बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
२८४ बौधायन-धर्मसूत्रम् [ संन्यासविधिः
पुनर्भवः पुनर्जन्म तदभावं नयतीति नित्यः, पदविन्यासेनेत्यर्थः ॥ ९ ॥
'महदेनं गमयतीति महिमा ॥ १० ॥
अनु०— यह मनुष्य को महान् महिमा के स्थान पर पहुँचाता है ॥ १० ॥
स्पष्टार्थमेतत् ॥ १० ॥
विधिं व्याख्यास्याम इत्युक्तं, तमाह—
केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते ॥ ११ ॥
अनु०— केश, दाढ़ी, मूंछ, शरीर के रोम तथा नखों को काटकर संन्यास के लिए तैयारी करे ॥ ११ ॥
पूर्वाह्ने वपनं कृत्वा अपराह्ने उपकल्पयते आर्जयति ॥ ११ ॥
यष्ट्यशिक्यं जलपवित्रं कमण्डलुं पात्रमिति ॥ १२ ॥
अनु०— दण्ड, शिक्य (रस्सी से बना हुआ भिक्षापात्र लटकाने का छीका) जल छानने के लिए वस्त्र, कमण्डलु तथा भिक्षापात्र—
यष्टयो दण्डाः द्वितीयार्थे प्रथमा । शिक्यं रज्जुनिर्मितं भिक्षापात्रधारणम् । जलपवित्रं आचमनार्थोदकस्य पावनहेतुभूतं वस्त्रम् । तच्चाऽभिनवं केशादिरहितं च द्विगुणं त्रिगुणं वाऽष्टाङ्गुलं प्रादेशमात्रं भवति । उक्तः कमण्डलुः । पात्रं भैक्षाचरणार्थम् । तत्र विकल्पः--'अलाबुं दारुपात्रं वा मृन्मयं वैणवं तथा' इति । इति शब्दः पादुकाद्युपलक्षार्थः । तथा हि—
पादुकामजिनं छत्रं तथा सूत्रमुपानहौ ।
सूचीपल्लववल्कं च त्रिविष्टब्धं कमण्डलुम् ॥
विस्रमासोऽन्यतमाभावेऽपि दोषाभावख्यापनार्थः ॥ १२ ॥
एतत्समादाय ग्रामान्ते ग्रामसीमान्तेऽग्न्यगारे वाऽऽज्यं पयो दधीति त्रिवृत्प्राश्योपवसेदपो वा ॥ १३ ॥
अनु०— इन उपकरणों को लेकर गाँव के छोर पर, या ग्राम की सीमा के अन्त स्थान को जाकर अथवा जिस भवन में अग्नि का आधान किया गया हो उसमें जाकर घृत, दूध और दही तीनों के मिश्रण का भक्षण करे और उसके बाद उपवास करे, अथवा जल पी सकता है ॥ १३ ॥
टि०— 'यष्ट्यशिक्यम्' आदि सूत्र के अन्त में 'इति' शब्द से गोविन्द स्वामी
१. "महत्वं गमयति" क. ख. ग. पु.
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २८५
ने यह अर्थ किया है कि पादुका भी ग्रहण करे। घृत, दूध, दधि के मिश्रण का भक्षण करे अथवा जल का पान करे, इस विषय में विकल्प के नियम का निर्बंध है।
आपरिसमाप्तेर्न भुञ्जीत । अपां त्रिवृता सह विकल्पस्सम्भवापेक्षः ॥ १३ ॥
तस्य प्राशनमन्त्रः— ओं भूर्सावित्रीं¹ प्रविशामि तत्सवितुर्वरेण्यम् । ओं भुवस्सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओं३ँसुवस्सावित्रीं प्रविशामि धियो यो नः प्रचोदयादिति । पच्छोऽर्धर्चशतस्तस्समस्तया च व्यस्तया च ॥ १४ ॥
अनु०—निम्नलिखित मन्त्रों से प्राशन करे— ओं भूर्सावित्रीं प्रविशामि तत्सवितुर्वरेण्यम् । ओं भुवस्सावित्रीं प्रविशामि भर्गो देवस्य धीमहि । ओ३ँसुवस्सावित्रीं प्रविशामि धियो यो नः प्रचोदयात् ।
इस प्रकार प्रणव और व्याहृति के साथ सावित्री के प्रत्येक पाद का अलग-अलग तथा प्रत्येक अर्धर्च का पृथक्-पृथक् तथा सम्पूर्ण का एक साथ और अलग-अलग उच्चारण करे ॥ १४ ॥
पच्छः प्रणवव्याहृतिसावित्रीपादः सावित्र्याः विहरणमेतदित्यर्थः । अर्धर्चशतस्तस्समस्तया च व्यस्तया च । अर्धर्चशः सावित्र्याः प्रणवव्याहृत्योर्विहरेत् । ततस्समस्तयाऽनयोन्र्मुच्चरितया ता एव विहरेत् । व्यस्तया पच्छोऽन्ते विरम्योच्चरितया विहरेत् ॥ १४ ॥
एवमात्मानमात्मना— ²आश्रमादाश्रममुपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥ १५ ॥
अनु०—एक आश्रम से दूसरे आश्रम में प्रवेश करते हुए पुरुष ब्रह्म के साथ एक हो जाता है, ऐसा वेद में कहा गया है ॥ १५ ॥
³आश्रमान्तरमितिबचनात्त्रिवृत्प्राशनेनैव संन्यासः कृत इत्येतदेकीयं दर्शनम् ॥ १५ ॥
१. 'प्रवेशयामि' इति घ. पुस्तक एव पाठः ।
२. आश्रमादाश्रममुपनीय ब्रह्मभूतः इति क. पु. एवमाक्षमा......ब्रह्मभूत इति, घ. पु. 'ब्रह्मभूतो ब्रह्मपूतः' इति स्मृतिमुक्ताफले ।
३. 'आश्रममुपनीय' इत्येव सर्वत्र सूत्रपाठः ॥ आश्रमान्तरमिति तु न कुत्राऽपि ।
| २८६ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
अथाऽपरेषाम्—
अथाऽप्युदाहरन्ति —
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षावलिपरिश्रान्तः पश्चाद्भवति भिक्षुक इति ॥ १६ ॥
**अनु०—**उस सम्बन्ध से निम्नलिखित पद्य उद्धृत करते हैं—
जिसने एक आश्रम से दूसरे आश्रम में प्रवेश किया है, हवन किया है और जितेन्द्रिय है, वह भिक्षा और बलि अर्पित करने से श्रान्त होकर स्वयं भिक्षुक अर्थात् संन्यासी बन जाता है ॥ १६ ॥
न केवलं त्रिवृत्प्राशनादेव भिक्षुकः । किं तर्हि ? वक्ष्यमाणैर्होमादिभिरपि । भिक्षुकः इति 'संज्ञायां कन्' इति कन्प्रत्ययः ॥ १६ ॥
स एष भिक्षुरानन्त्याय ॥ १७ ॥
**अनु०—**इस प्रकार का संन्यासी ब्रह्म के साथ सायुज्य प्राप्त करता है ॥ १७ ॥
अनन्त एवाऽऽनन्त्यम् , स चाऽऽत्मा तद्भावाय भवतीत्यर्थः ॥ १७ ॥
हुतहोम इत्युक्तम् , तदिदानीं प्रपञ्चयति—
पुराऽऽदित्यस्याऽस्तमयाद्गार्हपत्यमुपसमाधायाऽन्वाहार्यपचनमा-
हृत्य ज्वलन्तमाहवनीयमुद्धृत्य गार्हपत्ये आज्यं विलाप्योत्पूय स्रुचि
चतुर्गृहीतं गृहीत्वा 'समिद्धत्याऽऽहवनीये पूर्णाहुतिं जुहोति 'ओं स्वाहे'-
