भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

कण्डिका ] गोभिलगृह्यसूत्रे- २२ भाष्यम्। रात्रेः षोडशमे भागे इति प्रामाणिकाः। तथाच गृह्यसङ्ग्रहे कात्यायनः। “रात्रेः षोडशमे भागे ग्रहनक्षत्रभूषिते। अनुदयं विजानीयाद्धोमस्तत्र प्रकल्पयेत्”॥ इति। तथाचानुदित इत्यस्योदयमप्राप्त इत्येवार्थः। प्रातराहुतिमग्निहोत्रल- क्षणम् जुहुयात्। वाशब्दादुदितानुदितहोमयोर्वैकल्पिकत्वं दर्शयति। तथाह मनुः- “उदितेऽनुदिते चैव समयाध्युषिते तथा। सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः॥” इति। सम्पूर्णादित्यमण्डलरूपदर्शनोपलक्षितः काल उदितः। उदयात्पूर्व- मरुणकिरणवान्प्रविरलतारकोऽनुदितः। सूर्यनक्षत्रवर्जितः कालः सम(१)या- ध्युषितः। अनयोरनुदित एवान्तर्भावः। तत्र वाजसनेयिनां नियमेनानुदितहो- मः। “सूर्योह वा अग्निहोत्रम्” इत्यारभ्य “तस्मादुदितहोमिनां विच्छिन्नमग्नि- होत्रं मन्यामहे” इत्यन्तेन ( श० प० ) श्रुत्याम्नायेनोदितहोमनिन्दापूर्वकम्- नुदितहोमस्य समर्थितत्वात्। छन्दोगानामुदितानुदितयोर्विकल्पः। आश्वलाय- नानां पुनरुदितहोमनियमः। तथाच तैत्तिरीयब्राह्मणम्- “प्रातः प्रातरनृतन्ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्। दिवा कीर्त्यमदिवा कीर्त्तयन्तः सूर्योज्योतिर्नच ज्योतिस्तदैषाम्”॥ इति अनुदितनिन्दार्थवादपुरस्सरमुदितहोमस्यैव “उदिते होतव्यम्” इति श्रुत्या बोधनात्॥ अत्र भट्टभाष्ये—“प्रादुष्करणोपदेशाच्च पृथगग्न्यगारन्दर्शयति पृथक् च महानसम्। अग्न्यगारात्प्रभृति धूमं शातयन्निति च लिङ्गात्। अन्यथा सदैव प्रादुष्कृतत्वात् प्रादुष्करणमेव न स्यात्। यत्रार्थयुक्त्या महानसादावग्न्यवयवाः र्यावदि” त्यादिना स्पष्टीकृतः। व्याख्यातञ्च परिशिष्टप्रकाशकृता “अभ्युदित” इत्यभि- शब्दस्य सर्वतोभावार्थकस्योपादानात्सम्पूर्णसूर्य्यमण्डलदर्शने उदितहोमो न त्वर्धोदिता- दावित्यवगन्तव्यमिति। अत एव मन्वर्थमुक्तावल्यां हरिहरभाष्ये च सम्पूर्णसूर्य्यमण्डल- रूपदर्शनोपलक्षितः कालएवोदितपदेनोक्तः। एवमुक्तलक्षणे रेखामात्रोदितरूपानुदिते कुतश्चित्प्रतिबन्धाद्धोतुमशक्नुवतामनुदितहोमिनां लोप एव प्रातराहुतेरापद्येतातस्त- त्राशक्तोऽभ्युदिते जुहुयादिति कर्मप्रदीपवचनार्थः। श्रुतिश्चास्यामेवाशक्तिदशायामुदित- होमं निन्दति “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोती”ति। “यथाऽति- थये प्रद्रुतायान्नमाहरेयुस्तादृक् तद्यदुदये जुहोतीति” चैवमादिका॥ श्यावः श्वानविशेषः। “श्वानौ द्वौ श्यावशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रयच्छामि स्यातामेताव- हिंसकौ॥ इत्यत्र तथाभिधानात्॥ ( १ ) तथाच “ततः प्रभातसमये नष्टे नक्षत्रमण्डले। रविबिम्बं न दृश्येत समयाध्यु- षितं स्मृतम्” इति॥ मन्वर्थमुक्तावल्यादावप्येवमेव॥

प्रणीयन्ते । तत्र तदर्थनिर्वृत्तौ पुनस्तत्रैवोल्मुकं नयेत् । यत्र तु वचनात्-यथा 'पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ती'ति तत्र नेति(१) ॥ २८ ॥ इतिश्रीमद्रोमिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलितायां प्रथमप्रपाठकस्य प्रथमा कण्डिका ॥ १ ॥ १ ॥ * ॥ अथ द्वितीया कण्डिका । ( अथोपवीतविधिः ) पूर्वं “यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम्” इत्यनेन यज्ञोपवीताचम- नयोः कर्माङ्गतोक्ता । अथेदानीन्तदुभयमपि क्रमेण व्याचिख्यासुः शिष्यानुजि- घृक्षया यज्ञोपवीतन्तावदाह— यज्ञोपवीतकुरुते सूत्रं वस्त्रं वाऽपि वा कुशरज्जुमेव ॥ १ ॥ कुरुत इति विधौ लेट् ( पा० ३।४।७ ) कुर्यात्-धारयेदित्यर्थः । कीदृशन्त- दित्याह—सूत्रम्—सूत्रनिर्मितम् । तच्च नवभिस्तन्तुभिस्त्रिवृद्भवति । तथाच— “त्रिवृ(२)दूर्ध्ववृतङ्कार्य्यन्तन्तुत्रयमधोवृतम् । त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते” ॥ इति कर्म्मप्रदीपोक्तलक्षणमित्यर्थः । अत्र मनुः— “कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”॥ इति चैवमादि स्मृत्यन्तरेभ्योऽवगन्तव्यम् । त्रिवृदिति नवगुणं सूत्रनवकम- त्यर्थः । “नवैव त्रिवृदि”ति श्रुतेः । तथाच देवलः “यज्ञोपवीतङ्कुर्वन्ति सूत्रेण नवतन्तुकम्” इति । मुख्यश्चायं पक्षः(३) । इह वाशब्दाभावात् । उत्तरत्र वा- ( १ ) अत्र पांशुतुषारादिनाऽन्तर्हिते रवौ कर्माह कात्यायनः— "रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ । सन्ध्यामुद्दिश्य जुहुयाद्व्रतमस्य न लुप्यते” इति' सन्ध्यासमयमेव सायं प्रातश्च विधेयाम् । तामुद्दिश्य यथा यदा सा समुपास- नीया तथा तदैव जुहुयादपि । उभयोरेक एव काल इत्यर्थः ॥ (२) “ऊर्ध्वन्तु त्रिवृतङ्कार्य्यमि”ति प्रचुरः पाठः । तत्रायमर्थः । वामावर्त्तवलितसूत्र- त्रयं त्रिगुणं कृत्वा तदेव त्रिगुणं सकृद् दक्षिणावर्त्तवलितं कार्य्यन्तदेव त्रिवृतं त्रिसरं सदेक- मुपवीतम् । तस्य चैको ग्रन्थिरेकमेव कौटिल्यं, भ्रमिस्तु प्रवरानुसारेणेति ॥ (३) अत्र संस्कारदीपे निगमे-“कार्पास-क्षौम-गोबाल-शण वल्क-तृणोद्भवम् । सदा सम्भवतोधार्य्यमुपीतं द्विजातिभिः ।"इति । तृणमुलपादि । सम्भवत इत्यभिधानात्पूर्व्वपू- र्वाभावे : परोत्तरविधिः । अत्र निगमपरिशिष्टम् "वाससा यज्ञोपवीतकुरुते तदभावे त्रिवृता सूत्रेण । कुश-मुञ्ज बाल प्रतिसर-रज्जुभिर्वा" इति । बालो गोबालः । प्रतिसर उलपादिः ।

