गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
सानुवाद-मिताक्षरावृत्तिसहितानि ७१
श्चित्तोपदेशाभ्यां भवति वर्णानामसंकरोऽसंमेलनमपि। विहितोपदेशात्प्रतिषिद्धसेवायां दण्डधारणाच्च धर्मोऽपि भवति। एतत्सर्वं तयोरायत्तम् ॥३॥
( वृष्टि द्वारा तथा रोग आदि उपद्रवों की शान्ति द्वारा ) वृद्धि, ( चोरों को दण्ड देने से ) रक्षा, वर्णों के संकर का निरोध तथा ( विहित का उपदेश एवं अनुचित कर्म के निषेध तथा दण्डधारण द्वारा ) धर्म भी इन्हीं दोनों ( राजा और बहुश्रुत ब्राह्मण ) के अधीन होते हैं ॥ ३ ॥
बहुश्रुत इत्युक्तं प्रतिपादयति—
स एव( ष ) बहुश्रुतो भवति ॥ ४ ॥
स एष इति वक्ष्यमाणनिर्देशः ॥ ४ ॥
बहुश्रुत व्यक्ति इस प्रकार का होता है ॥ ४ ॥
लोकवेदवेदाङ्गवित् ॥ ५ ॥
लोकशब्देन लोकव्यवहारसिद्धा जनपदादिधर्मा उच्यन्ते। तेषां वेदाश्चत्वार ऋग्यजुःसामाथर्वाणः। अङ्गानि षट्। व्याकरणं शिक्षा छन्दो ज्योतिषं कल्पसूत्राणि निरुक्तमपि। तेषां वेत्ता पाठतोऽर्थतश्च ॥ ५ ॥
वह लोकव्यवहार, चारों वेदों तथा छह वेदाङ्गों का ज्ञाता हो ॥ ५ ॥
वाकोवाक्येतिहासपुराणकुशलः ॥ ६ ॥
वेदशास्त्रोपयोगोनि तर्कोक्तिप्रत्युक्तिरूपाणि वाक्यानि। यथा महाभारते—कःस्विदेकाकी चरति सूर्य एकाकी चरतीत्यादीनि वाकोवाक्यम्। भारतरामायणादीनीतिहासः। पुराणं विष्णुपुराणशिवपुराणाद्यष्टादशविधम्। तेषु कुशलः समर्थः ॥ ६ ॥
वाकोवाक्य ( वेदशास्त्र सम्बन्धी तर्कोक्ति के वचन ), इतिहास ( महाभारत और रामायण ) तथा पुराणों का पण्डित हो ॥ ६ ॥
तदपेक्षस्तद्वृत्तिः ॥ ७ ॥
यान्येतानि लोकादीन्यनूक्तानि तान्यपेक्षत इति। तद्वृत्तिस्तदभिहितानां कर्मणामनुष्ठाता ॥ ७ ॥
इन ( लोकव्यवहार, वेद शास्त्र आदि ) की अपेक्षा रखने वाला हो तथा इनके अनुकूल आचरण करने वाला हो ॥ ७ ॥
चत्वारिंशत्संस्कारैः संस्कृतः ॥ ८ ॥
चत्वारिंशत्संस्कारा गर्भाधानादयो वक्ष्यन्ते। तैः संस्कृतः ॥ ८ ॥
७२ गौतमधर्मसूत्राणि
जिसके ( गर्भाधान आदि ) चालीस संस्कार हुए हों ॥ ८ ॥
त्रिषु कर्मस्वभिरतः ॥ ९ ॥
इज्याध्ययनदानानि त्रीणि कर्माणि। तेष्वभिरतः। तेषां सातत्येना- नुष्ठाता। तद्वृत्तिरित्यनेनैव सिद्धे पुनर्वचनमतिदार्ढ्यार्थम् ॥ ९ ॥
( यजन, अध्ययन और दान इन ) तीन कर्मों में रत रहता हो ॥ ६ ॥
षट्सु वा ॥ १० ॥
याजनाध्यापनप्रतिग्रहैः सह षट् कर्माणि तेष्वभिरतः। वाशब्देन पूर्वोक्तेषु नियमः ॥ १० ॥
अथवा छः कर्मों ( उपर्युक्त तीन कर्मों के साथ याजन, अध्यापन और प्रतिग्रह ) में सदैव रत रहता हो ॥ १० ॥
सामयाचारिकेष्वभिविनीतः ॥ ११ ॥
पौरुषेयो व्यवस्था समयः। तन्मूला आचाराः समयाचारास्तेषु भवाः सामयाचारिकाः स्मार्ता धर्मास्तेष्वभिविनीतः पित्रादिभिः सम्यक्शि- क्षितः ॥ ११ ॥
सामयाचारिक ( स्मृति में विहित ) कर्मों में ( पिता आदि द्वारा ) सम्यक् रूप से शिक्षित किया गया हो ॥ ११ ॥
स एवंरूपो ब्राह्मणः—
षड्भिः परिहार्यो राज्ञा ॥ १२ ॥
षड्भिर्वक्ष्यमाणैर्वधादिभिः परिहार्यो राज्ञा भवति । परिहारो वर्जनम् ॥ १२ ॥
ऐसे बहुश्रुत ब्राह्मण को राजा छः प्रकार के ( वध आदि ) कष्टों से मुक्त रखे ॥ १२ ॥
तान्वधादीनाह—
अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चा- परिहार्यश्चेति ॥ १३ ॥
वधस्ताडनम्। बन्धो निगडनम्। दण्डोऽर्थापहारः। बहिष्कारो ग्रामादिभ्यो निरसनम्। परिवादो दोषसंकीर्तनम्। परिहारस्त्यागः। षडेते वधादय एवंभूते बहुश्रुते ब्राह्मणे सत्यप्युद्धिपूर्वापराधे राज्ञा वर्ज्याः।
सानुवाद-मिताक्षरावृत्तिसहितानि ७३
बुद्धिपूर्वस्य तु प्रसङ्गाभावात् । इतिशब्दः प्रकारवचने । यच्चान्यदेवंरूपसंभाषादि तदपि वर्ज्यमिति ॥ १३ ॥
ऐसे बहुश्रुत ब्राह्मण वध (शारीरिक दण्ड), बन्धन, आर्थिक दण्ड, ग्राम से निष्कासन, दोष प्रचार द्वारा अपमान और त्याग के योग्य नहीं होते हैं ॥ १३ ॥
चत्वारिंशत्संस्कारैरित्युक्तं तानाह—
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ॥ १४ ॥
समाहारद्वंद्वः । गर्भाधानमृतावुपैयादित्यादिकालनियमेन सूत्रकारोक्तविधाननिषेकः । गर्भाधानादयः संस्कारास्तत्तद्गृह्येषूक्ताः । इह तु संस्कारगणनार्थं स्वरूपनिर्देशमात्रं कृतम् ॥ १४ ॥
गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौल, उपनयन ॥ १४ ॥
चत्वारि वेदव्रतानि ॥ १५ ॥
एतानि प्रतिवेदं प्रतिशाखं च गृह्येषूक्तानि ॥ १५ ॥
वेदाध्ययन के चार व्रत ॥ १५ ॥
स्नानं सहधर्मचारिणीसंयोगः ॥ १६ ॥
स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः ॥ १६ ॥
समावर्तन स्नान और विवाह ॥ १६ ॥
पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् ॥ १७ ॥