ति ॥ १८ ॥
**अनु०—**सूर्य के अस्त होने से पहले गार्हपत्य अग्नि प्रज्वलित करे, उस स्थान पर अन्वाहारपचन अग्नि लाकर जलते हुए आहवनीय अग्नि को निकाल कर गार्हपत्य अग्नि में घृत को पिघलावे, उसे ( कुश से ) शुद्ध करे स्रुक् से उसमें से चार बार अंश ग्रहण करे और समिध् रखकर प्रज्वलित किये गये आहवनीय अग्नि पर चार बार 'ओं स्वाहा' कहते हुए पूर्णाहुति करे ॥ १८ ॥
नाऽत्र तिरोहितं किञ्चिदस्ति ॥ १८ ॥
एतद्ब्रह्मान्वाधानमिति विज्ञायते ॥ १९ ॥
**अनु०—**इसी क्रिया को वेद में ब्रह्मान्वाधान कहते हैं ॥ १९ ॥
१ सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि । सप्तहोत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन .। (तै०सं० १. ५. ३. २.) इति समिद्धती ॥
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः. २८७
यथा ¹दर्शपूर्णमासयोरन्वाधानं तथैतदपि ब्रह्मप्रवेशस्य ॥ १९ ॥
अथ सायं हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि संस्तीर्य तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयित्वा दक्षिणेनाऽऽहवनीयं ब्रह्मायतने दर्भान् संस्तीर्य तेषु कृष्णाजिनं चाऽन्तर्धायैतां रात्रिं जागर्ति ॥२०॥
**अनु०—**सायंकाल अग्निहोत्र हवन करने के बाद गार्हपत्य अग्नि के उत्तर तृणों को बिखेर कर उन पर जोड़ों में तथा उलट कर पात्रों को रखे, आहवनीय अग्नि के दक्षिण ब्रह्मान् नाम के ऋत्विज् के बैठने के स्थान पर कुशों को बिखरे, उसे काले मृग चर्म से ढंके और उस रात जागता रहे ॥ २० ॥
आहवनीयशब्दः परिगृहीताग्निपरिग्रहार्थः। तेनौपासनाग्निकेनाऽपि तत्संन्निकाश इदं कर्तव्यम्। जागर्ति बुध्यते। एषा हि ब्रह्मरात्रिः। अन्यदसंवृतम् ॥ २० ॥
य एवं विद्वान् ब्रह्मरात्रिमुपोष्याऽग्नीन् समारोप्य प्रमीयते सर्वं पाप्मानं तरति तरति ब्रह्महत्याम् ॥ २१ ॥
**अनु०—**इस प्रकार जानने वाला जो ब्राह्मण ब्रह्मरात्रि में उपवास करने के बाद अपने में पवित्र अग्नियों को धारण किए हुए मृत्यु को प्राप्त करता है, वह सभी पापों से ब्रह्महत्या के पाप से भी मुक्त हो जाता है ॥ २१ ॥
अग्नीन् समारोप्य आत्मनीति शेषः। वक्ष्यमाणस्याऽऽत्मसमारोपणस्याऽस्मिन्नप्यवसरे पाठोऽस्मिन्नपि क्रमेऽग्निसमारोपणाभ्यनुज्ञानार्थः। एतदवस्थापन्नस्य मृतस्याऽऽश्रमफलावाप्तिर्भवतीत्यभिप्रायः ॥ २१ ॥
अथ ब्राह्मे मुहूर्त उत्थाय काले एव प्रातरग्निहोत्रं जुहुयात् ॥ २२ ॥
**अनु०—**ब्राह्म मुहूर्त में उठकर उचित समय पर प्रातःकालीन अग्निहोत्र हवन करे ॥ २२ ॥
रात्रेः पश्चिमो यामः पञ्चघटिकावशेषो ब्राह्मो मुहूर्तः। उषःप्रभृत्योदयादित्येके। तत्र शक्त्यपेक्षो विकल्पः। कालग्रहणं उपोदयाभ्युषितोदयकालानां यस्य योऽङ्गीकृतः कालस्तत्प्रदर्शनार्थम् ॥ २२ ॥
१. दर्शपूर्णमासारम्भेऽग्निविहरणानन्तरं अन्वाधानं नाम विहृतेष्वग्निषु काष्ठाधानं विहितम्। तच्च “ममाग्ने वर्चः” इत्यादिमन्त्रैः कर्तव्यम्। तच्च श्वो यक्ष्यमाणानां देवतानां परिग्रहार्थम्।
| २८८ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
अथ पृष्ठ्याँस्तीर्त्वाऽपः प्रणीय वैश्वानरं द्वादशकपालं नि 'पति सा प्रसिद्धेष्टिसन्तिष्ठते ॥ २३ ॥
अनु०—इसके उपरान्त वेदी के पृष्ठ्या नाम के भाग को ढंक कर जल लाकर अग्नि वैश्वानर के लिए द्वादश कपालों में चरु तैयार करे । यह प्रसिद्ध इष्टि ही अन्तिम इष्टि है ॥ २३ ॥
अग्निर्वैश्वानरो देवता अस्य । औपासननिष्ठ आत्मसमारोपञ्चेत् तद्देवत्यश्चरुः । अन्यत्प्रसिद्धम् ॥ २३ ॥
आहवनीयेऽग्निहोत्रपात्राणि प्रक्षिपेदमृन्मया^१न्यनायसानि ॥ २४ ॥
अनु०—अग्निहोत्र के उन पात्रों को जो मिट्टी या पत्थर के न हों, आहवनीय अग्नि में डाले ॥ २४ ॥
उत्तरत्र मन्त्रविधानात् तूष्णीमेवाऽत्र प्रक्षेपः ॥ २४ ॥
गार्हपत्ये अरणी^२ "भवतं नस्समनसा" विति ॥ २५ ॥
अनु०—'भवतं नस्समनसो' (तुम हमारे मन के साथ एक होओ) कहते हुए दोनों अरणियों को गार्हपत्य अग्नि में डाले ॥ २५ ॥
प्रक्षीपतीत्यनुवर्तते ॥ २५ ॥
अथाऽऽत्मन्यग्नीन् समारोपयते "^३या ते अग्ने यज्ञिया तनू" रिति त्रिस्त्रिरेकैकं समाजिघ्रति ॥ २६ ॥
अनु०—अपने में पवित्र अग्नियों का समारोपण करे और 'या ते अग्ने यज्ञिया तनू ।' कहते हुए तीनों अग्नियों के धुएं को तीन-तीन बार खींचे ॥ २६ ॥
एकैकमग्नि सभ्यावसथ्यावपि यदि विद्येते, तथा औपासनमपि । जिघ्रतिः गन्धोपादाने वर्तते । ततश्च धूमायमाने नाग्नेराघ्राणं कर्तव्यमिति गम्यते । सर्वत्राऽयमात्मसमारोपणप्रकारः ॥ २६ ॥
अथाऽन्तर्वेदि तिष्ठन् ओं भूर्भुवस्सुवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुपांशुक्त्वा त्रिरुच्चैः ॥ २७ ॥
अनु०—तब यज्ञवेदि के भीतर खड़े होकर तीन बार मन्द स्वर से तथा तीन बार उच्च स्वर से कहे 'ओं भुर्भुवस्सुवः संन्यस्तं मया' ( मैंने संन्यास आश्रम में प्रवेश किया ) ॰॰॰॥ २७ ॥
१. अनश्ममयानि, इति सर्वत्र पाठः ।
२. भवतं नस्समनसौ समोकसावरेपसौ । मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः ॥ (तै० सं० १. ३. ७.)
३. तैत्तिरीयादौ श्रूयमाणमिदं वाक्यम् ॥ तै. सं. ६. ३. १०. १.
