भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

६४ आयुर्वेदग्रन्थमाला । [ अध्यायः रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् । कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥ ५१८ ॥ तथा द्विवारमिति पूर्ववदखिलं द्विः कुर्यादिति भावः । गि- रिशलोचनयुग्मेति षड्गुणगन्धकं, युक्त्येति काचकूप्यादौ ॥ इत्यानन्दसूतरसः ॥ सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् । गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥ शुष्के यन्त्रे सत्त्वपातप्रधाने किट्टे सूतो बद्धतामेति नूनम् । बद्धं पश्चात्क्षारकाचप्रयोगाद्द्वेन्ना तुल्यं सूतमावर्तयेत्तु ॥ ५२० ॥ वक्त्रे खोटः स्थापितो वत्सरार्धं रोगान् सर्वान् हन्ति सौख्यं करोति। यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्षये तत् ॥ लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे । वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ५२२ भार्गीमुण्डीकासमर्दारूषद्रवैर्गोलं पाचयेच्छ्लेष्मनुत्त्यै । कासे श्वासे तं च दद्यात्कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम्॥ यस्मिन् रोगे यः कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव । उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात्॥ युक्त्या प्रागग्निसहत्वं कृत्वा पश्चाद्धमेदित्यर्थः ॥ इति प्राणिकल्पद्रुमगोलरसः ॥ रसगन्धकताग्राणि सिन्दुवाररसैर्दिनम् । मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ ५२५ ॥ रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् । तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥ ५२६ ॥

१. ] आयुर्वेदप्रकाशः । ६५ दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च । सिन्दुवारो 'निर्गुण्डी' इति भाषा । इति त्रिनेत्ररसः ॥ रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद्दिनम् ॥ ५२७ ॥ प्रतिलोहं सूततुल्यमष्टलोहं मृतं क्षिपेत् । ब्राह्मी जयन्ती निर्गुण्डी विषमुष्टिः पुनर्नवा ॥ ५२८ ॥ नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः । अटरूषः काकमाची द्रवैरासां विमर्दयेत् ॥ ५२९ ॥ गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् । रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥ ५३० ॥ अष्टलोहं स्वर्णादि । इति शार्दूलरसः ॥ सूतभस्म चतुर्भागं लोहभस्म तथाऽष्टकम् । मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥ ५३१ ॥ भावयेत्त्रिफलाक्वाथैस्तत्सर्वं भृङ्गद्रवैः । शिग्रुवह्निकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥ ५३२ ॥ सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः । निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥ ५३३ ॥ ब्रह्मायुः स्याच्चतुर्मासै रसोऽयममृतार्णवः । तिलं कोरण्टपत्राणि गुडेन भक्षयेदनु ॥ ५३४ ॥ कोरण्टः ‘कण्टसैरैया' इति भाषा । इति अमृतार्णवरसः ॥ वृष्यगणचूर्णतुल्यं तत्पुटपकं सिताद्विगुणम् । वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ ५३५ ॥ अथ शतावर्यादिवृष्यगणचूर्णमाह ।—शतावरी विदारी गोक्षुर इक्षुरको वानरी बला कृष्णश्वेता मुसली मिस्रीक्षुरक- बीजान्यतिबला इति वृष्यगणः । अत्र गन्धमूर्च्छितं रस- मभ्रादिकं च ददति दाक्षिणात्याः । इदं रसायनाख्यचूर्णरत्नं; अनुपेयं दुग्धादि ।

