कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
१६२ | कादम्बरी- | [ कथामुखे-
आस्तीकतनुरिव आनन्दित-भुजङ्गलोका, हरिवंशकथेव अनेकबाल-क्रीडा-रमणीया, प्रकटाङ्गोपभोगाप्यखण्डित-चरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बित-मुक्ता-कलापापि विहारभूषणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोक द्युतिरवन्तीपूज्जयिनी नाम नगरी।
कारितः हिरण्याक्षाणां सुवर्णरचितपाशकानां पातो निक्षेपो यत्र सा, पक्षान्तरे-दर्शितः हिरण्याक्षस्य तन्नामकदैत्यस्य हिरण्यकशिपुभ्रातुः पातो नाशो यया सा तादृशी।
पुरा किल हिरण्याक्षो महत्तपो विधाय तेन प्राप्तबलो जगति महान्तमुपद्रवं कृतवान्। ततो देवादिभिः प्रार्थितो भगवान्नारायणो वराहविग्रहं परिगृह्य भुवनमुत्तोस्य, मनन्तर पर्वतकन्दराप्राप्तं हिरण्याक्षं जघानेति श्रीमद्भागवतीया कथा।
आस्तीकेति। आस्तीकस्य तन्नामकमुनेः तनुः शरीरमिव, आनन्दित. विलासोचितबहुलतरभवनयुक्तत्वात् प्रमोदं प्रापितः भुजङ्गलोको विटजनो यया सा तादृशी, पक्षान्तरे-आनन्दितः जनमेजयस्य सर्पयज्ञावरोधनात् प्रमोदं प्रापितो भुजङ्गलोकः सर्पवृन्दं यया सा तादृशी।
पुरा किल परीक्षितपुत्रो जनमेजयः सर्पात्स्वपितुः प्राणवियोगं निशम्यातिक्रुद्धस्तत्प्रतीकाराय सर्पसत्रं प्रारब्धवान्। ततः परमदयालुर्भंगवानास्तीकः समस्तसर्पवंशविनाशोद्यतं निरीक्ष्य जनमेजयप्रार्थनया तदवरोधं कृतवानिति महाभारतीया कथा।
हरीति। 'हरिवंशनाम्नो महाभारतस्य या कथा उपाख्यानं सेव, अनेकाभिः वहोभिः बालकीडाभिः तत्र विद्यमानानां बालकानां खेलाभिः यादबोयशिष्टगगक्रीडाकथाभिश्च रमणीया मनोहरा।
इह 'सन्ध्येव पद्मरागानुरागिणी' इत्यारभ्य 'हरिवंशकथेव अनेकबालक्रीडारमणीया' इत्यन्तं पूर्णोपमालङ्कारः।
प्रकटेति। प्रकटो दुर्व्यवहारेण प्रसिद्धतया त्रपासङ्कोचाद्यसत्त्वात्प्रकाशितः अङ्गनानां वनितानाम् उपभोगः सम्भोगो यस्यां सा तथोक्तापि अखण्डितचरित्रेति विरोधः, प्रकटः सुगन्धिनिःसरणादिना प्रस्फुटः अङ्गनानाम् उपभोगो वनितागणद्वारा कङ्कतताम्बूलवीटिकादिसम्भोगो यस्यामिति तत्परिहारः।
रक्तेति। रक्तवर्णापि अरूगवर्णापि सुधावत् गृहधवलीकरणद्रव्यद्ववद् धवला शुभ्रेति विरोधः, रक्ताः सुखपूर्वकवासस्थित्या अनुरक्ताः वर्णा ब्राह्मणादिजातयो यस्यमिति तत्समाधानम्। 'वर्णाः स्युर्ब्राह्मणादयः' इत्यमरः।
अवलम्बिनेति। अवलम्बितो धारितः मुक्ताकलापो मुक्ताल्क्यया तादृश्यपि विगनलुठितः तुरनादौ हारो मुक्ताकलापो येभ्यः तानि विहाराणि भूषणानि अलङ्कारा यस्याः सेति विरोधः, विहारा जैनप्रासादा भूषणानि यस्याः सेति तत्परिहारः। 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालये' इति मेदिनी।
बहिति। बही अनेकप्रकारा प्रकृतिः स्वभावो यस्याः सापि स्थिरा अचञ्चलप्रकृतिरिति विरोधः, बह्व्यः प्रकृतयः नागरिकजनाः स्वाम्यादिराज्याङ्गानि वा यस्यां सेति तत्समाधानम्। 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः। योनौ लिङ्गे पौरवर्गे' इति मेदिनी।
'स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च। राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च'॥ इति चामरः।
इह 'रक्तवर्णापि' इत्यारभ्य 'बहुप्रकृतिरपि' इत्यन्तं विरोधाभासोऽलङ्कारः।
विजितेति। विजिता अमरलोकस्य सुरसदनस्य द्युतिः कान्तिर्यया सा तादृशी, अवन्तीषु मालवारूयदेशेषु; स्वकान्त्या स्वसम्पत्त्या वा उत्कर्षेण जयति निखिला नगरीरित्युज्जयिनी।
उज्जयिनीके जनसमूह भी उसीप्रकार देवताओंकी सेवा करते हैं। नारायण वराहमूत्ति धारणकर जिस प्रकार हिरण्याक्ष दानवका विनाश दिखाये थे, उज्जयिनीके लोग भी उसीप्रकार क्रीडा करनेमें प्रवृत्त होकर सुवर्णनिर्मित पाशेका निक्षेप दिखलाते हैं। आस्तीकमुनि जिसप्रकार सर्पसत्र निवारण कर सर्पगणको आनन्दित किये थे, उज्जयिनी भी उसीप्रकार भोगविलासके उपयुक्त गृह धारण कर भोगियोंको आनन्दित करती है। हरिवंशकी कथा जिस प्रकार नानाविध बालकीड़ाकी कथामें मनोहर है, उज्जयिनी भी उसीप्रकार बालकोंकी क्रीडा करनेमें मनोहर हैं। उज्जयिनीमें प्रत्यक्षरूपसे स्त्रियोंका उपभोग (अङ्गों का उपयोग) होने पर भी उन सबोंका चरित्र अखण्डित है। वर्णरक्त (लाल रंग, ब्राह्मणादिवर्ण अनुरक्त) होने पर भी वह चूनेसे सफेद दीखती है। मुक्ताकी माला धारण करने पर भी उज्जयिनी, मुक्तामालाहीन अलङ्कार से अलङ्कृत (बहुतर बौद्ध आश्रमसे भूषित) है। उज्जयिनी बहुप्रकृति (चञ्चलचित्त, अनेकप्रकारकी प्रजासे युक्त) होनेपर भी स्थिर रहती है, और वह अपनी शोभासे स्वर्गकी शोभाको जीत लेती है।
१. कद्रुरिव ।
उज्जयिनीवर्णना-१ ] चन्द्रकला-विद्योतिनीसहिता । १६३
यस्यामुत्तुङ्ग-सौधोत्सङ्ग-सङ्गीतसङ्गीनीनामङ्गनानामतिमधुरेण गीतरवेणाकृष्यमाणा-धोमुख-रथतुरङ्गः पुरः पर्य्यस्त-रथपताकापटः कृतमहाकाल-प्रणाम इव प्रतिदिनं लक्ष्यते गच्छन् दिवसकरः।
यस्याञ्च सन्ध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु, प्रारब्ध-नील-कमलिनीपरिमण्डला इव मरकत-वेदिकासु गगनतल-प्रसृता इव वैदूर्य्यमणिभूमिपु, तिमिर-पटल-विघटनोद्यता इव कृष्णागुरु-धूम-मण्डलेषु अभिभूततारकापङ्क्तय इव मुक्ता-प्रालम्बेषु, विकच-कमल-चुम्बित इव नितम्बिनीमुखेषु, प्रभात-चन्द्रिकामध्यपतिता इव स्फटिकभित्ति-प्रभासु-
यस्यामिति । उत्तुङ्गानाम् अत्युच्चतानां सौधानां राजभवनानाम् उत्सङ्गे क्रोडे ऊर्ध्वभाग इत्यर्थः सङ्गीतं 'गीतं वाद्यं च नृत्यं च त्रयं संगीतमुच्यते' इत्युक्तलक्षणं तत्सङ्गिनीनां तत्प्रासक्तानाम्, अङ्गनानां नारीणाम्, अतिमधुरेण अतिमिष्टेन गीतरवेण गानस्वरेण आकृष्यमाणा अत एव अधोमुखा अवाङ्मुखा रथतुरङ्गाः स्यन्दननियुक्ता घोटका यस्य स तादृशः, अतएव पुरोऽग्रे पर्यस्तः क्षिप्तः स्यन्दनवेगाभावात्पुरतः स्रस्त इत्यर्थः, रथपताकापटः स्यन्दनवैजयन्तीवस्त्रं यस्य स तादृशः, एतेन हि गलल्लग्नीकृतदमना इवेति ध्वन्यते । कृतो विहितो महाकालाय तत्रत्यैतन्नामकमहेश्वराय प्रणामो नमस्कारो येन स तादृश इव प्रतिदिनं प्रत्यहं गच्छन् उदयाचलादस्ताचलं व्रजन् दिवसकरो दिनाधिपो लक्ष्यते जनैः दृश्यते। इह 'उत्तुङ्गसौधोत्सङ्गे'त्यादौ वृत्यनुप्रासोऽलङ्कारः, 'कृतमहाकालप्रणाम इव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः।
यस्यामिति । यस्याम् उज्जयिन्यां रविगभस्तयः सिन्दूरमणिकुट्टिमेषु (निपतिताः सन्तः) सन्ध्यारागारुणा इव विराजन्त इत्येवमग्रेऽप्युत्तरेण सम्बन्धो ज्ञेयः। सिन्दूरमणयः प्रवालरत्नविशेषास्तेषां कुट्टिमेषु बद्धभूमिषु सन्ध्यारागेण सायङ्कालीनलौहित्येन अरुणा लोहितवर्णा इव तेषां लोहितरूपत्वात्। मरकतवेदिकासु अश्मगर्भघटितपीठिकासु (पतिताः सन्तः) प्रारब्धम् आचरितं नीलकमलिनीषु नीलरूपनलिनीषु परिमण्डलं मण्डलरूपेणावलुण्ठनं यैस्ते इव, मरकतवेदिकानां श्यामरूपत्वात्। वैदूर्य्यमणिभूमिषु वालवायजमणिवद्धस्थलीषु (पतिताः सन्तः) गगनतलप्रसृता इव अम्बरतले विस्तृता इव, वैदूर्यमणिवद्धस्थलानामतिनिर्मलत्वात् । कृष्णागुरुधूममण्डलेषु देवार्थनादौ दह्यमानकाकतुरुण्डत उत्थितदहनकेतनसमूहेषु (पतिताः सन्तः), तिमिरपटलस्य अन्धकारपुञ्जस्य विघटने दूरीकरणे उद्यता इव कृतप्रयत्ना इव तद्धूमपुञ्जानां तिमिरसदृशश्यामरूपत्वात् । मुक्ताप्रालम्बेषु लम्बमानमुक्तासमूहेषु (पतिताः सन्तः) अभिभूता अवमानिता तारकापङ्क्तिः नक्षत्रवलिर्यैस्ते इव, लम्बमानमुक्ताकलापानां नक्षत्रवलिसदृशत्वात् । नितम्बिनीमुखेषु सुन्दरीगामाननेषु (पतिताः सन्तः) विकचानि विकसितानि पङ्कजानि कमलानि चुम्बन्ति स्पृशन्तीति ते इव, सुन्दरीवदनानां विकसितपद्मसदृशत्वात् । स्फटिकभित्तिप्रभासु स्फटिकरचितकुड्यकान्तिषु (पतिताः सन्तः) प्रभातचन्द्रिकामध्यपतिता इव प्रत्यूषचन्द्रगोचक्रान्तःपातिन इव, तत्कान्तीनां प्रत्यूषज्योत्स्नातुल्यत्वात् । सितपताकांशुकेषु श्वेतवैजयन्तीवस्त्रेषु
जिस उज्जयिनीमें ऊँचे-ऊँचे राजमहलोंके शिखरों पर गान करती स्त्रियोंके अत्यन्त मधुर गीत स्वरसे आकृष्ट हुए सूर्यके रथके अश्वगण अधोमुख होकर चलते हैं, वहाँ रथकी ध्वजा सामने फहरानेसे प्रतिदिन ऐसा प्रतीत होता है मानो सूर्य जाते-जाते महाकालेश्वरको प्रणाम करता हो ।
और जिस उज्जयिनीमें सूर्यके किरणसमूह सिन्दूरमणिकी भूमियों पर गिर कर मानो सन्ध्या रागसे लाल हुई हों, मरकतमणिके चबूतरों पर गिरनेसे मानो नीलकमलिनीका स्पर्श करती हुई हों, वैदूर्यमणिकी भूमि पर गिरनेसे मानो आकाशतलमें फैली हुई हों, काले अगुरुके धूपधुएँमें गिरनेसे मानो अंधकारोंको विनाश करनेमें उद्यत हुई हों, मुक्ताहार पर गिरनेसे मानो तारोंकी कतारको पराजित करती हुई हों, सुन्दरीयोंके मुख पर गिरनेसे मानो विकसित कमलका चुम्बन करती हों, स्फटिकमय भित्तियों (दीवारों) के प्रभासमूहमें गिरनेसे मानो प्रातःकालकी चाँदनीके
