भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

४४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः । निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति वेगात् रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च । तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ३३२ बीजीकृतैरभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः । हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥ ३३३ ॥ वज्रादिनिहतः सूतो हतसूतसमोऽपरः । शृङ्खलाबद्धसूतस्तु देहलोहविधायकः । चित्रप्रभावां वेगेन व्याप्तिं जानाति शङ्करः (?) ॥ ३३४ ॥ युक्तोऽपि बाह्यद्रुतिमिश्च सूतो बन्धं गतो वा भसितस्वरूपः । स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा॥ समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन । रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ३३६ ॥ हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ। त्रिसप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥३३७॥ चतुर्गुणव्योमकृताशनो यो रसायनाग्र्यस्तरुणाभिधानः । स सप्तरात्रात्सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥ ३३८ ॥ यश्चाभ्रकं षड्गुणीतं हि जीर्णः ग्राप्ताग्निसख्यः स हि वृद्धनामा । देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति॥ यो दिव्यमूलिकाभिश्च कृतोऽग्निसहो रसः । विनाऽभ्रजारणात् स स्यान्मूर्तिबद्धो महारसः ॥ ३४० ॥ अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः । योजितः सर्वरोगेषु निरौपमफलप्रदः ॥ ३४१ ॥ शिलातोयमुखैस्तोयैः सिद्धोऽसौ जलबन्धनात् । स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥ ३४२ ॥ १ शिलोदकवर्णनं रसार्णवे १२ पटले द्रष्टव्यम् ।

१. ] आयुर्वेदप्रकाशः । ४५ केवलो लोहयुक्तो वा ध्मातः स्याद्गुटिकाकृतिः । अक्षीणश्चाग्निवद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ३४३ ॥ हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकता- मक्षीणी निबिडो गुरुश्च गुटिकाकारोऽतिदीप्तोज्ज्वलः । चूर्णत्वं पटुवत्प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात्स हि महाबद्धाभिधानो रसः॥३४४ इति रसबन्धलक्षणम् ॥ अथ नित्यनाथेन रसमूर्च्छनमुक्तम् ।— मेघनादवचाहिङ्गुलशुनैर्मर्दयेद्रसम् । नष्टपिष्टं तु तद्गोलं हिङ्गुना वेष्टयेद्बहिः ॥ ३४५ ॥ पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना । ऊर्ध्वलग्नं समादाय दृढवस्त्रेण बन्धयेत् ॥ ३४६ ॥ ऊर्ध्वाधो गन्धकं तुल्यं रसं दत्त्वाऽनले पचेत् । जीर्णे गन्धे पुनर्देयः षङ्गिवारैः समः समः ॥ षड्गुणे गन्धके जीर्णे मूर्च्छितो रोगहा भवेत् ॥ ३४७॥ इति मूर्च्छितलक्षणम् ।— कज्जलाभो यदा सूतो विहाय घनचापलम् । मूर्च्छितस्तु तदा ज्ञेयो नानावर्णोऽपि च क्वचित् ॥ ३४८ ॥ मूर्च्छितफलम् ।— मारितं देहसिद्ध्यर्थं मूर्च्छितं व्याधिनाशने । रसभस्म क्वचिद्योगे देहार्थे मूर्च्छितं क्वचित् ॥ ३४९ ॥ अथ रसभस्मीकरणम् । तत्रोर्ध्वभस्म यथा रससिन्दूराख्यम् ।— सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलि- र्द्वौ टङ्कौ नवसादरस्य तुवरीकर्षश्च संमर्दितः ।

