बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
| ३०२ | बौधायन-धर्मसूत्रम् | [ संन्यासनियमाः |
|---|
आत्मा सारः प्रणवसारो वेदः । तथा च श्रुतिः—तेभ्योऽभितप्तेभ्य ओंकारः सम्प्रसुस्राव' इति । आह च—
अकारं चाऽप्युकारं च मकारं च प्रजापतिः ।
वेदत्रयान्निरदुहत् भूर्भुवस्स्वरितीति च ॥ ३१ ॥
प्रणवो ब्रह्म प्रणवं ध्यायेत् ॥ ३२ ॥
**अनु०—**प्रणव ही ब्रह्म है, प्रणव का ही ध्यान करे ॥ ३२ ॥
उक्तार्थमेतत् 'स प्रतिगरः' इत्यत्र । परमात्मतादात्म्यध्यानमनेनाभिप्रेतम् ॥ ३२ ॥
'प्रणवो ब्रह्मभूयाय कल्पत इति होवाच प्रजापतिः ॥३३॥
**अनु०—**प्रणव ही ब्रह्म के साथ एक बनाता है ऐसा प्रजापति का कथन है ॥३३॥
ब्रह्मभूयाय ब्रह्मभावाय । अमोघं हि प्रजापतेर्वाक्यम् ॥ ३३ ॥
सप्तव्याहृतिभिर्ब्रह्मभाजनं प्रक्षालयेदिति प्रक्षालयेदिति ॥ ३४ ॥
अथ शालोन ॥
इति द्वितीयप्रश्नेऽष्टादशः खण्डः ॥
**अनु०—**ब्रह्म के पात्र ( शरीर ) को सात व्याहृतियो से धोए ॥ ३४ ॥
**टि०—**ब्रह्मभाजन से दोनों ही अर्थ लिया जा सकता है । ब्रह्म का पात्र या स्थान अर्थात् शरीर और दूसरा भिक्षा पात्र । क्योंकि अन्न को भी ब्रह्म कहा गया है 'अन्नं ब्रह्म' ।
सप्तव्याहृतयो भूराद्यास्सत्यान्ताः । ब्रह्मभाजनं भिक्षापात्रं 'अन्नं ब्रह्म' इति श्रुतेः । यद्वा-ब्रह्मभाजनं शरीरे तद्भुक्त्वा प्रक्षालयेदिति ॥ ३४ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे द्वितीयप्रश्ने दशमोऽध्यायः ।
$^२$एकदण्डी त्रिदण्डी वा ॥ १८ ॥ अथाऽतस्संन्यासविधिम् ॥ १७ ॥ प्रजाकामस्योपदेशः ॥ १६ ॥ अथ वै भवति । अग्नौ करण-
१. एवंव्रत इत्येव व्याख्यानपुस्तकेषु ।
२. इमानि तत्तत्प्रश्नगततत्तत्खण्डादिमसूत्रप्रतीकग्रहणानि तत्तत्प्रश्नान्ते प्रातिलोम्येन पठ्यन्तेऽध्ययनपरम्परायाम् ।
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०३
शेषेणं ॥ १५ ॥ पित्र्यमायुष्यम् ॥ १४ ॥ यथ अथ शालीनयायावराणाम् ॥ १२ ॥ अथैते पञ्च महायज्ञाः ॥ ११ ॥ अथ प्राचीनावीती ॥ १० ॥ अग्निः प्रजापतिः ॥ ९ ॥ अथ हस्तौ प्रक्षाल्य ॥ ८ ॥ अथाऽतस्सन्ध्द्योपासनविधिं व्याख्यास्यामः ॥ ७ ॥ न पिण्डशेषम् ॥ ६ ॥ तपस्यमवगाहनम् ॥ ५ ॥ अब्राह्मणस्य शारीरो दण्डः ॥ ४ ॥ नित्योदकी नित्ययज्ञोपवीती ॥ ३ ॥ अथ पतनीयानि ॥ २ ॥ अथाऽतः प्रायश्चित्तानि ॥ १ ॥
इति बौधायनीय धर्मसूत्रे द्वितीयः (गृह्यसूत्रे पञ्चदशः) प्रश्नस्समाप्तः ।
अथ तृतीयप्रश्ने प्रथमोऽध्यायः
प्रथमः खण्डः
यजनदण्डकृषिवाणिज्यादयो वर्णविशेषव्यवस्थयाऽभिहिताः। अथेदानीं-माश्रमविशेषव्यवस्थया वृत्त्युपाया वक्तव्या इत्यत आह—
अथ शालीनयायावरचक्रचरधर्मकाङ्क्षिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥ १ ॥
अनु०—अब हम शालीन, यायावर, चक्रचर के कर्तव्यों का पालन करने के इच्छुक तथा नौ प्रकार की वृत्तियों से जीविकानिर्वाह करने वाले व्यक्तियों के लिए नियमों का विवेचन करेंगे ॥ १ ॥
वृत्त्युपाया वक्ष्यन्त इति शेषः । गृहस्थविशेषाः केचिच्छालीनयायावराः । शालीनयायावरशब्दौ स्वयमेव व्युत्पादयति—'शालाश्रयत्वाच्छालीनत्वम्' (३-१. ३.) इत्यादि । सर्वेषामप्याश्रमिणां स्वकीयधर्मकांक्षितवे सति विशेषोपादानमेतदर्थम् । तच्च क्षिप्रं पुरुषार्थप्रापणम् ॥ १ ॥
याभिश्चशरीरयात्रा वर्तते ता वृत्तयः काश्चन भवन्ति । तत्राऽऽह—
तेषां तद्वर्तनाद् वृत्तिरित्युच्यते ॥ २ ॥
अनु०—वृत्ति शब्द इस लिए कहा गया है कि वे उसके द्वारा जीविका निर्वाह करते हैं ॥ २ ॥
| ३०४ | बौधायन-धर्मसूत्रम् | [ वृत्त्युपायाः |
|---|
अनेन वृत्तिशब्दो व्युत्पाद्यते। तेषां शालीनयायावराणां तद्वर्तनात् तस्य शरोरस्य वर्तनात् दर्शितमेतदस्माभिः पूर्वसूत्रे ॥ २ ॥
शालाश्रयत्वाच्छालीनत्वम्। वृत्त्या वरया यातीति यायावरत्वम्। 'अनुक्रमचरणाच्चक्रचरत्वम् ॥ ३ ॥
**अनु०—**घर में निवास करने के कारण शालीन कहा जाता है। श्रेष्ठ वृत्ति द्वारा जीवन निर्वाह करने से यायावर कहलाते हैं। (वर्ण के) क्रम के अनुसार ब्राह्मण, क्षत्रिय, वैश्य के घर वृत्ति के लिए जाने वाला चक्रचर कहलाता है ॥ ३ ॥
**टि०—**गोविन्द के अनुसार चक्रचर यायावर का ही नाम है। यायावर ब्राह्मण, क्षत्रिय, वैश्य के घर अनुक्रम से जाता है अर्थात् ब्राह्मण के यहाँ जाने पर वृत्ति न मिले तो क्षत्रिय के यहाँ जाता है, वहाँ भी वृत्ति न उपलब्ध होने पर वैश्य के यहाँ जाता है।
अन्वर्थसंज्ञा एताः। विस्तीर्णाभिः शालाभिर्युक्ताश्शालीनाः। यथा 'जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाकय आस। सह सर्वत आवसथान् मापायंचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति'। तद्वदेतेऽपीति। खप्रत्ययो मत्वर्थीयः। अनुक्रमेण चरणमनुक्रमचरणम्। यायावारामेवैषा संज्ञा। अनुक्रमचरणं नाम विप्रक्षत्रियविशां गेहेषु पूर्वस्य पूर्वस्याऽभावे उत्तरोत्तरचरणम्। वृत्त्या वरया उत्कृष्टया यापयत्यात्मानमिति। णिचो लोपोऽत्र द्रष्टव्यः ॥ ३ ॥
ता अनुव्याख्यास्यामः ॥ ४ ॥
**अनु०—**हम उन वृत्तियों की क्रमशः व्याख्या करेंगे ॥ ४ ॥
क्रमेण ता वृत्तीः विविच्य व्याख्यास्यामः ॥ ४ ॥
षन्णिवर्तनी कौद्दाली ध्रुवा सम्प्रक्षालनी समूहा पालिनी सिलोञ्छा कापोता सिद्धेच्छेति नवैताः ॥ ५ ॥
**अनु०—**ये वृत्तियाँ नौ हैं—षन्णिवर्तनी, कौद्दाली, ध्रुवा, सम्प्रक्षालनी समूहा, पालिनी, सिलोञ्छा, कापोता, सिद्धेच्छा ॥ ५ ॥
एता अप्यन्वर्थसंज्ञा एव। एतासामेव रूपमुपरितनेऽध्याये स्वयमेव निपुणतरं विवरिष्यते ॥ ५ ॥
तासामेव वान्याऽपि दशमी वृद्धिर्भवति ॥ ६ ॥
१. अनुक्रमेण चरणात् इति आ. पु.