शब्दााम्नानात् । वस्त्रं वा । वाशब्दोऽभावविकल्पार्थः । अरण्यादावुपवीतनाशे सूत्रलाभासम्भवात् । तद्यज्ञोपवीतङ्कुरुते । अन्यथा व्युपवीतस्य मेहनादावनर्थः स्यात् । उद्भूतमूत्रपुरीषक्षुत्पिपासादिवेगस्य क्षणमपि स्थातुमशक्यत्वात् । “पिबतोमेहतश्चापि भुञ्जतोऽनुपवीतिनः । प्राणायामत्रिकं षट्कं नवकञ्च क्रमान्मतम्” ॥ इति स्मरणात् । अपिवा-अथवा ( चौरादिभिररण्यादौ वस्त्रस्याप्यपहारे ) कुशरज्जुमेव यज्ञोपवीतङ्कुरुते । एवकारो(१)ऽत्र सदोपवीतित्वनियमार्थोऽन्यथा कर्माधिकार एवाम्नानात्कर्म्माङ्गमेव यज्ञोपवीतमिति मन्यमानः कर्म्मण्येवोप- वीती स्यान्न सदैवति वदेत् । तच्च नो युज्यते तथाचोक्तम्मनुकात्यायनाभ्याम्- “सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम्” ॥ इति । अस्य लम्बत्वप्रमाणमाह मनुः — “पृष्ठवंशे च नाभ्याञ्च धृतर्य्यद्भिन्दते कटितम् । तद्धार्यमुपवीतं स्यान्नातिलम्बं न चोच्छ्रितम्” इति । इदञ्च वामस्कन्धे धृत्वा परिमेयम् । अत्र स्मृत्यर्थसारे- “विच्छिन्नं वाप्यधोयातं भुक्त्वा निर्म्मिर्तमुत्सृजेत् ॥ ” मनुः — “मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्” इति । मन्त्रवत्-समन्त्रकम् । मन्त्रश्चात्र उपनयनप्रकरणे प्रदर्शयिष्यते ॥१॥ तस्यैव खल्विदानीं यज्ञोपशीतस्य विन्यासविशेषःपरिभाष्यते विनियोग विशेषविवक्षया-द्वाभ्याम— दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंशे प्रतिष्ठापयति । दक्षिणं कक्षमन्ववलम्बं भवत्येवं ज्ञयोपवीती भवति ॥२॥ दक्षिणं बाहुमुद्धृत्य उत्क्षिप्य शिरः मूर्द्धान-मवधाय वेष्टयित्वा सव्ये दक्षि- णेतरे वामेऽंशे स्कन्धे इत्यर्थः । प्रति विशिष्टेन प्रकारेण स्थापयति । यज्ञोपवी- तम् (तथासति) दक्षिणं कक्षं बाहुमूलकोटरप्रदेशम् अनुअधः अवलम्बं लम्ब- मानं भवति यज्ञोपवीतमर्थात् । पुरुषस्तु एवमनेन प्रकारेण यज्ञोपवीती भवति ।


अत्र वस्त्राभावे सूत्रविधानं त्रितन्तुकमात्रपरमतो न प्रकृतसूत्रविरोधः । अत्र वाससा यज्ञोपवीतार्थः स्त्रीशूद्राणाङ्कृते देवपितृकर्मणोरुपपद्यत इति द्रष्टव्यम् ॥ ( १ ) अत्र संस्कारदीपे मैथिलमहामहोपाध्यायहर्षनाथशर्म्माणस्तु—“एवकारोऽयं वस्त्रकुशरज्ज्वोर्यज्ञोपवीतानुकल्पयोस्त्रिसूत्रत्वादिव्यवच्छेदकः । सूत्रं - सूत्रविशेषः । इत्येवमाहुः ॥

२४ उपवीतविधिः । [ १ प्रपाठके- सेयं परिभाषा कर्माार्था । “उपवीतं देवानामुपव्ययते” इत्यादिशास्त्रशेषभूता च । विध्येकवाक्यतया खल्वर्थवादानां प्रामाण्यमनुमन्यन्ते तान्त्रिकाः “विधिना चैकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः-”ति ( जै० सू० १।२।१ ) ॥ २ ॥ सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति । सव्यं कक्षमन्ववलम्बं भवत्येवं प्राचीनावीती भवति ॥३॥ सव्यं वामम् “वामं शरीरं सव्यं स्यादपसव्यन्तु दक्षिणम्” इत्यमरः । व्याख्यातमन्यत् । यज्ञोपवीतिना कृत्यमित्येतद्व्याचिख्यासुराचार्यः प्राचीनावी- तित्वमप्यभिदधानोयज्ञोपवीतमस्यास्तीत्यमुमेवार्थन्तन्त्रावगमयति भाष्यकल्पा- खल्वेषा काण्डिका यज्ञोपवीतिनेति सूत्रस्य ॥ ३ ॥ यदर्थं विन्यासविशेषः परिभाषितः स विनियोगविशेष इदानीमभिधीयते— पितृयज्ञे त्वेवं प्राचीनावीती भवति ॥ ४ ॥ पितृभ्यः पितॄणां वा यज्ञः “यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृता- र्थत्वात्” ( जै० सू० ४।२।२२ ) इत्युक्तलक्षणस्तस्मिन् पितृयज्ञे पितृकर्मणि । तु शब्दश्चशब्दार्थोऽन्यदपि सव्यजान्वञ्चनादि समुच्चिनोति । तदाह कात्यायनः– “दक्षिणं पातयेज्जानु देवान्परिचरन् सदा । पातयेदितरज्जानु पितॄन्परिचरन्नपि ॥” इति । एवशब्दश्चान्यदैवतकर्ममध्यपातिन्यपि पित्र्ये कर्मणि प्राचीनावीतित्वं निय- मयति । स्मरति च भगवान्मनुः— प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमा निधनात्कार्यं विधिवद्दर्भपाणिना” ॥ इति । ऋज्वर्थमन्यत् ॥ ४ ॥ ( इत्युपवीतविधिः ) ( अथाचमनविधिः ) एवं यज्ञोपवीतिना कृत्यमित्यंशं व्याख्यायाचान्तोदकेन कृत्यमित्येतदिदानीं व्याख्यायते— उदगग्नेरुत्सृप्य प्रक्षाल्य पाणी पादौ चोपविश्य त्रिराचामेद्द्विः परिमृजीत ॥ ५ ॥ अग्निसाध्यस्याग्निहोत्रस्य प्रकृतत्वादगृह्यकर्मणाञ्च प्रायेणाग्निसाध्यत्वादु- दगग्नेरित्याह । उदगुत्तरतः । कस्य ? अग्नेः । उत्सृप्य-उत्क्रम्य गत्वेत्यर्थः । सृपिर्गत्यर्थः (भ्वा. प.) पाणी हस्तौ पादौ चरणौ च प्रक्षाल्य प्रकर्षेणाद्भिः शोध- यित्वा । “क्षलशौचकर्मणि” ( चु. प. ) तदितिकर्त्तव्यतामाह देवलः !

कण्डिका १ ] गोभिलगृह्यसूत्रे- ३५ “प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः । उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः” इति ॥ क्रमश्च पादप्रक्षालने “सव्यं पादमवनेनिजे” इति सव्यं पादं प्रक्षालयेत् । “दक्षिणं पादमवनेनिज” इतिदक्षिणम्पादं प्रक्षालयेद्”-( ४-१०-१० ) ति लिङ्गदर्शनादवगन्तव्यः । “सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयती”ति गृह्यान्तरम् । उपविश्य । “अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजोनित्यमुपस्पृशेत् ॥” इतिस्मृत्यन्तरोक्तप्रकारेणेत्यर्थः । त्रिः त्रिवारम् । क्रियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यःसुच्” (पा०५।४।१८) इति सुच्प्रत्यय एवमग्रेऽपि । आचामेत् । “आचान्तोदकेन कृत्यम्” इत्यस्य परिदर्शकवतया अप इति वाक्यशेषः । “त्रिः पिबेदम्बुवीक्षितम्” इति च स्मृत्यन्तरम् । अत्र त्रिराचामेदित्यभिधान आचा- र्य्यस्त्रिरवभक्षणमाचमनमन्यदितिकर्त्तव्यतेति दर्शयति । मन्वर्थमुक्तावल्यामप्ये- वम् । द्विः द्विवारम् परिमृजीत(१) “संवृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्” इतिदत्तस्मरणात्संवृतं मुखमङ्गुष्ठमूलेन प्रमृज्यादित्यर्थः ॥ ५ ॥ पादावभ्युक्ष्य शिरोऽभ्युक्षेत् ॥ ६ ॥ अद्भििरिति सामर्थ्यात् । ऋज्वन्यत् । विसमासकरणं पादाभ्युक्षणशेषेण शि- रोऽभ्युक्षणनिषेधार्थमिति भट्टभाष्यम् ॥ ६ ॥ इन्द्रियाण्यद्भिः संस्पृशेत् ॥ ७ ॥ इन्द्रियाणि । इन्द्रियाणाममूर्त्तत्वात्तदायतनानि । अद्भिः करणभूताभिः उदकार्द्रेण हस्तेन प्रतीन्द्रियमित्यर्थः । संस्पृशेत् । सम्यक् स्मृत्यन्तरोक्त(२) प्रकारेण स्पृशेत् ॥ ७ ॥ कानि तानीन्द्रियाणीत्याह- ( १ ) “मृजूशौचालङ्कारयोः” ( चु०उ० ) इत्यस्याधृषीयत्वान्णिजभावपक्षे विधा लिङि रूपम् । प्रमृज्यादिति तु “मृज शुद्धौ” (अ०प०) इत्यस्य । अत्र कात्यायनः “त्रिः प्राश्यापोद्विरुन्मृज्य मुख, मेतान्युपस्पृशेत् । आस्यनाशाक्षिकर्णांश्चनाभिवक्षः शिरोंऽसकान्” इति । एतच्चाचान्तोदकेनेति सूत्रांशं स्फुटीकरोति । वारत्रयमपः प्रकर्षेण भक्षयेत् । अक्षेण- प्रकर्षश्च कर्म्मकरणकर्तृप्रकर्षात् । तत्रकर्म्मप्रकर्षोऽनुष्णत्वादफेनत्वाबुद्बुदत्वहृदयगामित्वा- दिरूपः । कर्तृप्रकर्षश्च कृतपाणिपादशौचत्वासीनत्वप्राङ्मुखत्वादिरूपः । करणप्रकर्षश्चात्र ब्राह्मतीर्थत्वादिः । एवमपोभक्षयित्वा मुखं वारद्वयमूर्ध्वं लोमस्थाने मार्जयेत् । नत्वलोमके । पुनराचमनेऽनवस्थाप्रसङ्गात् । तथाच परिशिष्टम् “आचान्तःपुनराचामेत् वासश्चपरिधायो- ष्ठौ संस्पृश्य यन्नालोमकौ” इति । ( २ ) तथाच मनुः “त्रिराचामेदपः पूर्वं द्विःप्रमृज्यात्ततोमुखम् । खानि चैव स्पृशेद- द्भिरात्मानं शिर एव च ॥” इति । अस्यार्थः । प्राङ्मुख उदङ्मुख ईशान्याभिमुखोवाऽनु- ४ गो० गृ० सू०