४६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः कूप्या काचभुवि स्थितश्च सिकतायन्त्रे त्रिभिर्वासरैः पक्को वह्निभिरुद्भवत्यरुणभाः सिन्दूरनामा रसः ॥३५० रसराजलक्ष्म्यां तु— कूपी सप्तमृदंशुकैः परिवृता शुष्काऽत्र गन्धेश्वरौ तुल्यौ तौ नवसारपादकलितौ संमर्द्य तस्यां न्यसेत् । सा यन्त्रे सिकताख्यके तलविले पक्त्वाऽर्कयामं हिमं भित्त्वा कुङ्कुमपिञ्जरं रसवरं भस्माददेद्वैद्यराट् ॥ ३५१॥ अन्यच्च— पाके रुद्धं मुखं कूप्या नवसारेण जायते । ततः शलाकया कुर्यात्कूपिकानाशशान्तये ॥ ३५२ ॥ अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि । तावन्तो हि गुणोत्कर्षा जायन्ते रसभस्मनः ॥ ३५३ ॥ अन्यच्च— भागो रसस्य त्रय एव भागा गन्धस्य माषः पवनाशनस्य । संमर्द्य गाढं सकलं सुभाण्डे तां क

१. ] आयुर्वेदप्रकाशः । ४७ अथानुपानानि— वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं पित्ते सैलं सितेन्दु व्रणवति तुवरागुग्गुलुश्चारुशुद्धः । चातुर्जातेन पुष्टौ हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७ अथ गुणाः— [हाशिये पर हस्तलिखित: ज्वरसेधे] अपहरति रोगवृन्दं दृढयति कायं महद्बलं कुरुते । शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ ३५८ ॥ स्मरस्यायुर्नानागदगहनदावानलशिखा परं वह्नेस्तेजो बलरुचिरतावल्लिमुदिरः । अपि प्रौढस्त्रीणामतुलबलहारी निधुवने रसः सिन्दूराख्यः सकलरसराजो विजयते ॥३५९॥ मुदिरो मेघः ॥ कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् । करीरं चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ॥ यस्य रोगस्य यो योगस्तेनैव सह योजितः । रसेन्द्रो हरते व्याधीन्नरकुञ्जरवाजिनाम् ॥ ३६१ ॥ अथ रसकर्पूरः । गैरिकतुवरीखटिकासैन्धवगडजं रजः कुडवम् । प्रत्येकं दृढहण्ड्यामाधायास्योपरि रसः स्थाप्यः ॥ ३६२ ॥ कुडवमितोऽथ तदूर्ध्वं देया हण्डी तदास्यायतमुखी । अथ तत्सन्धेर्मुद्रां कृत्वा तदधो हुताशनो ज्वाल्यः ॥३६३ अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलैः । अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्विनिशम् ॥ ३६४ ॥ तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसंनिभं सूतम् । आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ ३६५ ॥

४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः संमर्द्य चाथ काष्ठैरर्धार्मणसंमितैः पचेद्द्वास्रम् । चुल्लीडमरुकमध्यं वितस्तिचतुरङ्गुलावकाशं तु ॥ ३६६ ॥ कर्तव्यं, क्रमदहनं तदधः प्रज्वालयेन्मध्यम् । शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्यत्नात् ॥ ३६७ ॥ वल्लं वल्लार्धं वा गुडेन जीर्णेन रोगिणे दद्यात् । दुग्धोदनं तु पथ्यं देयं तस्मै च ताम्बूलम् ॥ ३६८ ॥ हरति समस्तं रोगं कर्पूराख्यो रसो नृणाम् । फिरङ्गरिकेसरी सकलकुष्ठकालानलो- ऽखिलव्रणविनाशकृद्रणजगर्तपूर्तिप्रदः । सुवर्णसमवर्णकृद्बलहुताशतेजस्करः समस्तगदतस्करो रसपतिः स कर्पूरकः ॥ ३६९ ॥ नवसादरं दद्यात् 'पारदाच्चतुर्थांशं' इति शेषः । तुवरी फटकडी, गडं सांभरिलवणं, शेषं स्पष्टम् ॥ अथ रसकर्पूरस्यापरो विधिः— शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः । इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च ॥ ३७० ॥ वल्मीकं क्षारलवणं भाण्डरञ्जनमृत्तिकाम् । सर्वाण्येतानि संचूर्ण्य वाससा परिशोधयेत् ॥ ३७१ ॥ सिन्धुजन्म सैन्धवं, वल्मीकं तज्जा मृत्, क्षारलवणं खारि- यालोणं, भाण्डरञ्जनमृत्तिका कुलालगृहे 'कावीस' इति नाम ॥ एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत् ॥ तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥ ३७२ ॥ तस्या स्थाल्या मुखे स्थालीमपरां धारयेत्समाम् । सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्मुखम् ॥ ३७३ ॥ संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।