पञ्चानां देवानां यज्ञास्तेषामनुष्ठानम् । एतत्पञ्चमहायज्ञानुष्ठानमहरहः कर्तव्यम् । न तु सकृत्कृतेन संस्कारसिद्धिः । पञ्चग्रहणात्पञ्चैते पृथक्संस्कारा न पुनः समुदिता एकः संस्कारः ॥ १७ ॥
देवयज्ञ, पितृयज्ञ, मनुष्ययज्ञ, भूतयज्ञ और ब्रह्मयज्ञ इन पाँच यज्ञों का अनुष्ठान ॥ १७ ॥
एतेषां च ॥ १८ ॥
वक्ष्यमाणानामष्टकादीनां च पाकयज्ञानामनुष्ठानं संस्कार इति ॥ १८ ॥
तथा इन (आगे बताये जाने वाले अष्टका आदि पाकयज्ञों) का अनुष्ठान ॥ १८ ॥
७४ . गौतमधर्मसूत्राणि
तानाह— अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ १९ ॥
ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेष्वेकैकस्मिन्नेकाऽष्टका भवतीतिच्छन्दोगाः । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकैकस्यां चेत्याश्वलायनः । या माघ्याः पौर्णमास्या उपरिष्टान्मध्याष्टका तस्यामष्टमो ज्येष्ठया संपद्यते । तामेकाष्टकेत्याचक्षत इत्यापस्तम्बः । एवंभूताऽष्टका । पर्वणि भवः स्थालीपाकः पार्वणः । श्राद्धं मासि श्राद्धम् । श्रावणी सर्पबलिः । श्रावण्यां पौर्णमास्यां गृह्यमग्निमतिप्रणीयेत्यादिच्छन्दोगाभिहितः । श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाक इत्यापस्तम्बः । आग्रहायणो मार्गशीर्ष्यां पौर्णमास्यां क्रियमाणः सर्पबलिरुत्सर्गहोमः । हेमन्ते प्रत्यवरोहणाख्यं च कर्माऽऽग्रहायणीशब्देनोच्यते । चैत्री शूलगवः । ईशानबलिरित्यापस्तम्बीयानां प्रसिद्धः स चैत्र्यां पौर्णमास्यां भवति । अथ शूलगवः शरदि वसन्ते चेत्याश्वलायनः । आश्वयुजां रुद्राय स इति च्छन्दोगाः । आश्वयुज्यां पौर्णमास्यां तत्कर्म निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरूप्य जुहुयुरित्याश्वलायनः । अनाहिताग्नेराग्रयणमपि तत्रैव भवति । तदिदं द्वयमाश्वयुजीशब्देन विवक्षितम् । पाकयज्ञ इति गार्ह्याणां कर्मणामाख्या । यथाऽऽहाऽऽपस्तम्बः—लौकिकानां पाकयज्ञशब्द इति । संस्थाविधाः पाकयज्ञविधाः समेत्यर्थः ॥ १९ ॥
अष्टका (आग्रहायणी के बाद तीन अपरपक्षों की अष्टमी तिथियों पर किया जाने वाला पाकयज्ञ अथवा हेमन्त और शिशिर ऋतुओं के चार अपरपक्षों की अष्टमी तिथियों को किया जाने वाला पाकयज्ञ), पार्वण (पर्वों पर किये जाने वाले स्थालीपाक कर्म), श्राद्ध (मासिक श्राद्ध), श्रावणी (सर्पबलि या श्रावण की पूर्णिमा को सूर्यास्त होने पर किया जाने वाला स्थालीपाक यज्ञ), आग्रहायणी (मार्गशीर्ष पूर्णिमा को किया जाने वाला सर्पबलि उत्सर्ग होम), चैत्री (चैत्र पूर्णिमा को किया जाने वाला शूलगव या ईशानबलि), आश्वयुजी (आश्विन पूर्णिमा को पशुपति के स्थालीपाक होम)—ये सात पाकयज्ञ संस्थाएँ हैं ॥ १९ ॥
अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः ॥ २० ॥
अग्न्याधेयादयः श्रुतिसिद्धाः संस्कारेषु गण्यन्ते । सप्तग्रहणाद्दर्शपूर्ण-
सानुवाद-मिताक्षरावृत्तिसहितानि ७५
मासौ समुदायतयैकः संस्कारः। सोमसंबन्धाभावाद्धविर्यज्ञा इति ॥२०॥
अग्न्याधेय, अग्निहोत्र, दर्श और पूर्णमास, आग्रयण, चातुर्मास्य, निरूढपशु-बन्ध और सौत्रामणि—ये सात हविर्यज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २० ॥
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः ॥ २१ ॥
अग्निष्टोमो राजन्यस्य । षोडशिग्रहो गृह्यते यत्र सोऽत्यग्निष्टोमः । ब्राह्मणस्य कथमयं संस्कार इति चिन्त्यम् । अन्ये प्रसिद्धाः ॥ २१ ॥
अग्निष्टोम, अत्यग्निष्टोम, उक्थ, षोडशी, वाजपेय, अतिरात्र और अप्तोर्याम—ये सात सोमयज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २१ ॥
इत्येते चत्वारिंशत्संस्काराः ॥ २२ ॥
इत्युक्तोपसंहारः । चत्वारिंशद्ग्रहणादेव तावन्त एव संस्काराः । नान्यानि स्मार्तकर्मणि काम्यादीनि चेति ॥ २२ ॥
इस प्रकार ये सब मिलाकर चालीस संस्कार हुए ॥ २२ ॥
अथाष्टावात्मगुणाः ॥ २३ ॥
वक्ष्यन्त इति शेषः । अथशब्दः संभावनायाम् ॥ २३ ॥
अब आठ आत्मगुण बताये जा रहे हैं ॥ २३ ॥
दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति ॥ २४ ॥
आत्मवत्सर्वभूतेषु यद्धिताय शिवाय च ।
वर्तते सततं हृष्टः कृत्स्ना ह्येषा दया स्मृता ॥ १ ॥
आक्रुष्टोऽभिहतो वाऽपि न क्रोशेन्न च ताडयेत् ।
अदुष्टो वाङ्मनःकायैः सा तितिक्षा क्षमा स्मृता ॥ २ ॥
यो धर्ममर्थं कामं च लभते मोक्षमेव च ।
न द्विष्यात्तं सदा प्राज्ञः साऽनसूया स्मृता बुधैः ॥ ३ ॥
द्रव्यशौचं मनःशौचं वाचिकं कायिकं तथा ।
शौचं चतुर्विधं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ ४ ॥
यदारम्भे भवेत्पीडा नित्यमत्यन्तमात्मनः ।
