कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
१०
प्रस्तावना
'यथैव व्योम्नि वह्निपिण्डोपमं त्वामहमपश्यं तथैवाद्यागतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं शेषमुपलक्षयामीत्युक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्य एकान्ते न्यस्तम्।' (विष्णु० ४।१३।१४)।
शिलालेखेषूपलब्धं गद्यमपि नितान्तप्रौढमालङ्कारिकं हृदयावर्जकञ्च दृश्यते—
'प्रमाणमानोन्मान-स्वरगतिवर्ण-सारसत्त्वादिभिः परमलक्षणव्यञ्जनैरुपेतकान्तमूर्त्तिना स्वयमधिगत-महाक्षत्रपनाम्ना नरेन्द्रकन्यास्वयंवरानैकमाल्यप्राप्तदाम्ना महाक्षत्रपेण रुद्रदाम्ना सेतुं सुदर्शनतरं कारितम्।' (रुद्रदाम्नो गिरनारलेख, १५० ईस्वी)
दार्शनिकेषु मध्ये शास्त्रीयं गद्यं विशुद्ध-साहित्यिकगद्यसममेव रसपेशलं तथा सुन्दरतमं विद्यते । स्वविशिष्टां शैलीमनुसरन्तो हि पतञ्जलि-शङ्कराचार्य-जयन्तभट्टाः स्वस्वग्रन्थरचनां चक्रुः।
पतञ्जलिहिं स्वकीयमहाभाष्ये परिचितविषयेष्वप्यस्मिनवं वस्तुववश्यमेव प्रदर्शितवान् । एतद्गद्यस्य तावद् रामणीकमवलोकयन्तु :—
'ये पुनः कार्या भावा निवृत्तौ तावत् तेषां यत्नः क्रियते। तद्यथा—घटेन कार्यं करिष्यन्, कुम्भकारकुलं गत्वाऽऽह—'कुरु घटं कार्यमनेन करिष्यामि'। न तद्वच्छब्दान् प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाऽऽह—'कुरु शब्दान् प्रयोक्ष्य' इति । तावत्येवमर्थमुपादाय शब्दान् प्रयुञ्जते।' (महाभाष्यं पस्पशाह्निकम्)
एतद्धि वार्तालापभाषया तथा कथनोपकथनरीत्या निबद्धमाभाति, प्रतीयते च पतञ्जलेः सविधे तदानीं छात्रा उपविष्टाः सन्ति स खलु तान् स्वसिद्धान्तं प्रतिपादयतीति।
प्रौढमीमांसकः शवरस्वामीपि साधारणया शैल्या जैमिनीयसूत्रोपरि प्रसिद्धं स्वकीयभाष्यं लिलेख। तथाहि—
इच्छत्यात्मानमुपलभामहे। कथमिति ? उपलब्धपूर्वे ह्यभिप्रेते भवतीच्छा। यथा मेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि न तानि प्रत्यस्माकमिच्छा भवति।' (जै० सू० १।१।५)
तत्र भगवतः श्रीमच्छङ्कराचार्यस्य गद्यमुपमा चाद्भुतैव वर्त्तते। तद्वाक्यं हि सारगर्भितं प्रौढं तथा प्राञ्जलं विद्यते। अत एव तु षड्दर्शनटीकाकारो मैथिलकुलललामभूतः श्रीवाचस्पतिमिश्रः शाङ्करभाष्यव्याख्यानावसरे पूर्वं 'भाष्यं प्रसन्नगम्भीरम्' इत्यवोचद्। शाङ्करीयगद्ये हि वीणायाः सुमधुरझङ्कारः श्रवणगोचरीभवति । साहित्यिकमाधुर्यं प्रसादगुणेन च पेशलं गद्यं सुरभारत्याः सौन्दर्यम्। एतद्गद्यस्यैकैकं वाक्यमादाय विस्तृतग्रन्थानां निर्माणं कर्तुं शक्यते। एकं सारगर्भितं वाक्यमिहोपन्यस्यते—
'नहि पद्भ्यां पलायितुं पार्यमाणो जानुभ्यां रंहितुमर्हति।'
यो हि पादाभ्यां पलायितुं समर्थस्तदर्थं जङ्घाभ्यां क्लेशेन गमनं न शोभत इत्यर्थः। अपि चैतद्गद्यस्यासाधारणी सुषमा प्रदर्श्यते—
'सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यवस्यति, युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि। उच्यते-न तावदयमेकान्तेन विषयः, अस्मत्प्रत्ययविषयत्वात्। नचायमस्ति नियमः पुरोऽवस्थित एव विषये विषयान्तरमध्यवसितव्यमिति। अप्रत्यक्षेऽपि हि आकाशे बालास्तलमलिनताद्यध्यवस्यन्ति।' (१ ब्रह्मसूत्रशाङ्करभाष्यम्)
जयन्तभट्टो हि न्यायशास्त्रस्यातिप्रसिद्धः आचार्यः। एतद्विरचितन्यायदर्शनस्य 'न्यायमञ्जरी' नामको ग्रन्थः प्रामाणिको विद्यते। एतद्गद्यं त्वतिसुन्दरं सरसं प्राञ्जलञ्च। स्वभावतः कठिनेऽपि न्यायदर्शनेऽयं रोचकशैल्या नितान्तं हृदयङ्गमं गद्यं कृतवान् व्यङ्गोक्त्या पर्याप्तमेतद्गद्यम्। दिङ्मात्रमिह प्रदर्श्यते—
'आः क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि, ब्रह्मैव जीवात्मानो नहि ततोऽन्ये। नहि दहनपिण्डाद् भेदेनापि भान्तः स्फुलिङ्गा अग्निसुरूपा भवन्ति। तत् किं ब्रह्मण एवाविद्या ? न च ब्रह्मणोऽविद्या।'
प्रस्तावना ११
पालीगद्यम्
पाळी, पूर्वं वार्त्तालापस्य भाषासीत्। निजोपदेशस्य सर्वजनहृदयपर्यन्तं प्रवेशाय देववाणीं परित्य- ज्यैनां भाषामादायैव कृतवान् प्रयोगं भगवान् बुद्धः। स्वभावतः सरलं गद्यमेतद्भाषायां यथा—
'अतीते वाराणसियं ब्रह्मदत्ते रजं कारेन्ते बोधिसत्तो ससयोनियं निब्बत्तित्वा अरञ्ञे वसति। तस्स पन अरञ्ञस्स एकतो पब्बतपादो, एकतो नदी, एकतो पच्चन्तगामको। अपरे पिस्स तयो सहाया अहेसुं मक्कटो, सिगालो उद्दोति।
नितान्तप्रौढं गद्यमेतद्भाषायां यथा—
'बुद्धानं विब्जनं वधानेन सम्न्मागतानं सन्दस्सेन्तो नवङ्गजिन सासन-रतनं, उपदिशन्तो धम्म- मग्गं, धारेन्तो धम्म पजोतं, उस्सापेन्तो धम्मयूपं यजन्तो धम्मजागं, पग्गण्हन्तो धम्मद्धजं उस्सापेन्तो धम्मकेतुं धमेन्तो धम्मसंखं, आहनन्तो धम्मभेरि, नदन्तो सीहनादं साकलनगरं अनुप्यतो होति। (मिलिन्दे पन्हो पृ० २२ वाहिर कथा)।
गद्यस्याभ्युदयः
संस्कृते गद्यात्मककथानामभ्युदयो विक्रमसंवत्सराच्चतुःशतवर्षपूर्वमेव बभूवेत्यैतिहासिकानां मतम्। तत्र भगवता कात्यायनेन ष्टाध्याय्याश्चतुर्थाध्याय-द्वितीयपादस्य षष्ठितमसूत्रोपरि (पा० ४।२।६०) 'आख्यानाख्यायिकेतिहासपुराणेभ्यश्च' इति वार्त्तिकं विधाय, आख्यानाख्यायिकयोः, पृथग्रूपेणो- ल्लेखः कृतः। पतञ्जलिनापि ययाति-यवक्रीत-प्रियङ्गवाश्चैतानि आख्यानस्योदाहरणानि तथा 'वासव- दत्तासुमनोत्तरे' च आख्यायिकोदाहरणे इति नामनिर्देशः कृतः। काशिकायामप्येतान्येव नामान्युपल- भ्यन्ते। किन्तु ग्रन्थाश्चैते साम्प्रतं दृग्गोचरा न सञ्जाताः।
सुबन्धुः
गद्यकाव्यलेखकेषु सुबन्धुरेव सर्वप्रथमो विद्यते। स एव हि वासवदत्तां नाम 'कथां' निवबन्ध। प्राचीनसमये वासवदत्ताप्रेमसम्वन्धिकथा सुप्रसिद्धतमासीत्, किन्त्वस्मिन् गद्यकाव्ये वासवदत्तया सह न कोऽपि सम्बन्धः स्थापितः कविना केवलं तन्नाम एवोल्लिखितम्। कथेयं कवेः स्वबुद्धिजैव न तु कामप्यु- पजीव्येति सारवेदिनो वदन्ति। अत्र हि—
'प्रत्यक्षरश्लेषमयप्रपञ्च-विन्यासवैदग्ध्यनिधिं प्रबन्धम्।'
प्रतिज्ञामेनां सुचारुरूपेण पूरितवानयं ग्रन्थकारः। तत्रस्थं किञ्चिद्वयमिह प्रदर्शयते—
'नन्दगोप इव यशोदयान्वितः, जरासन्ध इव घटितसन्धिविग्रहः, भार्गव इव सदा- नभोगः, दशरथ इव सुमित्रोपेतः सुमन्त्राधिष्ठितश्च, दिलीप इव सुदक्षिण्यान्वितः रक्षितगुध्रश्च, राम इव जनितकुशलववयोरूपोच्छाद्यः।'
महाराजचिन्तामणेर्वर्णनेयम्। ग्रन्थेऽस्मिन् शब्दचमत्कारः कामं भवेत्परं विचारमार्मिकतायामर्थ- स्यौचित्यमधिकस्थलेष्वेव स्खलनमवाप्नोति। अनेकस्थलेषु श्लेषस्य प्रसन्नता तिरोहिता। श्लेषस्याय मेवासाधारणो गुणो यन्निर्मलः सरलो विशेषाक्लिष्टरहितो भवेत्। किन्तु दुर्भाग्यवशाच्छ्लेषानुरक्तिरेव कविमस्मादादर्शाद् वञ्चितवती। तथाविधाऽप्रसिद्धस्य तृयातिकठिनीभूतस्य श्लेषस्य प्रयोगो जातो येन विदुषां पठनकालेऽपि महाक्लेशं जनयति, अर्थविस्फोरणाय कोपं पश्यन् पदे पदे, इत्युक्तिश्चरितार्थ्या भवति। शब्दालङ्कारनिर्वाहे च निमीलितनयनः कविः कथागतानामर्थानामौचित्यातिक्रमणमपि नावलो- कयति। कथापि न किञ्चिद् विलोक्यते, तथाहि—'मिथः स्वप्ने पश्यन्तौ नायिका-नायकौ परस्परमनु- रज्यतः, तदनन्तरं सुहृत्सह्चरो नायको नायिकां गवेषयँल्लभते।' किञ्चिद्वैचित्र्यं तादृशं नास्ति येनाकर्षणं भवेदस्यां कथायाम्। यदि कश्चिदभिलषेत्तदा चैकस्मिन् पृष्ठ एव निखिलापि कथा समापयितुं शक्यते। केवलं शब्दाडम्बरेणैव ग्रन्थविस्तारः कृतो ग्रन्थकृता। एवं सत्यपि नेतः प्रागेतादृशशैलीयुकं किञ्चिदपि 'कथा' काव्यमासीदत एव 'कवीनामगलद्दर्पो नूनं वासवदत्तया' इत्यनेन भूयसी प्रशंसा सञ्जाता संस्कृतसाहित्ये। कस्मिन् समये चायं ग्रन्थो निर्मितोऽभवदिति जिज्ञासायाम्, यद्यपि—
१२ प्रस्तावना
‘सारस्वत्ता विहता न वका विलसन्ति चरति नो कङ्कः। सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ॥’
इति ग्रन्थस्यपद्येन विक्रमादित्यस्य समय एवायाति, किन्तु विक्रमादित्यस्य समयविषये पूर्ण- निश्चयाभावादेतन्निर्णयः कर्तुमशक्यस्तथापि वासवदत्तावर्णने—न्यायस्थितिमिव उद्योतकरस्वरूपाम्, बौद्धसङ्गतिमिब अलङ्कारभूषितां ..... 'वासवदत्तां ददर्श' इति वाक्यमुपलभ्यते । इह न्यायवार्त्तिककार उद्योतकराचार्यः, प्रख्यातो बौद्धतार्किकोधर्मकीर्तिश्चापि निर्दिष्टोऽस्ति । ऐतिहासिकैः षष्ठशताब्द्या अन्ते एवानयोः समयोऽङ्गीकृतः, अत एव सप्तमशतकस्यारम्भ एव सुबन्धुः समुत्पन्न इत्यवश्यमङ्गीकरणीयम् ।
कादम्बरीकारः श्रीवाणभट्टः
तत्रभवान् महाकविर्वाणभट्टो हि भगवत्याः शारदाया वरदपुत्र आसीत् ! एतदुपरि लक्ष्मीसरस्व- त्योरुभयोरेवातिमहती कृपा समभावेन विद्यमानासीत् । कविसमाजे यथा धंतन्महानुभावस्य समादर- स्तथैव राजसभायामपीत्यत्र न मनागपि सन्देहः । महाकविचूड़ामणिरयं स्वजीवनचरितं हर्षचरितस्या- द्यपरिच्छेदद्वये विस्तरेण वर्णितवान् । तच्च न केवलं जीवनचरितज्ञानायैवोपयोगि प्रत्युत साहित्यदृष्ट्या- प्यनुपमं वस्त्वित्यवजानन्त्येव सहृदयधुरीणा भावुकाः । अयं हि शोणनदस्य तटे शाहाबाद (आरा) मण्डले (In the Shahabad district) प्रीतिकूटनामके नगरे प्रतिवसतिस्म । हर्षचरितानुसारेणैतद्वंश- परिचयस्त्वित्थम्—