सप्तदशः खण्डः] द्वितीयप्रश्ने दशमोऽध्यायः २८९
ब्रूयादिति वाक्यसमाप्तिः। संन्यस्तं त्यक्तम् ॥ २७ ॥
'त्रिषत्या हि देवा इति विज्ञायते ॥ २८ ॥
अनु०—वेद में कहा गया है कि देवता तीन बार कहने पर सत्य मानते हैं॥२८॥
त्रिषत्याः। सुषामदिषु पाठात् षत्वम्। देवा हि सकृद्द्विर्वोक्तावनृतमिति मन्वते, अनृतसम्मित्ता मनुष्याः' इति श्रुतेः। त्रिरुक्तैः प्रतियन्ति श्रद्दधति॥२८॥
“अभयं सर्वभूतेभ्यो मत्तः” इति चाऽपां पूर्णमञ्जलिं निनयति ॥२९॥
अनु०—'मुझसे सभी जीवित प्राणियों को अभय हो' ऐसा कहते हुए जल से पूरी अंजली भरकर गिराए ॥ २९ ॥
अस्मत्तः निर्भयानि भूतानि सन्त्विति मन्त्रार्थः। अपां पूर्णः अद्भिः पूर्णः। अञ्जलिः द्विहस्तसंयोगः ॥ २९ ॥
अथाऽप्युदाहरन्ति— अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः। न तस्य सर्वभूतेभ्यो भयं चाऽपि ह जायते इति ॥ ३० ॥
अनु०—इस सन्दर्भ में भी निम्नलिखित उद्धृत करते हैं— जो संन्यासी सभी प्राणियों को अभय प्रदान कर विचरण करता है, उसे भी किसी प्राणी से कोई भय नहीं होता ॥ ३० ॥
अभयदानप्रशंसैषा एतदन्तश्च संन्यासविधिः। ये पुनरनग्नयो विधुरादयः तेषामप्युपकल्पनप्रभृति दानान्तः प्रयोगोऽग्निकार्यरहितो द्रष्टव्यः ॥ ३० ॥
संन्यासाश्रमधर्मविधानायोत्तरः प्रपञ्चः— स वाचंयमो भवति ॥ ३१ ॥
अनु०—इसके बाद वाणी पर नियन्त्रण रखे ॥ ३१ ॥
य एवं कृतसंन्यासः स वाचंयमस्स्यात् आत्यन्तिकमेतद् व्रतमन्यत्र स्वाध्यायान्मन्त्रोच्चारणाच्च। उक्तं च—'स्वाध्याय एवोत्सृजमानो वाचम्' इति ॥ ३१ ॥
'सखा मे गोपाये' ति दण्डमादत्ते^२ “यदस्य पारे रजस” इति
१. या ते अग्ने यज्ञिया तनूस्तयेह्यारोह ॥ इति समग्रो मन्त्रः ॥
२. यदस्य पारे रजसश्शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषोजने वैश्वानर स्वाहा ॥ ( तै. सं. ४. २. ५. २. )
२२ बौ०ध०
| २९० | बौधायनधर्मसूत्रम् | [ संन्यासविधिः |
|---|
शिक्यं गृह्णाति ^१"येन देवाः पवित्रेणे" ति जलपवित्रं गृह्णाति^२ "येन देवा ज्योतिषोर्ध्वा उदाय'न्निति कमण्डलुं गृह्णाति सप्तव्याहृतिभिः पात्रं गृह्णाति ॥ ३२ ॥
अनु०—'सखा मे गोपाय' ( तुम मेरे मित्र हो रक्षा करो ) ऐसा कहते हुए दण्ड ग्रहण करे । 'यदस्य पारे रजसः' मन्त्र का पाठ कर शिक्य ग्रहण करे । 'येन देवा पवित्रेण' कहकर जल छानने का पवित्र ग्रहण करे । 'येन देवा ज्योतिषोर्ध्वा उदायन्' मन्त्र कहकर कमण्डलु ग्रहण करे तथा सात व्याहृतियों का उच्चारण कर भिक्षा पात्र ग्रहण करे ॥ ३२ ॥
टि०—'यदस्य पारे रजसः' मन्त्र तैत्तिरीय संहिता ४. २. ५. २. का है । 'येन देवाः पवित्रेणाऽऽत्मानं पुनते सदा । तेन सह्र सुधारेण पावमान्यः पुनन्तु मा । तैत्तिरीय ब्राह्मण १. ४. ८ का तथा 'येन देवा ज्योतिषोर्ध्वा उदायन् येनाऽऽदित्या वसवो येव रुद्राः । येनाऽङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ।' तैत्तिरीय संहिता ५. ७. २. २ का मन्त्र है ।
अविरोहितमेतत् ॥ ३२ ॥
यष्ट्यशिक्यं जलपवित्रं कमण्डलुं पात्रमित्येतत्समादाय, यत्राऽऽपस्तद्गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वाऽन्तर्जलगत्तोऽघमर्षणेन षोडश प्राणायामान् धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत् प्रयतं वासः परिधायाऽप आचम्यों भूर्भुवस्सुवरिति जलपवित्रमादाय तर्पयति—ॐ भूर्स्तर्पयाम्यों भुवस्तर्पयाम्योँ सुवस्तर्पयाम्यों महस्तर्पयाम्यों जनस्तर्पयाम्योँ तपस्तर्पयाम्यों सत्यं तर्पयामीति ॥ ३३ ॥
**अनु०—**अपने साथ दण्ड, शिक्य, जलपवित्र, कमण्डलु, भिक्षापात्र लेकर जहाँ जल हो वहाँ जाकर स्नान करे, जल से आचमन करे, सुरभिमती, जलदेवता, वरुण देवता के हिरण्य वर्ण और पवमान मन्त्रों से स्नान करे, जल के भीतर प्रवेश कर
१. येन देवाः पवित्रेणाऽऽत्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा ॥ ( तै. ब्रा. १. ४. ८. )
२. येन देवा ज्योतिषोर्ध्वा उदायन् येनाऽऽदित्या वसवो येन रुद्राः । येनाऽङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति ॥ ( तै. सं. ५. ७. २. २. )
सप्तदशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २९१
मन से अघमर्षण सूक्त का जप करते हुए सोलह प्राणायाम करे, किनारे पर आकर वस्त्रों को निचोड़कर दूसरे शुद्ध वस्त्रों को पहने और फिर आचमन करे। 'ओं सुर्भुव स्सुवः' कहकर जल पवित्र ग्रहण करे। 'ओं भूस्तर्पयामि' ओं भुवस्तर्पयामि ओं सुव-स्तर्पयामि ओं महस्तर्पयामि ओं जनस्तर्पयामि ओं' तपस्तर्पयामि 'ओं सत्यं तर्पयामि' कहकर तर्पण करे ॥ ३३ ॥
आश्रमन्तरसाधारणविहितानां स्नानादीनामनुक्रमणं षोडशप्राणायामाना-मपि विधानार्थं तर्पणान्तरविधानार्थं च । तर्पणञ्च जलपवित्रनिस्स्रुतेन जलेन ॥ ३३ ॥
पितृभ्योऽञ्जलिमुपादाय ओं भूस्स्वधों भुवस्स्वधों सुवस्स्वधों भूर्भु-वस्सुवर्महर्नम इति ॥ ३४ ॥
अनु०—पितरों के लिए अंजलि भर जल लेकर 'ओं भूस्स्वधा ओं भुवस्स्वधा ओं सुवस्स्वधा' 'ओं भूर्भुवस्सुवर्महर्नमः' कहकर तर्पण करे।
टि०—यह तर्पण उसी प्रकार होता है जिस प्रकार देवों के लिए तर्पण किया जाता है अर्थात् प्राचीनावीती न होवे ।
तर्पयतीति प्रकृतम् । देववदिति प्राचीनावोतनिवृत्त्यर्थम् । मन्त्रा अपि स्व-धाकरणमात्राः, न चतुर्थीनमस्कारान्ताः ॥ ३४ ॥