१. उत्सङ्गीतसङ्गिनीनाम् , उत्सङ्गसङ्गिनीनाम् । २. कृष्यमाणाधोमुखतुरङ्गः । ३. पुरःपर्यस्तं । ४. प्रतिदिनमध्यास्यते भगवान् ०० । ५. प्रारब्धकमलिनी०००, परिमन्दना, परिमिलिता, परिमल, परिमीलन । ६. गगनपर्य्यन्ता । ७. धूप । ८. मुक्ताकल००० । ९. स्फटिकमणि००० ।
१६४ कादम्बरी- [ कथामुखे-
गगनसिन्धुतरङ्गावलम्बिन इव सितपताकांशुकेषु, पल्लविता इव सूर्य्यकान्तोपलेषु, राहु-मुखकुहर-प्रविष्टा इवेन्द्रनील-वातायन-विवरेषु विराजन्ते रवि-गभस्तयः । यस्याञ्चानुपजात-तिमिरत्वादविघटित-चक्रवाकमिथुना व्यर्थीकृते-सुरतप्रदीपाः सञ्जातमदनानलग्र्दिग्दाहा इव यान्ति कामिनीनां भूषण-प्रभाभिर्वालातपपिञ्जरो इव रजन्यः । याञ्च सन्निहित-विषमलोचनामनवरतनतिमधुरो रतिप्रलाप इव प्रत्ततं मुखरीकरोति मकरकेतु दाह-हेतुभूतो भवन-कलहंस-कोलाहलः ।
(पतिताः सन्तः) गगनसिन्धुनरङ्गावलम्बिन इव व्योमगङ्गावीच्याश्रिता इव, श्वेतवैजयन्त्यंशुकागां तरङ्गवद् समीरणान्दोलितत्वात् । सूर्य्यकान्तोपलेषु सूर्य्यकान्तमणिषु (पतिताः सन्तः) पल्लविताः समुत्पन्नकिसलया विपुला इवेत्यर्थः, रविकिरणस्पर्शे सूर्य्यकान्तोपलेभ्योऽपि तेजोनिःसरणात् । तथा इन्द्रनीलवातायनविवरेषु नीलकन्तरश्चितगवाक्षरन्ध्रेषु (पतिताः सन्तः) राहोः सैंहिकेयस्य मुखकुहरे मुखविवरे प्रविष्टास्तदन्तर्गता इव, तेषामपि राहुवदनविवरवन् सावकाशत्वाद् श्यामरूपत्वाच्च । रविगभस्तयः सूर्य्यकिरणाः विराजन्ते विद्योतन्ते । इह 'सन्ध्यारागरागा इव' इत्यत्र गुणोत्प्रेक्षा, अन्यत्र सर्वत्र क्रियोत्प्रेक्षेति सुधीभिराकलनीयम् ।
यस्याञ्चेति । च पुनः यस्याम् उज्जयिन्यां कामिनीनां रमणीनां भूषणप्रभाभिः आभूषणरश्मिभिः अनुपजाततिमिरत्वाद् अनुत्पन्नतिमिरत्वात्कारणाद् अविघटितानि विश्लेषणप्राप्तानि चक्रवाकानां कोकानां मिथुनानि द्वन्द्वानि यासिस्ताः तादृशाः । एवञ्च कोकयुग्नोर्हि दिवले संयोगः रात्रौ च विश्लेपः, तत्समये तु रमणीनां भूषणरश्मिभिरन्धकाराभावाद्दिनमेवायमिति भ्रमेण ते मिलिता एव तिष्ठन्तीत्याशयः । व्यर्थीकृता निष्फलीकृताः सुरतप्रदीपाः सम्भोगप्रदीपा याभिः ताः तथोक्ताः, तदलङ्काररश्मिसिरेव तिमिरापसरणादित्याशयः । रजन्यो रात्रयः । बालातपेन नूतनसूर्यालोकेन पिञ्जराः पीतवर्गा इव, तथा सञ्जातः समुत्पन्नो मदनानलेन कामवह्निना दिग्दाहो यासु ता इव च सत्यो यान्ति अतिक्रामन्ति ।
इह कोकदन्द्वानां विघटनसम्बन्धसत्येऽपि तदसम्बन्धप्रतिपादनादेकातिशयोक्तिः, अन्या च सुरतप्रदीपानां निष्फलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः, वाच्यत्वासावाद्भ्रान्तिमानलङ्कारध्वनिश्च, एवं 'सञ्जातदिग्दाहा इव' इत्यत्र क्रियोत्प्रेक्षा, 'वालातपपिञ्जरा इव' इत्यत्र च गुणोत्प्रेक्षा, इत्येतेषामलङ्काराणामेकस्मिन् वाक्ये नैरपेक्ष्येगावस्थानात्संसृष्टिरलङ्कारः ।
याञ्चेति । मकरकेतोः कन्दर्पस्य दाह एव महेश्वरतृतीयनेत्राग्निना भस्मीकरणमेव कारणभूतो यस्य स तादृशः, रतेः कन्दर्पपल्याः प्रलाप आर्तनाद इव, नकरकेतुना यो दाहो मनोभवद्वारा मानवानां सन्तापः तस्य कारणभूतः कादम्बशब्दस्योद्दीपकत्वादित्याशयः, अतिमधुरः अत्यन्तमिट्टो भवनकलहंसकोलाहलः गृहकादम्बकलकलः, अनवरतं निरन्तरं प्रसर्पन् प्रसरन् सन्, सन्निहितो महाकालरूपेण समीपस्थः विषमलोचनो विरूपाक्षो महेशो यस्य तां तादृशाम्, नदनदाहसन्नवताप्राकटनायेदमित्यवधेयम्; याञ्च उज्जयिनीं मुखरीकरोति शब्दायमानां करोति । इह 'रतिप्रलाप इव' इत्युपमा ।
दीचने पट्टी हों, श्वेतवर्ण पताकाके ऊपर गिरनेसे मानो आकाशगङ्गाकी तरङ्गका स्पर्श करती हों, सूर्यकान्तमणिके ऊपर गिरनेसे मानो पल्लवित हुई हों, और इन्द्रनीलमणिमयी गवाक्षरन्ध्र (जालियों) के अन्तरालमें ऐसी शोभामान प्रतीत होती हैं मानो राहुके मुखविवरमें प्रवेश की हों ।
और जिस उज्जयिनीमें कामिनियोंके आभूषणोंकी कान्तिके कारण रात्रिमें भी अन्धकार न होनेसे दिनका समय मानकर चकवा-चकवीका परस्पर वियोग नहीं होता, सुरतप्रदीप व्यर्थ होते हैं, और कामिनियोंके आभूषणोंकी कान्तिके कारण रात्रियाँ ऐसी प्रतीत होती हैं मानो कामाग्निा दिग्दाह हुआ हो और बाल सूर्यका पिङ्गलप्रकाश फैल गया हो । शङ्करके नयनाग्निसे कामदेवके दग्ध होने पर रतिविलापके समान कामाग्निगो उत्पन्न करने बाल गृहस्थित (पालतू) कलहंसोंका कोलाहल, अनवरत चारों दिशाओंमें विस्तृत होकर, महानालरूपी शङ्करके आवातभूमिनो मुखरित कर रहा है ।
१. तरङ्गसङ्गिनः । २. यस्यान्तु । ३. प्रकटीकृत । ४. पिञ्जरत्वं रजन्यः । ५. प्रतिवासरं प्रसर्पन् । ६. भवनकलहंसकुलकोलाहलः, हसिश्चनकल इत्यादिपाठः ।
उज्जयिनीवर्णना-१] चन्द्रकला-विद्योतिनीसहिता । [१६५
यस्याञ्च निशि निशि पवनविलोलेर्दूकूलपल्लवैरुलसद्भिर्मालवी-दरिमुखकमल-कान्ति-लज्जितस्येन्दोः कलङ्कमित्रापनयन्तो दूरप्रसारित-ध्वज-भुजाः प्रासादा लक्ष्यन्ते । यस्याञ्च सौध-शिखर-शायिनीनां पश्यन् मुखानि पुरसुन्दरीणां मदन-परवश इव पतितः प्रतिमाच्छलेन लुठति बहल-चन्दन-जल-सेक-शिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । यस्याञ्च निशावसाने प्रबुद्धस्य तारतरमपि पठतः पञ्जरभाजः शुकसारिकासमूहस्या-भिभूत-गृहसारस-स्वरामृतेनं विस्तारिणा विलासिनीभूषणरवेणाविभाव्यमानाँ व्यर्थीभवन्ति प्रभात-मङ्गलगीतयः ।
यस्यामिति । दूरे अत्युन्नते प्रसारिता विस्तारिता (उत्तोलिताः) ध्वजाः वैजयन्त्य एव भुजा बाहवो यैस्ते, प्रासादा नृपमन्दिराणि, पवनविलोलेः वायुवान्दोलितैः, अत एव उल्लसद्भिः ऊर्ध्वं विद्यमानैः दुकूलपल्लवैः प्रसारितवैजयन्तीपटैः मालवीनाम् अवन्तिदेशीयसुन्दरीणां मुखकमलकान्तिभिः वदनपद्मप्रभाभिः लज्जितस्य कलङ्कयुक्तत्वात् सलज्जीकृतस्य इन्दोः चन्द्रमसः कलङ्कं त्रपानिमित्तीभूतं लाञ्छनं श्यामलिमानञ्च अपनयन्तो मार्जयन्त इव लक्ष्यन्ते दृश्यन्ते, मित्रेण मित्रान्तरस्य मुखश्यामलिमापनयनवदित्यशयः । इह 'अपनयन्त इव' इति क्रियोत्प्रेक्षा, अनया च कार्येण राजभवनेषु मित्रव्यवहारसमारोपात् या समासोक्तिः सा सङ्कीर्यते । अनेनावन्तिरमणीनां महासौन्दर्यं राजभवनानाञ्चात्युच्चत्वं ध्वनितं भवति ।
यस्यामिति । यस्यां नगर्यां मृगलाञ्छनः शशाङ्कः (चन्द्रः) सौधशिखरशायिनीनां राजभवनोपरिवर्त्तमानानां पुरसुन्दरीणां नगररमणीनां मुखानि वदनानि पश्यन् अवलोकयन् मदनपरवशः कामाधीन इव सन्, बहलानाम् अधिकानां चन्दनजलानां मलयजद्रवमिश्रिताम्भसां सेकेन सेचनेन दिशिरेषु शीतलेषु मणिकुट्टिमेषु तासां नगररमणीनामाधारभूतेषु रत्नमयच्छदिःसु प्रतिमाच्छलेन प्रतिबिम्बमिषेण पतितो लुठति प्रसरति, तासामनुर्नयविधानायेत्याशयः । इह हि अपह्नुतिः गुणोत्प्रेक्षा च, ताभ्यां कार्येण शशाङ्के विटकामुकव्यवहारसमारोपात् समासोक्तिः सङ्कीर्यते ।
यस्यामिति । निशावसाने रात्रिप्रैपे प्रबुद्धस्य जागरितस्य तारतरमपि उच्चैस्तरमपि यथा स्यात्तथा पठतः पठनं विदधतः पञ्जरभाजः पञ्जरमध्यस्थायिनः शुकसारिकासमूहस्य कीरपीतपादसङ्घस्य प्रभातमङ्गलगीतयः प्रत्यूषमङ्गलनिमित्तकगानानि, अभिभूतम् उच्चैस्तया तिरस्कृतं गृहसारसानां भवनस्थितपक्षिविशेषाणां स्वरामृतं पीयूषवन्मधुरशब्दो येन तेन तादृशेन, विस्तारिणा विशालेन विलासिनीनां रमणीनां भूषणरवेण अलङ्कारध्वनिना, अविभाव्यमाना विगेपेणाश्रूयमाणा, एकत्रित्वेन भिन्नतया अप्रतीयमानाः सत्यः, अत एव व्यर्थीभवन्ति निष्फलीभवन्ति । इह पदार्थहेतुकं काव्यलिङ्गमलङ्कारः, अनेन हि तथाविधालङ्कारध्वनिना तद्गीतानां गोपनविधानान्मीलितमलङ्कारः सङ्कीर्यते । मीलितलक्षणन्तु दर्पणे 'मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा' इति ।
और जिस उज्जयिनीमें दूर तक फैली हुई ऊँची ध्वजा-रूप भुजावाली अट्टालिकायें (हवेलियाँ) ऐसी प्रतीत होती हैं मानों वे रात्रिको मालव-देशीय सुन्दरियोंके मुख-कमलकी कान्ति देखनेसे लज्जित हुए चन्द्रके कलङ्कको पवनसे कम्पित होकर फहराती हुई वस्त्रकी कोरोंसे मिटाती हों।
जिस उज्जयिनीमें महलोंके शिखरोंमें सोती हुई सुन्दरियोंका मुँह देखकर मानो कामातुर होकर ही चन्द्रमा, अपने प्रतिबिम्बके व्याजसे गाढ़ा चन्दन छिड़कनेसे शीतल हुई मणिभूमि पर गिर कर लोटता है।
जिस उज्जयिनीमें पिंजरेमें बैठे हुए शुक-सारिकागण (तोते और मैनाएँ) रात्रि-शेषमें जग-जग कर अत्यन्त उच्चस्वरसे प्रातःकालके मङ्गल-गीत गाते हैं, किन्तु गृहस्थित (पालतू) सारसोंके शब्दको पराजित करने वाले, चारों ओर फैले विलासिनी सुन्दरियोंके आभूषणोंके शब्दमें समा जानेसे वे निरर्थकसे होते हैं (अर्थात् वे मङ्गल-गीत पृथक्-रूपमें नहीं सुने जानेसे निष्फल हो जाते हैं)।
१. पवनप्रविलोलेः । २. ऊर्ध्वध्वजभुजाः । ३. सौधशिखरोत्तानशायिनीनाम् । ४. शिशिरेषु शृङ्गः। ५. निशावसान... । ६. ...तारतरमविरलतः समूहस्य रवेणाभिभूता गृहसारसरविकटेन । ७. अभि-भाव्यमानाः।
१६६ कादम्बरी- [ कथामुखे-
