भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १६ ऽगाधरुधिरविक्षरणस्रष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवच- नानि शनैस्तामाह्वयत् । ( ३६ ) सा ससंभ्रममागत्यामन्दहृदयानन्दसंफुल्लवदनारविन्दा तमु- पोषिताभ्यामिवानिमिषताभ्यां लोचनाभ्यां पिबन्ती त्रिकस्वरेण स्वरेण पुरोहितामात्यजनमुच्चैराहूय तेभ्यस्तमदर्शयत् । ( ४० ) राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैवमा- हात्म्यैरमात्यैरभाणि—'देव, रथ्यचयः सारथ्यपगमे रथं रभसादारण्य- मनयत्' इति ।

मागधो मगधाधिपतिः । अगाधस्य प्रभूतस्य रुधिरस्य शोणितस्य विक्षरणेन विशे- षतोऽपगमेन नष्टा विलुप्ता चेष्टा दैहिकप्रयत्नो यस्य सः । देवीवाक्यं वसुमतीविला- पमेव निश्चिन्वन्ः देव्येवेयं नान्या विलपतीति निश्चयं कुर्वन् । तन्वानो विस्तारयन् । ( ३९ ) ससम्भ्रमं सत्वरम् । अमन्देन प्रचुरेण हृदयानन्देन हर्षेण संफुल्लं स- म्यग् विकसितं वदनारविन्दं मुखकमलं यस्याः सा । तं राजानम् । उपोषिताभ्यां दर्शनार्थमत्युत्कण्ठिताभ्यामिवेति क्रियोत्प्रेक्षा-अत एव अनिमिषिताभ्यां निर्निमेषा- भ्यां लोचनाभ्यां नयनाभ्यां पिबन्ती सादरं विलोकयन्ती । त्रिकस्वरेण अतिस्पष्टेन । तेभ्यः पुरोहितामात्येभ्यः । तं राजानम् । ( ४० ) निटिलतटेन भालस्थलेन चुम्बितं स्पृष्टं निजचरणाम्बुजं स्वपादपद्मं यैस्तैरमात्यैरित्यस्य विशेषणम् । प्रशंसितं स्तुतं दैवस्यादृष्टस्य माहात्म्यं प्रभावो यैस्तैः । अभाणि-शब्दार्थभणधातोः कर्मणि लुङ् । कथित इत्यर्थः । रथं वहन्तीति रथ्या अश्वास्तेषां चयः समूहः । सारथेः सूतस्यापगमे विनाशे सतीति शेषः । रभ- साद् वेगात् । इत्यन्तं अभाणीत्यस्य कर्म ।

पवनके थपेड़ोंसे सञ्चरित होकर वह राजा जो अत्यन्त रक्तके प्रवाहसे निश्चेष्ट हो गया था कुछ-कुछ प्रबुद्ध हो उठा और उसने रोदन-ध्वनिको ज्ञातकर निश्चय कर लिया कि यह ध्वनि मेरी वल्लभा रानीकी है ऐसा समझकर उसने धीमी आवाजसे रानीको सम्बोधित किया । ( ३९ ) राजाकी ध्वनिसे उत्पन्न हुए हर्षसे रानीका मुखकमल प्रफुल्लित हो गया । तत्क्षणही उनको वह व्रतीकी भाँति एकटक देखने लगी । फिर उच्चस्वरसे पुरोहित एवं मन्त्रियोंको बुलाकर उनका दर्शन कराया । ( ४० ) मन्त्रियोंने बद्धाञ्जलि करके राजाको प्रणाम किया तथा परमेश्वरको धन्यवाद देते हुए निवेदन किया—'हे महाराज ! सारथीके निधनपर ज्ञात होता है घोड़ोंने बड़ी तेजीसे रथको लाकर इस सघन वनमें रख दिया ।'

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२० दशकुमारचरितम्। [ पूर्वपीठिकायां

२० दशकुमारचरितम्। [ पूर्वपीठिकायां (४१) 'तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना प्रहितया गदया दयाहीनेन ताड़ितो मूर्च्छामागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्' इति महीपतिरकथयत् । (४२) ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिबिरमानीयापनीताशेषशल्यो विकसितनिजाननारविन्दो राजा सहसा विरोपितव्रणोऽकारि । (४३) विरोधिवैवाधिककृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधि- काधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्यिा मत्या कलितया च समबोधि। (४१) निहतो निःशेषं विनष्टः सैनिकानां योधानां ग्रामः समूहो यस्मिन् तथा- भूते । आराधितः सन्तोषिताः पुरारातिर्महादेवो येन तथाभूतेन । प्रहितया प्रक्षिप्तया । दयया हीनो दयाहीनस्तेन निर्दयेनेत्यर्थः । आगत्य प्राप्य । निशाया रजन्या अन्ततः शेषो निशान्तः प्रभातं तस्य पवनेन तत्सम्बन्धिसमीरणेन बोधितो लब्धसंज्ञोऽभवम् अह्मिति शेषः । (४२) विरचितः कृतो मह उत्सवो येन तथाभूतेन । मन्त्रिनिवहेन अमात्य- संघेन विरचितं सम्पादितं दैवस्यानुकूल्यं साहाय्यं येन तथाभूतेन । कालेनेत्यस्य वि- शेषणम्, शुभमुहूर्ते इति भावः । शिबिरं सेनानिवेशम् । अपनीतानि दूरीकृतानि अशेषाणि सर्वाणि शल्यानि बाणाग्राणि यस्य सः । विकसितं प्रसन्नं निजाननार- विन्दं स्वमुखकमलं यस्य सः । विरोपिता औषधादिना चिकित्सिता व्रणा यस्य सः। (४३) विरोधिना प्रतिकूलेन दैवेन भागधेयेन धिक्कृतस्तिरस्कृतः पुरुषकारः विक्रमो यस्य सः। दैन्येन खेदेन व्याप्त आक्रान्तः आकारः स्वरूपं यस्य सः। अधि- काधिकोऽतिशयेनाधिक आधिर्मनोव्यथा यस्य सः । पुंस्याधिर्मानसी व्यथेत्यमरः । अमात्यानां मन्त्रिणां संमत्याऽनुमोदनक्रमेण। मृदु कोमलं भाषितंवचनं यस्यास्तया । मत्या बुद्ध्या । कलितया युक्तया । समबोधि विज्ञापितः। बुध्धातोः कर्मणि लुङ् । (४१) महाराजने उत्तर देते हुए कहा—'जब संग्राममें सब सैनिक मार डाले गये तब मालवेश मानसारने शिव-प्रसादसे प्राप्त गदा मुझे मारी जिससे मैं मूच्छित हो गया और इस वनके प्रातःकालिक शीतल पवनस्पर्शसे प्रतिबोधित हुआ।' (४२) तत्पश्चात् अमात्योंने अनेक प्रकारके उत्सव मनाये और राजाकी प्राणरक्षाके निमित्त देवाराधन किया। तथा राजाको शिबिरमें लाकर अस्त्रोंके व्रणोंकी औषध की। समुचित उपचारसे राजा शीघ्र ही प्रसन्नमुख-प्रहृष्टवदन—हो गया-शीघ्र अच्छा हो गया। (४३) दैवके प्रतिकूल होनेसे दीनतासे परिव्याप्त एवं खिन्न प्रकृतिवाले तथा विफल पौरुषवाले उन मगधराजकी सेवा मन्त्रिगणोंकी सम्मतिसे तथा निज बुद्धिसे रानी वसुमती करने लगी सान्त्वना देने लगी।

यहाँ पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति प्रस्तुत है:

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१ (४४) 'देव, सकलस्य भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवा- नद्य विन्ध्यवनमध्यं निवसतीति जलबुद्बुदसमाना विराजमाना संपत्तडि- ल्लतेव सहसैवोदेति नश्यति च । तन्निखिलं दैवायत्तमेवावधार्य कार्यम् । (४५) किञ्च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐश्वर्यो- पमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्य- मकुर्वन् । तद्वदेव भवान्भविष्यति । कंचन कालं विरचित दैवसमाधिर्गलि- ताधिस्तिष्ठतु तावत्' इति । (४६) ततः सकलसैन्यसमन्वितो राजहंसस्तपोविभ्राजमानं वाम- देवनामानं तपोधनं निजाभिलाषावाप्तिसाधनं जगाम । (४४) तेजसा प्रतापेन वरिष्ठो महत्तरः । गरिष्ठोऽतिशयेन गुरुः । विन्ध्यव- नमध्यं निवसति राज्यभ्रष्टोऽरण्यमाश्रित्य तिष्ठति । जलस्य सलिलस्य बुद्बुदेन वि- कारेण समाना तुल्या । सम्पत् राज्यलक्ष्मीः । तडिल्लता विद्युत् सेव । सहसा अक- स्मात् । उदेति आविर्भवति । नश्यति अदृश्यतां याति च । तत् तस्मात्कारणात् । दैवायत्तं भाग्याधीनम् । अवधार्य निश्चेतव्यम् । (४५) किं च अपरञ्च । हरिश्चन्द्ररामचन्द्रौ मुख्यौ प्रधाने येषां ते । ऐश्वर्येण सम्पदा उपमितस्तुलितः समीकृत इति यावत् । महेन्द्रो देवराजो यैस्ते । दैवतन्त्रं दैवायत्तम् दैवचालितमिति भावः । दुःखयन्त्रं दुःखचक्रम् । तद्वदेव—यथा हरिश्च- न्द्रादयो राजानः पूर्वं महद्दुःखमनुभूय पश्चात्पुनरपि स्वस्वराज्यादिकं प्राप्नुवन्त- स्तथा । भविष्यति राज्यं प्राप्स्यतीत्यर्थः । विरचितः कृतो दैवसमाधिर्देवाराधनं येन सः । गलितोऽपगत आधिर्मनोव्यथा यस्य सः । तिष्ठतु अपेक्षतामित्यर्थः । (४६) तपसा विशेषेण भ्राजमानं दीप्यमानम् । वामदेव इति नाम यस्य तम् । तप एव धनं यस्य सः तम् । तापसमित्यर्थः । निजस्य स्वस्याभिलाषस्य मनो- रथस्य अवाप्तेः प्राप्तेः साधनं सम्पादकम् । (४४) हे देव ! वर्त्तमान कालमें जितने राजे-महाराजे हैं उनमें आप सर्वश्रेष्ठ हैं । किन्तु, इतने तेजवान् एवं प्रतापी होकर भी दैवगतिसे विन्ध्यारण्यमें पड़े हैं । इससे सिद्ध है कि राज्य-लक्ष्मी जलके बुद्बुदोंके समान बिजलीकी तरह सहसा आ जाती है—अतः शोच वृथा है, सभी बातें दैवायत्त हैं । (४५) हे राजन् ! प्राचीन कालमें महाराज हरिश्चन्द्र, राजा रामचन्द्र, आदि अगणित महीपतियोंने पहले दुःख भोगकर पुनः महेन्द्रके समान सुख भोगा । तद्वत् आप भी दुःख भोगकर सुखी होंगे-धीरज धरें, घबड़ायें नहीं । शान्तिसे देवाराधन करते रहें । (४६) ततः अभीष्टसिद्धिके लिए राजा राजहंस मनोरथपूर्णकर्त्ता, तपी एवं तेजोबलवाले प्रख्यात वामदेव मुनिके समीप गया ।