तद्वर्जयेद्धर्म्यमपि सोऽनायासः प्रकीर्तितः ॥ ५ ॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥ ६ ॥
७६ गौतमधर्मसूत्राणि
आपद्यपि च कष्टायां भवेद्दीनो न कस्यचित् ।
संविभागरुचिश्च स्यात्तदकार्पण्यमुच्यते ॥ ७ ॥
विवर्जयेदसंतोषं विषयेषु सदा नरः ।
परद्रव्याभिलाषं च साऽस्पृहा कथ्यते बुधैः ॥ ८ ॥
इत्युक्तप्रकारेणाष्टावात्मगुणाः ॥ २४ ॥
सभी प्राणियों पर दया, क्षमाशीलता, अनसूया (दूसरे की समृद्धि में न जलना), पवित्रता, अनायास (जिस कार्य को करने से अपने को पीड़ा हो उसे न करना), मङ्गल (प्रशस्त कर्म का आचरण), अकार्पण्य (किसी से कुछ न माँगना) और अस्पृहा (दूसरे की वस्तु देखकर लालच न करना)—ये आठ आत्मगुण हैं ॥ २४ ॥
एषामुत्कर्षमाह—
यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ॥ २५ ॥
सालोक्यं समानलोकवासित्वम् । एकदेशसंयोगात्सालोक्यं समस्तयोगात्सायुज्यमिति ॥ २५ ॥
जिसमें चालीस संस्कारों से युक्त होने पर भी ये आत्मगुण नहीं होते वह ब्रह्म का सायुज्य और ब्रह्मलोक में निवास नहीं प्राप्त करता ॥ २५ ॥
यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति [ गच्छति ] ॥ २६ ॥
तुशब्दो विशेषवाची । खलुशब्दः प्रसिद्धौ । यस्य चत्वारिंशत्संस्कारेषु द्विजत्वमूलकतिपयसंस्कारसंबन्धेऽप्यष्टावात्मगुणाः सन्ति । अथशब्दो निर्धारणे ब्रह्मणः सायुज्यं सालोक्यं च गच्छत्येव [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २६ ॥
किन्तु जो व्यक्ति इन चालीस संस्कारों में से थोड़े से भी संस्कारों से युक्त होता है और साथ ही आठ आत्मगुणों से अन्वित होता है वह ब्रह्म का सायुज्य एवं ब्रह्मलोक में निवास प्राप्त करता है ॥ २६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥
अथ प्रथमप्रश्ने नवमोऽध्यायः
स विधिपूर्वकं स्नात्वा भार्यामधिगम्य यथोक्तान्गृहस्थ-धर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् ॥ १ ॥
तच्छब्देन पूर्वाध्यायोक्तराजा ब्राह्मणश्च परामृश्यते । वैश्यस्य तु स्नातकविषये विशेषं वक्ष्यति । विधिपूर्वं विधिं पुरस्कृत्य स्नात्वा वेद-व्रतानि पारं नीत्वा समावर्तनं कृत्वा भार्यामधिगम्य विवाहं कृत्वा तद्-नन्तरं यथोक्तानतिथिपूजादिगृहस्थधर्माननुतिष्ठन्निमान्यपि वक्ष्यमाणानि व्रतान्यनुकर्षेत् । आत्मानं प्रापयेदनुतिष्ठेदिति ॥ १ ॥
वह (ब्राह्मण और क्षत्रिय) विधिपूर्वक समावर्तन स्नान करके विवाह करे और ऊपर कहे गये गृहस्थ धर्मों का पालन करते हुए इन व्रतों का आचरण करे ॥ १ ॥
स्नातकः ॥ २ ॥
चलोपो द्रष्टव्यः । स्नातकश्चैतानि गृहस्थव्रतान्यनुतिष्ठेत् । ब्रह्मचर्या-न्निवृत्तत्वाद्गार्हस्थ्यव्यतिरिक्ताश्रमान्तराभावाच्च भार्याधिगमादूर्ध्वमिति पूर्व-सूत्रमारब्धम् । स्नातकस्य तु भार्याधिगमासंभवे यावज्जीवं गृहस्थधर्मा एवानुष्ठेया इति सूत्रान्तरमारब्धम् । एतच्च राजब्राह्मणयोरेव स्नातक-व्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च विधीयते । तथा च स्मृत्यन्तरम्— राजब्राह्मणयोरेव नेतरेषां कथंचनेति ॥ २ ॥
स्नातक भी इन नियमों का पालन करे (स्नातक विवाह न करने पर भी आजीवन गृहस्थ धर्म का ही पालन करे) ॥ २ ॥
कानि पुनस्तानि व्रतानि—
नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ३ ॥
आचमनादिना नित्यं शुचिः शक्तिविषये न मुहूर्तम्प्यप्रयतः स्यात् । सुगन्धिश्चन्दनाद्यनुलिप्तेन सुरभिताङ्गः । यद्वा गन्धः शीलं सुशीलः स्यादिति । स्नानशीलो नित्यस्नायी स्यात् । अत्र स्नातकविषये वसिष्ठः—
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः ॥ इति ।
मनुः—
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
| ७८ | गौतमधर्मसूत्राणि |
|---|
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ इति ।
वेदो दर्भमुष्टिः ॥ ३ ॥
( आचमन आदि द्वारा ) नित्य पवित्र रहे, सुगन्धित द्रव्यों का लेप करे और स्नान करे ॥ ३ ॥
सति विभवे न जीर्णमलवासाः स्यात् ॥ ४ ॥
विभवेऽन्यस्य संभवे सति जीर्णं मलवच्च वासो न धारयेत् ॥४॥
यदि दूसरे वस्त्र हों तो फटे हुए और मैले वस्त्र न पहने ॥ ४ ॥
न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ॥ ५ ॥
कुसुम्भादिरागयुक्तमुल्बणं बहुमूल्यमन्यधृतं गुरुवर्जमन्यैः पूर्वधृतमेवंविधानि वासांसि न धारयेत् । सति विभव इत्यनुवर्तते ॥ ५ ॥
रंगे हुए, बहुमूल्य और दूसरे (गुरु के अतिरिक्त अन्य व्यक्ति) द्वारा पहले पहने गए वस्त्रों को न धारण करे ॥ ५ ॥
न स्रगुपानहौ ॥ ६ ॥
स्रगुपानहावप्यन्यधृते न धारयेत् ॥ ६ ॥
दूसरे व्यक्ति द्वारा पहनी हुई माला और दूसरे के जूते न पहने ॥ ६ ॥
