हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
२० हर्षचरितम् निहन्ति पातयति । प्रसुतानि गन्तुं प्रवृत्तानि, प्रसुता च जङ्घा । रजो रागः, धूलिश्च। कलुषयति कार्याकार्यदर्शनाससमर्था करोति । दृष्टिं बुद्धिम्, नेत्रं च। अक्षाणी- न्द्रियाणि, रथाङ्गं चाक्षः । तेन च रथो लक्ष्यते । कृतबुद्धयः संस्कृतमतयः । असद्विद्यमानम् । निसर्गः स्वभावः । आलोको विवेकः, प्रकाशश्च । तमः अन्धकारं, अज्ञानमपि । दोषाः, सव्यमण्डलत्वादीनि च । कुपिता क्रुद्धा, धातुवैषम्यदूषिता च । आत्मरागदोषमिति । आत्मभूतगुणदर्शनम्, लौहित्यलक्षणं च विकारम्, 'वोढा भारस्य धीमद्भिर्जनैर्वैबधिकः स्मृतः । दोषैकग्राहिहृदयः पुरोभागी निगद्यते ॥' रागोऽभूतगुणाभिनन्दनम्, रक्तता च। जटाः शिखाः, मूलानि वल्कलानि मुनि- वस्त्राणि, त्वचश्च । वृत्तमुक्ता शीलेन त्यक्ता, परिवर्तुलमौक्तिका च । 'जायोपजीवि हि जनः शैलूषः कथितो बुधैः' । आकल्पो वेषः । जातं प्रकारः । अतिलघिमानु- पादयता तुच्छत्वात् । उपर्येवेत्यन्तःप्रवेशाभावाद् । लघुश्च जलोपरि प्लवते । ('कथिता अनेडमूकः श्रोतुं वक्तुं च खलु न ये शक्ताः । एडास्तु श्रुतिहीना जडास्तु मूर्खा बुधैः प्रोक्ताः' ॥) रोष एव दोषस्तस्य निष्णा नियमेनावस्थितिर्यत्र तस्मिन्स्व- हृदये ते । यद्वा-रोषदोषस्य निष्णा आपणत्वं तस्यामन्त्रणम् हे रोषदोषनिषण्णे इति व्याख्येयम् । निगृहीतवान्प्राप्तवान् । 'आगः पापोपराधयोः' । वैलक्ष्यं लज्जि- तम् । याप्यो गर्ह्यः । पुनराहेति । अविश्रान्तेऽप्युत्क्रमे पुनरित्युपादानं वाच्यता- परिहाराय । वत्से इति प्रसादाविष्करणार्थम् । एपेति । या तवैव स्निग्धा । विनोद- यिष्यति सुखयिष्यति । सरस्वतीति । सरस्वत्यपि शशा गृहमगादिति सम्बन्धः । शारां शबलाम् । धवलकृष्णामित्येव वक्तव्ये शारग्रहणं संवलितवर्णद्वयप्रतीत्य- र्थम् । अधोमुखीभूतेनेति । योऽधिकरणवशादनिष्टमुपविशति स लज्जादिनावश्यम- धोमुखीभवति । जालकं समूहः । व्याहार उक्तिः । तब पितामह भगवान् ब्रह्मा ने दुर्वासा के शाप से ग्रस्त सरस्वती को देखा । उनके शरीर पर सफेद जनेऊ ऐसा लगता था मानों कमल में उत्पत्ति के होने से उसके मृणाल सूत्र लग गए हों । उन्होंने अपने दाहिने हाथ से, जिसकी निर्मल अंगूठी के मरकत से किरणें फूट कर निकल रही थीं और जो त्रिभुवन के कष्ट को दूर करने के लिए कुश की पवित्री धारण कर रहा था, शापजन्य कोलाहल को शान्त किया। अति विमल और फैलती हुई दाँतों की किरणों से मानों भविष्य के होने वाले सतयुग का आरम्भिक सूत्रपात करते हुए, सरस्वती के प्रस्थान के समय मङ्गलपटह के समान अपनी आवाज से दिशाओं को भरते हुए ब्रह्माजी ने गम्भीरतापूर्वक कहा-'हे ब्राह्मण, आपने जिस मार्ग को अपनाया है वह अच्छे लोगों के द्वारा सेवित नहीं है । अन्त में गिरा देता है । जो जितेन्द्रिय नहीं हैं उनकी आँखें उच्छृङ्खल (बेलगाम) इन्द्रियरूपी घोड़ों द्वारा उठी धूल से भर जाती हैं । चर्मचक्षु कहाँ तक देख सकते हैं ? बुद्धिमान् लोग अपने विशुद्ध प्रज्ञारूपी चक्षु से
प्रथम उच्छ्वासः २१ समस्त भले-बुरे को देख लेते हैं। जल और अग्नि के समान धर्म और क्रोध का एक जगह रहना स्वभाव से विरुद्ध है। प्रकाश (विवेक) को छोड़ अंधकार (अज्ञान) में क्यों गिर रहे हो ? क्षमा तो सब तपस्याओं का मूल है। दूसरों की बुराइयों को ही देखने में निपुण दृष्टि के समान तुम्हारी क्रोध से अभिभूत दृष्टि अपने ही भीतर उत्पन्न राग को नहीं देख पा रही है। कहाँ महान् तप के भार को वहन करने की क्षमता और कहाँ एकमात्र दूसरों के अवगुण ग्रहण करना ! अत्यन्त क्रोधी स्वभाव का नेत्रधारी भी अन्धा है, क्योंकि क्रोध से कलुषित हो जाने पर बुद्धि कर्तव्य और अकर्तव्य का विचार नहीं कर पाती। पहले क्रोधी व्यक्ति की विद्या धुँधली हो जाती है और पीछे उसकी भौंह । पहले राग इन्द्रियों को घेरता है, पीछे (लाली रूप में) आँखों में व्याप्त हो जाता है। आरम्भ में तपस्या विगलित हो जाती है, पश्चात् स्वेदजल । पहले अयश स्फुरित होने लगता है, फिर अधर (फड़फड़ाने लगता है) । विषवृक्ष के समान तुम्हारे जटारूपी वल्कल लोक- विनाश के लिए कैसे उत्पन्न हो गए ? तुम्हारी शीलरहित चित्तवृत्ति मुनिवेष के लिए हारयष्टि के समान अनुचित है। क्षमभाव से रहित चित्त के द्वारा नट के समान कृत्रिम तपस्वी के भेष को व्यर्थ ही ढो रहे हो। (इससे) तुम्हारा भी कल्याण नहीं देख रहा हूं । इसी हल्केपन से आज भी तुम ज्ञान-समुद्र के ऊपर-ऊपर ही तैर रहे हो। ये सब महर्षि कानों के बहरे, आँखों के अंधे और मूर्ख नहीं हैं। जहाँ क्रोध जैसा महान् दोष नियमतः वर्तमान रहता है ऐसे अपने हृदय को तुम्हें नियन्त्रित करना चाहिए। फिर भी क्यों तुमने निरपराध सरस्वती को शाप से जकड़ डाला। अपनी असावधानी से हुई गलतियों से लज्जित होने का यही अवसर है, जिनसे मूर्ख निन्दनीय होता है।' यह कह कर ब्रह्मा जी ने फिर कहा—'वत्से सरस्वती ! दुखी मत हो, यह सावित्री तेरे साथ जायगी। हमारे विरह से दुखी होने पर यह तुझे बतलाएगी। पुत्र का मुखकमल देखने तक तेरे इस शाप की अवधि है।' इतना कह कर ब्रह्माजी ने सुर, असुर और मुनि के मण्डल को अपने- अपने स्थान पर विदा किया और स्वयं शीघ्र पहुंचे हुए नारद के कन्धे पर हाथ रख कर समुचित दैनिक क्रिया करने के लिए उठ खड़े हुए । सरस्वती भी शप्त होने के कारण कुछ सिर झुकाए सावित्री के साथ घर चली । कृष्ण मृगचर्म की रेखा जैसी उज्ज्वल और श्याम अपनी आँखें वह वक्ष पर डाल रही थी । मूर्तिमान् शाप के अक्षरों के समान भौंरे उसकी श्वास की सुगन्धि के साथ लग गए मानों उसे रोक रहे थे । शापजन्य शोक से उसके हाथ शिथिल पड़ गए थे । नीचे की ओर दौड़ती हुई उसके नखों की किरणें मानों उसे मर्त्यलोक में अवतीर्ण होने का मार्ग बतला रही थीं। ब्रह्मलोक में निवास करने वाले लोगों के हृदय के समान भवन के कलहंस उसके नूपुरों की आवाज से बुलाए जाने पर उसका पीछा करने लगे । अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमवतता-