एवं तर्पणे कृते—
अथो ऽदुत्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते ॥ ३५ ॥
अनु०—इसके बाद 'उदुत्यं चित्रम्' आदि दो मन्त्रों से सूर्य की पूजा करे ॥ ३५ ॥
एतदपि वैशेषिकमुपस्थानम् ॥ ३५ ॥
ओमिति ब्रह्म ब्रह्म वा एष ज्योतिः य एष ज्योतिः य एष तर्पत्यैष वेदा य एव तर्पयति वेद्यमेवैतद्य एष तर्पयति एवमेवैष आत्मानं तर्प-यत्यात्मने नमस्करोत्यात्मा ब्रह्माऽऽत्मा ज्योतिः ॥ ३६ ॥
अनु०—'ओम्' अक्षर ब्रह्म है, ब्रह्म ही यह ज्योति है, जो यह ज्योति है जो तर्पण करता है वही जानता है जो तर्पण करता है। यह जानने योग्य है जो तर्पण करता है इस प्रकार वह अपना ही तर्पण करता है। इस प्रकार वह अपना ही तर्पण करता है, अपने को ही नमस्कार करता है आत्मा ही ब्रह्मा है, आत्मा ही ज्योति है।
१. मन्त्रद्वयमिदं १६० पृष्ठे टिप्पण्यां द्रष्टव्यम् ॥
| २१२ | बौधायन-धर्मसूत्रम् | [ संन्यासविधिः |
|---|
प्रणवप्रशंसैषा । प्रणवो ब्रह्मणो नेदिष्ठमभिधानम् । वेदयतीति प्रणवोवेदः वेद्यं वेदितव्यम् । एष इत्यपरोक्षनिर्देशः , सर्वदा आदित्यप्रणवब्रह्मतादात्म्य-प्रतिपत्त्यर्थः । एवमादित्योपस्थानवेलायां मनस्समाधानं कर्त्तव्यमित्यर्थः । तथा च पातञ्जलसूत्रम्-‘तस्य वाचकः प्रणवः । तज्जपः तदर्थभावनम्' इति च । तदन्यथाऽप्ययमेव समागमप्रकारः । एवमेवैष भिक्षुरात्मानं तर्पयति नमस्करोति ब्रह्मज्योतिश्शब्दाभ्यामात्मैवोच्यते इत्याह–आत्मा ब्रह्मा ज्योतिः ब्रह्म परिवृढः सर्वतः ज्योतिः द्युतेर्दीप्तिकर्मणः ॥ ३६ ॥
सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा ॥ ३७ ॥
अनु०— सहस्रवार, सौ बार या अनगिनत बार सावित्री मन्त्र का जप करे ॥
विवृतमेतत्तत्र ॥ ३७ ॥
अथ कमण्डलूदकग्रहणार्थमाह—
ओं भूर्भुवःस्सुवरिति पवित्रमादाय।ऽपो गृह्णाति ॥ ३८ ॥
अनु०— 'ओ ' भूर्भुवः सुवः' कहते हुए पवित्र लेकर उससे जल ग्रहण करे॥३८॥
पवित्रं जलपवित्रं पावयेत् जन्तुमारणार्थम् ॥ ३८ ॥
न चाऽत ऊर्ध्वमनुद्धृताभिरद्भिरपरिस्रुताभिरपरिपूताभिर्वाऽऽचामेत् ॥ ३९ ॥
अनु०— उसके बाद से कभी ऐसे जल से आचमन न करे जो कुए आदि से निकाला गया हो, जो छाना न गया हो और पूरी तरह साफ न किया गया हो ॥ ३९ ॥
अनुद्धृताभिः अन्तर्जलाशयात् । अपरिस्रुताभिः अपरिमित्ताभिः पवित्रा-न्ते नवाऽपरिपूताभिः ॥ ३९ ॥
न चाऽत ऊर्ध्वं शुक्लं वासो धारयेत् ॥ ४० ॥
अनु०— उसके बाद से कभी श्वेत वस्त्र न धारण करे ।
शुक्लप्रतिषेधात् कुङ्कुमकुसुममञ्जिष्ठारक्तमनुज्ञातमेव ॥ ४० ॥
इति द्वितीये प्रश्ने सप्तदशः खण्डः ।
अष्टादशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २९३
अष्टादशः खण्डः
एकदण्डी त्रिदण्डी वा ॥ १ ॥
**अन०—**सन्यासी एक या तीन दण्ड लेकर चले ॥ १ ॥
उक्तेऽपि दण्डत्रित्वे विकल्पाभिधानं किमर्थम् ? उच्यते-सकलाश्रमधर्मानुष्ठाने सति दण्डसंख्यायां नाऽभिनिवेशः कर्तव्य इत्यभिप्रायः ॥ १ ॥
भिक्षोर्हि द्विविधानि व्रतानि भवन्ति-महाव्रतान्युपव्रतानि च । तत्र महाव्रतान्याचष्टे—
अथैमानि व्रतानि भवन्ति-अहिंसा सत्यमस्तेन्यं मैथुनस्य च वर्जनं त्याग इत्येव ॥ २ ॥
**अनु०—**संन्यासी के निम्नलिखित व्रत होते हैं—अहिंसा अर्थात् वाणी, मन और कर्म से किसी को आघात न पहुँचाना, सत्य भाषण, अस्तेन्य अर्थात् बलपूर्वक या छल से दूसरे का धन न लेना, मैथुन अर्थात् स्त्री से हर प्रकार के कामुकतापूर्ण सम्बन्ध का त्याग तथा दूसरों को उदारता पूर्वक दान देना ॥ २ ॥
अहिंसा वाङ्मनःकायैर्भूतानां दुःखानुत्पादनम् । उक्तेऽप्यभयप्रदाने पुनरभिधानमतिक्रमे प्रायश्चित्तगौरवार्थम् । सत्यं यथाभूतार्थवादित्वम् । स्तेन्यं पुनः छलेन वञ्चनया चौर्येण वा परद्रव्यादानम् । मैथुनवर्जनन्तु स्त्रिया सह सम्भाषण, सहासन, तत्स्पर्शन' निरीक्षणादीनां वर्जनम् । त्यागो दानम् । यद्यप्यनिचयो भिक्षुस्तथाऽपि औषधपुस्तकादिपरिग्रहोऽस्त्येव ! तथा च तत्सिद्धवत्कारेण गौतमो 'दशवर्षभुक्तं परैस्सन्निधौ भोक्तु' रित्यभिधायाऽभिधत्ते “न श्रोत्रियप्रव्रजितराजन्यपुरुषै”रिति ।
याज्ञवल्क्योऽपि— 'वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः' इति ॥ २ ॥
उक्तानि पञ्च महाव्रतानि ॥
पञ्चैवोपव्रतानि भवन्ति-अक्रोधो गुरुशुश्रूषाऽप्रमादश्शौचमाहारशुद्धिश्चेति ॥ ३ ॥
**अनु०—**इसी प्रकार पाँच उपव्रत भी होते हैं—क्रोध न करना, गुरु की सेवा, प्रमाद का त्याग, पवित्रता और आहार की शुद्धि ॥ ३ ॥
**टि०—**गोविन्द स्वामी के अनुसार प्रसाद का अर्थ है बिना सोचे-समझे कार्य
२५४ | बौधायन-धर्मसूत्रम् | [ संन्यासिनियमाः
करना यहाँ गुरु की सेवा से माता-पिता या विद्यागुरु की सेवा का भी अर्थ हो सकता है।
गुरुशुश्रूषा पित्रोः परिचरणम्, विद्यागुरोर्वा। यद्यपि विदितवेदितव्यस्य संन्यासेऽधिकारः। तथाऽपि संशयस्तिरोधानं वा सम्भाव्यत इति गुरुशुश्रूषया भवितव्यम्। असमीक्ष्यकारित्वं प्रमादः तदभावोऽप्रमादः। आहारदोषोऽपि त्रिधा भवति-जात्याश्रयनिमित्तैर्लशुनपतितकेशादिभिस्तदाहारशुद्धिः। चशब्दस्सन्तोषादिपरिग्रहार्थः। व्रतोपव्रतयोर्भेदेन विधानं प्रायश्चित्तगुरुलघुत्वख्यापनार्थम् ॥ ३ ॥
अथ भैक्षचर्या-ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे भिक्षां लिप्सेत ॥ ४ ॥