२२ दशकुमारचरितम् । [ पूर्वपीठिकायां

२२ दशकुमारचरितम् । [ पूर्वपीठिकायां

(४७) तं प्रणम्य तेन कृतातिथ्यस्तस्मै कथितकथ्यस्तदाश्रमे दूरीकृ- तश्रमे कंचन कालमुषित्वा निजराज्याभिलाषी मितभाषी सोमकुलावतंसो राजहंसो मुनिमभाषत-'भगवन्, मानसारः प्रबलेन दैवबलेन मां निर्जि- त्य मद्भोग्यं राज्यमनुभवति। तद्वदहमप्युग्रं तपो विरच्य तमरातिमुन्मूलयि- ष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं भवन्तं प्राप्तनवम्'इति। (४८) ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत्— 'सखे ! शरीरका- र्श्यकारिणा तपसा लम्। वसुमतीगर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो नूनं संभविष्यति, कञ्चन कालं तूष्णीमास्स्व इति।

(४७) तेन वामदेवेन। कृतं विहितमातिथ्यं अतिथिसत्कारादि यस्य सः तस्मै वामदेवाय। कथितमुक्तंकथ्यं वक्तव्यं येन सः। दूरीकृतोऽपाकृतः श्रम आयासो येन यत्र वा तस्मिन्। सोमकुलावतंसः चन्द्रवंशभूषणम्। मानसारस्तदाख्यो माल- वराजः। तद्वदिति-तेन मानसारेण यथा तपसा शिवं सन्तोष्य तस्माद्वरः समासा- दितस्तथाऽहमपि। उग्रं तीव्रमूत्कटम्। विरच्य कृत्वा। लोकानां जनानां शरणे रक्षणे साधुना। भवतस्तव कारुण्येन करुणया। इति-इति हेतोः। नियमवन्तं संय- मिनम्। (४८) त्रिकालज्ञः भूतभविष्यद्वर्तमानकालवित्। शरीरस्य देहस्य कार्श्यं क्षीण- तां करोतीति तेन। अलं प्रयोजनं नास्ति। वसुमतीगर्भस्थः-महिषीगर्भस्थितः। सकलं निखिलं रिपुकुलं शत्रु मण्डलं मर्दयति हिनस्तीति तथाभूतः। नूनं निश्चितं सम्भविष्यति-उत्पत्स्यते। तूष्णीमास्स्व जोपं तिष्ठ, युद्धादिकं मा कार्षीरित्यर्थः।

(४७) वामदेवाश्रममें जाकर चन्द्रकुलालंकार राजा राजहंसने मुनिको प्रणाम करके आतिथ्य-सत्कार को स्वीकार किया। उनके सत्संगसे परिश्रमादि व्यथाको कुछ काल वहाँ रहकर निवृत्त किया। ततः स्वराज्यअभिलाषी मितभाषी उस राजाने एक दिन उन मुनिसे कहा-'हे महाराज ! मालवेश मानसार ने दैवकी प्रबल शक्तिसे मेरे राज्यको ले लिया अर्थात्- मुझे पराजितकर वह स्वयं मेरे राज्यको भोग रहा है। मैं चाहता हूँ कि मैं भी प्रवल तप करके दैवबलसे यह मानसारका उन्मूलन कर दूँ। अतः हे दीन वत्सल ! आप मुझे कृपया, तप विधि बता दें-जिससे मैं कृतकृत्य होऊँ। इसीकी विधि जाननेके हेतु आपतक आया हूँ।' (४८) यह श्रवणकर त्रिकालज्ञ तपोधन वामदेवने राजासे कहा- 'शरीरको क्लेश- कारिणी तपस्या न करो। रानी वसुमतीके गर्भसे जो पुत्र होगा वह सम्पूर्ण शत्रुओंको नष्ट करनेवाला है। इससे कुछ दिनों शान्ति रखो।' Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २३ ( ४६ ) गगनचारिण्यापि वाण्या 'सत्यमेतत्' इति तदेवावाचि । राजा- पि मुनिवाक्यमङ्गीकृत्यातिष्ठत् । ( ५० ) ततः सम्पूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुतमसूत । ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जातसंस्कारेण बालालंकारेण च विराज्मानं राजवाहन- नामानं व्यधत्त । (५१) तस्मिन्नेव काले सुमतिसुमित्रसुमन्त्रसुश्रुतानां मन्त्रिणां प्रमति- मित्रगुप्तमन्त्रगुप्तविश्रुताख्या महाभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त । राजवाहनो मन्त्रिपुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत । ( ४९ ) गगनचारिण्या-अशरीरिण्या । अङ्गीकृत्य स्वीकृत्य । ( ५० ) सम्पूर्णाः परिपूर्णा गर्भदिवसाः नवदिनाधिकनवमासाः यस्याः सा । सुमुहूर्ते शुभलग्ने । सकलैरशेषैर्लक्षणैः सौभाग्यचिह्नैर्लक्षितं युक्तम् । ब्रह्मणो वर्च इति 'ब्रह्महस्तिभ्यां वर्चस' इत्यच् । तेन ब्रह्मतेजसा तुलित उपमितो वेधा ब्रह्मा येन तम् । ब्रह्मतेजसा ब्रह्मसदृशम् । पुरस्कृत्य अग्रे कृत्वा । पुरोधसं पुरोहितम् । कृत्यवित् समयोचितकार्यज्ञः । सुकुमारं सुन्दरदर्शनम् । जातसंस्कारेण जातकर्म- नाम्ना संस्कारविशेषेण । बालालंकारेण बालकोचितभूषणेन । विराज्मानं विशेषतः शोभमानम् । राजवाहन इति नाम यस्य तम् । व्यधत्त चकार । ( ५१ ) तस्मिन्नेव काले-यदा राजवाहनस्य जन्माभवत् तदैव । महती सम- धिका अभिख्या शोभा येषां ते । अभिख्या नामशोभयोरित्यमरः । महदभिख्या इति पाठान्तरन्तु चिन्त्यम् । नवो नूतनः प्रातिपदिक इति यावत्-उद्यन् उदयमानो य इन्दुश्चन्द्रस्तस्य रुचिव रुक् कान्तिर्येषां ते । चिरायुषो दीर्घजीविनः । आत्मनः स्वस्य मित्रैः सुहृद्भिः । बालकेलीः शैशवोचितक्रीडाः । ( ४९ ) इसी क्षण आकाश-वाणीने भी 'यह बात सत्य है' ऐसा कहकर मुनिकी बातका समर्थन किया । राजा भी मुनिवाक्यपर सन्तुष्ट होकर वहीं रहने लगा । ( ५० ) उसके पश्चात् गर्भके दिन पूरे होनेपर रानी वसुमतीने शुभ मुहूर्त्तमें सभी शुचि- शुभ लक्षणोंसे विभूषित पुत्रको उत्पन्न किया । तब ब्रह्मदेवके समान परम तेजस्वी पुरोहित की आज्ञानुसार उस कृत्यवेत्ता महीपालने उस सुकुमार राजकुमारका जन्मसंस्कार आदि (बालकोंके योग्य पहननेवाले अलंकारोंसे अलंकृत) यथाविधि कराकर राजवाहन नाम धरा । ( ५१ ) इसी समय सुमति, सुमन्त्र, सुमित्रा और सुश्रुत चारों अमात्योंको भी क्रमसे प्रमति मित्रगुप्त, मन्त्रगुप्त और विश्रुत नामक बड़े सुन्दर चार पुत्र नूननोदित चन्द्रकी तरह दीर्घजीवी उत्पन्न हुए। कुमार राजवाहन मन्त्रि-पुत्रोंसे बालक्रीड़ा करते हुए वृद्धि प्राप्त करते हुए रहने लगा।