अक्षिणी नासिके कर्णाविति ॥ ८ ॥ संस्पृशेदिति सम्बध्यते । इतिशब्दोऽन्यदपि स्मृत्यन्तरोक्तं समुच्चिनोति । आद्यर्थत्त्वात्तस्य । “ज्वलितिकसन्तेभ्योणः” ( पा. ३।१।१४० ) इत्यत्र यथा । उपन्यासमात्रमेतत् । क्रमश्च— “त्रिःप्राश्यापोद्विरुन्मृज्य मुखमेतानुप(१)स्पृशेत् । आस्यनासाक्षिकर्णांश्च नाभिवक्षःशिरोऽसकान्” ॥ इति कर्म्मप्रदीपोक्त एव भवति । तमेतं स्पष्टमाह दक्षः— “प्रक्षाल्य पाणी पादौ च त्रिःपिबेदम्बु वीक्षितम् । संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् ॥ संवृत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः । नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ॥ सर्वाभिश्च शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत्” । इति । तिसृभिरित्यङ्गुलीभिस्तर्जनीमध्यमानामिकाभिः । उपस्पृशेत् । ओष्ठौ । तदेतच्चोद्यमानविषयम् । तथाचापस्तम्बः-“चोद्यमानस्तु—प्रयतोऽपि द्विराचा- मेद्द्विः परिमृजेत्सकृदुपस्पृशेत्” इति । एतच्चाङ्गुलित्रयेणेत्याचारचिन्तामणिः । मुखमिति-संवृतस्यावान्ताधरोष्ठम् । पुनःपुनरिति चक्षुर्द्वयश्रोत्रद्वयाभिप्रायेण । तेनैकं चक्षुः स्पृष्ट्वाऽपरं स्पृशेदक्षिणवामक्रमेण । अत्र प्रमार्जनानन्तरं प्रभूतज- लेन दक्षिणहस्तं प्रक्षाल्य तत एवम्भूतमेवास्यं मुखमोष्ठौ श्मश्रुतोऽधः स्यावा- दुपरि द्विरुपस्पृशेत् । ततोदक्षिणपाणिं प्रक्षाल्य वामपाणिं पादौ शिरश्चाभ्यु- क्ष्या(२)ङ्गुष्ठानामिकाभ्यां सजलाभ्यामक्षिणी स्पृष्ट्वा—तर्जन्यङ्गुष्ठाभ्यां सजला- ष्णाभिरफेनाभिरद्भिर्ब्राह्मेण कायत्रैदशिकान्यतरेण वा तीर्थेन स्तोकं हृत्कण्ठतालुगाभिरि- त्यन्यत्राभिधानात् क्रमेण द्विजातिभिस्त्रिरपः प्राशनानन्तरं संवृत्योष्ठाधरौ वारद्वयमङ्गुष्ठ- मूलेन संमृज्यात् । खानीन्द्रियाणि मुखस्थानि। त्रीणि चाङ्गानि जलेन स्पृशेत् । तत्र तर्ज- न्यङ्गुष्ठाभ्यां दक्षिणवामक्रमेण नासिकापुटे अङ्गुष्ठमध्यमाभ्यां नेत्रे अङ्गुष्ठानामिकाभ्यां कर्णौ अङ्गुष्ठकनिष्ठाभ्यां नाभिं स्पृष्ट्वा पुनर्जलं स्पृशेत् । ततस्तलेन हृदयं स्पृष्ट्वा जलं स्पृष्ट्वा सर्वा- ङ्गुलीभिः शिरश्चाद्भिरेव स्पृशेत् । पादौ शिरश्च पृथग्जलेन स्पृशेत् । इति ॥ अत्रान्ते चका- राद्बाहुमूले अपीति दक्षस्मृत्याऽनुपदं व्यक्तीभविष्यति । (१) एवमादावुपैत्यविवक्षितम् । तेन “उपस्पर्शनंस्त्वाचमनम्” इत्याग्नेयकोशेन समं न विरोधः ॥ (२) तथाचापस्तम्बः “त्रिरोष्ठौ परिमृजेद्विरित्येके, सकृदुपस्पृशेत् । दक्षिणेन पा- णिना सव्यं प्रोक्ष्य पादौ शिरश्च इन्द्रियाण्युपस्पृशेत्” इति । सकृदिति ओष्ठावित्यनु- षङ्गः । उपस्पृशेत्—उपसमीपे स्पृशेत् । तेन स्यावोपरि लोमोदयादधःस्पृशेत् । तदेतन्नि- बन्धेषु व्यक्तम् ।

१ कण्डिका ] गोभिलगृह्यसूत्र- २७ भ्यां नासापुटद्वयं स्पृष्ट्वाऽङ्गुष्ठकनिष्ठाभ्यां सजलाभ्यां कर्णौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठा- भ्यां नाभिं स्पृशेत् । प्रकृतसूत्रानुसाराइक्तः क्रमोऽत्र कल्पे न विवक्षितः । स हि सर्वशाखिसर्ववर्णसाधारणः कल्प (१) । तत्र तर्जन्यङ्गुष्ठाभ्यां सोदका- भ्यां नासापुटे स्पृष्ट्वाऽङ्गुष्ठानामिकाभ्यां सोदकाभ्यामक्षिणी स्पृष्ट्वा एवमेव(२) श्रोत्रे ततः कनिष्ठाङ्गुष्ठाभ्यां नाभिं स्पृशेदिति । तथाच शङ्खः— “तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठमध्यायोगेन स्पृशेन्नेत्रद्वयं ततः ॥ अङ्गुष्ठानामिकायोगे श्रवणौ समुपस्पृशेत्” । इत्येवं विशेषोदृश्यते । परिगृहीतश्चायमाचारेणापि बहूनाम्—अत्र कर्ण- स्पर्शो कनिष्ठाङ्गुष्ठयोगः । “कनिष्ठाङ्गुष्ठाभ्याञ्च कर्णावालभते ततः” इत्या- चारविवेकधृतभविष्यपुराणवचनात् । ततः पाणिं प्रक्षाल्य करतलेन हृदयं स- र्वाङ्गुलीभिः शिरोऽङ्गुल्यग्रेणांसद्वयं स्पृष्ट्वा शेषं जलञ्चिच्छिदामहस्ते दद्यात् । इदमाचमने, द्विराचमने तु पादप्रक्षालनवर्जमखिलमावर्तते । भोजनोपक्रमाच- मने सकृदेवोष्ठस्पर्श इति निबन्धाराः ॥ ८ ॥ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥ ९ ॥ यद्यत् इन्द्रियमन्यद्वाऽङ्गं मीमांस्यं विचार्य्यं ( विचारार्हं ) स्यात्तत्तदद्भिरु- दकैः संस्पृशेत् । प्रक्षालयेत् । न तु (३)संशयनिरासाय विचारमेव कुर्य्यादित्यर्थः९ तत्रैतदाहुः ॥ १० ॥ तत्र तस्मिन्नाचमने एतत्—“नोपस्पृशेद्द्रजन्नि”त्यादि—“उच्छिष्टो हैवातोऽन्यथ भवति” (१।२।३०) इत्येतदन्तं वक्ष्यमाणमाहु“र्ब्राह्मणवाक्यानी”ति वाक्यशेषः१० नोपस्पृशेद्द्रवजन् ॥ ११ ॥ व्रजन्—गच्छन् । नोपस्पृशेत्-नाचामेत् । “उपस्पर्शस्त्वाचमनम्” इत्य- मरः ॥ ११ ॥ न तिष्ठन् ॥ १२ ॥ स्थितिरूर्ध्वावस्थानम् । उपस्पृशेदित्यग्रेऽपि यथायथमभिसम्बध्यते ॥१२॥ न हसन् ॥ १३ ॥ न हसन्हासस्यकुर्वन्स्मयमानोवा । तन्मनाः सुमनाश्चेत्यर्थः ॥ १३ ॥ न विलोकयन् ॥ १४ ॥ ( १ ) तत्र घ्राणं पश्चादनन्तरं चक्षुरित्येव तदभिमतमिति कश्चित् ॥ ( २ ) अङ्गुष्ठानामिकाभ्यां सोदकाभ्याम् ॥ ( ३ ) मीमांसा-विचारः इदमङ्गं शुद्धं जातन्न वेति सन्देहनिरासायेत्यर्थः ॥