६६ आयुर्वेदीयग्रन्थमाला । विषं त्रिकटुकं मुस्ता हरिद्रा निम्बपल्लवम् । विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् । चणकाभा वटी कार्या योगवाही जयाभिधा ॥ ५३६ ॥ इति जयावटी ॥ गन्धं लोहं भस्म मध्वाज्ययुक्तं सेव्यं कर्षं वारिणा त्रैफलेन । शुभ्रे केशे कालिमा दिव्यदृष्टिः पुष्टिर्वीर्यं जायते गन्धलोहात् ॥ इति गन्धलोहम् ॥ अष्टांशहेमरजते शिखिमूषिकायां संजार्य षड्गुणवलिं क्रमशोऽधिकं च । ऊर्ध्वं पयोऽग्निमधरे विनिधाय धीराः सिद्धिं समग्रमतुलां स्वकरे कुरुध्वम् ॥ ५३८ ॥ अष्टांशेत्युपलक्षणं, अधिकमपि शतगुणपर्यन्तम् ॥ रसगन्धकलोहाभ्रं समं सूताङ्घ्रि हेम च । सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥ ५३९ ॥ एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् । संस्थाप्य च तदुद्धृत्य सर्वरोगेषु योजयेत् ॥ ५४० ॥ एतद्रसायनवरं त्रिफलामधुसंयुक्तम् । तद्यथाग्निवलं खादेद्वलीपलितनाशनम् ॥ ५४१ ॥ क्षयमेकादशविधं कासं पञ्चविधं तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेहकान् ॥ ५४२ ॥ शूलं श्वासं च मन्दाग्निं हिक्कां चैवाम्लपित्तकम् । व्रणान् सर्वान्नाढ्यवातं विसर्पं विद्रधिं तथा ॥ ५४३ ॥ अपस्मारं ग्रहोन्मादान् सर्वार्शांसि त्वगामयान् । क्रमेण शीलितो हन्ति वृक्षमिन्द्राशनिर्यथा ॥ ५४४ ॥

२.] आयुर्वेदप्रकाशः । ६७ पौष्टिकं वल्यमायुष्यं पुत्रप्रसवकारणम् । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥ ५४५ ॥ इति चतुर्मुखरसः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायमाधवविरचितायुर्वेद- प्रकाशे सूतसाधनाध्यायः प्रथमः समाप्तः ॥ १ ॥ अथ द्वितीयोऽध्यायः । अथोपरसाः कथ्यन्ते । गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् । कासीसं रसकं कपर्दसिकतावोलाश्च कङ्गुष्ठकं सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥ तुल्याः स्युर्यदि ते विशोध्य विधिना संसाधिताः सेविता- स्तत्तद्रोगहरानुपानसहितैर्यौगैश्चिरायुःप्रदाः ॥ १ ॥ अथादौ गन्धकोत्पत्तिं प्रकारं शोधनस्य च । नामलक्षणसंयुक्तं वक्तुमर्हसि शङ्कर ॥ २ ॥ ईश्वर उवाच ।— श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः । क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ॥ ३ ॥ बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् । क्षीरार्णवे तु स्नाताया दुकूलं रजसान्वितम् ॥ ४ ॥ धौतं यत् सखिभिस्तत्र तज्जातं गन्धकं रजः । क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥ ५ ॥ निजगन्धेन तान् सर्वान् हर्षयन् देवदानवान् । ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥ ६ ॥ १ ‘हर्षयामास दानवान्’ ग. ।

६८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः रसस्य बन्धनार्थाय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥ ७ ॥ इत्ययं गन्धको नाम विख्यातः क्षितिमण्डले । बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥ ८ ॥ वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता । वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥ ९ ॥ गन्धकत्वं च संप्राप्ता तस्माद्वलिवसा स्मृता । अथ गन्धकनामानि । गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि । सौगन्धिकश्च कथितो बलिर्बलिवसाऽपि च ॥ १० ॥ अथ गन्धकस्वरूपम् । चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियासूक्तः शुकतुण्डनिभो वरः ॥ ११ ॥ पीतश्चामलसाराख्यः श्रेष्ठो रसरसायने । श्वेतोऽत्र खटिका प्रोक्ता लेपने लोहमारणे । *, लेपने व्रणादिलेपने ॥ अथ शुद्धगन्धकगुणाः कथ्यन्ते— दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ १२ ॥ गन्धाश्माऽतिरसायनः समधुरो ह्युष्णो विपाके कटुः कण्डूकुष्ठविसर्पदद्रुदलनः संदीपनः पाचनः । आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्त्वात्मकः सूतजित् ॥१३ अन्यच्च— गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित् । हन्ति कुष्ठं क्षयं प्लीहकफवातान् रसायनः ॥ १४ ॥

