहस्यप्रकाशेन ॥ गन्धै२तैलयुगलाऽयसिमध्ये पूतिवारिवशं३मेष्यति पिष्टी । तैलभेकवलिकल्पितपिष्टीसंयमः प्लवगपूत्यभिषेकैः ॥२६३॥ दरदस्यापि पिष्टीत्वेन गृहीतत्वात्पूर्वकर्मणि संबन्धः ॥ इति सिद्धमते खोटः ॥ अधोऽष्टाङ्गुलतश्चुल्याः सिध्यन्ति सिकतावृताः । रसगन्धशिलासर्पाः पाकाद्यग्निविपक्रिमाः ॥ २६४ ॥ खोटान्तरम् ।— साल्लूर५कुटिलार्कस्वरम्भापामार्गभस्मना । हस्तीव बध्यते वक्रलोहखण्डिकया रसः ॥ २६५ ॥ खोटान्तरम् ।— भेकभास्करगन्धायोवङ्गस्य क्षारभस्मना । हस्तीव बध्यते लोहवक्रचक्रिकया रसः ॥ २६६ ॥ इति रञ्जनवेधनानि ॥ अथ बाह्यद्रुतयः । एतास्तु केवलामारोटकमेव मिलिता निबध्नन्ति, फलमस्य कल्पप्रमितमायुः; किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफल- १ शशिः तारं, हेलिरर्कस्ताम्रं, हिरण्यं स्वर्णं, एतेषां मूषिका ध्रुवं लक्ष्मीं करोति, तस्यामुपर्युक्तसेकेनेत्यर्थः । २ गन्धतैलयुगला गन्धतैलसहिता पिष्टी नाम दरदः, पूतिवारिवशमेष्यति पूतिलोहौ यौ नागवङ्गौ तयोर्द्रुतिर्नाम द्रवः तस्य वशमेष्यति वह्नावनुड्डयनेनेत्यर्थः । ३ 'वशमेति च' ख. । ४ तैल- भेकवलिभिर्मिलितैः कल्पिता या दररूपा रसगन्धकयोः पिष्टी, तस्याः प्लवगपूत्य- भिषेकैः प्लवगोऽभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां द्रुतानामभिषेकेन संयमो भवतीत्यर्थः । ५ 'माल्लूर'—क. । CCO Gurukul Kangri Collection, Haridwar, Digitized by eGangotri
प्रदा भवन्ति । उच्यते च—समजीर्णश्चायं शतवेधी, द्विगुण- जीर्णः सहस्रवेधी; एवं लक्षायुतकोटिवेधी समनुकर्तव्यः, चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥ अथ सारणोच्यते । अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा । सैव छिद्रान्विता मन्दगम्भीरा सारणोचिता ॥ २६७ ॥ अस्यामेव मूषायां तत्तै¹लमपगतकल्कविमलमापूर्य तस्मिन्न²- धिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समा³वर्तनीयः सूत- वरः, तदनु सद्यो मूषाननमाच्छादनीयमेतत्तैलाक्तपटखण्डग्र- न्थिबन्धेन, अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्चे- त्सारितः सम्यक् संयमितश्च विज्ञेयः; प्रतिसारितस्तु द्विगुण- बीजेन, तद्वदनुसारितस्तु त्रिगुणबीजेन; अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगवङ्गौ विश्रा- णयाविति ॥ सारितो जारितश्चैव पुनः सारितजारितः । सप्तसङ्क(शृङ्ख)लिकायोगात्कोटिवेधी भवेद्रसः ॥ २६८ ॥ इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥ (द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाच⁴न ॥ १ ॥) अथ क्रामणम् । शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥ २६९ ॥ १ तत्तैलं सारणतैलम् । २ तस्मिन् सारणतैले, अधिकमूष्मात्मनि सम्यक् प्रतप्ते । ३ 'समावर्जनीयः' ग. । ४ अयं श्लोकः ख. पुस्तके नोपलभ्यते । ४