रांशुमाली। क्रमेण च मन्दायमाने मुकुलितबिसिनीविसरव्यसनविषण्ण- सरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतरकपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्रुतमुखमाहेयीयूथक्षरत्क्षीरधाराधवलितेष्वासन्नचन्द्रोदयोद्गा- मक्षीरोदलहरीक्षालितेष्विव दिव्याश्रमोपशल्येषु, अपराह्नप्रचारचलिते चामरिणि चामीकरतटताडनरणितरदने रदति सुरस्रवन्तीरोधांसि स्वैर- मैरावते, प्रस्तूतानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाटलताम्, तारापथप्रस्थितसिद्धदत्तदिन- करास्तमयार्ध्यावर्जिते रञ्जितककुभि, कुसुमभासि स्रवति पिनाकिप्रण- तिमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रवे, वन्दारुमुनिवृन्दारकवृन्द- बध्यमानसंध्याञ्जलिवने, ब्रह्मोत्पत्तिकमलसेवागतसकजकमलाकर इव राजति ब्रह्मलोके, समुच्चारिततृतीयसवनब्रह्मणि ब्रह्मणि, ज्वलितवैतान- ज्वलनज्वालाजटालाजिरेष्वारब्धधर्मसाधनशिबिरनीराजनेष्विव सप्तर्षि- मन्दिरेषु, अघमर्षणमुषितकिल्बिषविषगदोल्लाघलघुषु यतिषु संध्योपास- नासीनतपस्विपङ्क्तिपूतपुलिने प्लवमाननलिनयोनियानहंसहासदन्तुरि- तोर्मिणि मन्दाकिनीजले, जलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे, निजमधुमधुरामोदिनि कृतमधुपमुदि मुमुदिषमाणे कुमुद्वने, दिवसाव- सानताम्यत्तामरसमधुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणालकाण्डकण्डू- यनकुण्डलितकंधरे धुतपक्षराजिविजितराजीवसरसि राजहंसयूथे, तटलता- कुसुमधूलिधूसरितसरिति सिद्धपुरंध्रीधम्मिल्लमल्लिकागन्धग्राहिणि सायं- तने तनीयसि निशानिःश्वासनिभे नभस्वति, (संकोचोदञ्चदुच्चकेसरको- टिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृत्योद्भूतधूर्जटि- जटाटवीकुटजकुङ्मलानिकरनिभे नभस्तलं स्तबकयति तारागणे, संध्या- नुबन्धताम्रे परिणमत्तालफलत्वक्त्विषि कालमेघमेदुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटनपटीयसि समुन्मिषति यामि- नीकामिनीकर्णपूरचम्पककलिकाकदम्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकि- रणलावण्यालोकपाण्डु न्याश्याननीलनीरमुक्तकालिन्दीकूलबालपुलिनायमाने शातक्रतवे क्रशयति तिमिरमाशामुखे, खमुचि मेचकितविकचितकुवल- यसरसि शशधरकरनिकरकचमहाविले विलीयमाने मानिनीमनसीव
शर्वरीशबरीचिकुरचये चाषपक्षत्विषि तमसि, उदिते भगवत्युदयगिरि- शिखरकटककुहरहरिखरनखरनिवहहेतिनिहतनिजहरिणगलितरुधिरनिच- यनिचितमिव लोहितं वपुरुदयरागधरमधरमिव विभावरीवध्वा धारयति श्वेतभानौ, अचलच्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलो- कगलितदुग्धविसरवाहिनि दन्तमयमकरमुखमहाप्रणाल इवापूरयितुं प्रवृत्ते पयोधिमिन्दुमण्डले, स्पष्टे प्रदोषसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीं सास्रां सरस्वतीमवादीत्—'सखि, त्रिभुवनोपदेशदानदक्षाया- स्तव पुरो जिह्वा जिह्वेति मे जल्पन्ती । जानास्येव यादृश्यो विसंस्थुला गुणवत्यपि जने दुर्जनवनिर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः । निष्कारणा च निकारकणिकापि कलुषयति मनस्विनोऽपि मानसमसदृशजनादापतन्ती । अनवरतनय- नजलसिच्यमानश्च तरुरिव विप्लवोऽपि सहस्रधा प्ररोहति । अतिसु- कुमारं च जनं संतापपरमाणवो मालतीकुसुममिव म्लानिमानयन्ति । महतां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालम् । सहजस्नेहपाशग्रन्थिबन्धनाश्च बान्धवभूता दुस्त्यजा जन्मभूमयः । दार- यति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः, सा नार्हस्येवं भवितुम् । अभूमिः खल्वसि दुःखद्वेडाङ्कुरप्रसवानाम् । अपि च पुरा- कृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रष्ठे पृष्ठ- तश्च कोऽवसरो विदुषि शुचाम् । इदं च ते त्रिभुवनमङ्गलैकमलममङ्ग- लभूताः कथमिव मुखमपवित्रयन्त्यश्रुबिन्दवः । तदलम् । अधुना कथय कतमं भुवो भागमलंकर्तुमिच्छसि । कस्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेशे हृदयम् । कानि वा तीर्थान्यनुग्रहीतुमभिलषांस । केषु वा धन्येषु तपोवनधामसु तपस्यन्ती स्थातुमिच्छासे । सज्जोऽयमुपचरणचतुरः सहपांशुक्रीडापरिचयपेशलः प्रेयान्सखीजनः क्षितितलावतरणाय । अन- न्यशरणा चाद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्या- विधातारं दातारं च श्वःश्रेयसस्य चरणरजःपवित्रितत्रिदशासुरं सुधा- सूतिकलिकाकल्पितकर्णावतंसं देवदेवं त्रिभुवनगुरुं त्र्यम्बकम् । अल्पीय- सैव कालेन स ते शापशोकविरतिं वितरिष्यति' इति ।
२४ हर्षचरितम् मध्यमं लोकं भूमिम् । अंशुमाली रविः । क्रमेणेत्यादावस्मिन्सति सावित्री सरस्वतीमवादीदिति सम्बन्धः । विसरशब्द औणादिकः षण्डपर्यायः । मुदिताः सञ्जातमन्मथाः । कामिन्यः शृङ्गारिण्यः । सम्भोगान्तरायकारी कथमयमद्यापि नास्तमेतीत्यतः कोपः । क्षिप्यमाणश्चातिस्वरितं पतति । क्षेपीयस्तूर्णतरम् । लपनं वदनम् । लोकेत्यादिना सम्भोगविघ्नकारित्वमेव प्रकाश्यते । माहेयी गौः । उद्दामः प्रवृद्धं गतः । उपशल्यं समीपम् । चामीकरं सुवर्णम् । रदना दन्ताः । रदति विलिखति । सुरस्रवन्ती गङ्गा । रोधस्तटम् । स्वैरं स्वेच्छम् । 'या दूतिका गमन- कालमपाहरन्ती सोढुं स्मरज्वरभरार्तिपिपासितेव । निर्याति वल्लभजनाधरपानलो- भात्सा कथ्यते कविवरैरभिसारिकेति ॥' तारापथो नभः । आवर्जिते प्रकीर्णे । ककुभो दिशः । कुसुमभं पद्मक्रम् । रक्तचन्दनद्रवे स्रवति सतीति योजना । वन्दारु वन्दनशीलम् । वृन्दारकशब्दः प्रशंसायाम् । सवनं प्रातर्मध्याह्ने सायं च सोम- यागैकदेशस्नानमित्यन्ये । ब्रह्म वेदः । वैतानो यज्ञभवः । जटालानि व्याप्तानि । अजिरान्यङ्गणानि । आरब्धे धर्मसाधने शिबिरे पुण्योपकरणस्कन्धावारे नीरज- नाख्यं शान्तिकर्म येषु । धर्मोपकरणविषये मा दोषः प्रादुरभवन्निति । 'शमनं सर्वपापानां जप्यं त्र्यघमर्षणम्' । गदो रोगः । उल्लाघं स्वस्थताकरम् । यत- यश्चतुर्थाश्रमिणः । सद्यो जलत्यक्तं तटं पुलिनम् । नलिनयोनिर्ब्रह्मा । हंसानां हासः शौक्ल्यं, हंसा एव वा शुक्लतया हासः । दन्तुरा एव दन्तुरिताः । ये च सहासास्ते लक्ष्यमाणदन्तद्वया दन्तुरा इव दृश्यन्ते । आतपत्रं छत्रम् । पत्ररथाः पक्षिणः । कलत्रं दाराः । मधु मकरन्दः, मद्यं च । मधुपा भ्रमराः, मद्यपाश्च । मुमुदिषमाणे विचकि- सिषति । अन्यत्र,-मोदितुमिच्छति । प्रारिप्स्यमानगीतादिगोष्ठीबन्ध इति यावत् । 'मञ्चाः क्रोशन्ति' इतिवत् । नाम्यदिति । ताम्यन्ति, न तु तान्तानि, प्रदोषस्य न तावत्प्रवृत्तत्वात् । मधु, मद्यमपि । सपीतिस्तु सहपानम् । अनेन तु प्रेमातिशय आवेद्यते । सुषुप्सति निद्रासति । मृदिति । कण्डूयनं विक्रियाविशेषम् । कुण्ड- लिता चक्रीकृता । राजीवं पद्मम् । राजहंसा इत्यत्रैकशेषः । तटशब्दः प्रत्यासत्त्यु- पलक्षणार्थः । पुरंधिरुत्तममहिला । धम्मिज्ञाः संयताः कचाः । मल्लिका भूपदी । एषा च सायमेवोन्मिषति । सायंतने दिनान्तभवे । कोषः कुड्मलम् । कोटरमन्ध- न्तरम् । कुटी गेहम् । शयनमत्र विश्रमणम्, न तु स्वापः, पौनरुक्त्यापत्तेः । अटवीति विवक्षितम् । तत्रैवाकृत्रिमकुसुमसंबंधात् । कुटजं गिरिमल्लिका । कुड्मलं कलिका । निकरः समूहः । अनुबन्धः संस्कारः । परिणमजरठीभवत् । तालस्तृण- राजः । मेदुरं घनम् । मीलयति स्थगयति । नववयसि प्रथमे । चम्पको हेमपु- ष्पकः । आरन्नानमर्षिच्छुष्कम् । नीरं जलम् । कालिन्दी यमुना । नीलिमाभिप्रा- येणैतत्पदम् । यस्तटभागो वारिणा त्यक्तस्तत्पुलिनम् । कूलं ततोऽन्यत् । कृशा- मति तनूकुर्वति । खमुचि त्यक्ताकाशे । भूभागमवलम्बमान इत्यर्थः । मेचकितं