अनु०—अनेक घरों से भिक्षा मांगने का नियम बताया जायगा वैश्वदेव के उपहार दिये जाने के बाद शालीन या यायावर ब्राह्मणों के घर से भिक्षा पाने की इच्छा करे ॥ ४ ॥
भिक्षाणां समूहो भैक्षं तच्चर्या तदर्जनम्। ब्राह्मणानां गेहेष्वित्यध्याहारः। भिक्षां भिक्षितद्रव्यं लिप्सेत याचेत ॥ ४ ॥
अथ भिक्षामन्त्रः—
'भवत्पूर्वां प्रचोदयात् ॥ ५ ॥
अनु०—'भवत्' शब्द का पहले प्रयोग करते हुए भिक्षा देने के लिए कहे ॥ ५ ॥
'भवति भिक्षाम्' इत्यादि सिद्धे सत्यारम्भात्क्षत्रियवैश्यभिक्षुकयोरयमेव मन्त्रः। तयोरपि संन्यासेऽधिकारोऽस्तीति ज्ञापितं भवति। तत्पुनर्ब्राह्मणपरिव्राजकन्यायकृतोपमादिकं प्रसिद्धि समीक्ष्य युक्तायुक्ततया विचारणीयम् ॥ ५ ॥
गोदोहनमात्रमाकाङ्क्षेत ॥ ६ ॥
अनु०—गाये दुहने में जितना समय लगता है उतना ही समय में भिक्षा मांगने की इच्छा करे ॥ ६ ॥
मन्त्रमुक्त्वेति ॥ ६ ॥
अथ भैक्षचर्यादुपावृत्तः शुचौ देशे न्यस्य हस्तपादान् प्रक्षाल्याऽऽदित्यस्याऽग्रे निवेदयेत्—२'उदुत्यं चित्र' मिति ब्रह्मणे निवेदयेते३ 'ब्रह्म जज्ञान' मिति ॥ ७ ॥
१. भवत्पूर्वमिति. ख. पू.
२. मन्त्राविमौ १६७ पृष्ठे टिप्पण्यां द्रष्टव्यौ।
३. ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतस्सुरुचो वेन आवः। स बुध्निया उपमा अस्य विष्ठास्सत्तश्च योनिमसत्तश्च विवः (तै. सं. ४. २. ८. २.) ॥
अष्टादशः खण्डः] द्वितीयप्रश्ने दशमोऽध्यायः २९५
अनु०—भैक्षचर्या से लौटकर भिक्षा को पवित्र स्थान पर रखकर हाथ पैरों को धोए और प्राप्त भिक्षान्न को 'उदुत्यं चित्रम्' आदि मन्त्र का उच्चारण करते हुए सूर्य को निवेदित करे तथा 'ब्रह्मजज्ञानम्' आदि मन्त्र का उच्चारण करते हुए ब्रह्मन् को निवेदित करे ॥ ७ ॥
टि०—ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतस्सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठा स्सतश्च योनिमसतश्च विवः । तै० सं० ४. २. ८. २
पृथगेतौ ^१पिटकस्थौ शुचौ देशे निधाय ॥ ७ ॥
अथाऽस्य प्राणाहुतय एवाऽग्निकार्ये इत्यस्मिन्नर्थे श्रुतिं दर्शयति—
विज्ञायते—आधानप्रभृति यजमान एवाऽग्नयो भवन्ति तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो^३ व्यान आहवनीय उदानसमानौ सभ्यावसथ्यौ ॥ ८ ॥
अनु०—वेद से यह ज्ञात होता है कि ब्रह्माधान के समय से यजमान में ही सभी यज्ञाग्नि आहित होते हैं । यजमान के प्राण गार्हपत्य अग्नि हैं, अपान वायु अन्वाहायपचन है, व्यान आहवनीय अग्नि है, उदान और समान सभ्य तथा आवसथ्य अग्नि हैं ॥ ८ ॥
आधीयन्तेऽग्नय आत्मनीत्यात्मसमारोपणमाधानं तत्प्रभृतीत्यर्थः ॥ ८ ॥
पञ्च वा एतेऽग्नय आत्मस्थाः ॥ ९ ॥
अनु०—ये पाँच अग्नि आत्मा में स्थित हैं ॥ ९ ॥
उक्तानुवादोऽयम् । पञ्चसंख्या सभ्यावसथ्यकरणपक्षमाश्रित्य । अकरणपक्षेऽपि तत्सङ्कल्पोऽस्त्येव; 'आहवनीये सभ्यावसथ्ययोस्सङ्कल्पः' इत्याधानपरिभाषावचनात् ॥ ९ ॥
यस्मादेवं तस्मात्—
आत्मन्येव जुहोति ॥ १० ॥
अनु०—इस प्रकार यजमान आत्मा ही हवन करता है ॥ १० ॥
एवशब्दः 'यस्याऽग्नौ न क्रियते यस्य चाऽन्नं न दीयते न तद्भोक्तव्यम्, इत्येवमाशङ्कानिवृत्त्यर्थः ॥ १० ॥
१. पृथगेतौ पिण्डौ, इति. घ. पु २. इतः प्रभृति सूत्रत्रयमेकसूत्रतया परिगणितं इ. पु.
३. अन्वाहार्यं नाम दर्शपूर्णमासयोर्दक्षिणात्वेन देय ओदनः, स यत्र पच्यतेऽग्नौ स दक्षिणाग्निरन्वाहार्यपचनः ॥
| २९६ | बौधायन-धर्मसूत्रम् | [ संन्यासिनियमाः |
|---|
स एष आत्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानं क्षेमं नयतीति विज्ञायते ॥ ११ ॥
अनु०—यह यज्ञ आत्मयज्ञ है, यह आत्मा में निहित है, आत्मा में प्रतिष्ठित है और आत्मा को कल्याण देने वाला है, ऐसा वेद से ज्ञात होता है ॥ ११ ॥
एवं सत्यात्मयज्ञता भवति आत्मनिष्ठः यथाविध्यात्मोपासकः आत्मसुखप्राप्त्यर्था यस्यकरूपा बुद्धिः आसावात्मप्रतिष्ठः । सैषा पूर्वोक्तोपासनायाः प्रशंसा ॥ ११ ॥
भूतेभ्यो दयापूर्वं संविभज्य शेषमद्भिरुपस्पृश्यौषधवत् प्राश्नीयात् ॥ १२ ॥
अनु०—दयापूर्वक प्राणियों को अपने भोजन का अंश देकर, अवशिष्ट अन्न पर जल छिड़क कर औषधि के समान उसका भक्षण करे ॥१२॥
भूतानि पक्षिसरीसृपादानि । दया अनुकम्पा । तत्पूर्वं संविभज्य प्रदायाऽद्भिरुपस्पृश्य शुक्लान्नं दृष्टार्थमेतत् । औषधवदिति विरसं विवक्षितम् । तथा सति रसोपलब्धिनं भवतीत्यभिप्रायः ॥ १२ ॥
प्राश्याऽप आचम्य १ 'वाङ्म आसन्नसोः प्राण' इति जपित्वा ज्योतिष्मत्याऽऽदित्यमुपतिष्ठते २'उद्वयं तमसस्परि'ति ॥ १३ ॥
अनु०—भोजन और आचमन करने के बाद 'वाङ्म आसन्नसोः प्राण' (तैत्तिरीय संहिता ५. ५. ९. २) का जप करे और ज्योतिष्मती मन्त्र से सूर्य की प्रार्थना करे ॥ १३ ॥
टि०—वाङ्म आसन्नसोः प्राणोऽक्ष्योध्श्चक्षुः कर्णयोः श्रोत्रं बा वोर्बलं मूरुषोरोजोऽरिष्टा विश्वाम्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिं सीः ॥ तै० सं० ५. ५-९-२
भैक्षभोजनादन्यत्राऽप्येतद्वेदितव्यम् ॥ १३ ॥
अथ भिक्षाप्रकारः—
अयाचितमसंकॢप्तमुपपन्नं यदृच्छया ।
आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकमिति ॥ १४ ॥
१. वाङ्म आसन्नसोः प्राणोऽक्ष्योश्चक्षुः कर्णयोःश्रोत्रं बाहुवोर्बलमूरुषोरोजोऽरिष्टा विश्वाम्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिंसीतः ॥ तै. सं. ५.५.९.२.