ब्रह्मा
।
पुलहः
।
वात्स्यः ('स्वयं वात्स्यस्तु पुलहात्' इति प्र० दै० )
।
कुबेर
।
-----------------------------------------------------
। । । ।
अच्युतः, ईशानः, हरः, पाशुपतः,
।
अर्थपतिः
।
-----------------------------------------------------------------------------------------------
। । । । । । । । । । ।
भृगुः, हंसः, शुचिः, कविः, महीदत्तः, धर्मः, जातवेदाः, चित्रभानुः, लवः, अहिदत्तः, विश्वरूप
।
बाणभट्टः
।
भूषण (पुलिन्द) भट्टः (एतन्नाम तत्र नास्ति)
बाल्य एवास्य राजदेवीनाम्नी माता परलोकनगमत् । पितापि चित्रभानुश्चतुर्दशवर्षदेशीयस्य एवा- स्य, सायुज्यमलभत । ततस्तादृशसुयोग्याभिभावकाभावादयं बाणभट्टो^२ हि वयस्यैः सहायैश्च सह ग्रामाद्
१. एतद्ग्रन्थान्ते निजवंशवर्णनप्रस्तावे संक्षेपानुरोधेनैव सर्वेषां नाम्नोपन्यासो नाकारीत्यवधेयम् । २. असमवंशास्य वयसा समानाः सुहृदः सहायाश्च । तथा च—'भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकविरोशानः परं मित्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसौ वारबाणवासवाणौ, वर्णकविवैणीभारतः, प्राकृतकृत्कुलपुत्रो वायुविकारः, बन्दिनावनङ्गबाणसूचीबाणौ, कात्यायिका चक्रवाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकः कन्दुकः, भिषक्पुत्रो मन्दारकः, पुस्तकवाचकः सुदृष्टिः, कलादश्चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृद्वीरवर्मा, पुस्तककृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमित्रग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिको मधुकरपारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरळिका, लासकयुवा ताण्डविकः, आक्षिक आकन्दलः, कितवो भीमक्रः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादोविदग्धोद्द्रनः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चकोराक्षः, मर्कटो बाणचूडः ।' (हर्षचरितम्)
प्रस्तावना १३
ग्राममटन् देशान्तरावलोकनाकृष्टचित्तः बहोः कालात्परं पुनः स्वनगरं प्रत्याजगाम । हर्षचरित एवैत- द्वयस्यानां सहायानाञ्च नामानि दृष्टिगोचरीभूतानि भवन्तीत्युपरिष्टादेव ८ पृष्ठटिप्पण्यां प्रदर्शितम् ।
सर्वथा लोकचातुरीं सम्प्राप्यान्ते स्वपाण्डित्यप्रकर्षेण थानेश्वरराजधान्यां तत्कालीनमहाराजहर्षवर्ध- नस्य भूपतेर्विद्वत्सभायाः सर्वोत्कृष्टपदमासादितवान् । किन्त्वेतत्पदप्राप्तिपूर्वकालेऽस्य महानुभावस्य विप- क्षिणो महतीं निन्दां व्यदधुः । तेन कुपितो राजा स्वभ्रात्रा कृष्णराजेन कथञ्चित्प्रतिबोधितः । अनन्तरं तेन महात्मना कृष्णराजेनैकं पत्रं विलिख्य मेखलकाख्यो लेखहारकः प्रेषितः । तच्च निदाघदिवसेऽतिक्रान्ते मध्यमह्नः सवितरि मुक्तोपविष्टस्य भट्टबाणस्य पारशवो भ्राता चन्द्रसेनः प्रवेशयत् । तदानीन्तनपत्रलेखा- र्थस्त्वयम्—‘श्रीहर्षराजस्य चित्तं त्वद्विषये केनापि पिशुनेन कलुषीकृतम्, किन्तु परिज्ञातभूतार्थेन कृष्ण- राजेन श्रीहर्षदेवस्तथानुनीतो यथा यौवनसुलभं विकारमुत्सृज्य, भट्टबाणेन न किमप्यपराद्धं न वा किमपि लोकविरुद्धमाचरितम्’ इत्यस्मिन् विषये महाराजः प्रत्ययमपि ग्राहितोऽतोऽयमेव कालो भवतः सभां प्रवेष्टुमिति । लेखार्थममुं मुहुर्मुहुर्विमृश्य भट्टबाणः श्रीहर्षदेवमवलोकयितुं प्रीतिकूटाद्यतस्त्ये । त्वरितं समु- पागमच्च महाराजद्वारसविधे । ततो दौवारिकेण परिचयद्वारा प्रवेशितः पूर्वं राज्ञा तिरस्कृतः, किन्तु तदी- याद्भुतपाण्डित्यप्रदर्शनेन परितुष्टो राजा दानमानादिभिः सत्कृतवान् ।१
अनुभूय च सुचिरं विविधान् राजप्रसादान् स्थित्वा च तत्र कियन्तं कालं स पुनः प्रीतिकूटं प्रत्या- जगाम । प्रत्यागतमेनं सुहृदः सहायाश्च सविशेषं समाजयामासुः । पुस्तकवाचकः सुदृष्टिर्वायुपुराणमस्या- वाचयत् । सूचिबाणो बन्दी हर्षचरितमुद्दिश्यार्याद्वयं पपाठ, येनार्ययमभुरञ्जितो ज्ञातिभिः सह समागत्य पितृव्यपुत्रेषु कनीयान् श्यामलो भट्टबाणमामूलाद्दर्षचरितमुपवर्णयितुं व्यजिज्ञपत् । 'भट्टबाणोऽपि विदि- ताभिप्रायस्तेनैव प्रस्तावेन तेषां पुरो हर्षचरितं कथयितुमारब्धवान् ।
१. राजा तु तच्छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण पूरयन्तमिव नभोभागमपृच्छदत्- 'एष स बाणः' इति । 'यथाज्ञापयति देवः । सोऽयम्, इति विज्ञापितो दौवारिकेण' । 'न तावदेनमकृतप्रसादः पश्यामि' इति तिर्यङ्गोतधवलांशुप्रशारां तिरस्करिणीमिव भ्रमद्भ्रूलताङ्गनीयमानतरलतारकस्यायामिश्रीं चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालवराजनूनोरकथयद्—'महानयं भुजङ्गः' इति । तूष्णीम्भावेन लवग्भिनिनरेन्द्रवचसि तस्मिन् मूके च राजलोके मुहूर्त्तमिव तूष्णीं स्थित्वा बाणो व्यज्ञापयद्—देव !, अविजानन्निव इव, अश्रद्दधान इव, नेव इव, अविदितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि । स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । महिष्ठस्तु यथार्थदर्शिभिर्भवितव्यम्, नार्हसि नामन्यथा सम्भावयितुमविशिष्टमिव । ब्राह्मणोऽस्मि जातः सोम- पायिनां वंशे वात्स्यायनानाम् । यथाकालमुपनयनादयः कृताः संस्काराः ? सम्यक् पठितः साङ्गो वेदः । श्रुतानि यथाशक्ति शास्त्राणि । दारपरिग्रहाद्व्यागारिकोऽस्मि । को मे भुजङ्गता ? लोकद्वयाविरोधिभिस्तु चापलैः शैशवम- शून्यमासीत्, अत्राननलापितोऽस्मि । अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम् । इदानीं तु मुनन इव शान्त- मनसि, मनागिव कर्तारि वर्णाश्रमव्यवस्थानाम् सनवर्त्तिनोव च साक्षाद्दण्डमृति देवे शास्तित सतामुद्धारिण्युन्ना- नशेपद्वीननालिनीं महीं कं इवाविशुद्धः सर्वव्यसनमहोदधिनवदस्य मनसाप्यभिनयं कल्पयिष्यति । वासतां तावन्मा- नुषदोषेताः । त्वत्प्रनावादुद्दोऽपि मीना इव मधु पिवन्ति । रक्षामनानामोऽपि लज्जन्ते स्वान्यनुवृत्तियस्तनैः प्रियानाम् । कादीपेकि चकिता इव चपलायन्ते । शरावोऽपि सानुक्रोशा इव श्वापदगणाः पिशितानि मुञ्चते । सर्वदा कालेन मां ज्ञाम्यति स्वामी स्वयमेव । उन्मत्तचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रद्यावतां प्रकृतयः' इत्यभि- धाय तूष्णीमभूत् । भूपतिरापि 'एवमस्माभिः श्रुतम्' इत्यभिधाय तूष्णीमेवाबभूव । सम्भाषणासनादानादिना तु प्रसादेन नैव- मन्वग्रहीत् । केवलममृतवृष्टिभिः रूपदरित्र स्नेहमर्गेण दृष्टिभिरुत्तार्थेनान्तर्गतां प्रीतिमकथयत् । अस्ताभिलाषिणि च लम्बमाने म वेतरि विसर्जितराजलोकोऽभ्यन्तरं प्राविशत् । बागोऽपि•••••••••अपरेधुरुत्क्रम्य बदकालदृढां बान्ध- वानाञ्च स्वनेषु तावदतिष्ठद, यावदस्य स्वयमेव गृहीतस्वभावः पृथिवीपतिः प्रसादवानभूत् । अविदूष्य पुनरपि नर- पतिमवन्दम् । स्वल्पैरेव चाहोभिः परमप्रीतेन प्रसादजन्मनो मानस्य प्रेम्नो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिमानीदित नरेन्द्रोनेति' । (हर्षचरित २ उच्छ्वास )
२. बाणस्तु तच्छ्रुत्वा समुत्थाय निद्रामुत्थाय प्रक्षाल्य वदनमुपाम्य भगवतीं सन्ध्यामुदिते भगवति सवि- तरि गृहीतताम्बूलस्सवैर्व्यातिष्ठत् । अत्रान्तरे सर्वेऽस्य ज्ञातयः समाजग्मुः । परिवार्य चासातस्थुः । कस्तावपि पूर्वाद्वां- देन विदिताभिप्रायस्तेषां पुरो हर्षचरितं कथयितुमारेमे ।' (ह० च० द्वि० उ०) इति ।
१४ प्रस्तावना
हर्षचरितद्वितीयोच्छ्वासपर्यालोचनया 'कान्यकुब्जाधिपति'रुत्तरापथेश्वर, अवनिधघवचक्रवर्तिन्, नरेन्द्रप्रवर ! इत्यादिपदविभूषितस्य शीलादित्यं कुमारराजं^१-२ हर्षवर्धन ! इत्यादिनामान्तरधारिणः श्रीमतो हर्षस्य प्रसादवित्तः सभास्तारोऽयं श्रीमान् बाण आसीदिति स्पष्टमुपलभ्यते ।
संस्कृतसाहित्ये श्रीहर्षनामकाः पञ्च महापुरुषाः समुपलभ्यन्ते समालोचनकुशलानां समक्षे । तत्र प्रथम. श्रीहर्षो हि मैथिलकुलकमलदिवाकरस्य काव्यप्रदीपकर्तुर्गोविन्दठक्कुरस्यानुजः समासीत् । द्वितीयः श्रीहीरसूनुरनुपमनैषधमहाकाव्यनिर्माता । तृतीयः कश्मीरमण्डल भूपतिरासीद् यस्य पट्टराज्ञ्या अनुनयेन सोमदेवेन कथासरित्सागरो निबद्धः । चतुर्थो धारानगर्यधिपस्य सकलगुणिजनकल्पद्रुमस्य भोजस्य पितामहो मुञ्जमहीपतेः पिता चासीत् । पञ्चमश्च स्थाण्वीश्वर ( थानेश्वर ) स्याधिपतिर्यस्यैव नाम्ना महाकविना बाणभट्टेन गद्यकाव्यं व्यरचि । तथा तद्वंशवृक्षः—
नरवर्धनः—( राज्ञीनाम-वज्रिणी देवी ) । राज्यवर्धनः—( „ अप्सरो देवी ) । आदित्यवर्धनः—( „ महासेनगुप्ता ) । प्रभाकरवर्धनः^४ । ( „ यशोमती ) ┌───────┼───────┐ । । । राज्यवर्धनः श्रीहर्षः, राज्यश्रीः ( कन्या )
अथैतन्महाराजश्रीहर्षराज्यकालः
श्रीहर्षदेवो हि त्रिस्तान्दगणनया षडधिके^५ षट्शते ( ६०६ ) वर्षे स्थानेश्वरे सिंहासनमलङ्कृत्य
१-२. He Called himself king's Son ( Kumararaj ), his title was Siladitya.