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०५
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०५
अनु०—इनके अतिरिक्त वन में निवास कर जीविका निर्वाह करना दसवीं वृत्ति होती है ॥ ६ ॥
टि०—वान्या वृत्ति में जंगली फल-मूलों के आहार से ही जीविका-निर्वाह का विधान है।
वान्या वनसम्बन्धिनी वन्यधान्यमूलफलाहारेण वृत्तिः, यामेनां दशमीमित्याचक्षते साऽपि तासामेवान्यतमेत्याचार्याभिप्रायः । वान्यायाः पृथगुपादानमितराभ्यः प्राशस्त्यप्रतिपादनार्थम् ॥ ६ ॥
आ नववृत्तेः ॥ ७ ॥
अनु०—नौ वृत्तियों के अन्तर्गत किसी को ग्रहण करने की विधि इस प्रकार है॥७॥
नव वृत्तयो यस्य तस्याऽनुष्ठानं वक्ष्यत इति शेषः। आङत्राभिविधौ । अतश्च दशमीमाश्रितवतो वक्ष्यमाणो विधिर्न भवति ॥ ७ ॥
केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते—कृष्णाजिनं कमण्डलुं यष्टिं वीवधं १कुथहारिमिति ॥ ८ ॥
अनु०—केश, दाढ़ी-मूंछ, शरीर के रोम और नखों को कटाकर इन वस्तुओं को तैयार करे—काला मृगचर्म, कमण्डलु, वीवध (बोझ उठाने का डण्डा या बहंगी) और कुथहारि या हंसिया ॥ ८ ॥
टि०—गोविन्दस्वामी ने 'कुथहारि' का अर्थ 'वासवशासनदात्रम्' किया है जो संभवतः एक विशेष प्रकार का हँसिया है, इसी प्रकार इति शब्द से कुद्दाल आदि अन्य आवश्यक वस्तुओं का ग्रहण भी किया जाना चाहिए।
उकल्पनमार्जनम्। वीबधो दृढदारुभयतशिशक्यम्। कुथहारिः वासवशासनदात्रम् (?)। इतिशब्दः कुद्दालादेर्वक्ष्यमाणस्योपलक्षणार्थः। एतानि नवानि भवेयुः ॥ ८ ॥
त्रैधातवीयेनेष्ट्वा प्रस्थास्यति वैश्वानर्या वा ॥ ९ ॥
अनु०—त्रैधातवीय या वैश्वानरी इष्टि कर घर से निकलने का विचार करे॥९॥
प्रस्थास्यति निर्गच्छति। आहिताग्नेर्गृहस्थस्य विधिः। इतरस्याऽपि तद्देवत्यश्चरुरिष्यते। एतत्पूर्वेद्युरेव कार्यम् ॥ ९ ॥
अथाऽन्येद्युः—
प्रातरुदित आदित्ये यथासूत्रमग्नीन् प्रज्वाल्य गार्हपत्य आज्यं
१. कुतपहारिमिति इ. ई. पुस्त.
२३ बौ०गृ०
| ३०६ | बौधायन-धर्मसूत्रम् | [वृत्त्युपायाः |
|---|
विलाप्योत्पूय स्रुक्स्रुवं निष्टप्य सम्मृज्य स्रुचि चतुर्गृहीतं गृहीत्वाऽऽहवनीये वास्तोष्पतीयं जुहोति ॥ १० ॥
अनु०— दूसरे दिन प्रातः काल सूर्य के उगने पर अपने सूत्र के अनुसार अग्नि को प्रज्वलित करे, गार्हपत्य अग्नि पर घृत पिघलाए, कुश से उसे स्वच्छ करे, स्रुक् और स्रुवा को अग्नि पर तपाए, उन्हें पोंछ कर स्रुक् में चार बार घृत लेकर आहवनीय अग्नि में वास्तोष्पतीय हवन करे ॥ १० ॥
"१वास्तोष्पते प्रतिजानीह्यस्मा" निति पुरोनुवाक्यामनूच्य "२वास्तोष्पते शग्मया सꣳसदा ते" इति याज्यया जुहोति ॥ ११ ॥
अनु०— 'वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः । यत्त्वे महे प्रतितन्नो जुषस्व शन्न एधि द्विपदे शं चतुष्पदे' । इस पुरोनुवाक्या का उच्चारण करने के बाद 'वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिस्सदा नः' (तैत्तिरीय संहिता ३.४.१०) याज्या मन्त्र से अपने सूत्र के नियम के अनुसार हवन करे ॥ ११ ॥
यथासूत्रं आत्मीयशास्त्रानुसारेण वास्तोष्पतीयहोमो यागानुष्ठानम् । ऋज्वन्यत् ॥ ११ ॥
सर्व एवाऽऽहिताग्निरित्येके ॥ १२ ॥
अनु०— कुछ आचार्यों का मत है कि अग्नि का आधान करने वाले सभी व्यक्तियों के लिए यह होम है ॥ १२ ॥
अधिकारिनिर्देशः। त्रैधातवीयादेरविशेषेण सर्वस्याऽप्याहिताग्नेः प्रयाणे निमित्त एतदित्येकीयं मतम् ॥ १२ ॥
यायावर इत्येके ॥ १३ ॥
अनु०— अन्य आचार्यों का मत है कि यह होम कर्म केवल यायावर के लिए है ॥ १३ ॥
यायावरस्याऽऽहिताग्नेश्चेत्यपरम् ॥ १४ ॥
१. वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवानः । यत्त्वे महे प्रतितन्नो जुषस्व शन्न एधि द्विपदे शं चतुष्पदे ॥
२. वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिस्सदा नः ३॥ (तै. सं. ३.४.१०.)