२४ दशकुमारचरितम् । [ पूर्वपीठिकायां

२४ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ५२ ) अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कश्चि- न्नयनानन्दकरं सुकुमारं कुमारं राज्ञे समर्प्यावाचि—भूवल्लभ, कुशसमिदा- नयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्पण्याश्रु मुञ्चन्ती वनिता विलोकिता । ( ५३ ) निर्जने वने किंनिमित्तं रुद्यते त्वया इति पृष्टा सा करसरोरुहैरश्रु प्रमृज्य सगद्गदं मामवोचत्—मुने, लावण्यजितपुष्पसायके मिथिलानायके कीर्तिव्याप्तसुधर्माणि निजसुहृदो मगधराजस्य सीमन्तिनीसीमन्तमहोत्स- वाय पुत्रदारसमन्विते पुष्पपुरमुपेत्य कञ्चन कालमधिवसति समाराधित- गिरीशो मालवाधीशो मगधराजं योद्धुमभ्यगात् । ( ५२ ) तापसेन मुनिना । रसेन अनुरागेण, राजहंसं प्रति प्रीत्येत्यर्थः । राज्ञो नृपस्य लक्षणैश्चिह्नैर्र्विराजितं शोभितम् । करतलादौ राजचिह्नचक्रच्छत्रादियुक्तमि- त्यर्थः । नयनानन्दकरं लोचनानन्ददायिनम् । राज्ञे राजहंसाय । अशरण्या नास्ति शरण्यं रक्षिता यस्याः सा । रक्षकहीनेत्यर्थः । व्यक्तं प्रकटितं कार्पण्यं दैन्यं यया सा । अश्रु नेत्रजलम् । मुञ्चन्ती त्यजन्ती, रोद्यमानेति शेषः । ( ५३ ) करपरोरुहैः करकमलैः । अत्र सौन्दर्यातिशय महिम्ना गौरवाद्वहुवचनं बोद्धव्यम् । प्रमृज्य दूरीकृत्य । सगद्गदं गद्गदस्वरेणेत्यर्थः । लावण्येन कान्त्या जितः पराजितः पुष्पसायकः कामो येन तस्मिन् । मिथिलानायके मिथिलाधिपतौ । कीर्त्या यशसा व्याप्ता परिपूरिता सुधर्मा देवसभा येन तस्मिन् । स्यात्सुधर्मा देवसभेत्यमरः । सीमन्तिन्या महिष्याः सीमन्तमहोत्सवाय सीमन्तोन्नयनाख्यगर्भसंस्कार रूपमुत्सवं द्रष्टुम् । पुत्राश्च दाराश्चेति पुत्रदारास्तैः समन्विते युक्ते । अधिवसति वासं कुर्वति सति । समाराधितः सेवितो गिरीशो महेश्वरो येन सः । ( ५२ ) एक समय कोई एक तपस्वी, राजाओंके सुलक्षणोंसे लक्षित तथा नयनाभिराम एक सुन्दर एवं सुकुमार बालक को, बड़े प्रेमके साथ राजाको समर्पित करके कहने लगा;—'हे पृथ्वीके पति ! महाराज !! कुश और समिधाकी प्राप्तिके निमित्त मैं अरण्यमें गया था । वहाँ पर एक अनाथ तथा असहाय एवं दीना, आँखोंसे अश्रु बहाती हुई रमणीको मैंने देखा और पूछा कि इस एकान्त निर्जन वनमें तुम क्यों रो रही हो ? उसने अपने करकमलसे आंसुओंको पोंछकर गद्गद स्वरमें मुझसे कहा— ( ५३ ) हे मुने ! अपने शरीरांगोंकी लावण्यतासे कामको जीतनेवाला मिथिलेश प्रहार वर्मा जिसकी कीर्तिलता देवोंकी सभामें भी फैली है, अपने मित्र मगधराजकी सीमन्तिनीके सीमन्तोत्सवमें सम्मिलित होने के लिए स्त्री-पुत्रोंके साथ आया और पुष्पपुरीमें आकर ठहरा । उसी समय शिवाराधनसे दैवशक्ति प्राप्त कर मालवेश युद्धके लिये वहाँपर आया ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २५ ( ५४ ) तत्र प्रख्यातयोरेतयोरसंख्ये संख्ये वर्तमाने सुहृत्साहाय्यकं कुर्वाणो निजबले सति विदेहे विदेहेश्वरः प्रहारवर्मा जयवता रिपुणाभि- गृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शूनयेन सैन्येन सह स्वपुर- गमनमकरोत् । ( ५५ ) ततो वनमार्गेण दुर्गेण गच्छन्नधिकबलेन शबरबलेन रभसा- दभिहन्यमानो मूलबलाभिरक्षितावरोधः स महानिरोधः पलायिष्ट । तदी- यार्भकयोर्यमयोर्धात्रीभावेन परिकल्पिताहं मद्दुहितापि तीव्रगतिं भूपति- मनुगन्तुमक्षमे अभूव । तत्र विवृतवदनः कोऽपि रूपी कोप इव व्याघ्रः ( ५४ ) प्रख्यातयोः वीरत्वेन प्रसिद्धयोः । संख्ये युद्धे । सुहृदः । स्वमित्रस्य राजहंसस्येति शेषः । साहाय्यकं साहाय्यमेवेति स्वार्थे कः । निजबले स्वसैन्ये । विगता विनष्टो देहः शरीरं यस्य तस्मिन् । निहते सतीति शेषः । विदेहेश्वरो मिथि- लाधिपः । जयवता विजयिना । अभिगृह्याक्रम्य । कारुण्येन करुणया । पुण्येन स्वभागधेयमाहात्म्येन । विसृष्टस्तेन मालवाधीशेन परित्यक्तः । शूनयेन हताशेन शस्त्रादिरहितेन वा । ( ५५ ) दुर्गेण दुर्गमेण । अधिकं प्रभूतं बलं सामर्थ्यं यस्य तेन । शबरबलेन शबरसैन्येन । रभसाद् वेगात् । मूलबलेन प्रधानसैन्येन अभिरक्षितः सुरक्षितोऽव- रोधः शुद्धान्तः स्त्रीवर्ग इति शेषः येन सः । स प्रहारवर्मा । महान् समधिको निरोधः स्वावरोधः स्वसैन्यैः स्वपरिवेष्टनं यस्य सः । तदीयार्भकयोः तत्पुत्रयोः । यमयोर्युग्म- जातयोः । धात्रीभावेन उपमातृरूपेण । तीव्राऽतिवेगवती गतिर्यस्य तम् । अनुगन्तु- मनुसर्तुम् । अक्षमे असमर्थे । तत्रारण्ये । विवृतं विस्तारितं वदनं मुखं येन सः । रूपी ( ५४ ) उस समय उन दोनों वीरोंका खूब युद्ध होने लगा । मित्रका सहायता करते हुए मिथिलेश प्रहारवर्माकी सेना भी नष्ट हो गयी और वह मालवेश मानसार द्वारा पकड़ लिया गया । तत्पश्चात् मानसारने दयादृष्टिसे अथवा मिथिलेशके पुण्यके बलसे उसे (मिथिलेशको) बन्धनमुक्त कर दिया । मिथिलेश भी छूटकर अपनी बची-खुची दुखी सेनाके साथ अपने नगरकी ओर चल दिया । ( ५५ ) जब मिथिलेश पराजित होकर उद्विग्न मन होकर अति विपुल एवं सघन वनके रास्ते होकर अपने देशको जा रहा था तब मार्गमें उसे प्रबल भीलसेनाका सामना करना पड़ा । परन्तु प्रधान सैन्यबलकी रक्षामें अन्तःपुरकी स्त्रियोंके साथ रक्षित होकर सब लोग प्राणत्राणके लिए वहाँसे भाग गये । प्रहारवर्माके जुड़वाँ लड़कोंकी धात्री मैं तथा मेरी कन्या दोनों तीव्र गतिसे राजाके साथ दौड़नेमें असमर्थ होकर पीछे रह गयीं । उसी समय भक्त