( Hiuen–Tsiang. P. 213.
३. For this period he is fortunate enough to possess, in addition to the ordinary epigraphic and numismatic sources, two contemporary literary Works, which shed much light upon the political condition of India generally, and supply, in particular, abundant and trustworthy information concerning the reign of Harsha, who ruled the North as paramount sovereign for more than forty years. The first of these works is the invaluable books of travels compiled by the Chinese pilgrim. Hiuen-Tsiang, who visited almost every part of India between 630 and 644 A. D. and recorded observations more or less minute about each state and province. The narrative in Travels is Supplemented by the pilgrim's biography written by his friend Hwui-li, which supplies many additional details. The second work alluded to is the historical romance entitled "The Deeds of Harsha" ( Harsh-charita ), composed by Bana, a Brahman author who lived at the court, and enjoyed the patronage of the hero of his tale.
( Early History of India by V. A. Smith, 1908, P. 309. Epigraphi Indica, Vol. IV September. 1896 )
४. तेषु चैवमुत्पद्यमानेषु क्रमेणोत्पादि हूण ( Huna ) हरिणकेसरी सिन्धुराजज्वरो गूर्जरप्रजागरो गान्धाराधिपगन्धद्विपकूटपाकलौ लाटपाटवपाटच्चरो मालवलक्ष्मीलतापरशुः 'प्रतापशील' इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः' इतिहर्षचरितचतुर्थोच्छ्वासलेखेन 'प्रतापशील' इति नामान्तरम् ।
५. These curious details indicate that some unknown obstacle stood in the way of Harsha's accession and compelled him to rely for his title to the crown upon election by the nobles rather than upon his hereditary claims. There is reason to suppose that Harsha did not boldly stand forth as avowed king until 612 A. D., when he had been five and a half or six years on the throne, and that his formal coronation consecration
प्रस्तावना
राजनीतिपद्धत्या सर्वानन्यानू विजित्य चोत्तरे भारते आत्मनश्चक्रवर्तित्वमास्थापयामास । तदारभ्य अष्ट^१ चत्वारिंशदधिकषट्शताब्दीपर्यन्तं च सुव्यवस्थया राज्यमुपभुङ्क्तवान् ( 606 to 648 A. D. ) । अत्र तु चीनदेशीययात्रिकस्य 'हेनसांग' इत्यभिधेयस्य प्रवासवृत्तमेव बलवत्प्रमाणम् । यथा हि तेन ६२९ तमं ख्रिष्टीयवत्सरमारभ्य ६४५ तमं यावत् भारतपरिभ्रमणं कृतम् । स्वकीयलेखे तेन हि स्पष्टमेवेदमुल्लिखितं यत्—'उत्तरभारते तस्मिन् समये श्रीहर्ष एवैकमात्रमधिपतिर्बभूव, नासीदन्यः कश्चित् प्रशासकः' इति ।
एतन्महानुभावस्य चरितमेव हर्षचरितमित्याख्यायते । तच्च^३ महाकविबाणेनासप्तविंशत्युत्तरषट्शततमे ( 620 A. D. ) ख्रिस्ताब्दे निर्मितम् ।
श्रीहर्षवैदुष्यम्
संस्कृतसाहित्यजगति यथा विक्रमादित्य-शूद्रक-शाल ( शालिवाहन ) प्रभृतयो भूपतयो न केवलं श्रीमन्त एवासन् किन्तु विद्यानुरागिणश्च समभूवन् तथैवायमपि महाराज इत्येतस्मिन्-विषये महाकवयो मुक्तकण्ठमेनं भूरिभूरिशः प्रशंसयामासुः । तथा च महाकविकालिदाससूक्तिः—
'निसर्गभिन्नास्पदेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च ।' इति ।
तथा च जयदेवस्य प्रसन्नराघवे—
'हर्षो हर्षः कविकुलगुरुः कालिदासो विलासः,
केषां नैषा कथय कविता कामिनी कौतुकाय ।'
अपि च सोड्ढलेनावन्तिसुन्दरीकथायाम्—
'श्रीहर्ष' इत्यवनिचर्त्तिषु पार्थिवेषु नाम्नैव केवलमजायत वस्तुतस्तु ।
'गीर्हर्ष' एव निजसंसदि येन राज्ञा सम्पूजितः कनककोटिशतेन वाणः ॥'
एवं हर्षचरिते वाणभट्टेन तु वारद्वयमेतत्काव्यकरणचातुरीं प्रशंसयामास । तथाहि—
( १ ) 'राज्ञां सम्भाषणेषु परित्यक्तमपि मधु वर्षन्तम्, काव्यकथास्वपीतामृतमुद्वमन्तम्' ।
( २ ) 'अस्य कवित्वस्य वाचो न पर्यासो विषयः' इति ।
श्रीहर्षस्य सभापण्डिताः
निखिलगुणगणगरिष्ठोऽस्य भूपतेः सभायां त्रयोऽनुपमविद्वांसो वाण-मयूर-दिवाकराः समजायन्त । तत्रं महाकविवाणविषये पुरस्तादेव विवेचयिष्यते ।
मयूरभट्टः—अयं हि महाराजपरिषदो द्वितीयः कविचूडामणिः समासीत् । श्रूयते चासाव्य-कुष्ठरुजाभिभूतः 'आरोग्यं भास्करादिच्छेत्' इति वचनमाश्रित्य तदपनिनाशयिपुरयं महाकविः स्रग्धरावृत्तेन 'सूर्यशतकं' नाम काव्यं व्यरीरचत् । अस्य च काव्यकरणचातुरीं व्यञ्जनावृत्त्या—'आदित्यादेर्मयूरा-
१. ...took place in that year. The era called after his name of which the year I was 606-7 A. D. dated from the time of his accession in October 606.'
( Early History of India by V. A Smith, 1908, P. 312. )
२. The pages of Hiuen-Tsiang and his biographer give the latest information about king Harsha, who died at the end of 647 or the beginning of 648, not long after his distinguished guest's departure.
( Early History of India by V. A. Smith, 1908, P. 326. )
३. 'Bana, the author of the Harsh-Charita or panegyric on King Harsha who wrote about 620 A. D., carries the proof of the antiquity of the Puranas four centuries further back. When he went home to his village on the Son river, in the country now known as the Shahabad District, he listened to Sudristi, who read 'with a Chant' the Vayu Purana (Pavanaprokta), Dr. Fuhrer, believed that he could prove the use by Bana of the Agni, Bhagavata, Markandeya Puranas, as well as the Vayu'.
( Early History of India by V. A. Smith 1908, P. 19 )
१६ प्रस्तावना
दीनामिवातंनिवारणम्' इत्यनेन प्रशंसंस काव्यप्रकाशकारः। विद्वत्समाजेषु हि प्रचलिता किंवदन्तीय- मासीद्यद् बाणभट्टस्य विवाहो महाकविमयूरस्य कन्यया ( भगिन्या वा ? ) जात इति। अथैकदास्ताचल- चूड़ावलम्बिनि सति शीतांशुमालिनि, प्रातः प्रवहमानेऽपि शिशिरसमीरे मानमवलम्ब्य समुपविष्टां- स्वदयितामनुनयं विदधद्वाणस्तत्प्रसञ्जनायै तत्कालकल्पितं पद्यं श्रावयितुं प्रवृत्तः। तत्र च—
गतप्राया रात्रिः कृशतनु ! शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो ॥
इति पादोनं पद्यं पठित्वा चरमचरणसङ्गतिं कल्पयंस्तावदेव पापश्याञ्चक्रे। अत्रावसरे घनस्तनित- स्येव गम्भीरस्य महाकविभाषणस्य श्रवणेन विवशान्तःकरणो मयूरकविः स्वप्रतिभाप्रवाहं निरोद्धुमश- क्तस्तदपेक्षितं सुसंगतं चतुर्थचरणम्—
कुचप्रत्यासत्त्या हृदयमपि ते चण्डि ! कठिनम् ॥
इत्येवंरूपं केकानिनादमिव मन्द्रमधुरस्वरेणोदीरयामास। तन्निशम्य सज्जधनुस्तूणं बाणो लक्ष्य- मिवायमपि बाणकविर्निजनाम्नोऽन्वर्थतासमर्थनाय लीलासद्मनो झटिति विनिर्गत्य प्राणाधिकप्रियं मित्र- वरं मयूरकविं समाजगाम । ततोऽस्याः बाणवनिताया रसभङ्गजनितमनःक्षोभवत्याः पातिव्रत्यप्रभावेणा- चिरादेव शापतो मयूरकविः कुष्ठरोगकवलितसर्वाङ्गः संवृत्तः। अथास्य पापरोगस्य समूलमुन्मूलनाय शतसंख्याकपद्यतमपद्यघटित-'मयूरशतक'-नामककाव्यबन्धेन सूर्यनारायणदेवं स्तुत्वा तन्महिम्ना प्रणष्ट- पापरोगः कनकरुचिरगात्रोऽयं मयूरकविः सम्यग्भूतेत्येवमभिप्रायक इतिहासो मेरुतुङ्गाचार्य-कृत-प्रबन्ध- चिन्तामण्यादिग्रन्थे स्थितः।
अथ चैवमपि श्रूयते यद्वाणकविरेवैनं मयूरकविं शशाप पूर्वमतः प्रतिक्रुद्धो मयूरः बाणमपि शशाप। सोऽपि भगवत्या जगज्जननया दुर्गायाः स्तोत्रं 'चण्डीशतक'-नाम्ना निर्माय तच्छापान्मुक्तो बभूवेति। अस्याः किंवदन्त्या जैनग्रन्थेष्वप्युल्लेखो दृश्यतेऽत उपर्युक्तविषये यत्किञ्चिदपि तथ्यमवश्यं भवेदिति द्रढ़ीयान्मे विश्वासः।
श्रीहर्षसमकालिकाः कवयः
अस्मिन्नेव समये 'मानतुङ्ग'-नामको भक्तजैनाचार्यः सञ्जातस्तत्कृत इदानीं जैनधर्मानुयायिषु 'भक्तामरस्तोत्र'-नामको ग्रन्थोऽतीव प्रसिद्धः। अयमपि श्रीहर्षस्यैवाश्रये स्थित आसीत्। थानेश्वराद् दूरे गूर्जरराजधान्यां वलभ्यां श्रीधरसेनस्य राज्यकाले भट्टिकाव्यनिर्मातृभट्टस्वामिन आविर्भावः समज्रनि । कतिचिद्विद्वन्मते गौतमन्यायसूत्रोपरि वार्त्तिकरचयितुरुद्योतकरस्य जन्माप्यस्मिन्नेव शतके सञ्जातमिति।
अथ महाकवेर्बाणस्य स्थितिकालः
अत्र हि युक्त्युक्त्या दृढीकरणांयैवं विमर्शो भवति यदेनेन महाकविना स्वयमेव स्वपूर्व- कालवर्त्तिनां कवितत्कृतीनामालङ्कारिकाणाञ्च नामानि स्वीये हर्षचरितप्रस्तावे समुल्लिखितानि। तद्यथा 'व्यासः, वासवदत्ता, भट्टारहरिचन्द्रः, सातवाहनः, सेतुकृतप्रवरसेनः, भासः, कालिदासः, बृहत्कथा, आढ्य- राजश्च' इति । अतश्च प्रमाणान्महाकविरयं षष्ठ्याः शताब्द्या अन्ते सप्तम्याश्च प्रारम्भे समभूदिति निश्चयः सुखेन कर्तुं शक्यतेऽस्माभिः।
अथैतदुत्तरकालवर्त्तिनो ये ये महाकवयः स्वकीयग्रन्थे चैतन्महाकविनामग्रहणं कृतवन्तस्तया तदी- यग्रन्थस्योदाहरणं दत्तवन्तस्तेषां नामानि प्रातिस्विकरूपेण प्रदर्श्यन्ते :—
( १ ) अष्टमशताब्द्यां समुत्पन्नो वामनो हि काव्यालङ्कारसूत्रवृत्तौ—'अनुकरोति भगवतो नाराय- णस्य' इत्यत्रापि—'मन्ये, स्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादात्र लिखितः' इति लिखति।
( २ ) नवमशताब्द्या उत्तरार्धे काश्मीरकावन्तिवर्मणः सभायां विद्यमानः आनन्दवर्धनाचार्यः स्वकीये ध्वन्यालोके कादम्बर्या हर्षचरितस्य च बहुशो नामग्रहणं कृतवान्।
( ३ ) तदनन्तरं कादम्बरीसारकर्त्तुः अभिनन्दस्य नाम क्षेमेन्द्रेण स्वकीये सुवृत्ततिलकाख्ये ग्रन्थे—
अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी । विद्याधरस्य वदने कुलिकेव प्रभावभूः ॥
प्रस्तावना १७
इति नामोल्लेखः कृतः।
(४) एकोनसप्तत्यधिकसहस्रपरिमिते ख्रिस्ताब्दे नमिसाधुर्हि रुद्रटीयकाव्यालङ्कारस्य व्याख्यायां कथाख्यायिकयोर्भेदप्रदर्शनार्थं कादम्बरीहर्षचरितयोर्नामग्रहणं निर्दिशति।
(५) दशमशताब्द्यां भोजपितृव्यमुञ्जराजसभापण्डितो¹ धनञ्जयो हि स्वीये दशरूपके—'यथा हि महाश्वेतावर्णनावसरे भट्टबाणस्य' 'यथा कादम्बर्यां वैशम्पायनस्य' इति भट्टबाणं कादम्बरीं च स्मरति।
(६) एकादशशताब्द्याः प्रथमार्धे राज्यं प्रशासतो भोजराजस्य कृतौ सरस्वतीकण्ठाभरणे—
'यादृग् गद्यविधौ बाणः पद्यबन्धे न तादृशः।