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०७
प्रथमः खण्डः ] तृतीयप्रश्ने प्रथमोऽध्यायः ३०७
निर्गत्य ग्रामान्ते ग्रामसीमान्ते वाऽवतिष्ठते तत्र कुटीं मठं वा करोति कृतं वा प्रविशति ॥ १४ ॥
अनु०— घर से निकल कर ग्राम के छोर पर एक किनारे या गाँव की सीमा के अन्त स्थान पर रहे, वहीं कुटी या मठ बनावे अथवा यदि पहले से कुटी या मठ बना हो तो उसमें प्रवेश करे ॥ १४ ॥
ग्रामान्तो वास्तुसीमा । इतरा क्षेत्रसीमा । कुटी एकस्थूणमस्थूणं वा वेश्म । मठो बहुस्थूणः ॥ १४ ॥
कृष्णाजिनादीनामुपकॢप्तानां यास्मिन् यस्मिन्नर्थे येन येन यत्प्रयोजनं तेन तेन तत्कुर्यात् । प्रसिद्धमग्नीनां परिचरणम् । प्रसिद्धं दर्शपूर्णमासाभ्यां यजनम् । प्रसिद्धः पञ्चानां ¹महतां यज्ञानामनुप्रयोगः । उत्पन्नानामोषधीनां निर्वापणं दृष्टं भवति ॥ १५ ॥
अनु०— कृष्ण मृगचर्म आदि उपकरणों को जिस-जिस कार्य के प्रयोजन से रखा गया या उस-उस कार्य में प्रयुक्त करे । अग्नि की रक्षा का नियम सुज्ञात ही है, दर्श पूर्णमास नाम के यज्ञों के अनुष्ठान का नियम भी प्रसिद्ध है, पाँच महायज्ञों के प्रयोग का नियम भी ज्ञात है । उत्पन्न ओषधियों का निर्वापण भी देखा गया है।१५।
उत्पन्नानां तस्मिन् काले । अभिनवानामहन्यह्न्यार्जितानां वा ॥ १५ ॥
"विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामी"ति वा तूष्णीं वा ताः संस्कृत्य साधयति ॥ १६ ॥
अनु०— "विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि" कहते हुए उन ओषधियों को पवित्र करे अथवा चुपचाप ही उनको शुद्ध कर पकाए ॥ १६ ॥
ओषधीनां संस्कारोऽवहननादिः । साधनं पाकः । एवंभूतमोदन²मग्नौ कृत्वा तच्छेषं स्वयं वाग्यतो भुञ्जीतेत्यभिप्रायः ॥ १६ ॥
तस्याऽध्यापनयाजनप्रतिग्रहा निवर्तन्ते ॥ १७ ॥
अनु०— उसके लिए अध्यापन, यज्ञ कराने और दान लेने का कर्म समाप्त हो जाता है ॥ १७ ॥
द्रव्यार्जनस्योपायान्तरविधानादध्यापनादीनां निवृत्तिरुक्ता ॥ १७ ॥
१. पञ्चमहायज्ञाः प्राग् विवृताः ॥
२. अन्नाऽग्नौ करणं नाम होमः ॥
३०८ बौधायन-धर्मसूत्रम् [ वृत्त्युपायाः
अन्ये च यज्ञक्रतव इति ॥ १८ ॥
अनु०—दूसरे प्रकार के यज्ञ करने का कर्त्तव्य भी समाप्त हो जाता है ॥ १८ ॥
अन्यत्वं दर्शपूर्णमासान्यपेक्षम् । एतेऽपि निवर्त्तन्ते । इतिकरणात् 'पूर्त्तादयोऽपि निवर्त्तन्ते ॥ १८ ॥
हविष्यं च व्रतोपायनीयं दृष्टं भवति ॥ १९ ॥
अनु०—व्रत पालन के समय यज्ञिय हवि भक्षण के योग्य समझा जाता है ॥ १९ ॥
व्रतोपायनीयं भोज्यम् ॥ १९ ॥
तदाह—
सर्पिर्मिश्रं दधिमिश्रमक्षारलवणमपिशितमपर्युषितम् ॥ २० ॥
अनु०—उसका भोजन, घृत से मिश्रित हो या दधि से मिश्रित हो क्षार किन्तु लवण से युक्त न हो, मांस न हो तथा बासी न हो ॥ २० ॥
क्षाररसः हिङ्ग्वादि । पिशितं पक्वं मांसम् । पर्युषितं पकमोदनमुषोऽन्तरितमतीतं च ॥ २० ॥
ब्रह्मचर्यमृतौ वा गच्छति ॥ २१ ॥
अनु०—ब्रह्मचर्य का पालन करे अथवा ऋतुकाल में ही पत्नी से सम्पर्क करे। २१¹
ब्रह्मचर्यं रेतस उत्सर्गाभावः । ऋतौ वा गच्छति कृतार्थीकृतार्थापेक्षा विकल्पः ॥ २१ ॥
पर्वणि पर्वणि केशश्मश्रुलोमनखवापनं शौचविधिश्च ॥ २२ ॥
अनु०—प्रत्येक पर्व पर सिर के केशों, दाढ़ी-मूँछ, शरीर के रोम तथा नखों के कटवाने का तथा शुद्धि के नियम का पालन करे ॥ २२ ॥
शौचस्य बाह्यस्याऽऽभ्यन्तरस्य च विधिश्चौचाधिष्ठानाध्याय एवोक्तः । तथाऽप्युक्तं स्मारयितुमाह—
अथाप्युदाहरन्ति—
श्रूयते द्विविधं शौचं यच्छिष्टैः पर्युपासितम् ।
बाह्यं निर्लेपनिर्गन्धमन्तःशौचमहिंसनम् ॥ २३ ॥
अनु०—इस संबन्ध में निम्नलिखित उद्धृत करते हैं—
१. पूर्तमारामकरणादि ।
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३०९
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३०९
शिष्टों ने जिसका आचरण किया है वह शौच दो प्रकार का बताया गया है। दुर्गन्ध तथा अपवित्र वस्तुओं के लेप को दूर करना बाह्य शौच है तथा किसी प्राणी को कष्ट न पहुँचाना अन्तः शौच है ॥ २३ ॥
द्विविधस्याऽप्युदाहरणमाह—
'अद्भिश्शुद्ध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुद्ध्यतीति ।
अहिंसया च भूतात्मा मनस्सत्येन शुद्ध्यतीति ॥ २४ ॥
इति तृतीयप्रश्ने प्रथमः खण्डः॥
**अनु०—**शरीर के अंगों की शुद्धि जल से होती है और बुद्धि की शुद्धि ज्ञान से होती है। अहिंसा से आत्मा की शुद्धि होती है और सत्य से मन शुद्ध होता है ॥२४॥
व्याख्यातश्लोकः । अन्तश्शौचमहिंसनमित्येतद्विधानपरोऽयं प्रपञ्चः ॥ २४ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे
तृतीयप्रश्नेऽप्रथमोऽध्यायः ।
तृतीयप्रश्ने द्वितीयोऽध्यायः
द्वितीयः खण्डः
अथोक्ता वृत्तीरानुपूर्व्येणाऽनुक्रमं विवृणोति—
यथो एतत् षण्णिवर्तनीति ॥ १ ॥
**अनु०—**षण्णिवर्तनी वृत्ति के नियम इस प्रकार होते हैं ॥ १ ॥
यथो एतदिति निपातः उक्तानुभाषणार्थः 'यथा एतद्हुतः प्रहुत आहुतः' इति । यथा वा 'यथो एतदेकस्य सतः' इति । नवानां वृत्तीनां षण्णिवर्तनेति या प्रथमं पठिता तां विवरिष्यामीत्यर्थः ॥ १ ॥
