भारतकोश
संग्रह पर लौटें

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

४८ हर्षचरितम् ताडितापि वेदनामधत्त । मन्दमन्दमारुतविधुतैः कुसुमरजोभिरदूषित- लोचनाप्यश्रुजलं मुमोच । हंसपक्षतालवृन्तवातव्रातविततैः शोणशी- करैरसिक्ताप्यार्द्रतामगात् । प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकम- लिनीकल्लोलदोलाभिः । विघटमानचक्रवाकयुगलविस्सृष्टैरस्पृष्टापि श्यामता- माससाद विरहनिःश्वासधूमैः । पुष्पधूलिधूसरैरदृष्टापि व्यचेष्टत मधुकरकुलैः। विलुलितं विपर्यासितम् । मर्त्यलोक इत्यादिना गुणकीर्तनम् । चतुर्थमवस्था- विशेषमाह । तदुक्तम्—'अङ्गप्रत्यङ्गलीलाभिर्भावैश्चेतसाहितेक्षणैः । नास्त्यन्यः सदृ- शस्तेन तदेतद्गुणकीर्तनम् ॥' इति । गुणा वैदग्ध्यादयः, सूत्राणि च । तद्देशेन गुरूणि बहुमानभाञ्जि । इतरत्त्र तु तिष्ठतु तावदेकः । गुणग्रामस्यापि गुणिरूपिते- नापि दुर्बहानीति यावत् । तस्येनेति । पूर्वानुभूतस्य बिन्दुरिति न केवलं लावण्यप्र- वाहाभिप्रायेण यावत्संनिवेशसादृश्यात् । विक्षेपाः परतः प्रेरणानि । कुमुदेत्याद्यु- क्तम् । शुक्लकृष्णरक्तरुचित्वाच्चक्षुषो दीधितय इति मणिशब्दाभिप्रायेण । विकसित- शब्देन लौहित्यातिशयमाह । अङ्गानि विचिन्त्यते यस्य तदङ्गं शरीरम् । परभागो वर्ण्य- स्य वर्णान्तरेण शोभातिशयः । स्त्रैणानि स्त्रीसम्बन्धीनि । का प्रतिपत्तिः किमनुष्ठेयम् ? मदन-इत्यादिनोद्वेगरूपं पञ्चममवस्थाभेदमाह । यदुक्तम्—'आसने शयने वापि न हृष्यति न तुष्यति । नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ चिन्तानिःश्वास- खेदेन हहाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्योगेनाभिनयेन च ॥' इति । दश किल कामावस्थाः । तदुक्तम्—'प्रथमे त्वभिलाषः स्याद्द्वितीये चिन्तनं भवेत् । अनु- स्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे प्रोक्तः प्रलापः षष्ठ उच्यते । उन्मादः सप्तमे चैव भवेद्व्याधिस्तथाष्टमे ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥' इति । अरतिर्दुःखासिका हि कामवधूप्रतिपत्तिभूतेति तदागमनाभिभ्रानम् । हंस- पक्षा इव तालवृन्तं व्यजनम् । आर्द्रता स्नेहताम्, क्लिन्नतां च । प्रेङ्खद्दोलाय- मानम् । कादम्बाः कृष्णहंसाः । श्यामता शृङ्गाररसाविष्कारिवैवर्ण्यम् । यदुक्तम्— 'शृङ्गारदेवो भगवान्मुरारिः संगीयते श्यामवपुर्मुरारिः । श्यामो मनाक्चिज्झषध्वजश्च तेन शृङ्गारशंसी मुखराग उक्तः ॥' अथ श्यामता सधूमता । श्यामत्वेऽपि सधूमता इति विरोधाभासः । लेकिन सरस्वती बार बार करवट बदलने लगी, अपने पल्लवशयन को मसल डाला, आँखें मूँद लीं, फिर भी नींद नहीं आई । सोचने लगी—'निश्चय ही मर्त्यलोक समस्त लोकों में बढ़ा-चढ़ा है, जहाँ त्रिभुवन के भूषण, समस्त गुणों के गौरव से भरे, ऐसे ऐसे रत्न पड़े हैं। जैसा कि—चन्द्रमा उसके लावण्य प्रवाह का चूआ हुआ एक बिन्दु ही तो है । उसके नेत्रों के विलास ही तो सफेद, काले और लाल कमलों के आकर हैं । उसके अधरमणि की कान्ति ही तो बन्धूक की खिली हुई वनराजि है । कामदेव

प्रथम उच्छ्वासः ४५ इसके अंग के शोभातिशय का साधन है। उन युवतियों की आँखें, चित्त एवं यौवन पुण्य- वान् हैं जिन्होंने इसके दर्शन नहीं किए। मानों दूसरे जन्म का उत्पन्न अधर्म फलित हो गया, जो मैंने क्षण भर इसके दर्शन किए। इस समय क्या करूँ?' यह सोच ही रही थी कि किसी किसी तरह बहुत देर बाद नींद आ गई और क्षण भर सोई रही। सोने पर भी उसी दीर्घलोचन दधीच को देखा। स्वप्न में उसने दूसरी बार दधीच को देखा तो मानों कामदेव ने उसे बड़ी निर्दयता से कान तक खींच कर बाण मारा। जब काम के बाण से घायल सरस्वती को नींद खुली तब उसकी खबर लेने के लिए मानों अरति (वैराग्य) आई। तब वह पुष्पपराग से उज्ज्वल वनलताओं द्वारा ताड़ित न होकर भी वेदना अनुभव करने लगी। मंद मंद हवा से काँपते हुए फूलों की रज उसकी आँखों में न भी पड़ती तो भी वह आँसू बहाती। हंस पक्षियों के पंखों की हवा से फैलते हुए सोन (नदी) के फुहारों द्वारा सिक्त न होने पर भी (पसीने से) तर होने लगी। काले हंसों की जोड़ियों से युक्त वन की कमलिनी की दोलाओं पर न बैठो हुई भी चकराने लगी। विघटित होते हुए जोड़े चक्रवाकों के विरहजन्य निश्वास-धूम से स्पृष्ट न होने पर भी श्यामता (कालिख) को प्राप्त करने लगी। फूल की धूल में लोट पोट करने वाले भौरों से न काटे जाने पर भी वह उद्विग्न होने लगी।

अथ गणरात्रापगमे निवर्तमानस्तेनैव वर्त्मना तं देशं समागत्य तथैव निवारित परिजनश्छत्रधारद्वितीयो विकुक्षिरुद्दँलोके । सरस्वती तु तं दूरादेव संमुखमागच्छन्तं प्रीत्या ससंभ्रममुत्थाय वनमृगीवोद्ग्रीवा विलोकयन्ती मार्गपरिश्रान्तमस्नपयदि्व धवलितदशदिशा दृशा । कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ—'आर्य, कच्चित्कुशली कुमारः ?' इति । सोऽब्रवीत्—'आयुष्मति, कुशली । स्मरति च भवत्योः । केवलममीषु दिवसेषु तनीयसीमिव तनुं बिभर्ति । अविज्ञायमाननिमित्तां च शून्य- तामिवाधत्ते । अपि च । अन्वक्षमागमिष्यत्येव मालतीति नाम्ना वाणिनी वार्तां वो विज्ञातुम् । उच्छ्वसितं हि सा कुमारस्य' इति । तच्छ्रुत्वा पुनरपि सावित्री समभाषत—'अतिमहानुभावः खलु कुमारो येनैवमवि- ज्ञायमाने क्षणदृष्टेऽपि जने परिचितिमनुबध्नाति । तस्य हि गच्छतो यदृच्छया कथमप्यंशुकमिव मार्गलतासु मानसमस्मासु मुहूर्तमासक्त- मासीत् । अशून्यं हि सौजन्यमाभिजात्येन वः स्वामिसूनोः । अलसः खलु लोको यदेवं सुलभसौहार्दानि येन केनचिन्न क्रीणाति महतां मनांसि । सोऽयमौदार्यातिशयः कोऽपि महात्मनामितरजनदुर्लभो ४ ह० च०