३८ आयुर्वेदीयग्रन्थमाला। [अध्यायः पीते स्वर्णे, शुक्ले रूप्ये ॥ अथ खोटमार्गेण जारणवेधनरञ्जनानि । खोटकं स्वर्णसंतुल्यं समावर्त्त तु कारयेत् । माक्षिकं कान्तपाषाणं शिला गन्धं समं समम् ॥ २७० ॥ भूनागैर्मर्दयेद्द्यामं वल्लमात्रं वटीकृतम् । एषा बिडवटी ख्याता योज्या सर्वत्र जारणे ॥ २७१ ॥ दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् । शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥ २७२ ॥ वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह । भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः ॥ २७३ ॥ रञ्जितं मृतखोटं च कल्केनानेन संयुतम् । वालुकाहाण्डिमध्यस्थं शरावपुटमध्यगम् ॥ २७४ ॥ त्रिदिनं पाचयेच्चूल्ह्यां कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ॥ २७५ ॥ लोहं गन्धं टङ्कणं ध्मातमेतत्तुल्यं चूर्णैर्भानुभेकाहिवङ्गैः । सूतं गन्धं सर्वसाम्येन कूप्यामीपत्साध्यं चित्त नो विस्मयस्व ॥ इति सिद्धमते कल्कः ॥ रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः । पुटमृतशुल्वं तारे त्रिन्यूढं हेमकृष्टिरियम् ॥ २७७ ॥ अष्टानवतिभागं तु रूप्यमेकं च हाटकम् । सूतैकेन च वेधः स्याच्छतांशविधिरीरितः ॥ २७८ ॥ चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्करः । वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥ २७९ ॥ द्वावेव रजतयोनित्ताम्रयोनित्वेनोपचर्येते; एवं सहस्रवेधा- दयो जारणबीजवशादनुसर्तव्याः ॥
१ चन्द्रस्य तारस्य, भास्करः ताम्रस्य, वह्निः स्वर्णे, शम्भुः रसः ।
चत्वारः प्रतिवापाः सुलाक्षया मत्स्यपित्तभावितया । तारे वा शुल्वे वा तारारिष्टेऽथवा कृतौ ॥ २८० ॥ तदनु क्रोमणमृदितः सिक्थकपरिवेष्टितो देयः । अतिविद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन ॥ २८१ ॥ तदनु सिद्धतैलेनाप्लाव्य भस्मावच्छादनपूर्वकमवतार्य स्वा- ङ्गशैत्यपर्यन्तमपेक्षितव्य इति ॥ विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि । तत आनीय नगरे विक्रीणीत विचक्षणः ॥ २८२ ॥ समर्पतः ²सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्यतस्थुपि । विशुद्धगन्धादिभिरीषदग्निना समस्तमक्षाल्यशनीयमीशजः २८३ कर्षाष्टङ्कणकज्जलिहरिरथैर्गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैरहोभिः शृतम् । भूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे मधुना पुटेन धमनेनार्कच्छवीमीहते ॥ २८४ ॥ कर्षा इति बहुवचनात्त्रयः, त्रिधा पत्रलेपेनेति ज्ञेयम् ॥ इति सिद्धमते चूर्णकल्कः ॥ अथ रसचिन्तामणौ— चत्वारः स्वर्जिकाभागा यवक्षारस्तथा पुनः ॥ २८५ ॥ क्षारिकालवणं दद्यात्तत्तथाविधमेव च । काकमाचीरसस्यान्तर्दीयते सर्वमेव तत् ॥ २८६ ॥ ³शुद्धपित्तलपत्राणि सूक्ष्माणि पलयोर्द्वयोः । तप्तप्तानि तान्यस्मिन् काकमाचीरसे क्षिपेत् ॥ २८७ ॥ एकविंशतिवाराणि तारतां प्रतियान्ति च । एवं शुभ्राणि जायन्ते रूप्यान्न्यूनानि किंचन ॥ २८८ ॥ १ 'क्रमेण मृदितः' ग. । २ 'सैन्धवखण्डकोदरे' ख. । ३ 'नष्ट- पित्तलपत्राणि' ख. ।
४० आयुर्वेदीयग्रन्थमाला । [अध्यायः आरं तारं समं कृत्वा मृतवङ्गं नियोजयेत् । एकादशविभागेन भवेत्तारं न संशयः ॥ २८९ ॥ एषा राजवती विद्या पुत्रस्यापि न कथ्यते । इति राजवतीविद्या ॥ पारदष्टङ्क एकः स्याद्दिपलं पीतखर्परम् ॥ २९० ॥ मर्दयेत्सुदृढं तावद्रसो यावद्विलीयते । पुनर्जम्बीरनीरेण गुडेन च समन्वितम् ॥ २९१ ॥ शोषयेच्चातपे पिष्ट्वा श्लक्ष्णं कृत्वा च धार्यते । अर्कदुग्धस्य दातव्या भावनास्ता यथा तथा ॥ २९२ ॥ अस्य कल्कस्य सिद्धस्य भाग एकश्च टङ्कणः । ताम्रं भागत्रयं दत्त्वा धाम्यतामन्धमूषया ॥ २९३ ॥ सुवर्णं दिव्यतेजः स्यात्कुङ्कुमादतिरिच्यते । इति हेमवती विद्या ॥ शाकवृक्षस्य निर्यासं पलमात्रं समानयेत् ॥ २९४ ॥ शिग्रुबीजस्य चूर्णस्य रसेन परिमर्दयेत् । पलमात्रं च शुल्वस्य पत्रं सूक्ष्मं निधापयेत् ॥ २९५ ॥ बहुशो लेपितं कृत्वा घर्मं दत्त्वा पुनः पुनः । पश्चात्तद्धाम्यते पत्रं शुल्वं हेम प्रजायते ॥ २९६ ॥ इति हेमवती विद्या ॥ पारदः सीसको गन्धः कुनटीत्येतच्चतुष्टयम् । बीजपूराम्भसा पिष्ट्वा गाढं दिनचतुष्टयम् ॥ २९७ ॥ अथ सूक्ष्माणि पत्राणि तानि तारस्य लेपयेत् । बीजपूररसेनेतान्यतिमात्रेण तावता ॥ २९८ ॥ एकाधिका भवेत्पत्रभावना चात्र विंशतिः । विशोष्यावर्तयेत्तारं भवेत्तारस्य काञ्चनम् ॥ २९९ ॥ इति हेमवती ॥ १ 'चात्र' ग. ।
१. ] आयुर्वेदप्रकाशः । ४१ पारदो दरदो हेममाक्षिको गन्धकः शिला । एतानि समभागानि काकमाचीरसेन च ॥ ३०० ॥ मर्दनीयानि गाढानि कारितव्यानि खल्वके । पीतपित्तलपत्राणि कृतसूक्ष्माणि तान्यथै १ ॥ ३०१ ॥ लेपितव्यानि चैतेन चूर्णेनाथ प्रयत्नतः । मध्यमस्तु पुटो देयः क्रियते चूर्णमुत्तमम् ॥ ३०२ ॥ पुनस्तारस्य भागैकं चूर्णं भागद्वयं भवेत् । अध ऊर्ध्वमिदं दत्त्वा ध्माप्यते चैकतः कृतम् ॥ ३०३ ॥ भल्लाततैलमध्ये हि क्षिप्यते गालितं च तत् । एवं वारद्वयं तारं तत्तैले विनिवेशयेत् ॥ ३०४ ॥ पिञ्जराभं भवेत्तारं समं हेमापि मेलयेत् । जायते कनकं रम्यं वर्णयुग्मं विहाय तत् ॥ ३०५ ॥ इति हेमवती ॥ अथ रसबन्धनविद्या । भूलताशिखरीमूलं वारिणा मर्दयेद्दृढम् । तल्लिम्पेन्मूषिकामध्ये तन्मध्ये निक्षिपेद्रसम् ॥ ३०६ ॥ पञ्चटङ्कप्रमाणं, तां मूषामङ्गारके क्षिपेत् । एवं बद्धो भवेत्सूतो मूषान्तःस्थो दृढो भवेत् ॥ ३०७ ॥ अस्य फलम्— मूषामध्यगतस्तिष्ठेन्मुखरोगविनाशनः । शरीरे क्रामिते सूते जरापलितजिन्नरः ॥ ३०८ ॥ स्तम्भयेच्छस्त्रसंघातं कामोत्पादनकारकः । पुनर्नवं वपुः कुर्यात्साधकस्य न संशयः । अतिकामो भवेन्मर्त्यो वलीपलितनाशनः ॥ ३०९ ॥ इति रसबन्धनम् ॥ १ 'नान्यथा' ग. ।
४२ आयुर्वैदीयग्रन्थमाला। [ अध्यायः अथान्यः प्रकारः— पुष्पितमनोजमन्दिरमध्ये सूतो नियन्त्रितो युक्त्या । बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ॥ ३१० ॥ इति रसबन्धनम् ॥ अथान्येऽपि बन्धभेदास्ते यथा— पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे । येन येन हि चाञ्चल्यं दुर्ग्रहत्वं विनश्यति ॥ ३११ ॥ रसराजस्य संप्रोक्तो बन्धनार्थो हि वार्त्तिकैः । हठारोटौ तथाऽऽभासः क्रियाहीनश्च पिष्टिका ॥ ३१२ ॥ क्षारः खोटश्च पाटश्च कल्कबन्धश्च कज्जली । सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ॥ ३१३ ॥ शृङ्खलाद्रुतिबन्धौ च बालश्चैव कुमारकः । तरुणश्च तथा वृद्धो मूर्तिबन्धस्तथाऽपरः ॥ ३१४ ॥ जलबन्धोऽग्निवन्धश्च सुसंस्कृतकृताभिधः ॥ महाबन्धाभिधश्चेति पञ्चविंशतिरीरिताः ॥ ३१५ ॥ केचिद्वदन्ति षड्विंशो जलौकाबन्धसंज्ञकः । स तावन्नेष्यते देहे स्त्रीणां द्रावे प्रशस्यते ॥ ३१६ ॥ अन्यमते चत्वार एव बन्धाः; ते यथा— पाटः खोटो जलौका च भस्म चांपि चतुर्थकम् । बन्धश्चतुर्विधो ज्ञेयः सूतस्य भिषगुत्तमैः ॥ ३१७ ॥ अस्य लक्षणानि— पाटः पर्पटिकाबन्धः पिष्टीबन्धस्तु खोटकः । जलौका पक्वबन्धः स्याद्भस्म भस्मनिभं भवेत् ॥ ३१८ ॥ सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च । ऊर्ध्वं सिन्दूरकर्पूररसावन्यदधो भवेत् ॥ ३१९ ॥ १ 'चान्त्र' ग. ।