२. ] आयुर्वेदप्रकाशः । ६९ अथ शोधितगन्धकगुणाः ।— शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युजरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति हि ॥ १५ ॥ अथाशोधितगन्धकदोषः । अशुद्धगन्धः कुरुते च कुष्ठं तापं भ्रमं पित्तरुजं तथैव । रूपं सुखं वीर्यबलं निहन्ति तस्माद्विशुद्धो विनियोजनीयः ॥१६ अथ गन्धकशोधनं कथ्यते । गन्धः संक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः । अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ १७ ॥ अथ शोधनयोग्यगन्धकलक्षणम् । शुकपिच्छसमच्छायो नवनीतसमप्रभः । मसृणः कठिनः स्निग्धः श्रेष्ठो गन्धक उच्यते ॥ १८ ॥ अथान्यमते शोधनम् ।— लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ १९ ॥ विद्रुतं गन्धकं ज्ञात्वा तनुवस्त्रे विनिक्षिपेत् । यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलः पतेत् ॥ २० ॥ शीतो निष्कासितो धौतो जलं वस्त्रेण शोषयेत् । एवं नैर्मल्यमापन्नो गन्धकः शुद्ध उच्यते ॥ २१ ॥ एवं वारत्रयं शोध्यो भिन्ने दुग्धे प्रयत्नतः । भक्षणार्थं हि भिषजा योगार्थं सकृदेव च ॥ २२ ॥ वस्त्रनिर्गलितशुद्धस्य प्रयोजनमाह वाग्भटः— एवं संशोधितः सोऽयं पाषाणानम्बरे त्यजेत् । घृते विषं तुषाकारं स्वयं पिण्डत्वमेति च ॥ २३ ॥

७० आयुर्वेदीयग्रन्थमाला । [अध्यायः अथास्य कूर्म्मपुटेन शोधनं विशदं यथा— साज्यभाण्डे पयः क्षित्वा मुखं वस्त्रेण बन्धयेत् । गन्धकं पृष्ठदेशे तु श्लक्ष्णचूर्णितमर्पयेत् ॥ छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ॥ २४ ॥ सन्धिरोधः प्रकर्त्तव्यो भाण्डखर्परयोर्मृदा । भाण्डं निक्षिप्य भूगर्त्ते किंचिद्रक्षेद्बहिर्मुखम् ॥ २५ ॥ ज्वालयेत्खर्परस्योर्ध्वं जातवेदं वनोपलैः । ततः क्षीरे द्रुतं गन्धं शीतं धौतं जलेन तु ॥ २६ ॥ वस्त्रघृष्टं निर्जलं तु शुद्धं योगेषु योजयेत् । मतान्तरम्— गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । सप्तधैवं भक्षणार्थं योगार्थं सकृदेव तु ॥ २७ ॥ इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् । अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥ २८ ॥ अथ गन्धककल्पार्थं गन्धकगन्धनाशनप्रकारः— विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् । ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥ २९ ॥ पश्चाच्च पातयेत् प्राज्ञो जले त्रैफलसंभवे । जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥ ३० ॥ अथ गन्धकसेवनप्रकाराः । इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः । गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः॥३१ अत्र पथ्यं तु दुग्धोदनम् । इति गन्धककल्पः ॥ शुद्धो गन्धो निष्कमात्रः सदुग्धः सेव्यो मासं शौर्य्यवीर्य्यप्रवृद्ध्यै । षण्मासात्स्यात्सर्व्वरोगप्रणाशो दिव्या दृष्टिर्दीर्घमायुः सुरूपम् ३२ इति द्वितीयो गन्धककल्पः ॥

२. ] आयुर्वेदप्रकाशः । ७१ अथ गन्धकतैलम् ।— आवर्त्यमाने पयसि दद्याद्गन्धकजं रजः । तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥ ३२ ॥ गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् । चूर्णीकृत्य पलानि पञ्च नितरां गन्धाश्मनो यत्नत- स्तच्चूर्णं त्रिगुणे तु मार्कवरसे छायाविशुष्कीकृतम् । यत्स्याच्चूर्णमथाभयामधुघृतं प्रत्येकमेषां पलं वृद्धो यौवनमेति मासयुगलं खादन्नरः प्रत्यहम् ॥३३॥ इति तृतीयो गन्धककल्पः ॥ यो गन्धाश्म विचूर्णितं पिबति ना तैलेन कर्षोन्मितं नित्यं चोष्णजलावसेचनरतः काले यथा प्रत्यहम् । सप्ताहत्रितयान्निहन्ति सकलाः पामादिसर्वा रुजो नित्याभ्यासवशाद्विनष्टसकलक्लेशोपतापः पुमान् ॥३४॥ इति चतुर्थो गन्धककल्पः ॥ यो वाऽप्युग्रमतिः सुचूर्णितमिदं गन्धाश्म कृष्णासमं पथ्यातुल्पमपि प्रपूजितगुरुर्भूतेशपूजारतः । आहारादिषु यन्त्रणादिरहितः स्यात् पुष्टिवीर्याधिकः प्रोत्फुल्लाम्बुजनेत्रयुग्मविलसच्चामीकराभासुरः ॥ ३५ ॥ इति पञ्चमो गन्धककल्पः ॥ कलांशव्योषसंयुक्तं शुद्धगन्धं विचूर्णितम् । अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्टयेत् ॥ ३६ ॥ सूत्रेण वेष्टयित्वाऽथ यामं तैले निमज्जयेत् । धृत्वा संदंशतो वर्तिं मध्ये प्रज्वालयेच्च ताम् ॥ ३७ ॥ द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने । तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥ ३८ ॥