यस्याञ्चानिर्वृत्तिर्मणिदीपानाम्, तरलता हारलतानाम्, अस्थितिः सङ्गीतमुरजध्वनीनाम्, द्वन्द्ववियोगश्चक्रनाम्नाम्, वर्णपरीक्षा कनकानाम्, अस्थिरत्वं ध्वजानाम्, मित्रद्वेषः कुमुदानाम्, कोपगुप्तिरसीनाम्। 'किं बहुना, यस्यां सुरसुर-चूडामणि-मरीचि-चय-चुम्बित-चरणनखमयूखो निशित-त्रिशूल-दारितान्धक-महासुरः, गौरी-नूपुर-कोटि-घृष्ट-शेखर-चन्द्रशकलः, त्रिपुर-भस्म-रजः-कृताङ्गरागः, मकरध्वज-ध्वंस-विधुरया रत्या प्रसादयन्त्या प्रसारित-कर-युगलग्लपित-
दत्वानिति। मणिदीपानां रत्नप्रदीपानाम् अनिर्वृत्तिः प्रकृतितो दीप्तिमत्त्वात् अनिर्वाणता, न तु जनानामनिर्वृत्तिः विषयादनुपरमः सर्वेषामेव वृद्धावस्थायां तदुपरमत्वात् । 'निवृत्तिः स्यादुपरमे' इति कोशः। हारलतानां मौक्तिकलतां तरलता चाञ्चल्यं न तु स्त्रीपुरुषाणां तरलता विशेषशिक्षितत्वेनात्यन्तगाम्भीर्यवत्त्वात्। सङ्गीतमुरजध्वनीनां सङ्गीतमृदङ्गनिनादानाम अस्थितिः इतस्ततः प्रसरणशीलत्वं तृतीयशब्देनेदविद्यमानत्वं वा, न तु जनानाम् अस्थितिः मर्यादाहित्यं समेषामेव तद्युक्तत्वात् । चक्रनाम्नां चक्रवाकपक्षिणां द्वन्द्ववियोगो युगलविश्लेषः रजन्यां दम्पतिविरह इति तात्पर्यम्, न तु लोकानां मध्ये दम्पतिविरहः धनराभितम्पन्नतया परदेशगमनाभावात् तथाविधधर्मशालितया च विस्रम्भसमये प्रागवियोगाभावात् । कनकानां सुवर्णानां वर्णस्य रहस्य परीक्षा वह्निताप-निकषपणादिद्वारा सदुष्टनिर्दृष्टावबोधः, न तु ब्राह्मणादीनां वर्णपरीक्षा विशिष्टजातिपरिचयः, साङ्कर्यदोषरहितत्वात्। ध्वजानां पताकानाम् अस्थिरत्वं पवनवेगेन चञ्चलता, न तु लोकानाम् अस्थिरत्वम् अधीरत्वं तथाविधोपदेशात्त्वात् । कुमुदानां कैरवाणां मित्रद्वेषः सङ्कोचविधायकत्वेन सूर्य प्रति अप्रीतिः, न तु नागरिकलोकानां मित्रद्वेषः सुहृत्सु अप्रीतिः गुह्यतद्दुष्कृत-कारणत्वात्। असीगां खङ्गानां कोषेषु चर्ममयाच्छादनेषु गुप्तिः रहणम्, न सम्पत्तीनां कोषेषु भाण्डारेषु गोपनम् अपहारकाद्यसत्त्वात्। सर्वत्र विद्यत इति शेषः। इह कार्यो परिसंख्या। तथा चोक्तं दर्पणे-
'प्रश्नादप्रश्नतो वापि कथिताद्वस्तुनो भवेत् । तादृगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥' परिसंख्या ............. 'इति ।
एषा च प्रत्येकवाक्ये यथासम्भवश्लेषालङ्कारेण सङ्कीर्णेति विचारणीयम् ।
किमिति । बहुना अधिकेन जल्पितेन किमित्यर्थः । यस्याम् उज्जयिन्यां सुरासुराणां देवराक्षसानां नमस्कुर्वतामित्याशयः, चूडामणिमरीचयश्चयैः शिरोरत्नमणिजालैः चुम्बिताः संस्पृष्टाः चरणनखानां पादाङ्गुष्ठाङ्गुष्ठां नयूखाः रश्मयो यस्य स तादृशः। निशितेन तीक्ष्णेन त्रिशूलेन प्रसिद्धशस्त्रविशेषेण दारितो भिन्नोऽन्धकोऽन्धकाख्यो महासुरो येन स तादृशः । गौर्याः नानवत्याः पार्वत्याः नूपुरकोट्या पदाघातसमये सक्षीराप्रसादेन, घृष्टं विलिखितं शेखरः चूडामणिभूतं चन्द्रशकलं शशिखण्डं यस्य स तादृशः । त्रिपुरासुरस्य त्रिपुरदैत्यस्य सत्मनः स्वयं विहितस्येत्याशयः, रजसा धूलिना कृतो विहितः अङ्गरागः अङ्कलेपनं येन स
एवं जिस उज्जयिनी नगरीमें मणिमय प्रदीपों की ही अनिर्वृत्ति ( बुझनेका अभाव है, लोगोंको दुःखका अभाव नहीं) है। मुक्तामालोंमें ही तरलता है किसीके मनमें चञ्चलता नहीं। सङ्गीत और मृदङ्ग ध्वनिकी ही अस्थिति ( तृतीयपक्षमें अविद्यमानता) है, किन्तु लोगोंमें मर्यादाहीनता नहीं है। चक्रवाकपक्षियोंका ही द्वन्द्व-वियोग ( रात्रिमें दम्पतिविच्छेद) है, किन्तु लोगोंके बीचमें सदगृहस्थी होनेसे परदेशगमनाभावसे द्वन्द्ववियोग नहीं है। सुवर्णकी अग्निपाचन द्वारा रूपकी परीक्षा होती है, ब्राह्मणादिकोंकी नहीं, क्योंकि साङ्कर्यदोष न रहनेसे सब वर्ण शुद्ध हैं। ध्वजाओंमें ही अस्थिरता-वायुवेगसे चञ्चलता है, किन्तु लोगोंमें उस तरह उपद्रव नहीं होनेसे अधीरता नहीं है। कुमुद ही मित्र-सूर्यसे द्वेष करते हैं, कोई मित्रोंसे द्वेष नहीं करता। तलवारोंको ही कोशान्तरमें रखा जाता है, किन्तु लोगोंको खजाना छिपानेकी जरूरत नहीं, क्योंकि वहां चोर नहीं रहते हैं।
अधिक कहनेका प्रयोजन नहीं है; नमस्कार करनेके समयमें देवदानवोंके मुकुटमणियोकी किरणें जिनके चरणनखकिरणों का चुम्बन करती हैं, तीक्ष्ण धारवाले त्रिशूलसे जिन्होंने अन्धकासुरको चीर डाला था, पार्वतीके चरणनूपुर (पायजेब) के अग्रभाग द्वारा जिनके मस्तकालङ्कार चन्द्रमाका टुकड़ा घिस गया है, जिन्होंने त्रिपुरासुर-की भस्मका उस समयतुम्हारा शरीर पर लेप किया है, कामदेवके नाशसे शोकातुर होकर रात्रिमे फैले हुए दोनों
१. अनिर्वृत्तिः । २. मणिप्रदीपानाम् । ३. अन्यतरलता । ४. चक्रनाम्नाम्, चक्रवाकनाम्नाम् । ५. यस्याञ्च । ६. मरीचिलम्बिन... । ७. चन्द्रशकलशेखरः । ८. "...कार्मुक..." ।
उज्जयिनीवर्णनम्-२ ] चन्द्रकला-विद्योतिनीसहिता । २६७
लित-वलय-निकरार्चित-चरणः, प्रलयनल-शिखा-कलाप-कपिल-जटाभार-भ्रान्त-सुरसिन्धुः, अन्धकारिः,^२ भगवान्, उत्सृष्टकैलास-वास-प्रीतिर्महाकालाभिधानः स्वयं प्रतिवसति।
तस्याञ्चैवंविधायां नगर्यां नलं-नहुष-ययाति-धुन्धुमार-भरत-भगीरथ-दशरथैःप्रतिमः, भुजबलार्जितभूमण्डलः, फलित-शक्तित्रयः, मतिमान्, उत्साह-सम्पन्नः, नीतिशास्त्राखिन्न-बुद्धिः, अधीत-धर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्त्याचन्द्रमसोः, अनेक-सत्त-
तादृशः। मकरध्वजध्वंसेन मदनदाहेन विधुरया तदीयशोकेन व्यग्रया रत्या कामभार्यया प्रसादयन्त्या अनुग्रहप्राप्याशया तमेव प्रसन्नीकुर्वन्त्या सत्या, प्रसारिताङ्गाङ्गोपसंग्रहाय विस्तारितौ करयुगलान् हस्तद्वन्द्वात् विगलितेन प्रच्युतेन वलयनिकरेण गोलस्वरूपभूषणपुञ्जेन अर्चितौ पूजितौ चरणौ पादौ यस्य स तादृशः। तथा प्रलयनलस्य प्रलयकालीनवह्नेः शिखाकलापवत् ज्वालाममूहवत् कपिले पिङ्गलवर्णे जटाभारे जटानिकरे भ्रान्ता निपत्य घूर्णिता सुरसिन्धुः गङ्गा यस्य स तादृशः स्वयं साक्षात् भगवान् अन्धकारिः महेश्वरः, उत्सृष्टा त्यक्ता कैलासस्य हिमाचलशिखरस्थितप्रदेशस्य प्रीतिः स्नेहो येन स तादृशः, तया 'महाकाल' इति अभिधानं संज्ञा यस्य तथोक्तश्च सन्, प्रतिवसति वासं विधत्ते। अथ च कथासरित्सागरेऽपि-
'यस्यां वसति विश्वेशो महाकालवपुः स्वयम्।
शिथिलीकृतकैलास-निवासव्यसनो हरः ॥' इत्यादिना।
स्फुटमेवाभिहितं वर्तते। कैलासादप्युत्तमं स्थानमुज्जयिनीति व्यञ्जितं कविनां। इह 'सुरासुर' इत्याद्ये कविशेपणेनैवाभिमतमाहात्म्यस्फुटप्रतीतौ सत्यामपि तदर्थं एव 'खले कपोतका न्यायात्' विशेषणान्तरोपन्यासनात्समुच्चयालंकारः। तदुक्तं दर्पणे-
'समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके। खले कपोतकान्यायात् तत्करः स्यात्परोऽपि चेत्।
गुणौ क्रियेवायुगपत्स्यातां यद्वा गुणक्रिये ॥' इति।
'प्रलयनलशिखाकलाप' इत्यत्र च लुप्तोपमा। तथा चोभयोरङ्गाङ्गिभावसङ्करः।
तस्यामिति। एवंविधायां पूर्वोक्तविधिना व्यावर्तिनस्वरूपायां तस्यां नगर्याम् उज्जयिन्यां तारापीडो नाम राजा 'अभूत्' इति वक्ष्यमाणेन क्रियया सम्बन्धः। इह प्रथमान्तानि पदानि राज्ञो विशेषणानि बोद्ध्यानि। नलो नैषधः, नहुषो भूपविशेषो योऽगस्तिशापादजगरः सञ्जातः, ययातिः यदुपिता, धुन्धुमारः कुवलायाश्वः, भरतो दुष्यन्तसुतः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एते प्रतिमा उपमा यस्य स तादृशः। भुजबलेन बाहुवीर्येण अर्जितं स्वाधीनीकृतं भूमण्डलं पृथ्वीमण्डलं येन स तादृशः। फलितं सञ्जातफलं शक्तित्रयं प्रभावोत्साहमन्त्रजातशक्तित्रयं यस्य स तादृशः, कौशल्याद्यारब्धबनावश्यैकाशयः। मतिमान् बुद्धिमान्। उत्साहसम्पन्नः उत्साहमहितः। नीतिशास्त्रेषु व्यवहारशास्त्रेषु अखिन्ना निरन्तरविचारणेनाप्यभ्रान्ता बुद्धिः प्रतिभा यस्य स तादृशः। अधीतं पठितं धर्मशास्त्रं मन्वादिप्रणीतशास्त्रं येन स तादृशः। सूर्याचन्द्रमसोः शशिभास्करयोः तृतीय इव, तेजसा कान्त्या च सूर्ये इव तेजस्वी चन्द्रमा इव च कान्तिमानित्यर्थः। अनेकसत्सन्तुभिः विविधयज्ञैः पूता पवित्रा मूर्तिः शरीरं यस्य स तादृशः, अत्र ससतन्तुपदस्य सप्तभिः सप्तजिव्हच्छन्दोवहमन्त्रैः तन्यत इति व्युत्पत्त्या 'पृषोदरादिषु यथोपदिष्टम्' इत्यनेन साधुत्वं बोध्यम्। उपशमिताः स्वव्यापारदेवपूजनादिना निषिद्धाः सकलः समस्ता जगतां संसाराणाम उपप्लवा उपद्रवा येन स तादृशः। इह 'तृतीय इव तेजसा कान्त्या च' इत्यत्र द्रव्योत्प्रेक्षा।
हाथों से गिरे कङ्गनों से अनुग्रह-लाभकी प्रत्याशासे तिनके चरणों की पूजा की, और प्रलयकालके अग्निवान-समूहके समान पिङ्गलवर्ण जिनके जटा-समूहमें गङ्गा भ्रमन की थी; स्वयं वे ही अन्धकासुरके शत्रु भगवान् महादेव कैलासवासकी प्रीति छोड़कर जिस उज्जयिनीमें महाकाल-नाम धारण कर निवास करते हैं।
इस प्रकारकी उस नगरीमें नल, नहुष, ययाति, धुन्धुमार, भरत, भगीरथ और दशरथके समान प्रजाकी पीड़ा हरने वाला तारापीड नामका राजा था। उसने अपने बाहुबलसे सब भूमण्डलको जीत लिया था। उसकी तीनों शक्तियाँ फलीभूत हुई थीं। वह बुद्धिमान् और उत्साही था। नीतिशास्त्रमें निरन्तर पर्यालोचना करनेसे उसकी बुद्धि बहुत उलझी हुई नहीं थी। उसने समग्र धर्मशास्त्रका अध्ययन किया था। वह तेज और सौन्दर्यमें सूर्य-