२. 'उद्वयं तमसस्परि' इतीयमेव ज्योतिष्मती, ज्योतिःपदवत्त्वात् ॥
अष्टादशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः २९७
अन०-जो अन्न बिना मांगे मिला हो, जिसके विषय में पहले से निश्चय न किया गया हो, जो संयोगवश अपने आप ही उसे मिल गया हो उस अन्न से केवल उतना ही भोजन करे जितने से जीवन यात्रा चल सके ॥ १४ ॥
अयाचितमप्रार्थितम् । असंक्लृप्तमनवधृतं मनसाऽपि । यदृच्छयोपपन्नं नाम केनचित् प्रयोजनान्तरवशादानीतम् आहारमात्रं सूपोपदेशादिविस्ताररहितम् । प्राणयात्रिकं यथा प्राणो नाऽपगच्छति ॥ १४ ॥
अथाप्युदाहरन्ति- अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥१५॥
अनु०-इस विषय में निम्नलिखित उद्धृत करते हैं- संन्यासी का भोजन आठ ग्रास का होता है-ओर वानप्रस्थ का भोजन सोलह ग्रास का। गृहस्थ का भोजन बत्तीस ग्रास का होता है, किन्तु ब्रह्मचारी का भोजन अपरिमित होता है ॥ १५ ॥
अल्पाभ्यवहारार्थोऽयं नियमः ॥ १५ ॥ भैक्षं वा सर्ववर्णेभ्य एकान्नं वा द्विजातिषु । अपि वा सर्ववर्णेभ्यो न चैकान्नं द्विजातिष्विति ॥ १६ ॥
अनु०-द्विजातियों में सभी तीन वर्ण के व्यक्तियों के यहाँ से भिक्षान्न लिया जा सकता है अथवा उनमें एक ब्राह्मण का ही अन्न भिक्षा में प्राप्त कर भक्षण करे। अथवा सभी वर्णों से प्राप्त अन्न का भक्षण करे, द्विजातियों में केवल ब्राह्मण से प्राप्त भिक्षान्न को न खाये ॥ १६ ॥
सर्ववर्णग्रहणात् शूद्रान्नमध्येवाभ्युपगतम् । अतश्चैकान्नपक्षेऽपि द्विजातिग्रहण मुख्यस्यैव' ॥ १६ ॥
अथ यत्रोपनिषदमाचार्या ब्रुवते तत्रोदाहरिन्त- स्थानमौनवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य ॥१७॥
अनु०-इस संबन्ध में आचार्य उपनिषद् का विवेचन करते हैं और निम्नलिखित विशेष नियम उद्धृत करते हैं। दिन में खड़ा रहे, वाणी का संयम करे, (रात्रि में) एक ही आसन में बैठे, (प्रातः, सायंकाल और मध्याह्न) तीनों सवनों के समय स्नान करे, केवल चौथे, छठे या आठवें भोजन की वेला में भोजन करे ॥ १७॥
यत्र ग्रहणं चित्तप्रणिधानार्थं तत्रोपनिषद्रहस्यं कर्तव्यतयाऽऽचार्या ब्रुवते ।
| २९८ | बौधायन-धर्मसूत्रम् | [संन्यासिनियमाः |
|---|
तत्र तद्विशेषमन्यमुपदिशन्ति स्म। स्थानं हिमोत्सङ्गः। मौनं वाक्संयमः स्वाध्यायोडपि। वीरासनमेकरूपेणाऽऽसनम्। रात्राविति शेषः। चतुर्थषष्ठाष्टमकालता एकाद्वयहत्र्यहातिक्रमः व्रतमनशनं त्रिभिस्सम्बध्यते ॥ १७ ॥
कणपिण्याकयावकदधिपयोव्रतत्वं चेति ॥१८॥
अनु०— चावल के कण तिल का बना पिण्याक, जो से बने हुए भोजन दही और दूध का ही भक्षण करे ॥ १८ ॥
कणास्तण्डुलावयवाः। पिण्याकं तिलपिष्टम्। यवतण्डुलपक्वौदनः यवागूर्वा यावकम्। सममन्यत् ॥ १८ ॥
तत्र मौने युक्तस्त्रैविद्यवृद्धैराचार्यैर्मुनिभि १रन्यैर्वाऽऽश्रमिभिर्बहुश्रुतैर्दन्तान् सन्धायाऽन्तर्मुख एव यावदर्थं सम्भाषीत न यत्र लोपो भवतीति विज्ञायते ॥ १९ ॥
अनु०— इस समय मौन व्रत का पालन करते हुए भी तीनों वेदों के गम्भीर विद्वानों, आचार्यों, मुनियों, अत्यन्त विद्वान् नैष्ठिक ब्रह्मचारियों या तपस्वियों के साथ दाँतों को दबाए हुए ही, मुख के भीतर ही जितना आवश्यक हो उतना ही बोले, इस प्रकार व्रत का लोप नही होता, ऐसा वेद के अनुसार ज्ञात है ॥ १९ ॥
त्रयी ग्रन्थतोऽर्थतश्च यैस्समधिगता, ते त्रैविद्यवृद्धाः अत्रैविद्यवृद्धा अप्याचार्याः। मुनयः परिव्राजकाः। अन्याश्रमग्रहणान्नैष्ठिकतापसयोर्ग्रहण्म्। दन्तैर्दन्तानिति; सम्भाष्यादन्यो यथा न शृणुयादित्यर्थः ॥ १९ ॥
सर्वत्राऽशक्तावाह—
स्थानमौनवीरासनानामन्यतमेन सम्प्रयोगो न त्रयं सन्निपातयेत् ॥२०॥
अनु०— दिन में खड़ा रहना, मौन रहना, रात्रि में एक प्रकार से बैठे रहना इनमें से किसी एक व्रत का पालन करे, तीनों व्रतों का एक साथ पालन न करे ॥२०॥
वक्ष्यमाणं यत्तदपेक्षणीयम् ॥ २० ॥
अथ व्रतविषय एव किंचिदुच्यते —
यत्र गतश्च यावन्मात्रमनुव्रतयेदापत्सु न यत्र लोपो भवतीति विज्ञायते ॥ २१ ॥
अनु०— जहां गया हो वहाँ मात्रा के अनुसार भक्षण करे। प्राणसंकट होने पर
१. आरण्यैः इति, क. पु.