५० हर्षचरितम् येनोपकरणीकुर्वन्ति त्रिभुवनम्' इति । विकुक्षिस्तूचावचैरालापैः सुचिर- मिव स्थित्वा यथामिलषितं देशमयासीत् । ४४ • गणरात्रं निशाबहुत्वः । तेनैव वर्त्मनेति । अनेन तस्य यदृच्छया तदाश्रयमा- गमनमिति दर्शयति । प्रधानप्रकृतेः स्थवीयसस्तथाविधव्यापारविनियोगाद्यनौचि- त्याद् । अत एव वक्ष्यति — 'यथामिलषितं देशमयासीत्' । हुडोके इत्यनेन निमित्त- परतन्त्रतया संनिकृष्टमेवैनमालुलोकेति प्रदर्शितम् । यदुक्तम् — 'पटुता धाष्ट्रर्यता इङ्गि- ताकारज्ञानं प्रतारणे देशकालज्ञता कार्येषु विषह्यबुद्धित्वं लघ्वी प्रतिपत्तिः सापाया च इति दूतीगुणाः' । भरतमुनिरपि — 'विज्ञानगुणसंपन्ना कथिनी लिङ्गिनी तथा । रङ्गोपजीविनी चापि प्रतिपत्तिविचक्षणा ॥ प्रोत्साहनेककुशलेत्यादिदूतीगुणैर्युता ॥' इति । अत एवागूढश्चाकारतःप्रभृतीत्यादि वक्ष्यते । अन्वक्षं प्रत्यक्षम् । वाणिनी दूती । उच्छ्वसितमित्यनेनातिविस्रम्भवत्ता स्याता । उच्छ्वसितं प्राण इति वा । यदृ- च्छया यथाकथंचित् । यश्च तथागच्छति यस्य निरवधानतया क्वचिदंशुकादि गलति । आभिजात्येन महाकुलीनत्वेनोपकरणीकुर्वन्त्यायततां नयन्ति । उच्चावचैः प्रकृतव- स्वसंस्पर्शिभिः, विचित्रैरिति वा । इस तरह कई रातें गुजर गईं । एक दिन उसी मार्ग से लौटता हुआ विकुक्षि परिजनों को बाहर रोक छत्रवाहक को साथ ले पहुँचा । सरस्वती ने दूर ही से सामने आते हुए उसे देखा और प्रेम से फड़क उठी । वह हिरनी की तरह गर्दन ऊँची उठाकर देखने लगी मानों मार्ग में थके हुए विकुक्षि को दिशाओं को धवलित करने वाली दृष्टि से स्नान कराने लगी । जब वह आकर आसन पर बैठ गया तब सावित्री ने प्रीतिपूर्वक पूछा— 'आर्य, क्या कुमार दधीच कुशल से हैं ?' उसने कहा—'आयुष्मती, कुमार सकुशल हैं । आप दोनों का स्मरण करते हैं । इन दिनों उनका शरीर क्षीण होता जा रहा है । पता नहीं क्यों, शून्य-शून्य से लगते हैं । और भी, मालती नाम की दूती समाचार लेकर सामने आने वाली है । कुमार का उसे प्राण ही समझना ।' यह सुनकर फिर सावित्री बोली—'कुमार सचमुच बड़े ही महानुभाव हैं, जो अज्ञातजन में भी क्षण भर की देखा- देखी में ही अपना परिचय-सम्बन्ध जोड़ रहे हैं । वे जाने लगे तो उनका मन हम लोगों में क्षण भर इस तरह लग गया जैसे मार्ग की लताओं में अंशुक फँस जाता है । आपके स्वामिपुत्र दधीच में कुलीनता के साथ सौजन्य भी है । दुनिया वाले बड़े आलसी होते हैं जो सुलभ सौहार्द वाले महापुरुषों के मन को जिस किसी वस्तु से खरीदते नहीं । महापुरुषों में ही इस तरह बढ़कर उदारता होती है जो इतर लोगों में नहीं होती और जिससे वे लोग त्रिभुवन को अपने वश में कर लेते हैं ।' विकुक्षि भी लम्बी बातचीत करके अपने अभिलषित देश की ओर चला गया ।

प्रथम उच्छ्वासः ५१ अपरेद्युरुद्यति भगवति द्युमणावुद्दामद्युतावभिद्रुततारके तिरस्कृत- तमसि तामरसव्यासङ्ग्यसनिनि सहस्ररश्मौ शोणमुत्तीर्यायन्ती, तरल- देहप्रभावतानच्छलेनायच्छं सकलं शोणसलिलमिवानयन्ती, स्फुटिता- तिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताविव गौरी तुरंगमे स्थिता, सलीलमुरोबन्धारोपितस्य तिर्यग्गुत्कर्णतुरगाकर्ण्यमाननूपुरपटुरणि- तस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरण- युगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरभयतस्ताडनदोहदलोभागतानि किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवलोकहृदयहठहर- णाघोषयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुतला, स्त्रातकञ्चुकान्तर- दृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलिलाभ्यन्तरविभाव्यमान- मृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तः- स्फुटं स्फटिकभूमिरिव रत्ननिधानमादधाना, हारेणामलकीफलनिस्तुल- मुक्ताफलेन स्फुरितस्थूलग्रहगणशारा, शारदीव श्वेतविरलजलधरपटला- वृता द्यौः, कुचपूर्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरण- किसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशनमालिकामिव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकैकस्य हाटककटकस्य मरकतमकरवेदिका- सनाथस्य हरीतीकृतदिगन्ताभिर्मयूखसंततिभिः स्थलकमलिनीभिरिव लक्ष्मीशङ्कयानुगम्यमाना, अतिबहलताम्बूलकृष्णिकान्धकारितेनाधरसंपु- टेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलय- कुतूहलानिलीयमानयालिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धार्धवदना, नीलीरागनिहितनीलिम्ना शिखिगलशितिना वामश्रवणाश्रयिणा दन्त- पत्रेण कालमेघपल्लवेन विद्युदिव द्योतमाना, बकुलफलानुकारिणीभिस्ति- सृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवर्षिणा सिञ्च- न्तीवातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया रजनिकरजिह्वालतयेव लावण्यलोभेन लिह्यमानकपोलतला, तमालश्या- मलेन मृगमदामोदनिष्यन्दिना तिलकबन्दुिना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश्चटुलतिलकमणेरुद्भ्रमता चटुलेनांशुजालेनेव रक्तांशुकेनेव कृतशिरोवगुण्ठना, पृष्ठप्रेङ्खद् नादरसंयमन-

५२ हर्षचरितम् शिथिलजूटिकाबन्धा नीलचामरावचूलिनीव चूडामणिमकरिकासनाथा, मकरकेतुपताकेव कुलदेवतेव चन्द्रमसः, पुनःसंजीवनौषधिरिव पुष्प- धनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य, कुवलयदळदामदीर्घलोचनया पाटलाधरया कुन्दकुड्मलस्फुट- दशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलकरया बकुलसुर- भिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरण्डवाहिन्या महाप्रमाणाश्वतरारूढयानुगम्यमाना, कतिपयप्रतिचारकपरिकरा मालती समदृश्यत। दूरादेव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृदयेन, स्नापितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अभ्यर्थितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधमुपययौ। अवतीर्य च दूरादेवानतेन मूर्ध्ना प्रणाममकरोत्। आलि- ङ्गिता च ताभ्यां सविनयमुपाविशत्। सप्रश्रयं ताभ्यां संभाषितात च पुण्यभाजनमात्मानममन्यत। अकथयच्च दधीचसंदिष्टं शिरसि निहिते- नाञ्जलिना नमस्कारम्। अगूढाद्याकारतः अभृत्यग्राम्यतया तैस्तैरतिपेशा- लैरालापैः सावित्रीसरस्वत्योर्मनसी। अपरेण रीत्यादावीदृशी मालती समदृश्यतेति संबन्धः। दिवि मणिरिव द्युमणिः। वियद्भूषणं सूर्यः। अभिद्रुता न्यक्कृता। तामरसं पद्मम्। व्यासो विकासः। अति- मुक्तकं पुष्पभेदः। केचिन्मालतीलताकुसुममाहुः। सटास्ति यस्येति। 'प्राणिस्था- दातो लजन्यतरस्याम्'। गौरी गौराङ्गी, पार्वती च। सजलतुरङ्गाङ्गस्पर्शपरिजिही- र्षयोरुवभ्रेत्याद्युक्तम्। प्रियमधुरशब्दत्वादश्वानामाकर्ण्यमानेत्युक्तम्। पिण्डाल- क्तकः कथितोऽलक्तकरसः। दोहदोऽभिलाषः। वाद्यविशेषानुगताङ्गुल्यघोषणा। रशना मेखला। शिञ्जानं शब्दायमानम्। निर्मोकः सर्पत्वक्। आप्रपदं प्राप्नोत्याप्रपदीनः पादं यावत्। छातस्तनुः। कुसुमभं पद्मक्रम्। नानावर्णबिन्दुन्यासः पुलकबन्धः, मणिविशेषाश्च पुलकाः। चण्डातकमधोरुकम्। कुचावेव कस्यापि पुण्यवत इवेति वक्ष्यमाणाभिप्रायेण पूर्णकलशौ। कस्यापीत्यलौकिकस्य। वनमाला पञ्चपुष्पयो- जिता स्रक्। सापि पूर्णकलशयोरुपरि बध्यते। प्रकोष्टः प्रकुञ्चनकः। वेदिका रत्न- १. तुरगाद्दूरादेवानतंन ।