षडेव निवर्तनानि निरुपहतानि करोति स्वामिने भागमुत्सृजत्य-
नुज्ञातं वा गृह्णाति । प्राक्प्रातराशात्कर्षी स्यादास्यूतनासिकाभ्यां समु-
ष्काभ्यामतुदन्नारया मुहुर्मुहुरभ्युच्छन्दयन् । एतेन विधिना षण्णिवर्त-
नानि करोतीति षण्णिवर्तनी ॥ २ ॥
१. See मनु ५. १०९.
| ३१० | बौधायन-धर्मसूत्रम् | [ वृत्त्युपायाः |
|---|
**अनु०—**बिना जोती हुई छः निवर्तनं भूमि में खेती करे। भूमि के स्वामी को भाग देकर अपना अंश ग्रहण करे अथवा खेत के स्वामी की आज्ञा होने पर सम्पूर्ण अंश स्वयं ग्रहण करे। प्रातःकालीन भोजन की वेला से पहले ही ऐसे बैलों से जिनकी नाक में छेदकर रस्सी न पिन्हाई गयी हो और जिन्हें बधिया न किया गया हो, कोड़े या डण्डे का प्रयोग किये बिना, बार-बार पुचकारते-दुलारते हुए जुताई करे। इस विधि से छः निवर्तनं भूमि में कृषि कर्म करने वाला षण्णिवर्तनी कहलाता है॥ २॥
निवर्तनं नाम भूम्याः कर्षणं कृषीबलानां प्रसिद्धम्-इयदेकं निवर्तनमिति। निरुपहतं अकृष्टक्षेत्रं षट्संख्याविशिष्टानि निवर्तनान्यकृष्टक्षेत्राणि समापाद-यन्तीत्यर्थः। तत्र निष्पन्नौषधेरयं विशेषः—स्वामिने भागमित्यादि। भूस्वा-मिने भागोंऽशः परक्षेत्रविषयमेतत्। सामर्थ्यात् स चेदनुजानीयात्सर्वं स्वयमेव गृह्णीयात्। स्वक्षेत्रेषु नाऽयं विधिः स्वक्षेत्रत्वात्। आपदुपायोऽयम्। प्राक्प्रातरित्यादि व्याख्यातम्। एतेन विधानेन षण्णिवर्तनीशब्दं व्युत्पाद-यन्नुपसंहरति॥ २॥
कथं कौद्दालीत्याह—
कौद्दालीति जलाभ्याशे कुद्दालेन वा फालेन वा तीक्ष्णकाष्ठेन वा खनति बीजान्यावपति कन्दमूलफलशाकौषधीर्निष्पादयति। कुद्दा-लेन करोतीति कौद्दाली ॥ ३ ॥
**अनु०—**कौद्दाली वृत्ति का अनुसरण करने वाला किसी जलाशय के समीप कुदाल से, फाल से या नुकीले लकड़ी के टुकड़े से भूमि को खोदे और उसमें बीज बोकर कन्द, मूल, फल, शाक, ओषधि उत्पन्न करे। इस प्रकार कुद्दाल से भूमि खोद कर उससे उत्पन्न वस्तुओं से जीविका-निर्वाह करने वाला कौद्दाली होता है॥ ३॥
अभ्याशे समीपे अपरिग्रहे। कुद्दालमयौमुखं काष्ठम्। फालमायस्यं खनित्र-मिति यावत्। तीक्ष्णाग्रं काष्ठं प्रसिद्धम्। एतेषां सम्भवापेक्षो विकल्पः खनति विखनति। ततो बीजान्यावपति कन्दादीनाम्। कन्दमामोपयोग्यम्। मूलं पक्कोपयोग्यम्। अन्यत्प्रसिद्धम्॥ ३॥
तृतीया वृत्तिः ध्रुवा। तामाह—
ध्रुवायां वर्तमानश्शुकलेन वाससा शिरो वेष्टयति—"भूत्यै त्वा शिरो वेष्टयामी" ति ॥ ४ ॥
**अनु०—**ध्रुवा वृत्ति से जीविका निर्वाह करने वाला श्वेत वस्त्र से शिर को
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३११
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३११
“भूत्यै त्वा शिरो वेष्टामि” । ( समृद्धि के लिए मैं तुम्हें अपने सिर पर बाँधता हूँ ) कहकर आच्छादित करे ॥ ४ ॥
प्रत्यारम्भं इति केचित् । अहरहरित्यन्ये । एवं कृष्णाजिनादानेष्वपि द्रष्टव्यम् ॥ ४ ॥
“ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वे”ति कृष्णाजिनमादत्ते । अब्ब्लिङ्गाभिः पवित्रम् । “बलमसि बलाय त्वे”ति कमण्डलुम् ॥ ५ ॥
अनु०—"ब्रह्मवर्चसमसि ब्रह्मवर्चसाय त्वा” ( तुम ब्रह्म के तेज हो, ब्रह्म के तेज के लिए मैं तुम्हें धारण करता हूँ ) कहकर कृष्ण मृगचर्म ग्रहण करे । जल देवता के मन्त्रों से पवित्र को ग्रहण करे । 'बलमसि बलाय त्वा' ( तुम बल हो, तुम्हें बल के लिए ग्रहण करता हूँ ) कहकर कमण्डलु ग्रहण कर ॥ ५ ॥
आदत्त इत्यनुवर्तते ॥ ५ ॥
“धान्यमसि पुष्ट्यै त्वे”ति वीवधम् ॥ “सखा मा गोपाये”ति दण्डम् । अथोपनिष्क्रम्य व्याहृतीर्जपित्वा दिशामनुमन्त्रणं जपति—“पृथिवी चान्तरिक्षं च द्यौश्च नक्षत्राणि च या दिशः । अग्निवायुश्च सूर्यश्च पान्तु मां पथि देवता” इति । १मानस्तोकीयं जपित्वा ग्रामं प्रविश्य गृहद्वारे गृहद्वार आत्मानं वीवधेन सह दर्शनात् संदर्शनीत्याचक्षते ॥६॥
“धान्यमसि पुष्ट्यै त्वा” ( तुम अन्न हो, मैं तुम्हें पुष्टि के लिए ग्रहण करता हूँ ) कहकर वीवध को ग्रहण करे । "सखा मा गोपाय” ( तुम मित्र हो, मेरी रक्षा करो ) कहकर दण्ड ग्रहण करे । अपनी कुटी से निकलकर व्याहृतियों का जप करें और दिशामों के अनुमन्त्रण के लिए यह मन्त्र जपे—"पृथिवी चान्तरिक्षं च द्यौश्च नक्षत्राणि च या दिशः । अग्निवायुश्च सूर्यश्च पान्तु मां पथि देवता । ( पृथिवी, अन्तरिक्ष, द्युलोक, नक्षत्र और दिशाएं, अग्नि, वायु और सूर्य देवता मार्ग में मेरी रक्षा करें ) । मानस्तोकीय ( तैत्तिरीय संहिता ३. ४. ११.२ के 'मा नस्तोके' आदि से आरम्भ होने वाला अंश ) का पाठ करते हुए गाँव में प्रवेश करे और प्रत्येक घर के द्वार पर वीवध के साथ उपस्थित होकर अपने को दिखाए, इसे ही संदर्शनी कहते हैं ॥ ६ ॥
ध्रुवा हि वृत्तिर्भिक्षाटनप्राधान्यात् । भैक्षभाजनं च वीवधः । तन्न तत्र प्रतिगृह्योपनिष्क्रम्य व्याहृतीर्जपति । दिशामनुमन्त्रणम्—'पृथिवी च' इति मन्त्रः । 'मा नस्तोके' इति गृहद्वारे । आत्मानं वीवधेन गृहद्वारिभ्यस्संदर्श-