२६ दशकुमारचरितम् । [ पूर्वपीठिकायां

२६ दशकुमारचरितम् । [ पूर्वपीठिकायां शीघ्रं मामाघ्रातुमागतवान् । भीताहमुद्ग्रग्राव्णि स्खलन्ती पर्यपतम् । मदीयपाणिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत । ( ५६ ) तच्छवाकर्षिणोऽमर्षिणो व्याघ्रस्य प्राणान्बाणो बाणासनय- न्त्रमुक्तोऽपाहरत् । लोलालको बालकोऽपि शबरैरादाय कुत्रचिदुपानीयत् । कुमारमपरमुद्वहन्ती मद्दुहिता कुत्र गता न जाने । साहं मोहं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरोपितव्रणाभवम् । ततः स्वस्थीभूय भूयः क्ष्माभर्तुरन्तिकमुपतिष्ठासुरसहायतया दुहितुरनभिज्ञात- तया च व्याकुलीभवामि' इत्यभिदधाना 'एकाकिन्यपि स्वामिनं गमि- ष्यामि' इति सा तदैव निरगात् । ', मूर्तिमान् । आघ्रातुं हन्तुम् । उद्ग्रग्राव्णि उन्नतप्रस्तरे । मदीयपाणिभ्रष्टो मम हस्तच्यु- तः । कपिलाया धेनोः शवस्य मृतदेहस्य । क्रोडमङ्कम् । अभ्यलीयत प्रच्छन्नोऽभवत् । ( ५६ ) अमर्षिणः क्रुद्धस्य । बाणः शरः । बाणासनयन्त्रं धनुस्तस्मान्मुक्तः प्रक्षिप्तः । विलोलाश्चञ्चला अलकाश्चूर्णकुन्तला यस्य सः । आदाय गृहीत्वा । कुत्र- चिदज्ञातस्थाने । अपरमन्यं यमजयोर्मध्ये एकं तद्दुहितुरङ्कस्थमित्यर्थः । उद्वहन्ती धारयन्ती । कृपालुना दयावता । वृष्णिपालेन मेषपालेन* । आवेश्य प्रवेश्य । विरोपित औषधादिना चिकित्सितो व्रणो यस्याः सा । स्वस्थीभूय सुस्था भूत्वा अहमिति शेषः । भूयः पुनरपि । क्ष्माभर्तुः भूपतेः प्रहारवर्मणः । अन्तिकं समीपम् । उपतिष्ठासुः प्रयातुमिच्छुः । असहायतया सहायाभावात् । अनभिज्ञतया निरुद्दिष्ट- तया । अभिदधाना कथयन्ती । णाधे मुखविवरको फैलाये हुए साक्षात् क्रोधकी मूर्तिके सदृश कोई व्याघ्र हमारी ओर हम दोनोंको खानेको दौड़ा। उससे भयभीत होकर मैं ऊबड़-खाबड़ जमीनपर गिर पड़ी तथा मेरे हाथसे छूटकर बालक एक मृत कपिला गौकी गोदमें गिर पड़ा और वहीं छिप गया। ( ५६ ) वह व्याघ्र ज्यों ही उस कपिला गौको खींचनेके लिए झपटा त्यों ही किसी व्याधके हाथसे छोड़े गये बाणसे वह व्याघ्र मार डाला गया और उस चञ्चल केश-कलाप- वाले बालकको कोई एक शबर लेकर वहाँसे न मालूम कहाँ भाग गया। दूसरे बालकको लेकर मेरी पुत्री भी कहाँ चली गयी यह भी मुझसे अज्ञात है। मैं गिरनेसे मूर्च्छित हो गयी थी अतः एक दयालु ग्वालेने मुझे अपने घर ले जाकर मेरे घावोंकी मरहम पट्टी की तथा मुझे चङ्गा किया। अब मैं स्वस्थ होकर अपने महाराजके समीप जाना चाहती हूँ। किन्तु मैं एकाकिनी हूँ एवं पुत्रीके लोप होनेपर और दुखी हूँ तथा रो रही हूँ। अस्तु जैसा भी हो मैं महाराजके पास अवश्य जाऊँगी। ऐसा कहती हुई वह वहाँसे चली गयी।

  • गोपालेन ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २७ ( ५७ ) अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विषाद- मनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं सुन्दरं प्रागाम् । ( ५८ ) तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं करिष्यन्तः किराताः 'महीरुहशाखावलम्बितमेनमसिलतया वा, सैकततले खनननि- क्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वा, अनेकचरणैः पलायमानं कुक्कु- रबालकैर्वा दंशयित्वा संहनिष्यामः' इति भाषमाणा मया समभ्यभाष्यन्त 'ननु किरातोत्तमाः, घोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम पुत्रकं कचिच्छायायां निक्षिप्य मार्गान्वेषणाय किञ्चिदन्तरमगच्छम् । ( ५७ ) अहमपि वक्ता तापसोऽपि । विपत् निमित्तं यस्य तम्, विपत्तिसंजनि- तम् । तस्य विदेहराजस्यान्वयस्य वंशस्याङ्कुरं प्ररोहम् । तदा तस्मिन् समये । ( ५८ ) तत्र चण्डिकामन्दिरे । एवंविधविजयसिद्धये-यथा साम्प्रतं विदेहराजं वय विजितवन्तः एवमेव सर्वदास्माकं विजयो भूयादिति चण्डिकाप्रसादलाभाय । देवतोपहारं बलिम् । महीरुहस्य वृक्षस्य शाखायामवलम्बितं बद्धम् । असिलतया खड्गेन । सैकततले वालुकामयप्रदेशे । खनने गर्ते निक्षिप्तौ कीलितौ चरणौ यस्य तम् । लक्षीकृत्य उद्दिश्य । शितशरनिकरेण तीक्ष्णबाणसमूहेन । अनेकचरणैः क्षिप्र- चरणैः वेगेन धावद्भिरित्यर्थः । कुक्कुरवालकैरित्यस्य विशेषणम् । इति भाषमाणाः एवं कथयन्तः । समभ्यभाष्यन्त उक्ताः ① घोरो भयङ्करः प्रचारः सञ्चारो यत्र तस्मिन् । कान्तारे दुर्गममार्गे । स्खलितो भ्रष्टः पन्था यस्य सः । मार्गभ्रष्ट इत्यर्थः । भूसुरो ब्राह्मणः निक्षिप्य संस्थाप्य । अन्तरं दूरम् । ( ५७ ) तत्पश्चात् मैं भी अपने मित्र विदेहेशकी विपत्तिपर विषादयुक्त होकर उनके वंशबीजांकुरकी खोजमें आगे चल पड़ा और जाते-जाते एक चण्डीमन्दिरमें पहुँचा । ( ५८ ) उस मन्दिरमें जाकर देखा कि वहाँ बहुतसे किरात-भील एकत्र खड़े हैं और उस बालकको विजयोपलक्षके निमित्त देवीको बली चढ़ाना चाहते हैं। वे कहते थे कि, 'इसे या तो वृक्षमें लटकाकर तलवारसे मार दो अथवा बालू में उसके दोनों पैर गाड़ दो और इसको तेज तीरोंसे वेध दो । वा कुत्तोंके पिल्ले इसके पीछे छोड़ दो जिसमें वे सब इसका माँस नोंच खायें आदि-आदि ।' उनको ऐसा कहते हुए सुनकर मैंने कहा-हे किरातवरों ! मैं वृद्ध ब्राह्मण हूँ तथा इस गहन वनमें मार्गभ्रष्ट हो रहा हूं। मेरा एक पुत्र था जिसे मैंने एक पेड़की छाया में सुला दिया था और स्वयं मार्ग खोजने कुछ दूर गया था।