२९ आचमनविधिः । [ प्रपाठक १ विलोकयन्—इतस्ततः किञ्चित्पश्यन् । अन्यमनस्क इत्यर्थः ॥ १४ ॥ नाप्रणतः ॥ १५ ॥ उपविष्टोऽपि । अप्रणतः अनवनतशरीरः । उच्छिष्टानामपामङ्गेषु पातस- म्भवादितिभावः । अत्यन्तावनतकायस्तुन “तिष्ठन्नाचामेत्प्रह्वोवे” त्यापस्तम्ब- सम्वादात् ॥ १५ ॥ नाङ्गुलीभिः ॥ १६ ॥ अङ्गुलीभिरूर्ध्वमुदकमुत्क्षिप्य “कायत्रैदशिकाभ्यां वे”ति मनूक्ताचमनती- र्थविकल्पपचेऽपि नोत्क्षेपस्तत्र(१) कार्यः किन्तु संहताभिरङ्गुलीभिः सावधानः शनैराचामेत् । नित्यन्तु ब्राह्मतीर्थमेवाचमने विप्राणाम् । “ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्” इति मनूक्तेः ॥ १६ ॥ नातीर्थेन ॥ १७ ॥ तीर्थादाचमनार्थं विहितादन्येन प्रकारेण । प्रतिषिद्धतीर्थेन(२) पित्र्येण वा । तथाच मनुः— “ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन” ॥ इति । विप्र इत्याचमनकर्तृमात्रोपलक्षणम् । आचमनोद्देशेन तीर्थविधानात् । कायं—प्राजा(३)पत्यम् । त्रैदशिकन्दैवम् । अत्र सम्भवे ब्राह्मतीर्थनैवाचमनम् । नित्यकालमितिश्रवणात् । व्रणादिना ब्राह्मतीर्थावरोधे कायत्रैदशिकाभ्यांचेति व्य- वस्थितोविकल्पः । पित्र्यन्तु सदा निषिद्धं “न पित्र्येण कदाचने”ति निषेधाद्दि- त्याचारादर्शादयः । पित्र्येण तर्जन्यङ्गुष्ठमध्येन । तान्येतानि तीर्थानि— ‘कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य तु । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥” इति याज्ञवल्क्योक्तान्यवगन्तव्यानि ॥ १७ ॥ न सशब्दम् ॥ १८ ॥ शब्देन सह यथा भवति तथा नाचामेत् । क्रियाविशेषणमेतत् । “क्रिया- विशेषाणानाङ्कर्मत्वं नपुंसकत्वञ्चे—”त्यनुशासनप्रसिद्ध्याऽत्र द्वितीयान्तमे- तत्पदम् ॥ १८ ॥ ( १ ) पामरास्तु—अङ्गुलीभिर्मृदादिना दन्तान्प्रक्षाल्याचामन्ति तेऽप्यनेन निराकृता वेदितव्याः पृथगपि ( दन्तधावनप्रकरणे ) निषिद्धं तदन्यत्रेत्यवगन्तव्यम् । ( २ ) तथाचात्राप्राशस्त्यार्थे नञ् बोध्यः । “अपशवोऽन्ये गोऽश्वेभ्यः” इत्यत्र यथा । ( ३ ) को ब्रह्मा देवताऽस्येत्यर्थेऽण् । “कस्येत्” ( पा० ४।२।२५ ) इति—अस्येत्वे वृद्धिरोयादेशश्च ॥

कण्डिका ] गोभिलगृह्यसूत्रम् — २६ नानवेक्षितम् ॥ १९ ॥ अनवेक्षितं — दृष्ट्वा अपूतम् । हस्तगृहीतमुदकमवेक्ष्येव यथालब्धं दृश्य- केशकीटादिरहितं नोपस्पृशेत् । “रात्राववलोकितेनापि शुद्धिस्क्ता मनीषिभिः ।” इति स्मरणाद्रात्रावेष नियमोन । किंतु तत्र ( रात्रौ ) वस्त्रपूतन्तदपेक्षितमिति द्रष्टव्यम् ॥ १९ ॥ न बाह्यंसः ॥ २० ॥ बाह्यौ जानुभ्यां बहिष्कृतावंसौ स्कन्धौ (१) यस्य तथाभूतः सन् नोपस्पृशेत् । “अन्तर्जान्वरत्नी कृत्वा त्रिरपोहादीः(२) पिवेद्”ति हारीतस्मृतिदर्शनात् ॥२०॥ नान्तरीयैकदेशस्य कल्पितोत्तरीयत्वात् ॥ २१ ॥ अधः परिधानवस्त्रमन्तरीयमुच्यते तदेकदेशस्य तदवयवस्य । उत्तरीयता- ङ्कल्पयित्वा । एकवासा इत्यर्थः । याजुषास्तु तद्विधीयते । (पा०गृ० २।६।२३) २१ नोष्णाभिः ॥ २२ ॥ उष्णाभिर्बहिस्तप्ताभिरद्भिरिति पुनर्घर्मसंतप्ताभिरपीत्यर्थः । भट्टभाष्येतु — अ- स्यापवादकवचनमुपन्यस्तम् “उदकेगातुरोनाऽथ तथोष्णेनोष्णपायिनाम्” इति२२ न सफेनाभिः ॥ २३ ॥ अद्भिरेव ॥ २३ ॥ न च सोपानत्कः क्वचित् ॥ २४ ॥ चशब्दोऽप्यर्थोभिन्नक्रमश्च । उपानहौ प्रसिद्धे ताभ्यां सहितः सोपानत्कः : क्वचिच्च क्वचिदपि कस्याञ्चिदप्यवस्थायान्नोपस्पृशेत् । देवलः — “सोपानत्कोजलस्थोवा मुक्तकेशाऽपि वा द्विजः । उष्णीषी वापि नाचामेद्वस्त्रेणाऽऽवेष्ट्य वा शिरः ॥” इति । अत्र विशेषोगोभिलीये — “जानुभ्यामूर्ध्वमाचम्य जले तिष्ठन्न दुष्यती”त्युक्तम् । सोपानत्क इत्युपलक्षणम् । पादुकास्थोऽपि नाचामेत् । तथाच मरीचिः — “न बहिर्जानु न त्वरया नासनस्थोन चोत्थितः । न पादुकास्थानन्यचित्तः शुचिः प्रयतमानसः ॥ उपस्पृशेद्द्विजोनित्यं शुद्धः पूतोभवेन्नरः । मुक्त्वाऽऽसनस्थोऽप्याचामेन्नान्यकाले कदाचन ॥” इति ॥ २४ ॥ कासक्तिकः ॥ २५ ॥ नोपस्पृशेदित्यनुवर्त्तते । के शिरसि—आसक्तिका—आवेष्टिका (वस्त्रबन्धनं) ( १ ) तत्प्रधानौ बाहू इति तदर्थः । ( २ ) हृद्गाः । एतच्च विप्रविषयम् । “हृद्गाभिः पूयते विप्रः” इत्याद्यनुपदं ( २९ सूत्रे ) व्यक्तं भविष्यति ॥