१. मानस्तोकीयो व्याख्यास्यते ।
३१२ बौधायन-धर्मसूत्रम् [ वृत्त्युपायाः
यित्वा (?) तूष्णीमेव गोदोहनकालमात्र तिष्ठेत् । एतस्मादेव लिङ्गादेतस्या वृत्तेरसन्दर्शनोति संज्ञान्तरमाचक्षते ॥ ६ ॥
वृत्तेर्वृत्तरवार्तायां तयव तस्य ध्रुवं वर्तनाद् ध्रुवेति परिकीर्तिता ॥ ७ ॥
**अनु०—**भिन्न-भिन्न दूसरी वृत्तियों से यदि जीविका निर्वाह न हो तो उसी एक (भिक्षा) वृत्ति से निरन्तर जीवन निर्वाह करने के कारण उसे ध्रुवा वृत्ति कहते हैं ॥ ७ ॥
वृत्तेर्वृत्तेरिति वीप्सादर्शनात् अवार्त्तायामित्यध्याहार्यम् । वृत्त्यवार्ताशब्दौ द्रव्यलाभालाभबवचनौ । प्रथमो वृत्तिशब्दः प्राणयात्रामात्रप्रसिद्ध्यर्थद्रव्यार्जन-वचनः । तयैव भिक्षया वर्तेत । ध्रुवमित्याद्युपसंहारः । ध्रुवं निश्चयेन ॥ ७ ॥
किंलक्षणा सम्प्रक्षालनोत्यत आह—
सम्प्रक्षालनीति । उत्पन्नानामोषधीनां प्रक्षेपणं निक्षेपणं नास्ति निचयो वा भाजनानि सम्प्रक्षालय न्युब्जतीति सम्प्रक्षालनी ॥ ८ ॥
**अनु०—**संप्रक्षालनी नाम की वृत्ति इस प्रकार होती है। उत्पन्न होने योग्य व्रीहि इत्यादि बीजों के बोने का कार्य, या प्राप्त ओषधियों अन्नादि के नष्ट करने के प्रयोजन से फेंकने अथवा संचय करने का कार्य जिस वृत्ति में नहीं होता और जिस वृत्ति में बरतनों को धोकर उलटा रख दिया जाता है उसे सम्प्रक्षालनी वृत्ति कहते हैं ॥ ८ ॥
उपपन्नानामुत्पादयितुमङ्कुरीकर्तुं योग्यानां बीजानामित्यर्थः । ओषधीनां व्रीह्यादिबीजानां प्रक्षेपणं बीजावापनम् । यद्वा पूर्वमेवोत्पन्नानां यात्रामात्रप्र-सिद्ध्यर्थमर्जितानामित्यर्थः । नास्तीत्येतत्काकाक्षिवत् प्रक्षेपणनिक्षेपणनिचयेषु सम्बध्यते । निक्षेपणं निक्षेपः । पात्र्यां भोजनवेलायाम् , निचयस्सञ्चयः; आमे पक्वे च सञ्चयो न कर्तव्य इत्यर्थः । किं तर्हि कुर्यात् ? अहरेव भाज-नानि सम्प्रक्षाल्य न्युब्जति न्यञ्चं करोति सैषा सम्प्रक्षालनी वृत्तिः ॥ ८ ॥
समूहा नाम पञ्चमी । सा कीदृशोत्याह—
समूहेति । अवारितस्थानेषु पथिषु वा क्षेत्रेषु वाऽप्रहितावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्र समूहन्या समूह्य ताभिर्वर्तयतीति समूहा ॥ ९ ॥
**अनु०—**समूहा नाम की वृत्ति इस प्रकार होती है । जिन स्थानों पर जाना निषिद्ध नहीं है, मार्ग में या खेत में जहां प्रवेश का मार्ग घिरा न हो जहां ओषधियां वृक्षादि हों उन स्थानों पर झाडू से बुहार कर जो अन्नादि उपलब्ध हों उन्हीं से जीविका निर्वाह करना समूहा वृत्ति है ॥ ९ ॥
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३१३
द्वितीयः खण्डः ] तृतीयप्रश्ने द्वितीयोऽध्यायः ३१३
अवारितस्थानान्यनिषिद्धानि। अप्रतिहतावकाशाः वृत्तिशून्या देशाः। समूहनी सम्मार्जनी ॥ ९॥
पालनीत्यहिंसिकेत्येवेदमुक्तं भवति। तुषविहीनांस्तण्डुलानिच्छति सज्जनेभ्यो बीजानि वा पालयतीति पालनी ॥ १० ॥
अनु०—पालनी नाम की वृत्ति, जिसे अहिंसिका वृत्ति भी कहते हैं इस प्रकार की होती है। सज्जनों से बिना छिलके के चावलों को या बीजों को प्राप्त करने की इच्छा करे और उन्हीं से अपना पालन करे तो पालनी वृत्ति कहलाती है ॥ १० ॥
सज्जनेभ्यो विद्वद्भ्यः। पालयति प्रयच्छति तस्मात्तंडुलानेव स्वयं गृह्णीयात्। तुषविहीनग्रहणं तुषाणामप्यसंग्रहणार्थम्। तेषु मिश्रणसम्भावना यतः ॥ ० ॥
सिलोञ्छा पुनः—
सिलोञ्छेति। अवारितस्थानेषु पथिषु वा क्षेत्रेषु वाऽप्रतिहतावकाशेषु वा यत्रयत्रौषधयो विद्यन्ते तत्रतत्रैकैकं कणिशमुञ्छयित्वा काले-काले सिलैर्वर्तयतीति सिलोञ्छा ॥ ११ ॥
अनु०—सिलोञ्छा वृत्ति इस प्रकार है। जिन स्थानों पर जाना निषिद्ध नहीं है, ऐसे मार्ग में या खेतों में या जहाँ प्रवेश का मार्ग अवरुद्ध नहीं है ऐसे स्थानों पर, जहाँ ओषधियाँ ( अन्न, वृक्षादि ) हों वहाँ एक-एक कण समय-समय पर एकत्र कर उसी के भक्षण से जीवन निर्वाह करना सिलोञ्छा वृत्ति है ॥ ११ ॥
कणिशो धान्यस्तम्बः। उञ्छनं उत्पाटनम्। उञ्छनकालः वीप्सया सम्बध्यते। 'सर्वावश्यककालः उञ्छनकालः। सिलाः ग्रासविशेषाः। यावद्भिरात्मयात्रा भवतीति। शेषं पूर्ववत् ॥ ११ ॥
कापोताऽष्टमी, सेदानीमुच्यते—
कापोतेति। अवारितस्थानेषु पथिषु क्षेत्रेषु वाऽप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्राऽङ्गुलिभ्यामेकैकामोषधिमुञ्छयित्वा सन्दर्शनात् कपोतवदिति कापोता ॥ १२ ॥
अनु०—कापोता वृत्ति इस प्रकार होती है। उन स्थानों में जहाँ जाना निषिद्ध नहीं है, मार्गों में या खेतों में या जिन स्थानों पर प्रवेश का मार्ग अवरुद्ध नहीं है, उन स्थानों पर जो ओषधियाँ विद्यमान हों, उनमें दो अंगुलियों से केवल एक-एक ओषधि
३१४ बौधायन-धर्मसूत्रम् [ वृत्त्युपायाः
( अन्न या फल ) ग्रहण कर कपोत के समान जीविका निर्वाह के कारण कापोता-वृत्ति होती है ॥ १२ ॥
संदर्शनादात्मनः प्रकटीकरणात् । संदंशनादिति पाठे खादनादित्यर्थः । तद्यथा कपोतो द्वाभ्यां चञ्चुभ्यां एकस्थान्यव्यक्तं गृहीत्वा पतति एवं कापोतामास्थाय वर्तते ॥ १२ ॥