२८ दशकुमारचरितम् । [ पूर्वपीठिकायां

२८ दशकुमारचरितम् । [ पूर्वपीठिकायां ( ५९ ) स कुत्र गतः, केन वा गृहीतः, परीच्यापि न वीक्ष्यते तन्मु- खावलोकनेन विनानेकान्यहान्यतीतानि । किं करोमि, क्व यामि, भवद्भिर्न किमदर्शि' इति । ( ६० ) 'द्विजोत्तम, कश्चिदत्र तिष्ठति । किमेष तव नन्दनः सत्यमेव । तदेनं गृहाण' इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् । ( ६१ ) तेभ्यो दत्ताशीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारे- णाश्वास्य निःशङ्कं भवदङ्कं समानीतवानस्मि । एनमायुष्मन्तं पितृरूपो भवानभिरक्षतात्' इति । ( ६२ ) राजा हृदापन्निमित्तं शोकं तन्नन्दनवलोकनसुखेन किञ्चि- दधरीकृत्य तमुपहारवर्मनाम्नाहूय राजवाहनमिष पुपोष । ( ५९ ) स मत्पुत्रकः । परीक्ष्य अन्विष्य । अहानि दिनानि । अतीतानि गतानि । अदर्शि दृष्टः । ( ६० ) कश्चित् एको बालकः । नन्दनः सुतः । दैवानुकूल्येन देवानुग्रहेण । व्यतरन् दत्तवन्तः । ( ६१ ) तेभ्यः किरातेभ्यः । दत्ता अर्पिता आशिषो येन सः । अङ्गीकृत्य गृहीत्वा । शिशिरोदकादिना शीतलजलादिरूपेण शुश्रूषणेन । आश्वास्य स्वस्थं कृत्वा भवदङ्कं भवत्समीपम् । पितृरूपः पितृतुल्यः । अभिरक्षतात् रक्षतु । तुह्योस्तातङ्ङाशिष्य- न्यतरस्याम् इति तातङ् । ( ६२ ) राजा राजहंसः । सुहृदो मित्रस्य प्रहारवर्मणः आपद् विपद् निमित्तंकारणं यस्य तम् । तस्य मित्रस्य नन्दनस्य सुतस्य विलोकनाद् दर्शनाद् यत्सुखं तेन । अधरी- कृत्य स्वल्पीकृत्य । उपहारवर्मनाम्ना । आहूय आकार्य । राजवाहनमिव स्वतनयवत् । ( ५९ ) किन्तु, लौटने पर मैंने उसे वहां न पाया । नहीं ज्ञात हुआ कि वह कहाँ गया, उसे कौन जानवर ले गया । अन्वेषण करनेपर भी उसे नहीं पाया उसका मुख देखे विना कई दिन व्यतीत हो गये । क्या करूँ ? आपलोगों ने उसे देखा है ? ( ६० ) हे विप्र ? एक बालक यहाँ है । क्या सत्य ही आपका पुत्र है ? लीजिए इसे आप ले जाइये । ऐसा कहते हुए उन्होंने इस बालकको मुझे दैवानुकूल होनेसे दे दिया । ( ६१ ) मैंने उन लोगोंको आशीर्वाद दिया तथा शीतल जलोपचारसे इस बालकको निःशंक कराकर आपके अंकमें ला रहा हूं । इस आयुष्मान बालकके आप पितातुल्य हैं । अतः इसकी आप रक्षा करें । ( ६२ ) यह श्रवणकर राजाने सुहृदके विपत्ति जनित दुःखोंको उस बालकके मुखदर्शन से थोड़ा-थोड़ा दूर किया और उसका नाम उपहारवर्मा रखकर राजवाहनकी तरह उसका भी लालन-पालन करना प्रारम्भ किया ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । २६ ( ६३ ) जनपतिरेकस्मिन्पुण्यदिवसे तीर्थस्नानाय पक्कणनिकटमार्गेण गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कंचिदवलोक्य कुतू- हलाकुलस्तामपृच्छत्—'भामिनि ! रुचिरमूर्तिः सराजगुणसंपूर्तिरसाव- र्भको भवदन्वयसंभवो न भवति कस्य नयनानन्दनः, निमित्तेन केन भव- दधीनो जातः, कथ्यतां यथातथ्येन त्वया' इति । ( ६४ ) प्रणतया तया शबर्या सलीलमलापि—'राजन् ! आत्मपल्लीस- मीपे पदव्यां वर्तमानस्य शक्रसमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति शबरसैन्ये मद्द‌यितेनापहृत्य कुमार एष मह्यमर्पितो व्यवर्धत' इति । ( ६५ ) तदवधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राजकुमारमेव ( ६३ ) जनपतिः राजा । पुण्यदिवसे पुण्यतिथौ पर्वणि वा । तीर्थस्नानाय तीर्थे स्नानं कर्तुम् । पक्कणस्य शबकालयस्य निकटमार्गेण सन्निहिताध्वना । अबलया स्त्रिया । उपलालितं वात्सल्याेन धृतम् । अनुपमं अतुलनीयं शरीरं देहो यस्य तम् । कुतूहलेन कौतुकेन आकुलो व्याप्तः । भामिनि हे कामिनि ! सम्बोधनमेतत् । रुचिरा मनोरमा मूर्तिः स्वरूपं यस्य सः । राजगुणानां नृपलक्षणानां संपूत्र्या_परिपूर्णतया सह वर्त्ततेऽसाविति । अर्भको बालः । भवत्यास्तवत्वन्वये वंशे सम्भव उत्पत्तिर्यस्य सः । नयनानन्दनो नेत्रप्रीतिदः पुत्र इति भावः । निमित्तेन कारणेन । भवदधीन- स्त्वदायत्तः । याथातथ्येन तत्त्वतः । ( ६४ ) प्रणतया कृतनमस्कारया । सलीलं सस्मितम् अलापि अभाषि । पदव्यां मार्गे । शक्रसमानस्य इन्द्रतुल्यस्य । सर्वस्वं सर्वधनम् । मद्दयितेन मम भर्त्रा । व्यवर्धत वृद्धिं गतः । ( ६५ ) अवधार्य विज्ञाय । कार्यज्ञः कृत्यवित् । सामदानाभ्यां साम्ना सान्त्व- ( ६३ ) एकदा किसी पुण्य कालके दिन मगधेश तीर्थस्नानके लिए जा रहे थे। रास्तेमें शबरोंके गांवमें एक वनिताको एक सुन्दर बालकको लालन करते हुए एवं किसी-दूसरेको दिखलाते हुए देखा । राजाने उस वनितासे आश्चर्यचकित होकर कुतूहलते पूछा-'हे भामिनि इतना सुन्दर और सम्पूर्ण राजलक्षणोंसे युक्त यह सुन्दर मूर्तिवाला बालक किसका है। तुम्हारे वंशमें तो ऐसे सुन्दर बालककी उत्पत्ति असम्भव है। अतः सत्य कहो यह किसके नेत्रोंकी पुतली है। कैसे तुम्हारे पास यहां आया ? ( ६४ ) वह भीलिनी प्रणामकर कहने लगी—'हे देव ! जब शबरोंकी सेनाने इस ग्रामसे जाते हुए मिथिलेशका सर्वस्व अपहरण कर लिया था । तब मेरे पतिने हरण करके इस बालकको मुझे दिया था । तबसे मैं इसका पालन कर रही हूं।' ( ६५ ) उस भीलिनी द्वारा इस बालकका वृत्त ज्ञातकर तथा भलीभांति जानकर

३० दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

३० दशकुमारचरितम् । [ पूर्वपीठिकायां निश्चित्य सामदानाभ्यां तामनुनीयापहारवर्मेत्याख्याय देव्यै 'वर्धय' इति समर्पितवान् । (६६) कदाचिद्वामदेवशिष्यः सोमदेवशर्मा नाम कंचिदेकं बालकं राज्ञः पुरो निक्षिप्याभाषत - 'देव ! रामतीर्थे स्नात्वा प्रत्यागच्छता मया काननावनी वनितया कयापि धार्यमाणमेनमुज्ज्वलाकारं कुमारं विलोक्य सादरमभाणि- 'स्थविरे ! का त्वम् ? एतस्मिन्नटवीमध्ये बालकमुद्वहन्ती किमर्थमायासेन भ्रमसि' इति । (६७) वृद्धयाऽप्यभाषि-'मुनिवर ! कालयवनाम्नि द्वीपे कालगुप्तो नाम धनाढ्यो वैश्यवरः कश्चिदस्ति । तन्नन्दिनीं नयनानन्दकारिणीं सुवृत्तां नामैतस्माद्वीपादागतो मगधनाथमन्त्रिसंभवो रत्नोद्भवो नाम रमणीय- वादेन दानेन चोपायभूतेन । तां शबरीम् । अनुनीय सन्तोष्य । अपहारवर्मेत्याख्याय अपहारवर्मेति नाम कृत्वा । वर्धय पालय । (६६) राज्ञो राजहंसस्य । निक्षिप्य संस्थाप्य । काननावनी आरण्यप्रदेशे । स्थविरे वृद्धे सम्बोधनमेतत् । 'प्रवयाः स्थविरो वृद्धो जीनो जीर्ण' इत्यमरः । अटवी- मध्येऽरण्यमध्ये । उद्वहन्ती धारयन्ती । आयासेन क्लेशेन । (६७) कालयवननाम्नि कालयवनाख्ये । धनाढयो धनसमृद्धः । तन्नन्दिनीं तद्दुहितरम् । मगधनाथस्य मगधाधिपस्य मन्त्रिणोऽमात्यात् सम्भव उत्पत्तिर्यस्य सः । तत्पुत्र इत्यर्थः । रमणीयानामुत्कृष्टानां गुणानां सौन्दर्यादीनामालयो निलय दूसरा बालक यही है ऐसा निश्चय कर लिया। फिर समझा बुझाकर तथा कुछ द्रव्यादि देकर उस भीलिनीसे वह बालक ले लिया तथा उसका नाम अपहारवर्मा धर दिया और महिषीको सहेजकर कह दिया - 'हे देवि ! इसे पालो' । (६६) एक दिन वामदेव मुनिके शिष्य सोमदेवशर्माने एक बालक को राजाके समक्ष धर कर निवेदन किया- हे देव ! मैं रामतीर्थमें स्नानार्थ गया था। वहाँसे लौटते समय मुझे मार्गमें - वनदेशमें - एक वृद्धा इस सुन्दर बालकको लिए मिली। मैंने उनसे पूछा- 'हे वृद्धे ! तुम कौन हो ! क्यों इस निर्जन वनमें अकेली आयासके साथ बालक लिये घूमती हो ?' (६७) वृद्धाने उत्तर देते हुए कहा - 'हे मुनिवर ! कालयवन नामक एक महाद्वीप है । उसमें कालगुप्त नामक एक धनिक वैश्य रहता है। उसकी नयनाभिरामा सुवृत्ता नामकी पुत्रीसे इस द्वीपसे गये हुए मगधराजके मन्त्रिपुत्र रत्नोद्भवने परिणय किया। वह रत्नोद्भव अति सुन्दर अर्थात् रमणीयता का कोष था तथा सम्पूर्ण पृथ्वीतलपर पर्यटन कर चुका था