३० आचमनविधिः । [ प्रपाठके १ कृता येन सोऽयं काम्क्तिकः । कृतशिरोवेष्टनः । उपलक्षणमेतत् । बद्धपरिकरः कञ्चुकीचैवमुच्यत इत्यन्ये ॥ २५ ॥ एवम्— गले बद्धः ॥ २६ ॥ गलावम्बितवासाः । प्रावृतोत्तरासङ्गः । नोपस्पृशेत् ॥ २६ ॥ चरणौ न प्रसार्यच ॥ २७ ॥ उपस्पृशेदित्यनुवर्त्तते । चरणौ-पादौ । प्रसार्य-वितत्य । .चशब्दः- “आ- सनारूढचरणोनाचामेन्न जपेत्क्वचित्” इति स्मृत्यन्तरोक्तं समुच्चिनोति ॥ २७ ॥ अन्ततः प्रत्युपस्पृश्य शुचिर्भवति ॥ २८ ॥ अन्ततः । अन्ते । सार्वविभक्तिकस्तसिः । ( पा० ५।४।४४ वा० ) आर- ब्धवैधककर्म्मणाम् अनुपदवक्ष्यमाणशयनादीनाञ्चान्तेऽवसाने प्रत्युपस्पृश्य— पुनराचम्य शुचिः शुद्धोभवति । अत्र “सावधारणं सर्वं वाक्यमब्भक्षोवायु- भक्ष” इति वदुपस्पृश्यैव शुचिर्भवति नान्यथेत्यर्थः । अत्र प्रत्युपस्पृश्येत्यस्य स्पृष्ट्वोदकम्पाणिनेति भट्टभाष्यसम्मतार्थः । सचायं जलस्पर्शः पूर्व[८]सूत्र- व्याख्याने स्पष्टमभिहितः । अन्येत्त्वाहुः—अन्ततोमध्यत इन्द्रियायतनानि उपस्पृश्य(१) शुचिर्भवति न पार्श्वत इति ॥ २८ ॥ हृदयस्पृशस्त्वेवापआचामेत् ॥ २९ ॥ हृदयस्य स्पृशः(२) । क्विबन्तमेतत्पदम् । अपः । ब्राह्मणविषयमेतत्(३) । ( १ ) उपस्पर्शयित्वा । “जलेने”ति शेषः । अत्राचमनविध्यनन्तरं देवलः— “रेतोमूत्रशकृन्मोक्षे भोजनेऽध्वपरिश्रमे । शौचमेवं विधम्परोक्तमीषच्चान्यत्र वर्त्तते ॥” इति । एवं विधं—यथोक्तसकलाङ्गसम्पन्नम् । ईषत्—आचमनमात्रमपि । इन्द्रियस्पर्शादिर- हितम् । त्वरादिवशादन्यत्र शुद्धये भवतीत्यर्थ इत्याचारचिन्तामणौ वाचस्पतिमिश्राः प्राहुः । अन्यत्रेत्युक्तिकर्म्मव्यतिरिक्तविषया । तत्र विशिष्य तद्विधानात् । अत्र ( आचमने ) प्रौढपादत्वं निषेधति कात्यायनः— “स्नानमाचमनं होमं भोजनं देवता- र्चनम् । प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ तल्लक्षणं यथा— “आसनारुढपादस्तु जानुनोर्जङ्घयोस्तथा । कृतावसक्थिकोप्यस्तु प्रौढपादः स उच्यते ॥” इति । आसनारुढपाद आसनारुढपादतलः । जानुनोर्जङ्घयोः कृतावसक्थिकः, कृतजानुज- ङ्घाबन्धः । तुद्वयेन भेदप्रतीतेः । अत्रचा—“नेकोद्वाह्ये दारुशिले भूमिसमे । इष्टकाश्च सङ्की- र्णीभूता” इति बौधायनवचनात्तथाविधापादपि तन्न कुर्यात् । इति बोध्यम् ॥ ( २ ) षष्ठी समासः । यत्तु हृदयं स्पृशन्तीति विजगृाह कश्चित्तन्न तथासति "कर्म्म- ण्यण्” ( पा० ३।२।१ ) इत्यगोपधागुणे हृदयस्पर्शीरिति प्रसज्येत ॥ ( ३ ) भट्टभाष्ये तु हृदयस्पृश एव यथा भवन्ति तथाचामेन्नान्यथेति । तथा च त्रिः

१ कण्डिका ] गोभिलगृह्यसूत्रे- ३१ यद्वा चार्थेतु शब्दो— “हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः” ॥ इति मनूक्तं समुच्चिनोति । प्राशिताभिरन्तरास्यप्रविष्टाभिः कण्ठमप्रा- प्ताभिरपि । शूद्रस्तु जिह्वौष्ठान्तेनापि स्पृष्टाभिरद्भिः पूतोभवति । अन्तत इति तृतीयान्तात्तसिः । ( पा० ५।४।४४ वा० ) ॥ २९ ॥ उच्छिष्टो हैवातोऽन्यथा भवति ॥ ३० ॥ हेत्यैतिहास्याख्यापकमव्ययम् । अतोऽस्माद्यथोक्ताचमनादन्यथाऽन्येन प्रका- रेण कृताचमनोऽपि उच्छिष्ट एव भवतीतिवृद्धैराम्नायते । इतिर्ब्राह्मणवाक्यस- माप्तिं द्योतयति ॥ ३० ॥ अथ प्रत्युपस्पर्शनानि ॥ ३१ ॥ अथ-उपस्पर्शनकथनानन्तरं प्रति-पुनरुपस्पृश्यन्ते येषु ( निमित्तेषु ) तानि प्रत्युपस्पर्शनानि । द्विराचमाननिमित्तानि “वक्ष्यन्ते” इति शेषः(१) ॥ ३१ ॥ सुप्त्वा, भुक्त्वा, क्षुत्त्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्या- माक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ ३२ ॥ इति गोभिलीये गृह्यसूत्रे प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ ꕤ सुप्त्वा-निद्रामासेव्य । भुक्त्वा-अन्नादि भक्षयित्वा । क्षुत्त्वा-क्षुतं कृत्वा । स्नात्वा-आप्लुत्य । पीत्वा-पेयमुदकादि । विपरिधाय वासः। चः समुच्चये- “होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेद्व़ासोविपरिधाय च ॥” इत्येवमादि स्मृत्यन्तरोक्तनिमित्तान्तरं समुच्चिनोति । रथ्या-प्रतोली-वि- शिखेति समानाऽभिधानम्। तामाक्रम्य श्मशानं (२) चकारादाक्रम्येत्यनुषज्यते । प्राशिता आपोयदि हृदयङ्गमा न भवन्ति तदा चतुः प्राशयेत् । तथाच गौतमः—“त्रिश्च- तुर्वाऽपआचामेदि”ति । तुशब्दात्क्षत्रियस्तु कण्ठगाभिरेव शुद्ध्येत । वैश्योभक्षितमात्राभि- रेव । शूद्रोमुखप्रविष्टाभिरेवेत्युक्तम् ॥ ( १ ) एतान्येव प्रत्युपस्पर्शनपदाऽभिधेयानि पुनराचमननिमित्तान्यष्टौ सांख्यातानी- ति सत्यव्रतसामश्रमिणः ॥ ( २ ) शवानां शयनम् । इति चन्द्रकान्तः । निरुक्ते तु श्मशयनं श्मशानम् । श्मश- रीरम्” (३।५।३) इति । तच्चशवस्यैव । तथाचोक्तं स्कान्दे काशीखण्डे--“श्मशब्देनशवः प्रोक्तः शाने शयनमुच्यते । निर्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः” इति । ( अ० ३० श्लो० १०३ ) ।

३२ आचमनविधिः। [ १ प्रपाठके- आचान्तः कृताचमनोऽपि पुनराचामेत् । तथाच (१) द्विराचमनेषु निमित्तेषु कर्त्तव्यमन्यत्र कर्मकालात् । तथाच पराशरः- "क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्मस्थ एषुनाचानेद्दक्षिणं श्रवणं स्पृशेत्( २ )” ॥ इति । निष्ठीविते-मुखेन कठिनश्लेष्मत्यागे । नासानिसृते कठिनश्लेष्मणि च । पतितानाञ्चसम्भाषेऽधोवायुसमुत्सर्गेऽनृतभाषणे । एवमन्येष्वपि निमित्तेषु स- त्सु कर्मस्थोऽसमर्थः समर्थोऽपि नाचामेत् किन्तु-दक्षिणं कर्णमेव स्पृशेत् । इति स्मृतिदीपिकायां महामहो० वामदेवोपाध्यायाः । तथा च वृद्धशातातपः- “वातकर्मणि निष्ठीव्य दन्तश्लिष्टे तथाऽनृते । क्षुते पतितसम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥” इति ॥ ३२ ॥ ( इति सर्ववर्णसाधारणप्रकरणम ) इति श्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां "मृदुला"ख्यायां मुकुन्दशर्म्मसङ्कलिता- याम्प्रथमप्रपाठकस्य द्वितीया कण्डिका ॥ १ ॥ २ ॥ * ॥ ( १ ) द्विराचमनानन्तरं-विष्णुस्मरणमाह-आचारचिन्तामणिवृतं ब्रह्मपुराणम्- “द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम्” इति । ( २ ) एतच्च विप्रस्यैव । "विप्रस्य दक्षिणे कर्णे सर्वास्तिष्ठन्ति देवताः" इति परा- शरवचनात् । विप्रान्यस्तु-भूपृष्ठादिस्पर्शनमनुकल्पान्तरं कुर्यात् । तथा च वामदेवोपा- ध्यायकृतस्मृतिदीपिकाधृत-मार्कण्डेयपुराणम् । “कुर्यादाचमने स्पर्शं गोपृष्ठस्यार्कदर्शनम् । कुर्वीताऽऽलम्भनञ्चापि दक्षिणश्रवणस्य च ॥ यथाविभवतोह्येतत्पूर्वाभावे ततःपरम् । न विद्यमाने पूर्वस्मिन्नुत्तराप्राप्तिरिष्यते ॥” इति ॥ गोपृष्ठस्य-भूतलस्य । "गौरिला कुम्भिर्नी क्ष्मा” इति भूमिपर्यायेऽमराभिधानात् । उपक्रान्तवचने एष्वित्युक्त्या एकदेशानुमत्या तुल्ययुक्त्या चान्यत्राप्येतत्कर्मस्थस्यानु जानाति । भूतलमार्द्रमित्याचारदीपिकाकाराः । "आर्द्रन्तृणम्भूमिङ्गोमयञ्चोपस्पृशेत्” इति बौधायनस्मरणात् । आचमननिमित्तानि विशेषतोनित्यकृत्यार्णवे द्रष्टव्यानि । तत्र कर्मस्थस्य रौद्रादिमन्त्रजपादौ-आचमनमाह-योगियाज्ञवल्क्यः- “रौद्रपैत्रासुरान्मन्त्रांस्तथा चैवाऽभिचारिकान् । व्याहृत्यालभ्य चात्मानमपःस्पृष्ट्वाऽन्यदाचरेत् ॥” आत्मानमालभ्य-हृदयं स्पृष्ट्वा । स्वं स्तुत्त्वा वा । अपःस्पृष्ट्वा-आचम्येत्याचारचि- न्तामण्यादयः । एतेनात्मस्तुतिरात्मवधतुल्येति महाभारतोक्तं समर्थितम्भवति । अप्रा- शस्त्यस्मरणात् ॥