१ . ] आयुर्वेदप्रकाशः । ४९ सम्यग्विशोष्य मुद्रां तां स्थालीं चूल्ह्यां निरोधयेत्॥३७४॥ अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥ ३७५ ॥ शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम् । कर्पूरवत्सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ ३७६ ॥ तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् । खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥ ३७७ ॥ विन्दति वहेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम् । रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥३७८॥ इति रसकर्पूरः ॥ अथ सिन्दूररसः । शुद्धसूतं तदर्धं तु शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ॥ ३७९ ॥ मृत्कर्पटैर्विलिप्तायां कूप्यां कज्जलिकां क्षिपेत् । वालुकायन्त्रगां यावत्पचेद्दिनचतुष्टयम् ॥ ३८० ॥ गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् । इति सिन्दूररसः ॥ अथ रसचिन्तामणौ— नागार्जुनीति विख्याता दुग्धिका क्षितिमण्डले ॥ ३८१ ॥ तया विमर्दयेत्सूतं दिनमेकं निरन्तरम् । काकमाचीरसैः कार्यं मर्दनं दोषनाशनम् ॥ ३८२ ॥ पारदं दशटङ्कं स्यादष्टटङ्कं च गन्धकम् । नौसादरं च पादं स्यात्त्रयमेकत्र मर्दयेत् ॥ ३८३ ॥ काचस्य कूपके कृत्वा मुखं तस्य निरुध्य च । अष्टयामावधिर्यावत्तावत्सूतः प्रपच्यते ॥ ३८४ ॥ एवं निष्पद्यते साक्षात्तरुणादित्यसंनिभः । ५

५० आयुर्वेदीयग्रन्थमाला । अरुणो भस्मसूताख्यः सर्वकार्यार्थसाधकः ॥ ३८५ ॥ प्रवालकोमलच्छायो नृणामत्यन्तवल्लभः । भक्षयेद्रक्तिकाः पञ्च मरिचेन समं रसम् ॥ ३८६ ॥ क्षुद्बोधकारकः प्रायः सद्यः कामाग्निदीपनः । ज्वरादिकानयं दोषान् संयोगान्नाशयत्यपि ॥ ३८७ ॥ येषु येषु प्रयोक्तव्यो रसो रोगेषु सत्वरम् । तांश्च तान्नाशयेच्छ्रेष्ठः समर्थो रसपार्थिवः ॥ ३८८ ॥ इति सिन्दूररसः ॥ अथ रसस्य मारणविधिः । धूमसारं रसं तूरीं गन्धकं नवसादरम् । यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥ ३८९ ॥ काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्रया । विलिप्य परितो वक्रे मुद्रां दत्त्वा विशोषयेत् ॥ ३९० ॥ अधःसच्छिद्रपिठरी

letter have a loop on the left? No, it's open on the left, with a vertical on the right: it's 'ग'! Wait, so is it "गर्भकः" or "गर्भगः"? "कर्कोटीकन्दगर्भगः ।" "गर्भगः" means "situated inside the bulb of Karkoṭī" (garbha-gaḥ)! Yes! "गर्भगः" makes total grammatical and contextual sense! (situated in the womb/interior of the karkotikanda). Let's check the meter: ना-ग-व-ल्ली-र-सै-र्घृ-ष्टः (8) क-र्को-टी-क-न्द-ग-र्भ-गः (8) 8 + 8 = 16! Exactly: "कर्कोटीकन्दगर्भगः ।"

Line 15: "मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥ ४०१ ॥" Let's check the letters: मृन्मूषासंपुटे (mṛnmūṣāsaṁpuṭe) पक्वः (pakvaḥ) सूतो (sūto) यात्येव (yātyeva) भस्मताम् (bhasmatām) ॥ ४०१ ॥ Everything matches!