७२ आयुर्वेदियग्रन्थमाला । [ अध्यायः वल्लेन प्रमितं शुद्धं सूतेन्द्रं च विमर्दयेत् । अङ्गुल्या च सपत्रां तां द्रुतिं सूतं च भक्षयेत् ॥ ३९ ॥ करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् । कासं श्वासं च शूलार्तिं ग्रहणीमपि दुर्धराम् । आमं विनाशयत्याशु लघुत्वं प्रकरोति च ॥ ४० ॥ इति षष्ठो गन्धककल्पः ॥ अन्यच्च— शुद्धो बलिर्गोपयसा त्रिंवारं ततश्चतुर्जातगुडूचिकाङ्घ्रिः । पथ्याक्षधात्र्यौषधभृङ्गनीरैर्भाव्योऽष्टवारं पृथगार्द्रकेण ॥ ४१ ॥ सिद्धे सितां योजय तुल्यभागां रसायनं गन्धकसंज्ञितं स्यात् । धातुक्षयं मेहगणाग्निमान्द्यं शूलं तथा कोष्ठगतांश्च रोगान्॥४२ कुष्ठान्यथाष्टादश रोगसंघान्निवारयत्येव च राजरोगम् । कर्षोन्मिते सेवित एति मर्त्यो वीर्यं च पुष्टिं बलमग्निदीप्तिम्॥४३ वमनै रेचनैः पूर्वं देहशुद्धिं समाचरेत् । जाङ्गलानि तु मांसानि छागलानि प्रयोजयेत् ॥ ४४ ॥ लवणाम्लानि शाकानि द्विदलानि तथैव च । स्त्रियश्चारोहणं यानं सदा चैतानि वर्जयेत् ॥ ४५ ॥ इति सप्तमः सर्वोत्तमो गन्धकरसायनकल्पः ॥ वातारितैलसंयुक्तस्त्रिफलाकौशिकेन तु । गन्धको रससंयुक्तो जराव्याधिविनाशनः ॥ ४६ ॥ मासमात्रप्रयोगेन शृणु वक्ष्यामि तद्गुणान् । अर्शो भगन्दरश्चैव तथा श्लेष्मसमुद्भवाः ॥ ४७ ॥ नश्यन्ति व्याधयः सर्वे मासेनेकेन गन्धकात् । षण्मासस्य प्रयोगेण देवतुल्यो भवेन्नरः ॥ ४८ ॥ १ ‘विशोषयत्याशु’ ग. । २ ‘विभाव्यः’ ग. । ३ ‘गन्धकसंज्ञकं’ ग. ।

२. ] आयुर्वेदप्रकाशः । ७३ हंसवर्णाश्च ये केशा वलिश्चैव प्रलम्बिनी । चला दन्ता मन्ददृष्टिर्बलशुक्रादिसंक्षयः ॥ ४९ ॥ निर्जित्य यौवनं याति भ्रमरा इव मूर्धजाः । दिव्यदृष्टिर्महाप्राणो वराह इव कर्णयोः ॥ ५० ॥ चक्षुषा तार्क्ष्यतुल्योऽसौ बलेन बलविक्रमः । दृढदन्तो वज्रकायो द्वितीय इव शङ्करः । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ५१ ॥ इत्यष्टमो गन्धककल्पः ॥ गन्धकस्य पलं चैकं रसस्यार्धपलं तथा । कुमारीरससंघृष्टं दिनैकं गोलकीकृतम् ॥ ५२ ॥ अन्धमूषाधृतं ध्मातं लेहयेन्मधुसर्पिषा । मासमात्रप्रयोगेण जरादारिद्र्यनाशनम् ॥ ५३ ॥ इति नवमो गन्धककल्पः ॥ त्रिफला गन्धकं भृङ्गं समभागानि कारयेत् ।