अष्टादशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः । २९९
अन्य प्रकार का अन्न खाकर बाद में न खाये तो व्रत का लोप नहीं होता ऐसा वेद में कहा गया है ॥ २१ ॥
आपत्सु यथेष्टमंशित्वा कणादीनामप्यन्यतमं पश्चान्नाश्नोयादित्यर्थः ॥ २१ ॥
स्थानमौवीरासनसवनोपस्पर्शनचतुर्थषष्ठाष्टमकालव्रतयुक्तस्य । अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधमिति ॥ २२ ॥
अनु०--दिन में खड़े रहना, कठोर मौन व्रत का पालन करना, रात्रि में बैठे रहना, तीनों सवन कालों में स्नान करना, चौथे छठे या आठवें भोजन काल के समय भोजन करना इन व्रतों का पालन करनेवाले के व्रत को ये आठ वस्तुएं भंग नहीं कर पातीं—जल, मूल, घृत, दूध, यज्ञ की हवि, ब्राह्मण की प्रार्थना गुरु का वचन और औषध ॥ २२ ॥
हविः क्षारलवणवर्जम् । ब्राह्मणकाम्या ब्राह्मणाभ्यर्थना । एवमहविष्यमपि गुरोर्वचनात् । औषधार्थञ्चाऽहविष्यमपि ॥ २२ ॥
सायं प्रातरग्निहोत्रमन्त्रान् जपेत् ॥ २३ ॥
अनु०—सायंकाल तथा प्रातः काल अग्निहोत्र के मन्त्रों का जप करे ॥ २३ ॥
यदग्निहोत्रेऽधीयते तंदाहिताग्नेस्सतो भिक्षुकस्य ॥ २३ ॥
वारुणोभिस्सायं सन्ध्यामुपतिष्ठते मैत्रीभिः प्रातः ॥ २४ ॥
अनु०—सायंकालीन सन्ध्या करने पर वरुण के मन्त्रों से प्रार्थना करे और प्रातः कालीन सन्ध्या करने पर मित्र देवता के मन्त्रों से प्रार्थना करे ॥ २४ ॥
टि०—‘प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्तं आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम हो अश्नोत्यन्तितो न दूरात् ।’
द्वयोर्द्वयोः प्राप्तयोः बह्नीनां विधानमेतत् । तत्र वारुण्या ‘यच्चिद्धि ते’ इति तिस्रः । मैत्र्यः पुनः ‘प्रतिदुग्धे द्वे’ ‘प्र स मित्र’ इत्येषा च ॥ २४ ॥
अनग्निरनिकेतस्स्यादशर्माऽशरणो मुनिः ॥ २५ ॥
अनु०—संन्यासी अग्नि न रखे, गृहहीन होवे, कुछ ग्रहण न करे तथा किसी को शरण में न रहे ॥ २५ ॥
१. ऋकत्रयमिदं १५७. पृष्ठे टिप्पण्यां द्रष्टव्यम् ।
२. ऋग्द्वयमिदं १६०. पृष्ठे टिप्पण्यां द्रष्टव्यम् ॥
३. प्र स मित्र मर्तो अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते त्वोतो नैवमंऽहो अश्नोत्यन्तितो न दूरात् ॥
| ३०० | बौधायन-धर्मसूत्रम् | [ संन्यासिनियमः |
|---|
शपं ग्रहणम् । शरणं परानुग्रहः । उक्तं च 'हिंसाऽनुग्रहयोरनारम्भी' इति । इतिशब्द एवंप्रकाराणां ग्रहणार्थः । कथंप्रकाराणाम् ?
न शब्दशास्त्राभिरतस्य मुक्तिर्न लोकचित्तग्रहणे रतस्य ।
न भोजनाच्छादनतत्परस्य न चैव रम्यावसथप्रियस्य ॥
इत्यादीनाम् ॥ २५ ॥
भैक्षार्थी ग्राममन्विच्छेत् ॥ २६ ॥
अनु०—भिक्षा के लिए ही गाँव में प्रवेश करे ॥ २६ ॥
भैक्षशब्दो जलपवित्रादेरपि प्रदर्शनार्थः ॥ २६ ॥
स्वाध्याये वाचमुत्सृजदिति ॥ २७ ॥
अनु०—वेद के स्वाध्याय के समय ही बोले ॥ २७ ॥
स्वाध्यायः प्रणवः समस्तवेदो वा ॥ २७ ॥
विज्ञायते च—परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूंष्यथैतस्यैवान्तो नाऽस्ति यद्ब्रह्म तत्प्रतिगृणत आचक्षीत स प्रतिगर इति ॥ २८ ॥
अनु०—वेद से यह ज्ञात होता है कि ऋचाओं की संख्या सीमित है, सामों की संख्या परिमित है, यजुस् की संख्या परिमित है किन्तु उसका अन्त नहीं है जिसे ब्रह्म कहते हैं, उसी के संबन्ध में अध्वर्यु कहते हैं और वही प्रतिगर है ॥ २८ ॥
टि०—इस सूत्र का मन्तव्य कुछ अस्पष्ट है । गोविन्द स्वामी की व्याख्या के अनुसार भाव यह है कि ऋक् आदि मन्त्र परिमित हैं किन्तु चतुर्होत्र नाम के ब्रह्म का अन्त नहीं है । अतएव अध्वर्यु उसी का विवेचन करते हैं, जिस प्रकार मानस का प्रणव प्रतिगर है उसी प्रकार मौन रहने वाले संन्यासी के लिए प्रणव हीं स्वाध्याय है । संन्यासी के लिए स्वाध्याय प्रणव तक भी सीमित हो सकता है । अध्वर्यु का प्रतिगर है 'ओं होत:' । यह अंश तैत्तिरीय ब्राह्मण २.२.१.४ तथा १.१२.५.१ की ओर निर्देश करता है ।
'अस्ति द्वादशाहे दशमेऽहनि मानसे ग्रहे चातुर्होत्रविधानं 'अथ ब्रह्म
१. अयमत्र सारः—
अस्ति द्वादशाहो नाम द्वादशसुत्याकषट्त्रिंशद्दिनसाध्यस्तोमयागः । तत्र दशमे ( सुत्या ) दिवसे प्रजापतिदेवताको मन्त्रोच्चारणं विना मनसैव सर्वमुक्तवाऽनुष्ठेयो मानसो नाम ग्रहविशेषः । तत्र चतुर्होतृमन्त्रस्यापि विधानमस्ति । ( पृथिवी होता ।
अष्टादशः खण्डः ] द्वितीयप्रश्ने दशमोऽध्यायः ३०१
वदन्ति' इति । ब्रह्म चतुर्होतारः, 'ब्रह्म वै चतुर्होतारः' इति दर्शनात् । तस्य वाक्यशेषः परिमिता वा इत्यादि । अयमर्थः—ऋगादयो मन्त्राः परिमिताः । एतस्य पुनश्चतुर्होत्राख्यस्य ब्रह्मणोऽन्तो नाऽस्ति । तस्मात्तदेव प्रतिगृणते अध्वर्यव आचक्षत एताः । एवं कृते ब्रह्मणो ब्रह्मैव प्रतिगरस्सम्पद्यते । एवं हि तत्राऽध्वर्युः प्रतिगृणाति 'ओं होत:' इति । गृणातिश्शब्दकर्मा भाषणकरणमित्यर्थः । किमुक्तं भवति ? यथा—मानसस्य प्रणवः प्रतिगरः एवं मौनिनोऽपि प्रणव एव स्वाध्याय इति ॥ २८ ॥
एवमेवैष आशरीरविमोक्षणाद् वृक्षमूलिको वेद 'संन्यासिकः ॥२९॥
अनु०—इस प्रकार संन्यासी शरीर की मुक्ति के समय तक वृक्षमूलिक वेद संन्यासी रहे ॥ २९ ॥
वेदसंन्यासिरो गृहस्थः एव कृतकरणीयोऽभिधीयते । न हि वेदसंन्यासोऽस्ति शास्त्रविरोधात् । अतस्तदर्थानुष्ठानाय प्रतिग्रहादीनां वृत्तिकर्मणां संन्यासो यस्येत्यर्थः । अवसन्नशरीरो जरसा कृतसम्प्रतिविधानो वा पुत्रोपहृतवृत्तिस्तस्याऽयमुपदेशः आशरीरविमोक्षणात् वृक्षमूलिक इति । अथ यस्तावत्समर्थो गृहात् प्रव्रज्यायाः तस्य यथाशास्त्रं सैव भवति । असमर्थस्य पुनरुत्सृष्टाग्नेश्शास्त्राङ्गा इयमेव व्यवस्थोच्यते । प्रव्रज्या च वैकल्पिकी । एवं प्रव्रज्यानन्तरमुपदेशो युज्यत इति । आह च—
वेदसंन्यासिकानां तु कर्मयोगं निबोधत । इत्यभिप्रायः कृतविधानो वा आसीताऽऽमृतदर्शनादिति (?) एवमिति वक्ष्यमाणं प्रणवध्यानं परामृश्यते । एतदुक्तं भवति—परमसंयमवान् परमात्मध्यानेकावलम्बनः पुत्रैश्वर्ये सुखमासीतेति ॥ २९ ॥
वृक्षमूलिक इत्युक्तम्, तत्राऽऽह—
वेदो वृक्षः तस्य मूलं प्रणवः ॥ ३० ॥
अनु०—वेद वृक्ष है और उसक मूल प्रणव है ॥ ३० ॥
वृक्षो व्रश्चनात् पापस्य । प्रणवपूर्वकत्वाद्देदारम्भस्य मूलव्यपदेशः ॥ ३० ॥
प्रणवात्मको वेदः ॥ ३१ ॥
अनु०—वेद की आत्मा प्रणव है ॥ ३१ ॥
द्योरध्वर्युः इत्यादिश्चतुर्होता इत्युक्तम् ) स च होत्रा पठनीयः । तेन तस्मिन् पठिते अध्वर्युः तं 'ओं होत:' इति प्रतिगृणाति । ब्रह्म चतुर्होतृमन्त्रोऽपि । अतश्च ब्रह्मणो ब्रह्मैव प्रतिगर इति ॥
१. संन्यासी इति. घ. पु.