निर्णेक्तमशक्तौ ॥ ७ ॥
अन्यस्यालाभोऽशक्तिः । अशक्तावन्यधृतं वासः स्रगुपानहौ च निर्णिज्य धारयेत् । तत्र वासोनिर्णेजनं ऊषरोदके पङ्के कार्यम् ॥ ७ ॥
स्वयं अभावग्रस्त होने पर दूसरे के पहने हुए (वस्त्र, माला, जूता आदि) को धोकर पहन सकता है ॥ ७ ॥
न रूढश्मशुरकस्मात् ॥ ८ ॥
श्मश्रुग्रहणं नखादीनामप्युपलक्षणार्थम् । अकारणान्न रूढश्मश्रुः स्यात् । कारणे सति रूढश्मश्रुः स्यात् । कारणं तु स्मृत्यन्तरे पठितम्—
षष्ठाब्दे षोडशाब्दे च विवाहाब्दे तथैव च ।
अन्तर्वत्न्यां च जायायां क्षौरकर्म विवर्जयेत् ॥ इति ।
वपनस्यापि गङ्गायां भास्करक्षेत्र इत्यादिना चोदितकालत्वात्कथं तर्हि स्यात्तत्र मनुः—
क्लृप्तकेशनखश्मश्रुरिति कल्पना कर्तनेन समीकरणम् । याज्ञवल्क्यश्च—शुक्लाम्बरधरो नोचकेशश्मश्रुनखः शुचिः । इति ॥ ८ ॥
अकारण दाढ़ी (और नाखून) न बढ़ावे ॥ ८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ७९
नाग्निमपश्च युगपद्धारयेत् ॥ ९ ॥
एकेन हस्तेनाग्निमपरेणापश्च युगपन्न धारयेत् । अत्र व्याघ्रो विशेषमाह— न धारयेदपश्चाग्निमपश्चान्नं तथैव च । युगपत्स्नातको नित्यं तद्भार्याऽपि तथैव च ॥ इति ॥ ९ ॥
अग्नि और जल को एक साथ न ले। (अर्थात् एक हाथ में अग्नि और दूसरे हाथ में जल लेकर न चले) ॥ ९ ॥
नाञ्जलिना पिबेत् ॥ १० ॥
यत्किञ्चित्क्षीरोदकादि पेयमञ्जलिना न पिबेत् । संयुक्तौ हस्ता-वञ्जलिः ॥ १० ॥
(दूध, जल आदि पेय पदार्थ को) अञ्जलि से न पीये ॥ १० ॥
न तिष्ठन्नुद्धृतोदकेनाऽऽचामेत् ॥ ११ ॥
उद्धृतोदकेन तिष्ठन्नाऽऽचामेत् । आसीन एवाऽऽचामेत् । उद्धृतोद-केनेति वचनात्तटाकादिषु तीरप्रदेशस्याशुचित्वे जानुदध्ने जले तिष्ठतोऽ-प्याचमनमप्रतिषिद्धम् । आचारोऽप्येवमेव शिष्टानाम् ॥ ११ ॥
लाये गये जल से खड़े होकर आचमन न करे (बैठकर आचमन करे) ॥ ११ ॥
न शूद्राशुच्येकपाण्यावर्जितेन ॥ १२ ॥
शूद्रेण शुचिनाऽप्यस्पृश्यस्पर्शादिदूषितेन द्विजेनाप्येकेन पाणिना च यदावर्जितं तेनोदकेन नाऽऽचामेत् । स्वयं तु वामहस्तावर्जितेनोदके-नाऽऽचमनविषय एकपाण्यावर्जितत्वं समानमिति चेन्न । हस्तद्वयस्याप्या-चमनकर्मसम्बन्धात्तथा च शिष्टाचारदर्शनात् ॥ १२ ॥
शूद्र के स्पर्श से दूषित द्विज द्वारा एक हाथ से डाले जाने वाले जल से आचमन न करे ॥ १२ ॥
न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रति पश्यन्वा मूत्र-पुरीषामेध्यान्व्युदस्येत् ॥ १३ ॥
अपूशब्दान्ते द्वन्द्व आर्षत्वात्समासान्तो न कृतः । अनित्याः समा-सान्ता इति केषांचित्पक्षः । देवताः प्रतिमाः । वाय्वादीन्प्रति सूत्रादीनि न व्युदस्येत्पश्यन्वा न कुर्यादिति प्रति पश्यन्वेत्यर्थः । प्रति न कुर्यादित्या-भिमुख्यवर्जनम् । पश्यन्न कुर्यादिति नियमादाभिमुख्ये सत्यप्यनवलो-
८० | गौतमधर्मसूत्राणि
कनम्। मूत्रपुरीषयोः पृथगुपादानादमेध्यशब्देन निष्ठीवनोच्छिष्टादि विवक्षितं तर्ह्यमेध्यशब्देनैवालम्। मूत्रपुरीषग्रहणं तु तयोरतिशयेन वर्जनार्थम् ॥ १३ ॥
वायु, अग्नि, ब्राह्मण, सूर्य, जल, देवता, गौ की ओर मुख करके अथवा उन्हें देखते हुए मूत्र और मल का त्याग न करे और न थूक, खकार, उच्छिष्ट फेंके ॥ १३ ॥
नैता देवताः प्रति पादौ प्रसारयेत् ॥ १४ ॥
एता वाय्वाद्या देवताः प्रति पादौ न प्रसारयेत्। पादावित्युपलक्षणं पादं च न प्रसारयेत्। गोषु विप्रेषु च देवतापदप्रयोगस्तद्वदपचारार्थः ॥ १४ ॥
इन देवताओं ( तथा गौ एवं ब्राह्मण ) की ओर पैर न फैलावै ॥ १४ ॥
न पर्णलोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् ॥ १५ ॥
न पर्णादिभिर्मूत्रपुरीषयोरपकर्षणमपमार्जनं कुर्यात् । अन्यैस्तु कुर्यादिति ॥ १५ ॥
पत्ते, ढेला और पत्थर से मूत्र और मल न हटाये ॥ १५ ॥
न भस्मकेशनखतुषकपालमेध्यान्यधितिष्ठेत् ॥ १६ ॥
भस्मादीनि नाऽऽक्रामेत् । तुषा व्रीह्यादीनां त्वचः । अन्ये प्रसिद्धाः । तेषामुपरि न तिष्ठेत् । अधितिष्ठेदित्यनेन यादृच्छिकस्पर्शमात्रे न दोषः ॥ १६ ॥
भस्म, केश, नख, भूसी, कपाल और मेध्य ( अपवित्र पदार्थ ) पर न बैठे ॥ १६ ॥
न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥ १७ ॥
वर्णाश्रमधर्मरहिते देशे सिंहलद्वीपादौ ये वसन्ति ते म्लेच्छाः। अशुचय आर्या अपि विहितानि संध्यावन्दनादीनि ये न कुर्वन्ति ते तथोक्ताः। अधार्मिकाः पतितादयस्तैः सह न संभाषेत। संशब्दप्रयोगादेव सिद्धे सहग्रहणं तैः सहैककार्यो भूत्वा न संभाषेतेत्येवमर्थम्। तेन मार्गप्रश्नादौ न दोषः ॥ १७ ॥
( वर्णाश्रमधर्महीन ) म्लेच्छों, ( सन्ध्यावन्दन आदि न करने वाले आर्य जाति के ही ) अपवित्र व्यक्तियों एवं पतितों के साथ संभाषण न करे ॥ १७ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८१
संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥ १८ ॥ यदि कारणवशात्तैः सह संभाषेत ततः पुण्यकृतो वसिष्ठादीन्मनसा ध्यायेत् । मनसेति ध्यानस्वभावानुवादः ॥ १८ ॥ यदि किसी कारण से संभाषण करे तो उसके बाद ( वसिष्ठ आदि ) पुण्यात्माओं का मन से ध्यान करे ॥ १८ ॥
ब्राह्मणेन वा सह संभाषेत ॥ १९ ॥ प्रकरणाद्ब्राह्मणोऽपि पुण्यकृदेव ॥ १९ ॥ अथवा ( म्लेच्छादि से कारणवश भाषण करने के बाद ) ब्राह्मण से संभाषण करे ॥ १९ ॥
अधेनुं धेनुन्भव्येति ब्रूयात् ॥ २० ॥ धेनुः पयस्विनी गौः । अधेनुस्तद्विपरीता । तामपि धेनुर्भव्येति ब्रूयान्न पुनरधेनुरिति ॥ २० ॥ दूध न देनेवाली गायको 'धेनुभव्या' ( भविष्य में दूध देने वाली ) कहे ॥ २० ॥
अभद्रं भद्रमिति ॥ २१ ॥ अभद्रमपि वस्तु भद्रमित्येव ब्रूयात् ॥ २१ ॥ अभद्र ( वस्तु ) को भी भद्र कहे ॥ २१ ॥
कपालं भगालमिति ॥ २२ ॥ कपालं ब्रुवन्भगालमिति ब्रूयात् ॥ २२ ॥ कपाल को 'भगाल' कहे ॥ २२ ॥
मणिधनुरितीन्द्रधनुः ॥ २३ ॥ इन्द्रधनुरिति ब्रुवन्मणिधनुरिति ब्रूयात् ॥ २३ ॥ इन्द्रधनु कहना हो तो 'मणिधनु' कहे ॥ २३ ॥
गां धयन्तीं परस्मै नाऽऽचक्षीत ॥ २४ ॥ धेट् पाने । व्यत्ययेनायं कर्मणि कर्तृप्रत्ययः । वत्सेन धीयमानां गां परस्मै स्वामिने न ब्रूयात् । यस्य हविषे वत्सा अपाकृता धयेयुरित्यादिके निमित्ते त्वाख्यातव्यमेव संसृष्टां च वत्सेनेत्यापस्तम्बीये विशेषात् ॥ २४ ॥
६ गौ० ध०
| ८२ | गौतमधर्मसूत्राणि |
|---|
बछड़े को दूध पिलाती हुई गाय की बात दूसरे (गाय के स्वामी) से न कहे ॥ २४ ॥
न चैनां वारयेत् ॥ २५ ॥
न च स्वयमप्येनां वारयेदिति ॥ २५ ॥
और न स्वयं उस गाय को बछड़े से अलग करे ॥ २५ ॥
न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥ २६ ॥
मिथुनीभूय स्त्रियमुपगम्य शौचं प्रति न विलम्बेत। तत्क्षण एव कुर्यात्। शौचं त्वापस्तम्बेनाभिहितम्—उदकोपस्पर्शनमपि वा लेपान्प्र-क्षाल्याऽऽचम्य प्रोक्षणमङ्गानामिति ॥ २६ ॥
गृहस्थ सम्भोग करने के बाद (जलस्पर्श, आचमन आदि) शुद्धिकर्म करने में विलम्ब न करे ॥ २६ ॥
न च तस्मिन्शयने स्वाध्यायमधीयीत ॥ २७ ॥
यस्मिन्मिथुनमाचरितम् ॥ २७ ॥
उसी शय्या पर (जिस पर संभोग किये हो) वेदशास्त्र का अध्ययन न करे ॥ २७ ॥
न चापररात्रमधीत्य पुनः प्रतिसंविशेत् ॥ २८ ॥
यः पूर्वरात्रे सुप्त्वाऽपररात्र उत्थायाधीते। न स पुनः प्रतिसंविशेत्। कालदैर्घ्ये सति पुनर्न स्वप्याच्छेषां रात्रि जागृयादेवेति पुनर्ग्रहणात्पूर्वरात्रे-ऽसुप्तस्य स्वापे न दोषः ॥ २८ ॥
आधी रात के बाद निद्रा से उठकर अध्ययन करके फिर (रात्रि शेष रहने पर भी) न सोए ॥ २८ ॥
नाकल्पां नारीमभिरमयेत् ॥ २९ ॥
अकल्पां रोगादिनाऽस्वस्थां नारीं नाभिरमयेत्। नानया मिथुनी-भवेत् ॥ २९ ॥
रोग आदि से अस्वस्थ स्त्री के साथ संभोग न करे ॥ २६ ॥
न रजस्वलाम् ॥ ३० ॥
रजस्वलामपि नारीं नाभिरमयेत्। उदक्यागमने त्रिरात्रमिति प्राय-श्चित्तं वक्ष्यति तेनैव सिद्धे वचनमिदं त्रिरात्रादूर्ध्वमप्यनिवृत्ते रजसि गम-नप्रतिषेधार्थम् ॥ ३० ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८३
रजस्वला स्त्री से संभोग न करे ॥ ३० ॥
न चैनां श्लिष्येन्न कन्याम् ॥ ३१ ॥
एनां रजस्वलां कन्यामनूढामपि न श्लिष्येन्नाऽऽलिङ्गेत् ॥ ३१ ॥
इस रजस्वला स्त्री और अविवाहिता कन्या का आलिङ्गन न करे ॥ ३१ ॥
अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसा-
वलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादधावना-
सन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्याय-
च्छनानि वर्जयेत् ॥ ३२ ॥
उपधमनमुपध्मानं नाग्नि मुखेनोपधमेन्न ज्वलयेत् । विगृह्यवादो वाक्कलहः । गन्धमाल्ययोर्बहिर्धारणं प्रकाशधारणमिति । अनाविःस्रगनुलेपनः स्यादित्यापस्तम्बः । पापीयसावलेखनमशुचिना काष्ठादिना शिरःप्रभृतेः कण्डूयनं तृतीयाया अलुक्छान्दसः । भार्यया सह भोजनं भार्यया सहैकस्मिन्भाजने भोजनम् । केषुचिद्देशेष्वाचारात्प्राप्तौ सत्यां निषेधः । अन्ये त्वेकस्मिन्काले भोजनं सहभोजनमिच्छन्ति । अञ्जन्त्यवेक्षणम् । अञ्जन्ती तैलाभ्यङ्गं कुर्वत्यञ्जनादिभिरलंक्रीयमाणा वा तस्या अवेक्षणं तच्च भार्याविषयमित्येके स्त्रीमात्रविषयमित्यन्ये । कुद्वारप्रवेशनं द्वारव्यतिरिक्तप्रदेशेन देवालयगृहादेः प्रवेशनमप्रसिद्धमार्गेण नगरग्रामादेः प्रवेशनमिति । यथा चाऽऽपस्तम्बः—न कुमृत्य ग्रामं प्रविशेद्यदि प्रविशेन्नमो रुद्राय वास्तोष्पतय इत्येतामृचं जपेदन्यां वा रौद्रीमिति । पादपादधावनं पादेन पादप्रक्षालनम् । आसन्दोस्थभाजनम् , आसन्दी पीठिका तत्रस्थस्यान्नस्य भोजनमासन्दीस्थभोजनम् । यद्वा यत्राऽऽसीनो भुङ्क्ते तत्राऽऽसने भोजनपात्रं निधाय यद्भोजनं तद्वा । नदीबाहुतरणं बाहुभ्यां नद्या स्तरणं पारगमनम् । बाहुतरणात्प्लवादौ न दोषः । नदीग्रहणं तडागादीनामप्युपलक्षणम् । वृक्षविषमारोहणावरोहणे वृक्षस्याऽऽरोहणं विषमस्य कूपादेरवरोहणं च । वृक्षविषमग्रहणेनात्युन्नतनिम्नस्थलं लक्ष्यते । प्राणव्यायच्छनं प्राणोपरोध्युल्लङ्घनजलयन्त्राद्यभिरोहणम् । एतान्यग्निमुखोपधमनादीनि वर्जयेत् ॥ ३२ ॥