१. अमरसिन्धुः । २. अन्धकारानिः । ३. वसति । ४. नल-नहुष*** । ५. **दशरथ-जनमेजयैस्तुल्य-प्रतिमः । ६. *दन्ताग्नि ।
| १६८ | कादम्बरी | [कथामुखे- |
|---|
तन्तु-पूत-मूर्त्तिः, उपशमित-सकल-जगदुपप्लवः, विहाय कमल-वनानि, अवगणय्य नारायण-वक्षःस्थल-वसतिसुखम्, उत्फुल्लारविन्द-हस्तया शूरसमागम-व्यसनिन्या निर्व्याजमालिङ्गितो लक्ष्म्या, महामुनिजन-संसेवितस्य मधुसूदन-चरण इव सुर-सरित्प्र-वाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजन-सन्तापकारिणः स्थिरस्याप्यविरतं³ भ्रमतः, निर्मलस्यापि मलिनीकृताराति-वनिता-मुखकमल-द्युतेः, अतिधवलस्यापि सर्वजनरागका-रिणः, सुधासूतेरिव जलनिधिरुद्भवो यशसः, पातालवदाश्रितो⁵ निजपक्षक्षतिभीतैः⁶ क्षिति-
विहायेति । कमलवनानि नलिनीखण्डानि विहाय परित्यज्य, नारायणस्य विष्णोः यद्वक्षःस्थले भुजान्तरस्थले या वसतिर्निवासः तस्मात् यत्सुखम् आनन्दः तदवगणय्य अवगणनां विधाय, उत्फुल्लं प्रस्फुटम् अरविन्दं पङ्कजं हस्ते पाणौ यस्यास्तया तादृश्या, अनेन विहारोपकरणानि व्यवहारानुरागयुक्तानीति व्यज्यते। शूरसमागम वीरपुरुषसम्बन्धे व्यसनिन्या आसक्तिमत्या, लक्ष्म्या राजश्रिया निर्व्याजं निरुपध्लम् आलिङ्गित उपगूहितः। इह हि कमलादपि नारायणादपि च सुखनिवासभूमिः राजेति व्यतिरेका-लङ्कारो ध्वन्यते। तथा च तल्लक्षणं दर्पणे—
'आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा । व्यतिरेकः ।' इति ।
एवं नृपतेरपि अत्यन्तविलासित्वं महाशूरत्वञ्च व्यज्यत इति वस्तुना वस्तुध्वनिश्च ।
महेति । महामुनिजनैः महर्षिभिः संसेवितस्य आचारेण तथा अवगाहनेन धर्मार्जनाय निरन्तरमाश्रितस्य सुरसरित्प्रवाहस्य भागीरथीस्रोतः मधुसूदनचरण इव नारायणपाद इव, सत्यस्य सत्याचारस्य प्रभव उत्पत्तिस्थानम् । इह पूर्णोपमा ।
शिशिरस्येति । शिशिरस्यापि शीतलस्यापि, रिपुजनस्य वैरिवृन्दस्य वियोगिपुरुषस्य च सन्तापकारिणो दाहविधायिन इति विरोधः, ईर्ष्या मदनोद्दीपकतया च चित्तोद्वेगकरस्येति तत्परिहारः । स्थिरस्य अचञ्चलस्यापि अविरतं निरन्तरं भ्रमतोगच्छन इति विरोधः, सर्वस्मिन् समये राशिक्रमे भ्रमणं विधीयमानस्य चेति तत्समाधानम् । निर्मलस्यापि गतमलस्यापि मलिनीकृता करमलीकृतेत्यादिना विरोधः स्वच्छस्यापि विहे पाद् कामन्ययावगाच्च मलिनीकृता अरातिवनितानां रिपुनारीणां वियोगिपलीनाञ्च मुखकमलद्युतिः वदनपद्मकान्तिर्येनेति तत्परिहारः । अतिधवलस्यापि नितान्तस्वच्छस्यापि सर्वजनरागकारिणो निखिललोकरक्तिमविधायिन इति विरोधः, सर्वेषां लोकानां रागकारिण आत्मन्यनुरागविधायिन इति तत्परिहारः । इत्थंभूतस्य सुधासूतेः सुधाकरस्य चन्द्रस्य जलनिधिः सागर इव, इत्थम्भूतस्य यशसः कीर्त्तः उद्भवः उत्पत्तिस्थानम् । अत्रादितश्चतुर्षु विरोधाभासः, तेन सङ्कीर्णा पूर्णोपमा ।
पातालदिति । निजपक्षाणां स्वीयलोकानाम् आत्मीयपक्षभागाञ्च या क्षतिः विरुद्धतारापीडात् क्षयः
चन्द्रके समान एक तीसरा था । अनेक यज्ञ अनुष्ठान करनेसे उसका शरीर पवित्र हो गया था । उसने नानाविध उपायसे संसारके समस्त उपद्रवोंको निवारण कर दिया था। वीरपुरुषोंके संसर्गमें अनुरागिनी तथा हाथमें प्रस्फुटित कमलको धारण करने वाली स्वयं राजलक्ष्मी भी कमलवन छोड़, और नारायणके वक्षःस्थलमें वास करने की सुख-गणना न करके निष्कपट होकर उससे आ लिपटी थी। जैसे विष्णुका चरण बड़े-बड़े मुनियों द्वारा सेवन किए गए मन्दाकिनीके प्रवाहका निर्गम-स्थान है, वह भी उसी तरह मुनिजन-सेवित सत्यका उत्पत्ति-स्थान था। समुद्र जैसे चन्द्रका उत्पत्ति-स्थान है उसी तरह वह यशका उत्पत्ति-स्थान था। चन्द्र जिसप्रकार शीतल होकर विरहीयोंको सन्ताप (कामोद्दीपनद्वारा चित्तमें क्षोभ) उत्पन्न करता है उसका यश भी उसीप्रकार शीतल होकर भी शत्रुओंको सन्ताप (ईर्ष्या-वशतः चित्तका क्षोभ) उत्पन्न करता है। चन्द्र जिसप्रकार स्थिर होनेपर भी सर्वदा भ्रमण करता है (अर्थात् आकाशमें स्थायी होकर नक्षत्र-मालाओंके साथ-साथ भ्रमण करता है) उसका यश उसी प्रकार स्थिर (चिरस्थायी) होकर भी सर्वदा लोगोंके सामने चारो ओर भ्रमण करता था। चन्द्र जिसप्रकार निर्मल होकर भी शत्रुओंकी विरहिणी स्त्रियोंके मुख-कमलकी कान्तिको कामवेदना उत्पन्न कर मलिन कर देता था, उसका यश उसोप्रकार निर्मल होकर भी शत्रुओंके मुख-कमलकी शोभाको विद्वेष-वशते मलिन कर देता था। चन्द्र जिसप्रकार अत्यन्त धवल होने पर भी सभी लोगोंको रक्तिमा (अनुराग) करने वाला था, उसका यश उसी
१. अविगणय्य । २. ऽव्यसनिन्त्या, शूरसमागमैर्व्यसनिन्त्या । ३. नित्यम् अनवरतम् । ४. सागरः । ५. पाताल इव । ६. क्षितिभीतैः ।
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । १६६
भृतां कुलैः^१, ग्रहगण इव बुधानुगतः, मकरध्वज इवोत्सन्न-विग्रहः, दशरथ इव सुमित्रो- पेतः, पशुपतिरिव महासेनानुयातः, भुजगराज इव क्ष्माभारगुरुः, नर्म्मदा-प्रवाह इव महा- वंशप्रभवः, अवतार इव धर्म्मस्य, प्रतिनिधिरिव पुरुषोत्तमस्य, परिहृत-प्रजापीडो राजा तारापीडो नामाभूत्। यस्तमःप्रसरमलिनवपुषा पापबहुलेन कलिकालने चालितमामूलतो धर्म्म दशानने- नेव कैलासमिव पशुपतिरिवावष्टभ्य पुनरपि स्थिरीचकार^५।
शक्रेण च्छेदनात्ततो भीतैः त्रस्तैः क्षितिभृतां नृपाणां पर्वतानाञ्च कुलैः मण्डलः पातालमिव रसातलमि- वेति पातालवत् आश्रितः अवलम्बितः तारापीडः। शक्रेण स्वपक्षच्छेदमवधार्य पर्वतसमूहैरयथा रसातल- माश्रितः तथा विपक्षतारापीडात् स्वराज्यक्षयमीतः नृपगणैः स (भूपतिः) आश्रित इति भावः।
ग्रहेति। ग्रहाः सूर्यादयस्तेषां गणः समूह इव, बुधैः विद्भिः, बुधेन चन्द्रात्मजेन च अनुगतः सहितः।
मकरेति। मकरध्वजो मदन इव, उत्सन्नो विनष्टो विग्रहः संग्रामः शरीरञ्च यस्य स तादृशः, एकत्र व्यवहारनैपुण्यादन्यत्र शम्भुतृतीयलोचनवह्निना दाहादित्यभिप्रायः।
दशेति। दशरथो रामपिता स इव, सुमित्रैः उत्तमसुहृद्भिः, सुमित्रया लक्ष्मणमात्रा च उपेतः सहितः।
पश्विति। पशुपतिः शम्भुरिव, महासेनया विपुलसैन्येन, षडाननेन च अनुयातः अनुगतः।
भुजेति। भुजगराजः शेषनाग इव, क्ष्माभरेण क्ष्मागुणाधिक्येन, क्ष्मायाः भुवो धारणजन्यभारेण च गुरुः गौरवान्वितः भारयुक्तश्च। क्ष्मागुणप्रशंसा च-
'क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा। क्षमा वशीकृतिर्लोके क्षमया किन्न साध्यते ॥'
नर्मदेति। नर्मदाया मेकलाद्विजायाः नद्याः प्रवाहः स्रोत इव, महावंशात् अत्युच्चकुलात् विस्तीर्णवेणु- पुञ्जमध्याच्च प्रभवति उत्पद्यत इति स तादृशः। मेकलाद्रिस्थवेणुपुञ्जमध्यान्नर्मदायाः प्रादुर्भाव इति लौकिकाभागिकी। इह 'पातालवत्' इत्यारम्य 'नर्मदा प्रवाह इव' इत्यन्तं पूर्णोपमालङ्कारः।
अवेति। धर्मस्य धर्मराजस्य अवतार इव स्वरूपान्तरेणाविर्भूतः अंग इव, सर्वस्मिन् समये नीति- सत्यावलम्बनादित्यभिप्रायः।
नारायणस्य प्रतिनिधिरिव साम्यात् कार्यभारमुपगत इव, सर्वस्मिन् समये जगत्परिपालनतत्पर त्वादादित्यशयः। परिहृता परित्यक्ता प्रजानां जनानां पीडा दुःखोत्करभारदानादिजनितव्यथा येन स तादृशः। इह 'अवतार इव' 'प्रतिनिधिरिव' इत्यत्र च जात्युत्प्रेक्षालङ्कारः।
य इति। पशुपतिः शङ्कर इव यः तारापीडः, दशाननेन लङ्काधिपतिनेव, तमसां तमोगुणानां प्रसरेण आधिक्येन मलिनं करमलं वपुः शरीरं यस्य तेन तादृशेन, तथा पापं कलुषमेव बहुलम् अधिकं यस्मिन् तेन तादृशेन, कलिकालने कलियुगेन आमूलतः मूल (बुध्न) पर्यन्तं चालितं स्वकीयस्थानात्
प्रकार अत्यन्त धवल होकर भी सभी लोगोंको अनुरक्त करनेवाला था। क्षितिधरकुलोंने जिस प्रकार इन्द्र द्वारा अपने पक्षच्छेदके भयसे पातालका आश्रय लिया था, उसी प्रकार अन्यान्य राजान भी अपने पक्षके नाशके भयसे तारापीडका आश्रय लिये थे।
जिस प्रकार बुध अन्यान्य ग्रहगणका अनुगमन करता है, उसी प्रकार पण्डितगण भी तारापीडका अनुगमन करते थे। जिस प्रकार कामदेवका शरीर नहीं है, उसी प्रकार तारापीडका भी युद्ध नहीं था। जिस प्रकार राजा- दशरथ सुमित्रानामक पत्नीसे युक्त थे, उसी प्रकार तारापीड भी उत्तम सुहृदोंसे युक्त था। जिसप्रकार कार्तिकेय शङ्करका अनुगमन करते हैं, उसीप्रकार विशाल सैन्यमण्डली भी तारापीडका अनुगमन करती थी। जिसप्रकार शेषनाग पृथिवीधारण करनेमें गुरु हैं, उसीप्रकार तारापीड भी अतिशय क्षमागुणके भारसे गौरवान्वित था। जिस प्रकार नर्मदा नदीका प्रवाह विशाल वंशसमूह (बांसोंकी झाड़ी) से उत्पन्न होता है, उसीप्रकार तारापीड भी उच्चकुलसे उत्पन्न हुआ था, और वह धर्मका मानो अवतार एवं नारायणका मानो प्रतिनिधिरूप था।
रावणद्वारा कैलास पर्वतको मूलसे चलायमान किये जानेपर महादेवने चरणांगुष्ठके भारसे जिसप्रकार फिरसे उसे दृढ़तर स्थिर किया था, उसीप्रकार अज्ञानके प्रसारसे मलिन शरीरवाले और पापसे भरे कलिकाल-