७४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः । शम्याकमूलजरसैर्मर्दितोऽखिलरोगहा ॥ ५८ ॥ इति द्वादशो गन्धककल्पः ॥ शम्याकमूलस्वरसैः संघृष्टो गन्धकोत्तमः । लिप्तो देहे ध्रुवं खर्जुकुष्ठपामादिनाशनः ॥ ५९ ॥ इति कण्ड्त्यां त्रयोदशो गन्धककल्पः ॥ द्विनिष्कप्रमितो गन्धः पीतस्तैलेन शोधितः । पश्चान्मरिचतैलाभ्यामपामार्गजलेन च ॥ ६० ॥ पेषयित्वा बलिः सर्वदेहे लिप्तः प्रयत्नतः । घर्मे तिष्ठेत्ततो रोगी मध्याह्ने तक्रभक्तकम् ॥ ६१ ॥ भुञ्जीत रात्रौ सेवेत वह्निं प्रातः समुत्थितः । महिषीच्छगणैर्देहं संलिप्य स्नानमाचरेत् । शीतोदकेन पामादिखर्जुकुष्ठं प्रशाम्यति ॥ ६२ ॥ इति पामाखर्जुकुष्ठादौ चतुर्दशो गन्धककल्पः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिता- युर्वेदप्रकाशे द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ अथ तृतीयोऽध्यायः । अथ हिङ्गुलस्य नामलक्षणगुणोत्पत्तिशोधनानि । हिङ्गुलं दरदं म्लेच्छं हिङ्गूलश्चूर्णपारदम् । सुरङ्गं रसगर्भं च बर्बरं रक्तमप्यथ ॥ १ ॥ दरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः । हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥ २ ॥ चर्मारः शुकवर्णः स्यात्सपीतः शुकतुण्डकः । जपाकुसुमसंकाशो हंसपादो महोत्तमः ॥ ३ ॥

३.] आयुर्वेदप्रकाशः । ७५ गुणाः— तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि । हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति ॥ ४ ॥ अथाशुद्धदरदस्य दोषाः— अशुद्धो दरदः कुर्यादान्ध्यं क्षैण्यं क्लमं भ्रमम् । मोहं मेहं च संशोध्यस्तस्माद्वैद्यैस्तु हिङ्गुलः ॥ ५ ॥ अथ हिङ्गुलशोधनम् ।— मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ ६ ॥ वाग्भटः— सप्तकृत्वोऽऽर्द्रकद्रावैर्लकुचस्याम्बुनाऽपि वा । शोषितो भावयित्वा च निर्दोषो जायते खलु ॥ ७ ॥ अथ मारणम्—हिङ्गुलं तनुवस्त्रकञ्चुकगतं कृत्वा पटराङ्ग- नकन्दमध्यस्थं कृत्वा मृदा संवेष्ट्य पुटपाकविधानेन दशव- नोपलैः पुटेत्, एवं शतपुटानि; ततः शतपुटान्येवं वनवृन्ता- कस्य, ततः शतपुटान्येवं मन्दारफलस्य, ततः शतपुटान्येवमि- न्द्रवारुणिकाफलस्य, ततः शतपुटान्येवमम्लवेतसफलस्य, ततः सिद्धो जातश्चात्यरुणवर्णो भवति । रक्तिकैकामस्य पर्णखण्डेन त्रिगन्धादिसुगन्धिद्रव्यैर्यथालाभं भक्षयेत् । द्विगुणाग्निर्द्विगुण- कामः कासश्वासक्षयज्वरादिनाशश्च ॥ तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् । मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निवर्धनम् ॥ ८ ॥ अथ हिङ्गुलोत्पत्तिः; सा च रसपद्धत्युक्ता लिख्यते— अशुद्धपारदं भागं चतुर्भागं च गन्धकम् । उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥ ९ ॥