Line 16: "अन्यच्च —" (or "अन्यच्च —") Check:

(G G)! So syllables are: 10: भि (L) 11: षग् (G) 12: वि (L) 13: द (wait, followed by ध्या makes Guru! द्ध्या or द्-ध्या!) -> दध (G) 14: यात् (G) Wait! वि-द-ध्यात्: वि is L (Laghu)! before ध्यात् has conjunct ध्य, so becomes GURU (G)! ध्यात् has त्, so it is GURU (G)! LET'S CHECK: 10: भि (L) 11: ष (followed by ग्) -> G 12: वि (L) 13: द (followed by ध्य) -> G 14: ध्यात् (G) IT IS EXACTLY, 100%, MATHEMATICALLY, POETICALLY: सुभिषग्विद्ध्यात्? NO! सुभिषग् विदध्यात् or सुभिषग्दिग्ध्यात्? Wait! If it is सुभिषग्दिग्ध्यात्: 10: भि (L) 11: ष (followed by ग्) -> G 12: दि (L

१. ] आयुर्वेदप्रकाशः । ५३ अथान्यच्च ।— कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुतः । सप्तधा म्रियते सूतः स्वेदितो गोमयाग्निना ॥ ४१२ ॥ अथान्यच्च ।— अपामार्गस्य बीजानि तथैरण्डं च चूर्णयेत् । तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥ ४१३ ॥ रुद्ध्वा पचेल्लघुपुटैश्चतुर्भिर्भस्मसां व्रजेत् । अथान्यच्च ।— खरमञ्जरिबीजान्वितपुष्पकबीजैः सुचूर्णितं कल्कम् । कृत्वा सूतं पुटयेद्दृढमूषायां भवेद्भस्म ॥ ४१४ ॥ अन्यच्च ।— काकोडुम्बरिकाया दुग्धेन विभावितो हिङ्गुः । मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥ ४१५ ॥ इति भस्मसूतः ॥ अथ जलौकाबन्धः । बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् । नीरसानामपि नृणां योषा स्यात्सङ्गमोत्सुका ॥ ४१६ ॥ बाल्ये चाष्टाङ्गुला योनौ यौवने च दशाङ्गुला । द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ४१७ ॥ सा यथा ।— मुनिपत्ररसश्चैव शाल्मलीवृन्तवारि च । जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥ ४१८ ॥ श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च । कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद्बुधः ॥ ४१९ ॥ जलौका जायते दिव्या रामाजनमनोहरा । सा योज्या कामना(का)ले तु कामयेत्कामिनी स्वयम् ४२०

५४ आयुर्वेदिकग्रन्थमाला । [ अध्यायः सद्यः स्खलनमाप्नोति दुःसाध्याऽपि रतेऽङ्गना । इति जलौकाबन्धः ॥ अथ खेचरीगुटी रसचिन्तामणौ । रसं टङ्कत्रयं शुद्धं कृष्णधत्तूरबीजजे ॥ ४२१ ॥ तैले पलद्वये खल्वे मर्दितं दिनसप्तकम् । तावद्यावद्भवेत्तस्य जलौकारूपमुत्तमम् ॥ ४२२ ॥ माषान्नपिष्टकेनादौ दृढसूत्रेण वेष्टयेत् । वर्तिं कृत्वा ततो गाढं शोषयेद्रविणा च ताम् ॥ ४२३ ॥ दशप्रस्थमिते तैले सर्षपस्य विपाचयेत् । तैलक्षयो भवेद्यावत्तावत्साऽप्यवतार्यते ॥ ४२४ ॥ स्निग्धच्छायाये निवेश्याथ शनैः सिद्धां च तां नयेत् । दुग्धेनापूर्यते कुम्भः शुभस्तत्र निवेशयेत् ॥ ४२५ ॥ विशोष्य सकलं दुग्धं गुटिका यदि तिष्ठति । बर्करस्य मुखे पश्चाद्गुटिकां तां प्रयच्छति ॥ ४२६ ॥ प्रविष्टा तन्मुखस्यान्तर्ज्वलमानेव तद्धृदि । व्याकुलं कुरुते कामं देहे स्वास्थ्यं न तस्य वै ॥ ४२७ ॥ उदरस्था यदा भूयात्तदाऽसौ म्रियते पशुः । स्वकीये वदने पश्चाद्धृत्वा शुभ्रां निरामयाम् ॥ ४२८ ॥ योजनानां शतं गच्छेदनायासेन साधकः । स्त्रीणां शतं तथा गच्छेच्छुक्रस्तम्भकरी मता ॥ ४२९ ॥ मुखस्थायामहो तस्यां प्रहारो नैव जायते । अन्येऽपि बहवो रोगा मुखस्था दन्तघातिनः ॥ ४३० ॥ जिह्वातालुगता ये ते कण्ठशालूकादयः । उपजिह्वा द्विजिह्वा स्यादधिजिह्वा सुदारुणा ॥ ४३१ ॥ सप्तषष्ठिषु ये मध्ये, हृद्रोगाः पीनसादयः । तांस्तांश्च नाशयेत्येषा गुटिका नाम खेचरी ॥ ४३२ ॥ इति खेचरीगुटीबन्धः ॥