प्रथम उच्छ्वासः २५ निर्विभागतो नीतम् । शशधरकरैः स्वीकारेण करम्बितेऽत एव स्वयं गच्छन्ति । अन्यत्र चन्द्ररश्मीनां धारणेन सेवनेन किंकर्तव्यतामूढ एवमधिगलत्यार्द्रता भज- माने । केशपाशपक्षे तु विस्रंसमाने । चाषः किकीद्विविः पक्षी । हरिः सिंहः । नखरा नखाः । हेतिरायुधम् । विभावरी रात्रिः । श्वेतभानुश्चन्द्रः । अचलः, अर्था- दुदयाचलः; गोलोको रश्मिसमूहो वा । मकरमुखमिव मुखमप्रमस्येति समासः । विसंस्थुला निर्मर्यादाः । दुर्जनवञ्चिर्दाक्षिण्याः क्रूराः । क्षणभङ्गिन्य हत्याश्वासनगर्भै- यमुक्तिः । वामाश्च स्त्रिय ईदृश्य एव । निकारः परिभवः । कणिका लेशः, शर्करिका च । कलुषयति दूषयति, कालुष्यं नयति च । मानसं चेतः, सरश्च । अनवरत- मश्रुणा सिच्यमानः । अनवरतं घटसारणीप्रणालादिना नयनं प्रापणं यस्य तादृशो जलेनोच्यमानश्च । विपल्लव आपत्क्लेशः, विगतपल्लवश्च । प्ररोहति स्थिरीभवति । तरुपक्षे प्ररोहा विद्यन्ते यस्य स प्ररोहः, सहवाचरति प्ररोहतीति व्याख्या । संतापः खेदः, ऊष्मा च । मालतीकुसुमं सुमनःपुष्पमतिसुकुमारम् । महान्त उत्तमाः द्राघीयांसश्च । सुनिरङ्कुशः । मातरोऽपि जन्मभूमयः । दारुणो विषमः, काष्ठस्य च । क्रकचः करपत्रम्, हृदयं चित्तम्, मध्यं च । संस्तुतः परिचितः । सेति । सर्वनामपदं जानासीत्यादिपूर्वोक्तार्थगर्भकारेण । अभूमिरस्थानम्, अक्षेत्रं च । च्वेडो विषम् । शुमेऽशुभे वेत्यादि । सप्रतिपक्षा लोकोक्तिरियम् । 'अव्युत्पन्नमतिः कृतेन न सता नैवासताप्याकुलः', 'गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः' इत्यादिवत् । अधिष्ठातरि स्वामिनि । प्रष्ठेऽग्रगामिनि । अपवित्रतां नयन्ति, न तु शोभां त्याजयन्ति । धामसु स्थानेषु । तपस्यन्ती तपश्चरन्ती । सज्जः प्रगुणः । आज्ञाकार्यमिति दृष्टस्वरूपः । निःसामान्यविश्रम्भभाजनतामभिव्यनक्ति सखीज- नशब्दः । श्रःश्रेयसस्य कल्याणस्य दातारम् । सुधासूतिश्चन्द्रः । कलिका तरिका । शापविरतिर्ब्रह्मणैवोक्ता । अतस्तत्र किमन्यापेक्ष्येत्याशङ्कयाह-अल्पीयसैव कालेनेति । इसी बीच सूर्य मानों सरस्वती के अवतीर्ण होने का समाचार कहने मध्यमलोक में उतरे । क्रमशः कमलिनी-समूह के मुकुलित होने के दुःख से सरोवर दुखी हो गए और दिन भी मंद पड़ने लगा । मदिरा से मदमाती कामिनियों के क्रोध के कारण टेढ़े कटाक्षों द्वारा मानों ढकेले जाने पर बड़ी शीघ्रता से तरुण वानर के मुँह के सदृश लाल वर्ण वाले संसार के एकमात्र नेत्र भगवान् सूर्य अस्ताचल के शिखर पर उतरने लगे । दिव्य आश्रमों के समीपवर्ती प्रदेश आर्द्र स्तनों वाली गौओं के झुण्ड से बहती हुई दूध की धार से धवल हो रहे थे मानों निकट में होने वाले चन्द्रोदय से बढ़े हुए क्षीरसागर की तरंगों द्वारा प्रक्षालित हो रहे हों । संध्याकालीन भ्रमण के लिए निकला हुआ, चँवर धारण किए हुए इन्द्र का हाथी ऐरावत सुवर्ण के तटों पर अपने दाँतों को पीट कर बजाता हुआ स्वच्छन्द होकर मन्दाकिनी के किनारों को खोदने लगा । आकाश लाल हो गया, मानों मार्ग में
२६ हर्षचरितम्
इधर-उधर घूमती हुई सहस्रों विद्याधरी अभिसारिकाओं के चरणों में लगे महावर से पुत गया हो । आकाश में घूमते हुए सिद्धों द्वारा सूर्यास्त के अर्घ्यरूप में ढाला गया, दिशाओं को रंजित करता हुआ कुसुंभी रंग का रक्तचन्दन चू रहा था, मानों शिवके प्रणाम करने में विभोर संध्या के शरीर से पसीना निकल रहा हो। वन्दनशील मुनिजन अपनी संध्योपासना में अञ्जलियाँ बाँध रहे थे, मानों ब्रह्माजी की उत्पत्ति वाले कमल की सेवा के लिए समस्त कमल इकट्ठे हों, इस प्रकार ब्रह्मलोक सुशोभिन हो रहा था। ब्रह्माजी तीसरी बार (संध्या- कालीन) सवन (यज्ञीय स्नान) विषयक वेद का उच्चारण कर रहे थे। सप्तर्षियों के गृह- प्रांगण में यज्ञाग्नि की ज्वालाएँ व्याप्त थीं, मानों शिविर में धर्म का एक कार्य नीराजन (आरती) नामक शान्तिकर्म हो रहे हों। अघमर्षण मंत्र के जप से पाप के विषाक्त रोग का विनाश हो जाने से यतिलोग स्वस्थ हो रहे थे। मन्दाकिनी के तट का पुलिन संध्यो- पासना के लिए तपस्वियों के बैठने से और भी पवित्र हो रहा था। तैरता हुआ ब्रह्मा जी का वाहन हंस अपनी उज्ज्वल हंसी से मन्दाकिनी की तरंगों को निम्नोन्नत बना रहा था। जलदेवता के छत्रस्वरूप और पक्षिकामिनियों के अन्तःपुर के प्रासादरूप, अपने मकरंद की मीठी सुगन्ध वाले, तथा भौरों को प्रसन्न करने वाले कुमुद तत्काल खिल रहे थे। राजहंसों का समूह ढंपते हुए कमलों के मीठे मधु (मकरन्द या मध) का सहपान करने से छक कर, गर्दन को कुण्डलित करके कोमल मृणालों द्वारा शरीर खुज- लाते हुए, पंखों को फड़फड़ा कर पद्मसरोंवरों को हवा देते हुए ऊँघ रहा था। तट की लताओं के फूलों की धूल उड़ा कर नदी को धूसर बनाती हुई, सिद्धों के नगर की उत्तम महिलाओं के बंधे हुए केशपाश की मल्लिका की गंध लेकर रात की सांस के समान वायु मंद-मंद बहने लगी। झुण्ड के झुण्ड भौरे सिकुड़ जाने से पराग भरे कमलों के कोशों की संकीर्ण कुटिया में विश्राम करने लगे। नृत्य के समय हिलती हुई भगवान् शंकर की जटा के कुटज फूल-जैसे गुच्छेदार तारे आकाश में छिटक गए। संध्या की लाली लिए हुए, पकते हुए तालफल की त्वचा के समान कलौंस भरी ललाई वाला प्रलयकालीन मेघों के सदृश गहन पहला अंधेरा धरती पर छा गया। रात्रिरूपी कामिनी के कान में खोंसी हुई चम्पा की कली-जैसे दीपक गहन अंधेरे को हटाने लगे। यमुना का रेतीला किनारा नीले जल के हट जाने पर जैसा लगता है उसी प्रकार पूर्व दिशा का मुख चन्द्रमा की कुछ-कुछ रश्मियों के लुनाई-भरे आलोक से पीला होने लगा और अंधकार को क्षीण करने लगा। विलीन होता हुआ अंधकार आकाश को छोड़ने लगा, खिले हुए कुवलय वाले सरोवर अभिन्न वर्ण के हो गए। चह्वे पक्षी के पंख जैसा और रात्रि रूपी भीलनी के बालों जैसा अंधेरा चन्द्र की किरणों के कचग्रह से मानिनी नायिका के मन के समान कम पड़ने लगा। रात्रिवधू के अधरराग के समान लाल चन्द्रमा उदित हो गया, मानों उदयाचल की खोह में रहने वाले सिंह के द्वारा कड़े पंजे से मारे गए