प्रथम उच्छ्वासः ५३ प्रतिष्ठापीठिका । बहलं पौनःपुन्येन कृतम् । कृष्णिका कृष्णलेखा । मुखमेव तमःपारप्रतिपिपादयिष्या शशी । ताम्बूलकारणत्वेन लौहित्यमेव सम्भवतीति ससन्ध्यारागमित्युक्तम् । नील्योषधिभेदः । शितिनीलः । पल्लवः पिण्डः । बालिका कर्णोपवेधेऽलंकारः । अधोमुखेन घटादिना जलवर्षिणा लता सिच्यते । मृगमदः कस्तूरिका । तिलकबन्दुिः परिवर्तुलस्तिलकः । लासको नर्तकः । 'सुवर्ण- शृङ्खलाबद्धो नानारत्नौघमण्डितः । ललाटलम्ब्यलंकारश्चटुलातिलको मतः ॥' अव- चूल चिह्नम् । मकरिका मकराकारं रूपम् । वेला यथा सागरं क्षोभयति तद्वदेवेयं रागम् । क्षोभेन यथा सागरो दुरुत्तर एवमेतयापि रागः । यथा ज्योत्स्नया विना चन्द्रोदयो भत्रन्नपि न क्वापि विलसन्विभाव्यते तथैतया विना यौवनं सविलासम्- न्यत्र न दृश्यते । रतिप्रधानो रसः शृङ्गार एव । माधुर्यातिशययोगित्वात्प्रकृष्टत्वाच्च । ह्लादनममृतम् । यदुक्तम्- 'शृङ्गार एव परमः परः प्रह्लादनो रसः' इति । संप्रयोगो रतं रहःशयनं मोहनमिति पर्यायाः । बालविद्या न कंचन मुञ्चति, तद्वदेष वैद- ग्ध्यम् । कौमुदीति । तथाविधकान्त्यतिशयसंभवात् । ध्रियते येन धृतिः । अस्यां सत्यां धैर्यमपि । यद्वा-धृतिः प्रवेशरक्षणम् । यथा प्रविशन्कश्चिद्राजनिकटं ध्रियते केनचित्तथा धैर्यं तावत्प्रसरति । यावदेषा न दृष्टा एतस्यां दृष्टायां सर्वे धैर्यशून्या इति । 'समानविद्यावित्तशीलबुद्धिवयसामनुरूपैरालापैरकत्रासनबन्धो गोष्ठीमन- स्विता' इत्यनेनैतस्या महानुभावताया व्यभिचारित्वमुच्यते । यस्माच्चत्र मनस्विता तत्र महाशयत्वमेवावश्यं सम्भावयतीति स्थितमेव । तृप्तिरिवेति । यथा कश्चित्सञ्जा- ततृप्तिर्नान्यत्किंचित्पुनरपेक्षते तद्वदासादितमालतीकं तारुण्यम् । एतदाश्रयणेन परिपूर्णवैषयिकोपभोगप्राप्तिस्तारुण्यस्येत्यर्थः । कुसुममयेवेति । कुवलयादिभिर्न- यनादीनां विधानम् । तरुणोऽश्वोऽश्वतरः । 'वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वम्' इति तनुत्वे तरप् । अत्र च व्याख्यातम् - 'तनुत्वं द्वितीयवयःप्राप्तिः' इति । अश्वतरो वा गर्दभेनाश्वायां जातः । मालतीति । एवं दधीचपरिवारभूतया मालत्या गुणवर्णन- द्वारेण सरस्वत्या एव निःसामान्यगुणातिशयो ध्वन्यते । लुण्ठनेवेति । वक्ष्यमाणं प्रार्थनादि । तया मनोरथैरुप्रेक्ष्य स्वीकृतमित्यतस्तैर्लुण्ठितेवेत्युक्तम् । लुण्ठनं च पाथेयाभिवितरणमेवमन्यत् । उत्कलिका रहुरुहिका । सविधं समीपम् । अपि च यः स्निग्धो दूरात्सविधमायाति, तस्य लुण्ठनादिसर्वमर्चनावसानं क्रियत इति ध्वनिः । पेशलैर्हृद्यैः । अगले दिन आकाश के रत्न, प्रखर किरणों वाले, तारों को भगा देने और अंधकार को हटा देने वाले, कमलों को विकसित करने के शौकीन भगवान सूर्य के उदित होते ही सोन पार करके आती हुई मालती दिखाई पड़ी । अपने शरीर की तरल प्रभा से सोन के जल को वह और भी निर्मल कर रही थी । वह बड़े तुरंगम पर सवार थी, जिसका वर्ण माधवी के फूल की भाँति था, और उसकी गर्दन पर झालर जैसी अयाल थी । मालती

५४ हर्षचरितम् विशाल सिंह पर आरूढ़ गौरी की भाँति लग रही थी। लीला से उसने अपने चरण रकाब पर रखे थे; जब पैर के नूपुर बजते तो उसका घोड़ा कान खड़े करके गर्दन टेढ़ी किए सुनता। आलते से उसके पैर रञ्जित थे। तलवे में कुंकुम लगा हुआ था। उसके पैरों की टहाका लाल कान्ति दोनों ओर फैल रही थी, मानों वह ताड़न की अभिलाषा से रक्ता- शोक के हरे-भरे वनों को खींचती आ रही थी। उसके कटि प्रदेश में करधनी बज रही थी, मानों वह जीवलोक के सारे लोगों के मन को हठपूर्वक हरने के लिए घोषणा कर रही हो। उसका सारा शरीर धुले सफेद रेशम के पैरों तक लटकते हुए झीने, साँप की केंचुल की तरह हल्के और बारीक कंचुक से ढँका हुआ था। झीने कंचुक के भीतर चन्दन के सूख जाने से उसके उज्ज्वल अंग दिखाई पड़ रहे थे जैसे सरसी के निर्मल जल के भीतर मृणाल की डंठल झलकती दिखाई देती है। झीने कंचुक के नीचे कुसुंभी रंग का लाल लहँगा झलक रहा था जिस पर रंग-बिरंगी बुंदकियाँ पड़ी हुई थीं, मानों स्फटिक की जड़ाव में मोतियाँ जड़ी हों। आँवले-जैसे बड़े बड़े मोतियों का हार गले में लटक रहा था, वह तारों भरे शरत्काल के आकाश जैसी लग रही थी जिसमें कहीं कहीं सफेद मेघ के टुकड़े घिरे रहते हैं। उसके स्तन रूपी कलश पर रत्नों की प्रालम्ब माला लटक रही थी, मानों किसी पुण्यवान् के हृदय में प्रवेश करने के स्वागत में मङ्गलार्थ घट में वनमाला बँधी हो। उसके एक हाथ की कलाई में सोने का कड़ा था जिसके ग्राहमुखी सिरों पर पन्ने जड़े हुए थे, उनकी हरित किरणें दिशाओं में फैल रही थीं, मानों स्थल-कमलिनियाँ उसे लक्ष्मी समझ कर पीछे लग गई थीं। उसके अधर पर पान चबाने से काली रेखा पड़ गई थी, मानों उसका मुखचन्द्र पिए हुए संध्याराग के सहित अन्धकार को उगल रहा हो। भौंरे उसके नेत्रों को खिले हुए कुवलय समझ कर छा रहे थे मानों उसका मुख नीले अंशुक की नकाब से ढँका हुआ था। उसके बायें कान का दन्तपत्र नीली राग द्वारा रँग कर नीला कर दिया गया था, उसका वर्ण मयूर की गर्दन की तरह था। मानों विस्तृत नीले मेघ में बिजली के समान मालती शोभ रही थी। मौलसिरी के फल जैसे लम्बोतरे तीन मोती वाली उसके कानों में एक एक बाली थी, जो नीचे लटक कर अपने आलोक के जल से भुज रूपी लता को सींच रही थी। उसके दाहिने कान पर केतकी का नुकीला टौंसा लगा हुआ था, मानों उसके लावण्य का लोभी चन्द्र अपनी जीभ से उसके कपोल को चाट रहा था। माथे पर कस्तूरी का तिलकबिन्दु तमाल की भाँति श्याम था। कामदेव का सर्वस्व होने के कारण उसके मुँह पर तिलक रूप में जैसे राजकीय मोहर लगी थी। ललाट पर सामने माँग से लटकती हुई चट्टला तिलक नामक मणि ऊपर उठती हुई किरणों के रूप में मानों उसके सिर पर लाल अंशुक की पगड़ी बँधी थी। उसके बालों का जूड़ा पीठ पर ठीक से न बाँधने के कारण ढीला होकर लटक रहा था। नीले कमल के समान चूड़ामणि मकरिका उसके सामने केशों में लगी हुई थी। वह कामदेव की पताका, चन्द्रमा

[Page Header: प्रथम उच्छ्वासः ५५]

की कुल देवता, काम को फिर से जीवित कर देने वाली संजीवन बूटी, प्रेम के समुद्र की तटी, यौवन रूपी चन्द्रोदय की चाँदनी, रति रस के अमृत की महानदी, सुरत वृक्ष की पुष्पोद्गति, वैदग्ध्य की बाल विद्या, कान्ति की कौमुदी, धैर्य की धृति, गौरव की बड़ी शाला, विनय की बीजभूमि, गुणों की गोष्ठी, महानुभावता की मनस्विता और जवानी की तृप्ति थी। उसके साथ एक बड़े अश्व पर बैठी हुई उसकी ताम्बूलकरंकवाहिनी आ रही थी जिसके अंग-अंग मानों फूल से बने थे, क्योंकि कुवलय की माला-सी बड़ी-बड़ी आँखें, पाटल पुष्प-सा अधर, कुन्द की कलियों जैसे दाँत, शिरीषमाला जैसी सुकुमार दोनों भुजाएँ, कमल जैसे हाथ, मौलसिरी की गन्ध जैसी सरस और चम्पा के समान दमकती देह थी। सरस्वती ने दधीच के प्रेम से मालती को दूर से ही मानों मनोरथ द्वारा लूट लिया, कुतू- हल से खींच लिया, मन की तरङ्गों से अगवानी की, उत्कण्ठा से आलिङ्गन किया, हृदय के भीतर रख लिया, आनन्द के आँसू से नहला दिया, स्मित के चन्दन से चर्चित किया, उच्छ्वसितों द्वारा पंखे झलने लगी, आँखों से ढँक दिया, मुख के कमल से पूजा की और आशा से उसे अपनी सखी बना लिया। तब मालती आई और आकर दूर ही से झुककर प्रणाम किया। दोनों से वह अँकवार कर मिली और तब विनयपूर्वक बैठी। सरस्वती ने भी मालती से जब विनयपूर्वक सम्भाषण किया तो उसने अपने आप को धन्यभाग समझा। मालती ने दधीच के सन्देश रूप में 'सिर से हाथ टेककर प्रणाम' को कहा। सावित्री और सरस्वती के मन को उसने अपने अग्राम्य आकार और अतिमधुर बातचीत से हर लिया।