१.] आयुर्वेदप्रकाशः । ४३ अथ हठादीनां लक्षणानि— हठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः । स सेवितो नृणां कुर्यान्मृत्युं व्याधिसमुद्भवम् ॥ ३२० ॥ सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥ ३२१ ॥ पुटितो यो रसो याति योगं१ त्यक्त्वा स्वभावताम् । भावितो २वायुमूलाद्यैराभासो गुणवैकृती ॥ ३२२ ॥ असंशोधितलोहाद्यैः साधितो यो रसोत्तमः । क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥ ३२३ ॥ तीव्रातपे गाढै३तरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा । ख्यातः स सूतः किल पिष्टिबद्धः संदीपनः पाचनकृद्विशेषात् ॥ शङ्खशुक्तिवराटाद्यैर्योऽसौ संसाधितो रसः । क्षारबद्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥ ३२५ ॥ बद्धो यः स्फो(खो)टतां याति ध्मातो ध्मातः क्षयं व्रजेत् । खोटबद्धः स विज्ञेयः शीघ्रं सर्वविषापहः ॥ ३२६ ॥ द्रुतकज्जलिका मोचापत्रके चिपिटीकृता । सं पाटः पर्पटी सैव बद्धश्चाखिलरोगनुत् ॥ ३२७ ॥ मोचापत्रं कदलीपत्रम् ॥ स्वेदाद्यैः साधितः सूतः कल्कत्वं समुपागतः । कल्कबद्धः स विज्ञेयो योगो४क्तफलदायकः ॥ ३२८ ॥ कज्जली ५रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा । तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥ ३२९ ॥ भस्मीकृतो नश्यति वह्नियोगाद्रसः सजीवः खलु संप्रदिष्टः । संसेवितोऽसौ न करोति भस्मकार्यं जराव्याधिविनाशनं च३३० १ 'योगयुक्त्या खवासनाम्' ग. । २ 'धातुमूलाद्यै-' ग. । ३ 'गाढतरे विमर्दात्' ग. । ४ 'योगेन फलदायकः' क. । ५ 'रसगन्धाभ्याम्' ग. ।
४४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः । निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति वेगात् रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च । तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ३३२ बीजीकृतैरभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः । हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥ ३३३ ॥ वज्रादिनिहतः सूतो हतसूतसमोऽपरः । शृङ्खलाबद्धसूतस्तु देहलोहविधायकः । चित्रप्रभावां वेगेन व्याप्तिं जानाति शङ्करः (?) ॥ ३३४ ॥ युक्तोऽपि बाह्यद्रुतिमिश्च सूतो बन्धं गतो वा भसितस्वरूपः । स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा॥ समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन । रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ३३६ ॥ हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ। त्रिसप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥३३७॥ चतुर्गुणव्योमकृताशनो यो रसायनाग्र्यस्तरुणाभिधानः । स सप्तरात्रात्सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥ ३३८ ॥ यश्चाभ्रकं षड्गुणीतं हि जीर्णः ग्राप्ताग्निसख्यः स हि वृद्धनामा । देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति॥ यो दिव्यमूलिकाभिश्च कृतोऽग्निसहो रसः । विनाऽभ्रजारणात् स स्यान्मूर्तिबद्धो महारसः ॥ ३४० ॥ अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः । योजितः सर्वरोगेषु निरौपमफलप्रदः ॥ ३४१ ॥ शिलातोयमुखैस्तोयैः सिद्धोऽसौ जलबन्धनात् । स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥ ३४२ ॥ १ शिलोदकवर्णनं रसार्णवे १२ पटले द्रष्टव्यम् ।