१. ] आयुर्वेदप्रकाशः । ५५ अथ पारदसेवनविधिं व्याख्यास्यामः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् । विधिना पथ्यविधानादमरदेहतुल्यदेहः स्यात् ॥ ४३३ ॥ अक्षेत्रीकरणे सति रसायनं यो नरः प्रयुञ्जीत । तस्य क्रामति न रसः सर्वाङ्गोपक्रुद्भवति ॥ ४३४ ॥ अक्षेत्रीकरणे सूतोऽप्यमृतोऽपि विषं भवेत् । फलसिद्धिः कुतस्तस्य सुबीजस्योपरि यथा ॥ ४३५ ॥ कर्तव्यं क्षेत्रकरणं सर्वसिद्धौ रसायने । नाक्षेत्रकरणाद्देवि किंचिकुर्याद्रसायनम् ॥ ४३६ ॥ अथ नित्यनाथः— पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् । योजनीयो रसो दिव्यः शीघ्रं सिद्धिमवाप्नुयात् ॥ ४३७ ॥ नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः । न कुर्यात्पञ्चकर्माणि रक्तस्रावं च दाहनम् ॥ ४३८ ॥ पाचनं स्नेहनं स्वेदं वमनं रेचनं तथा । एतानि पञ्चकर्माणि ज्ञातव्यानि भिषग्वरैः ॥ ४३९ ॥ अमृतं च विषं प्रोक्तं शिवेन च रसायनम् । पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह । रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥ ४४० ॥ अथान्यच्च ।— स्निग्धस्विन्नविरिक्तं यन्नीरुजं सिद्धभेषजैः । एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥ स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन, स्विन्नं वस्त्रादिपुटस्वे- दिना, विरिक्तमिच्छाभेदि नाराचादिसेवनेन, पलाशबीज- न्तुघ्नगुडमोदकभक्षणेन कीटपातनमपि कर्तव्यं, सिद्धभेषजै-

५६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः नीरुजं संवत्सरमयनं वा परिशीलितैः शृङ्गाराभ्रकलक्ष्मीविला- साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः ॥ उक्तं च ।— मृताभ्रं भक्षयेन्मासमेकमादौ विचक्षणः । पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छतः ॥ ४४२ ॥ इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥ ४४३ ॥ घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णजीर्णश्च । क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोटः ॥ ४४४ ॥ योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च । बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ॥ ४४५ ॥ अथ रसभक्षणकालः । प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके । नोल्लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥ ४४६ ॥ ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते । सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ॥ अथ रसमात्राप्रमितिः— वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् । सर्वरोगविनाशार्थं भिषक् सूतं प्रयोजयेत् ॥ ४४८ ॥ मतान्तरम्— घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाआदिजीर्णस्य । सूतस्य गुञ्जवृद्ध्या माषकमात्रं परा मात्रा ॥ ४४९ ॥ शिवः— गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥ ४५० ॥ १ 'नैव भोजयेत्' क. ख. ।

२. द्वितीय अध्याय: महारस, उपरस (अभ्रक, माक्षिक, शिलाजतु, गन्धक, हरिताल, मनःशिला)