प्रथम उच्छ्वासः २७ हिरन के रक्त से वह रँग गया था। उदयाचल से बहती हुई चन्द्रकान्त मणियों की जलधारा से मानों सारा अंधेरा धुल गया। आकाश में उठ कर चन्द्रमा अपनी सफेद चाँदनी से समुद्र को ऐसे भरने लगा जैसे हाथी के दाँतों का बना हुआ मकरमुखी पनाला गोलोक से दूध की धार बहा रहा हो। इस प्रकार प्रदोष समय के स्पष्ट हो जाने पर सावित्री शून्य हृदय होकर कुछ सोचती और डबडबाती हुई सरस्वती से बोली— 'सखि, तू त्रिभुवन को उपदेश देने में चतुर है, तेरे सामने मेरी जीभ कुछ बकते हुए शर्मिन्दा हो रही है। तू तो जानती ही है कि गुणवान् लोगों के विषय में जैसी दैवी प्रवृत्तियाँ मर्यादाहीन, दुर्जनों की तरह क्रूर, क्षणभङ्गुर, दुरन्त एवं अरमणीय होती हैं। समानता न रखने वालों द्वारा बिना किसी कारण के उत्पन्न परिभव का लेश भी मनस्वी के मन को कलुषित कर डालता है। विपत्ति का अंकुर निरन्तर आँसुओं से सींचे जाने पर वृक्ष के समान हजारों शाखा-प्रशाखाओं में बढ़ता ही जाता है। मालती के फूल की तरह अतिसुकुमार लोगों को सन्ताप के परमाणु मुरझा डालते हैं। छोटा भी अंकुश जैसे हाथियों पर गिर कर उनको परेशान कर देता है वैसे ही बड़ों के ऊपर थोड़े ही क्लेश का पड़ना बहुत कष्टकर हो जाता है। बंधु-बांधव के समान अपनी जन्मभूमियाँ, जिनके साथ स्वाभाविक स्नेहपाश का गठबंधन हो चुका है, दुस्त्यज हैं। अपने परिचित जनों का विरह दारुण आरे की तरह हृदय को चीर डालता है। पर तुझे इस तरह नहीं होना चाहिए। दुःख रूपी विष के पौधे के उत्पन्न होने के लिए तू स्थान नहीं है। और भी, जब कि पूर्वजन्म के बलवान् शुभ या अशुभ कर्म आगे और पीछे फल देने वाले हैं ही तो बुद्धिमान् को शोक करने का क्या अवसर है ? त्रिभुवन का मंगल करने वाले तेरे कमल के समान इस मुख को अमंगल आँसू क्यों अपवित्र कर रहे हैं ? बस रहने दे, अब बता—धरती के किस भाग को अलंकृत करना चाहती है ? किस पुण्यवान् प्रदेश में उतरने के लिए तेरा हृदय तुझे प्रेरित कर रहा है ? किन तीर्थों को तू अनुगृहीत करना चाहती है ? तपोवन के किन धन्य स्थानों में तपस्यानिरत रहने के लिए सोच रही है ? उपचार करने में चतुर, बाल्यकाल से ही धूल की क्रीडाओं का साथी और प्रिय यह जन तेरे साथ पृथिवी पर उतरने के लिए तैयार है। अनन्यशरण तू आज से ही मन, वचन और कर्म से भगवान् शंकर को मान, जो समस्त विद्याओं के विधाता एवं कल्याण को देने वाले, देवों के देव और त्रिभुवन के गुरु हैं। जिन्होंने अपने चरण की धूल से सुर, असुर दोनों को पवित्र किया है और चन्द्र की एक कला को अपना कर्णावतंस बनाया है। बहुत थोड़े समय में वे तेरे शापजन्य शोक को कम कर देंगे।' एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवादीत्— 'प्रियसखि, त्वया सह विचरन्त्या न मे कांचिदपि पीडामुत्पादयिष्यति ब्रह्मलोकविरहः शापशोको वा। केवलं कमलासनसेवासुखमार्द्रयति मे
२८ हर्षचरितम् हृदयम्। अपि च त्वमेव वेत्सि मे भुवि धर्मधामानि समाधिसाधनानि योगयोग्यानि च स्थानानि स्थातुम्' इत्येवमभिधाय विरराम। रणरण- कोपनीतप्रजागरा चानिमीलितलोचनैव तां निशामनयत् । आर्द्रयति स्नेहयति। धर्मधामानि मध्यदेशादीनि। समाधिश्चित्तैकाग्रथम्। योगे हि तदुक्तम्—'आदौ समाधिमासीत पश्चाद्योगमुपाचरेत्' इति। रणरणको दुःखमरतिकृतम् । इस प्रकार सावित्री के कहने पर मोतों की भाँति सफेद आँसू के कण आँखों से टपकाती हुई सरस्वती बोली—'प्रिय सखी, ब्रह्मलोक का विरह या शापजनित शोक कोई भी पीड़ा उत्पन्न नहीं कर सकेंगे, जब तक तेरे साथ मैं विचरण कर रही हूँ। केवल ब्रह्माजी की सेवा का सुख मेरे हृदय को पिघला रहा है। पृथिवी पर मेरे लिए धर्म के स्थान जो समाधि (चित्त की एकाग्रता) के साधन एवं योग (चित्तवृत्ति का निरोध) के उपयुक्त हैं उन्हें तू ही जानती है।' इतना कह वह चुप हो गई। मानसिक उथल-पुथल (रणरणक) के कारण उसकी नींद उचट गई और उसने आँखें बिना बंद किए उस रात को बिताया। अन्येद्युरुदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खलत्खली- नक्षतनिजतुरगमुखक्षिप्रेन क्षतजेनेव पाटलितवपुष्युदयाचलचूडामणौ जरत्कृकवाकुचूडारुणारुणपुरःसरं विरोचने नातिदूरवर्ती विविच्य पिताम- हविमानहंसकुलपालः पर्यटन्नपरवक्त्रमुच्चैरगायत्— 'तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते। अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम्' ।। तच्छ्रुत्वा सरस्वती पुनरचिन्तयत्—'अहमिवानेन पर्यन्द्युक्ता। भवतु। मानयामि मुनेर्वचनम्' इत्युक्त्वोत्थाय कृतमहीतलावतरणसंकल्पा परि- त्यज्य वियोगविह्वलं स्वपरिजंनं ज्ञातिवर्गमविगणय्यावगणा त्रिः प्रदक्षिणी- कृत्य चतुर्मुखं कथमप्यनुनयनिवर्तितानुयायिव्रतित्राता ब्रह्मलोकतः सावि- त्रीद्वितीया निर्जगाम । अन्येद्युरन्यस्मिन्नहनि। एते च कालाः संख्यादयो व्यवहारा इहंत्या ब्रह्मलोक उपचरिताः। शेखर इव। शेखरो मुण्डमालकः। खलीनं कविका। क्षतजं रक्तम् । कृकवाकुः कुक्कुटः। चूडा मांसमयी शेखरिका। विविच्य विचार्य। विमानपालः स्वप्रस्तावे हंसीं यदाह तेन सरस्वती पर्यन्द्योजितेवाभूत् । अपरवक्त्राख्यं वृत्तमाख्यायिकासु प्रयोक्तव्यम्। तथा चाह भामहः—'वक्त्रं चापर-
प्रथम उच्छ्वासः २६ वक्रं च काव्ये काव्यार्थशंसिनि' इति । तरलयसीत्यादि । अकलुषं मानसं यस्य स निर्मलचेता ब्रह्मा, मानसाख्यं च सरः । लालिता स्वीकृता । वापिका पुष्करिणी, उप्यन्तेऽस्यां तानि कर्माणीति वापिका, मर्त्यभूमिरपि । पङ्कजमा- लयो यस्य स ब्रह्मा, सरश्च । पर्यंनुयुक्ता उपपस्या बोधिता । अवगणा केवला सावित्रीव्यतिरेकेण नान्यपरिवारा । कथमपीति । न मृत्त्यादिवत् । व्रतिव्रातस्त- पस्विसमूहः । दूसरे दिन तीनों भुवन के शिरोमाल एवं उदयाचल के चूड़ामणि भगवान् सूर्य उदित हुए । उनका मण्डल टहाका लाल था, मानों खण-खण करते हुए लगाम की क्षति से उत्पन्न अपने घोड़ों के मुखरुधिर के फव्वारे उन पर पड़ गए हों। वृद्ध कुक्कुट की चूड़ा के समान लाल वर्ण वाला अरुण उनके आगे बैठा था। इसी समय कुछ ही दूर पर घूमते हुये ब्रह्मा जी के वाहन हंसों के रक्षक ने सोच कर ऊँचे स्वर से अपवक्त्र का गान किया— 'अरी कलहंसी, मानसरोवर के निर्मल जल में रहने वाली तू अपनी उत्सुक आँखों को क्यों चंचल कर रही है ? अभी बावली में उतर जा, फिर पंकहालय (सरोवर) में जाना' ।१ उसे सुन कर सरस्वती ने फिर सोचा—'मानों मुझसे इसने पूछा है। अच्छा, मैं मुनि दुर्वासा के वचन मानती हूँ।' यह कह कर पृथिवी पर उतरने के लिए संकल्प करती हुई उठी और वियोग से व्याकुल परिवार को छोड़, अपने बन्धु-बांधवों को न मान, ब्रह्मा जी की तीन बार प्रदक्षिणा करके, साथ आते हुए तपस्वियों को किसी प्रकार अनुनय-विनय द्वारा लौटा कर, अकेले सावित्री को साथ ले ब्रह्मलोक से निकल पड़ी। ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुमिवाधोधावमानधवलपयोधराम्, उद्धरध्वनिम्, अन्धकमथनमौलिमालतीमालिकाम्, आलीयमानवालखि- ल्यरुद्धरोधसमरुन्धतीधौततारवत्वचम्, तुङ्गतुङ्गतराङ्गतस्तरत्तरलतरतार- तारकाम्, तापसवितीर्णतरलतिलोदकपुलकितपुलिनाम्, आप्लवनपूतपि- तामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षिकुशशयनसूचि- तसूर्यग्रहसूतकोपवासाम्, आचमनशुचिशचीपतिमुच्यमानार्चनकुसुम- निकरशाराम्, शिवपुरपतितनिर्माल्यमन्दारदामकामनोदरदारितमन्दरद- रीहृषदम्, अनेकनाकनायकनिकायकामिनीकुचकलशविलुलितविमृहाम्, १. इस श्लोक में हंसपाल सरस्वती को भी सिखावन दे रहा है कि सरस्वती, तू निर्मलचित्त ब्रह्मा जी की लाड़ली है, क्यों अपनी उत्सुक आँखें थका रही है ? अभी वापिका ( मर्त्यलोक ) में उतर, फिर ब्रह्मा जी ( पंकहालय ) को प्राप्त कर लेना ।
ग्राहग्रावभ्रामस्खलनमुखरितस्रोतसम्, सुषुम्णामृतशशिसुधाशीकरस्तब- कतारकिततीराम्, धिषणाग्निकार्यधूमधूसरितसैकताम्, सिद्धविरचित- वालुकालिङ्गलङ्घनत्रासविद्रुतविद्याधराम्, निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिव त्रिविष्टपविटस्य, विक्रयवीथीमिव पुण्यपण्यस्य, दत्तार्गलामिव नरकनगरद्वारस्य, अंशूकोष्णीषपट्टिकामिव सुमेरुनृपस्य, दुगूलकदलिकामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृत- युगस्य सप्तसागरराजमहिषीं मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार । अपश्यच्चाम्बरतलस्थितैव हारमिव वरुणस्य, अमृतनिर्झरमिव चन्द्राच- लस्य, शशमणिनिष्यन्दमिव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाहमिव दण्डका- रण्यस्य, लावण्यरसप्रस्रवणमिव दिशाम्, स्फाटिकशिलापट्टशयनमिवा- म्बरश्रियः स्वच्छशिशिरसुरसवारिपूर्णं भगवतः पितामहस्यापत्यं हिरण्य- वाहनामानं महानदम्, यं जनाः शोण इति कथयन्ति । दृष्ट्वा च तं राम- णीयकहृतहृदया तस्यैव तीरे वासमरचयत् । उवाच च सावित्रीम्- 'सखि, मधुरमयूरविरुतः कुसुमपांशुपटैसिकतिततरुतलाः परिमलम- त्तमधुपवेणीवीणार्णितरमणीया रमयन्ति मां मन्दीकृतमन्दाकिनीद्युतेरस्य महानदस्योपकण्ठभूमयः । पक्षपाति च हृदयमत्रैव स्थातुं मे' इति । अभिनन्दितवचना च तथेति तया तस्य पश्चिमे तीरे समवातरत् । एक- स्मिंश्च शुचौ शिलातलसनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध । विश्रान्ता च नातिचिरादुत्थाय सावित्र्या सार्धमुच्चितार्चनकुसुमा स्रग्नेौ । (पुलिन- पृष्ठप्रतिष्ठितसैकतशिवलिङ्गा च भक्त्या परमया पञ्चब्रह्मपुरःसराँ सम्यग्बु- द्राबन्धविहितपरिकरां ध्रुवागीतिगर्भामवनिपवनवनगगनदहनतपनतुहिन- किरणयजमानमयीर्मूर्तीरष्टावपि ध्यायन्ती सुचिरमष्टपुष्पिकामदात् । अय- त्नोपनतेन फलमूलेनामृतरसमप्यतिशिशयिषमाणेण च स्वादिम्ना शिशि- रेण शोणवारिणा शरीरस्थितिमकरोत् । अतिवाहितदिवसा च तस्मिँल्ल- तामण्डपशिलातले कल्पितपल्लवशायना सुष्वाप । अन्येद्युरप्येनेनैव क्रमेण नक्तन्दिनमत्यवाहयत् । तत इत्यादावीदृशं मन्दाकिनीमनुसरन्ती सरस्वती मर्त्यलोकमवततारेति संब- न्धः । ध्रुवं नित्यं वियत् । तस्मादावृत्ताम् । ध्रुवस्तारकाविशेषो ध्रुवाख्यित्यस्थानाद्वा विष्णोर्वा, अवावूरू पश्चाद्भागौ सक्थिनी ध्रुवे वा, तयोः प्रकर्षेण वृत्तां परिवर्त्तुलां वा ।
प्रथम उच्छ्वासः ३१ अथ इति पदेन धावनक्रियासहत्वाज्जलस्य ग्रहणं सूच्यते । अत एव धवलाः शुक्लाः पयोधरा मेघा यस्यास्ताम् । इतरत्राधोधावमानाः पयःपूर्णत्वाल्लम्बमानाः क्षीरयुतेश्च धवलाः स्तना यस्याः । अधो धावमानं वेगेन प्रसरद्धवलं पयो धारयति या ताम्, अधो धावमानो धवलो यः पयोधो वत्सस्तं राति ददाति या ताम्, धवलो वृष- स्तस्मै पयो धारयति या तां वेत्यादिकाः कुव्याख्या एव । उद्धुर उद्भटः । अन्धक- मथनः शिवः । आलीयमानाः श्लिष्यन्तः । वालखिल्या मुनिभेदाः । रोधस्तटम् । त्वङ्गत्तरत् । आप्लवनं स्नानम् । पितरो देवविशेषाः, आज्यपाः, सोमपाः, वहिर्षा- दयश्च । आचमनेत्यादिना पितामहवन्न स्नानादिनिष्ठत्वमस्योच्यते । अत एव शची- पदेन संभोगासक्तत्वमिव पोषितम् । निकायः समूहः । सुषुम्णाख्योऽमृतमयो रवि- रश्मिः । धिषणो बृहस्पतिः । सिद्धकृतत्वेन लिङ्गेषु भगवत्संनिधानमावेद्यते । निर्मोकः सर्पकञ्चुकः । विस्रंसतया शुक्लत्वेन, लहरिकावलीत्वेन च निर्मोकमुक्तिमिवेत्युत्प्रेक्षा । गगनमिवोरगः कृष्णतया । ललाटिका ललाटालंकारः । विटो भुजङ्गः । उष्णीषं शिरोवेष्टनं दिक्षु प्रसिद्धम् । दुगूलशब्दो दुकूलसमानार्थः । पद्धतिर्मार्गः । अपवर्गो मोक्षः । कृतयुगस्य रचितयुगकाष्ठस्य रथस्येत्यर्थः । यथा नेमिवशाद्रथग्रहणं तथा तद्गुणात्कृताख्यस्य युगस्य । सप्तसागरराजः क्षीरसमुद्रः । चन्द्राख्यः पर्वत इति केचित् । शशिमणिश्चन्द्रकान्तः । पितामहस्येति । तद्भक्त्या तदाश्रयणम् । सिकता विद्यन्ते यस्य स सिकतिलः । मत्तशब्देन सशब्दत्त्वम्, वेणीपदेन च तन्त्रीसन्निवेश- सादृश्यमाह । वेणी पङ्क्तिः । लिङ्ग्यतेऽनेनेति लिङ्गमाकारः । पञ्च ब्रह्माणि सद्योजातः, वामदेवः, अघोरः, तत्पुरुषः, ईशानश्चेति । मुद्राबन्धो विशिष्टकराङ्गुलिसन्निवेशः । ध्रुवाख्या विशिष्टा गीतिः । वनं तोयम् । यजमान उग्रः । अष्टौ पुष्पाण्येवाष्टपु- प्पिका । तत्र गन्धप्रधानं पार्थिवम्, अर्घस्नानादिकं रसप्रधानमाप्यम्, प्रदीपा- भरणप्रभादिरूपप्रधानं तैजसम्, अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम्, सुषिरा- तोद्यगीतादिकं शब्दप्रधानमाकाशीयम्, अनुध्यानं मानसम्, अस्ति सर्वत्रेश्वर इति निश्चयो बौद्धम्, अहमेवेश्वर इत्याहंकारिकम् । यद्वा,-आसनवर्गप्रवृत्तिष्वष्टसु प्रत्ये- कमष्टपुष्पिका । अतिशेतुमभिभवितुमिच्छतातिशिशयिषमाणेण । स्वादिम्ना बृह- त्वेन । शरीरस्थितिमिति । न त्वातृप्तिभोजनम् । अन्येद्युरन्यस्मिन्नहनि । तब क्रम से सरस्वती सात सागरों की पटरानी मंदाकिनी का अनुसरण करती हुई मर्त्यलोक में उतरी । वह मंदाकिनी ध्रुव से निकली हुई कामधेनु के समान नीचे लटकते हुए पयोधरों को धारण कर रही थी । उसकी ध्वनि गम्भीर थी । वह अंधक के शत्रु भगवान् शंकर के मस्तक की मालतीमाला थी । तट पर वालखिल्य मुनियों की भीड़- भाड़ थी । अरुन्धती वहाँ वल्कल का संमार्जन करती थी । उसकी दौड़ती हुई ऊँची लहरों पर चंचल तारे हिलोरेँ ले रहे थे । उसकी रेतों को तापस अपने तरु तिलोदक से