सिद्धेच्छेच्छा तर्हि वक्तव्या—
सिद्धेच्छेति । वृत्तिभिश्चान्तो वृद्धत्वाद्धातुक्षयाद्वा सज्जनेभ्यः सिद्धमन्नमिच्छतीति सिद्धेच्छा ॥ १३ ॥
**अनु०—**सिद्धेच्छा वृत्ति इस प्रकार है । यदि अन्य वृत्तियों से थक कर वृद्ध होने के कारण या दुर्बल होने के कारण सज्जनों के घर से पके-पकाये अन्न को प्राप्त कर जीवन निर्वाह करता है तो वह सिद्धेच्छा वृत्ति है ॥ १३ ॥
पूर्वोक्ताभिर्वृत्तिभिः । श्रान्तः परिक्षीणः । वृद्धता वयसा, धातुक्षयेण रोगेण । सिद्धं पक्वान्नम् ॥ १३ ॥
तस्याऽऽत्मसमारोपणं विद्यते संन्यासिवदुपचारः पवित्रकाषायवासोवर्जम् ॥ १४ ॥
**अनु०—**यदि सिद्धेच्छा वृत्ति ग्रहण करता है तो सभी यज्ञाग्नियों को अपने में समारोपित करे और संन्यासी के समान आचरण करे, किन्तु पवित्र का प्रयोग न करे तथा गेरुआ वस्त्र भी न धारण करे ॥ १४ ॥
तस्य सिद्धेच्छावृत्तेरपरो नियमः—अग्नीनामात्मनि समारोपणं परिव्राजकधर्माणामनुष्ठानं च । किं सर्वेषाम् । नेत्याह--जलपवित्रं पक्षपवित्रं काषायवासश्च वर्ज्यम् ॥ १४ ॥
अथ वान्या वृत्तिः—
वान्याऽपि वृक्षलतावल्ल्योषधीनां च तृणौषधीनां च श्यामाकजर्तिलादीनां वान्याभिर्वर्तयतीति वान्या ॥ १५ ॥
**अनु०—**यदि वृक्षों और लताओं से उत्पन्न फलों को, तृणों से उत्पन्न वस्तुओं को, श्यामाक, तिल आदि जंगली अन्न को खाकर जीविका निर्वाह करे तो वह वान्या वृत्ति कहलाती है ॥ १५ ॥
वृक्षलतासूत्पादिता वल्लीगुल्मलतासु च । ओषध्यः फलपाकान्ताः यद्वा--द्विविधा ओषध्यः वल्ल्योषध्यः तृणौषध्यश्च । यासां वल्लीभ्य एव धान्यं गृह्यते
तृतीयः खण्डः ] तृतीयप्रश्ने तृतीयोऽध्यायः ३१५
तृतीयः खण्डः ] तृतीयप्रश्ने तृतीयोऽध्यायः ३१५
ता वल्ल्योषध्यः। ताश्च कुलुत्थाद्याः। तृणौषध्यस्तु—‘तस्मादुपरिष्टादोषधयः फलं गृह्णन्ति’ इत्यत्र या उक्ताः, ताश्च व्रीह्याद्याः। अत्र पुनरेवंलक्षणा एवाऽऽरण्या गृह्यन्ते। अत एव श्यामाकजर्तिलादीनामित्युदाहृतम्। आदिग्रहणं सप्तानामपि सङ्ग्रहार्थम्। एवं चोपसंहारोऽप्युपपन्नो भवति—‘‘वन्याभिर्वर्तयेतेति वान्ये’’ति। षष्ठी सम्बन्धमात्रलक्षणा। वृक्षादीनां फलैरिति शेषः ॥ १५ ॥
अथाऽप्युदाहरन्ति —
मृगैस्सह परिस्पन्दः संवासस्तैभिरेव च। तैरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणं प्रत्यक्षं स्वर्गलक्षणमिति ॥ १६ ॥
इति तृतीयप्रश्ने द्वितीयः खण्डः ॥ २ ॥
अनु०— इस सम्बन्ध में निम्नलिखित भी उद्धृत करते हैं—
पशुओं के साथ विचरण करना और उन्हीं के साथ निवास करना, और पशुओं के समान ही जीविका निर्वाह करना स्वर्ग प्राप्ति का प्रत्यक्ष लक्षण है ॥ १६ ॥
उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणानीति परिस्पन्दः। चलनात्मिका क्रियेति यावत्। तैभिरिति ऐसो ^१लोपश्छान्दसः। मृगसदृशवृत्तित्वमस्य स्वयंविशीर्णफलादिभक्षणाद्भवत्यामद्रव्यभक्षणाच्च ॥ १६ ॥
इति श्रीगोविन्दस्वामिकृते बौधायनधर्मविवरणे तृतीयप्रश्ने द्वितीयोऽध्यायः।
तृतीयप्रश्ने तृतीयोऽध्यायः
तृतीयः खण्डः
उक्ता नव वृत्तयो गृहस्थस्य;
अथ वानप्रस्थस्य द्वैविध्यम् ॥ १ ॥
अनु०— वानप्रस्थों के दो वर्ग होते हैं (जिनका विवेचन यहाँ किया जायगा) ॥ १ ॥
वक्ष्यत इति शेषः। तच्च वृत्तिविशेषकृतम् ॥ १ ॥
तदाह—
पचमानका अपचमानकाश्चेति ॥ २ ॥
^१. ऐसोऽप्रवृत्तिश्छान्दसीति सुवचम्।
३१६ बौधायन-धर्मसूत्रम् [ वानप्रस्थभेदाः
**अनु०—**अग्नि पर भोजन पकाने वाले पचमानक, तथा भोजन न पकानेवाले अपचमानक ॥ २ ॥
अग्निपक्वाशिनः अनग्निपक्वाशिनश्चेति सूत्रार्थः ॥ २ ॥
अत्राऽप्याह—
तत्र पचमानकाः पञ्चविधाः—सर्वारण्यका वैतुषिकाः कन्दमूलभक्षाः फलभक्षाश्शाकभक्षाश्चेति ॥ ३ ॥
**अनु०—**इनमें भी पचमानक अर्थात् अग्नि पर अपना भोजन पकाने वाले वानप्रस्थ पाँच प्रकार के होते हैं (१) सर्वारण्यक अर्थात् वन की सभी प्रकार की खाद्य वस्तुओं का भक्षण करने वाले, (२) वैतुषिक जो बिना कूटे गये जंगली अन्न को खाकर जीवन निर्वाह करते हैं, (३) कन्द-मूल का भक्षण करने वाले (४) फलाहारी तथा (५) वन के शाक मात्र का भक्षण कर जीवन निर्वाह करने वाले ॥३॥
एते पचमानकप्रभेदाः ॥ ३ ॥
तत्र सर्वारण्यका नाम द्विविधाः द्विविधमारण्यमाश्रयन्तः—इन्द्रावसिक्ता रेतोवसिक्ताश्चेति ॥ ४ ॥
**अनु०—**इनमें भी वन'की सभी खाद्य वस्तुओं का आहार करने वाले सर्वारण्यक भी दो प्रकार के होते हैं और ये वन की दो प्रकार की वस्तुओं के भक्षण से वृत्ति चलाते हैं—इन्द्र द्वारा उत्पन्न वस्तुओं के भक्षण से (अर्थात् वर्षा से उत्पन्न वस्तुओं के भक्षण से) तथा वीर्य से उत्पन्न जीवों के भक्षण से (अर्थात् मृगादि पशुओं का मांस भक्षण कर) ॥ ४ ॥
अरण्ये भवमारण्यं तच्च द्विविधं—वल्ल्यादयो मृगादयश्च । तत्र वल्ल्यादिभक्षा इन्द्रावसिक्ताः , इन्द्रेण देवेन पर्जन्यरूपिणा वृष्ट्या सिक्ताः वर्धिताः वल्ल्यादयः । तद्भक्षणादिन्द्रावसिक्ताः । उक्तं चाऽऽचार्येण—'अथाऽस्य कर्मणस्सानुप्रदानं पितृवधो या च का च वलिप्रकृतिरिन्द्रकर्मैव तत्' इति । तथा रेतोऽवसिक्ताः मृगमांसाशिनः रेतसा हि हेतुभूतेनाऽवसिक्तानि मांसानि, तदाश्रयात् । सर्वारण्यकानां च द्वैविध्यम् ॥ ४ ॥