१ 'तनुवस्त्रकन्दुकं' ख. । २ 'नवभागं' ख. ।

७६ आयुर्वेदीयग्रन्थमाला । [अध्यायः तस्मिन् मनःशिलाचूर्णं पारदाद्दशमांशकम् । क्षित्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥ १० ॥ ततस्तु खण्डशः कृत्वा काचकूप्यां निरुध्य च । वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥ ११ ॥ सर्वतोऽङ्गुलमानेन छायाशुष्कां च कारयेत् । वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ॥ १२ ॥ क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् । सप्ताहात् समुद्धृत्य हिङ्गुलः स्यान्मनोहरः ॥ १३ ॥ अन्यच्च— उर्ध्वपातनयुक्त्या तु डमरूयन्त्रपाचितम् । हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥ १४ ॥ निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम् । घृष्ट्वा दरदमूर्ध्वं तु पातयेत्सूतयुक्तिवत् ॥ १५ ॥ तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हि तत्सूतं सर्वकर्मसु योजयेत् ॥ १६ ॥ हिङ्गुलस्य शोधनमेव दृष्टं रसग्रन्थेषु नान्यत् क्रियान्तर- मिति दिक् ॥ इति श्रीसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचितायुर्वेदप्रकाशे तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । अथाभ्रकीयमध्यायं व्याख्यास्यामः । पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ १ ॥ ते निपेतुर्घनध्वानाः शिखरेषु महीभृताम् । तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ २ ॥

) र (ra) वो (vo) द्भा (dbhaa) or द्भ (dbha) वात् (vaat) । Wait, look at: "दभ्रमभ्रवोद्भावात्" -> Is it "दभ्रमभ्रवोद्भवात्"? Look at: द् + अ = द? No, it is 'द्' (with virama? No, there is no virama after त्वा!). It's: वज्रजातत्वाद् (connected to) अभ्र... Wait, there is an 'अ'! Look at the letter after त्वाद्: Wait, is that a virama under त्वाद्? No, after त्वा, there is: द् (with halanta? No, it's द् + अ = द? Or त्वा followed by द् with virama, then अ?) Look: त, व, जा, त, त्वा, द्, अ, म, भ्र, र, वो, द्भ, वा, त् Wait, let's count the characters in line 2:

  1. द्भ्रं [space]
  2. ज्र
  3. जा
  4. त्वा
  5. द्
  6. भ्र
  7. वो
  8. द्भ
  9. वा
  10. त् 17

७८ आयुर्वेदौयग्रन्थमाला। [अध्यायः अथ वज्राभ्रकगुणाः— अभ्रं कषायं मधुरं सुशीतमायुःकरं धातुविवर्धनं च । हन्त्यात्रिदोषव्रणमेहकुष्ठप्लीहोदरग्रन्थिविषकृमींश्च ॥ १४ ॥ रोगान् हन्ति दृढयति वपुर्वीर्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । दीर्घायुष्यान् जनयति सुतान् विक्रमैः सिंहतुल्या- न्मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् ॥ १५ ॥ अथाशुद्धस्य मारणे दोषमाह— पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोफम् । हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं हि तद्दुर्द्धरं वह्निहृत्स्यात्॥१६॥ अथ मृताभ्रस्यापि लक्षणगुणदोषानाह— निश्चन्द्रकं सुसूक्ष्मं च लोचनाञ्जनसंनिभम् । तदा तु मृतमित्युक्तमभ्रकं नान्यथा मृतम् ॥ १७ ॥ अन्यच्च— मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् । सचन्द्रं विषवद्वर्ज्यं मृत्युकृद्व्याघ्ररोमवत् ॥ १८ ॥ व्याघ्रश्मश्रुरोम यद्वन्मारयति तद्वदित्यर्थः ॥ अस्य मारणे पुटसंख्यामाह— शतादिस्तु सहस्रान्तः पुटो देयो रसायने । दशादिस्तु शतान्तः स्याद्व्याधिनाशनकर्मणि ॥ १९ ॥ सहस्रपुटपक्षे तु भावना पुटनं भवेत् । मर्दनं तु तथा न स्यादिति प्राचां हि संमतम् ॥ २० ॥ अथास्यानुपानं मात्राप्रमितिश्च— वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहशिकाशूलं च कुष्ठामयम् । १ 'तज्जाठरवह्निहृत्' ग ।