१. क्षितिनृत्कुलैः, क्षितिभृत्कुलै, क्षितिभृतः कुलैः। २. अनुगतः। ३. परिहृत...। ४. कैलासम्। ५. चक्रे।
२१ का०
| १७० | कादम्बरी- | [ कथायाम्- |
|---|
यञ्च रति-प्रलोप-जनित-दयार्द्र-हृदय-हर-निर्मितमपरमिव-मकरकेतुममंस्त लोकः। यञ्च जलनिधि-तरङ्ग-धौत-मेखलात् पत्रान्तरै-विचारि-तारागण-द्विगुणिततट-तरु-कुसुम-प्रकरात् उदगिन्दु-विम्ब-विर्गलदमृत-विन्दुसारार्द्रै-चन्दनात् अशिशिर-कर-रथ-तुरङ्ग-खुर-शिखरोल्लेख-खण्डितोल्लसल्लवङ्ग-पल्लवात् ऐरावत-कर-लून-शलकी-किसल-
प्रच्यावयितुमुपक्रान्तम्, कैलासं हिमशिखरमिव धर्मं सुकृतम्, अवष्टभ्य सर्वतः श्रौतस्मार्त्तकर्मकलाप-प्रवर्त्तनेन चरणाङ्गुष्ठनिमग्नेन च अवलम्ब्य, पुनरपि भूयोऽपि स्थिरीचकार सुस्थिरं कृतवान्।
इह 'पशुपतिरिव, दशाननेनेव, कैलासमिव' इति त्रयाणामुपमानानां परस्परमङ्गाङ्गिभावसङ्करः।
पुरा परमशिवभक्तेन लङ्काधिपतिना शिवपूजनाय प्रत्यहं स्वराज़धानीतः कैलासागमनायासं परिह-तुमिच्छुना तं पर्वतमुत्तोल्य स्वराजधानीमेव नीयमानमवलोक्य तत्र भगवान् परमेश्वरः पादाङ्गुष्ठभरेण भूयोऽपि स्वकीयस्थानेऽतिष्ठिपदिति रामायणम्।
यमिति। च पुनः, रतेः कामपत्न्याः प्रलापेन स्वप्राणपतिविनाशोत्पन्नशोकजनितविलापेन, जनिता उत्पादिता या दया करुणा तया आर्द्रं स्विन्नं हृदयं चेतो यस्य तेन तादृशेन हरेण शङ्करेण निर्मितं रचितम् अपरम् अन्यं मकरकेतुं कन्दर्पमिव यं तारापोडम् अमंस्त मनसि कृतवान्। इह 'अपरमिव' इति द्रव्यो-त्प्रेक्षा तया चास्य स्वान्तः रागगीयकं रूपमिति ध्वन्यते इत्यलङ्कारेण वस्तुध्वनिः।
यञ्चेति। च पुनः, पूर्वदिग्वर्त्तमानादुदयाचलाद् दक्षिणदिग्वर्त्तमानात् सेतुबन्धात् पश्चिमदिग्वर्त्त-मानान् मन्दरशैलाद् उत्तरदिग्वर्त्तमानाच्च गन्धमादनपर्वतादारभ्य अवनीपतयः मेदिनीपतयः यं तारापीडं प्रणेमुः नमश्चकुरिति दूरस्थितया क्रियया सम्बन्धः। इह पञ्चम्यन्तानि पदानि तेषां पर्वतानां विशे-षणानि बोध्यानि। तत्र प्रथममुदयपर्वतविशेषणानि प्रतिपादयति—जलनिधीति। जलनिधेः पूर्वसमुद्रस्य तरङ्गैः कल्लोलैः धौता क्षालिता मेखला मध्यभागो यस्य तस्मात् तादृशात्। पत्राणां पर्णानाम् अन्तर्मध्ये विचारिभिः अत्युन्नततया नक्षत्रमण्डलस्पर्शित्वात् सञ्चारिभिः तारागणैः नक्षत्रमण्डलैः द्विगुणितः द्विगुणी-कृतः तटतरूणां स्वोन्नतप्रदेशस्थद्रुमाणां कुसुमप्रकरः पुष्पसमूहो यस्य तस्मात् तादृशात्। उद्यत उद्यं प्राप्नुवत इन्दुबिम्बात् चन्द्रमण्डलात् विगलतां स्रवताम् अमृतबिन्दूनां पीयूषबिन्दूनाम आसारेण धारा-सम्पातेन आर्द्रः क्लिन्नाः चन्दना मलयजवृक्षाः यत्र तस्मात् तादृशात्। अशिशिरकरस्य दिवसकरस्य ये रथतुरङ्गाः स्यन्दननियुक्ताश्वाः तेषां खुरशिखरैः शफाग्रान्तैः य उल्लेखो घर्षणं तेन खण्डितानि त्रुटितानि अत एव उल्लसन्ति देदीप्यवन्ति लवङ्गपल्लवानि लवङ्गकिसलयानि यत्र तस्मात् तादृशात्। ऐरावतस्य इन्द्रहस्तिनः करेण शुण्डादण्डेन लूनानि च्छिन्नानि शल्लकीनां गजभक्ष्यतरुविशेषाणां किसलयानि पल्ल-वानि यत्र तस्मात् तादृशात्। उदयनाम्नः उदयसंज्ञकस्य शैलात् पर्वतात् वा आरभ्येत्यर्थः। इह 'पत्रान्तरविचारि' इत्यादौ 'उदगिन्दुबिम्ब' इत्यादौ 'अशिशिरकर' इत्यादौ च विशेषणे सम्बन्धाभावेऽपि सम्बन्धप्रतिपादनादतिशयोक्तिः, चैषां सर्वत्र परस्परं निरपेक्षत्वेन संसृष्टिः।
द्वारा धर्म मूलसे चलायमान किये जानेपर उसे रोककर राजा तारापीडने श्रुति और स्मृतिका विधान प्रवर्त्तित कर उस धर्मको फिरसे स्थापित किया था।
महादेवने रतिका प्रलाप सुनकर हृदयमें दया उत्पन्न होनेसे मानो दूसरा कामदेव उत्पन्न किया हो ऐसा उस तारापीडको सभी लोग मनमें समझते थे।
समुद्रकी तरङ्गोंसे जिसकी मेखला घुल गई है, पत्तोंके बीच-बीचमें विचरते तारोंसे जिसके तटके वृक्षोंके फूल द्विगुणित हो गये हैं, उदय होते चन्द्रबिम्बमेंसे निःस्रुत हुई अमृतकी बूंदोंकी वर्षासे जहाँ सभी चन्दनवृक्ष गीले रहते हैं, सूर्यके रथमें नियुक्त घोड़ोंके खुरोंकी रगड़से जहाँके लवंग-पल्लवखण्डित हो गये हैं और ऐरावत हाथीकी सूँड़से जहाँ शल्लकी वृक्षके पत्ते तोड़ लिए गए हैं ऐसे उदयाचल तकसे, जहाँ मन्दरोंके तोड़े जानेके कारण लवलीखण्ड थोड़े ही बचे हैं, समुद्रमेंसे निकली हुई जलदेवियाँ जहाँ रामचन्द्रके चरणचिह्नोंकी पूजा करती हैं, पर्वतोंके गिरनेसे चूर्णित राक्षसमूहके टुकड़े जहाँ शिलातलोंपर नक्षत्रपुञ्जके समान प्रतीत हो रहे हैं, एवं जो बानरश्रेष्ठके हाथसे इकट्ठे किये गए सहस्रों पर्वतोंसे निर्मित हुआ है ऐसे सेतुबन्ध तकसे; निर्मल झरनोंके जलसे जहाँ गङ्गाजीके
१···लपजनित । २. अपरं । ३. पत्रान्तः···। ४. क्वचिद् 'वि' पदन्नास्ति । ५. दुर्दिनार्द्र···। ६.···तुरग···। ७···करतल, करनखलोप···करदनरोधः···।
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । १७१
द्योत् आ शैलादुदयनाम्नः, कपिबल-विलुप्त-विरल-लवलीलता-फलात् उदधि-विनिर्गत-जलदेवताभिवन्द्यमान-राघवपादात् अचल-पात-दलित-शङ्खकुल-शकल-तारकित-शिला-तलात् नल-करतलाकलित-शैल-सहस्र-सम्भृतादा सेतुबन्धात्, अच्छ-निर्झर-जल-धौत-तारका-सार्थात् अमृत-मथन-व्यत्त-वैकुण्ठ-केयूरपत्र-मकरकोटि-घर्षण-मसृणित-ग्राव्णः सुरासुर-हेला-वलयित-वासुकि-समाकर्षण-प्रारम्भ-चलित-चरणभर-दलित-नितम्बात् अमृत-सीकरसिक्तसानोरा मन्दराचलात् नर-नारायण-चरण-मुद्राङ्कित-बदरिकाश्रम-रमणीयात् कुवेर-पुर-सुन्दरी-भूषण-रवमुखर-शिखरात् सप्तर्षि-सन्ध्योपासना-पूत-प्रस्र-वणाम्भसः वृकोदरोद्दलित-सौगन्धिकषण्ड-सुगन्धि-मेखलात् आ गन्धमादनात्, सेवा-
अथ द्वितीयं सेतुबन्धं विशेषयन् प्रतिपादयति-कपिबलेनेति। कपिबलेन लङ्कागमनकाले वानरानीकेन विलुप्तानि भक्षयितुं लूनानि अतएव विरलानि स्वल्पीभूतानि लवलीलतानां लवलीसंज्ञकवल्लीनां फलानि सस्यानि यत्र तस्मात् । उदधेः समुद्राद् विनिर्गत्या उत्थित्य जलदेवतया जलाधिष्ठात्र्या अभिवन्द्यमाना अर्च्यमानाः राघवस्य दाशरथेः पादाः चरणचिह्नानि यत्र तस्मात् । अचलानां पर्वतानां पातेन निक्षेपेण सेतुबन्धनकाले शैलनिक्षेपप्रहारेणेत्यर्थः, दलितानां चूर्णितानां शङ्खकुलानां शकलैः खण्डैः तारकितानि सञ्जाततारकाणि शिलानलानि पाषाणतलानि यत्र तस्मात् । नलस्य तत्संज्ञकविश्वकर्मसुतस्य कपिमुख्यस्य करतलेन पाणितलेन आकलितेन संस्थापितेन शैलसहस्रेण सम्भूताद् उत्पन्नाद् सेतुबन्धात् समुद्रबन्धादित्यर्थः, आ आरभ्य । इह भ्रान्तिमान् ।
तृतीयं मन्दराचलं विशेषयति-अच्छेत्यादिना। अच्छैः स्फीतैः निर्झरजलैः प्रस्रवणसलिलैः धौतः प्रक्षालितः तारकासार्थः नक्षत्रसमूहो यस्मात् तस्मात्, अत्युन्नततया तारकामण्डलचुम्बत्वादित्याशयः । अमृतमथने समुद्रमन्थनपूर्वकपीयूषोत्थोलन इत्यर्थः, उद्यतस्य तत्परस्य वैकुण्ठस्य नारायणस्य, केयूरपत्राणां पत्रस्वरूपभुजालङ्कारविशेषाणां या मकरकोटयो मकररूपाग्रप्रदेशाः तेषां घर्षणेन घर्षणेन मसृणिताः चिक्रणीकृता ग्रावाणः शिला यस्य तस्मात् । सुरासुरैः देवदानवैः हेलया क्रीडया वलयितो मण्डलाकारां प्रापितो यो वासुकिः शेषनागः तस्य समाकर्षणप्रारम्भेण चलितानां स्वस्थानात्प्रस्थितानां चरणानां तेषामेव देवदानवानां पादानां भरेण दलितो मर्दितो नितम्बः कटिभागो यस्य तस्मात् । अमृतस्य उत्तिष्ठमानस्य पीयूषस्य, सीकरैः विन्दुभिः सिक्ताः सेविताः सानवः शिखरप्रदेशा यस्य तस्मात् मन्दराचलात् मेरुपर्वतात् आ आरभ्य ।
पुरा किल सुरासुरा मन्दराचलेन मन्थनदण्डेन यदा समुद्रं मथितुमारब्धवन्तस्तदानन्तस्तलाभावान्मन्दराचलो हि समुद्रे निममज्ज । अनन्तरं प्रार्थितो भगवान् विष्णुः कूर्मरूपेण तं धृतवान् तेनैव रूपेण च बाहुभ्यामावेष्ट्य रक्षितवान् मन्दराचलम्, ततो वासुकिं रज्जुं विधाय चिराच्च मन्थयामासुरिति पौराणिकी कथा ।
तुरीयं गन्धमादनं विशेषयति-नरनारायणेत्यादिना। नरनारायणयोः तन्नामकयोस्तपस्विन्योः चरणमुद्राभिः चरणन्यामचिह्नः अङ्कितः चिह्नितो यो बदरिकाश्रमः तन्नामकतपोवनं तेन रमणीयाद् सुन्दरात् । कुवेरपुरम् अलकापुरी तत्र याः सुन्दर्यः रमण्यः तासां तयोक्तानां भूषणरवैः आभरणशब्दैः मुखराणि
(तारे) फूट जाते हैं, अमृत-मन्थन करते समय नारायणके केयूर (अङ्गद) के मकराचित्रके अग्रभागके घर्षणसे जिसके प्रस्तरसमूह चिकने [पॉलिशदार] हो गये हैं, मण्डलीकृत वासुकि नागको सहज ढंगसे खींचनेमें डगमगाने देव-दानवोंके चरणोंके भारसे जिसका मध्य भाग मर्दित हो गया है और ऊपर उठे अमृतके बिन्दुओंसे जिसके शिखर सींचे गये हैं ऐसे मन्दराचल तकसे, नरनारायणके चरणचिह्नोंसे चिह्नित हुए बदरिकाश्रमसे जो रमणीय लगता है, कुबेरकी राजधानी अलकापुरीकी सुन्दरियोंके आभूषणोंकी झनझनाहटसे जिसके शिखर शब्दायमान हो रहे हैं, सप्तर्षियोंने सन्ध्योपासन करके जिसके झरनोंका जल पवित्र किया है, और भीमसेनके द्वारा तोड़े गये सौगन्धिक फूलोंसे जिसका मध्यभाग सुगन्धित हुआ है ऐसे गन्धमादन पर्वत तकसे लाकर अपनी भुजाओंके दमसे