तदिदानीं प्रपञ्चयति--
तत्रेन्द्रावसिक्ता नाम वल्लीगुल्मलतावृक्षाणामानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्च दत्त्वाऽथेतरच्छेषभक्षाः ॥ ५ ॥
तृतीयः खण्डः ] तृतीयप्रश्ने तृतीयोऽध्यायः ३१७
तृतीयः खण्डः ] तृतीयप्रश्ने तृतीयोऽध्यायः ३१७
अनु०—इन दो प्रकार की वस्तुओं में भी जो पदार्थ इन्द्र अर्थात् वृष्टि द्वारा उत्पन्न की गयी हैं वे हैं वृक्षों, लताओं, झाड़ियों के फल । इन फलों को लाकर पकावे, सायंकाल तथा प्रातः काल अग्निहोत्र हवन करें, भिक्षुकों, अतिथियों और ब्रह्मचारियों को देकर शेष अंश का भक्षण करे ॥ ५ ॥
भवेयुरित्यध्याहार्यम् । वल्लद्यादीनां फलानि आनयित्वा आनीय । यतयो भिक्षुकाः । अतिथयः प्रसिद्धाः । व्रतिनो ब्रह्मचारिणः । वल्लयादिफलानामग्निहोत्रद्रव्यत्वेन विधानात् नित्यानां पयआदिद्रव्याणां निवृत्तिः । इतरद्भक्षाः शेषभक्षाश्चेति विग्रहः । इतरद्भक्षा इति सिद्धे शेषभक्षा इति वचनं अग्निहोत्रशेषे यात्रानिर्यार्तितशेषे च वैश्वदेवप्राप्त्यर्थम् । इतरदपि शेषं कृत्वा भक्षयेदित्यर्थः ॥ ५ ॥
अथेतरानाह—
रेतोवसिक्ता नाम मांस ¹व्याघ्रवृकश्येनादिभिरन्यतमेन वा हतमानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिभ्यश्च दत्त्वाऽथेतरच्छेषभक्षाः ॥ ६ ॥
अनु०—वीर्य से उत्पन्न हुआ (पशुओं का ) मांस होता है । बाघ, भेड़िया, बाज आदि शिकार करने वाले जानवरों या पक्षियों द्वारा मारे गये पशु-पक्षी को लाकर उसका मांस पकावे, सायं तथा प्रातः काल अग्निहोत्र हवन करने, भिक्षुकों, अतिथियों तथा ब्रह्मचारियों को देने के बाद शेष मांस का भक्षण करे ॥ ६ ॥
अस्याऽपि पूर्वैव व्याख्या ॥ ६ ॥
अथ पचमानकानां द्वितीयानाह—
वैतुषिकास्तुषधान्यवर्जं तण्डुलान्रानयित्वा श्रपयित्वा सायं प्रातरग्निहोत्रं हुत्वा यत्यतिथिव्रतिभ्यश्च दत्त्वाऽथेतरच्छेषभक्षाः ॥ ७ ॥
अनु०—जो छिलका निकाले बिना ही जंगली अन्न का भक्षण करते हैं वे तुषधान्य को छोड़कर चावल मंगाकर उसे पकावें, सायंकाल तथा प्रातःकाल अग्निहोत्र होम कर, भिक्षुओं, अतिथियों और ब्रह्मचारियों को अंश देकर बचे हुए अन्न का भक्षण करें ॥ ७ ॥
तुषधान्यवर्जद्रव्याहरणस्य प्रयोजनं तत्स्वीकारोऽपि कथं नु नाम स्यादिति ॥ ७ ॥
१. मृगव्याघ्रेति क्वचित् पाठः ।
| ३१८ | बौधायन-धर्मसूत्रम् | [ वानप्रस्थभेदाः |
|---|
अथेतरान् त्रीन् समुच्चित्यऽऽह—
कन्दमूलफलशाकभक्षाणामप्येवमेव ॥ ८ ॥
अनु०— जो कन्द, मूल या शाक का भक्षण करते हैं वे भी इसी प्रकार करें॥८॥
एवमिति आनयित्वेत्यादीति शेषः॥ ८ ॥
इदानीमपचमानप्रकारभेदविधित्सयाऽऽह—
पञ्चैवाऽपचमानकाः—उन्मज्जकाः प्रवृत्ताशिनो मुखेनादायिनस्तोयाहारा वायुभक्षाश्चेति ॥ ९ ॥
अनु०— अपचमानक अर्थात् पकाकर न खाने वालों के भी पांच ही वर्ग हैं— उन्मज्जक, प्रवृत्ताशिन्, मुखेनादायिन्, तोयाहार और वायुभक्ष ॥ ९ ॥
एते भेदाः ॥ १ ॥
तेषां परस्परवैलक्षण्यं प्रतिपादयन्नाह—
तत्रोन्मज्जका नाम लोहाश्मकरणवर्जम् ॥
अनु०— इनमें उन्मज्जक वे हैं जो लोहे और पत्थर के उपकरणों का प्रयोग न करते हुए अपना भोजन तैयार करते हैं ॥ १० ॥
लोहकरणं दर्व्यादि। अश्मकरणमप्येवमाकृतिकमेव किञ्चित् । काष्ठान्येव करणमादाय इत्यर्थः ॥ १० ॥
हस्तेनाऽऽदाय प्रवृत्ताशिनः ॥ ११ ॥
अनु०— प्रवृत्ताशिन् हाथ में ही लेकर भक्षण करते हैं ॥ ११ ॥
भक्षयन्तीति वाक्यसमाप्तिः ॥ ११ ॥
मुखेनाऽऽदायिनो मुखेनाऽऽददते ॥ १२ ॥
अनु०— मुखेनादायिन् (पशुओं की तरह) मुख से ही लेकर भक्षण करते हैं ॥ १२ ॥
पशुवदित्यभिप्रायः ॥ १२ ॥
तोयाहाराः केवलं तोयाहाराः ॥ १३ ॥
अनु०— तोयाहार केवल जल पीकर ही रहते हैं ॥ १३ ॥
केवलशब्दादुपदंशादिस्थानेऽपि तोयस्यैव प्रवेशः कर्त्तव्यः ॥ १३ ॥
[ तृतीयः खण्डः ] तृतीयप्रश्ने तृतीयोऽध्यायः ३१९
वायुभक्षा निराहाराश्च ॥ १४ ॥ वैखानसानां विहिता दश दीक्षाः ॥ १५ ॥ यथाशास्त्रमभ्युपेत्यं दण्डं च मौनं चाऽप्रमादं च ॥ १६ ॥ वैखानसाश्शुद्ध्यन्ति निराहाराश्चेति ॥ १७ ॥
अनु०—वायुभक्ष किसी प्रकार का भोजन नहीं करते ॥ १४ ॥
अनु०—इस प्रकार वैखानसों के लिए दस प्रकार की दीक्षा होती है ॥ १५ ॥
अनु०—जो संन्यासी शास्त्रों के अनुसार नियमों का पालन कर रहा है वह दण्ड धारण करे, मौन रहे और प्रमाद (बिना सोचे-विचारे कोई कार्य) न करे ॥१६॥
अनु०--विखनस् के अनुसार नियमों का पालन करने वाले संन्यासी तथा आहार न करने वाले शुद्ध होते हैं अर्थात् उनके पाप नष्ट हो जाते हैं ॥ १७ ॥