मुँह से अग्नि जलाना, वाक्कलह, गन्ध और माला को बाहर धारण करना, अपवित्र काष्ठ आदि से शिर आदि खुजलाना, पत्नी के साथ एक ही थाली में या एक ही समय पर भोजन करना, अञ्जन ( स्नान या शृङ्गार ) करती हुई स्त्री को निहारना, मन्दिर, घर या ग्राम में प्रसिद्ध मार्ग को छोड़कर किसी अन्य
.८४ गौतमधर्मसूत्राणि
मार्ग से प्रवेश करना, पैर से पैर धोना, बैठने के आसन पर रखे हुए अन्न का भोजन (अथवा जिस आसन पर बैठकर भोजन करना चाहिए उस पर भोजन रखकर खाना), बाहुओं से तैरकर नदी (तालाब आदि) पार करना, वृक्ष पर और ऊँची-नीची भूमि पर चढ़ना उतरना, और प्राणसंकट से युक्त कर्म करना—इन सबका त्याग करे ॥ ३२ ॥
न संदिग्धां नावमधिरोहेत् ॥ ३३ ॥
पारगमने संदिग्धामसमर्थां नावं नाधितिष्ठेत् ॥ ३३ ॥
जिस नाव के पार पहुँचने में सन्देह हो उस पर न चढ़े ॥ ३३ ॥
प्रतिपदपाठस्याशक्यत्वात्संक्षिप्याऽऽह—
सर्वत एवाऽऽत्मानं गोपायेत् ॥ ३४ ॥
सर्वेभ्य उपायेभ्य आत्मानं रक्षयेत्। एको न गच्छेदध्वानमित्यादिभ्यः ॥ ३४ ॥
सभी उपायों से अपनी रक्षा करे ॥ ३४ ॥
न प्रावृत्य शिरोऽहनि पर्यटेत् ॥ ३५ ॥
प्रावृत्याऽऽशिरसो दिवा चङ्क्रमणप्रतिषेधः। आसीनस्य यथारुचि। मार्गे वर्षातपादिबाधे प्रावृत्यापि चङ्क्रमणे न दोषः। सर्वत एवाऽऽत्मानं गोपायेत्युक्तत्वाद् ॥ ३५ ॥
दिन में सिर ढककर (सिर तक ढककर) न घूमे ॥ ३५ ॥
प्रावृत्य रात्रौ ॥ ३६ ॥
रात्रौ तु शिरः प्रावृत्यैव पर्यटेत् ॥ ३६ ॥
रात्रि में सिर ढककर ही घूमे ॥ ३६ ॥
मूत्रोच्चारे च ॥ ३७ ॥
मूत्रणं मूत्र उच्चारः पुरीषकर्म तयोः समाहारद्वंद्वः। तत्र च शिरः प्रावृत्य प्रावृतशिराः कर्म कुर्यादिति शेषः ॥ ३७ ॥
मूत्र और मल त्याग के समय सिर ढका रखे ॥ ३७ ॥
न भूमावनन्तर्धाय ॥ ३८ ॥
मूत्रपुरीषकर्मणी भूमौ तृणादिभिरन्तर्धायैव कुर्यात्। अयज्ञियैस्तृणैरिति स्मृत्यन्तरे ॥ ३८ ॥
मूत्र और पुरीष कर्म भूमि (अयज्ञिय) तृणों से छिपाये बिना न करे ॥ ३८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ८५
नाऽऽराच्चाऽऽवसथात् ॥ ३९ ॥
आवसथो गृहम् । तत्समीपे न कुर्याद् ॥ ३९ ॥
घर के निकट मल-मूत्र का त्याग न करे ॥ ३९ ॥
न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥ ४० ॥
करीषं गोमयम् । छायोपजीव्याः पथिकादयो यत्र विश्राम्यन्ति । काम्यं कमनीयः प्रदेशः । भस्मादिष्वेतेषु मूत्रपुरीषकर्मणी न कुर्यात् ॥४०॥
भस्म, गोबर, पथिकों के विश्राम योग्य छायादार मार्ग तथा मनोरम स्थान पर मूत्र और मल का त्याग न करे ॥ ४० ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥ ४१ ॥
मूत्रपुरीषे दिवा चेदुदङ्मुख एव कुर्यात् ॥ ४१ ॥
मूत्र और पुरीष दोनों ही कर्म दिन में उत्तर की ओर मुख करके करे ॥ ४१ ॥
संध्ययोश्च ॥ ४२ ॥
उदङ्मुखः कुर्यादिति ॥ ४२ ॥
दोनों सन्ध्या कालों में भी ( उत्तर की ओर मुख करके मूत्र और पुरीष करे ) ॥ ४२ ॥
रात्रौ दक्षिणामुखः ॥ ४३ ॥
स्पष्टम् ॥ ४३ ॥
रात्रि में दक्षिण दिशा की ओर मुख करके मूत्र और पुरीष करे ॥ ४३ ॥
पालाशमासनं पादुके दन्तधावनमिति च वर्जयेत् ॥ ४४ ॥
इतिकारा [ दा ] द्यर्थाद्यच्चान्यदेवं युक्तं रथादि तदपि पालाशं वर्जयेत् । अत्र पठन्ति—
आसनं शयनं यानं गृहोपकरणं तथा ।
वर्जयेत्पादुकां चैव पालाशं दन्तधावनम् ॥ इति ॥ ४४ ॥
पलाश के बने आसन, खड़ाऊँ, दातौन ( और रथ आदि शयन तथा गृहोपकरण ) का प्रयोग न करे ॥ ४४ ॥
सोपानत्करश्चाऽऽसनाभिवादननमस्कारान्वर्जयेत् ॥ ४५ ॥
अभिवादनं पूर्वोक्तं, नमस्कारो देवताप्रणामः । अभिवादनादीनि सोपानत्को न कुर्यात् । उपानद्ग्रहणं पादुकादेरप्युपलक्षणम् ॥ ४५ ॥
८६ गौतमधर्मसूत्राणि
जूता (और पादुका आदि) पहने हुए आसन पर न बैठे, अभिवादन और नमस्कार न करे ॥ ४५ ॥
न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥ ४६ ॥
तृतीयार्थे चतुर्थी पञ्चमी वा । पूर्वाह्वादीनह्नस्त्रीन्भागान्धर्मार्थकामैर्यथाशक्त्यफलान्न कुर्यात् किं तर्हि सफलानेव कुर्याद्यथासंख्यम् ॥ ४६ ॥