इति दृश्यते।
(७) एकादशशताब्द्या उत्तरार्धस्थः काश्मीरिकक्षेमेन्द्रो हि स्वीयौचित्यविचारचर्चायां कादम्बरीस्थं 'स्तनयुगमश्रुस्नातम्' इत्यार्यापद्यं तथा तन्मध्यमेव 'जयत्युपेन्द्रः स चकार दूरतः' इति पद्यमुदाहृतवान्।
(८) द्वादशशताब्द्याः प्रथमार्धस्थेन रुय्यकेन हर्षचरितोपरि वार्त्तिकं रचितम्। एतच्च स्वीयालङ्कारसर्वस्वे—'एषा च (उत्प्रेक्षा) समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्त्तिके साहित्यमीमांसायाञ्च तेषु तेषु प्रदेशेषूदाहृत'मित्यधिकजिज्ञासुभिस्तत एवावलोकनीयम्।
अथ महाकविमेनमेतदुत्तरकालीना ये प्रशंसयामासुस्तेऽत्र सोदाहरणं निर्दिश्यन्ते—
तत्र राजशेखरः—
'सहर्षचरितारब्धाद्भुतकादम्बरी कथा।
बाणस्य वाण्यनार्येव स्वच्छन्दा भ्रमति क्षितौ ॥'
नलचम्पूकारः—
'शब्दब्रह्माद्वितीयेन नमदाकारधारिणा।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥'
कीर्तिकौमुदीकारः—
'युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः।
बाणध्वनावनाध्यायो भवतीति स्मृतिर्यतः ॥'
आर्यासप्तशतीकारः—
'जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥'
तिलकमञ्जरीकारः—
'केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन्।
किं पुनः कृतसन्धानपुलिन्ध्रकृतसन्निधिः ॥'
राघवपाण्डवीयकारः—
'सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः।
वक्रोक्तिमार्गनिपुणा चतुर्थो विद्यते न वा ॥'
त्रिलोचनः—
'हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥'
श्रीकण्ठः—
'मेण्ठे स्वद्विरदाविरोहिणि वशं याते सुबन्धौ दिवे।
शान्ते हन्त च भारवौ विघटिते बाणे विषादस्पृशः ॥'
एवञ्च सप्तमशताब्द्याः पूर्वार्ध एव महाकविबाणस्य स्थितिकालः स्पष्टं प्रतीयते। नात्र विषये लेशतोऽपि काचन विप्रतिपत्तिरित्यवधेयम्।
महाकविदण्डी
महाकविबाणभट्टस्याल्पसमयानन्तरमेव गद्यकाव्यनिर्माणे महाकविदण्डिनः स्थानमलङ्कारसाहित्ये सर्वत्र देदीप्यमानं वरीवर्त्ति। एतद्विरचितं (१) 'दशकुमारचरितम्' (२) 'काव्यादर्श'-नामकञ्च ग्रन्थरत्नद्वयं सर्वतश्चकास्ति। भामहकृतकाव्यालङ्कारेणैकसमानताया विभिन्नतायाश्च दर्शनाच्चेऽप्येनं भामहात्पृष्ठ-
१. 'विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिवन्धहेतुः।
आविष्कृतं मुञ्चमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥' (दशरूपक-४ प्रकाशे)
३ फा० भू०
१८ प्रस्तावना
शताब्द्याः प्रारम्भे केऽपि च भामहानन्तरं सप्तमशताब्द्यां मन्यन्ते । परन्तुवेदं तु निष्प्रचं वर्त्तते यदेत- त्कृतस्य नवमशताब्द्याः कविराजमार्गादिग्रन्थेषु काव्यादर्शस्य छाया सम्यग्रूपेणापतिता । 'कविराजमार्ग' ग्रन्थलेखकस्यामोघवर्षस्य समयो हि नवमशताब्द्याः प्रारम्भे (८१५ वर्षे) मन्यन्त ऐतिहासिका, अत एत- त्पूर्वमेव दण्डिनः समयः । 'लक्ष्म लक्ष्मीं तनोती'ति 'प्रतीतिसुभगं वचः' इत्यत्र 'इति' शब्दं दर्शयता दण्डिना स्पष्टमेव कालिदासकृत-शाकुन्तलीय-'मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति' इति पद्यांशस्यो- द्धरणं कृतम् । अतश्च महाकविकालिदासानन्तरमेवैतत्समय इत्यत्रापि न सन्देहलेशः । अथ चान्यभाव- साम्येन-बाणभट्टादप्यनन्तर एव प्रतिभाति । तथाहि—
'अरत्नालोकसंहार्यमवार्यं सूर्य्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥' (काव्यादर्श)
पद्येनानेन पिटर्सन्-सम्मत्य याकोबी-सम्मत्य च कादम्बर्यां शुकनासद्वारा प्रदत्तोपदेशस्य छाया समापतति । अपि चाग्रे तत्रैव—
'भिन्नस्तीक्ष्णमुखेनापि चित्रं बाणेन निर्व्यथः ।
व्यवहारेषु जहौ लीलां न मयूर•••••••• ॥'
इति पद्येन मयूरभट्टेन सह बाणस्यापि प्रशस्ति-प्रशंसा कृता । दण्डिविरचितावन्तिसुन्दरीकथायाः स एव विषयो यो हि दशकुमारचरितस्य पूर्वपीठिकायामुपनिबद्धो वर्त्तते । 'अवन्तिसुन्दरीकथासार' नामक- ग्रन्थश्च कादम्बर्या एव कथायाः छन्दोबद्वसारांशः। कथायां वररुचेः शूद्रकस्य, कादम्बर्यादेश्चानेकोपक्या निबद्धाऽवलोक्यते, येनायं ग्रन्थो वृहतकथायाः क्रमेण निर्मितो वर्त्तत इति प्रतीयते । ग्रन्थस्यास्य नाम घंघाल (जंघाल) कृतकाव्यादर्शटीकायामुल्लिखितं विद्यते । वल्लभदेवविरचित-'सुभाषितावली' नामक- ग्रन्थमिन्नादन्य 'सुभाषितावली' ग्रन्थे व्यासविषये तदेव पद्यमुपलभ्यते यदस्याः कथायाः प्रथमपरिच्छेदे विद्यमानं वर्त्तते, तेन चास्मिन् ग्रन्थे प्रामाणिकताऽप्यनुमिता भवतीति । अत्र हि कादम्बर्याः समस्त- घटनायास्तथैव वर्णना यथा बाणेन पूर्वार्द्धकादम्बर्यामुपवर्णिता, किन्तु कादम्बरीकथाया उत्तरार्धपूर्ति- र्देण्डिना स्वोर्व रकपनाशक्त्या कृता, अत एव बाणतनयपुलिन्दभट्टद्वारा पूरितोत्तराधंकथातोऽस्या यः कश्चनांशः सर्वथा भिन्न एव वर्त्तते । कादम्बरी-कथायाः समानतयाऽपि दण्डिनः समयो भवति बाणाद- नन्तर एवेत्यत्र सन्देहकलङ्क-पङ्कलेशोऽपि नास्तीति गवेषकाः समुद्धोषयन्ति । इत्थञ्च 'अयं हि न्युनानतः स्त्रिस्तषडशताव्यामजायत' इति वदतां समालोचकानां मतं नानुमतं भवतीत्येतस्मिन् विषये पर्या- लोचकैरेव पर्यालोचनीयम् ।
बाणतनयः
बाणभट्टेन हि स्वस्य स्वपूर्वजेश्च च वर्णनं तु सम्यक्तया कृतम्, किन्तु स्वपुत्रविषये किञ्चिदपि नोक्तम् । सम्भवतस्तत्समयं यावन्न केऽप्यात्मजाः समजायन्त इति कल्पयितुं शक्यते, किन्तु तत्पुत्रा- स्तित्वविषये ययाकथञ्चनापि सन्देहः कर्तुं न शक्यते, यतो हि समस्तकादम्बर्या निर्माणमविधायैव पर- लोकमुपगतो बाणः । तत्पश्चादेव श्वेतत्पूरणं तत्पुत्रेण कृतम्, सा चोत्तरार्धकादम्बरीनि लोके प्रसिद्विमुप- गता । एतादृङ्निस्पृहस्तथा पितृभक्तः पुत्रः साहित्यसंसारेऽपरः कोऽपि भवेन्न वेत्यत्र सन्देह एव ।
उत्तरार्द्धस्यारम्भे बाणतनयेनेदं लिखितम्—
'याते दिवं पितरि मद्धचसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः ।
दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एव च मया न कवित्वदर्पात् ॥'
'गद्ये कृतेऽपि गुरुणा तु तथाक्षराणि यन्निर्गतानि पितुरेव स मेऽनुभावः ।
एकप्लवामृतरसास्पदचन्द्रपादसम्पर्क एव हि मृगाङ्कमणेर्द्रवाय ॥'
'कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम् ।
भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मववसाप्यनुसन्दधानः ॥'
प्रस्तावना
हन्त ! एतादृशसुयोग्यनिःस्पृहस्यात्मजस्य प्रायः साहित्यसंसारो नामापि न जानाति। डा० व्यूलरेण ( Dr. Buhler ) चैतस्य नाम 'भूषणभट्ट' इत्युल्लिखितम्, किन्त्वाधुनिकगवेषका हि 'पुलिन' अथवा 'पुलिन्द' भट्ट' इति नाम प्रतिपादयन्ति। कादम्बर्याः शारदालिप्यां लिखितमेतदेव नामोपलभ्यते। एतस्य प्रामाणिकता च दशमशताब्द्यन्ते लिखिता धनपालकृत-'तिलकमञ्जर्यां' सिद्धा भवति। तथा च—
केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन्।
किं पुनः क्लृप्तसन्धानः पुलिन्ध्रकृतसन्निधिः ॥'
एतत्पद्यस्थश्लेषालङ्कारद्वारा बाणतनयस्य नाम 'पुलिन्ध्र' इति निरूपितं भवति। उद्भटवैयाकरण-केसरी चायमासीदित्यत्र नास्ति कस्यापि प्रमाणगवेषणास्यावश्यकता। एवञ्च पुलिनभट्टस्य तत्ततनयत्वे उत्तरार्धकादम्बर्या उपर्युक्तप्रमाणे न काचन विप्रतिपत्तिः। अन्येऽपि तत्पुत्रा आसन्न वेति विचिकित्सायां प्रमाणाभावान्नैवेति निर्णयः सुकरः, परम्त्वधस्तनकिंवदन्त्याऽन्येषामपि पुत्राणां भवति सम्भव इति प्रतिपादयितुं शक्यते। तथा हीयं किंवदन्ती—'यदा खलु बाणो मृत्युशय्यायां शयान आसीत्तदा कादम्बर्याः समाप्तिकरणचिन्ता तं नितान्तं कदर्थितवती। स हि स्वात्मजानाहूयापृच्छत्—किं भवत्सु कोप्यपूर्णं ग्रन्थमेनं पूरयितुं शक्नोति ? तदैकेनात्मजेनोक्तम् – पूरयितुमेनमहं शक्नोमि। अथ साहित्यिक-ज्ञानस्य प्रतिभायाश्च परीक्षां कर्तुमनास्तमपृच्छद्—एवन्तर्हि 'अग्रे शुष्कं काष्ठं विद्यते' एतद्वर्णनं कुरु, इति पृष्टे तेनोत्तरितम्—'शुष्कं काष्ठं तिष्ठत्यग्रे' ।
इत्येवंविधनिरसानुवादं श्रुत्वा नितरामखियत। तथाविधं तमवलोक्य योग्य-साहित्यिकात्मजेना-भिहितम्—'नीरस्तरुरिह विलसति पुरतः' ।
श्रुत्वा चेदं वचः प्रमोदभरमानसो बाणस्तमाशीर्वचसाभिनन्द्य कादम्बरीं पूरयितुमादिदेश। सोऽयं 'पुलिन भट्टः' पितुरन्तिमसमयाभिलषितपूर्ति स्वयोग्यतया पूर्णेरूपेण निर्वाहयामास। यद्यपि स्वपितृकृति-सन्निधावेतस्य कृतिर्न पाञ्चालीं रीतिं सम्यक्तया पुष्णाति, नापि नवनवार्थघटनाचातुरीं विशदयति, तथापि स पितुःस्वरूप एव पुत्र इत्यवश्यमङ्गीकर्तव्यं भवति। 'कादम्बरीरसभरेण' इत्यादिना तु स्वीयं वैगुण्यं यथार्थतयाविष्करोति, प्रदर्शयति चोत्तरार्द्धारम्भे पितुर्ऋणम्—
'बीजानि गर्भितफलानि विकासभाञ्जि चप्तैव यान्युचितकर्मवलात्कृतानि।
उत्कृष्टभूमिविततानि च यान्ति पोपं तान्येव तस्य तनयेन तु संहतानि ॥'
इत्यनेन। तदेवं कथांशे बाणभट्टस्यैव प्रायः कर्तृत्वम, शब्दविशेषरचनायां तत्पुत्रस्येत्यपि चेतसि निधेयं पठनपाठनकर्तृभिरिति। यत्किञ्चिदस्तु, एवंविध आत्मजो विरलैरेव महाकविभिरवाप्तः स्याद्येन हि असमये खण्डिता जनककृतिरेवमविभावितविभागं संयोजिता स्यात। समन्तादतिक्लिष्टमिदमेव यत्पू-र्वार्धे नातिविस्तृतः कथाभागो योधितः संगृहीनश्च कविना। तत्र हि नरपतेः शूद्रकस्यान्तिके शुकस्याग-मनम्, तन्मुखेन राजपुत्रचन्द्रापीडस्य जन्म, तस्य च दिग्विजययात्राप्रसङ्गेन महाश्वेताश्रमे गमनम्, तद्दर्शनात्तस्याः पुण्डरीकेण प्रणयः, सम्मिलनात्प्रागेव तस्य शरीरत्यागः, नभोवाण्या पुनः सम्मिलनविज्ञा-पनात्प्रत्याशायां तपोऽनुष्ठानम, ततो महाश्वेतानुगेधेन कादम्बरीदर्शनम, तत्प्रणयः, चन्द्रापीडेन कादम्बरीनिकटे प्रागुपस्थापितायाः पत्रलेखायाः कादम्बरीसन्देशं तद्दुरालम्भञ्च गृहीत्वा राजपुत्रान्तिके आगमनम्, अस्मिन्नेव स्थाने पूर्वभागस्य समाप्तिर्जाता। पुण्डरीकस्य शापवशाद्वारद्वयं चन्द्रमसः पृथिव्यां वारद्वयमुत्पत्तिर्भविष्यतीति कथासंयोजनाय चन्द्रापीडस्य हृदयस्फोटः, पुनस्तेनैव शरीरेण कादम्बरी-सम्मिलनम्, पुण्डरीकस्य वैशम्पायननाम्ना जन्मग्रहणम्, महाश्वेताशापेन शुकशरीरोपलब्धिः, तस्यैव शुकस्य शूद्रकसविधे गमनम्, चन्द्रापीडस्य शूद्रकनाम्ना पृथिव्यामुत्पत्तिः। शापविमुक्तौ च समेषां चन्द्रापीड-पुण्डरीकादीनां निजनिजमनोरथावाप्तिरिति समस्तोऽसमग्रखण्डितः कथाभागोऽयं पुलिनभट्टे-नैव संयोजित इति महदेव प्रज्ञावत्त्वं मयोजितुश्च्योतयति।