वायुभक्षा इत्येतावदेवोच्यमाने वाङमुखादायिवत् द्वयोः कारणताशङ्काऽपि स्यादिति मत्वा निराहाराश्चेत्युक्तम् । मुखेनादायिप्रभृतीनां त्रयाणां संज्ञासिद्धिमपि सन्देहनिवृत्त्यर्थं वृत्तिविवरणमाचार्येण कृतम् । वानप्रस्थसंन्यासभेदः किमर्थमाचार्यकृत इति । असावेव द्रष्टव्यः । यद्वा—उक्तव्यतिरिक्तवृत्तिनिषेधार्थम् ॥ १४-१७ ॥
एवं भेदेषूक्तेष्विदानी सर्वेषां संहत्याऽऽह—
शास्त्रपरिग्रहस्सर्वेषां ब्रह्मवैखानसानाम् ॥ १८ ॥
अनु०—सभी ब्राह्मण वैखानसों के लिए (या ब्रह्मवैखानसों के लिए) शास्त्र के अनुसार निम्नलिखित नियम होते हैं ॥ १८ ॥
वक्ष्यत इति शेषः । ब्रह्मणा दृष्टाः वैखानसाः ब्रह्मवैखानसाः । यद्वा—ब्राह्मणास्सन्त इति ॥ १८ ॥
तत्र प्रथमं तावत्—
न द्रुह्येद् दंशमशकान् हिमवान् तापसो भवेत् ।
वनप्रतिष्ठस्सन्तुष्टश्चीरचर्मजलप्रियः ॥ १९ ॥
अनु०—दंश और मच्छर जैसे क्षुद्र प्राणियों को भी हानि न पहुँचाये शीत सहन करने की क्षमता रखे । तपस्या में लगा रहे । वन में निवास करे । सन्तुष्ट रहे । वृक्षों की छाल तथा चर्म को ही वस्त्र के रूप में धारण करने में रुचि रखे॥१९॥
दंशादिकानामपि हिंसां नाऽऽचरेत् । द्रुहः जिघांसायां वर्तते । हिमवान् शीतसहिष्णुः । तद्ग्रहणं घर्मस्याऽप्युपलक्षणार्थम् । आह च—
| ३२० | बौधायन-धर्मसूत्रम् | [ वानप्रस्थधर्माः |
|---|
ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ इति ॥
वनप्रतिष्ठः ग्रामप्रवेशवर्जः । सन्तुष्टो वितृष्णः । चीरचर्मप्रियः तद्वसनः ।
जलप्रियः कमण्डलुधारी । ऋज्वन्वयद् ॥ १९ ॥
अतिथीन् पूजयेत्पूर्वं काले त्वाश्रममागतान् ।
देवविप्राग्निहोत्रे च युक्तस्तपसि तापसः ॥ २० ॥
**अनु०—**तपस्वी पहले भोजन काल में आश्रम में आये हुए अतिथियों का सत्कार करे। देव, विप्र की पूजा में तथा अग्निहोत्र कर्म एवं तपस्या में लगा रहे ॥ २० ॥
युक्तशब्दः काकाक्षिनिरीक्षणवत् उभयत्र सम्बध्यते देवविप्रपूजायामग्निहोत्रे तपसि च युक्तः स्यादित्यर्थः ॥ २० ॥
कृच्छ्रां वृत्तिमसंहार्थां सामान्यां मृगपक्षिभिः ।
तदहर्जनसम्भारं कषायकटुकाश्रयाम् ॥ २१ । ।
परिगृह्य शुभां वृत्तिमेतां दुर्जनवर्जिताम् ।
वनवासमुपाश्रित्य ब्राह्मणो नाऽऽवसीदति ॥ २२ ॥
**अनु०—**जो कठिन और दुर्भर है तथा पशु-पक्षियों की ऐसी जीवनवृत्ति के समान है, जिस वृत्ति में केवल एक दिन के लिए वस्तुओं का संचय किया जाता है, और कषाय तथा कटु रस वाली वस्तुओं का ही भक्षण किया जाता है, जो दुर्जनों के संग से दूर रखने वाली कल्याण देने वाली उत्तम वृत्ति है उसे स्वीकार कर वनवास करने वाला ब्राह्मण कभी दुःख नहीं पाता है ॥ २१–२२ ॥
कृच्छ्रां दुःखाम् । असंहार्थां दुर्भराम् । मृगपक्षिसाहश्यान्मव्यापदम् तदहर्जीविका जना वैखानसाः । तत्सम्भारास्सम्भार्था आर्जनीयाः वैखानससकाशादेवाऽश्वस्तनिकधनमार्जयेदित्यर्थः । तदहर्जनसम्भारेति 'सुपां सुपा' इति समासः । कषायं चित्तमलम् । कटुकं वाचिकं मलं अप्रियभाषणम् ; न तदाश्रयः विपरीतलक्षणेपा । एषैव शुभा दुर्जनवर्जिता च वृत्तिः । दुर्जनाः नास्तिकाः ॥ २१, २२ ॥
मृगैस्सह परिस्पन्दः संवासस्तेभिरेव च ।
तैरेव सदृशी वृत्तिः प्रत्यक्षं स्वर्गलक्षणम् ॥
प्रत्यक्षं स्वर्गलक्षणमिति ॥ २३ ॥
इति तृतीयप्रश्ने तृतीयः खण्डः ॥
चतुर्थः खण्डः ] तृतीयप्रश्ने चतुर्थोऽध्यायः ३२१
चतुर्थः खण्डः ] तृतीयप्रश्ने चतुर्थोऽध्यायः ३२१
अनु०—पशुओं के साथ विचरण करना, उन्हीं के साथ निवास करना, उन्हीं के समान जीवन वृत्ति का आश्रय लेना स्वर्ग का प्रत्यक्ष लक्षण होता है ॥ २३ ॥
फलार्थवादोऽयम् ॥
इति तृतीयप्रश्ने तृतीयः खण्डः तृतीयोऽध्यायश्च ।
तृतीयप्रश्ने चतुर्थोऽध्यायः
चतुर्थः खण्डः
उक्तं च ब्रह्मचर्यम् —
अथ यदि ब्रह्मचार्यव्रत्यमिव चरेत् ॥ १ ॥
अनु०—यदि ब्रह्मचारी अपने व्रत के विरुद्ध कोई कार्य करता है तो उसके संबन्ध में नियम यहाँ बताया जायगा ॥ १ ॥
व्रतं नियमस्तस्मै हितं व्रत्यं तदभावोऽव्रत्यम् । ब्रह्मचारिग्रहणं प्रदर्शनार्थम् । यस्य यस्मिन् काले ब्रह्मचर्यं चोदितमपि गृहस्थस्य भिक्षावर्जमस्याऽऽश्रमिणो वक्ष्यमाणे कर्मण्यधिकारः ॥ १ ॥
किं किं पुनरव्रत्यमित्याह—
मांसमश्नीयात् स्त्रियं वोपेयात् सर्वास्वेवाऽऽर्त्तिषु ॥ २ ॥
अनु०—यदि ब्रह्मचारी मांस भक्षण कर लेता है, स्त्री से संभोग कर लेता है, अथवा सभी प्रकार के व्रत भंग के समय निम्नलिखित कर्म करे ॥ २ ॥
अव्रत्यानि परिभाषायां प्रपञ्चितानि—'अथोपनीतस्याऽव्रत्यानि भवन्ति नाऽन्यस्योच्छिष्टं भुञ्जीत' इत्यादि । अत्र तेषां दिङ्मात्रं प्रदर्शितम् । तत्र हि पुनरुपनयनं नैमित्तिकत्वेन विहितम् । इह तु होमः । अनयोश्शक्तिबुद्धिपूर्वव्यपेक्षया विकल्पसमुच्चयौ द्रष्टव्यौ । सर्वास्वेवार्तिषु प्रदेशेषु ॥ २ ॥
अन्तराजगारेऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात् कृत्वाऽथाज्याहुतीरुपजुहोति ॥ ३ ॥
अनु०—घर के भीतर अग्नि के ऊपर समिध् रखकर उसका उपसमाधान करे; उसके चारो ओर कुश घास फैलावे, अग्निमुख तक की (दर्विहोमिक) क्रियाओं को कर घृत की आहुतियां इन मन्त्रों के साथ करे ॥ ३ ॥
२४ बौ० ध०