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३१ गुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्थुपयम्य सुवस्तुसंपदा श्वशुरेण संमानितोऽभूत् कालक्रमेण नताङ्गी गर्भिणी जाता । ( ६८ ) ततः सोदरविलोकनकौतूहलेन रत्नोद्भवः कथंचिच्छ्वशुरमनु- नीय चपललोचनया सह प्रवहणमारुह्य पुष्पपुरमभिप्रतस्थे । कल्लोलमा- लिकाभिहतः पोतः समुद्राम्भस्यमज्जत् । ( ६६ ) गर्भभरालसां तां ललनां धात्रीभावेन कल्पिताहं कराभ्यामु- द्वहन्ती फलकमेकमधिरुह्य दैवगत्या तीरभूमिमगमम् । सुहृज्जनपरिवृतो रत्नो- द्भवस्तत्र निमग्नो वा केनोपायेन तीरमगमद्वा न जानामि । क्लेशस्य परां काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्येऽद्य सुतमसूत । प्रसववेदनया विचेत- ना सा प्रच्छायशीतले तरुतले निवसति । विजने वने स्थातुमशक्यतया आधार इति यावत् भ्रान्तं पर्यटितं भुवः पृथिव्या वलयं मण्डलं येनासौ । व्यवहारी वाणिज्यकर्त्ता । उपयम्य विवाह्य । सुवस्तुसम्पदा शोभनद्रव्यसमृद्धया करणे तृती- या । उत्कृष्टवस्तून्युपहारीकृत्येत्यर्थः । संमानितः सस्कृतः । नताङ्गी सुवृत्ता । ( ६८ ) सोदराणां भ्रातृणां विलोकने दर्शने यत्कौतूहलं कौतुकं तेन । चपले चञ्च- ले लोचने नयने यस्यास्तया । प्रवहणं नौकाम् । कल्लोलानां महातरङ्गाणां मालिके- कया परम्परयाऽभिहतस्ताडितः । पोतो प्रवहणम् । अमज्जत् निमग्नः । ( ६९ ) गर्भभरेण गर्भभारेणालसां जडीकृताम् । ललनां स्त्रियम् । धात्रीभावेन धात्रीरूपेण । फलकं काष्ठखण्डम् । दैवगत्या दैवात् । सुहृज्जनैर्मित्रवर्गैः परिवृतः परिवेष्टितः । तत्र समुद्रे । परां काष्ठां अतिशयम् । असूत प्रसूतवती । प्रसववेदनया प्रसवकालिकपीडया । विचेतना संज्ञारहिता । प्रच्छायेन प्रचुरच्छायया शीतले शिशि- व्यापारमें भी अतिकुशल था । श्वसुरने अतुल सम्पत्तिको देकर उसका सम्मान किया था । कुछ समय पश्चात् वह वैश्यपुत्री नतांगी गर्भवती हो गयी । ( ६८ ) तब भाइयोंको देखनेके लिए उद्विग्न पुष्पोद्भवने अपने श्वसुरसे प्रार्थना की और उनसे विदाई लेकर चपललोचना पत्नीके साथ नौकापर पुष्पपुरके लिए प्रस्थान किया । ( ६९ ) दैववश वह नौका समुद्रकी तरंगोंसे अभिहत होकर जलमें डूब गयी । भगवत् कृपासे धात्रीभावसे नियुक्त मैं उस वैश्यकन्याको सम्हाले हुए, जो गर्भकी पीड़ासे उस समय अतिदुखी थी तथा अलसा रही थी, काठके एक तख्तेपर बैठकर समुद्रतटपर आ लगी । हम लोगोंको नहीं मालूम कि परिजनोंके साथ रत्नोद्भव डूब गये या कहीं तीरपर जा लगे । क्लेशकी पराकाष्ठाको प्राप्त हुई उस सुवृत्ताने इसी समय इस वनमें पुत्र उत्पन्न किया है । प्रसववेदनासे मूच्छित वह साध्वी सघन वृक्षकी छायामें बैठी है। निर्जन वनमें अकेले रहना Nepal Sanskrit University, Balmeeki Campus, Kathmandu

३२ दशकुमारचरितम् । [ पूर्वपीठिकायां

३२ दशकुमारचरितम् । [ पूर्वपीठिकायां जनपदगामिनं मार्गमन्वेष्टुमुद्युक्तया मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनुचितमिति कुमारोऽप्यानायि' इति । (७०) तस्मिन्नेव क्षणे वन्यो वारणः कश्चिददृश्यत । तं विलोक्य भीता सा बालकं निपात्य प्राद्रवत् । अहं समीपलतागुल्मके प्रविश्य परी- क्षमाणोऽतिष्ठम्, निपतितं बालकं पल्लवकवलमिवाददति गजपतौ कण्ठी- रवो महाग्रहेण न्यपतत् । भयाकुलेन दन्तावलेन झटिति वियति समुत्पा- त्यमानो बालको न्यपतत् । चिरायुष्मत्तया स चोन्नततरुशाखासमासी- नेन वानरेण केनचित्पक्वफलबुद्ध्या परिगृह्य फलेतरतया विततस्कन्ध- मूले निक्षिप्तोऽभूत् । सोऽपि मर्कटः क्वचिदगात् । रे । जनपदगामिनं लोकालयप्रापकम् । विवशाया विकलायाः । आनायि आनीतो मयेति शेषः । (७०) वने भव इति वन्य आरण्यक इत्यर्थः । वारणो गजः । सा धात्री । प्राद्रवत् पलायत । अहं वामदेवशिष्यः । समीपलतागुल्मके समीपस्थलतागृहे । परीक्षमाणः परितो विलोकयन् । पल्लवकवलं किसलयग्रासम् । आददति गृह्णति सतीति शेषः । कण्ठीरवः सिंहः । भीमो भयङ्करो रवो गर्जितं यस्य सः । महाग्रहेण अधिकावेशेन दन्तावलेन हस्तिना । वियति आकाशे । समुत्पात्यमानः समुत्क्षिप्य- माणः । चिरायुष्मत्तया दीर्घजीविततया । स बालकः । उन्नतस्योच्छ्रितस्य तरोर्वृक्ष- स्य शाखायां सभासीनेनोपविष्टेन । पक्वफलबुद्ध्या पक्वफलभ्रान्त्या । फलेतरतया इदं फलं नेति हेतोः । वितते विस्तृते स्कन्धस्य वृक्षप्रकाण्डस्य मूले मूलदेशे । मर्कटो वानरः । अनुचित होगा । अतः नगरकी ओर जाने वाले मार्गका अन्वेषण करनेमें मैं व्यस्त हूं । वेदनासे मूर्च्छित उस रमणीके समीप बालक छोड़ना ठीक न समझ मैं इसे अपने साथ लिये हुए हूँ । (७०) इसी समय एक मतवाला जंगली हाथी वहां दीख पड़ा । उसे देखते ही वह वृद्धा इस बालकको वहींपर रखकर भाग गयीं । मैं वहींपर पासके लताकुन्जमें बैठकर यह देखने लगा कि देखें अब क्या होता है । ज्योंही वह गजराज भूमिपर निपतित इस बालकको नये पल्लवके ग्रासके समान उठानेको तत्पर हुआ त्योंही भयंकर शब्द करते हुए एक शेरने उस हाथीपर आक्रमण कर दिया ।' उस व्याघ्रके भयसे त्रस्त उस हाथीने उस बालकको ऊपरकी ओर उछालकर फेंक दिया । दीर्घायु होनेके कारण उस बालकको एक बन्दरने, जो एक विशाल पेड़की शाखापर बैठा था, पका हुआ फल समझकर लोक लिया । और फल न होनेसे उस बन्दरने इसे एक चौड़ी घनी डालपर रख दिया इस कारण यह बालक पृथ्वीपर गिरने से बच गया । वह बानर कहीं चला गया । Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३३ (७१) बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि । केस- रिणा करिपं निहत्य कुत्रचिद्गामि । लतागृहान्निर्गतोऽहमपि तेजःपुञ्जं बालं शनैरवनीरुहादवतार्य वनान्तरे वनितामन्विष्यावलोकयैनमानीय गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मि' इति । - (७२) सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं बिभ्राणो राजा 'रत्नोद्भवः कथमभवत्' इति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुजतनयं समर्पितवान् । (७३) अन्येद्युः कंचन बालकमुरसि दधती वसुमती वल्लभमभि- (७१) सत्त्वसम्पन्नतया बलशालितया । सकलक्लेशसहेन सर्वप्रकारक्लेश- सहिष्णुना । केसरिणा सिंहेन । तेजसां पुञ्जं राशिं तेजस्विनमित्यर्थः । शनैर्मन्दं मन्दम् । अवनीरुहाद् वृक्षात् । अविलोक्य अप्राप्येत्यर्थः । एनं बालकम् । निवेद्य कथयित्वा । तन्निदेशेन गुरोराज्ञया । (७२) एकदैव युगपदेव । अनुकूलदैवाभावेन प्रतिकूलदैववशात् । महदाश्चर्यं परमविस्मयम् । बिभ्राणो धारयन् । कथं सर्वेषामस्माकं सममेव दैवं प्रतिकूलं जात- मिति विस्मयाकुलः सन्निति भावः। राजा राजवाहनः। रत्नोद्भवः कथमभवत्-रत्नोद्भवस्य का गतिर्जाता, तस्य किं जातमिति तात्पर्यम् । पुष्पोद्भवः नामधेयं नाम यस्य तम् । तदुदन्तं पूर्वोक्तं वृत्तान्तम् । व्याख्याय उक्त्वा । सुश्रुताय रत्नो- द्भवस्य ज्येष्ठसहोदराय । विषादसन्तौषौ विषादहर्षौ-रत्नोद्भवस्य विनाशाद् विषादः तत्पुत्रस्य लाभात्सन्तोष इति भावः । (७३) अन्येद्युः अन्यस्मिन् दिने । उरसि वक्षसि । दधती धारयन्ती । वल्लभं (७१) सत्त्वसम्पन्न शक्तिके प्रभावसे बालकने भी कष्टोंको सह लिया। वह सिंह भी उस गजपतिको मारकर चला गया। तब मैने लता-कुञ्जसे बाहर आकर तेजःपुञ्जरूपवाले इस बालकको वृक्षपरसे धीरेसे उतारा और वनमें इधर-उधर उस वृद्धाको खोजा। परन्तु खोजनेपर भी वह वृद्धा मुझे न मिली और मैंने इस बालकको लाकर गुरुदेवको दे दिया। फिर उनकी आज्ञा शिरोधार्य करके इसे आपके पास लाया हूँ । (७२) राजा हंसवाहन विचारने लगे - दैव प्रतिकूल होनेसे मेरे सभी मित्रोंपर एक साथ आपत्ति आयी । आश्चर्य है ! अब रत्नोद्भवका क्या हुआ ? ऐसा सोचकर इसपर चिन्तित भी हो गये। इसके पश्चात् उन्होंने इस लड़केका नाम पुष्पोद्भव रखा और सारा वृत्त सुश्रुतको सुनाकर विषाद एवं हर्षके साथ उसे समर्पण कर दिया । (७३) एक दिन किसी एक बालकको गोदमें लिये हुए महारानी वसुमती महाराज के ३ द० कु० पू० Nepal Sanskrit University, Balmeeki Campus, Kathmandu