१. Dr. Sten's Catalogue of Sanskrit, Mss, at Jammu; P. 290
२. Professor S. R. Bhandarkar's report on the research for Mss. 1904-5, 1995-6.P-37.
२० प्रस्तावना
बाणग्रन्थाः
तत्रभवतो महाकवेर्बाणभट्टस्य लेखिन्यानेकग्रन्थरत्नानि समुद्भूतानि । येषु कतिपयरत्नान्येव साहित्यसूक्ष्मपर्यवेक्षूणां पुरतोऽवलोकनाय सम्प्राप्तानि । सूक्तिसङ्ग्रहेषु तथालङ्कारग्रन्थेषु च एतन्नाम्ना सुमनोहराणि बहूनि पद्यानि लोचनगोचरीभूतानि भवन्ति । क्षेमेन्द्रेणौचित्यविचारचर्चायां बाणकृतमेक-पद्यमुद्धृतम्, यत्कादम्बरीविरहावस्थावर्णने लिखितमिति प्रतीयते । तथाहि—
'हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥'
इह विप्रलम्भभरभग्नधैर्यायाः कादम्बर्या विरहव्यथावर्णना । एतेनेदमनुमातुं शक्यते यद्वाणेन पद्येऽपि कादम्बरीकथोल्लिखिता; किन्तु स च ग्रन्थोऽद्यापि क्वचिन्नोपलभ्यत इति तद्विदो जानन्त्येव । एतदतिरिक्तसूक्तिग्रन्थेषु बाणनाम्ना यानि पद्यानि मिलन्ति तेषामन्यत्रोपलम्भाभावेऽपि तेऽपि ग्रन्था-चासन्नित्यनुमातुं शक्यतेऽस्माभिः । अथास्य प्रसिद्धरचनायाः संक्षिप्तपरिचय इहोपस्थाप्यते—
(१) हर्षचरितम्
संस्कृतसाहित्ये चेदमतिप्राचीनमाख्यायिकारत्नमस्ति । अष्टोच्छ्वासेषु विभक्तञ्चैतत् । तत्राद्योच्छ्वा-सद्वये ग्रन्थकृतातिविस्तरेण स्वपरिचयो दत्तः, अनन्तरं शेषोच्छ्वासेषु महाराजहर्षवर्धनस्य जन्मप्रभृति वर्णनम् । प्रभाकरवर्धनस्यान्तिमक्षणानां दृश्यं करुणविषादाभ्यां परिपूर्णम्, हर्षो ह्येक ओजस्वी प्रजा-पालको वदान्यो भूपतिरित्थ्येवंरूपेण वर्णितः । ऐतिहासिकविषयमवलम्ब्य गद्यलेखने हि बाणस्यायं प्रथमः प्रयासः प्रतीतो भवति । एतद्ग्रन्थस्य तादृशी स्फीता भाषा न विद्यते यादृशी कादम्बर्याः। काव्यदृष्ट्या चात्रानेकानेकविशिष्टता समुल्लसति । बाणस्यालौकिकवर्णनाशक्तेः परिचयश्चेह सम्प्राप्तो भवति । प्राचीनसमये हि—
'ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् ।'
इत्यायुक्तदिशा समासबहुलमेव गद्यजीवितं मान्यमासीत् । साहित्यिकनियमानुसारैणेव गद्यका-व्यमिदं रचयामास कविः । ऐतिहासिकदृष्ट्या विचारणे चैतस्य महत्त्वमप्यधिकमेव विद्यते । इदानीन्तनो-पलभ्येतितहासग्रन्थैः शिलालेखैश्च कविवर्णितघटनायाः सत्यत्वं स्थापयन्ति भावुकाः ।
(२) कादम्बरी
इयं हि बाणभट्टस्य सर्वोत्कृष्टरचना । न केवलं वाणभट्टकृतिष्वेव सर्वोत्कृष्टा किन्तु समस्तसमु-पलब्धेषु गद्यकाव्येष्वपि । यथा चेयं तथा पुरस्तादेव प्रतिपादयिष्यते । नितरां प्रसिद्धतमाविमावेव कवि-ग्रन्थाविति धीधनाः प्रतिपादयन्ति ।
(३) चण्डीशतकम्
ओजस्विन्यां भाषायामेकशतस्रग्धरावृत्त्या निर्मितमतीव रमणीयं भगवत्याः स्तुतिरूपं नाटकम् । भगवत्याश्चण्डिकाया अनुरूपवर्ण पद-विन्यासस्याद्भुता योजना । इह चेदमप्याख्यानकं श्रूयते यन्मयूर-भट्टदत्तप्रतिशापनिवारणायैव श्लाघनीय-स्तुतिरूपमेनद् विरचयामास । भवान्याः प्रशस्तिप्रशंसापरकं शब्दशय्यातीव समुचितम, दर्शनीयशब्दसौन्दर्य सरस्वतीकण्ठाभरणे भोजराजेनोद्धृतमेकं तन्नायं पद्य-मिह प्रदर्श्यते—
'विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुवेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥'
(चण्डीशतकम् ६६)
प्रस्तावना २१
(४) पार्वतीपरिणयनाटकम्
शिवपार्वत्योर्वैवाहिकपवित्रकथया समन्वितमिदमतिरमणीयं नाटकम्। यस्य प्रस्तावनायाम्—
'अस्ति कविसार्वभौमो वत्सान्वयजलधिकौस्तुभो बाणः। नृत्यति यद्रसनायां वेधोमुखलासिका वाणी॥'
अस्य नाटकस्योपरि महाकविकालिदासकृतकुमारसम्भवस्याधिका छाया सम्पतितेति ऐतिहासिकानां मतम्। बहूनां विदुषामपीदमेव मतं यदेतत् कादम्बरीकर्त्तुर्बाणभट्टाद्भिन्न एवेति। यच्च बाणस्य नामोपलभ्यते तत्तु सप्तदशशताब्दयां विद्यमानस्य बाणभट्टनामधारिणः कस्यचिद्दाक्षिणात्यस्य कवेर्निर्मितमिति।
(५) मुकुटताडितकम्
चन्द्रपाल-गुणविजयगणिनामकजैनविद्वांसौ स्वनिर्मितनलचम्पूटीकायां बाणभट्टकृतमेतन्नामकं नाटकमिति निरूपयामासतुः। तथा हि तत्र— 'यदाह मुकुटताडितके बाणः—
'आशाः प्रोषितदिग्गजा इव गुहाः प्रध्वस्तसिंहा इव द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव। बिभ्राणाः क्षयकालरिक्तसकलत्रैलोक्यकल्पां दशां जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः॥'
बाणप्रशंसा
महाकविर्बाणभट्टो हि वाग्देव्या वरदपुत्र आसीत्। एतस्य सरस्वती सिद्धासीद्यथा भासादीनां महाकवीनाम्। तदुक्तं शार्ङ्गधरपद्धतौ—
'भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः। दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽपि ते॥'
गोवर्धनाचार्येण हि बाणभट्टो वाग्देव्याः साक्षादवतार एवेत्युक्तम्—
'जाता शिखण्डिनी प्राग् यथा शिखण्डी तथाऽवगच्छामि। प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति॥'
कस्यचिदन्यस्यालोचकस्य सम्मतौ बाणभट्टो गम्भीरधीर-कवितामिरूपिण्यां विन्ध्याटव्यां विहारकर्त्तुः कविकुञ्जरस्य गण्डस्थलविदारकः सिंह इति। तथाहि—
'श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने॥ आसर्वत्रगभीरधीरकविताविन्ध्याटवीचातुरीसञ्चारी कविकुंभिकुंभभिदुरो बाणस्तु पञ्चाननः॥'
धर्मदासेन 'विदग्धमुखमण्डन' नामकम्रन्थे हि बाणभट्टभारत्याः प्रशस्तिप्रशंसाऽतिरमणीयैः शब्दैः कृता। तथाहि—
'रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति। सा किं तरुणी ? नहि नहि वाणी बाणस्य मधुरशीलस्य॥'
केनचिदन्येन काव्यमर्मज्ञेन तु बाणाय वाणीफलं श्रीहर्षेण प्रभूतं धनं दत्तम्, किन्तु न तदद्य दृष्टिपथमवतरति, बाणेन तु यद्युक्तिनिकरैस्तच्चेतांसि स्थिरीकृतानि तानि कल्पक्षयेऽपि परिम्लानानि न भविष्यन्तीति तदभिप्रायः। तया चैतत्पद्यम्—
'श्रीहर्षो विततार गद्यकवये बाणाय वाणीफलम्।'
२२ प्रस्तावना
'हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि कवये वाणाय कुत्राद्य तत्।
या वाणेन तु तस्य सूक्तिनिकरैरुदृङ्किताः कीर्त्तय-
स्ताः कल्पप्रलयेऽपि यान्ति न मनाङ्लान्ये परिम्लानताम्॥'
अपि च राजशेखरेणोक्तम्—
'सहर्षचरिताख्याऽद्भुतकादम्बरीकथा। बाणस्य वाण्यनार्यैश्च स्वच्छन्दा भ्रमति क्षितौ।' इत्यादि।
काव्यशैली
प्रतिभाशालिनो दिगन्तविश्रुतकल्पनाशक्तिमतो बाणभट्टस्य काव्यशैली पाञ्चालीरीतिमनुसरति। तत्र हि शब्दगुम्फनमर्थस्यानुरूपमेव भवति। तथा सा सोऽर्थस्तदनुरूप एव सुकुमारवर्णविन्यासः। बाणक-वितायां ललितः पदविन्यासो रचनाशैली चातिरमणीया नव-नवार्थानां सुमनोहरः सन्निवेशोऽप्यस्ति, शब्दसम्पत्तिश्चातिप्रभूततमा समुल्लसति। अतएवैतत्कवितासमक्षेऽन्यकवीनां पदरचना केवलं चपलता-मेव सूचयति। तथा चात्रार्थे केनचिदालोचकेनोक्तम्—
'शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते।
शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि॥'
'हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्॥' इत्यादि।
अथ बाणकविताया इह परिचयस्तावन्निरूप्यते—
'कटु क्वणन्ती मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव॥'
(कादम्बरी, कथामुखम्)
'एकैकातिशयालयः परगुणज्ञानैकवैज्ञानिकाः
सन्त्येते धनिनः कलासु सकलास्वाचार्यचर्याचणाः।
अप्येते सुमनोगिरां निशमनाद् बिभ्यत्यहो श्लाघया
धूते मूर्धनि कुण्डले कपणतः क्षीणे भवेतामिति॥'
(सुभाषितावली)
साहित्यनियमानुसारी गद्यकाव्यस्य विकासोऽस्मादेकस्मादेव महाकविसकाशात्समजनीत्यत्र न मनागपि सन्देहलेशः। तत्र या हि सुबन्धुप्रणीता वासवदत्ता सा च 'प्रत्यक्षरश्लेषमयप्रबन्धम्' इत्येता-स्वप्रतिज्ञापूरकमेव नेतोऽधिकं किञ्चिदपि चमत्कारं पुष्णाति। सुभगरसमष्याः कवितायास्तत्र दर्शनमपि न भवति। प्रत्यक्षरं श्लेषातिरिक्ता नाभिनवार्थकल्पना कृता तेनेति कथं साहित्यनियमानुसारिणीयमिति वक्तुं शक्यामः, एतत्परीक्षणं पूर्वं कृतमेव। बाणभट्टात्परवर्तिनो 'दण्डिनः पदलालित्यम्' इत्यस्ति समुद्घोष-स्तथापि तत्कवितायां कादम्बरीव क चमत्कारः? प्रत्युत कादम्बरीसम्मुखे सेयमुक्तिः—'श्रोतुर्वितन्त्रीरिव ताड्यमाना' भवति। तत्रापि कथाकल्पनाबाहुल्यम्, वर्णने विशेषणानामनाधिक्यात्कथानिर्वाहसौकर्यम्, इत्याद्यस्ति गुण इति चेत? भवत्वेवं किन्तु पदलालित्यमादाय दण्डी चेद् बाणापेक्षयोत्कृष्यते तर्हि हन्त! निराश्रया परिसमाप्ता काव्यकथा। रचनामर्मवेदिभिः कथञ्चिदप्येतन्न मर्षणीयमित्यवगतमेव। परीक्ष्यतां तावत्—
'स्वर्लोकशिखरोरु रुचिररत्नकरवेलामेखलायितधरणीरमणीसौभाग्यभोगभाग्यवान्, शरदिन्दुकुन्दघनसारनीहारहारमृणालमरालसुरगजनीरक्षीरगिरिशाट्टहासकैलासकाशानी-काशमूर्त्या रचितदिगन्तरालपूर्त्या कीर्त्त्याऽभितः सुरभितः,...'राजहंसो नाम भूपो बभूव।'