क्रमेण चातीते मध्यन्दिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमु- त्सारितपरिजना साकूतेव मालती कुसुमशयस्तरशायिनीं समुपसृत्य सर- स्वतीमाबभाषे—'देवि, विज्ञाप्यं नः किंचिदस्ति रहसि। यतो मुहूर्त- मवधानदानेन प्रसादं क्रियमाणमिच्छामि' इति। सरस्वती तु दधीचसं- देशाशङ्किनी किं वक्ष्यतीति स्तननिहितवामकरनखरकिरणदन्तुरितमुद्भि- द्यमानकुतूहलाङ्कुरनिकरमिव हृदयमुत्तरीयदुकूलवल्कलैकदेशेन संच्छादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलाद्भावमानेनाविरतश्वाससंदोह- दोलायितां जीविताशामिव समासन्तरुणतरुलतामवलम्बमाना, समुत्फु- ल्लस्य मुखशशिनो लावण्यप्रवाहेण शृङ्गाररसेनेवाप्लावयन्ती सकलं जीव- लोकम्, शयनकुसुमपरिमललग्नैर्मधुकरकदम्बकैर्मदनाननलदाहश्यामलै- र्मनोरथैरिव निर्गत्य मूर्त्तैरुत्तप्यमाना, कुसुमशयनीयात्समरशरसंञ्चरिणी, मन्दं मन्दमुदगात्। 'उपांशु कथय' इति कपोलतलप्रतिबिम्बितां लज्जया कर्णमूलमिव मालतीं प्रवेशयन्ती मधुरया गिरा सुधीरमुवाच—'सखि

५६ हर्षचरितम् मालती, किमर्थमेवमभिदधासि ? काहमवधानदानस्य शरीरस्य प्राणानां वा ? सर्वस्याप्रार्थितोऽपि प्रभवत्येवातिवेलं चक्षुष्यो जनः। सा न काचिद्या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च। नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसो गरीयसो वा शरीरकमिदम्। अनवस्करमा- श्रवं मे त्वयि हृदयम्। प्रीत्या प्रतिसरा विधेयास्मि ते। व्यावूणु वरवर्णिनि, विवक्षितम्' इति। सा त्ववादीत्- 'देवि, जानास्येव माधुर्यं विषयाणाम्, लोलुपतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः। प्रख्यातैव मन्मथस्य दुर्निवारता। अतो न मामुपालम्भे- नोपस्थातुमर्हसि। न च बालिशता चपलता चारणता वा वाचालतायाः कारणम्। न किंचिन्न कारयत्यसाधारणा स्वामिभक्तिः। सा त्वं देवि, यदैव दृष्टासि देवेन तत एवारभ्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छ्वासहेतुः, आध्योऽन्तरङ्गस्थानेपु, संतापः परमसुहृत्, प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहाग्रेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः, संकल्पा बुद्ध्युपदेशवृद्धाः। किंच विज्ञा- पयामि। अनुरूषो देव इत्यात्मसंभावना, शीलवानिति प्रक्रमाविरुद्धम, धीर इत्यवस्थाविपरीतम्, सुभग इति त्वदायत्तम्, स्थिरप्रीतिरिति निपुणोपक्षेपः, जानाति सेवितुमित्यस्वामिभावोचितम्, इच्छति दास- भावमामरणात्कर्तुमिति धूर्तालापः, भवनस्वामिनी भवेत्युपलोभनम्, पुण्यभागिनी भजति भर्तारं तादृशमिति स्वामिपक्षपातः, त्वं तस्य मृत्यु- रित्यप्रियम्, अगुणज्ञासीत्यधिक्षेपः, स्वप्नेऽप्यस्य बहुशः कृतप्रसादासी- त्यासाक्षिकम्, प्राणरक्षार्थमर्थयत इति कातरता, तत्र गम्यतामित्याज्ञा, वारितोऽपि बलादागच्छतीति परिभवः। तदेवमगोचरे गिराम्सीति श्रुत्वा देवी प्रमाणम्' इत्यभिधाय तूष्णीमभूत्। आकूतमभिप्रायः। रहस्येकान्ते। सरस्वतीत्यादौ। सरस्वती कुसुमशयनीयादु- दगादुदतिष्ठदिति संबन्धः। अवतंसपल्लवेन गलतेतीत्थंभूतलक्षणे तृतीया। संदोहः समूहः। संज्वरः संतापः। उपांश्वनुक्तम्। अतिवेलमतिमात्रम्। 'अतिपेशलः' इति पाठे पेशलः। सुन्दरः। चक्षुष्योऽनुकूलः। त्वमिव व्यक्तम्। चक्षुष्य इति भङ्ग्वा दधीच इति ध्वनति। स्वसा भगिनी। प्रणयिनी विश्वास्ता। अतिशयेन क्षुद्रमल्पं क्षोदीयः। 'ज्ञेयं गुह्यमनवस्करम्' । आश्रवं वचसि स्थितम् । प्रतिसरानुकूला । विधेया

प्रथम उच्छ्वासः ५७ वश्या । व्यावृणु प्रकटय । वरवर्णिनि वरारोहे । लोलुपतां साभिलाषत्वम् । 'चलार्थको निगद्येते पारिप्लवपरिप्लवौ' । बालिशोऽज्ञः । चारणता धूर्तता । असा- धारगानन्यसदृशी । देवी देवेनेति च परस्परसमगुणयोगित्वमभिव्यनक्ति । गुर्वा- रीयान्, उपदेष्टा वा । तद्वशवर्तित्वात् । यश्च देवस्तस्य गुरुराचार्यः कश्चिदवश्यं सम्भवति । जीवितस्येश्वरः स्वामी जीवितेशः । शिशिरतया मदनदाहप्रशमनहे- तुत्वात् । अमृतमयत्वेन च जीवितसन्धारणशक्तत्वात् । अथ च जीवितेशो मृत्युः । चन्द्रादयो ह्यापातत एव तापं शमयन्ति, अनवरतं सेव्यमानाः पुनः कामोद्दीप- कत्वेन मृत्युं दिशन्ति । राजपक्षे जीवितेशः कश्चित्पुरोहितप्रायः । उच्छ्वसनमुच्छ्वा- सस्तत्र हेतुः । अथ च श्वासोत्क्रान्तौ कारणम्, इतरत्र सचिवप्राया विश्वसनीयाः । आधयश्चित्तपीडाः । अत एवान्तरङ्गमन्तःशरीरं यानि स्थानानि तेषु, इतरत्रान्त- रङ्गान्तर्वशिकास्तत्स्थानेषु विश्वसनीयजनाधिकारेषु । परं प्रकृष्टम् । असुहरोऽमित्रो वा । अभ्यन्त्र-परमसुहृन्मित्रं च । आप्तः प्राप्तो बान्धवप्रायः कश्चित् । सर्वगताश्चारा अपि संस्थाख्याः । विग्रहो विरोधः, देहश्च । मृत्युरिति । त्वदनङ्गीकारेण निश्चितं म्रियते । राज्ञोऽपि पार्श्वे मृत्युस्तिष्ठत्येव । रणरणको दुःखमरतिकृतम् । अत एव संचारक एकत्र नरे सम्भवदितरत्र संचारयति, चरितं वस्तु यः प्रापयते सः । द्विविधा हि चाराः-संस्थाः, संचारकाश्च । वृद्धा महान्तः, स्थविराश्च । अनुरूप इत्यादिनेदमिदं तन्नास्तीति वक्रोक्त्या सातिशयं मालती वैदग्ध्येनाह । प्रक्रम आरम्भः । निपुणोपलेपो बुद्धिमत्प्रक्रमः । धूर्तालापः प्रतारणावचनम् । याग्नि इति । भव्येयेवेत्यर्थात् । बातचीत में दिन चढ़ गया । तब सावित्री उधर शोण में स्नान करने उतरी । इधर मौका पाकर मालती परिजनों को वहाँ से अलग करके फूल के बिस्तर पर लेटी हुई सरस्वती के पास आकर बोली-'देवि, एकान्त में कुछ मुझे आपको सूचित करना है, इसलिए चाहती हूँ कि क्षणभर आप प्रसन्नता से ध्यान देकर सुनें ।' दधीच के संदेश की आशंका से 'न मालूम क्या कहेगी' सरस्वती यह सोचने लगी । छाती पर रखे हुए उसके बायें हाथ के नख की किरणें ऐसी लग रही थीं मानों कुतूहल का अंकुर हृदय से निकल रहा हो । वह ऐसे हृदय को दुकूल वल्कल के अँचरे के खूँट से ढँक रही थी । कान में लगा हुआ पल्लव गिरने लगा, मानों उसका कान ही सुनने के कुतूहल से दौड़ पड़ा हो । निरन्तर साँस के झूले पर बैठी हुई जीविताशा को समीप के तरुण वृक्ष पर मानों अवलम्बित करने के लिए सहारा ले रही थी । खिलखिलाए हुए मुखचन्द्र के लावण्य की धारा से श्रृंगार रस के रूप में प्रवाहित करके मानों समस्त जीवलोक को भरने लगी । शय्या के फूल के रस पीने में लगे हुए, मदनाग्नि से जले उसके मनोरथ के रूप में श्यामवर्ण वाले भौरों ने उसे झटका दिया और कामज्वर से पीड़ित वह अपने