| ३०२ | बौधायन-धर्मसूत्रम् | [ संन्यासनियमाः |
|---|
आत्मा सारः प्रणवसारो वेदः । तथा च श्रुतिः—तेभ्योऽभितप्तेभ्य ओंकारः सम्प्रसुस्राव' इति । आह च—
अकारं चाऽप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहत् भूर्भुवस्स्वरितीति च ॥ ३१ ॥
प्रणवो ब्रह्म प्रणवं ध्यायेत् ॥ ३२ ॥
**अनु०—**प्रणव ही ब्रह्म है, प्रणव का ही ध्यान करे ॥ ३२ ॥
उक्तार्थमेतत् 'स प्रतिगरः' इत्यत्र । परमात्मतादात्म्यध्यानमनेनाभिप्रेतम् ॥ ३२ ॥
'प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥३३॥
**अनु०—**प्रणव ही ब्रह्म के साथ एक बनाता है ऐसा प्रजापति का कथन है ॥३३॥
ब्रह्मभूयाय ब्रह्मभावाय । अमोघं हि प्रजापतेर्वाक्यम् ॥ ३३ ॥
सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति प्रक्षालयेदिति ॥ ३४ ॥
अथ शालोन ॥
इति द्वितीयप्रश्नेऽष्टादशः खण्डः ॥
**अनु०—**ब्रह्म के पात्र ( शरीर ) को सात व्याहृतियो से धोए ॥ ३४ ॥
**टि०—**ब्रह्मभाजन से दोनों ही अर्थ लिया जा सकता है । ब्रह्म का पात्र या स्थान अर्थात् शरीर और दूसरा भिक्षा पात्र । क्योंकि अन्न को भी ब्रह्म कहा गया है 'अन्नं ब्रह्म' ।
सप्तव्याहृतयो भूराद्यास्सत्यान्ताः । ब्रह्मभाजनं भिक्षापात्रं 'अन्नं ब्रह्म' इति श्रुतेः । यद्वा-ब्रह्मभाजनं शरीरे तद्भुक्त्वा प्रक्षालयेदिति ॥ ३४ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे द्वितीयप्रश्ने दशमोऽध्यायः ।
$^२$एकदण्डी त्रिदण्डी वा ॥ १८ ॥ अथाऽतस्संन्यासविधिम् ॥ १७ ॥ प्रजाकामस्योपदेशः ॥ १६ ॥ अथ वै भवति । अग्नौ करण-
१. एवंव्रत इत्येव व्याख्यानपुस्तकेषु ।
२. इमानि तत्तत्प्रश्नगततत्तत्खण्डादिमसूत्रप्रतीकग्रहणानि तत्तत्प्रश्नान्ते प्रातिलोम्येन पठ्यन्तेऽध्ययनपरम्परायाम् ।
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३
शेषेणं ॥ १५ ॥ पित्र्यमायुष्यम् ॥ १४ ॥ यथ अथ शालीनयायावराणाम् ॥ १२ ॥ अथैते पञ्च महायज्ञाः ॥ ११ ॥ अथ प्राचीनावीती ॥ १० ॥ अग्निः प्रजापतिः ॥ ९ ॥ अथ हस्तौ प्रक्षाल्य ॥ ८ ॥ अथाऽतस्सन्ध्द्योपासनविधिं व्याख्यास्यामः ॥ ७ ॥ न पिण्डशेषम् ॥ ६ ॥ तपस्यमवगाहनम् ॥ ५ ॥ अब्राह्मणस्य शारीरो दण्डः ॥ ४ ॥ नित्योदकी नित्ययज्ञोपवीती ॥ ३ ॥ अथ पतनीयानि ॥ २ ॥ अथाऽतः प्रायश्चित्तानि ॥ १ ॥
इति बौधायनीय धर्मसूत्रे द्वितीयः (गृह्यसूत्रे पञ्चदशः) प्रश्नस्समाप्तः ।
अथ तृतीयप्रश्ने प्रथमोऽध्यायः
प्रथमः खण्डः
यजनदण्डकृषिवाणिज्यादयो वर्णविशेषव्यवस्थयाऽभिहिताः। अथेदानीं-माश्रमविशेषव्यवस्थया वृत्त्युपाया वक्तव्या इत्यत आह—
अथ शालीनयायावरचक्रचरधर्मकाङ्क्षिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥ १ ॥
अनु०—अब हम शालीन, यायावर, चक्रचर के कर्तव्यों का पालन करने के इच्छुक तथा नौ प्रकार की वृत्तियों से जीविकानिर्वाह करने वाले व्यक्तियों के लिए नियमों का विवेचन करेंगे ॥ १ ॥
वृत्त्युपाया वक्ष्यन्त इति शेषः । गृहस्थविशेषाः केचिच्छालीनयायावराः । शालीनयायावरशब्दौ स्वयमेव व्युत्पादयति—'शालाश्रयत्वाच्छालीनत्वम्' (३-१. ३.) इत्यादि । सर्वेषामप्याश्रमिणां स्वकीयधर्मकांक्षितवे सति विशेषोपादानमेतदर्थम् । तच्च क्षिप्रं पुरुषार्थप्रापणम् ॥ १ ॥
याभिश्चशरीरयात्रा वर्तते ता वृत्तयः काश्चन भवन्ति । तत्राऽऽह—
तेषां तद्वर्तनाद् वृत्तिरित्युच्यते ॥ २ ॥
अनु०—वृत्ति शब्द इस लिए कहा गया है कि वे उसके द्वारा जीविका निर्वाह करते हैं ॥ २ ॥