दि! It has ”त्यादि! Now look at line 13: It has and then—त्यादिor-त्यादि? Wait, look at line 21: “तपश्च तेजश्चे”त्यादि-In line 13: Wait, is that a dash betweenandत्यादि? Look at line 13: “इमंस्तोमम्”or“इमंस्तोमम्ति”? Wait, look at the glyph before : It is ति! Wait, why would it be ति? Wait, is it: “इमंस्तोमम्” इति? Wait, if it is इति, where is ? Wait, look at the character before त्यादि: Could it be “इमंस्तोमम्” इत्या-? Wait, is that character an ? Let's look at the character before त्यादि: Wait! Between “इमंस्तोमandत्यादि: Let's look at the letters very closely: मं स्तो Then: Wait! Is it स्मि? मस्ति`? Wait, what if the mantra is: "इमं स्तोम

१४ आचमनविधिः । [ १ प्रपाठके- नु-अक्तं भूमिगतं यस्य सः । “अञ्जव्यक्तिम्रक्षणकान्तिगतिषु” ( रु० प० ) इत्यस्माद् “गत्यर्थाकर्म्मके”— (पा० ३।४।७२) त्यादिना कर्त्तरि क्तः । कुत्वं, भूततद्दक्षिणजानुः । दक्षिणेनाग्निम् । दक्षिणस्यामदूरवर्त्तिन्यां दिश्यग्नेः । अत्र “एनबन्यतरस्यामदूरेऽपञ्चम्या” (पा० ५।३।३५) इति विहितेनबन्तयोगे “एनपा द्वितीया” (पा० २।३।३१) इति द्वितीया षष्ठ्यर्थे । “उपपदविभक्तित्वात् । “उप- पदविभक्तीनां सम्बन्धोऽर्थः षष्ठ्यपवादत्वात् । “उत्सर्गसमानदेशा ह्यपवादा भव- न्ती”ति महाभाष्योक्तेः । एवमग्रेऽपि यथायथमूह्यम् । “अदिते अनुमन्यस्व” इति अनेन मन्त्रेण करणभूतेन । तेन मन्त्रं पठित्वेत्यर्थः । “मन्त्रान्ते कर्म्मादी- न्सन्निपातयेत्” ( जै०सू० १२।३।१२ ) इत्यधिकरणसिद्धान्तात् । मन्त्रार्थस्तु- हे अदिते ! देवि ! मामनुमन्यस्व अनुजानीहि । त्वयाऽनुमतः कर्म्मफलं लब्धास्मीति । एवमग्रेतनयोरपि । एताभिस्तिसृभिरनुमतः कर्म्म कुर्वाणस्तत्फ- लभाग्भवतीति आम्नायते । उदकाञ्जलिम्-उदकपूरितमञ्जलिम् । वस्तुतस्तु— अञ्जलावुदकमिति सप्तमीसमासे “राजदन्तादित्वात्” ( पा० २।२।३१ ) उद- कस्य पूर्वनिपातः । अवच्छेदकत्वरूपविषयता सप्तम्यर्थः । “गृहीत्वाचाऽऽस्य- केशेष्वि”तिवत् । अञ्जल्यवच्छिन्नमुदकमिति तदर्थः । प्रसिञ्चेत्-प्रा(१)गग्रं सिञ्चेत् ॥ १ ॥ “अनुमतेऽनुमन्यस्वे”तिपश्चात् ॥ २ ॥ पश्चात्—पश्चिमायां दिशि अग्नेः । उदकाञ्जलिं प्रसिञ्चेत् । इत्यनुवर्त्तते । उदगग्रमित्यर्थः ॥ २ ॥ “सरस्वत्यनुमन्यस्वे”त्युत्तरतः ॥ ३ ॥ उत्तरतः । उत्तरस्यान्दिशि । अग्नेः । उदकाञ्जलिं प्रसिञ्चेत्पूर्वाग्रम् ॥ ३ ॥ “देवसवितः प्रसुवे”ति प्रदक्षिणमग्निम्पर्युक्षेत्सकृद्वा त्रिर्वा । ॥ ४ ॥ “देवसवितःप्रसुवे”त्येवमादिना मन्त्रेण करणभूतेन । तथाच मन्त्रः “देव- सवितःप्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गन्धर्व्वः केतपूः केतन्नः पुनातु वाचस्पतिर्वाचं नःस्वदतु ।” इति । अस्यार्थः—हेदेव ! सवितः ! यज्ञंप्रसुव, क- र्त्तव्यतयाऽनुजानीहि । यज्ञपतिं-यजमानंमाञ्च भगाय भजनीयाय कर्म्मफलाय प्रसुव कर्म्मभागिनं कुर्व्वित्यर्थः । दिव्यो-दिविभवोगन्धर्व्वः रसानां धारयिता । केतपूः प्रज्ञाप्रदः । ( निघं० ३।९।१ ) स केतं प्रज्ञां नः पुनातु । (२)निर्मलाङ्क- ( १ ) अग्नेःखलु दक्षिणस्यामदूरवर्त्तिन्यां दिशि अयं प्रसेकः । पूर्वाभिमुखश्च कर्त्ता भवति । “प्राञ्च्युदञ्चि वा कर्म्माण्यानुतिष्ठेरन्नि”ति च ब्राह्मणम् । ( २ ) अत्रैक एवादित्यो गन्धर्व्वरूपेण प्राणरूपेण च स्तूयते । तत्र प्रथमं प्रत्यक्षकृतः । पश्चात्परोक्षकृत,इत्येवं निगमवाक्यशैली बहुत्रोपलभ्यत इतिद्रष्टव्यम् ।

रोतु । वाचस्पतिः (१) प्राणः । नोऽस्माकं वाचं स्तुतिरूपां स्वदतु स्वादयतु । देव- ताप्रीतिकरीङ्करोतु । अन्तर्भावितण्यर्थोऽत्र स्वदतिः । व्यत्ययेन पदस्यात्रोपन्य- स्तः । ( पा० ३।१.८५ ) इति । प्रदक्षिणं यथा भवति तथा अग्निं पर्युक्षेत् । परित उक्षेत् सिञ्चेत् । “उक्षसेचने” ( भ्वा० प० ) विधौलिङ् । उदकाञ्जलि- धारया प्रदक्षिणमग्निं वेष्टयेत् । इत्यर्थः । सकृद्वा त्रिवेति क्रियाविशेषणम् । वा- शब्दद्वयेन तुल्यवद्विकल्पेऽपि त्रिरावृत्तिपक्षे तद्विधेरनुष्ठानलक्षणोऽप्रामाण्यमि- या फलभूमा कल्पनीयः । अतएवाह कात्यायनः- “यत्र स्यात्कृच्छ्र भूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयोह्यवाप्यते” इति ॥ ४ ॥ पर्युक्षणप्रकारमाह— पर्युक्षणान्तानव्यतिहरन्नभिपर्युक्षन् होमीयम् ॥ ५ ॥ अन्त—शब्दोऽत्रार्थः । अग्निष्टोमे द्वितीयायां धुरि “तस्यान्तेऽन्तरे सल्लँग्मे” इत्यत्र तदर्थकत्वदर्शनादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः । भाष्यान्तरेऽ- प्येवमेव । व्यतिहरन्—व्यतिषञ्जनप्रतिलोमीकुर्वन् । बहुवचनश्रुतिस्त्रित्वतिपक्षा- भिप्राया । तदयमर्थः । पर्युक्षणानाम्पर्युक्षणोदकधाराणा(२) मन्तान् आरम्भान् व्यतिहरन्नभ्यन्तरतः कुर्वन् । इति । अनेनैतदुक्तम्भवति—पर्युक्षणारम्भकोटि- मभ्यन्तरतोऽवसानकोटिञ्च बहिः कुर्यादिति । वीरेश्वरादयोऽप्येवमेवाहुः । हो- मीयम्—होमार्थमुपकॢप्तं व्रीह्यादि । तस्मै हितमित्यर्थे—“विभाषा हविरपूपादिभ्यः” ( पा० ५।१।४ ) इतिच्छस्तस्येयादेशः । ( पा० ७।१।१ ) अभिपर्युक्षन्—पर्युक्षण- धारयाऽभ्यन्तरतः कुर्वन् इत्यर्थः । यद्वाऽऽभिमुख्येन सिञ्चन्त्स्पर्शयन्पर्युक्षेद्- ग्निम् इति सम्बध्यते ॥ ५ ॥ अथहविष्यस्यान्नस्याग्नौ जुहुयात्कृतस्यवाऽकृतस्यवा ॥ ६ ॥ अथ—इत्यानन्तर्यार्थोविशिष्टमानन्तर्यमभिद्योतयति—पर्युक्ष्य तूष्णीं समिध- माधायाथजुहुयान् इति चन्द्रकान्तभाष्यम् । तेन हि प्रथमसूत्रे परिसमुह्येत्यस्य विच्छिन्नानग्न्यवयवानेकीकृत्यामन्त्रकमितिव्याख्यातम् । तदेतदनुमतं पूर्वषाम् । यच्चोद्धृतन्तेन— “समिदादिषु होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच्च इन्धनार्था समिद्भवेत्” ॥ इति कर्म्मप्रदीपवचनं तदपि पूर्वार्थापरिज्ञानविजृम्भितमितिनकिञ्चिदेतत् । हविष्यस्य—हविषि होतव्ये वस्तुनि साधोः “तत्र साधुः” ( पा०४।४।९८ ) इति