[५८] हर्षचरितम्

पुष्पशयन से धीरे धीरे उठो। 'धीरे बोल' यह कहती हुई सरस्वती अपने कपोल पर प्रतिबिम्बित मालती को लज्जा से मानों अपने कानों में पहुँचाती हुई मधुर आवाज से धीरतापूर्वक बोली—'सखी मालती, कैसी बात कर रही है ? मैं क्या अवधान देकर सुनूँ ? शरीर और प्राण पर भी मेरा वश नहीं। प्रार्थना के बिना ही प्रियजन का प्रभुत्व सब पर व्याप्त हो रहा है। तू तो मेरी सब कुछ है, बहन तू, सखी तू, प्रणयिनी तू, और प्राणसमा भी तू। छोटे-बड़े किसी योग्य काम के लिए इस शरीर को नियुक्त कर। मेरा हृदय तेरे प्रति निर्मल और बात पर अटल रहने वाला है। तू प्रेम से मुझे अनुकूल और अपने वश में कर ले। री मालती, कह, क्या कहना चाहती है ?' वह बोली— 'देवि, तू जानती ही है कि विषय मधुर लगते हैं, इन्द्रियाँ लोलुप होती हैं, नई जवानी मतवाली होती है, मन चञ्चल रहता है। काम को रोकना कठिन है यह बात प्रसिद्ध ही है। तो मुझे तू उपालम्भ न देना। मेरी इस वाचालता का कारण मूर्खता, चपलता या धूर्तता नहीं है। स्वामी की भक्ति क्या नहीं कराती ? जब से तुम्हें उन्होंने देखा है तभी से कामदेव उनका आचार्य बन बैठा है, चन्द्रमा उनके प्राणों का अधिपति हो गया, मलयामिल उनके उच्छ्वास का कारण बन गया, मन की व्यथाएँ अन्तरंग बन गईं, सन्ताप परममित्र बन गया, जागरण आत्मीय हो गया, मनोरथ अव्यवस्थित हो गए, निश्वास विरह के आगे चलने लगे, मृत्यु पार्श्वचर हो गई, मानसिक दुःख ही सचारक बने, संकल्प ही बुद्धि के उपदेशक वृद्ध बने। और क्या कहूँ ? अगर कहती हूँ 'देव दधीच सुयोग्य हैं, तो अपने सम्मान की बात होती है; 'वे सुशील हैं' तो बात प्रसंग के विरुद्ध होती है; 'धीर हैं' यह बात मदनावस्था से विपरीत है, 'सुभग हैं' यह तो तुम कह सकती हो; 'उनकी प्रीति स्थिर है' यह चतुरता की बात होती है; 'सेवा करना वे जानते हैं' यह कहना स्वामी के लिए उचित नहीं; 'मरने तक तुम्हारी दासता चाहते हैं' यह प्रलोभन हुआ; 'धन्यभाग नारी ही ऐसे पति को प्राप्त करती है' यह स्वामी के प्रति मेरा पक्षपात करना है; 'तू उसकी मृत्यु है' यह बात अप्रिय होती है; 'तू गुणों को नहीं समझती' यह निन्दा की बात होती है; 'स्वप्न में भी तुमने इस पर बहुत बार प्रसन्नता की' इस बात में कोई साक्षी नहीं; 'अपने प्राणों की भीख माँगता है' यह कातरता है; 'वहाँ जाओ' यह आज्ञा होती है; 'रोकने पर भी हठपूर्वक आता है' यह अनादर की बात है। इस प्रकार तुमसे मैं कुछ नहीं कह पातीं। बस मुझे यही कहना है।' यह कहकर मालती चुप हो गई। अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत्—'अयि, न शक्नोमि बहु भाषितुम् । एषास्मि ते स्मितवादिनि वचसि स्थिता । गृह्य- न्ताममी प्राणाः' इति। मालती तु 'देवि, यदाज्ञापयसि, अतिप्रसादाय' इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम्।

प्रथम उच्छ्वासः ५१ अगाव दधीचमानेतुं च्यवनाश्रमपदम् । इतरा तु सखीस्नेहेन सावित्री- मपि विदितवृत्तान्तामकरोत् । उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथंकथमपि दिवसशेषमनैषीत् , अस्तमुपगते च भगवति गभस्तिमति, स्तिमिततरमवतरति तमसि, प्रहसितामिव सितां दिशं पौरंदरीं दरीमिव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनां- शुकसुकुमारतरे तरङ्गिणि दुगूलकोमलशयने इव शोणसैकते समुपविष्टा स्वप्रकृतप्रार्थना पादपतनलभ्रां दधीचचरणनखचन्द्रिकामिव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बितेन 'चारुहासिनि, अयमसावाहूतो हृदयदयितो जनः' इति श्रवणसमीपवर्तिना निवेद्यमानमदनसंदेशेनेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन बालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम् , 'अत्र दधीचादृते न केनचित्प्र- वेष्टव्यम्' इति तिरश्चीनं चित्तभुवा पातितां विलासवेत्रलतामिव बाल- मृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ती प्रतिपालया- मास । आसीच्चास्या मनसि- 'अहमपि नाम सरस्वती यत्रामुना मनो- जन्मना जानत्येव परवशीकृता । तत्र का गणनेतरासु तपस्विनीष्वति- तरलासु तरुणीषु' इति । प्रजविनेति साभिप्रायम् । अस्तमित्यादौ सरस्वती प्रतिपालयामासेति संबन्धः । गभस्तिमान्रविः । पौरंदर्यैन्द्री । दरी गुहा । चीनेत्यादि सैकतविशेषणम् । उपमा- नस्य तु दुगूलकोमल इत्युक्तम् । तरङ्गिणी प्रतिदिनं क्षीयमाणेन वारिणा कृतलेखे भङ्गियुक्ते च । चन्द्रिका कान्तिरत्र । ललाटालंकारो ललाटिका । चक्रवालं समूहः । बालव्यजनं चामरम् । स्तनमध्ये प्रवेशाभावात्तिरश्चीनमित्युक्तम् । यश्च वेत्री प्रवेश- निषेधननिमित्तं वेत्रलतां पातयति स तिरश्चीनः । स्तनयोरधिस्तनम् । विभक्त्य- र्थेऽव्ययीभावः । कुचपृष्ठ इत्यर्थः । स्तनयन्ती कलयन्ती । स्तनिः शब्दार्थश्चौरा- दिकः । 'स्तनन्ती' इति वा पाठः । तपस्विनीषु वराकीषु । तब सरस्वती उसे प्रसन्नता से घूर कर देखती हुई बोली- 'सखी मालती, मैं बहुत बात नहीं कर सकती । मैं तेरी बात मान जाती हूं। मेरे प्राणों को तू ग्रहण कर ।' मालती ने कहा-'देवि, आपकी प्रसन्नता के लिए आज्ञा शिरोधार्य्य है ।' मालती यह कह और अपने तेज घोड़े पर चढ़ सोन के उस पार चली गई और दधीच को लाने के लिए च्यवनाश्रम पहुँची । सरस्वती ने इस वृत्तान्त को सखी के स्नेह से सावित्री को भी सुना दिया । चित्त में उत्सुकता का बोझ लिए किसी-किसी प्रकार खिन्न होकर दिन को व्यतीत किया ।