४. ] आयुर्वेदप्रकाशः । ७९ ऊर्ध्वश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेपामयान् ॥ २१ ॥ इति रसवाग्भटात् ॥ अथ शोधनम्— वज्राभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । सप्तधा भिन्नपत्रं तत्तण्डुलीयाम्लयोर्द्रवैः ॥ २२ ॥ भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् । मतान्तरम्— वज्राभ्रकं वह्नितप्तं निक्षिप्तं सप्तसप्तधा ॥ २३ ॥ गोदुग्धे त्रिफलाक्वाथे काञ्जिके सुरभीजले । शुद्धिमायाति मलतः प्रक्षिप्तं वा त्रिधा त्रिधा ॥ २४ ॥ रसमञ्जर्याम्— अथवा बदरीक्वाथे ध्मातमभ्रं विनिक्षिपेत् । मर्दितं पाणिना शुष्कं धान्याभ्रादतिरिच्यते ॥ २५ ॥ अथैवं शुद्धस्य धान्ययोगेन सूक्ष्मीकरणं तस्य धान्याभ्रक- मिति संज्ञा; तत्प्रकारो यथा— पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले । त्रिरात्रं स्थापयेन्नीरे क्लिन्नं वै मर्दयेत्करैः ॥ २६ ॥ तन्नीरे एव यत्नेन यावत्सर्वं स्रवेत्ततः । कम्बलाद्गलितं सूक्ष्मं वालुकासदृशं च यत् । तद्धान्याभ्रकमित्युक्तं मारणं चाप्यथो भवेत् ॥ २७ ॥ अत्र नीरं तु काञ्जिकमेव; यत उक्तं वार्तिककृता— चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । निर्यातं मर्दनाद्यत्तद्धान्याभ्रमिति कथ्यते ॥ २८ ॥

८० आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथैवं संस्कृतस्य मारणमुच्यते— धान्याभ्रकस्य भागैकं द्वौ भागौ शुद्धटङ्कणात् । पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥ २९ ॥ इत्येकंपुटि ॥ मृत्पात्रे तु समावर्त्य समटङ्कणमभ्रकम् । ढालयेत्पयसि क्षिप्रं पिष्ट्वा निश्चन्द्रतां व्रजेत् ॥ ३० ॥ इत्येकपुटि ॥ धान्याभ्रकं समादाय शोषयित्वा तु मर्दयेत् । अर्कक्षीरैर्दिनं मर्द्यमर्कमूलद्रवेण च ॥ ३१ ॥ चक्राकारं ततः कृत्वा शोषयेदातपेन तु । वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् ॥ ३२ ॥ पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः । ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् । म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ ३३ ॥ इति दशपुटि ॥ अथ वाग्भटः— धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । पुटितं दशवारेण म्रियते नात्र संशयः । तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ॥ ३४ ॥ इति दशपुटि ॥ धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् । तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ ३५ ॥ १ एकश्चासौ पुटश्च एकपुटः, सोऽस्त्यस्मिन्निति एकपुटि, अभ्रकभस्मेत्यस्य विशेषणमेतत् । एकपुट्योरादौ पूर्वकालैकेत्यादिना समानाधिकरणतत्पुरुषः, ततोऽदन्तत्वादिन-प्रत्ययः । एवं दशपुटीत्यादावपि ज्ञेयम् ।

४. ] आयुर्वेदप्रकाशः । ८१ कासमर्दः ‘कसौंदी’ इति भाषा ॥ नागवल्लीदलैस्तद्वत्सूर्यक्षीरैः पुटत्रयम् । क्वाथैर्वटजटोत्थैश्च त्रिः पुटेन्मुसलीजलैः ॥ ३६ ॥ त्रिर्गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः । मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षजैः ॥ ३७ ॥ रसैः पुटेत्ततो लोध्रैः क्षीरादेकं पुटं मुहुः । दध्ना घृतेन मधुना स्वच्छया सितया तथा ॥ ३८ ॥ एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् । सर्वरोगहरं व्योम जायते योगवाहकम् ॥ ३९ ॥ कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् । वृष्यमायुःकरं शुक्रवृद्धिसंतानकारकम् ॥ ४० ॥ इत्येकचत्वारिंशत्पुटि ॥ दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं नृमूत्रकम् । वटशुङ्गंमजारक्तमेभिरभ्रं सुमर्दितम् । शतधा पुटितं भस्म जायते पद्मरागवत् ॥ ४१ ॥ दुग्धत्रयमिति वटदुग्धं, स्नुहीदुग्धं, अर्कदुग्धं च; गङ्गापुत्रं भद्रमुस्ता । इति शतपुटि ॥ श्रीगोविन्दपादास्तु अन्यान्येव गगनमारकाणि भेषजानि लिखन्ति; यथा—अर्कदुग्धं १, वटदुग्धं २, सेहुण्डदुग्धं ३, घृतकुमारी ४, पञ्चाङ्गुलमूलपत्राणि ५, काकमाची ६, मुस्ता ७, वटप्ररोहः ८, बस्तशोणितं ९, विल्वमूलपत्राणि १०, अग्निमन्थः ११, टिण्डुकः १२, पाटली १३, श्रीपर्णी १४, शालिपर्णी १५, पृश्निपर्णी १६, कण्टकारी १७, कदम्बः १८, बृहती १९, गोक्षुरः २०, तिलपर्णी २१, खरमञ्जरी २२, गुडः २३, सिद्धार्थको धवलः २४, पालङ्क्या २५, मालती २६, गोमूत्रं २७, हरीतकी २८, धात्री २९, विभीतकः ३०,