पूर्वाह्न, मध्याह्न और सायंकाल को क्रमशः धर्म, अर्थ और काम को निष्फल न करे (अर्थात् धर्म, अर्थ और काम को सफल बनावे) ॥ ४६ ॥
तेषु तु धर्मोत्तरः स्यात् ॥ ४७ ॥
तुशब्दोऽनवस्थां परिहरति । तेषु धर्मार्थकामेषु धर्मोत्तरः स्याद्धर्मप्रधानः स्यात् । धर्माविरोधेनार्थकामौ सेवेतेति । तथा च मनुः— परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । इति ॥ ४७ ॥
उन (धर्म, अर्थ और काम) में धर्म प्रधान होना चाहिए (अर्थात् धर्म के विरुद्ध अर्थ और काम का सेवन न करे) ॥ ४७ ॥
न नग्नां परयोषितमीक्षेत ॥ ४८ ॥
परा चासौ योषिच्च परयोषित् । अन्यथा विधवानूढावेश्यादयो न स्युः । तां नग्नां सतीं नेक्षेत ॥ ४८ ॥
दूसरे की स्त्री को नग्न न देखे ॥ ४८ ॥
न पदाऽऽसनमाकर्षेत् ॥ ४९ ॥
पादेनाऽऽसनमात्मसमीपं न प्रापयेत् ॥ ४९ ॥
पैर से आसन को (अपने निकट) न खींचे ॥ ४९ ॥
न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥ ५० ॥
चापलशब्दः प्रत्येकं संबध्यते । शिश्नचापलमक़ाले मैथुनेच्छा । उदरचापलं सर्वदा बिभक्षयिषा । पाणिचापलं शिल्पकर्मशिक्षामिलाषः । पादचापलं पर्यटनम् । वाक्चापलं नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छत इत्येतदतिक्रमेण व्यवहारः । चक्षुश्चापलं नृत्यादिदिदृक्षा । एतानि न कुर्यात् ॥ ५० ॥
लिंग की (अनुचित समय में संभोग आदि से), उदर की (अधिक भोजन
सानुवाद-मिताक्षरावृत्तिसहितानि ८७
की इच्छा से ), हाथ की ( शिल्पकर्म शिक्षा की इच्छा से ), पैर की ( घूमने से ), वाणी की ( अधिक बोलने से ), और नेत्र की ( नृत्य आदि देखने की इच्छा से ) चपलता न करे ॥ ५० ॥
छेदनभेदनविलेखनविमर्द्दनावस्फोटनानि नाकस्मात् कुर्यात् ॥ ५१ ॥
छेदनं तृणादीनाम्। भेदनं घटादेः। विलेखनं कुड्यभूम्यादौ नखादिभिर्विलेखनम्। विमर्द्दनं लोष्टादीनां चूर्णीकरणम्। अवस्फोटनमङ्गुलीनां सशब्दं प्रसारणम्। एतदकस्मान्न कुर्यात्। कारणे त्ववस्फोटनादिषु न दोषः। छेदनादिष्वपि यथासंभवं मृग्यम् ॥ ५१ ॥
( तृण आदि का ) छेदन, ( घड़े आदि का ) फोड़ना, ( दीवाल या पृथ्वी आदि पर नख आदि से ) लिखना, ढेले आदि को फोड़ना, अंगुली चटकाना—ये सब कार्य अकारण न करे ॥ ५१ ॥
नोपरि वत्सतन्तीं गच्छेत् ॥ ५२ ॥
वत्सबन्धनो रज्जुर्वत्सतन्ती । तामुपरि न गच्छेत् । वत्सशब्दो गोजातेरुपलक्षणम् ॥ ५२ ॥
बछड़े ( गौ आदि ) के पगहे के ऊपर से न जाए ॥ ५२ ॥
न कुलंकुलः स्यात् ॥ ५३ ॥
कुलमेव कुलं यस्य स कुलंकुलः। छान्दसो मुडागमः। एवंविधो न स्यात्। अन्यत्र गमनेऽध्ययनादिलाभे सति स्वकुल एव न तिष्ठेदिति। अपर आह—कुलात्कुलान्तरगामी कुलंकुलो दत्तादिरूपेण तथाविधो न स्यात्। स्वसूत्रपरित्यागेन परसूत्रं न भजेदिति। तत्र स्मृत्यन्तरम्—
यः स्वसूत्रं परित्यज्य परसूत्रं निषेवते।
शाखारण्डः स विज्ञेयः सर्वकर्मबहिष्कृतः ॥ इति ॥ ५३ ॥
( अन्यत्र जाकर अध्ययन करना संभव हो तो ) अपने कुल में ही न पड़ा रहे अथवा दत्तक होकर एक कुल से दूसरे कुल में ही न भटकता रहे। अथवा अपने सूत्र का परित्याग करके दूसरे के सूत्र को न अपनाए ॥ ५३ ॥
न यज्ञमवृतो गच्छेत् ॥ ५४ ॥
अवृतोऽनुपामन्त्रितो यज्ञं न गच्छेत् ॥ ५४ ॥
आमन्त्रित न होने पर यज्ञ में ( भाग लेने ) न जाए ॥ ५४ ॥
८८ गौतमधर्मसूत्राणि
दर्शनाय तु कामम् ॥ ५५ ॥
अवृतोऽपि कामं दर्शनाय यज्ञं गच्छेत् । न त्वार्त्विज्यादिलिप्सया ॥ ५५ ॥
यज्ञ देखने के लिए तो आमन्त्रित न होने पर भी अपनी इच्छा से जा सकता है ॥ ५५ ॥
न भक्ष्यानुत्सङ्गे भक्षयेत् ॥ ५६ ॥
भक्षाः पृथुकादयस्तानुत्सङ्गे कृत्वा न भक्षयेत् ॥ ५६ ॥
(पृथुक आदि) खाने की वस्तुएँ गोदी में या आंचल में रखकर न खाए ॥ ५६ ॥
न रात्रौ प्रेष्याहृतम् ॥ ५७ ॥
रात्रौ प्रेष्येण किंकरेण यदानीतं तद्यत्किंचिदपि न भक्षयेत् । न भक्षानेव । एकवचननिर्देशात् ॥ ५७ ॥
रात्रि में सेवक द्वारा लाई गई किसी भी वस्तु का भोजन न करे ॥ ५७ ॥
उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनि चाऽऽत्तवीर्याणि नाश्नीयात् ॥ ५८ ॥
आत्तवीर्याण्युपात्तसारांशानि नाश्नीयात् । कानि पुनस्तानि तेषामुदाहरणप्रपञ्चः । उद्धृतस्नेहे उपात्ताग्रमण्डे दधिपयसी । विलपनं नवनीतमलम् । यन्त्रे पीडितानां तिलानां कल्कः पिण्याकम् । यस्य मथनमात्रं नाम्बुसंसर्गस्तदपि मथितम् । यथाहूर्नैघण्टिकाः—
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् । इति ।
तच्च द्विविधम् । आत्तनवनीतमितरच्च । तत्राऽऽद्यस्येह ग्रहणं तद्व्यात्तवीर्यस्योदाहरणम् । प्रभृतिग्रहणेन यच्चान्यदेवंविधं कल्करूपं तस्य ग्रहणम् । उद्धृतनवनीतं तक्रमाश्यमनाश्यमिति चिन्त्यम् । आचारस्त्वशनमेव । अभक्ष्यप्रकरणे वक्तव्य इह वचनात्स्नातकव्रतलोपे यत्प्रायश्चित्तं तदेवैषामशने भवति नाभक्ष्यभक्षणनिमित्तम् ॥ ५८ ॥