१.] आयुर्वेदप्रकाशः । ५७ फलम् ।— तीक्ष्णजीर्णस्य लक्षायुः पलमात्रस्य भक्षणात् । एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ॥ ४५१ ॥ तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् । भस्मनः शुल्वजीर्णस्य लक्षायुः पलभक्षणात् ॥ ४५२ ॥ कोट्यायुर्ब्रह्म-आयुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥ ४५३ ॥ अथ हेमजीर्णस्य फलम्— भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥ ४५४ ॥ अस्यानुपानम् ।— गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निवलावलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं व्रजेत् ॥ ४५५ ॥ एको दोषो हि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥ ४५६ ॥ नारीसङ्गादिना देवि अजीर्णं तस्य जायते । मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥ ४५७ ॥ तस्मादजीर्णशमनोपायमाह— युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् । लघुतां शेफसो ज्ञात्वा पश्चाद्गच्छन् सुखी भवेत् ॥ ४५८ ॥ ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ॥ ४५९ ॥ अथ रससेवनकर्तुराहारादिनियममाह— अतिपानं चात्यशनमतिनिद्राऽतिजागरम् । स्त्रीणामतिप्रसङ्गं च आध्मानं च विवर्जयेत् ॥ ४६० ॥

५८ आयुर्वेदीयग्रन्थमाला। [अध्यायः अतिकोपं चातिहर्षमतिदुःखमतिस्पृहाम् । शुष्कवादं जलक्रीडामतिचिन्तां च वर्जयेत् ॥ ४६१ ॥ कूष्माण्डं कर्कटीं चैव कारवेल्लं कलिङ्गकम् । कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥ ४६२ ॥ ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः । पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥ ४६३ ॥ चतुष्पथे न गन्तव्यं विण्मूत्रं न च लङ्घयेत् । वराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥ ४६४ ॥ सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः । कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥ ४६५ ॥ कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् । हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥ ४६६ ॥ कद्रम्लतिक्तलवणं पित्तलं च विवर्जयेत् । बदरं नारिकेलं च सहकारं सुवर्चलम् ॥ ४६७ ॥ नारङ्गं काञ्चनारं च शोभाञ्जनमपि त्यजेत् । न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ४६८ ॥ नैवेद्यं नैव भुञ्जीत कर्पूरं वर्जयेत्सदा । कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥ ४६९ ॥ न तु हन्यात्कुमारीं च वातलांनि च वर्जयेत् । क्षुधार्त्तो नैव तिष्ठेत अजीर्णं नैव कारयेत् ॥ ४७० ॥ दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् । हितं दुग्धान्नमुद्गाज्यशाल्यन्नानि सदा ततः ॥ ४७१ ॥ शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् । सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ॥ ४७२ ॥ १ 'मातुलानीं' ग. । मातुलानीं भङ्गाम् ।

१. ] आयुर्वेदप्रकाशः । ५९ आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः । एतांस्तु समयान्भद्रे न लङ्घेद्रेसभक्षणे ॥ ४७३ ॥ अथ रसवाग्भटे ।— (सांधितं पारदं शृङ्गदन्तवेण्वादिधारितम् । अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ॥ ४७४ ॥ पर्णखण्डे धृतं सूतं जग्ध्वा तदनुपानतः । घृतसैन्धवधान्याकजीरकार्द्रकसंयुतम् ॥ ४७५ ॥ तण्डुलीयकधान्याकपटोलालावुकादिकम् । कुस्तुम्बरी मरीचानि सैन्धवं समभागिकम् ॥ ४७६ ॥ व्यञ्जनार्थं कृतं भोज्ये रससेवक उत्तमम् ।) गोधूमजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ॥ ४७७ ॥ हंसोदकं मुद्गयूषः पथ्यवर्गः प्रकीर्तितः । बृहतीबिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ॥ ४७८ ॥ माषं मसूरं निष्पावान् कुलत्थ सर्षपांस्तिलान् । बन्धनोद्वर्तनस्नानताम्रचूडसुरासवान् ॥ ४७९ ॥ आनूपमांसधान्याम्लं भोजनं कदलीदले । कांस्ये च गुरु विष्टम्भी तीक्ष्णोष्णं च भृशं त्यजेत् । निषिद्धं वर्ज्य मतिमान्विचित्ररसभुग्भवेत् ॥ ४८० ॥ स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः॥४८१ अथाज्ञानादशोधितपारदभक्षणे तद्विपशमनोपायमाह— यद्यज्ञानात्कथमपि नागादिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञः पिवेच्छिफां कारवेल्लिभवाम् ॥ ४८२ ॥ अथ रसाजीर्णे शमनोपायमाह— रसाजीर्णे महाव्याधीन् लक्षयेद्भिषगुत्तमः । अभ्यङ्गमनिलक्षोभे तैलैर्नारायणादिभिः ॥ ४८३ ॥ १ () एतच्चिह्नान्तर्गतः पाठः ख. गः पुस्तकयोर्नोपलभ्यते ।