३२ हर्षचरितम् पुलकित कर रहे थे। स्नान से पवित्र ब्रह्मा जी द्वारा पितरों के लिए लुढ़काए गए पिण्डों से उसका तट उज्ज्वल हो रहा था। पास में सोये सप्तर्षियों को कुश-शय्या से सूचित हो रहा था कि उन्होंने यहाँ सूर्यग्रहण के अशौच का उपवास किया है। आचमन से पवित्र होकर इन्द्र द्वारा भेंट किए गए पूजा के फूलों से वह विविध वर्ण वाली हो रही थी। शिवपुर से गिरी मंदारमाला को वह धारण कर रही थी। आयास के बिना ही उसने मन्दराचल की कन्दराओं के चट्टान तोड़ डाले थे। अनेक दिव्याङ्गनाओं के कुचकलशों से (आहत होकर) वह डोल रही थी। घड़ियालों और चट्टानों पर निपात होने से उसके प्रवाह मुखर हो उठते थे। सूर्य की अमृत-मय रश्मिसुषुम्णा के कण, जो चन्द्रमा से उत्पन्न होते हैं, मन्दाकिनी के तीर पर तारों की तरह बिछ गए थे। बृहस्पति के यज्ञ से उत्पन्न धुवाँ नदी की रेत को धुआँसा कर रहा था। सिद्धों द्वारा बनाए गए बालू के शिवलिंग का अकस्मात् लंघन हो जाने से उत्पन्न त्रास के कारण विद्याधर इधर-उधर छट- पटा रहे थे। मानों वह मंदाकिनी गगन-सर्प की उज्ज्वल लहराती हुई केंचुल हो, त्रिभुवन- रूपी विट (धूर्त) की लीला-ललाटिका (ललाट का अलंकार) हो, पुण्यरूप सौदे की बाजार-गली हो, नरक रूपी नगर के द्वार को बन्द करने वाली भागल (अर्गला) हो, सुमेरु पर्वत रूपी राजा की अंशुक नामक महीन वस्त्र की उष्णीष (पगड़ी) पर बंधी हुई लम्बी पाट हो, कैलास रूपी हाथी की रेशमी पताका हो, मोक्ष का मार्ग हो, सतयुग के रथ की धुरा हो। आकाश में उतरी हुई सरस्वती ने भगवान् पितामह के अपत्य हिरण्य- वाह नामक महानद को देखा जो वरुण देवता के हार के समान था, जो चन्द्र-पर्वत से झरता हुआ अमृत-निर्झर के समान था, जो विन्ध्य पर्वत से बहता हुआ चन्द्रकान्त मणि के प्रवाह के सदृश था, जो दण्डकारण्य के कर्पूर वृक्ष से बहते हुए कपूरी प्रवाह के समान था। दिशाओं के लावण्यरस का वह जैसे सोता था। मानों वह आकाश लक्ष्मी के शयन के लिए गढ़ा हुआ स्फटिक का शिलापट्ट (पाटा) हो। वह महानद स्वच्छ, शिशिर और सुरस (स्वादिष्ट) जल से भरा था, उसे लोग शोण भी कहते हैं। शोण को देख कर सरस्वती का हृदय उसकी रमणीयता में रम गया और उसने वहीं डेरा डाला। उसने सावित्री से कहा—'सखी, इस महानद के तटवर्ती कछार में मोर मधुर ध्वनि करते हैं। वृक्षों के नीचे फूलों की रज बालू की तरह ढेर हो जाती है। फूलों की गन्ध से मतवाले भौंरे वीणा के समान गुंजार कर रहे हैं। इसके सामने मन्दाकिनी भी कुछ नहीं। मेरा मन यहाँ रम रहा है, मेरा हृदय भी इसी स्थान में रहने के पक्ष में है।' सावित्री ने 'तथा' कह कर सरस्वती की बात का समर्थन किया। तब सरस्वती उसे लेकर उस महानद के पश्चिमी तीर पर उतरी। वहीं एक पवित्र शिलातल से युक्त लतामण्डप को घर मान कर ठहर गई। कुछ देर तक विश्राम करने के बाद उठी और सावित्री के साथ पूजा के फूल चुन कर स्नान किया। तब उसने नदी के किनारे रेत में बैठ कर बालू का शिवलिंग प्रतिष्ठित किया और पद्मब्रह्म की स्तुति के अनन्तर सम्यक् प्रकार से कई
प्रथम उच्छ्वासः ३३ मुद्राबंध किए और ध्रुवागीति के साथ पृथिवी, वायु, जल, आकाश, अग्नि, सूर्य, चन्द्र और यजमानमयी शिव की आठ मूर्तियों का देर तक ध्यान करती हुई आठ फूलों को अर्पित किया। किसी यत्न के बिना ही मिले हुए अमृत-रस से भी बढ़ कर मीठे फल- फूल से और शोण के ठण्डे जल से उसने शरीर की रक्षा मात्र के लिए अत्यल्प भोजन किया। इस प्रकार उस दिन को बिता उसी लतामण्डप के शिलातल पर पत्तों की सेज बनाकर लेट गई। दूसरे दिन इसी क्रम से उसने रात-दिन गुजारे। एवमतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च रवा- वुत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुरङ्गहेषित- ह्रादमशृणोत् । उपजातकुतूहला च निर्गत्य लतामण्डपादिवलोकयन्ती विकचकेतकीगर्भपत्रपाण्डुरं रजःसङ्घातं नातिदवीयसि संमुखमापतन्तम- पश्यत् । क्रमेण च सामीप्योपजायमानाभिव्यक्ति तस्मिन्महति शफ- रोदरधूसरे रजसि पयसीव मकरचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितललाटजूटकेन, धवलदन्तपत्रिकाद्युतिहसि- तकपोलभित्तिना, पिनद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चु- केन, उत्तरीयकृतशिरोवेष्टनेन, वामप्रकोष्ठनिविष्टस्पृष्टहाटककटकेन, द्विगुणपट्टपट्टिकागाढग्रन्थिग्रथितासिधेनुना, अनवरतव्यायामकृतकर्कश- शरीरेण, वातहरिणयूथेनेव मुहुर्मुहुः खमुड्डीयमानेन, लङ्घितसमविषमा- वटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविविधवनकुसुम- फलमूलपर्णेन, 'चल चल, याहि याहि, अपसर्पापसर्प, पुरः प्रयच्छ पन्थानम्' इत्यनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिज- नेन सनाथमश्ववृन्दं संददर्श । यामः प्रहरः । नक्तंदिनशब्देन तत्कालनिवर्तनीयं कर्मैव लक्ष्यते । गम्भीरश्चिर- कालस्थितः । तारतरो दूरदेशश्रूयमाणः । हेषितमश्वशब्दः, तद्रूपो ह्रादो ध्वनि- स्तम् । क्रमेणेत्यादावश्ववृन्दं संददर्शेति संबन्धः । शफरा मत्स्याः । तदुदरवत्तैश्च धूसरे । प्रलम्बेत्यादिना सज्जात्वमुक्तम् । कचाः केशाः । सौकुमार्यात्पल्लवानीव । घटितललाटजूटा दाक्षिणात्येषु वेषः । दन्तपत्रिका कर्णाभरणभेदः । पिनद्धो बद्धः । कृष्णागुरुणः पङ्को निर्धृष्टं कृष्णागुरुः, तस्य शुष्कस्य सतः कल्कश्चूर्णः, तच्छुरणा- त्कृष्णेन गुणेन शबलं कषायं साधिवासितं कञ्चुकं वारबाणं यस्य । उत्तरीयेत्यादिना। सज्जतां वर्मादिप्रसङ्गं चाह । वामेत्यनेनाश्रमित्वस्वभाववर्णना शृङ्गारिता चोक्ता । 'प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः' । हाटकं स्वर्णम् । यदेव द्विगुणाऽत एव ३ ह०
३४ हर्षचरितम् गाढग्रन्थिसहस्रम् । ग्रथिताविस्रंसिनी । असिधेनुश्छुरिका । वातहरिणो यो वाता- भिमुखं धावति । अवट उन्मार्गः । कोणो लगुडः । इस तरह कई दिन कट गए, समय बहुत चला गया । एक रोज एक पहर दिन चढ़ गया, तब सावित्री को उत्तर दिशा की ओर घोड़ों की हिनहिनाइट भरी आवाज सुन पड़ी, वह अपने शब्दों से वन की घांधियों को भर रही थी और अत्यन्त गम्भीर एवं तीखी थी । सरस्वती के मन में कुतूहल हुआ तो लतामण्डप से निकल आई और उसने सामने थोड़ी ही दूर पर खिले हुए केवड़े के पत्तेदार गर्भ के समान सफेद उड़ती हुई धूलराशि को देखा । क्रम से जब वह और भी समीप आ गई तो मछली के पेट के समान धूसर वर्ण वाले उस धूलि-पटल में एक सहस्र प्रायः युवकों की पैदल सेना के साथ घोड़े इस तरह चलते हुए दिखाई पड़े मानों जल में झुण्ड के झुण्ड मगर तैर रहे हों । पैदल सेना के वे हजार जवान आगे की ओर दौड़ते आ रहे थे। उनके सिर पर लम्बे और घुँघराले बालों का बँधा हुआ जूड़ा था । उनके कपोलों पर हाथीदाँत के बने पत्ते हँसी की चमक उत्पन्न कर रहे थे। वे काले अगुरु की बुंदकियों के छींटे वाले लाल रंग के कंचुक कसे हुए थे । उन्होंने अपने सिर पर चादर की पगड़ी बाँध ली थी । उनके बाएँ हाथ की कलाइयों में सोने के कड़े थे। उनकी कमर में कपड़े की दोहरी पेटी की मजबूत गाँठ थी और उसमें छुरी खोंसी हुई थी । निरन्तर व्यायाम करने से उनका बदन पतला, पर गठा हुआ था । हवा से बात करने वाले हिरनों की तरह वे मानों आकाश में उड़ते चल रहे थे । वे ऊबड़- खाबड़ जमीन, खाइयों और झाड़ियों को डाँकते जाते थे । कुछ सैनिक मुँगरी या डंडे लिए थे और कुछ के हाथ में तलवारें थीं । सहायता के लिए उन्होंने बनैले फूल, फल, मूल और पत्ते ले लिए थे । 