३४ दशकुमारचरितम् । [ पूर्वपीठिकायां

३४ दशकुमारचरितम् । [ पूर्वपीठिकायां गता । तेन 'कुत्रत्योऽयम्' इति पृष्टा समभाषत—'राजन् ! अतीतायां रात्रौ काचन दिव्यवनिता मत्पुरतः कुमारमेनं संस्थाप्य निद्रामुद्रितां मां विबो- ध्य विनीताऽब्रवीत्—'देवि ! त्वन्मन्त्रिणो धर्मपालनन्दनस्य कामपालस्य वल्लभा यक्षकन्याऽहं तारावली नाम, नन्दिनी मणिभद्रस्य । यक्षेश्वरानुमत्या मदात्मजमेतं भवत्तनुजस्याम्भोनिधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भा- विनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणायानीतवत्यस्मि । त्वमे- नं मनोजसंनिभमभिवर्धय' इति विस्मयविकसितनयनया मया सविनयं सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीत्' इति ।

पतिम् । तेन राज्ञा । कुत्र भव इति कुत्रत्य इति कुत्रेत्यव्ययात्त्यप्प्रत्ययः । अयं बालकः कुत्रोत्पन्नः-कस्य पुत्र इति भावः । अतीतायां गतायाम् । दिव्यवनिता स्वर्गीया स्त्री । निद्रया मुद्रितां निमीलितनयनाम् । विबोध्य प्रबोध्य । वल्लभा पत्नी । यक्षेश्वरस्य कुबेरस्याऽनुमत्याऽऽदेशेन । भवत्यास्तव तनूजस्य नन्दनस्य । भाविनो भविष्यतः । अम्भोनिधिः समुद्र एव वलयः कटकस्तेन वेष्टितं यत् क्षोणी- मण्डलं भूमण्डलं तस्येश्वरः पतिः शासक इत्यर्थः । विशुद्धस्य निर्मलस्योज्ज्वलस्येति यावत् । यशसः कीर्तेर्निधिर्निधानं तस्य । परिचर्येति शुश्रूषाकरणायेत्यर्थः । मनोजस्य मनोजेन वा सन्निभः-कामदेवतुल्यः सौन्दर्येणेति यावत् । अभिवर्द्धय पालय । विस्मयेनाश्चर्यरसेन विकसिते प्रफुल्ले नयने नेत्रे यस्यास्तया । सत्कृता संमानिता । स्वक्षी-सु शोभने अक्षिणी नेत्रे यस्याः सा । यक्षी यक्षकूलोत्पन्ना न तु यक्षपत्नी । कामपालस्य यक्षत्वाभावात् । अदृश्यतामन्तर्धानम् ।

समीप आयी । राजाने उन्हें देखकर पूछा—'यह बालक कहांसे आया ?' उत्तरमें उन्होंने कहा—हे महाराज ! गत रात्रिमें एक स्वर्गांगना मेरे समीप निद्रावस्थामें आयी और इस सुकुमार कुमारको मेरी गोदामें धरकर नम्रतासे विनयपूर्वक बोली—'मैं मणिभद्र नामक यक्षकी कुमारी हूँ तथा आपके अमात्य धर्मपालके सुत कामपालकी स्त्री हूँ । मेरा नाम तारावली है । यक्षेश्वर महाराजकी अनुमतिसे मैं इस बालकको आपके समीप आपके पुत्र राजवाहनकी सेवाके लिए लायी हूँ । कुमार राजवाहन भविष्यमें समुद्रोंसे परिवेष्टित समस्त भूमण्डलका चक्रवर्ती राजा कीर्तिशाली नरपति होगा । अत एव कामदेवके सदृश अति रम्य इस बालकका आप लालन-पालन करें । ये सब बातें सुनते ही मैं जाग पड़ी और नेत्रोंको खोलकर आश्चर्य करने लगी तथा अति विनयसे मैंने उस यक्षिणीका स्वागत किया । स्वागतके बाद वह तुरन्त ही वहाँसे अदृश्य होकर चली गयी ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३५ (७४) कामपालस्य यक्षकन्यासङ्गमे विस्मयमानमानसो राजहंसो रञ्जितमित्रं सुमित्रं मन्त्रिणमाहूय तदीयभ्रातृपुत्रमर्थपालं विधाय तस्मै सर्वं वार्त्तादिकं व्याख्यायादात् । (७५) ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समारा- धितदेवकीर्त्ति निर्भर्त्सितमारमूर्तिं कुसुमसुकुमारं कुमारमेकवगमय्य नर- पतिमवादीत्—'देव ! विलोलालकं बालमं निजोत्सङ्गतले निधाय रुदतीं स्थविरामेकां विलोक्यावोचम्—'स्थविरे ! का त्वम् , अयमर्भकः कस्य नयनानन्दकरः, कान्तारं किमर्थमागता, शोककारणं किम्' इति । (७६) सा करयुगेन बाष्पजलमुन्मृज्य निजशोकशङ्कूत्पाटनक्षमं (७४) यक्षकन्यासङ्गमे यक्षीविवाहे । विशेषेण स्मयमानं आश्चर्य्यान्वितं मानसं मनो यस्य सः । रञ्जितानि स्वभावेनावर्जितानि मित्राणि सुहृदो येन तम् । सुमित्रं तन्नामानं कामपालज्येष्ठभ्रातरम् । अर्थपालं तन्नामानम् । (७५) अन्ते वसतीति अन्तेवासी—वामदेवस्यान्तेवासी छात्रः । 'छात्रान्तेवा- सिनौ शिष्ये' इत्यमरः । तस्य वामदेवस्याश्रमवासी आश्रमस्थः । समाराधिता प्राप्त्यर्थं संसेविता देवानां कीर्त्तिर्येन तं देवतुल्यकीर्त्तिमन्तमित्यर्थः । निर्भर्त्सिता स्वसौन्दर्येण तिरस्कृता मारस्य कन्दर्पस्य मूर्त्तिः स्वरूपं येन तम् । कुसुमवत् पुष्प- मिव सुकुमारं कोमलम् । अवगमय्य प्रापय्य पुरतः संस्थाप्येत्यर्थः । विलोलाश्च- ञ्चला अलकाः कुन्तला यस्य तम् । उत्सङ्गतले अङ्के । स्थविरां वृद्धाम् । अर्भकः शिशुः कान्तारं दुर्गममार्गम् । (७६) बाष्पजलम् अश्रु । उन्मृज्यापनीय । निजस्य स्वस्य शोक एव शङ्कुः (७४) कामपालका यक्षकन्यासे सम्पर्क हुआ। इसपर राजहंसका चित्त विस्मित हुआ। तब उसने सुहृदोंको सुखी बनानेवाले सुमन्त्र नामक मन्त्रीको बुलाया और समस्त वृत्तान्त सुनाकर उस बालकका नाम अर्थपाल धरा । (७५) तत्पश्चात् कुछ दिनोंके अनन्तर एक दिन उसी आश्रमके निवासी वामदेव मुनिके शिष्यने आकर देवोंके समान कीर्तिशाली तथा कामदेवके समान सुन्दर एवं सुकुमार एक बालकको वहाँ लाकर राजासे कहा—'हे देव, मैं तीर्थाटन करते हुए कावेरी नदीके तटपर गया था । वहाँपर चंचलकेशकलापवाले इस बालकको अपनी गोदीमें धरकर रोती हुई एक वृद्धाको देखा तथा रोनेका कारण पूछा—'ऐ वृद्धे, तुम कौन हो ? यह कुमार किसका है ? तुम इस वनमें क्यों आयीं ? तुम इतनी दुःखी क्यों हो रही हो ?' (७६) मेरी जिज्ञासापर वृद्धाने, दोनों हाथोंसे अपने आँखोंके आसुओंको पोंछकर और

३६ दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

३६ दशकुमारचरितम् । [ पूर्वपीठिकायां

मिव मामवलोक्य शोकहेतुमवोचत्—'द्विजात्मज ! राजहंसमन्त्रिणः सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्रामिषेण देशमेनमागच्छत् । स कस्मिंश्चिदग्रहारे कालीं नाम कस्यचिद् भूसुरस्य नन्दिनीं विवाह्य तस्या अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चनकान्तिं परिणीय तस्यामेकं तन- यमलभत । काली सासूयमेकदा धात्र्या मया सह बालमेनमेकेन मिषेणा- नीय तटिन्यामेतस्यामक्षिपत् । करेणैकेन बालमुद्धृत्यापरेण प्लवमाना नदीवेगागतस्य कस्यचित्तरोः शाखामवलम्ब्य तत्र शिशुं निधाय नदीवेगे- नोह्यमाना केनचित्तरुलग्नेन कालभोगिनाहमदंशि । मदवलम्बीभूतो भूरु- होऽयमस्मिन् देशे तीरमगमत् । गरलस्योद्दीपनतया मयि मृतायामरण्ये कश्चन शरण्यो नास्तीति मया शोच्यते' इति ।

कीलः तस्योत्पाटने उद्धरणे क्षमं समर्थम् । शोकस्य हेतुं कारणम् । कनीयान् कनिष्ठः तीर्थयात्राया मिषेण कपटेन । अग्रहारे ग्रामे । भूसुरस्य ब्राह्मणस्य । अनप- त्यतया अपुत्रकतया । काञ्चनस्य स्वर्णस्येव कान्तिरुज्ज्वल्यं यस्यास्ताम् । परिणीय विवाह्य । सासूयं विद्वेषेण । मिषेण छलेन । तटिन्यां नद्याम् । उद्धृत्य धारयित्वा । अपरेण करणेति शेषः । प्लवमाना तरन्ती । नदीवेगागतस्य नद्या वेगवशादुपस्थित- स्य । तरोः वृक्षस्य । निधाय संस्थाप्य । उद्यमाना नीयमाना । तरुलग्नेन वृक्षारू- ढेन । कालभोगिना कृष्णसर्पेण अदंशि दृष्टा । मदवलम्बीभूतो मदाश्रयीभूतः । भूरुहो वृक्षः । अगमत् प्राप्तवान् । गरलस्य विषस्य । उद्दीपनतया उत्कटतया । मृतायां सत्यामिति शेषः । शरण्यो रक्षकः । शोच्यते खेदः क्रियते ।