६० आयुर्वेदीयग्रन्थमाला । [ अध्यायः अरतौ शीततोयेन मस्तके परिषेचनम् । तृष्णायां नारिकेलाम्बु मुद्गयूषं सशर्करम् ॥ ४८४ ॥ उद्गारे सति दध्यन्नं कृष्णजीरं ससैन्धवम् । कार्षिकं स्वर्जिकाक्षारं कारवेल्लीरसप्लुतम् । गोमूत्रसैन्धवयुतं तस्य संस्रावणं परम् ॥ ४८५ ॥ तस्य रसाजीर्णस्य ॥ सिन्धुकर्कटिगौमूत्रं कारवेल्लीरसप्लुतम् । सौवर्चलसमायुक्तं रसाजीर्णे पिवेन्नरः ॥ ४८६ ॥ शरपुङ्खां सुरदालीं पटोलवीजं च काकमाचीं च । एतेषामेकतमं कथितमजीर्णे रसायने तु पिवेत् ॥ ४८७ ॥ हारीतं प्रत्यात्रेयः— धान्यादीनां च सर्वेषां यवगोधूमषष्टिकाः । नेष्टास्तु विदलाः सर्वे मुक्त्वा मुद्गांस्तथाऽऽढकीम् ॥४८८॥ आज्यं स्नेहे मधुषु मधुरं चेक्षुजातं हि यत्स्यात् श्रेष्ठं खण्डं बत वरसितं क्षारयुक्तं न तत्स्यात् । हिङ्गु श्रेष्ठं सकलसुरभौ सैन्धवं सिन्धुजेषु रागे यूषाः प्रवररजनीसूरणाद्रौ च कन्दे ॥ ४८९ ॥ अशुभं पत्रशाकं तु सर्वाणि द्विदलानि च । संस्कृतानि विधानेन न स्युर्दोषकराणि च ॥ ४९० ॥ केशादिजुष्टं कृतशीतमुष्णं शाकावरान्नैर्र्वहुलं महोष्णम् । निशोषितं यल्लवणाधिकं च संत्याज्यमन्नं रससेविभिस्तत् ४९१ तक्रं हितं स्नेहगतं तथा दधि गोक्षीरजातं सकलं हितं स्यात् । मुक्त्वा च तैलाम्बुसुरारनालं स्यादम्बुपानं न हितं रसायने ॥ तैलं च चित्रा गिरिजाभवं यत्सुस्वादहीनं शटितामदग्धम् । विनष्टदुग्धं त्वशुभं च सर्वं खादेत्कदाचिन्न रसायनी नरः४९३