( १ ) तथाच “पुनरेहि वाचस्पते” ( ऋ० सं० १०।१६१।३।७) इति मन्त्रे वाचस्पति- पदेन प्राण एव सम्बोधितः सायणाचार्यदुर्गाचार्यादिभिः । ( २ ) तथाचात्रोक्षतेः करणे ल्युटि योरनादेशाइत्यवगन्तव्यम् ।

३६ आचमनविधिः। [ प्रपाठके १ साध्वर्थे यत्प्रत्ययः। “हविः सर्पिषि होतव्ये” इति हैमः। अन्नस्य-अदनीयस्य माषकोद्रवादि(निषिद्ध)(१)भिन्नस्य यवादेः। अवयवलक्षणाऽत्र षष्ठी। तेनाऽव- शेषोऽप्यस्योक्तोभवति। तथा चनिर्वापप्रमाण कात्यायनः— “यावता होमनिष्पत्तिर्भवेद्यः यत्र कीर्त्तिता। शेषश्चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम्” ॥ इति। अग्नौ-सुसमिद्धे(२) वह्नौ। जुहुयात्। हविष्याण्याह बृहस्पतिः— “हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः। कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥ १ ॥ षष्टिका कालशाकञ्च मूलकञ्चे(३)मुकेतरत्। कन्दं, (४)सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥ २ ॥ (१) तथाच च्छन्दोगपरिशिष्टम्— “हविष्येषु यवा मुख्यास्तदनु व्रीहयःस्मृताः। माषकोद्रवगौरादीन्सर्वालाभेऽपिवर्जयेत्” ॥ इति। गौरो-गौरसर्षपः। आदिना कुलत्थमसूरादिपरिग्रहः। (२) तदेतदुक्तप्रायमपि प्रतिविशिष्टज्ञापनायाग्निपदोपादानमवगमयति। तदुक्तं कम्मैप्रदीपे कात्यायनेन— “योऽनर्चिषि जुहोत्यग्नौ व्यङ्ग़ारिणि च मानवः। मन्दाग्निरामयावी च दरिद्रश्चैव जायते ॥ तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन। आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकीन्तथा”॥ इति। आत्यन्तिकीं-पुत्रपौत्रानुवर्त्तिनीम्। समिन्धनञ्चाग्नेर्व्यजनादिना कार्यं, मुखेनैव वेत्ये- के। तदप्याह स एव— “जुहुवंश्च हुते चैव पाणिशूर्पस्फ्यदारुभिः। न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥ मुखेनैके धमन्त्यग्निं मुखादेषोऽध्यजायत। नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत्”॥ इति। जुहुवन्-होतुमिच्छन्। हुते वा पाण्यादिना वह्निसन्दीपनं न कुर्यात्। किन्तु व्यजनादिनैव कुर्यादिति पूर्ववचनार्थः। कुर्याच्चेति चकारोऽवधारणे। इत्थंहि स्वमतमभि- धाय मतान्तरमुपन्यस्यति-मुखेनैक इति। “मुखादग्निरजायते”-ति श्रुतेरग्नेर्मुखप्रभवत्वा- न्मुखेनैव दीपनम्। औचित्यात्। “नाग्निं मुखेनोपधमेदिति श्रुतेरसंस्कृताग्निविषय- त्वेन योजनादित्यर्थः। इदञ्च न स्वमतम्। “कुर्याञ्च्चव्यजनादिने”ति सिद्धान्तिते आका- ङ्क्षानिवृत्तौ मुखेनेति पुनरभिधानायोगात्। (३) क्वचि “त्कन्दं वै केसुकेतरत्” इतिपाठः। आचारचिन्तामणौ “केचुकेतरत्” इतिपठितम्। तत्र केचुकं “कञ्चु” इति मिथिलाभाषायां प्रसिद्धम्। (४) “लवणे सैन्धवसामुद्रे” इति स्मृतिसुधाकरधृतः पाठः। सामुद्रम्-समुद्रोति प्रसिद्धम्। पुरुषोत्तमक्षेत्रादौ “खरलेति” प्रसिद्धम्।

कः. In footnote 4: “कङ्गुनी”ति or “कहुनी”ति? Look closely: it has क, then a letter with no upper loop, hook below: wait, look at 'कङ्गुनी': is there an anusvara? There is a dot above: कँ? No, look at the letter: it is 'कहुनी' or 'कङ्गुनी'? It looks very much like "कङ्गुनी" or "कहुनी" - wait, in Bengali, Kangni is called "काओन", in Maithili "काउनि". In Bengali/Gaudabhasha it's also "कांगुनी" / "काँगुनी". The letter is ङ्गु or हु? It has no dot for ङ्. It looks like ह with u-matra: "कहुनी" or "कङ्गुनी"? Actually, it looks like "कहुनी"ति or "कङ्गुनी"ति. Let's look at the letter: top horizontal bar, vertical short, curve right, then curve left down, with a tail: that is 'ह'! With 'ु', it is 'हु'. But wait, in Bengali it might be misprinted for 'कङ्गुनी'. Let's look: "कहुनी"ति or "कङ्गुनी"ति.) Wait, look at ( ५ ): ( ५ ) “जिमीकन्द” इति पश्चिमोत्तरे । “ओल” इति मिथिलायां

स्मृतिदीपिकायां वामदेवोपाध्यायाः प्राहुः । अयञ्च होमः पाणिनेव कार्यः । तथा च कर्म्मप्रदीपः— “होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः । पाणिरैवेतरस्मिंस्तु स्रुचा चात्र न हूयते ॥” इति ॥ आहुतिप्रमाणमपि तत्रैव—( क० प्र० ) “पाण्याहुतिर्द्वादशपर्व्वपूरिका कंसादिना चेत्स्रुवमात्रपूरिका । दैवेन तीर्थेन च हूयते हविर्व्यङ्गारिणि स्वर्चिषि तच्च पावके ॥ इति । अत्रापि विशेषः स्मर्य्यते— “उत्तानेनैव हस्तेन अङ्गुष्ठाग्रेण पीडितम् । संहताङ्गुलिपाणिस्तु वाग्यतोजुहुयाद्धविः ॥” इति । अन्नस्येति विशिनष्टि—कृतस्य-ओदनादेः । अकृतस्य व्रीह्यादेर्वा, तदाह कात्यायनः— “कृतमोदनसक्तादि तण्डुलादि कृताकृतम् । व्रीह्यादि चाकृतम्प्रोक्तमितिहव्यं त्रिधामतम् ॥” इति । व्याख्यातौ वा शब्दौ । प्रतिनिधिरपि यथोक्तवस्त्वलाभे कात्यायनोक्त उक्तः प्राक् । ( १।१।२३ ) ॥ ६ ॥ अकृतञ्चेत्प्रक्षाल्य जुहुयात्प्रोदकं कृत्वा ॥ ७ ॥ अकृतं-व्रीह्यादि चेज्जुहुयात्तर्हि पूर्व्वमेव (१)तत् प्रक्षाल्य “त्रिर्देवेभ्यः (२)प्र- क्षालयेत्” ( १।७।५ ) इति दर्शनाद्देवार्थत्वाच्चास्य “वारत्रयमि”ति शेषः । प्रो- दकं-प्रगतोदकम् । “प्रादिभ्योधातुजस्य वाच्यो वा चोत्तरपदलोपः” ( पा० २। २।२४ वा० ) इति बहुव्रीहौ गतपदलोपः । शुष्कञ्च कृत्वा जुहुयात् ॥ ७ ॥ अथ यदि दधि पयोयवागूं वा कंसेन(३) वा चरुस्थाल्या वा स्रुवेण वैवा ॥ ८ ॥ अथ-व्रीहियवयोरलाभे यदि दधि पयोयवागूं (४)जुहुयात्तदा केन ?