मनमें यह समझकर कि इस व्यक्तिद्वारा मेरा शोकरूपी अङ्कुश निकाल दिया जायगा—यह समर्थ शक्तिवाला है । मुझसे कहना प्रारम्भ किया—'हे विप्रसुत ! राजहंसके मन्त्री सितवर्माका छोटा लड़का सत्यवर्मा तीर्थाटनके लिये इस देशमें आया था । किसी अग्रहार (राजाके द्वारा संकल्प करके दिये हुए ग्राम) में एक विप्रकी कन्या, जिसका नाम काली था, उससे विवाह किया; परन्तु उससे सन्तति न होनेपर उसने उसीकी छोटी बहिन गौरीसे उद्वाह किया जो स्वर्णसी सुन्दरी थी। उसको एक पुत्र हुआ। एक दिन काली ईर्ष्याके वशीभूत होकर उस बालकके सहित मुझे (मैं उसकी धात्री थी) किसी बहाने नदीके तीरपर ले आयी और हम दोनोंको नदीमें ढकेलकर भाग गयी । एक हाथसे बालकको पकड़े हुए मैं दूसरे हाथसे नदीमें तैरने लगी । इतनेमें नदीके बहावमें बहता हुआ एक वृक्ष आया जिसकी डालपर बालकको बिठा दिया और नदीमें उसी पेड़को पकड़कर नदीके वेगके सहारे तैरती चली । उस वृक्षमें लिपटे किसी सर्पने मुझे काट लिया । उस वृक्ष के साथ मैं इस प्रदेशमें तीरपर आ लगी । विष की गर्मीसे मेरे मर जानेपर इस बालकका कोई भी रक्षक नहीं यही सोचकर रो रही हूँ।'

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ३७ ───────────────────────────────────────────────────────────────────────────── ( ७७ ) ततो विषमविषज्वालावलीढावयवा सा धरणितले न्यपतत् । दयाविष्टहृदयोऽहं मन्त्रबलेत् विषव्यथामपनेतुमक्षमः समीपकुञ्जेभ्योष- धिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् । ( ७८ ) तदनु तस्याः पावकसंस्कारं विरचय शोकाकुलचेता बालमेन- मगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारेनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति भवन्तमेनमनयम्' इति । ( ७९ ) तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो ───────────────────────────────────────────────────────────────────────────── ( ७७ ) विषमयाऽविषह्यया विषस्य ज्वालया शिखया पीड्येत्यर्थः । अवलीढाः व्याप्ता अवयवा अङ्गानि यस्याः सा । दयया करुणया आविष्टमाक्रान्तं हृदयं चेतो यस्य सः । मन्त्रबलेन मन्त्रशक्त्या । अपनेतुं दूरीकर्तुम् । समीपकुञ्जेषु निकटस्थ- लतादिपिहितस्थानेषु । व्युत्क्रान्तजीवितां मृताम् । ( ७८ ) तदनु तदनन्तरम् । पावकसंस्कारं विरचय अग्निसंस्कारं कृत्वा तद्देहं भस्मसात्कृत्वेत्यर्थः । शोकेन खेदेनाकुलं व्याप्तं चेतो यस्य सः । अगतिमनाथम् । सत्यवर्मणो वृत्तान्तश्रवणवेलायां वार्ताश्रवणसमये तस्य सत्यवर्मणो निवासा- ग्रहारस्य वासस्थलभूतस्य ग्रामस्य यन्नामधेयं नाम तस्याश्रुततया अश्रव- णेन । अभिरक्षिता पालकः । अनयं प्रापितवानस्मि । णीञ्प्रापणे इत्यस्य धातो- र्लङि रूपम् । ( ७९ ) सत्यवर्मस्थितेः तदवस्थानस्य जीवनस्य वा सम्यगनिश्चिततया सोऽत्रै- ───────────────────────────────────────────────────────────────────────────── ( ७७ ) इतनी बात कहते-कहते भयङ्कर विषकी ज्वालासे, जो सब शरीरमें व्याप्त हो गया था, वह अचानक भूमिपर गिर गयी । मुझे उसकी ऐसी दशापर दया आ गयी। परन्तु मैं मन्त्र नहीं जानता था इससे मन्त्रबलसे उसकी पीड़ा नष्ट न कर सका किन्तु समीपके लता- गृहसे मैं जब औषधि खोजकर आया तो देखा कि उसके प्राण-पखेरू उड़ चुके थे । ( ७८ ) तत्पश्चात् मैंने उसकी दाह-क्रिया की । और इस शोकान्वित चित्तवाले बालकको अपने पास रख लिया । परन्तु सत्यवर्माके चरित्रके श्रवणके समय उसके निवासस्थान अग्रहारका नाम तो सुना किन्तु पता न पा सका अतः उस स्थानका अन्वेषण करना अशक्य समझा । हे प्रभो, आपके मन्त्रीका यह बालक है—ऐसा विचार करके आपके समीप ले आया हूँ । ( ७९ ) उपर्युक्त वृत्तान्तको जानकर तथा सत्यवर्माकी अनिश्चित स्थिति का ध्यान करके Nepal Sanskrit University, Balmeeki Campus, Kathmandu

३८ दशकुमारचरितम् । [ पूर्वपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ३८ दशकुमारचरितम् । [ पूर्वपीठिकायां नरपतिः सुमतये मन्त्रिणे सोमदत्तं नाम तदनुजतनयमर्पितवान् । सोऽपि सोदरमागतमिव मन्यमानो विशेषेण पुपोष ॥ (८०) एवं मिलितेन कुमारमण्डलेन सह बालकेलीरनुभवन्नधिरू- ढानेकवाहनो राजवाहनोऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत । ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यं षडङ्गसहितवेदसमुदा- यकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथासहितपुराणग- णनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्तशास्त्रनिकरचातुर्यं कौटिल्य- वावतिष्ठते न वेति जीवति न वेति वा सन्दिग्धतया । खिन्नं खेदाकुलं मानसं यस्य सः । नरपतिः राजा राजहंस इत्यर्थः । सोऽपि सुमतिरपि । सोदरं सत्यवर्माणमि- त्यर्थः । पुपोष वर्द्धयामास । (८०) एवमनेन प्रकारेण । मिलितेन एकत्र सङ्गतेन । कुमारमण्डलेन कुमारसं- घेन । बालकेलीः, शैशवोचितक्रीडाः । अधिरूढानि समारूढान्यनेकानि नानाविधानि वाहनानि हस्त्यश्वादीनि येन सः । कदाचिद् गजं कदाचिच्चाश्वमारुरोहेति भावः । अनुक्रमेण यथाक्रमम् । सकललिपिज्ञानं सर्वविधाक्षरसंस्थानपरिचयम् । षडङ्गैः शिक्षाकल्पादिरूपैर्वेदाङ्गैः सहिते युक्ते वेदसमुदाये वेदसमूहे कोविदत्वं पाण्डित्यम् । काव्यं रामायणादि, नाटकं रूपकादि, आख्यानकं चूर्णम् , आख्यायिका कादम्बर्यादि- कथा, इतिहासो महाभारतादि, चित्रकथा रमणीयकथा । एतः सहितो युक्तो यत्पुराण- गणः वेदव्यासरचिताष्टादशपुराणानि तत्र नैपुण्यं पाटवम् । धर्मेत्यादि प्रत्येकं शास्त्रेण सम्बध्यते तेन धर्मशास्त्रं स्मृतिः, शब्दशास्त्रं व्याकरणं, ज्योतिषं, तर्कशास्त्रं न्यायः, मीमांसा पूर्वोत्तरभेदेन द्विविधा, जैमिनीयदर्शनं वेदान्तदर्शनञ्चेत्यादिषु, आदि- पदेन धनुर्वेदादिसंग्रहः, शास्त्रनिकरेषु शास्त्रसमूहेषु चातुर्यं अभिज्ञत्वम् । कौटिल्यश्चा- राजहंस दुखी हुए और सुमति नामक अमात्यको बुलवाकर उस बालकको उन्हें सौप दिया और उसका सोमदत्त नाम भी धर दिया । उस सुमति मन्त्रीने उसे पाकर भाईके आनेके समान सुख प्राप्त किया तथा अति प्रीतिसे उसका लालन-पालन करने लगा । (८०) इस रीतिसे राजवाहन उन मिले हुए कुमारोंके साथ बालक्रीड़ा करता हुआ बढ़ने लगा और सवारियोंके आरोहणमें निपुण उस राजवाहनके क्रमसे चौल तथा उपनयन- सहित वेदका कोविदत्त्व, काव्य, नाटक, आख्यायिका, आख्यानक, इतिहास, चित्रकथासहित पुराणोंकी विज्ञता, धर्मशास्त्र, ज्योतिषशास्त्र, न्यायशास्त्र, मीमांसा प्रभृति सकल शास्त्रोंकी चतुरता, कौटिल्य, कामन्दकीय आदि नीतिग्रन्थोंकी कुशलता, वीणा आदि सभी वाद्यकलाओंमें Nepal Sanskrit University, Balmeeki Campus, Kathmandu