१. ] आयुर्वेदप्रकाशः । ४५ केवलो लोहयुक्तो वा ध्मातः स्याद्गुटिकाकृतिः । अक्षीणश्चाग्निवद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ३४३ ॥ हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकता- मक्षीणी निबिडो गुरुश्च गुटिकाकारोऽतिदीप्तोज्ज्वलः । चूर्णत्वं पटुवत्प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि महाबद्धाभिधानो रसः॥३४४ इति रसबन्धलक्षणम् ॥ अथ नित्यनाथेन रसमूर्च्छनमुक्तम् ।— मेघनादवचाहिङ्गुलशुनैर्मर्दयेद्रसम् । नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ॥ ३४५ ॥ पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना । ऊर्ध्वलग्नं समादाय दृढवस्त्रेण बन्धयेत् ॥ ३४६ ॥ ऊर्ध्वाधो गन्धकं तुल्यं रसं दत्त्वाऽनले पचेत् । जीर्णे गन्धे पुनर्देयः षङ्गिवारैः समः समः ॥ षड्गुणे गन्धके जीर्णे मूर्च्छितो रोगहा भवेत् ॥ ३४७॥ इति मूर्च्छितलक्षणम् ।— कज्जलाभो यदा सूतो विहाय घनचापलम् । मूर्च्छितस्तु तदा ज्ञेयो नानावर्णोऽपि च क्वचित् ॥ ३४८ ॥ मूर्च्छितफलम् ।— मारितं देहसिद्ध्यर्थं मूर्च्छितं व्याधिनाशने । रसभस्म क्वचिद्योगे देहार्थे मूर्च्छितं क्वचित् ॥ ३४९ ॥ अथ रसभस्मीकरणम् । तत्रोर्ध्वभस्म यथा रससिन्दूराख्यम् ।— सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलि- र्द्वौ टङ्कौ नवसादरस्य तुवरीकर्षश्च संमर्दितः ।
४६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः कूप्या काचभुवि स्थितश्च सिकतायन्त्रे त्रिभिर्वासरैः पक्को वह्निभिरुद्भवत्यरुणभाः सिन्दूरनामा रसः ॥३५० रसराजलक्ष्म्यां तु— कूपी सप्तमृदंशुकैः परिवृता शुष्काऽत्र गन्धेश्वरौ तुल्यौ तौ नवसारपादकलितौ संमर्द्य तस्यां न्यसेत् । सा यन्त्रे सिकताख्यके तलविले पक्त्वाऽर्कयामं हिमं भित्त्वा कुङ्कुमपिञ्जरं रसवरं भस्माददेद्वैद्यराट् ॥ ३५१॥ अन्यच्च— पाके रुद्धं मुखं कूप्या नवसारेण जायते । ततः शलाकया कुर्यात्कूपिकानाशशान्तये ॥ ३५२ ॥ अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि । तावन्तो हि गुणोत्कर्षा जायन्ते रसभस्मनः ॥ ३५३ ॥ अन्यच्च— भागो रसस्य त्रय एव भागा गन्धस्य माषः पवनाशनस्य । संमर्द्य गाढं सकलं सुभाण्डे तां क
१. ] आयुर्वेदप्रकाशः । ४७ अथानुपानानि— वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं पित्ते सैलं सितेन्दु व्रणवति तुवरागुग्गुलुश्चारुशुद्धः । चातुर्जातेन पुष्टौ हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७ अथ गुणाः— [हाशिये पर हस्तलिखित: ज्वरसेधे] अपहरति रोगवृन्दं दृढयति कायं महद्बलं कुरुते । शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ ३५८ ॥ स्मरस्यायुर्नानागदगहनदावानलशिखा परं वह्नेस्तेजो बलरुचिरतावल्लिमुदिरः । अपि प्रौढस्त्रीणामतुलबलहारी निधुवने रसः सिन्दूराख्यः सकलरसराजो विजयते ॥३५९॥ मुदिरो मेघः ॥ कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् । करीरं चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ॥ यस्य रोगस्य यो योगस्तेनैव सह योजितः । रसेन्द्रो हरते व्याधीन्नरकुञ्जरवाजिनाम् ॥ ३६१ ॥ अथ रसकर्पूरः । गैरिकतुवरीखटिकासैन्धवगडजं रजः कुडवम् । प्रत्येकं दृढहण्ड्यामाधायास्योपरि रसः स्थाप्यः ॥ ३६२ ॥ कुडवमितोऽथ तदूर्ध्वं देया हण्डी तदास्यायतमुखी । अथ तत्सन्धेर्मुद्रां कृत्वा तदधो हुताशनो ज्वाल्यः ॥३६३ अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलैः । अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्विनिशम् ॥ ३६४ ॥ तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसंनिभं सूतम् । आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ ३६५ ॥