१. '...कवनात् ।
२. दलिङ्गुल...।
३. पुमात् ।
४. निर्जर...।
५. दन्दनान...।
६. नितम्ब...।
७. तारकश्चित ।
८. प्रावाणः । सुरासुरावनदिय...।
९. '...प्रारम्भसञ्चरण 'चलञ्चलितचरण' ।
१०. नितम्बकटकौ ।
११. मन्दरात् ।
१२. सन्दनानन्द्या । मन्दरात् , मेरुवात् ।
१७२ कादम्बरी- [ कथामुखम्
ञ्जलि-कमल-मुकुलैर्दन्तुरैः शिरोभिश्चरण-नख-मयूरखै-ग्रथितै²-मुकुट-पत्रलता-ग्रन्थयो भयचकित- तरल-त्तारकैऱ्³-द्दशो भुजबल-विजिताः प्रणेमुरवनीपतयः। येन चानेकरत्नांशुजालैः-पल्लविते व्यालम्बि-मुक्ताफलर्जालके दिग्गजनेव कल्पतराव- क्रान्ते सिंहासने भरेण शिलीमुखव्यतिकरकम्पिता लता इव नेमुरायामिन्यः सर्वा दिशः। यस्मै च म्-न्येऽनन्यसाधारणशक्तिसम्पदे सुरपतिरपि स्पृहयाञ्चकार।
शब्दसहितानि शिखराणि सानूनि यस्य तस्मात्। सप्तर्षीणां मरीच्यादिमुनीनां सन्ध्योपासनया सन्ध्या- वन्दनेन पूतानि पवित्राणि प्रस्रवणाम्भांसि निर्झरललिलानि यस्य तस्मात्। तथा वृकोदरेण भीमसेनेन उद्दूलितं छिन्नं यत्सौगन्धिकषण्डं कहारमण्डलं तेन सुगन्धिः सौरभयुक्तो मेखला मध्यप्रदेशो यस्य तस्मात्। गन्धमादनात् तन्नामकपर्वताद् आ आरभ्य। 'सौगन्धिकं तु कहारम्' इत्यमरः।
यस्मिन् समये द्यूतनिर्जिताः सन्तः पाण्डवा द्वैतवनमवात्सुः तस्मिन् समये सौगन्धिककुसुमेषु द्रौपद्या अभिलापः समुत्पन्नः। अथ तन्मनोरथपूर्तये भीमसेनः तत्र सरस्यवसीने नागरावे विदिप तत्कन्यकाजोद्प्याल्यां विवाह सौगन्धिकङ्कुसुमानि गृहीत्वा स्वाश्रनम्याययाविति महाभारतीया कथा।
अथावनीपतीन् विशेषयति—तेनाञ्जलिनलेत्यादिना। सेवाञ्जलय एव आनुगत्यप्रकाशनायं भाले पाणिद्वयसंयोगो एव कमलमुकुलानि पद्मकुङ्कलानि यद्वा सेवाञ्जलयः कमलमुकुलानीव, तैर्दन्तुराणि उच्चावचानि तैः तादृशैः। शिरोभिः नस्तकैरुपरिरताः, चरणनखमयूखैः तारापीडनृपतेः पादपुनर्नूरश्मिनिः ग्रथिताः प्रणामसमये संस्पृष्टाः मुकुटानां राज्ञामेव किरीटानां पत्रलताग्रन्थयः पत्रलतास्वरूपायभागवन्ध- नानि येषां ते तादृशाः। भयेन त्रासेन चकिताः चञ्चलाः तरलाः भास्वराः तारकाः कनीनिका यासां ताः तादृशाः दृशो लोचनानि येषां ते तादृशाः। भुजवलेन तारापीडस्यैव बाहुवीर्येण विजिताः स्वाधीनीकृताः। 'तरलो भास्वरे चले' इति हैमः।
'तरलं चञ्चले पिङ्गे भास्वरेऽपि त्रिलिङ्ककम्। हारमध्यमणौ पुंसि चवानुसारयोः स्त्रियाम् ॥' इति मेदिनी च।
इह 'सेवाञ्जलि-कमल-मुकुल-दन्तुरै' इत्यत्र साधकवाधकमनानानुपलब्भाव उपमारूपकयोः सन्देहल्लङ्करः।
येनेति। दिग्गजेन ऐरावतादिहस्तिना कल्पतरावित्र पारिजातवृत्त इव येन तारापीडेन, अनेकेषां वहूनां रत्नानां स्वनिदेशितानां मणीनाम् अंशुजालैः रश्मिसमूहैः पल्लविते चतुर्दिक्षु प्रसंगाद्विस्तारिते समुत्पन्नविविधमणिकिरणसमूहात्मककिसलये च, तथा व्यालम्बि लम्बमानं मुक्ताफलजालं मौक्तिकसङ् यत्र तयोक्ते सिंहासने राजविष्टरे आक्रान्ते लारूडे धारणे च कृते सति, भरेण तदीयभारेण, शिलीमुखानां तत्पारिजातवृक्षतः उत्पततां भ्रमराणां वाणानाञ्च व्यतिकरेण सम्वन्धेन कम्पिता धूता लता इव तत्पारिजातवृक्षनिकटस्थिता व्रतत्य इव आयामिन्यो विस्तारवत्यः समस्ता इत्यर्थः, सर्वाः समस्ताः दिशो हरितो नेमुः अधोना प्रनताश्च वभूवुः। इह 'कल्पतराविव' 'लता इव' इत्यत्र पूर्णोपमयोः परस्परं सापे- क्षत्वेन सङ्करः।
जीते हुए तथा भयते चकित और चञ्चल दृष्टिवाले बड़े-बड़े राजागण सेवाञ्जलिरूप कमलको करते निष्क्रान्त हुए मस्तकोंसे उस [तारापीड] को प्रणाम करते थे।
जिस दिग्गज द्वारा कल्पवृक्ष पर आक्रमण करने पर जिस समय उसके उड़कर भ्रमरगण निकटवर्ती लताओं पर बैठ जाते हैं, उस समय उसके भारसे कम्पित होकर वे [लताएँ] जिस प्रकार अवनत हो बढ़ी हैं, उसी प्रकार अनेक रत्नोंकी किरणें जहाँ फैल रही थीं और जिसमें मोतियों की जालियाँ बँधी हुई थीं ऐसे सिंहासन पर महाराज तारापीडके बैठने पर उसके भारसे वाणन्दारके मदसे कम्पित होकर सभी दिशाएँ उसके समीप सम्पूर्ण रूपसे अवनत हो गईं।
मुझे ऐसा प्रतीत हो रहा है किस्वयं देवराज इन्द्र भी, तारापीडकी असाधारण शक्ति और सम्पत्तिको देखकर तदनुरूप शक्ति और सम्पत्ति प्राप्त करनेकी इच्छा करता था।
१. मुकुलैर्दन्तुरैः २. ॰मयूखग्रंथितै॰ ३. ग्रथि...। ४. तार...। ५. बवनिपाः। ६. संत्कलत। ७. व्यलम्बि। ८. ॰मुक्ताजालके ९. सर्वदिशः। १० मन्ये हुर...।
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । १७३
यस्माच्च धवलीकृत-भुवनतलः सकल-लोक-हृदयानन्दकारी क्रौञ्चादिव हंसनिवहो निर्जगाम गुणगणः। यस्य चामृतामोद-सुरभिपरिमलया मन्दरोद्धत¹-बहुल-दुग्धसिन्धु-फेन-लेखयेव धवलीकृतसुरासुरलोकया दशसु दिक्षु मुखरितभुवनमभ्रम्यत² कीर्त्या। यस्य चातिदुःसह-प्रताप-सन्ताप-खिद्यमानेव क्षणमपि न सुमोचातपत्रच्छायां³ राजलक्ष्मीः। तथा च यस्य⁴ दिष्टवृद्धिमिव⁵ शुश्राव, उपदेशमिव जग्राह, ⁶मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगममिव⁷ न विसस्मार चरितं जनः।
यस्मै चेति। सुराणां देवानां पतिः स्वामी इन्द्र इत्यर्थः, सोऽपि, अनन्यसाधारणी शक्तिसम्पत् यस्य एवम्भूताय यस्मै च तारापीडाय स्पृहयाञ्चकार उक्तरूपा ममापि शक्तिसम्पत् स्यादिति मनोरथं कृतवानित्यर्थः। इत्यहं मन्ये। वाचकपदस्य विद्यमानत्वाद्वाच्या क्रियोत्प्रेक्षा।
यस्मादिति। यस्मात् तारापीडात् क्रौञ्चात् क्रौञ्चपर्वतात् हंसनिवहः सितच्छदस्रूह इव, धवलीकृतं श्वेतीकृतं भुवनतलं विष्टपतलं येन स तादृशः सकललोकानां समस्तजनानां यानि हृदयानि चित्तानि तेषाम् आनन्दकारी प्रमोदकृत् गुणगणो दयादाक्षिण्यादिः निर्जगाम वहिर्निर्ययौ तमनुकर्तुमभिलषतां जनानां चेतांसि इति शेषः। पुरा किल परशुरामो महेश्वराद्धनुर्वेदशिक्षणावसरे क्रौञ्चदारकस्य कार्त्तिकेयस्य स्पर्द्धया शरेण क्रौञ्चनामकं पर्वतं भेदितवान् यद्विवराच्च हंसा निःसृता इति पौराणिकी कथा।
यस्येति। अमृतस्य पीयूषस्य य आमोदो गन्धः तद्वत् मन्थनोत्पन्नपीयूषामोदेन च सुरभिघ्राणतर्पणः परिमलो गन्धो यस्याः तया तादृश्या, तथा धवलीकृताः शुभ्रीकृताः सुरासुरलोकाः संसारव्यापनाद् देवदानवलोकाः मन्थनोधताः सुरासुराश्च यया तया तादृश्या। मन्दरेण भ्रमितमन्दरपर्वतेन उद्धता उत्तोलिता बहुला अधिका या दुग्धसिन्धोः क्षीरसमुद्रस्य फेनलेखा अधिकफक्पङ्किः तया इव, यस्य कीर्त्या यशसा; मुखरितं निजनेयनाशब्दैश्च आलोहनशब्दैश्च शब्दायमानीकृतं भुवनं विष्टपं यस्मिन् कर्मणि तद् यथा स्यात्तथा दशसु दिशासु अभ्रम्यत अगम्यत। यद्यप्यत्र कीर्त्तेः परिमलासम्भवात्तद्वर्णनेन ख्यातिविरुद्धो दोष आपतति तथापि 'कीर्त्यां सौगन्ध्यं वर्ण्यते' इति कविसम्प्रदाय इति भानुचन्द्रप्रतिपादनात् गुण एव, उक्तञ्च दर्पणे 'कवीनां समये ख्याते गुणः ख्यातिविरुद्धता' इति। 'फेनलेखयेवे'त्यत्र पूर्णोपमा।
यस्येति। राजलक्ष्मीः राज्यश्रीः, अतिदुःसहः अतिदुःखेन सोढुं शक्यः प्रतापः कोशदण्डजातं तेज एव प्रतापः सूर्यादितेजः तस्माद् यः सन्तापो घर्मः तेन खिद्यमानेव क्लिश्यमानेव सती क्षणमपि निमेषमात्रमपि यस्य आतपत्रच्छायां राजच्छत्त्रस्य अनातपस्थलं न सुमोच न तत्याज सूर्यादितातपतत्तस्य छायाश्रयगस्यावश्यकत्वादित्याशयः। इहोत्प्रेक्षातिशयोक्त्योः सङ्करः।
तथा चेति। तथा च किञ्चेत्यर्थः। जनो लोकः यस्य चरितं शौर्यानुकम्पादिकं दिष्टवृद्धिमिव ज्योतिःशास्त्रोक्तत्वात् निजभाग्योपचयमिव जानानात् शुश्राव आकर्णितवान् लालसया कौतूहलेन च आम्रहातिशयसम्भवादित्याशयः। गुरोरुपदेशमिव गुरुनिर्देशमिव जग्राह गृहीतवान् द्वयोरप्यभ्युदयसम्पादकत्वप्रत्याशायादित्यभिप्रायः। मङ्गलमिव स्वीयशुभोदयमिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् उभयत्रापि सुखहेतुत्वादिति भावः। उपास्यमन्त्रमिव आराध्यमन्त्रमिव जजाप वारंवारमुच्चरितवान् मुहुर्मुहुस्तदनुष्ठानेन तदनुकरणस्यानायासेन विधातुं शक्यत्वाद् मन्त्रपक्षे चाभिलषितसम्पादकत्वादित्याशयः। आगमम्
पूर्व समयमें जिस प्रकार क्रौञ्चपर्वतसे हंसगण निकले हुए थे, उसी प्रकार दया-दाक्षिण्यादि गुणगण, समस्त संसारको शुक्लवर्ण कर एवं सब लोगोंके हृदयमें आनन्द उत्पन्न कर उस तारापीडसे निकले हुए थे।
अमृतसुगन्धके समान नासिकाके तृप्तिकारक सौरभसे युक्त, एवं मन्दराचलसे उछाले गये दूधवाले समुद्रकी फेनलेखाके समान शुभ्रवर्ण जिसकी दीप्ति, देव एवं असुरलोकको शुभ्रवर्ण कर समस्त भुवनमण्डलको अपनी आलोचनाके शब्दोंसे मुखरित करती हुई दशो-दिशाओंमें भ्रमण करती थी। एवं राजलक्ष्मी, जिसके प्रतापके दुःसह सन्तापसे मानो खिन्न हुई क्षणभर भी उसके राजच्छत्रकी छायाको परित्याग नहीं करती थी। सब लोग दैवज्ञमुखसे अपने सौभाग्यके अभ्युदयके समान उसके चरित्र सुनते थे, गुरुके उपदेशके समान उसकी शिक्षा ग्रहण करते थे, मङ्गलकार्यके समान आदर करते थे, इष्टमन्त्रके समान जप करते थे और शास्त्र-वचनके समान अहर्निश स्मरण करते थे।