६० हर्षचरितम् जब भगवान् सूर्य अस्त हो गए, धीरे धीरे अन्धकार भी उतरने लगा और चन्द्रमा जैसे सिंह गुफा से निकलता है वैसे ही हँसती हुई उज्ज्वल पूर्व दिशा को छोड़ने लगा, तब सरस्वती पवित्र चीनांशुक के समान कोमल, और तरंगों के चिन्ह वाली मानों चादर से युक्त कोमल शय्या के सदृश सोन की रेत पर आकर बैठी और प्रतीक्षा करने लगी। वह ललाट का आभूषण धारण कर रही थी, मानों वह स्वप्न में प्रार्थना करने के लिए पैरों पर गिरने से दधीच के नखों की ज्योत्स्ना हो। उसके गालों के आइने में चन्द्रमा प्रतिबिम्बित हो रहा था, मानों वह उसके कान के पास आकर काम का यह संदेश उसे सुना रहा था कि 'हे चारुहासिनी, देख, मैंने तेरे हृदय दयित दधीच को तेरे पास पहुंचा दिया।' हाथ के नखों की किरणें चारों ओर फैल रही थीं, मानों उसने चन्द्र की कलाओं को ही चंवर बना दिया हो, ऐसे हाथ को वह पसीने से तर अपने गालों पर झल रही थी वह अपने स्तनों पर किसी प्रकार बाल मृणालिकाओं को धारण किए थी। 'यहाँ दधीच के अतिरिक्त कोई दूसरा प्रवेश न करे' इसलिए काम ने मानों अपनी वेत्रलता वहाँ छोड़ दी थी। उसने मन में सोचा-'सरस्वती होकर भी मैं जब इस काम द्वारा सब कुछ समझते हुए भी परवश कर दी गई, तो उन बेचारी अतिचपल स्वभाव वाली तरुण नारियों की क्या गणना ?' आजगाम च मधुमास इव सुरभिगन्धवाहः, हंस इव कृतमृणाल- धृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानल इवाहितसरसचन्दनधव- लतनुलतोत्कम्पः, कृष्यमाण इव कृतकचकचग्रहेण ग्रहपतिना, प्रेर्यमाण इव कंदर्पोद्दीपन्ददक्षेण दक्षिणानिलेन, उह्यमान इवोत्कलिकाबहुलेन रति- रसेन, परिमलसंपातिना मधुपपटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मन्मदनकरिकर्णशङ्खायमानेन प्रतिमेन्दुना प्रथमसमागम- विलासविलक्षस्मितेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः। आगत्य च हृदयगतदयितानूपुररवविमिश्रयेव हंसगद्गदया गिरा कृतसंभाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनमुपदिशति, यथा विदग्धताध्यापयति, यथानुरागः शिक्षयति, तथा तामभिरामां राममूर- मयत्। उपजातविश्रम्भा चात्मानमकथयदस्य सरस्वती। तेन तु सार्ध- मेकदिवसमिव संवत्सरमधिकमनयत्। आजगामेत्यादौ आजगामेति सम्बन्धः। सुरभिगन्धवाहो वातः सुरभिगन्धं च यो वहति। धृतिर्धारणम्, प्राणयात्रा च। घनः। सरसं सान्द्रं यच्चन्दनं तेन धवलया तनुलतयाहितश्च उत्कम्पः कामधर्म्मो यस्य। अन्यत्र-चन्दनांश्च धवांश्च

प्रथम उच्छ्वासः ६१ म्लान्ति श्रयन्ति यास्तमभ्यो लतास्तासामाहित उत्कम्पः कम्पनं येनेति । क्षुभ्यमाण इत्युद्दीपनकारणत्वात् । करा रश्मयः, हस्तश्च करः । हस्तस्य कर्षणं समुचितम् । ग्रहपतिश्चन्द्रः । प्रेर्यमाण इति । अनिलस्योचितमेतत्कर्म । उह्यमान इति । जलस्यो- चितमेतत् । उत्कलिका रहुरुहिका, ऊर्मयश्च । रसोऽभिलाषः, जलं च । परिमल आमोदः । पटलं समूहः । प्रतिमा प्रतिच्छन्दकम् । यथा मन्मथ इति । मन्मथस्य प्रभवनशीलत्वेनाज्ञादानमुचितम् । एवं सर्वत्रोपदिशतीति । इत्थमित्थं वर्तस्वेत्यु- पदेशः । देवताविषयं सम्भोगशृङ्गारवर्णनममुचितमिति न तत्र विस्तरः प्रवर्तते । कुमारीत्वे च गान्धर्वविवाहो विस्तरेण न तथा वर्णितः शापनिर्वाहणमात्रपरत्वा- दिति । वृत्तस्यान्यथा निजभर्तृत्यागो दोषावहः किमर्थं कृत इत्यादिकाः कुविकल्पा उत्पद्येरन्निति । तब वसन्त के समान सुगन्धि से भरे हुए, हंस के समान मृणाल धारण किए हुए, मयूर के समान घन ( दृढ़ या मेघ में ) प्रीति करने वाले, मलयानल के समान सरस चन्दन के लेप से उज्ज्वल काँपते हुए शरीर वाले दधीच मालती के साथ आए। मानों चन्द्र उन्हें किरण रूपी हाथों से बाल पकड़ कर खींच लाया हो। काम को उद्दीत करने वाले दक्षिणानिल ने मानों उन्हें प्रेरित किया हो । अभिलाषाओं की तरंगों से भरा रतिरस मानों उन्हें ढो लाया हो । सुगन्ध पर लुझते हुए भौंरे उन पर छा रहे थे, मानों उनके अङ्ग नीले वस्त्र से ढँक रहे हों। उनके एक कपोल के भीतर चन्द्र प्रतिबिम्बित होकर चमक रहा था, मानों मतवाले मदन रूपी हाथी के कान का वह शङ्ख हो। या प्रथम मिलन के विलास स्वरूप स्मित से उनके कपोल के मध्यभाग की कान्ति और भी निखर गई थी। आकर उन्होंने हृदय में पहुंची हुई प्रिया के नूपुर की आवाज से मिली हुई हंस के समान गद्गद वाणी से बातचीत की। काम जो आज्ञा देता, यौवन जो उपदेश देता, अनुराग जो शिक्षा देता, विदग्धता जो समझाती, उसी प्रकार अपनी प्रियतमा के साथ वे बिहार करने लगे। जब पूरा विश्वास हो गया तब सरस्वती ने अपने आपको उनसे स्पष्ट कह दिया (कि मैं दुर्वासा के शाप से ग्रस्त होकर मर्त्यलोक में आई हुई सरस्वती हूं)। दधीच ने सरस्वती के साथ-साथ रह कर एक वर्ष से अधिक समय को एक दिन के समान व्यतीत किया । अथ दैवयोगात्सरस्वती बभार गर्भम् । असूत चानेहसा सर्वलक्षणा- भिरामं तनयम् । तस्मै च जातमात्रायैव 'सम्यक्सरहस्याः सर्वे वेदाः सर्वाणि च शास्त्राणि सकलाश्च कला मत्प्रभावात्स्वयमाविर्भविष्यन्ति' इति वरमदात् । सद्भर्तृश्लाघया दर्शयितुमिव हृदयेनादाय दधीचं पिता- महादेशात्समं सावित्र्या पुनरपि ब्रह्मलोकमारुरोह । गतायां च तस्यां

६२ हर्षचरितम् दधीचोऽपि हृदये ह्रादिन्येवाभिहतो भार्गववंशसंभूतस्य भ्रातुर्ब्राह्मणस्य जायामक्षमालाभिधानां मुनिकन्यकामात्मसूनोः संवर्धनाय नियुज्य विर- हातुरस्तपसे वनमगात् । यस्मिन्नेवावसरे सरस्वत्यसूत तनयं तस्मिन्ने- वाक्षमालापि सुतं प्रसूतवती । तौ तु सा निर्विशेषं सामान्यस्तन्यादिना शनैः शनैः शिशू समवर्धयत् । एकस्तयोः सारस्वताख्य एवाभवत् , अपरोऽपि वत्सनामासीत् । आसीच्च तयोः सोदर्ययोरिव स्पृहणीया प्रीतिः । अनेहसा कालेन । रहस्यं ज्ञानभागः । ह्रादिनी वज्रम् । तत्पश्चात् दैवयोग से सरस्वती ने गर्भ धारण किया और समय से सब लक्षणों वाले सुन्दर पुत्र को उत्पन्न किया । जन्म लेते ही सरस्वती ने उसे वर दिया—'मेरे प्रभाव से इसमें सम्यक् प्रकार से रहस्यों के साथ वेद, समस्त शास्त्र, समस्त कलाएँ स्वयं आविर्भूत हों ।' उत्तम पति के गौरव से दिखाने के लिए हृदय में दधीच को रख कर ब्रह्मा जी के आदेश के अनुसार फिर सरस्वती सावित्री के साथ ब्रह्मलोक को चली गई । उसके चले जाने से दधीच के हृदय पर गहरा वज्रपात-सा हुआ । तब दधीच ने अपने पुत्र को पालने-पोसने के लिए भार्गववंश में उत्पन्न किसी ब्राह्मण भाई की पत्नी अक्षमाला नामक मुनिकन्या के पास रख दिया और स्वयं सरस्वती के विरह में आतुर होकर तपस्या करने के लिये वन में चले गए । जब सरस्वती ने पुत्र पैदा किया था तभी अक्षमाला को भी एक पुत्र हुआ था । उन दोनों को एक भाव से दूध पिलाकर उसने पाला पौसा और बढ़ाया । उनमें से एक का नाम सारस्वत रखा गया और दूसरे का नाम वत्स । दोनों में भाई के समान प्रेम भाव स्पृहणीय रहा । अथ सारस्वतो मातुर्महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्यासंभा- रस्तस्मिन्सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्त- मेव संचारयामास । चकार च कृतदारपरिग्रहस्यास्य तस्मिन्नेव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासम् । आत्मनाप्याषाढी, कृष्णाजिनी, अक्ष- वलयी, वल्कली, मेखली, जटी च भूत्वा तपस्यतो जनयितुरेव जगा- मान्तिकम् । वाक्प्रस्तुता यत्र तद्वाङ्मयम् । 'आषाढसंज्ञो दण्डः स्यात्पालाशो व्रतचारिणाम् । वृक्षत्वङ्निर्मितं वस्त्रं वल्कलं समुदाहृतम् ॥' मेखला मुञ्जतृणादिरचितं कटिसूत्रम् । जटा रूक्षसंहतकेशाः । माता के प्रभाव से सारस्वत में यौवन के आरम्भ होते ही सारी विद्याएँ प्रकट हो गईं तो उसने प्राण के समान प्रिय अपने समवयस्क भाई और मित्र वत्स में भी समस्त