'चलो चलो', 'जाओ जाओ', 'बढ़ो बढ़ो', 'आगे रास्ता दो' इस तरह हमेशा वे शोर-गुल मचा रहे थे । मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्नखण्ड- खचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मीं दातुमागतेन
- गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशामिव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम्, आनितम्बविल- म्बिन्या मालतीशेखरस्रजा सकलभुवनविजयार्जितया रूपपताकयेव विराज मानम्, उत्सर्पिभिः शिखण्डखण्डिकापद्मरागमणोरुणैरंशुजालैरदृ- श्यमानवनदेवताविधूतैर्बालपल्लवैरिव प्रमृज्यमानमार्गरेणुपरुषवपुषम्, बकु- लकुङ्मलमण्डलीमुण्डमाला मण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलिततातपं पिबन्तमिव दिवसम्, पशुपतिजटामुकुटमृगाङ्कद्वि- तीयसकलघटितस्येव सहजलक्ष्मीसमालिखितस्य ललाटपट्टस्य मनःशि-
[Header] प्रथम उच्छ्वासः ३५
लापङ्कपिङ्गलेन लावण्येन लिम्पन्तमिवान्तरिक्षम्, अभिनवयौवनारम्भा- वष्टम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकुमुद- कुवलयकमलसरःसहस्रसंछादितदशदिशं शरदभिव प्रवर्तयन्तम्, आय- तनयननदीसीमन्तसेतुबन्धेन ललाटतटशशिमणिशिलातलगलितेन कान्तिसलिलस्रोतसेव द्राघीयसा नासावंशेन शोभमानम्, अतिसुरभि- सहकारकर्पूरकक्कोललवङ्गपारिजातकपरिमलमुचा मत्तमधुकरकुलकोला- हलमुखरेण मुखेन सनन्दनवनं वसन्तमिवावतारयन्तम्, आसन्नसुहृ- त्परिहासभावनोत्तानितमुखमुग्धहसितैर्दर्शनज्योत्स्नास्नपितदिङ्मुखैः पुनः- पुनर्नभसि संचारिणं चन्द्रालोकमिव कल्पयन्तम्, कदम्बमुकुलस्थूलमु- क्ताफलयुगलमध्याध्यासितमरकतस्य त्रिकण्टककर्णाभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृतसकुसुमहिरितकुन्दपल्लवकर्णावतंसमिवोपलक्ष्यमाणम्, आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम्, भुजयुगलमुद्दाममकराक्रा- न्तशिखरमिव मकरकेतुकेतोः दण्डद्वयं दधानम्, धवलब्रह्मसूत्रसीम- न्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितमिव मन्दरं देहमुद्वहन्तम्, कर्पूरक्षोदमुष्टिक्षुरणपांशुलेनेव कान्तोच्चकुचचक्रवाकयुगलविपुलपुलिनेनो- रःस्थलेन स्थूलभुजायामपुञ्जितम्, पुरा विस्तारयन्तमिव दिक्कचक्रम्, पुरस्तादीपद्धोनाभिनिहितकङ्कणकमनीयेन पृष्टतः कक्ष्याधिकक्षिप्तपल्ल- वेनोभयतःसंवलनप्रकटितोरुत्रिभागेन हारीतहरिता निबिडनिपीडितेनाध- रवाससा विभज्यमानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठि- नविकटकरमुखसंलग्नजानुभ्यामतिविशालवक्षःस्थलोपलवेदिकोत्तम्भन- शिलास्तम्भाभ्यां चारुचन्दनस्थासकस्थूलतरकान्तिभ्यामूरुदण्डाभ्यामुप- हसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुतरजङ्घा- काण्डम्, कल्पपादपपल्लवद्वयस्येव पाटलयोरुभयपार्श्वावलम्बिनः पाद- द्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव रचयन्तम्, अभि- मुखमुखैरुद्ध्वद्भिरतिचिरमुपरिविश्राम्यद्भिरिव वलितविकटं पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखणखणायतखरखलीने दीर्घघ्राणली- नलालिके ललाटलुलितचारुचामीकरचक्रके शिञ्जानशातकौम्भायानशो-
१. अतिभरितोरुभागमर ।
द्वितीय उच्छ्वास: बाण का राजदरबार गमन व सम्राट हर्ष भेंट
३६ हर्षचरितम्
भिनि मनोरंहसि गोलाङ्गूलकपोलकालकायलोम्नि नीलसिन्धुवारवर्णे वाजिनि महति समारूढम्, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्यामासन्नप- रिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, अग्रतः पठतो बन्दिनः सुभाषितमुत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपद्मशकलेनेव मुखशशिना भावयन्तम्, अनङ्गयुगावतारमिव दर्शयन्तम्, चन्द्रमयी- मिव सृष्टिमुत्पादयन्तम्, विलासप्रायमिव जीवलोकं जनयन्तम्, अनु- रागमर्यामिय सर्गान्तरमारचयन्तम्, शृङ्गारमयमिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्तयन्तम्, आकर्षणामञ्जनमिव चक्षुषोः, वशीकरणम- न्त्रमिव मनसः, स्वस्थावेशचूर्णमिवेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य, पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूल- कोशमिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमाङ्कुरमिव कान्तिलतायाः, सर्गाभ्यासफलमिव प्रजापतेः, प्रतापमिव विश्रमस्य, यशःप्रवाहमिव वैदग्ध्यस्य, अष्टादशवर्षदेशीयं युवानमद्राक्षीत् । vv
मध्य इत्यादौ । तस्य च मध्येऽष्टादशवर्षदेशीयं युवानमद्राक्षीदिति सम्बन्धः । क्षीरोदस्याप्यर्थचन्द्रादि सर्वं योज्यम् । छाया कान्तिर्वा । चक्रवालेम समूहेन । नितम्बशब्दो मुख्यार्थः । 'पश्चाग्नितम्बः स्त्रीकट्याः' इत्यमरः । ^२शिखण्डखण्डिका चूडाभरणम् । प्रमृज्यमानेति । वर्तमानकालोऽत्र विवक्षितः । बकुलेत्यादिना निपी- यमानात्तपतुह्यवस्तुनिर्देशः । कुन्तलः केशहस्तः, स एव स्तबकः । पुष्पस्तबकः पुष्पसंघातः । सहजाऽकृत्रिमा, सहोत्पन्ना च । लक्ष्मीः शोभना, श्रीश्च । लावण्यमत्र कान्तिः । अवष्टम्भो गर्वः । द्राघीयसा दीर्घतरेण । सहकारः सुगन्धद्रव्यभेदः सह- कारफलेनैव क्रियते । पारिजातकोऽनेकद्रव्यसंस्कृतो मुखवासविशेषः, देववृक्षश्च । वसन्तश्चैवंविधेनैव मुखेन प्रारम्भेनोपलक्षितो भवति । रत्नत्रितयेन कृतं त्रिकोणक- ण्टकाख्यं कर्णाभरणम् । मृगमदः कस्तूरिका । संदानितं बद्धम् । वेष्टितमित्यर्थः । कुचावत्र कान्तासंबन्धिनावेव चक्रवाकयुगलं तस्य कृते पुलिनसदृशम् । कोणः पल्लवः । पृष्ठतः पश्चाद्भागे कक्ष्यायाः परिवलनादधिकस्रुतिरित्युक्तः । क्षिप्तो लम्ब- मानः पल्लवो यस्य तत् । संवलनं संकोचनम् । हारीतः पक्षिभेदः । हरिता नीलेन । मकरमुखं जानुनोरुपरिभागः । उत्तम्भनं धारणम् । स्थासकश्चन्द्रकः । आयामो दैर्घ्यम् । न केवलमायामं शुक्लत्वमप्युपहसन्तम् । धर्मयोरकनिर्देशोऽन्यसंविस्सा-
१. मार्गान्तरमानयन्तं । २. शाखंडेन्दुचूडामरणं.