१. मन्दरोद्धृत...।
२. अभ्राम्यत्।
३. आतपत्रछायां।
४. यस्य ।
५. दिष्टवृद्धिम ।
६. बहुमङ्गलमिव मेने ।
७. आगमवचनमिव ।
| १७४ | कादम्बरी- | [ कथायाम्- |
|---|
यस्मिंश्च राजनि¹ गिरीणां विपक्षता, प्रत्ययानां परत्वम्, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः, जलधराणां चापधारणम्, ²प्रतीहाराणामसिधारणम्, तैक्ष्ण्यमसिधाराणाम्, ध्वजानामुन्नतिः, धनुषामवनतिः, वंशानां शिलीमुखक्षतिः, ³देवतानां⁴ यात्रा-
अधीताम्नायमिव न विसस्मार न विस्मृतवान् वेदादिविस्मरणे मनुवचनादिना दुष्कृतोदयात्, यशस्तु स्वत एव न विस्मर्यते रमणीयत्वादित्यभिप्रायः । उपमालङ्कारः ।
यस्मिंश्चेति । च पुनः यस्मिंस्तारापीडे राजनि नृपे गिरीणां पर्वतानामेव विपक्षता इन्द्रकर्तृकच्छेदनेन पक्षराहित्यम्, न तु जनानां विपक्षता मिथो वैरभावः तद्धेतोरसत्त्वात् । पृथिव्याम् 'आसीत्' इति अग्रेतनक्रियया सर्वत्र सम्बन्धः । प्रत्ययानां सुप्तिङादीनामेव परत्वं प्रकृतिपरवर्तित्वम्, न तु जनानां परत्वं भिन्नत्वम् अनात्मीयत्वमित्यर्थः, सर्वस्मिन् समये सदाचरणात् । दर्पणानाम् आदर्शानामेव अभिमुखावस्थानं संमुखेऽवस्थितिः, न तु जनानां जनान्तरस्य हननाय सम्मुखावस्थानं तथाविधविद्वेषासत्त्वात्, यद्वा—जनानां पुरतो न कस्याप्यवस्थानम्, सर्वेषां धनधान्यादियुक्तत्वादित्याशयः । 'दर्पणे मुकुरादर्शौ' इत्यमरः । शूलपाणिः मृत्तिकादिरचितमहेश्वरः तत्प्रतिमानां प्रतिकृतीनामेव दुर्गाणां दुर्गाप्रतिमानाम् आश्लेषः संवन्धः, न तु जनानां दुर्गेषु आश्लेष आश्रयः, प्रतिपद्यच्यक्रमणसन्देहस्याविद्यमानत्वात् । जलधराणां मेघानामेव चापधारणम् इन्द्रधनुर्धारणम्, न तु जनानां चापधारणं कार्मुकधारणं संग्रामाभावात् । प्रतीहाराणां द्वारपालानामेव असिधारणं खड्गधारणम्, न तु जनानां जनान्तरहननाय खड्गधारणं वैरिताया एवासत्त्वात् । असिधाराणां खड्गनिशितभागानामेव तैक्ष्ण्यं तीक्ष्णता, न तु जनानां तैक्ष्ण्यम् उग्रप्रकृतित्वं सच्छित्ताप्रभावेण निखिलानामेव मधुरप्रकृतित्वात् । ध्वजानां वैजयन्तीनामेव उन्नतिः ऊर्ध्वमुखत्वेन स्थितिः, न तु जनानाम् उन्नतिः औद्धत्यम् अहङ्काराभावात् । धनुषां कार्मुकाणामेव अवनतिः शिक्षाकाले गुणाकर्षणेन अवनमनम्, न तु जनानाम् अवनतिः अवस्थाच्युतिः निखिलानामेव अत्यध्यवसायेन द्रव्याद्युपार्जनात् । वंशानां वेणूनामेव शिलीमुखैः भ्रमरैः क्षतिः विवरकरणेन हानिः, न तु जनानां .शिलीमुखैः शरैः क्षतिः भेदनं संग्रामाभावात् । देवतानां सुराणामेव यात्रा अर्चायोत्सवः, न तु जनानां ( सैन्यानां ) यात्रा संग्रामाय गमनं प्रतिपक्षासत्त्वात् । 'यात्रा तु यापनेऽपि स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी । कुसुमानां पुष्पाणामेव बन्धनेषु वृन्तेषु स्थितिः अवस्थानम्, न तु जनानां बन्धने बन्धनभवने ( कारागारे ) स्थितिः, सर्वेषां निरपराधत्वात् । इन्द्रियाणां मनआदिकरणानामेव निग्रहः
'और जिसके राजा होनेपर पृथिवीमें पर्वतगणकी ही विपक्षता ( पक्षहीनता ) थी, किन्तु लोगों के बीचमें विपक्षता ( परस्पर शत्रुता ) नहीं थी । सुप् और तिङ्प्रभृति प्रत्ययोंका ही परत्व ( प्रकृति-परवर्तित्व ) था, किन्तु लोगोंके मध्यमें परत्व [ परस्पर-अनात्मीयता ] नहीं था । दर्पण ही सामने रहते थे, किन्तु प्रहार करनेके लिए एक व्यक्ति दूसरे व्यक्तिके सामने नहीं ठहरते थे । शिवकूर्त्तियोंका ही दुर्गा-आश्लेष [ पार्वतीकी प्रतिमाका संयोग ] था, किन्तु लोगोंको दुर्गाश्लेष [ दुर्ग-आश्लेष = किलेमें जानेकी आवश्यकता ] नहीं था । मेघ ही चापधारण [ इन्द्रधनुष-धारण ] करते थे, किन्तु लोगोंको चापधारण ( युद्धके लिए धनुर्ग्रहण ) करनेकी आवश्यकता नहीं थी । द्वारपालोंका ही खड्गधारण था, किन्तु अन्य लोगोंका नहीं । तलवारकी धाराओंमें ही तीक्ष्णता थी, किन्तु किसीके भी स्वभावमें तीक्ष्णता नहीं थी । ध्वजा ही में उन्नति [ ऊंचा चढ़ना ] थी, किन्तु लोगोंमें उन्नति [ औचित्य ] नहीं थी । धनुषोंमें ही अवनति [ गुणाकर्षणके समयमें नमन ] होता था किन्तु लोगोंकी अवस्थाकी अवनति नहीं होती थी । बाँसोंका ही शिलीमुखद्वारा [ भ्रमरद्वारा ] क्षय होता था, किन्तु लोगोंके मध्यमें किसी की भी शिलीमुखद्वारा क्षति [ बाणद्वारा विदारण ] नहीं होता था । देवताओंकी ही पूजादिके उपलक्षमें यात्रा ( उत्सव ) होती थी, किन्तु युद्धके लिए सैनिकोंकी यात्रा [ प्रस्थान ] नहीं होती थी । फूलोंके ही बन्धनमें [ वृन्तमें = डंठलमें, अथवा मालारूपमें ] स्थिति थी, किन्तु लोगोंमें किसीका बन्धन [ कारागार ] नहीं था । इन्द्रियोंका ही
१. दर्पाणाम् । , २. 'प्रतीहाराणामसिधारणं तैक्ष्ण्यमसिधाराणाम्' इति पाठः क्वचिन्नोपलभ्यते, 'पद्मान् जलदिव्यम्'त्यधिकश्च पाठः क्वचिदुपलभ्यते । ३. शिलीमुखमुखक्षतिः । ४. देवानाम् ।
तारापीडवर्णना-३ ] चन्द्रकला-विद्योतिनीसहिता । [ १७५
कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, व्रतिनामग्निवारणम्, ग्रहाणां तुलारोहणम्; अगस्त्योदये विषशुद्धिः, केश-नखानामायतिभङ्गः, जलधर-दिवसानां मलिनाम्बरत्वम्, रत्नोपलानां भेदः, मुनीनां योगसाधनम्, कुमारस्तुतिषु तारको-
योगविधानेन वशीकरणम्, न तु जनानां निग्रहो दमनं दुराचाराभावात् । वनकरिणाम् अरण्यवासिगजानामेव वारौ बन्धनस्थले प्रवेशः शिञ्जाय प्रवेशकम्, न तु जनानां वारिजि सलिले प्रवेशः 'यद्यहं दुराचाररतो भवेयं तदा सलिले मग्नः स्याम्' इति शपथग्रहणेनावतरणं, दुराचाराभावात् । 'वारि हीवेरनीरयोः । वारिव्रज्यां मरस्वत्यां गजबन्धनभूभ्यपि' इति हैमः । व्रतिनाम् अग्निहोत्रादिनियमशालिनामेव अग्निधारणं हवनायाग्निपरिग्रहः न तु जनानां 'यद्यहं दुराचाररतः स्यां तदा वह्निना दग्धकरो भवेयम्' इति शपथग्रहणेन अग्निवारणम् अग्निदिव्यं, दुराचाराभावात् । ग्रहाणां सूर्यादीनामेव तुलारोहणं तुलाराशौ संक्रणः, न तु जनानां 'यद्यहं दुराचाररतः स्यां तदाऽधोगामी भवेयम्' इति शपथग्रहणेन तुलादण्डारोहणं, दुराचाराभावात् । अगस्त्योदये सौरभाद्रपदमासाऽवसाने अगस्त्योदय एव विषाणां सलिलानां शुद्धिः स्वच्छता, न तु दुष्कृतोदयसन्देहे जनानां विषेण 'यद्यहं दुराचारी स्यां तदा गरलपानेन निश्चेतन्यो भवेयम्' इत्येव शपथग्रहणपूर्वकविषपानेन शुद्धिः विगतकल्मषत्वप्रख्यापनं, कल्मषसन्देहाभावात् । 'विषं तु गरले तोये' इति विश्वः । केशमखानां कचपुनर्नूणामेव आयतेः विस्तृततायाः भङ्गः कर्त्तनम्, न तु जनानाम् आयतेः उत्तरकालस्य उत्तरसमयस्यादिनः आनन्दस्य भङ्गो नाशः, शुभप्रारब्धत्वात् । जलधरो मेघः तस्य ये दिवसाः तदाच्छन्नदिनानि तेषामेव मलिनाम्बरत्वं मेधावृतत्वात् मलिनगगनत्वम्, न तु जनानां मलिनाम्बरत्वं मलिनवस्त्रयुक्तत्वं धनसम्पन्नभूततया सर्वस्मिन् समये क्षालितवस्त्रनत्वात् । रत्नोपलानां मणीनामेव भेदो ग्रुम्फनतन्तुप्रवेशाय विदारणं रन्ध्रकरणम्, न तु जनानां भेदो भेदनीतिप्रयोगः, वैरिवासत्वेनावश्यकत्वाभावात् । मुनीनां तपस्विनामेव योगसाधनं चित्तवृत्तिनिरोधाय यमाद्यनुष्ठानम्, न तु जनानां योगसाधनम् अन्यजनमार्गाथं विश्वासघातकनिदेशनम्, तथाविधक्रूराचाराभावात् ।
'योगोऽपूर्वार्थसंप्राप्तौ सङ्घतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भादिषु भेषजे ॥ विश्लम्भघातके द्रव्योपायसंहननेष्वपि । कार्मणेऽपि च........................' इति मेदिनी ।
कुमारः कार्तिकेयः तस्य स्तुतिषु स्तोत्रेष्वेव तारकस्य तन्नामक-तद्गतदैत्यविशेषस्य उद्धरणम् उद्दाहरणम्, न तु केषामिदपि जनानां दृष्टेषु तारकोद्धरणं लोचनकनीनिकोत्पाटनम्, तथाविधदोषाभावात् दण्डदानुद्याघातुकत्वात् । उपरागरनेः रवेरेव ग्रहगाशङ्का उपरागशङ्का, न तु कस्यापि लोकस्य ग्रहगाशङ्का दोषवशाद् राजदूतैः हठाद्दारगमनम्, दोषाभावात् । शशिनः चन्द्रमस एव ज्येष्ठातिक्रमः ज्येष्ठानक्षत्रमु-
निग्रह (दमन) था, किन्तु लोगोंको दण्ड नहीं दिया जाता था ] जङ्गली हाथियोंका ही वारि (बन्धनस्थान) में प्रवेश था, किन्तु पापके विषयमें शपथपूर्वक किसी अपराधीको जलप्रवेशका दण्ड नहीं दिया जाता था (प्राचीन समयमें जलप्रवेश भी एक प्रकारका दिव्य दण्ड था जिससे किसी मनुष्यका अपराधी या निरपराधी होना सिद्ध होता था)। अग्निहोत्रादि नियमवालोंका ही अग्निधारण (अग्निग्रहण) था, किन्तु पापके विषयमें शपथपूर्वक किसी व्यक्तिका अग्निहरण नहीं था। ग्रहोंका ही तुलारोहण (तुला राशिमें गमन) था, किन्तु पापके विषयमें शपथपूर्वक किसी मनुष्यका तुलारोहण (तराजू पर चढ़ना) नहीं था। अगस्त्योदयमें ही विष-शुद्धि (जलकी स्वच्छता) होती थी, किन्तु पापके विषयमें शपथपूर्वक किसी मनुष्यकी विष-शुद्धि (विष-पान द्वारा शुद्ध्यिप्रकाश) नहीं होता था। केशों और नखोंमें ही आयतिभङ्ग (छेदन करने से वृद्धिका अभाव) होता था, किन्तु लोगोंका आयतिभङ्ग (बुढ़ापेमें सुखभोगका अभाव) नहीं होता था। मेधाच्छन्न दिनोंमें ही मलिनाम्बरत्व (आकाश मलिन) होता था, किन्तु लोगोंमें मलिनाम्बरत्व (वस्त्र मलिन) नहीं था। मणियों में ही भेद (ग्रन्थनसूत्रके प्रवेशके लिए छिद्रकरण) था, किन्तु लोगोंके सम्बन्धमें भेद (परस्पर भेदनीति प्रयोग = विरोध) नहीं था। मुनियोंका ही योगसाधन (योगसाधन = चित्तका निरन्तर बाह्यवृत्तिसे रोकना) था, किन्तु किसीकी हत्याके लिए योगसाधन (विश्वासघातक प्रेरणा) नहीं था। स्वामिकार्त्तिकेयकी स्तुतिमें ही तारकोद्धार (तारकासुरका उदाहरण) दिया जाता था, किन्तु दण्डके समय किसीका भी तारकोद्धरण (लोचनकनीनिका = आँखकी पुतलीका कत्लादन) नहीं होता