४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः संमर्द्य चाथ काष्ठैरर्धार्मणसंमितैः पचेद्द्वास्रम् । चुल्लीडमरुकमध्यं वितस्तिचतुरङ्गुलावकाशं तु ॥ ३६६ ॥ कर्तव्यं, क्रमदहनं तदधः प्रज्वालयेन्मध्यम् । शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्यत्नात् ॥ ३६७ ॥ वल्लं वल्लार्धं वा गुडेन जीर्णेन रोगिणे दद्यात् । दुग्धोदनं तु पथ्यं देयं तस्मै च ताम्बूलम् ॥ ३६८ ॥ हरति समस्तं रोगं कर्पूराख्यो रसो नृणाम् । फिरङ्गरिकेसरी सकलकुष्ठकालानलो- ऽखिलव्रणविनाशकृद्रणजगर्तपूर्तिप्रदः । सुवर्णसमवर्णकृद्बलहुताशतेजस्करः समस्तगदतस्करो रसपतिः स कर्पूरकः ॥ ३६९ ॥ नवसादरं दद्यात् 'पारदाच्चतुर्थांशं' इति शेषः । तुवरी फटकडी, गडं सांभरिलवणं, शेषं स्पष्टम् ॥ अथ रसकर्पूरस्यापरो विधिः— शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः । इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च ॥ ३७० ॥ वल्मीकं क्षारलवणं भाण्डरञ्जनमृत्तिकाम् । सर्वाण्येतानि संचूर्ण्य वाससा परिशोधयेत् ॥ ३७१ ॥ सिन्धुजन्म सैन्धवं, वल्मीकं तज्जा मृत्, क्षारलवणं खारि- यालोणं, भाण्डरञ्जनमृत्तिका कुलालगृहे 'कावीस' इति नाम ॥ एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत् ॥ तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥ ३७२ ॥ तस्या स्थाल्या मुखे स्थालीमपरां धारयेत्समाम् । सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्मुखम् ॥ ३७३ ॥ संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।
१ . ] आयुर्वेदप्रकाशः । ४९ सम्यग्विशोष्य मुद्रां तां स्थालीं चूल्ह्यां निरोधयेत्॥३७४॥ अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥ ३७५ ॥ शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम् । कर्पूरवत्सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ ३७६ ॥ तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् । खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥ ३७७ ॥ विन्दति वहेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम् । रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥३७८॥ इति रसकर्पूरः ॥ अथ सिन्दूररसः । शुद्धसूतं तदर्धं तु शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ॥ ३७९ ॥ मृत्कर्पटैर्विलिप्तायां कूप्यां कज्जलिकां क्षिपेत् । वालुकायन्त्रगां यावत्पचेद्दिनचतुष्टयम् ॥ ३८० ॥ गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् । इति सिन्दूररसः ॥ अथ रसचिन्तामणौ— नागार्जुनीति विख्याता दुग्धिका क्षितिमण्डले ॥ ३८१ ॥ तया विमर्दयेत्सूतं दिनमेकं निरन्तरम् । काकमाचीरसैः कार्यं मर्दनं दोषनाशनम् ॥ ३८२ ॥ पारदं दशटङ्कं स्यादष्टटङ्कं च गन्धकम् । नौसादरं च पादं स्यात्त्रयमेकत्र मर्दयेत् ॥ ३८३ ॥ काचस्य कूपके कृत्वा मुखं तस्य निरुध्य च । अष्टयामावधिर्यावत्तावत्सूतः प्रपच्यते ॥ ३८४ ॥ एवं निष्पद्यते साक्षात्तरुणादित्यसंनिभः । ५