जिन वस्तुओं का रस निकाल लिया गया हो ऐसी वस्तुओं, मक्खन निकाले गये दधि और दूध, तिल की खली, केवल मथे गए दूध और दही तथा इस प्रकार के अन्य निःसार पदार्थों को न खाए ॥ ५८ ॥
सायंप्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जीत ॥ ५९ ॥
तुशब्दस्त्ववधारणे । सायं रात्रिः प्रातरहस्तयोर्द्वयोरेककालयोरशनं भुञ्जीत । नान्तरेति प्राप्तस्य भोजनस्य परिसंख्येयम् । तत्र गुणविधिरभि-
सानुवाद-मिताक्षरावृत्तिसहितानि ८९
पूजितमनिन्दन्निति । अभिपूजितं रोचत इति । अनिन्दन्कदन्नत्वादिदो- षेणाकुत्सयन् । सायं प्रातरशनान्यभिपूजयेदिति वसिष्ठः ॥ ५९ ॥
सायंकाल (अर्थात् रात्रि में) और प्रातःकाल (अर्थात् दिन में) अन्न की पूजा करके (अर्थात् प्रसंसा करते हुए, और उसकी निन्दा न करते हुए भोजन करे ॥ ५९ ॥
न कदाचिद्रात्रौ नग्नः स्वपेत् ॥ ६० ॥
सुष्याद्रात्रौ न तु नग्नः स्वपेत् । तदेवं रात्रौ नग्नस्य स्वापप्रतिषेधो दिवा तु सर्वथेति । कदाचिद्ग्रहणादिदं लभ्यते । अन्यथा रात्रौ न नग्नः स्वपेदित्येव वाच्यं स्यात् ॥ ६० ॥
कभी भी रात्रि में नग्न होकर न सोए ॥ ६० ॥
स्नायाद्वा ॥ ६१ ॥
न नग्न इत्येव । नग्नो जलं नाववरेदिति स्मृत्यन्तरम् ॥ ६१ ॥
नग्न होकर स्नान भी न करे ॥ ६१ ॥
आनन्त्यादाचाराणां प्रतिपदपाठो न शक्य इति संक्षिप्याऽऽह—
यच्चाऽऽत्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोह-
वियुक्ता वेदविद आचक्षते तत्समाचरेत् ॥ ६२ ॥
आत्मवन्तो जितेन्द्रियाः । वृद्धाः परिणतवयसो यौवने विषयवश्य- तासंभवात् । सम्यग्विनीता गुरुभिः शिक्षिताः । दम्भो धर्मच्छलेन लोक- वञ्चनम् । लोभोऽन्यायेन परद्रव्यादित्सा । मोहोऽज्ञानं लोकविरुद्धज्ञानं वा तेन त्यक्ताः । वेदविदः पाठतश्चार्थतश्च वेदानां चोदितारः । अत्र वृद्धा इति विशेष्यम् । एवंभूता वृद्धा यदाचक्षते तत्कर्तव्यमिति । बहुवच- ननिर्देशाद्बहूनामैकमत्ये तद्भवति ॥ ६२ ॥
जितेन्द्रिय, वयोवृद्ध, भलीभाँति शिक्षा प्राप्त किये हुए, दम्भहीन, लोभरहित, अज्ञान से मुक्त तथा वेद के ज्ञाता व्यक्ति जैसा कहें उसके अनुसार आचरण करना चाहिए ॥ ६२ ॥
योगक्षेमार्थमीश्वरमधिगच्छेत् ॥ ६३ ॥
अलब्धस्य लाभो योगः । लब्धस्य परिपालनं क्षेमः । तदर्थमीश्वरं राजानमधिगच्छेत् । अधिशब्दप्रयोगादधिरैश्वर्य इत्यस्मादकार्पण्येन स्वतन्त्रो गच्छेदिति ॥ ६३ ॥
योग (न प्राप्त हुई वस्तु के लाभ) तथा क्षेम (प्राप्त वस्तु की रक्षा) के लिए राजा के निकट जाना चाहिए ॥ ६३ ॥
९० गौतमधर्मसूत्राणि
नान्यमन्यत्र देवगुरुधार्मिकेभ्यः ॥ ६४ ॥
अन्यं राजव्यतिरिक्तं योगक्षेमसमर्थमपि नाधिगच्छेदित्यनुवादः । देवा इन्द्रादयः । गुरवः पित्रादयः । धार्मिका धर्माचरणशीलाः । एतेभ्योऽन्यत्र । एतानविगच्छेद्वेति ॥ ६४ ॥
देवता, (पिता आदि) गुरुजन तथा धार्मिक लोगों के अतिरिक्त अन्य किसी के निकट (राजा को छोड़कर) योगक्षेम के लिए न जाए ॥ ६४ ॥
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजनभूयिष्ठमनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥ ६५ ॥
एधः काष्ठमुदकं स्नानपानयोग्यं यवसं तृणानि गवार्थम् । कुशाः प्रसिद्धाः । माल्यानि पुष्पाणि देवाद्यर्चनार्थम् । उपनिष्क्रम्यते यत्र तदुपनिष्क्रमणं बहिरवकाशः संचाराद्यर्थम् । एवमादीनि प्रभूतानि यत्र । आर्यास्त्रैवर्णिकास्त एव जनास्तैर्भूयिष्ठं व्याप्तम् । अलसाः कृत्येषु निरुद्यमास्तद्विपरीता अनलसास्तैः समृद्धम् । धार्मिका धर्मशीलास्तैर्विशिष्टाचारैरधिष्ठितम् । एवंभूतं निकेतनमावसितुं यतेत । एवंभूते स्थाने यत्नेनापि वसेदिति ॥ ६५ ॥
प्रचुर ईंधन, जल, (गौ आदि के खाने योग्य) घास, कुश, पुष्प, निष्क्रमण के योग्य स्थान वाले, आर्यों (द्विजों) से व्याप्त, उद्यमी (परिश्रमी, आलस्यहीन) व्यक्तियों से समृद्ध तथा धार्मिक पुरुषों द्वारा अधिष्ठित स्थान पर निवास करने का प्रयत्न करे ॥ ६५ ॥
प्रशस्तमङ्गल्यदेवतायतनचतुष्पदं प्रदक्षिणमावर्तेत ॥ ६६ ॥
निर्गमनप्रवेशादिषु यथा ते दक्षिणपार्श्वे भवन्ति तथा कुर्यादिति ॥ ६६ ॥
पूज्य, माङ्गलिक वस्तु, देवमन्दिर और चतुष्पथों को दाहिने करके प्रदक्षिणा करके चले ॥ ६६ ॥
मनसा वा तत्समग्रमाचारमनुपालयेदापत्कल्पः ॥ ६७ ॥
संभवे तु साक्षादनुष्ठानमेवेति ॥ ६७ ॥
आपत्काल में मन से ही उन आचारों का पालन करे ॥ ६७ ॥
सत्यधर्मा ॥ ६८ ॥
सत्यवचनस्वभावः । स्यादिति वक्ष्यमाणमपेक्ष्यते ॥ ६८ ॥
सत्यवचन और सत्यस्वभाव वाला हो ॥ ६८ ॥