१.] आयुर्वेदप्रकाशः । ६१ पुष्पजातं फलं सर्वं मधुरं मांसशर्करम् । पाकयुक्तमशीर्णं च श्रेष्ठमुक्तं रसायने ॥ ४९४ ॥ असिताया सवत्सायाः प्राहुर्दुग्धं जलैः शृतम् । बलवृद्धिकरं वृष्यं श्रेष्ठमुक्तं रसायने ॥ ४९५ ॥ गव्यं सुदुग्धं सलिलार्थकेन संपाच्य तत्क्षीणजलं सुशीतम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिबेत्सदेव ॥४९६॥ दिव्यान्तरिक्षं धौनिजं च कौपं स्वयंविशीर्णाद्रिशिलातलोद्भवम् । तडागजं सारसमौद्भिदं यत्तोयं मतं त्वष्टविधं मनोरमम् ॥४९७ अक्षारं स्वादु मृष्टं दिनमणिकिरणैर्वासरे तप्तमादौ रात्रौ शीतांशुरोचिस्त्रिविधसुपवनान्दोलितं दोषहीनम् । कर्पूरै राजचम्पैरतिशयविमलैः पाटलैलासुपुष्पै- स्त्वग्धान्यैर्वासितं यद्वरशिशिरजलं मृतसेवी पिवेत्॥४९८॥ श्रीनारायणसंज्ञकेन च बलातैलेन चान्येन वा कार्यं मर्दनकोविदै रसभुजां मल्लैः सदा मर्दनम् । चातुर्जातलवङ्गकुङ्कुमनिशामुस्तासुमांसीभवै- श्चूर्णैर्मृष्टमसूरमुद्गयवजैरुद्वर्तनं कारयेत् ॥ ४९९ ॥ सौख्योष्णैः सलिलैर्द्रुतं रसभुजां स्नानं सुजीर्णेऽशने वातं पित्तकफौ निहन्ति बलकृत्त्वग्वर्णकृद्बृंहणम् । रूपद्योतिकरं मनःप्रशमनं कामस्य संवर्धनं नारीणां च मनोहरं श्रमहरं देहे रसक्रामणम् ॥ ५०० ॥ अथ देहसिद्धिदानन्यानपि रसेन्द्रप्रयोगान् व्याचक्ष्महे । श्लोकद्वयं तत्र प्रागध्येतव्यं मृतपरीक्षार्थं; यथा— कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योग्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ५०१ ॥


१ 'पाकयुक्तमजीर्णं' ख. । २ 'अकृष्णाया' ग. । ३ धौनिजं नादेयम् । ६

६२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः वल्मीके¹कूपतरुतलरथ्यादेवालयश्मशानेषु । जाता विधिनाऽपि हृता ओषध्यः सिद्धिदा न स्युः ॥५०२ अथ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीं मुद्राम- भिदध्मः— अधस्ताप उपर्यापो मध्ये गन्धकपारदौ । यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥ ५०३ ॥ यदि कार्यमयोयन्त्रं तदा तं मृत्स्नया दिहेत् । समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ॥ ५०४ ॥ जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः । चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ॥ ५०५ ॥ भवेत् पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् । इत्याद्युक्तमेव ॥ भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ॥ ५०६ ॥ रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा । निष्कं खादेज्जरामृत्युं हन्ति गन्धामृतो रसः ॥ ५०७ ॥ समूलं भृङ्गराजं च छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५०८ ॥ पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहः । इति गन्धामृतो रसः ॥ मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ॥ ५०९ ॥ क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके । लेहयेन्मासषट्कं तु जरामृत्युविनाशनम् ॥ ५१० ॥ बाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् । अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ ५११ ॥ इति हेमसुन्दरो रसः ॥ १ 'वल्मीकानूप'-ग. ।

१. ] आयुर्वेदप्रकाशः । ६३ बलिः सूतो निम्बूरसविमृदितो भस्मसिकता- द्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः । त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषाऽ- वलीढो माषैकं दरयति समस्तं गदगणम् ॥ ५१२ ॥ जरां वर्षेकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन कथितः प्रभावं को वाऽन्यः कथयितुमपारं प्रभवति ॥ ५१३ ॥ लुङ्गाम्भोलवकदलित इति मातुलुङ्गद्रवं कणशो दत्त्वा त्रिदिनं मर्दयेदित्यर्थः । इति मृत्युञ्जयो रसः ॥ शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले विधाय । दोलागतं पच दिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ५१४ ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्याऽवजार्य कुरु भस्मसमं च तस्य । वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर्विषं द्विगुणीतं मृदितं च खल्वे ॥ ५१५ ॥ घस्रत्रयं कनकभृङ्गरसेन गाढ- मावेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्या- मापूंर्य रुद्धवसनं सिकताख्ययन्त्रे ॥ ५१६ ॥ तां वासरार्धमुपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् । आनन्दसूतमखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥ ५१७ ॥