बान्धव को उड़ेल दिया और वत्स का विवाह करा उसी प्रदेश में प्रीतिकूट नाम का निवास बनवाया। और खुद वह पलाश का डंडा, कृष्ण मृगचर्म, अक्षवलय, वल्कल, मेखला और जटा धारण करके तपस्या में लगे हुए पिता दधीच के पास चला गया।

अथ वत्सात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिनिर्गतप्रघोषः, पर- मेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः, विपक्षक्षोभ- क्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विमलो वंशः । यस्मादजायन्त वात्स्यायना नाम गृहमुनयः, आश्रितश्रौता अप्यनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबेडा- लवृत्तयः, विवर्जितजनपङ्कयः, परिहृतकपटकोरुकुचीकूर्चाकूताः, अगृहीत- गह्बराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विहतविकृतयः, परपरीवाद- पराचीनचेतोवृत्तयः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरधिषणाः, विधूता- ध्येष्णाः, असङ्कुसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तर- संशीतयः, उद्घाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, परसुभाषितव्यसनिनः, विदग्धपरिहासवेदिनः, परिचयपेशलाः, नृत्यगी- तवादितेष्वबाह्याः, ऐतिहास्यावितृष्णाः, सानुक्रोशाः, सर्वातिथयः, सर्व- साधुसंमताः, सर्वसत्त्वसाधारणसौहार्दद्रवार्द्रीकृतहृदयाः, तथा सर्वगुणो- पेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्या- धराः, अजडाः कलावन्तः, अदोषास्तारकाः, अपरोपतापिानो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलु- प्तक्रतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः ।

अथेत्यादौ । वत्सात्प्रावर्तत विमलो वंश इति संबन्धः । प्रवर्धमानाः संताना- दिना वृद्धिं गच्छन्तो य आदिपुरुषाः पूर्वबान्धवाः शुक्राद्यास्तैः कृताः स्वेषां चरणानां कठादिशाखाध्यायिनामुन्नतिरुत्कर्षो यस्य सः । अन्यत्र-प्रवर्धमानस्तु वामनरूपो य आदिपुरुषो हरिस्तेन जनिता स्वपदोन्नतिर्माहात्म्यं यस्य स इति । किल त्रैलो- क्याक्रान्तिक्राले ब्रह्मलोकप्राप्ताद्विष्णुपदाद्ब्रह्मणा कमण्डलुजलक्षालिता गङ्गा सम- भवदिति वार्ता। प्रघोषो यशः, शब्दश्च । परमेश्वरो राजा, हरश्च । सकलानां कलानां वृत्ताद्यानामागमस्तेन सहकलकलेन च सकलकलं यदागमनं तेन च । महामुनिर्ज- ह्नुरपि । विपक्षाः शत्रवः, शैलाश्च । वीनां पक्षिणां वा पक्षच्छेदेषु सहिष्णुः । आयतिः प्रतापः, विस्तारश्च । स्खलितं स्वाचारच्युतिः । प्रवृत्तः प्रकृष्टवृत्तः । अस्खलितं असंग्रहं कृत्वा गतम्र । श्रौतं वेदभवम्, चिरवृत्तं च । 'भिन्नो भयाद्द्वा शोकाद्वा

६४ हर्षचरितम् ध्वनिः काकुरुदाहृता' । अत्र च क्षुद्र लक्ष्यते । बकस्य काकुः । बकच्छद्मा यैश्च चिरवृत्तमाश्रितं ते क्षुद्रचारित्वादाम्रितबककाकवो भवन्त्येव । अमी तु न तथेति विरोधः । कुक्कुटव्रतं नियमविशेषः । यत्र कुक्कुटाण्डप्रमाणग्रासभोजनम् । न बैडालो हिंसावृत्तिर्येषां तैः, विरोधे तु कुक्कुटानां व्रतं भक्षणं येन कृतं स कथं बिडालवृत्तिर्न स्यात् ? पङ्क्तिर्लोकप्रसिद्धो व्यवहारः, पाको वा । कपटो व्याजवृत्तिः । कूर्चाः स्फुटाः । आत्ममहिम्ना व्यवहारः, समूह इत्यन्ये । एतेष्वाकूतं परिहृतं यैः । गहरं पापम् । निकृतिः शाठ्यम् । प्रकृतिः स्वभावः । पराचीनं पराङ्मुखम् । अन्धोऽञ्झम् । धीरा स्थिरा । धिषणा बुद्धिः । अध्येषणा याच्ञा । असङ्गसुकः स्थिरः, मृदुर्वा । शाखाः कठाद्याः । संशीतिः संशयः । ग्रन्थिर्दुर्बोधः प्रदेशः । परिहासं विदन्ति, न तु स्वयं कुर्वन्ति । परिचयः संस्तवः । सुकुमाराः, अङ्गन्द्भूटा इत्यर्थः । अबााद्याः, न तु तदेकनिष्ठाः । ऐतिह्यमागमः । अनुक्रोशो दया । संमता इष्टाः । सौहार्दं प्रीतिः । सर्वे गुणा धैर्याद्याः । राज्ञां सेनया चानभिभूता ये च सर्वैर्गुणैः सत्त्वरजस्तमोभिर्यु- क्तास्ते कथं राजसेन गुणेनानभिभूता भवन्तीति विरोधः । एवमुत्तरत्र विरोध उद्भा- वनीयः । क्षमा क्षान्तिः, भूश्च । आश्रितानां नन्दना नन्दयितारः, देवोद्यानं नन्दनं च । न निस्त्रिंशा अक्रूराः । विद्यां धारयन्तीति विद्याधराः पण्डिताः, निस्त्रिंशाश्च खड्गा एव । ये च विद्याधरा देवभूतास्ते सखङ्गा एव । न त्वनिस्त्रिंशा इति माला- खड्गगुलिकाञ्जनादिना भेदेन भिन्नानामपि विद्याधराणां खड्गहस्तत्वं न व्यभिच- रति । अजडा अमन्दधियः, अशीताश्च । कलावन्तो गीताभिज्ञाः, कलावांश्चन्द्रः स चाजडोऽशीत इति विरोधः । दोषा द्वेषाद्याः, रात्रिश्च । तारयन्तीति तारका आचार्याः, नक्षत्राणि च । उपतापः पीडा, उष्णत्वं च । भास्वन्तस्तेजस्विनः, आदि- त्याश्च । ते परांस्तापयन्ति । ऊष्मा स्मयः, दाहिकाशक्तिश्च । हुताशशब्देन हुतमिष्ट- मुच्यते । हुतं भुञ्जते हुतभुजः, आहिताग्नयो वह्नयश्च । कुसृतिः शाठ्यम्, कौ भूमौ सृतिः सरणम् । भोगिनः सुखिनः, सर्पाश्च । स्तम्भः स्तब्धता, सात्त्विको भावभे- दश्च, अप्रणतिर्वा, गृहधारणकाष्ठं च । पुण्यालयाः सुकृतिनः, मठादिस्थानानि च । दक्षाश्वतुराः, प्रजापतिभेदश्च दक्षः । स च लुप्तक्रतुक्रियो हररोषजेन वीरभद्रेण । व्यालाः शठाः, सर्पाश्च । कामजितः संतुष्टाः, हरश्च कामजित् । असाधारणाः सर्वो- त्कृष्टाः । द्विजातयो विप्राः । येषां च द्वे जाती तेषां कथं नासादृश्यम् । वत्स से विमल वंश का प्रादुर्भाव हुआ । वैदिक शाखाओं का अध्ययन करने वाले सर्वत्र फैले हुए अपने पूर्वपुरुषों से वह वंश उत्कृष्ट था । सम्राट् उसका सम्मान करते थे । महामुनियों का भी बह मान्य था । विरोधियों को क्षुब्ध करने में वह समर्थ था । सारी पृथिवी में वह फैल गया था । उसके कार्यों में कोई स्खलन नहीं था । इस प्रकार वह गंगा के प्रवाह के समान था । उस वंश में वात्स्यायन नामक गृह मुनि अर्थात् गृहस्थ होते हुए