( १ ) होमदिनात्पूर्व्वदिन एव तथाभूतं सम्पाद्य शुचौ भाजने स्थापयेत् । होमस- मये तत एवोद्धृत्योद्धृत्य शुष्कन्तज्जुहुयात् । सद्यः प्रक्षालने प्रगतोदकेनाप्यवक्लेदेनापचयस- म्भवादिति भावः । ( २ ) अत्र प्रक्षालनं दानस्याप्युपलक्षणम्मत्वा पुष्पाद्यपि त्रिर्देवेभ्योऽर्पयन्ति । तत्र कुच्छ्रभूयस्त्वेन फलभूमैव ( २।३।६ । ) उक्तकातीयवचनादवकल्पते । अन्येतु त्रिःप्रक्षा- लितस्य कृतप्रायतवं मन्यन्ते । मनुष्येभ्योऽपि द्विर्दानन्दध्यादेराजानिकशिष्टाचारादनुगतं दृश्यत इति ॥ वस्तुतस्तु “त्रिष्कृतमयन्देवामन्यन्ते”इति शतपथश्रुतिरेवत्रिः पुष्पादिदाने मूलमिति द्रष्टव्यम् ॥ ( ३ ) भट्टभाष्येऽनेन सूत्रद्वयं कृतम् । ( ४ ) यवागूर्भृष्टयवचूर्णैर्दुग्धपक्वम् ॥

१ कण्डिका ] गोभिलगृह्यसूत्रे- ३६ तत्राह-कंसेन। कांस्य(१)मयभाजनविशेषेण। चरुस्थाल्या चरुर्यत्रस्थाप्यते सा चरुस्थाली तया- “तिर्यगूर्ध्वं समिन्मात्री दृढा नातिबृहन्मुखी। मृन्मय्यौदुम्बरी वापि चरुस्थाली प्रशस्यते॥ इति कर्म्मप्रदीपोक्तलक्षणा। तिर्यगिति। विशालतोन्चैस्त्वाभ्यां प्रादेशप्र- माणा “प्रादेशमात्राः समिध” इत्यन्यत्राम्नानात्। मृन्मयी-मृदा निर्मिता। हस्तघटिता। न तु कुलालचक्रनिर्मितेत्यप्याह-स एव -- “कुलालचक्रघटितमासुरं मृन्मयंभवेत्। तदेव हस्तघटितं स्थाल्यादि खलु दैवतम्॥” इति॥ औदुम्बरी-ताम्रमयी। “औदुम्बरंभवेत्ताम्रे फलादौ यज्ञशाखिनः” इत्य- मयः। स्रुवेणवै वा। अत्र विषमशिष्ट(२)त्वादेवमवगम्यते-शक्त्यपेक्षयाऽत्र विकल्पो नत्वभिधानक्रमापेक्ष्येति। स्रुवोनामाऽरत्निमात्रः खादिरादिर्यज्ञकाष्ठ- मयो होमपात्रमुच्यते। तथाच कर्मप्रदीपः- “खादिरोवाऽथ पार्णोवा द्विवितस्तिः स्रुवः स्मृतः। स्रुग्बाहुमात्री विज्ञेया वृत्तस्तु प्रग्रहस्तयोः॥ स्रुवाग्रे घ्राणवत्खातं द्यङ्गुलपरिमण्डलम्। स्रुचः शराववत्खातं सनिर्व्वांहं षडङ्गुलम्॥ प्राक् शस्तेषां कुशौः कार्यः सम्प्रमार्गोऽजुहूवता। प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा॥” इति। पार्णः- पालाशः। “पलाशः किंशुकः पर्ण”इत्यमरः। तस्येदमित्यर्थे त्राण्। प्रगृह्यतेऽत्रेति प्रग्रहोदण्डः। स च तयोः स्रुवस्स्रुचोर्वृत्तोवर्त्तुलः कार्यः। घ्राण- वत्-नासास्रोतोवत्। तेन द्विपुष्करत्वमायाति। तथा चोक्तम्-“स्रुवाग्रे खननं कुर्यात्पङ्के मृगपदाकृति।” इति। अत्र विशेषमाह-श्रीदेवभाष्ये-आपस्तम्बः- “वैकङ्कत्यग्निहोत्रहवणी बाहुमात्री अरत्निमात्री वा प्रसृताकृतिरि”ति। वैक- ङ्कती-स्रुवावृक्ष-( गम्भारी-) सम्भवा। “वैकङ्कतः स्रुवावृक्षः” इत्यमरः॥ अ- ग्निहोत्रहवणी-स्रुक्। स्रुवश्च। “आकुञ्चितपाण्याकृतिर्हस्ताकृतिः स्रुव” (१) व्रीहियवयोः पाण्याहुतेरुक्तत्वात्॥ (२) स्रुवोह्यत्रोत्पत्तिशिष्टः। अन्यौ चोत्पन्नशिष्टौ। अयमर्थः। स्रुवेण वा जुहुयात् वै इति प्रसिद्धार्थकोनिपातः स्रुवस्यैवं विषेषु होमेषु प्रसिद्धिन्द्योतयति। कात्यायनोऽ- प्याह-“होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः” इति। तस्मात्स्रुवेणैवेति प्रथमः क- ल्पः। तदभावे कंसेन वा चरुस्थाल्यावेति। अभावविकल्पोऽयं तुल्यबलः। दधिपय आ- दावपि पूर्वपूर्वाभावे उत्तरत्तरोविधीयत इति।

४० आचमनविधिः। [ १ प्रपाठके- इति स्मृतिसुधाकरः(१) । सनिर्वाहं-घृतनिर्गममार्गसहितमित्यर्थः । प्राक्शः मूलमारभ्य तदग्रदेशाभिमुखम् । तेषां-स्रुवादीनाम् । संप्रमार्गः । सं- प्रमार्जनम् । जुह्वता-होतुमिच्छता । अत्र कातीयश्रौतसूत्रम्-“विपर्यस्य बर्हि- र्मूलैः” इति । तथा च पद्धतिकृतोवीरेश्वरादयोलिखन्ति-सम्मार्जनकुशानामग्रै- रन्तरतोमूलैर्बाह्यतः स्रुवं संमृज्ये-”ति । लिप्तानां घृतादिलेपवताम् । उभयोः संस्कारे प्रसक्त स्रुव एवादौ संस्कार्यः । “स वै स्रुवमेवाग्रे सम्माष्ट्र्यथेतरा स्रुचः” इति मुरारिमिश्रधृतशतपथश्रुतेः । प्रतापनञ्च सर्वेषां ( लिप्तानामलिप्ता- नाञ्च ) उक्तं चैतत्कारिकायाम्- “प्रतापयेत्ततोवह्नौ रक्षसां वारणाय च । स्रुवखाते च ये सन्ति पापिष्ठाः पापयोनयः ॥ वह्निप्रतापिताः सर्वे भस्मीभवन्ति तत्क्षणात् ॥” इति । अत एवाधोमुखस्य प्रतापनं निबन्धृभिर्लिखितं, तथासति खाततापस्य सुकरत्वात् ॥ ८ ॥ अथ सामवेदिनां सायमारभ्यैवोपासनपरिचरणस्योक्तत्वात् ( १।१।२३ ) तत्प्रकारन्तथैवाह- अग्नये स्वाहेति पूर्वा, तूष्णीमेवोत्तराम् । मध्ये चैवाऽपराजितायाञ्चैव दिशीति सायम् ॥ ९ ॥ पूर्वाम्-प्रथमामाहुतिं मध्य एवाग्नेर्जुहुयात् । इति प्रकृतमनुवर्त्तते । उत्तराम्-द्वितीयाम्-च आहुतिं तूष्णीम-अमन्त्रकमेव । मनसा प्रजापतये स्वाहेति मन्त्रदेवते अनुसन्धाय अपराजितायामैशान्यां दिशि अग्नेर्जुहुयात् । तथाच कात्यायनः- “आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥” इति । ( १ ) प्रकारान्तरं यथा-ग्रहयागपद्धतौ- “खादिरन्तु स्रुवं विद्याच्चतुर्विंशाङ्गुले बुधः । चतुर्थांशेन पाणिः स्यात्तावता कलशौ स्मृतौ ॥ सभूषणौ भागयुगे गण्डी कार्या सुवर्तुला । एकाङ्गुलोऽत्र कण्ठः स्यात्ततस्त्र्यङ्गुलहानियुक् ॥ हस्तोनिकुब्जाङ्गुलिकोमाध्यन्दिनकाराकृतिः । समीपाङ्गुलिसंलग्नाश्चतस्रोऽङ्गुलयोऽन्तरे ॥ बहिः किञ्चिद्विभिन्नाः स्युरङ्गुष्ठस्तलसंस्थितः । अनामिकामध्यपर्वाद्धोरिखा गतोभवेत् ॥ पवित्रञ्चाङ्गुरीयञ्च पाण्योस्तलगंत भवेत् । अङ्गुष्ठपृष्ठसंलग्नं पुष्करञ्चक्षतः पृथक् ॥ तन्मध्ये निखनेत्कूपं कर्षाज्यग्रहणक्षमम् । कलशौ तत्र कर्त्तव्यौ मणिबन्धे परान्तिके ॥ प्रथमेत्र्यङ्गुलं विद्याद्द्वितीयञ्चतुरङ्गुलम् । तयोः पार्श्वेषु कार्याणि कङ्कणानि विशारदैः ॥” इति । गण्डी-दण्ड। कर्षः षोडशमाषमितः ‘गुञ्जाः पञ्चाद्यमाषकाः । ते षोडशा- क्षः कर्षोऽस्त्री” इत्यमरः । मणिबन्धः पाणिप्रकोष्ठसन्धिः ।