(दशकु०)
उत्कलिकाप्रायगद्यमिदम्। एवंविधगद्यनिर्माणे सिद्धहस्तो बाणो नेति वक्तुं न शक्यते, यतो हि
प्रस्तावना
२३
मधुराक्षरैरेवोपनिबद्धा कथा सहृदयानां हृदि दृढतरं पदमादधातीति सहजा प्रवृत्तिः। बाणेन ह्यविस्मरण-पूर्वकमेवैतत्सर्वं सम्पादितम्। तद्यथा—
'द्वीपान्तरागतानेकभूमिपालमौलिमालालालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, ...... शूद्रकः प्रथमे वयसि सुखमतिचिरमुवास।
(कादम्बरी, कथामुखम्)
अनयोरुभयोरपि राजवर्णनानेरेषु माधुर्यस्य कियत्तारतम्यमिति सहृदया एव प्रमाणम्। अपि चावलोक्यताम्—यथा केवलमेकमपि पद्यं भवति कस्यचिद्रसस्य प्रकाशने समर्थं तयैवैकमात्रवाक्ययुक्त-गद्यमपि तत्प्रकाशने परिपोषने च भवति समर्थमिति नासाधारणम्, बाणभट्टस्यैव तादृशी प्रतिभा समुल्लसति यैतव्यत्कर्षमभिव्यञ्जयितुं समर्था। प्रथममालोक्यतां तावत्—
'अधुनापि यत्र जलधरसमये गम्भीरमभिनवजलधरनिवहनिनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शष्पकवलमजस्रमश्रुजल-लवलुलितदृष्टयो वीक्ष्य शून्या दश दिशो जरार्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः। (कादम्बरी पूर्वार्धम्)
अनेन कस्य सचेनसः कारुण्यार्द्रं हृदयं न भवति? इति विदितमेव समेषां पुरतः। 'जललवे'त्या-दिना 'दशदिशः' पर्यन्तं मृगाणां कीदृशं प्रत्यक्षे चित्रितं प्रगयदैन्यम्। एवञ्च सति सत्यमेव महाकवि-र्बाणभट्ट एव संस्कृतगद्यकाव्यस्य परमप्रवीणो लेखकोऽद्वितीयः कविश्चेति समुद्घोषः प्रथित इति सुखेन वक्तुं शक्यतेऽस्माभिरिति।
बाणस्य कविता रसभाववती—'रुचिरस्वरवर्णपदा रमभाववती' इति पूर्वोक्तधर्मतात्पर्येण यद्वव-गतं तत्कादम्बर्यां महाश्वेताया वर्णने करुणविप्रलम्भस्य तथा कादम्बर्याश्चित्रणे सम्भोगशृङ्गारस्य वैभवेन प्रदर्शितं भवेत्येवेति सुधीभिराकलनीयम्। एतत्कविता हि मौक्तिकायांनां निधिः, न चात्रार्थानां पिष्टपेषणं क्वचिदप्यवलोक्यते सर्वत्रैव त्वभिनवार्थ्याः समुल्लसन्ति। गद्यकाव्येष्वेव न मूर्धन्यतमः, किन्तु महाकवीनां चूढामणिरिति सर्वैरेव सहर्षं मन्यते।
अत एव सोड्ढलोक्तिरपि सर्वथा संगच्छते—
'वागीश्वरं हन्त ! भजेऽभिनन्दमर्थेश्वरं वाक्पतिराजमीडे। रसेश्वरं स्तौमि च कालिदासं वाणं तु सर्वेश्वरमानतोऽस्मि ॥' इति।
कादम्बरी
महाकविबाणभट्टस्य सर्वश्रेष्ठा रचनेयम्। अस्याः खण्डद्वयम्—पूर्वार्धमुत्तरार्धञ्च। तत्र पूर्वार्धं तु समस्तग्रन्थस्य द्विभागादप्यधिकम्, एतावत्पर्यन्तं बाणकृतिः। अस्याः समस्तोत्तराधंञ्च केवलं तृतीयांशो विद्यते, एतच्च परलोकं गते पितरि पुलिन्दभट्टेनैव निर्मितम्। इयं च कादम्बरी समस्तसंस्कृतगद्य-साहित्यस्य समुज्ज्वलं हीरकं विद्यते। तथाहि ग्रन्थेऽस्मिन् भाषाभावयोरेवं शब्दार्थयोश्च समुचितः समावेशो दृश्यते। वर्णन सौन्दर्य तु कीदृशमिति निरीक्ष्यतां तावत्-यदि क्वचिद् विन्ध्याचलविकटाटव्या वर्णनं तथा साह्रसप्रेमवतः शबरसैन्यस्य रोमाञ्चकारिवर्णनं रञ्जयति चित्तम्, तर्हि क्वचित् धर्मस्य साक्षा-न्मूर्त्तेः, सदयंतायाः परमावतारस्य, आध्यात्मिकतानाया ज्वलन्निदर्शनस्य जाबालिमहामुनेः स्वरूपनिरू-पणम्, तया नस्य परमपावनीभूतमनीरामाश्रमस्य शुभगन्भोभा च प्रेक्षकाणां चेतांस्याकर्षयतीति। क्वापि यदि बाल्यकाले गन्धर्वक्रोडे विहरन्त्याः कलापिया वीणाया इव मधुरावादिन्याः स्निग्धहृदयाया महाश्वेताया विरहविधुरा मूर्त्तिः समामादयति प्रमोदातिशयम्, तर्हि क्वाप्यलोकसामान्यसौन्दर्यमजुमवन्या गन्धर्वराजकन्यायाः सरसहृदयायाः कमनीयकलेवरायाः कादम्बर्याः प्रेममयी कथा श्रोतॄणां चित्तचञ्चरीकं स्वानिमुखमाकर्षयतीति।
अत्रत्यलघुकलेवरप्रासादिकवाक्यानां शोभा दिङ्मात्रमुदाह्रियते—
'धैर्यधना हि साधवः। किं यः कश्चित्प्राकृत इव विक्लवीभवन्तमात्मानं न रुणत्सि । कुतस्तवापूर्वोऽयमयेन्द्रियोपप्लवो येनास्त्येवं कृतः। क ते तद्धैर्यम्, क्वासौविन्द्रियजयः।
२४ प्रस्तावना
···निरुपकारकारको गुरूपदेशविवेकः। निष्प्रयोजना प्रबुद्धता निष्कारणं ज्ञानम्, यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते प्रमादैश्चाभिभूयन्ते। इत्यादि (कादम्बरी पूर्वार्ध)
अत्र सर्वत्रैव चालङ्काराणां मधुरझङ्काराः श्रोतॄणाममन्दमानन्दं जनयन्तीति न तिरोहितं केषाञ्चिदपि विपश्चिताम्। अपि च रागात्मिकायावृत्तेः सूमर्गव्यञ्जना सहृदयहृदयं विकासयति। परमार्थतस्तु रसालङ्कारयोर्मधुरमेलने भाषाभावयोः परस्परसंपर्के कल्पनावर्णनयोरनुरूपसङ्घटने संस्कृतसाहित्ये प्राचीनावर्चीनसर्वकथातिशायिनी कादम्बरी चानुपमाद्वितीयावेति निर्विवादमेतत्। रसिकहृदयानां मदमत्तताविधायिनी सुमधुरा कादम्बरी मदिरेति विभावयन्ति सहृदयाः। अतएवैतदुत्तरार्धं प्रणेतृभूषण (पुलिन्द) भट्टस्योक्तिश्चरितार्था भवति—
'कादम्बरीरसभरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम्॥'
किं वक्तव्यं विशेषतः, यतो हि हृदयग्राहिण्या उपमायाः, चमत्कारिणः श्लेषस्य, सुन्दरपरिसंख्यायाश्चाधिक्येन विलक्षणसमावेशाद् भव्यार्थस्यातीव कमनीयत्वं यत्र तत्र न समुपलभ्यते। यः कोऽपि काव्यं कर्तुं चिकीर्षेत् स ह्येतत्प्रदर्शितालंङ्काराद्युच्छिष्टमेव भवेन्न तु कदाचिदपि तत उत्कृष्टमत एव सर्वत्र प्रथितिरियम्—'बाणोच्छिष्टं जगत्सर्वम्' इति।
सत्यम्, यथार्थतस्त एव कवयो भवितुमर्हन्ति ये खलु संसारस्य विविधामनुभवं प्राप्य तन्मार्मिकपक्षग्रहणे समर्था भवन्ति। अस्याञ्च निकषायां कषणे बाणभट्टकविर्नैव निकषोपलगृष्टसुवर्णमिव विशुद्धाऽवतरति। नानात्मकं लोकवृत्तज्ञानं तु कवेरासीदेव, किन्तु तस्य यथार्थताऽपि निरतिशया चमत्कारिण्येव। अवलोकयन्तु तावत् प्रथमं यदि महाकविरायं क्वापि सुखसमृद्धेस्तथा भोगविलासस्य च जीवनं चित्रयितुमनुरक्तो दृष्टिपथेऽवतरति, तर्हि क्वाप्ययं तापसजीवनस्य मार्मिकामभिव्यञ्जनायां निरतोऽवलोक्यते। वस्तुतस्त्विदमेव तथ्यं यद्वाणभट्टस्यानुभवो नितरां विस्तृतो विविधरतया यथार्थस्तद्वलेनैवायं प्रतिपद्येऽतिरमणीयं सुधोपमं गद्यकाव्यं निर्मितवान्।
इह च धनपालस्य कीदृशमतिमनोहरपद्यम्—
'कादम्बरी-सहोदर्या सुधया वैणवे हृदि।
हर्षख्यायिकया ख्यातिं बाणोऽन्धिरिव लब्धवान्॥'
शृङ्गाररसप्रधाना हि कादम्बर्याः कथा। करुणाद्भुतवीरा अङ्गभावेन बीभत्सशान्तादयश्च क्वचिदाभासमात्रेणोन्मिषन्ति। अत्र च निर्दोषपवित्रशृङ्गारस्य वर्णनम्। अस्यां रचनायां कविरयमोजोगुणस्य चरमसीमां सम्प्रापत्। प्रायःश्लेषादयोऽलङ्कारा वर्त्तन्त एवाधिक्यस्थलेषु। दीर्घवर्णनासु बहूनि तादृशानि पदानि सन्ति यदि तेषां साधारणाथांनां ग्रहणं भवेत्तदा तेषां कश्चिदर्थ एव न स्पष्टीभविष्यति। दीर्घसमासानां प्रयोगः प्रायः प्रत्येकपृष्ठे समुपलब्धो भवति। क्वचित्क्वचित् क्रियास्तु पञ्चषपृष्ठानन्तरमेव दृग्गोचरीभवन्ति। मध्ये चातिकठिनवाक्यानि प्रपूरितानि सन्ति। एषु लालित्यस्य सद्भावेपि जटिलतावश्यमापतिता। महाकविनानेनैव राजभवनवर्णनायामुत्तमगद्यकाव्यस्य लक्षणमभ्यधायि—'उत्कृष्टकविगद्यमिव विविधवर्णश्रेणीप्रतिपाद्यमानाननेकाभिनयार्थसञ्जयन्' इति। स्वकीयरचनायामप्येतन्नियमस्य सार्थक्यं सपरिश्रमं प्रदर्शितम्।
'नवॊऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटा रसः।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम्॥'
इति स्वरचितहर्षचरितप्रस्तावनास्थनियमस्यापि—
'स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम्।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव॥
हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः।
निरन्तरश्लेषघनाः सुजातयो महास्रजश्चम्पककुद्मलैरिव॥'
इति कादम्बर्युपोद्घाते प्रदर्शनेनात्यधिकं स्वरचनासाफल्यं प्रकटितम्। सेयं सकलजनहृदयानन्ददायिनी, रुचिरस्वरवर्णपदवाहिनी, विविधरसभावभासिनी सकलजनमनोहारिणी कादम्बरीति सहर्षं सर्वे संस्कृतविशेषज्ञा मन्यन्ते। अस्याः कथानकबद्धातिजटिलम्। एकैकस्याभ्यन्तरेऽन्याः कथाः प्रविष्टाः
प्रस्तावना
सन्ति, किन्तु कथानकानामुद्घाटनाय प्रत्येककथायाः समधिकावश्यकता वरीवर्त्ति। कथानकानां यथा क्रमं विकासं विधाय वस्तुसङ्घटनायां कविना स्वकीयमनुपमं चातुर्य्यं प्रकटितम्। कथाया अर्धमध्ये संप्राप्त्यापीदमनवगतमेव तिष्ठति यदस्याः क्रान्तोऽर्द्धान्ते। इदमेव हि कथायां समधिकं महत्त्वम्। समग्रा कथा शुकद्वारा निरूपितास्ति, यः खलु परमार्थतः पुण्डरीक इति नाम्ना प्रसिद्धः, तथा चास्याः कथाया उपनायको विद्यते। प्रारम्भे सम्भवतः कस्यचन विचारवीथिकायामागतो भवेद् यत् शूद्रको राजा तन्मन्त्री शुकश्च स्वस्य द्वितीये तृतीये वा जन्मनि अस्याः कथाया नायकोपनायकौ स्तः, कादम्बरी-महाश्वेते च नायिकोपनायिके स्त इति, किन्तु ग्रन्थस्यार्धभागममाप्तिपर्यन्तं तु नायिकाया नामापि न श्रूयते। कथायाङ्गस्यामेतस्यावगाहो न मिलति यदग्रे किं किं भविष्यति तथा केन प्रकारेणैतस्य समाप्ति-र्भविष्यति। एतेन पाठकानां कुतूहलमनवरतमेव जागृतं तिष्ठति, एवमत्यन्तरमणीयालौकिकानन्ददाय-कानां विषयाणां वर्णनतया चोत्साहस्य शैथिल्यं न जायते।