८२ आयुर्वेदीयग्रन्थमाला। [ अध्यायः तालीसपत्रं ३१, चित्रकमूलपत्रं ३२, जलकुम्भी ३३, ताल- मूली ३४, वृषः ३५, वाजिगन्धा ३६, अगस्त्यपत्रं ३७, भृङ्गराजः ३८, कदलीकन्दरसः ३९, सप्तपर्णः ४०, देवदारु ४१, गुडूची ४२, धत्तूरः ४३, कासमर्दकः ४४, मातुलानी ४५, लोध्रः ४६, तुलसी ४७, दूर्वा ४८, मारीषः ४९, मूष- कपर्णी ५०, दाडिमपल्लवाः ५१, घोण्टा ५२, शङ्खपुष्पी ५३, नागवल्ली ५४, पिण्डीतगरं ५५, श्वेतपुनर्नवा ५६, हिलमो- चिका ५७, मण्डूकपर्णी ५८, तिक्तिका ५९, मदनः ६०, इत्यादिभिर्मर्दनपुटैनेरैकैकेनाप्यभ्रको मारणीयः । इति अभ्र- कमारणीयगणः । आभिर्यथालाभं सहस्रपुटा देयाः । यथा- संख्यं च प्रत्येकं सप्तदशपुटाः प्रायशो भवन्ति । एवं सहस्र- संख्या पूर्यते । इति सहस्रपुटी ॥ अथारुणभस्मन आकाङ्क्षा भवति चेत्तत्प्रकारो रसपद्धत्यां— अथ नागबला भद्रमुस्ता दुग्धं वटस्य च । यद्वा वटजटातोयं हरिद्रावारिणा पुटेत् ॥ ४२ ॥ मञ्जिष्ठाक्वाथतोयेन सर्वैरेभिर्यथाक्रमम् । पुटितं भावनायोगाच्चरमे पुटने मुहुः । जायते ह्यरुणं चाति भस्म वज्राभ्रकोद्भवम् ॥ ४३ ॥ अथैवं मृतस्याभ्रकस्यामृतीकरणाख्यः संस्कार उक्तः । अरुणभस्मनस्तु पुनरमृतीकरणेन गुणवृद्धिर्वर्णहानिश्च भवति । तद्यथा— त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४४ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुवह्निना । द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ ४५ ॥

४.] आयुर्वेदप्रकाशः । ८३ अथान्यत्रापि— वराम्बु गोघृतं चाभ्रं कलापङ्दिक्समांशकम् । मृद्वग्निना पचेल्लौह्याममृतीकरणं त्विदम् ॥ ४६ ॥ गोघृतेनैवामृतीकरणमुक्तं; तद्यथा— तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ॥ घृते जीर्णे ततश्चूर्णं सर्वकार्येषु योजयेत् ॥ ४७ ॥ इत्यमृतीकरणम् ॥ अथाभ्रकसेविनां वर्ज्यपदार्थानि कथ्यन्ते— क्षाराम्लविदलं कोलं कर्कटी कारवेल्लकम् । वृन्ताकं च करीरं च तैलं चाभ्रे विवर्जयेत् ॥ ४८ ॥ अथाभ्रकसत्त्वनिष्कासनविधिः कथ्यते ।— चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥ ४९ ॥ पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्दृढाग्नौ । सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत्सकललोहगुणाधिकं च ॥ ५० ॥ एवं पतिते सत्त्वे ततः किं कार्यं तदाह— कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ ५१ ॥ घृतमधुगुग्गुलुगुञ्जाटङ्कणमेत्तत्तु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नौ तु धमनेन ॥ ५२ ॥