हर्च्यत् । 'अनिर्भरतोरूभारवहनेन' इति पाठः । ऊरू एव भारः । प्रशस्ता जङ्घा जङ्घाकाण्डम् । कल्पपादपसम्बन्धितया न केवलं लौहित्यं सौकुमार्याद्युच्यते । याव- =सकलसंपत्फलप्रदत्वादिप्रकर्षान्तरम् । अतिचिरमित्यादिनानाकुलत्वमुच्यते । यद्यु- कम्—'आवृताः कुञ्चिताः स्थूलदलपाल्यग्रसंस्थिताः । विवर्ज्याश्चाकुलपदन्यासेन गमनेन च ॥' इति । विकटं चित्रम् । सुरैरिति । तद्व्यापारवैचित्र्याद्बहुत्वमग्रिमयो- रेव । एवंविधसंनिवेशसंभवात् । खलीनं कविका । लालिका कविकाशेखरम् । आयानं हयमण्डनमाला । गोलाङ्गूलः कृष्णमुखो वानरः । नीलेत्यादौ कुमुदकुन्दमृणालगौर इत्यादिवन्न पौनरुक्त्यम् । महतीति । उक्तं च—'सर्वलक्षणहीनोऽपि महाकायः प्रशस्यते' इति । आसन्नेत्यनेन विश्वसनीयत्वमुक्तम् । अनङ्गयुगेति । अनङ्गजन्मना यदुपलक्षितं युगं कालविशेषस्तस्य नूतनमदनसादृश्यात् । यद्वा-अनङ्गयोर्युगं तद- वतारमिव । द्वित्वसंख्यापूर्वकत्वात् । चन्द्रमयीमिवेति कान्तिमयत्वेन । आकर्षणाञ्जनं वशीकरणार्थं कज्जलम् । अमृतलेपमिवेति । यस्यैनं प्राप्य कौतुकं न निवर्तते, नस्य संतोष एव नास्ति । केषांचिदेव द्रव्याणां संबन्धी यो न कदाचित्कार्ये व्यभि- चरति स सिद्धयोगः । सौभाग्यं तावत्सर्वं किंचन वशीकुरुते, एवं चास्य तदेव सिद्धयोग इव तदाश्रयेण निःशेषलोकवशीकरणक्षमत्वम् । जन्मदिवसमिति । तद्गो- चरपतितानां कामोत्पत्तेः । रसायनमिवेति । यथा रसायनवशात्कश्चित्परिपूर्णश्च स्थिरश्च भवति, तद्वदेतदाश्रयेण यौवनम् । ईषदसमाप्तोऽष्टादशवर्षोऽष्टादशवर्षदे- शीयस्तम् । न परेण संश्लिष्टस्तुरङ्गो यस्य तम् । दधीचस्य तु पर्याणश्लिष्टायुक्तम् । परिणतवयस्त्वेन सत्यवादिना सावित्रीसरस्वत्यौ प्रति च विस्रम्भकारित्वमुच्यते । अन्यथोपक्रम एव संभाषणमात्रं न प्रवर्तते । सरस्वती ने घोड़ों की उस टुकड़ी के बीच में अट्ठारह वर्ष के एक अश्वारोही युवक को देखा । अर्धचन्द्र से युक्त, मोतियों की मालाओं वाला, अनेक प्रकार के रत्नों से खचित, शंख और दूध के फेन की तरह उजला छत्र उस पर छाया कर रहा था, मानों लक्ष्मी को उसे स्वयं अर्पित करने के लिये क्षीरसमुद्र ही आकाश में लहरा रहा हो । आभूषणों की निर्मल किरणें इस तरह उसका पीछा कर रही थीं मानों उसके दर्शन के अनुराग से सारी दिशाएँ एकत्र होकर अनुसरण कर रही हों । मालती की शेखरस्रज उसके नितम्ब तक लटक रही थी, मानों वह समस्त भुवनों की विजय करने से प्राप्त रूप की पताका से बिरा- जमान हो । शिखण्ड-खण्डिका नामक उसके शिरोभूषण में जड़ी हुई पद्मराग मणि की लाल किरणें फैल रही थीं, मानों दृष्टिपथ में न आने वाली वनदेवता बाल पल्लवों द्वारा मार्ग की धूल से उसकी रूखर देह को झाड़ती हो । मौलसिरी के कुद्मलों से बनी हुई मुण्डमाला से मनोहर एवं घुँघराले बालों के गुच्छों से भरे हुए अपने सिर से दिन के आतप को मन्द करता हुआ वह मानों दिन को पी रहा था। उसका ललाट शिव के ललाट के मुकुटचन्द्र के दूसरे खण्ड से मानों बना हुआ था और उसमें स्वाभाविक शोभा थी, मानों
३८ हर्षचरितम् वह मनःशिला के पंकसदृश लाल-पीले अपने ललाट के लावण्य से सारे अन्तरिक्ष को लीप रहा था। वह नई जबानी के आरम्भ में गर्वीले और उद्धत दृष्टिपात करने बाली- अपनी आँखों से सारे संसार को तृण के बराबर समझ रहा था, ऐसी आँखों की दीर्घता से मानों वह कुमुद, कुवलय और कमल से भरे हुए हजारों सरोवरों से समस्त दिशाओं को ढकने वाली शरत् को प्रवर्तित कर रहा था। उसका नासावंश मानों दीर्घ नयनों की नदी के सीमान्त में बनाया गया पुल का बाँध हो, या उसके ललाट रूपी चन्द्रकान्तमणि के शिलातल से चू कर बहता हुआ कान्ति का प्रवाह हो, ऐसे वह अपने नासावंश से सुशो- भित था। सहकार, कर्पूर, कङ्कोल, लवङ्ग और पारिजातक इन पाँच सुगन्धित पदार्थों की गंध उसके मुख से निकल रही थी, उस पर मतवाले भौंरे गुंजार रहे थे, मानों वह चन्दन वन के सहित वहाँ वसन्त को उतार रहा था। वह जब कभी अपने पास के मित्रों के साथ परिहास की भावना से मुँह ऊँचा करके हँसता था तो समस्त दिशाएँ उसके दाँतों की चाँदनी में घुल जाती थीं और मानों वह आकाश में बार बार संचरण करने वाले चन्द्रा- त्पेोक का निर्माण कर रहा था। उसके कान में त्रिकंटक नाम का गहना था, जो कदम्ब के कुड्मल के समान दो स्थूल मोतियों के बीच में पन्ने का जड़ाव करके बनाया गया था, ऐसे त्रिकंटक की प्रभा फैल रही थी, मानों उस युवक ने फूल के सहित कुन्द के हरे पल्लवों को कर्णावतंस बना लिया हो। सुगन्धिन कस्तूरी के पंक की बनी हुई पत्ररेखाओं से उसके दोनों हाथ चमक रहे थे, मानों कामदेव की पताका के बड़े बड़े मकरों से आक्रान्त शिखर वाले दो डंडे हों। मानों समुद्रमथन से क्रुद्ध गंगा की धाराओं से जकड़े हुए मन्दराचल के समान श्वेत यज्ञोपवीत से वेष्टित शरीर को वह धारण कर रहा था। कर्पूर के चूर्ण की मूठों से धूसरित उसकी छाती कान्ता के ऊँचे स्तन रूपी चक्रवाक युगल के लिए चौड़ी रेतीली जमीन थी, ऐसी छाती से वह मानों अपनी स्थूल भुजाओं के आयाम में पुञ्जीभूत दिशाओं को फैला रहा था। हारीत पक्षी के समान नील वर्ण का कस कर बँधा हुआ अधोवस्त्र उसकी पतली कमर को विभाजित कर रहा था, सामने की ओर नाभि से कुछ नीचे उसका एक कोना बहुत अच्छा लग रहा था, उस अधोवस्त्र का कच्छ भाग पीछे की ओर पल्ला खोंसने के बाद भी कुछ ऊपर निकला रहता था। दोनों ओर शरीर के मोड़ने से दाहिनी जांघ का कुछ भाग दिखाई दे जाता था। वह अपने ऊरुदण्डों से ऐरावत की सूँड़ का मानों उपहास कर रहा था, दोनों जांघों का मांस हमेशा व्यायाम करते रहने से बढ़ गया था, वे ऐसी लगती थीं मानों कठिन और विकट मगर के मुख में फँस गई हों, वे चौड़ी छाती के चबूतरे को धारण करने के लिए शिलास्तम्भ थीं। चन्दन के सुन्दर थप्पे से उसकी जाँघों में कान्ति और भी निखर उठी थी। हद से ज्यादा उभरी हुई जाँघों के भार-वहन करने से खिन्न होकर मानों उसकी टाँगें पतली हो गई थीं। कल्पवृक्ष के दो पल्लवों के समान ललछहू रंग के दोनों ओर लटकते हुए पैरों के नखों की किरणें डोलती हुईं मानों घोड़ों का चामरमाला नामक अलंकार बना रही थीं।
प्रथम उच्छ्वासः ३६ मन के समान वेग वाले, लंगूर के मुँह की तरह काले रोंगटे वाले, सिन्धुवार जैसे नीले, तगड़े घोड़े पर वह सवार था। वह घोड़ा अपने खुरों से जो सामने देर तक उठे रह जाते और विकट रूप में टेढ़े होकर गिरते, जमीन को कोड़ रहा था। वह काँटेदार लगाम को प्रतिक्षण अपने दाँतों से छोड़ता तो खड़-खड़ आवाज होती। घोड़े की नाक पर सामने की ओर लगाम का कमानीदार हिस्सा और माथे पर सोने का पदक झूल रहा था। आवाज करती हुई सुवर्ण की आयान नामक माला से वह घोड़ा सुशोभित हो रहा था। अपने अश्व के पलान का एक हाथ से सहारा लेकर उसके दोनों ओर दो आसन्न परिचारक चँवर झल रहे थे। आगे आगे जो बंदीजन सुभाषित पाठ कर रहे थे उसे सुन कर उसके मुख- चन्द्र के दोनों कपोलभाग रोमाञ्चित हो रहे थे मानों उसके कर्णोत्पल का पराग झर गया हो। मानों वह अनङ्ग युग का अवतार दिखला रहा था, सारी सृष्टि को चन्द्रमय बना रहा था, सारे प्राणिलोक को विलासमय कर रहा था, राग के राज्य का प्रवर्तन कर रहा था। मानों वह नेत्र का आकर्षणाञ्जन, मन का वशीकरणमंत्र, इन्द्रियों को विवश करने वाला चूर्ण, कुतूहल का असन्तोष, सौभाग्य का सिद्धियोग, कामदेव का पुनर्जन्मदिन, यौवन का रसायन, सौन्दर्य का एकच्छत्र राज्य, रूप का कीर्तिस्तम्भ, लावण्य का मूल कोश, संसार के सारे पुण्यकर्मों का परिणाम, कान्ति रूपी लता का पहला अंकुर, ब्रह्मा जी के सृष्टिनिर्माण के अभ्यास का फल-स्वरूप, विभ्रम का प्रताप और वैदग्ध्य का यशःप्रवाह था। पार्श्वे च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गमं, प्रांशुमुत्तप्तपनीयस्तम्भा- कारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकेशम्, शुक्तिकखलतिम्, ईषत्तुन्दिलम्, रोमशोरःस्थलम्, अनुलब्णोदारवेष- तया जरामपि विनयमित्र शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्, महानुभावतामपि शिष्यतामिवानयन्तम्, आचारस्याप्याचार्यकमिव कुर्वाणम्, वलक्षवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषम् । शुक्तिकखलतिं शुक्त्याकारखल्वाटम् । तुन्दिलं लम्बोदरम् । अत एवास्य विकु- क्षिरिति नाम । अनुलब्णोऽनुद्धतः । उदारः श्रेष्ठः । जरामिति । जरा किल सर्वं विनयं शिक्षयति । महानुभावता महाशयता । अनुभावयति कार्यमकार्यं वा बोध- यतीत्यनुभावः । शिष्यतामिति । परशासनदक्षकर्म महानुभावतया तत एवावसी- दत इत्युक्तं भवति । आचारः शास्त्रकारप्रदर्शिता विशिष्टा नीतिः । सच सर्वस्मि- न्नाचार्यकमवलम्बते । संस्कारातिशयमापादयतीत्यर्थः । वलक्षः शुक्लः । वारबाणः कञ्चुकः । मौलयः केशाः । उस नवयुवक के बगल में एक दूसरे पुरुष को देखा । वह भी घोड़े पर सवार था।