महाकवेः कल्पितकथाया लेखन एवोद्देश्यमासीत्। तस्य हि काल्पनिककथा सांसारिकयथार्थता-दृष्ट्या विचार्यमाणेऽनुचितं न भविष्यति। कादम्बर्य्याः सर्वाणि पात्राणि कल्पितानि सन्ति, किन्तु कविना तयाविवचानुयोगैतच्चरित्रविकासः कृतः यत् पाठकास्तत्सुखदुःखेषु तन्मयीभूय स्वमपि विस्म-रन्ति तथा तेषां पात्रकाल्पनिकतया ध्यानमेव न तिष्ठति।
चरित्रचित्रणे बाणभट्टेन हि स्वबुद्धेरद्भुतश्चमत्कारः प्रदर्शितः। कादम्बर्य्याः सर्वाणि चित्राणि सञ्जी-कृतानि सन्ति, तथा तेषां किञ्चिदपि कर्म तेषां स्थितेविरुद्धं नास्ति। नायिकायाश्चित्रणे कविना किञ्चिदपि कर्त्तुं नावशिष्टे स्थापितम्। अस्यां हि तेन स्वसूक्ष्मदर्शितायां मानसिककल्पनायाश्च समग्रसम्पत्तेरुप-योगो विहितः। मनुष्यजीवनस्थितेर्हि समस्तरूपाणां वर्णनमत्यधिकपर्यालोचनया कृतम्। महाश्वेतायाः प्रेम तत्क्लेशकथाञ्च कथयित्वा तेन हि कादम्बर्या दशाः श्रोतुं पाठका उत्कण्ठीकृताः। हारीतमुनेर्महातु-भावता तारापीडस्य परोपकारशीलता विलासवत्याः प्रेमालुता, शुकनासस्य विश्वसनीयता, कपिञ्जलस्य मित्रवत्सलता, महाश्वेतायाः शारीरिकमानसिकपवित्रता, पत्रलेखायाः स्वामिभक्तिः पाठकानां हृदयेष्व-
**२. प्रसङ्गात् पत्रलेखायाः कीदृशः सम्बन्धश्चन्द्रापीडेनेत्यादि विचार्यते—**अस्मिन्नाख्याने पत्रलेखा याहृ-शेन सुकोमलेन सम्बन्धेनावद्धा नैतादृशी दृष्टान्तर कुत्रचिदपि साहित्ये पात्रस्थितिः, सत्यञ्चेद्वं कविरतिलीलया सरलेन चेतसा ईदृशमपूर्वं सम्बन्धबन्धनमवातारयत्। न काप्यस्य तन्तोः स्वल्पमपि संवृत्तं तादृशमाकर्षणं येन क्षणमपि तस्य च्छेदशङ्का जायेत। युवराजश्चन्द्रापीड़ो यदाध्ययनं समाप्य प्रासादं प्रत्यावृत्तः, तदानीं कस्मिंश्चिदहनि प्रभातसमये कैलासो नाम कश्चित् कञ्चुकी तद्गृहं प्रविष्टः।
आसीत् किल तदा तस्यात् काचिदनतिर्यौवना कन्यका। अस्या थिरनीन्द्रगोपकीटवत् रक्ताम्बरेनाव-गुण्ठनम्, ललाटे चन्दनतिलकः मध्ये च कनकमेखला। सेयं तरुणी लावण्यप्रभाप्रभावेण परिपूर्यं सकलभवनम्, क्वणितमणिन्पूराकलित्रेन चरणेन कञ्चुकिनमन्वगच्छत्।
स हि कञ्चुकी चन्द्रापीडं प्रणम्य क्षितितलनिहितदक्षिणकरो व्यजिज्ञपद्—'कुमार ! भवतो माता महादेवी विलासवती विज्ञापयति-‘कन्येयं पराजितस्य कुलूतेश्वरस्य दुहिता बन्दीभूता, अस्या नाम पत्रलेखा। तामेनां राजकन्यामिवैन्तं कालं दुहितृनिर्विशेपेणाहमपालयम्। साम्प्रतम्येषा तव ताम्बूलकरङ्कवाहिनी भवत्विति प्रहिणोमि। नेयं साधारणपरिज्नवदवमन्तव्या, अपि तु बालिकेव लालनीया, स्वचित्तवृत्तिरिव निगरणीया चादरात्, शिष्येव दर्श-नीया, सुहृदिव च निखिलेषु विरम्भव्यापारेष्वभ्यन्तरीकरणीया। किन्न तादृशेषु कर्मसु इय कल्याणी नियोजनीया, यदेयं नवानिचिरपरिचारिका भवेदिति।' एवं कथयति कैलासे पत्रलेखा तं समुचितं प्राणंसीव, सोऽपि चन्द्रापीडो निर्निमेषेन लोचनेन तां सुचिरं निरीक्ष्यावादीत्—'यथाम्बा ज्ञापयति !' इत्युक्त्वा तं दूनं प्रतिनिवर्त्तयामास।
सेयं पत्रलेखा न खलु पत्नी, न वा प्रणयिनी, नापि किङ्करी, अपि तु पुरुषस्य सहचरी। सोऽयमनपूर्वो भावसमुद्रयोर्मध्यवर्ती सैकतवद इव कथमिवार्य सम्बन्धो रक्षेत ? तरुणयोरन्योम्यं प्रति यद्विदं नवयौवनस्य चिरन्तनं प्रवलमाकर्षणं, तत्खल्यमनयोरपि संक्षीर्णं सेतुमिव किमिति सर्वथा न क्षिणोति न वा लङ्घयति।
सा किल पुरुषस्य हृदयपार्थे जागृतवती न त्यर्पितवती पदं तस्य मध्ये। न जातु अनाँकनागतेऽपि वसन्त-समीरणे स्वकीयदवॅनिकायाः प्रान्तोऽपि व्यचलत्। कविः किल कथयति—तस्मात् प्रथमदिनादारम्य चन्द्रापीडस्य दर्शनमात्रेणैव समुपजातसेवारसा पत्रलेखा दिवा वा दोष वा अविगणय्य उत्थानक्रमणादिपुच्छाययेव राजपुत्रस्य पार्श्वे-
४ का० भू०
२६ प्रस्तावना
ङ्किता भवति । शुकनासेन हि चन्द्रापीडाय याः शिक्षाः प्रदत्ताः तासां रचनायान्तु कविः स्वलेखनीमव्याहतरूपेण प्रावर्त्तयत्। तास्तथाविधा रहस्यपूर्णस्तथा मार्मिकाः सन्ति या मन्ये प्रत्येकदेशस्यप्रत्येकराजहिताय सर्वथैवोपयोगिन्यो भविष्यन्ति।
प्रकृतिनिरीक्षणम्
कादम्बर्याः प्रकृतिवर्णनमतीव सुन्दरं सजीवं च सञ्जातम्। केचन महाकवयो यदि प्रकृतेर्मङ्गल-रूपस्य चित्रण एव चतुरा अवलोक्यन्ते तर्हि केचन महाकवयः प्रकृतेर्भयावहस्य तथा रोमाञ्चकारिणः स्वरूपस्य वर्णने कृतकार्याः प्रतीयन्ते, परन्तु महाकवेर्बाणभट्टस्य भूयसीमेव विशेषता वर्त्तते यत्तस्य लेखनी समभावेन मधुरभयावहोभट्टविधदृश्यवर्णने पूर्णं साफल्यमुपगतवती। एतद्दृश्यस्वरूपहृदयङ्गमविधानाय महाकविर्विविधालङ्काराणां साहाय्यं गृहीतवान्। उपमोत्प्रेक्षा-परिसंख्याविरोधाभासालङ्काराणां स्तूपानैव स्थापयित्वा कविरथं पाठकानां पुरतः स्ववर्ण्यविषयस्य मञ्जुलाभिव्यञ्जनं कृतवान्। विन्ध्याटव्या भीषणरूपस्य चित्रणं कविर्यदृशेन साफल्येन कृतवान् तद्धि महादाश्चर्यं जनयति।
तथाहि—
'गिरितनयेव स्थाणुसङ्गता मृगपतिसेविता च, जानकीव प्रसूतकुशलचा निशाचरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरानुरुतिलकभूषिता च, सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च।'
(कादम्बरी-कथामुखम्-५७ पृ. )
महर्षिजावालेराश्रमस्य कीदृशं सात्विकं मनोरममतिहृद्यं वर्णनम् ?, यस्य पठनेन कस्य सचेतसः पुरुषस्य चित्तं तपोवनभन्यमूर्त्या प्रभावितं न भवति ? ।
तथाहि—
'यत्र च भारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयःपरिणामे द्विजपतनम्, उपवनचन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतश्रवणव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गमानां भोगः, श्रीफलाभिलापः मूलानामधोगतिः॥'
(कादम्बरी कथामुखम्-१२४, १२५ पृ. )
न पर्यत्यजत्। चन्द्रापीडस्यापि ततःप्रभृति तस्या प्रतिक्षणमुपचीयमाना महती प्रीतिरजायत। स्थितस्तस्यामत्य प्रतिदिनं प्रसादः। कृता चासौ सर्वत्रैव विस्रम्भव्यापारेष्वभिन्ना सहृदयता। सोऽयमपूर्वः सम्बन्धः सुभयुरथ। चन्द्रापीडेन सार्ध पत्रलेखाया नैकट्यमसामान्यं दिग्विजययात्रायामेकस्मिन्नेव गजपृष्ठे पत्रलेखा चन्द्रापीडेन सार्धमासनमधितिष्ठति। निशायां शिविरस्थचन्द्रापीडः यदा अनतिदूरशयाननिपुणेन वैशम्पायनेन सह सलपति, तदा, सन्निधौ क्षितितलविन्यस्तकुशोपपरि प्रस्वपिति पत्रलेखा। यदा कादम्बर्या हृदये महामहोत्सवसमारम्भः सत्रिकृष्टस्तदा पत्रलेखायास्तस्मादतिशुद्रादधिकारादपसारणं नावश्यकममन्यत लोकः। पत्रलेखां प्रति कादम्बर्या नारोजनसुलभो नासीदीषदपि द्वेषः। चन्द्रापीडेन पत्रलेखायाः सम्बन्ध इति हि सा प्रियसखीति कादम्बर्या परमाद्रियत।
कादम्बरीकाव्ये पत्रलेखा यद्भूखण्डमधिकृतवती, न तत्र द्वेषसन्देहादीनां सद्भावः। तत्स्थानं स्वर्गवन्निष्कण्टकम्, परन्तु क नु खलु तन्नाम्नून्बिन्दुः चलति तस्याः पुरतः एव प्रवलं प्रणयामृतपानन्। किन्तु कदाचित् एतद्ग्राहेनास्या एकस्यामपि शिरायानेकोऽपि रक्तबिन्दुर्न् चाञ्चल्यमापेदे। अपि ता चन्द्रापीडस्य च्छायेवानुवर्तिनी, तथापि राजपुत्रस्य तप्ततारुण्येष्वदपि तापस्तां कदाचिन्नास्पृशत्।
यदा पत्रलेखा कति कालान् कादम्बर्या सहावस्थाय तद्वर्त्तया प्रत्यावृत्ता, एवमपि यदा ललितम्मितेन दूरत एव प्रीतिरासं प्रकाशयन्ती चन्द्रापीडं प्राणमत्, तदा सा प्रकृतिनह्वमापि कादम्बर्याः प्रसादलव्धं सौभाग्यमिव वह्नमतरताममच्छत्। युवराजश्चादरातिशयं प्रदर्शयन्नासनादुत्थाय तामालिङ्गत्। तस्माद्वाङ्मनसयोरगोचरोऽपूर्वे एवानयोः संवन्ध इत्यवगम्यदे। परमार्थिकरूपे दिव्यं रोहिणीति कादम्बरी-प्रश्नोत्तरे चन्द्रापीडः स्वयमेवोक्तवान्। अतो युक्त एवानयोः सहवास इत्यवधेयम्। इनोधिकजिज्ञासुभिः प्रबन्धकल्पलतिकादाववलोकनीयम्।
प्रस्तावना २७
तपोवनस्य वर्णने यावन्तः प्रभावोत्पादकविषया अपेक्षितास्तावतामेकत्र वर्णनं विधाय कविः स्वयमस्माकं समवेऽनीवानुपमं दृश्यं प्रस्तुतवान्। अस्माभिस्तादृशं कथमपि लक्षितुं न शक्यते यत्र कविराश्रमस्थवृद्धान्धतापसानां परिचितवानरद्वारेण यष्टिमवलम्ब्याभ्यन्तरे आगमनस्य वहिर्गमनस्य च वर्णनं कृतवान्।
तथाहि—
'परिचित शाखामृग-कराकृष्टयष्टि-निष्काश्यमान-प्रवेश्यमान-जरदन्धतापसम्।'
(कादम्बरी कथामुखम्-११८ पृ.)