प्रथम उच्छ्वासः ६५ भी मुनिवृत्ति रखने वाले असाधारण ब्राह्मण उत्पन्न हुए। श्रौत आचारों का उन्होंने आश्रय लिया था। झूठ और छल-छद्म को पास न आने देते थे। कुक्कुट के अंडे की मात्रा के अनुसार भोजन करते थे। उनमें बैडाली वृत्ति (अर्थात् हिंसा की भावना) न थी। उन्होंने समाज के व्यवहार या पंक्ति भोजन को छोड़ रखा था। कपट, कुटिलता और शेखी बघारने की आदत उनमें न थी। पापों से वे बचते थे। शठता को दूर करके अपने स्वभाव को प्रसन्न रखते थे। उनमें किसी तरह का विकार न था। दूसरे की निन्दा करने में उनकी चित्तवृत्ति पराङ्मुख रहती थी। ब्राह्मण, क्षत्रिय, वैश्य इन तीनों वर्णों से अलग स्वयंपाकी होकर विशुद्ध भोजन करते थे। उनमें धीरता थी, अतः किसी से याचना नहीं करते थे। स्वभाव के मृदु और प्रणयिजनों में अनुकूल थे। अपने दर्शन के अतिरिक्त अन्य दर्शनों में भी जो शंकाएँ उठाई जाती थीं उनका समाधान भी वे करते थे। समस्त ग्रन्थों में जो अर्थ की ग्रन्थियाँ थीं उनको उद्घाटित करते थे। वे कवि, वाग्मी, सरस भाषण में प्रीति रखने वाले, विदग्धों के अनुरूप हास-परिहास में चतुर, मिलने-जुलने में कुशल, नृत्य गीत-वादित्र को अपने जीवन में स्थान देने वाले, इतिहास में अतुल रुचि रखने वाले, दयावान्, सत्य से निखरे हुए, साधुओं को इष्ट, सब तत्त्वों के प्रति सौहार्द और करुणा से द्रवित, रजोगुण से अस्पृष्ट, क्षमावन्त, कलाओं में विज्ञ, दक्ष एवं अन्य सब गुणों से युक्त थे। तेषु चैवमुत्पद्यमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपर- म्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे। तस्याभवन्नच्युत ईशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्राह्मतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्डा इव सञ्चक्रनन्दकास्तनयाः। तत्र पाशुपतस्यैक एवा- भवद्भूभार इवाचलकुलस्थितिः स्थिरश्चतुरुदधिगम्भीरोऽर्थपतिरिति नाम्ना समग्राग्रजन्मचक्रचूडामणिर्महात्मा सूनुः। सोऽजनयद्भृगुं हंसं शुचिं कविं महीदत्तं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं चेत्येका- दश रुद्रानिब सोमामृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान्। अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम्। स बाल एव बलवतो विधेर्वशादुपसंपन्नया व्ययुज्यत जनन्या। जातस्ने- हस्तु नितरां पितैवास्य मातृतामकरोत्। अवर्धत च तेनाधिकतरमाद्रीय- मानधृतिर्वाभिर् निजे। ५ ह० च०

६६ हर्षचरितम् काल इति पूर्वोक्ते। अन्यथैतत्पुनरुक्तं स्यात्। पक्षपातो अक्षिर्यस्यास्ति सः, पक्षैश्च यो याति सः। द्विजो विप्रः, विधुः, पक्षी च। युगारम्भा अपि चत्वारः। अङ्गा वेदादि, जटा च मङ्गा। सचक्रस्य साधुवृन्दस्य नन्दकास्तोषयितारः। चक्रं सुदर्शनं च। नन्दकः खङ्गश्च। बाहवोऽपि चत्वारः। अचलकुलस्थितिरभिन्नवर्षम- र्यादः। अचलानां गिरीणां कुलैर्वृन्दैः स्थितिर्यस्य। चतुरुदधिवत्सैश्च गम्भीरः। अग्र- जन्मानो द्विजाः। सोमस्तृणभेदः, इन्दुश्च। उपसंपन्ना मृता। निजे धाम्नि स्वे गृहे। इस प्रकार उस वंश में ब्राह्मण उत्पन्न होने गए, संसार-चक्र सरकता गया, युग बीते, कलिकाल आया, साल के साल गुजरे, दिन बीते, समय बहुत चला गया। वात्स्यायन कुल निरन्तर विकसित होता गया। इसी क्रम में गुरु में पक्षपात करने वाले कुबेर नामक ब्राह्मण गरुड़ के समान हुए। उनके चार पुत्र हुए—अच्युत, ईशान, हर और पाशुपत, जो चार युगारम्भ के समान थे, जिनके ब्राह्म तेज से सन्तति चारों ओर फैल रही थी, जो साधु वृन्द को सन्तुष्ट करते थे। उनमें पाशुपत के एक ही अर्थपति नामक पुत्र हुए जो कुल-मर्यादा को अचल रखने वाले, स्थिर, समुद्र की भाँति गम्भीर, समस्त ब्राह्मणों के चूड़ामणि एवं महात्मा थे। अर्थपति ने रुद्रों के समान ग्यारह पुत्र उत्पन्न किए—भृगु, हंस, शुचि, कवि, महीदत्त, धर्म, जातवेदस् , चित्रभानु, त्र्यक्ष, महिदत्त और विश्वरूप। जो सोमरस के शीकर से सिक्त मुख वाले और पवित्र थे। उनमें से चित्रभानु ने राजदेवी नामक ब्राह्मणी में बाण नामक पुत्र को पाया। दैवयोग से बाण बाल्यकाल में ही माता के मर जाने से मातृहीन हो गया। पिता ने ही स्नेहपूर्वक बड़े यत्न से उसे पाल-पोसकर बड़ा किया। वह अपने ही घर पर धीरतापूर्वक रहता हुआ बढ़ा। कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चास्य चतुर्दशवर्षदेशी- यस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगमत्। संस्थिते च पितरि महता शोकेनामी- लमनुप्राप्तो दिवानिशं दह्यमानहृदयः कथंकथमपि कतिपयान्दिवसाना- त्मगृह एवानैषीत्। गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातन्त्र्यस्य, कुतूहलबहुलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्यनेकानि चापलान्याचरन्नितरो बभूव। अभवंश्चास्य सवयसः समानाः सुहृदः सहायाश्च। तथा च। भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकविरीशानः परं मित्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसौ वारबाणवासबाणौ, वर्णकविर्वेणीभारतः प्राकृतकृ- त्कुलपुत्रो वायुविकारः, बन्दिनावनङ्गबाणसूचीबाणौ, कात्यायनिका चक्र-

वाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश्चण्डकः, भिषक्पुत्रो मन्दा- रकः, पुस्तकवाचकः सुदृष्टिः, कलादश्चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पुस्तककृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकर- पारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरलिका, लासकयुवा ताण्डविकः, आक्षिक आखण्डलः, कितवो भीमकः, शैलालियुवा शिख- ण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादविद्विहंगमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चको- राक्षः, मस्करी ताम्रचूडकः । स एभिरन्यैश्चानुगम्यमानो बालतया निम्न- तामुपेगतो देशान्तरावलोकनकौतुकाक्षिप्तहृदयः सत्स्वपि पितृपितामहो- पात्तेषु ब्राह्मणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान्नि- रगात् । अगाच्च निरवग्रहो ग्रहवानिव नवयौवनेन स्वैरेणा मनसा महता- मुपहास्यताम् ।

उपनयनं मेखलादानम् । समावृत्तो निष्पादितवृत्तः । स्नातक इत्यर्थः । वेदवे- दाङ्गपाठक इत्यन्ये । ईषदसमाप्तश्चतुर्दशवर्षश्चतुर्दशवर्षदेशीयः । 'श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः' । दशामुपेतॊ दशमीस्थ उदाहृतः, न दशमीस्थः । अपूर्णायुरित्यर्थः । संस्थितो मृतः । आभीलं कष्टम् । इत्वरो गमनशीलः । 'अभ्रंवंश्च' इत्यादिनात्मनस्तथाभूतकलावित्संपर्कमैश्वर्यातिशयं दर्शयति । पारशवो द्विजः शूद्रायां जातः । 'परञ्च परश्चम' इति विडाद्यम् परश्चादेशश्च । भाषागेयवस्तु- वाचस्तेषु वर्णकविः । गाथादिषु गीतिद् इत्यर्थः । अपभ्रष्टगीतविदः । 'पञ्चाश- द्वर्षदेशीयां वीरां संस्थितभर्तृकाम् । वदन्ति कात्यायनिकां धृतकाषायवाससम्' ॥ जाङ्गुलिको गारुडिकः । भिषग्वैद्यः । 'स्वर्णकारः कलादः स्यात्तद्दण्ड्यवस्तु हैरिकः' । पुस्तककृल्लेप्यकारः । 'प्रसाधनोपचारज्ञा सैरन्ध्री स्ववशा स्मृता' । संवाहिका या पादादिमर्दनं विधत्ते । लासको नर्तयति यः । युवेत्यादिना वयसः समानत्वमुच्यते । अक्षैर्दीव्यतीत्याक्षिको द्यूतकारः । कितवो धूर्तः । शैलाली स्वयं यो नृत्यति नटः । पाराशरी भिक्षुः । असुरविवरव्यसनी पातालाभिलाषी । धातुवादविद्रसवादज्ञः । मस्करी परिव्राट् । निम्नतामस्वातन्त्र्यम् । कौतुकेति । न पुनरर्थाभिलिप्सया । एत- देव सत्स्वपीत्यादिना प्रकाशयति । निरवग्रहः स्वतन्त्रः । ग्रहवाम्भूतगृहीतः । स्वैरेणा स्वतन्त्रेण ।