ऋतूनां चित्रणमपि नितान्तमार्मिकतया कृतवान्। प्रभातचन्द्रयोरन्धकारचन्द्रोदयोस्तथान्येषां प्रकृतिविविधदृश्यानां वर्णनमत्यधिकसहृदयतया तथा यथार्थतया सहाङ्कितवान् कविः।
प्रेमवर्णनम्
महाकविना यादृशप्रणयस्येयं मनोरमा कथा प्रस्तुता, प्रणयोऽपि वाह्यचाकचिक्येनोरपन्नरुपे-च्छ्छाया उपरि केवलमनुरक्तिमेव न प्रकटयति, प्रत्युत स द्वयोः सहृदययोरन्तरस्तलस्य परस्परबन्धन-विधायकोऽनेकजन्मपर्यन्तं स्वस्याभिव्यक्तिकारकोऽलौकिकानन्दोत्पादको विकारोऽस्ति। कादम्बर्य्याः प्रणयलीला हि केवलमेकजन्मत एव सम्बन्धं न स्थापयति, किन्तु स जन्मत्रयस्य परिवर्त्तने जातेऽप्यनेक-माधुर्य्यं कथञ्चारमपि हासानुभवं नोपस्थापयति। वरं शरीरस्य परिवर्त्तनं भवतु, कर्मवशेन प्राणिनो विविधयोनिषु वरं परिभ्रमन्तु किन्तु तेषां हृत्प्रेम सर्वदैव तदनुगमनं करोति। अस्याः कथेव ह्येतन्म-हत्तत्त्वस्य सत्यतामस्मान् प्रति यथार्थतः प्रतिपादयति।
शैली
गद्यकवीनां कृते वाणभट्टस्य शैली चादर्शभूता। अयं हि महाकविः प्रभावशालिगद्यस्य लेखने निता-न्तप्रवीण इति सहृदयानां भावः। ये केचनालोचकाः वागगद्यं भारतीयसघनविपिनमिव भयावहं हिमकणशुमिवाप्रसिद्धं तथा कठिनशब्दैर्मण्डितमिति प्रतिपादयन्ति, ते खलु सत्यमेव यथार्थतायाः सुदूरे विद्यन्ते। चित्रणस्य सजीवतायै तथा प्रभावशालिताया उत्पत्तये महाकविना स्थाने स्थाने ओजोगुण-मण्डितायाः समासबहुलायाः शैल्या ह्याश्रयगमवश्यं गृहीतम्, किन्तु यत्र तत्र लघुवाक्यानां प्रयोगं विधाय तेन हि सशक्ता प्रभावोत्पादिका स्वशैली प्रदर्शिता। कयाचिदेक्या शैल्या क्रीतदासस्तु न भवति कविः। स हि विषयानुमारेण स्वकीयां शैलीं परिवर्त्तितां करोति। येन महाकविना अटव्याः सन्ध्यायाश्च वर्णने दीर्घसमासानां छटा प्रदर्शिता, तेनैव विरहवर्णनावसरे लघुकलेवरप्रामादिकवाक्यानां शोभा प्रस्तुतीकृता। कपिङ्गलद्वारा विहिता या पुण्डरीकमत्स॑ना सा कियती प्रभावशालिनी ?
तथाहि—
'यदेतदारब्धं भवता किमिदं गुरुभिरुपदिष्टम्, उत धर्मशास्त्रेषु पठितम्, उत धर्मा-र्जनोपायोऽयम् ॰॰॰॰॰॰ का वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः ? स खलु धर्मबुद्ध्या विषलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागुरुधूमलेभेति कृष्णसर्पमवगाहते रत्नमिति ज्वलन्तमङ्गारमभिमृशति, मृणालमिति दुष्टवारणदन्तमुपमूलन्मूलयति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोप-यति। अविगतविषमतत्त्वोऽपि कस्मात् खद्योत इव ज्योतिर्निर्वैर्य्यमिदं ज्ञानमुद्वहसि, यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियम-यसि वा क्षुभितं मनः। कोऽयमनङ्गो नाम धैर्य्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः।' इति
(कादम्बरी-पूर्वार्धकथा ४५९, ४६० पृ०)
| २८ | प्रस्तावना |
|---|
परमार्थतस्त्विदमेव प्रतीयते यद् बाणगद्येषु सूक्ष्मनिरीक्षणशक्तिः चमत्कारकृतवर्णनप्रणाली, लक्ष्य-शब्दराशिस्तथा कल्पनाप्रसूतालौकिकार्थानामुद्भावना विशेषरूपेणोपलब्धा भवतीति । एतन्महानुभाव-गद्ये चैतादृशः प्रभावस्तथा प्रवाहो विद्यते यत्तदनुकरणकर्त्तृकविद्वारा भूरिशः कृतेऽपि गरीयसि प्रयत्ने तद्गद्ये तादृशश्चमत्कारो नोत्पन्नः । अत एव ह्येतद्रसभावायुक्तायाः कवितायाः समक्षेऽन्यकवीनां रचना केवलं चापल्यमेव जनयतीति त्रिलोचनकवेः स्पष्टं समुद्घोषः—
'हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः ।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥'
सामाजिकी स्थितिः
कादम्बर्यां वेशविन्यासो विचित्र एव लभ्यते । अत्र भूपतेः शूद्रकस्य वर्णनेनावगम्यते यद् राजापि केवलं विसंस्थुलप्रायं शुभ्रवस्त्रं मूर्ध्नि वेष्टयति । अङ्गे च केवलमुत्तरीयं स्कन्धयोर्धारयति । यतो ह्यङ्गरागः शरीरे विलिप्यमानः स्पष्टं प्रतीयते । समस्तानामेव पात्राणां वर्णनेऽङ्गरागस्याल्पाधिक्यम्, वसनस्य च वैरल्प्यम् । कादम्बरीप्रेषितः केयूरकाभिधानो वीणावाहकः केवलमधोवस्त्रमेव धारयति नोत्तरीयमपि ।... 'अधरवास एव केवलं वसानेन' इत्यनेन (कादम्बरी-पूर्वार्धम् )
वेशविन्यासादिषु वैचित्र्येऽपि भूयस्यः सामाजिकप्रथा इदानीन्तन इव तदानीमप्यासन् । होलिकायां विविधोपद्रवाः विरूपरूपक (स्वाँग) निःसरणादिप्रथा यथा वर्त्तमानकाले तथा बाणकालेऽप्यासीदिति चित्रम् ।
द्रविड़धार्मिकपरिचये यथा—
'सर्वदा वसन्तक्रीडिनाजनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन ।
(कादम्बरी-पूर्वार्धम्-६४५ पृ० )
एवमादयस्तत्सामयिक्यो बह्वयो घटनाः संसूचिता ह्यस्मिन् ग्रन्थे, यासामनुसन्धानेनाधिकतरमैतिहासिकं सामाजिकं च तथ्यमवगतं भवति । परन्तु प्रस्तावनायां निरतिशयो विस्तरः स्यादिति वर्णिका ('बानगी') मात्रमिहोपन्यस्तमिति सुधीभिराकलनीयम् ।
नायकादिनिरूपणम्
इह हि अनुकूलो धीरोदात्तश्चन्द्रापीड़ो नायकः । तथा च लक्षणम्—
'अनुकूल एकनिरतः ।'
'अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥' (सा० द० ३ प०)
नायिका कन्या (परकीया) मुग्धा कादम्बरी । यथा—
'कन्या त्वजातोपयमा सलज्जा नवयौवना ।'
'परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ॥'
'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥' (सा० द० ३ प०)
प्रस्तावना
२९
परिणयानन्तरं स्वकीया मध्यापि च नायिका, किन्तु ( उत्तरार्द्धे ) तत्प्रसङ्गोऽप्यल्प एव । एतावेव नायिकानायकावालम्बनविभावौ । इन्दु-चन्दनान्योऽन्योक्त्यादय उद्दीपनविभावाः, परस्परचक्षुरादि-क्रिया अनुभावाः, निर्वेदप्रभृतयो व्यभिचारिभावाः, रतिः स्थायी ।
विप्रलम्भशृङ्गारो मुख्योऽङ्गी रसः । तत्र पूर्वार्धे, उत्तरार्धस्य कियदंशे च पूर्वरागाभिधः । उत्तरार्ध-शेषे तु करुणविप्रलम्भाभिधः । सम्भोगशृङ्गारोऽप्यस्ति रसः, किन्तु परिणयानन्तरं केवलं तस्य सूचनमेव । एषां साहित्यदर्पण ३ परिच्छेदगतलक्षणानि यथा—
‘आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात् ।’ ‘उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये । आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ॥’ ‘उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन् । लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥’ ‘विशेषादाभिमुख्येन चरणाद् व्यभिचारिणः । स्थायिन्युन्मग्ननिर्मग्नाः..........................।’ ‘रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम् ।’ ‘यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।’ ‘श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥’ ‘यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये । विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः ॥’
अङ्गतया हास्यादयोऽन्येऽपि रसाः सन्ति ।
आधिक्येनात्र माधुर्यं गुणः । यथा—
‘चित्तद्रवीभावमयो ह्लादो माधुर्यमुच्यते । सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥’
प्रसादगुणोऽप्यधिकस्थले । रीतिरत्र पाञ्चाली बाहुल्येन । यथा—
‘...............................वर्णैः शेषैः पुनर्द्वयो ।’
( वैदर्भोगौडीययोः परिगृहीतेभ्यो वर्णेभ्यः शेषैरित्यभिप्रायः ) ।
‘समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ।’
अन्या अपि रीतयोऽल्पाधिकभावेन यथास्थानमुपलक्ष्यन्ते, किन्तु मुख्यं ताः । गद्यस्वरूपादिकं तु पूर्वमेव विवेचितं १, २ पृष्ठप्रस्तावनायाम् ।
एतेषां यथासम्भवमेकत्र सौकर्याय श्लोकसंग्रहो यथा—
‘चन्द्रापीडोऽनुकूलः सकलगुणधरो नायकोऽस्मिन्नुदात्तो- नेत्री कन्याऽन्यदीया मृदुललिततनुर्मुग्धकादम्बरी च । पाञ्चाली नाम रीतिर्विलसति बहुला विप्रलम्भो रसोऽङ्गी माधुर्याख्यो गुणो वा कविमुकुटमणेः काव्ययोरन्त्यमेतत्’ ॥^१
१. सन्दर्भोंऽयं महामहोपाध्याय-हरिदाससिद्धान्तवागीशभट्टाचार्यटीकाभूमिकाया उद्धृतः ।