१. प्रवेशाः, इत्येवं च 'नेष्टन्दनस्थिति' रा' इत्यधिकः पाठः क्वचिदुपलभ्यते । २. व्रतिनामग्निपरिग्रहम् । ३. विषविशुद्धिः । ४. जलद । ५. योगधारणम् ।
१७६ कादम्बरी- [ कथायाम्-
द्धरणम्, उष्णरश्मेर्ग्रहणाशङ्का शशिनो ज्येष्ठातिक्रमः, महाभारते दुःशासनापराधकर्णनम्, वयःपरिणामे दण्डग्रहणम्, असि-परिवारेषु³ कलङ्कयोगः, कामिनी-कुच⁴पत्रभङ्गेषु वक्रता, करिणां दान-विच्छित्तिः, अक्षक्रीडासु शून्यगृह-दर्शनम्, पृथिव्यामासीत्।
तस्य वै राज्ञः निखिल-शास्त्र-कलावगाह-गम्भीरबुद्धिः, आ शैशवादुपारूढ-निर्भर-
हृद्य मूलनक्षत्रादौ प्रवेशः, न त्वन्यस्य कस्य चन ज्येष्ठानाम् अवस्था वृद्धानां सोदरादीनाम् अतिक्रमः तदादेशोल्लङ्घनम्, शिष्टत्वात्। महाभारते तन्नामकपञ्चमवेद एव दुःशासनस्य दुर्योधनानुजस्य अपराधा-कर्णनं द्रुपदात्मजायाः कचवस्त्राकर्षणदोषश्रवणम्, न ह्यपरत्र दुःशासनेन नीतिधर्मविरुद्धतया दूषितशासनेन अपराधाकर्षणं राजकीयजनानां दोषश्रवणम्, राजानुशासनेन सर्वस्मिन् स्थल एव तेषां नीतिधर्मपुरस्सरव्यवस्थाकरणात्। वयःपरिणामे वृद्धावस्थायामेव दण्डग्रहणम् अवलम्बनार्थं यष्टिग्रहणम्, न तु दोषे दण्डग्रहणं द्रव्यदानादिदण्डाङ्गीकारः दोषाभावात्। परिचियन्ते आच्छाद्यन्ते एभिरिति व्युत्पत्त्या परिवाराः, असीनां खड्गानां परिवाराः कोपाः तेष्वेव कलङ्कयोगः परिष्क-रणाभावेन मालिन्याङ्कसम्वन्धः, न तु जनानां परिवारेषु दारात्मजादिपरिजनेषु कलङ्कयोगः कलङ्क-सम्बन्धः दोषरहितत्वात्। कामिनीनां रमणीनां कुचयोः स्तनयोः पत्रभङ्गेषु पत्रस्वरूपरेखासु वक्रता कुटिलता, न तु जनमनस्सु वक्रता निखिलानामेव कामलहृदयत्वात्। करिणां गजानामेव दानैः स्वीयमद-सलिलैः विच्छित्तिः अङ्गरागः, न तु सम्पत्तिमतां दानविच्छित्तिः द्रव्यवितरणविरामः 'अहरहर्दद्यात्' इति श्रुत्या तेषां प्रत्यहमेव दानकरणात् । 'दानं गजमदे त्यागे' इति विश्वमेदिन्यौ। अक्षक्रीडा द्यूतखेलाः तास्वेव शून्यगृहस्य गुटिकाशून्यकोष्ठस्य दर्शनम् अवलोकनम्, न तु नगरग्रामेषु शून्यगृहस्य जनवर्जितभवनस्य दर्शनम्, कस्यचिदप्युपद्रवानुपलम्भेन सर्वस्मिन् समय एव जनपूरित्वात्।
इह 'गिरीणां विपत्तता' इत्यारभ्य 'अक्षक्रीडासु शून्यगृहदर्शनम्' इत्यन्तं यावत् सर्वस्मिन्नेव स्थले यथासम्भवश्लेषसङ्कीर्णा आर्थी परिसंख्यालङ्कारः।
तस्येति। अपि चेति चार्थः। शुकनासो नाम 'शुकनास' इतिसंज्ञकः ब्राह्मणो विप्रः तस्य तारापीडस्य (राज्ञः) अमात्यो मन्त्री 'आसीत्' इत्यग्रिमया क्रियया सम्बन्धः। इह प्रथमान्तानि पदानि मन्त्रिणो विशेषणान्यवगन्तव्यानि। निखिलानि समस्तानि यानि शास्त्राणि आम्नायादीनि च कला नृत्यगीतादि-चतुःषष्टिकलाविद्याश्च तासु अवगाहनेन तदभिप्रायाकलनेन गम्भीरा दुरवगाहा बुद्धिः मनीपायस्य स तादृशः। आ शैशवात् आ बाल्यात् उपारूढः राजन्युत्पन्नो निर्भरः सान्द्रः प्रमरसः स्नेहानुरागो यस्य स तादृशः।
था। सूर्यको ही ग्रहणाशङ्का (राहुद्वारा ग्रासकी सम्भावना) थी, किन्तु लोगोंकी ग्रहणाशङ्का (राजानुचरद्वारा बलात्कार पकड़े जाने की आशङ्का) नहीं थी। चन्द्रका ही ज्येष्ठातिक्रम (ज्येष्ठा नक्षत्रका उल्लङ्घन) था, किन्तु किसीके द्वारा ज्येष्ठातिक्रम (बड़े भाई आदि वृद्धोंकी वातका उल्लङ्घन) नहीं था। महाभारतमें ही दुःशासन (धृतराष्ट्रके पुत्र दुर्योधनके कनिष्ठ भ्राताका अपराध = द्रौपदीका वस्त्र खींचकर धृष्टताप्रदर्शनरूप दोष, सुना जाता था, किन्तु राज्यके मध्यमें किसी स्थान पर राजपुरुषोंके दुःशासन [अन्याय शासन] का अपराध नहीं सुना जाता था। वृद्धावस्थामें ही दण्डग्रहण [यष्टि-धारण] होना था, किन्तु अपराधके कारण किसीसे भी दण्डग्रहण [जुर्माना लेना] नहीं होता था। तलवारके कोषोंमें ही कलङ्कयोग [मलचिह्नका सम्पर्क] था, किन्तु किसीके स्त्रीपुत्रादि परिजनवर्गके मध्यमें कलङ्क योग [अपवादका सम्पर्क] नहीं था। कामिनोंके स्तनोंके ऊपर पत्राकार रचनोमें ही वक्रता [टेढ़ापन] थी, किन्तु लोगोंके चित्तमें वक्रता [क्रूरता] नहीं थी। हाथियोंमें ही दानविच्छित्ति [स्वकीय मद जल द्वारा अङ्गराज] होता था, किन्तु धनियोंकी दानविच्छित्ति [धनवितरणका विराम] नहीं होती थी और पाशोंके खेलमें ही शून्यगृह देखे जाते थे, किन्तु नगरमें वा ग्राममें शून्यगृह [मनुष्यशून्य भवन] देखनेमें नहीं आते थे।
शुकनास नामका एक ब्राह्मण उस राजाका मन्त्री था। वेदादि समस्त शास्त्रों एवं नृत्यगीतादि सभी कलाओंके परिशीलनसे उसकी बुद्धि गम्भीर हो गई थी। बाल्यावस्थासे ही राजाके ऊपर उसका अत्यन्त
२. ग्रहणशङ्का। २. दुःशासनापराधः। ३. असिपरिवारेषु कुशलयोगः, असिपरिवारेष्वकुशलयोगः, असिधारानु कोषगुप्तिः। ४. कामिनीनां कुचभङ्गेन, कामिनीकुचभङ्गेन, वक्रता कामिनीनां कुचभङ्गेषु। ५. तस्य राज्ञः। ६. कलाकलापावगाहनगम्भीरबुद्धिः, निखिलशास्त्रकलापावगाहनगभीरबुद्धिः।
शुकनासवर्णना-४ ] चन्द्रकला-विद्योतिनीसहिता । १७७
प्रेमरासः, नीतिशास्त्र-प्रयोग-कुशलः, भुवनराज्यभारनौ-कर्णधारः, महत्स्वपि कार्य्यसङ्कटे- ष्वविपण्णधीः, धाम धैर्य्यस्य, स्थानं स्थितेः, सिन्धुः सत्यस्य, गुरुर्गुणानाम्, आचार्यो आचाराणाम्, धाता धर्म्मस्य, शेषाहिरिव सकलमही-भारधारणक्षमः, सलिलनिधिरिव महासत्त्वनिवासः, जरासन्ध इव घटित-सन्धिविग्रहः, त्र्यम्बक इव प्रसाधितदुर्गः, युधि- ष्ठिर इव धर्म्मप्रभवः, सकल-वेद-वेदाङ्गवित्, अशेषराज्यमण्डलमङ्गलैकसारः, बृहस्पति-
नीतिशास्त्रं व्यवहारग्रन्थः तस्य प्रयोगः तदर्थपरिचरणं तत्र कुशलो निपुणः । भुवनराज्यस्य विष्टपाधिपत्यस्य भारः शासनव्यापार एव नौः तरणिः तस्याः कर्णधारो नाविकः । महत्स्वपि गुरुष्वपि कार्यसङ्कटेषु विधेय-कृच्छ्रेषु अविपण्णा अप्रतिहता धीः प्रज्ञा यस्य सः । इह 'भुवनराज्यभारनौकर्णधार' इत्यत्र परम्परितरूपकमलङ्कारः ।
धामेति । धैर्यस्य अविचलचित्ततायाः धाम आधारः, स्थितेः मर्यादायाः स्थानम् आश्रयः, सत्यस्य अवितथस्य सिन्धुः महाधारः, गुणानां दयाविनयादीनां गुरुः हितोपदेष्टा, आचाराणां शिष्टव्यवहाराणाम् आचार्यः उपदेष्टा, धर्मस्य सुकृतस्य धाता धारकः ।
शेषेति । शेषाहिः वासुकिनाग इव, सकलायाः समस्तायाः महाः भूमेः भारः शासनव्यापारः तस्य धारणे सञ्चालने क्षमः समर्थः अन्यत्र हि भारो गुरुत्वरूपगुणविशेषः तस्य धारणे उद्वहने क्षमः ।
सलिलेति । सलिलनिधिः सागर इव, महासत्त्वस्य उत्कृष्टाध्यवसायस्य निवास आश्रयः, अन्यत्र महतां विशालानां सत्त्वानां मकरादिजन्तूनां निवास आधारः ।
जरेति । जरासन्ध एतन्नाम्ना प्रसिद्धो भूपतिरेव, घटितौ प्रोजितौ, सन्धिः सामप्रयोगपूर्वक-द्रव्यादिसमर्पणेन मैत्रीस्थापनम्, विग्रहः संग्रामश्च तावुभौ येन स तादृशः, अन्यत्र हि घटितो विहितः सन्धिः खण्डद्वयस्य संयोगो यस्य स तथोक्तो विग्रहौ वपुर्यस्य स तादृशः ।
पुरा किल बृहद्रथाख्यो भूपतिः स्वतनयादिकमनवलोक्य चण्डकौशिकं मुनिमुपेत्य आराध्यितुं प्रवृत्तः, ततस्तुष्टो मुनिः तस्मै एकमात्रफलं पत्नीभ्यां भोक्तुं प्रददौ । भूर्द्धमर्द्धं विभज्य खादितवतीभ्याञ्च ताभ्यां समयान्तरऽर्द्धार्धशरीरयुक्तं बालकद्वयं प्रसूतम्, तन्निरोक्ष्य नितरां सन्तप्तो भूपतिः श्मशानभूमा-वादाय निक्षिपेप । अनन्तरं जरानाम्नी काचन श्मशानवासिनी राक्षसी यावदेव तद्भागद्वयमेकत्र स्थापितवती तावदेव जीवितं तं निरीक्ष्य तस्मै भूपतये समर्पितवती तत एव 'जरासन्ध' इति नामेति महाभारतीया कथा ।
त्र्यम्बक इति । त्र्यम्बको विरूपाक्षः (शङ्करः) इव, प्रसाधितानि सम्पादितानि दुर्गाणि परिखादीनि येन स तादृशः, अन्यत्र प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन सः ।
युधीति । धर्म्माणां सुकृतानां प्रभवो यागादिना उद्भवो यस्मात् स तादृशः, अन्यत्र धर्मात् प्रभवो जनिः यस्य स तादृशः । धर्मपुत्रो 'युधिष्ठिर' इत्याख्यायिका महाभारतादावनुसन्धेया ।
सकलेति । सकलानि समस्तानि यानि वेदवेदाङ्गानि ऋग्यजुःसामाथर्वछन्दःकल्पादीनि तानि वेति जानातीति स तादृशः । अङ्गानि वेदस्य-
'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।।' इति ।
अशेषेति । निखिले राज्यमण्डले मङ्गलैकसारः कल्याणैकरहस्यभूतः सकलगुणानां निधिरूपत्वादित्याशयः ।
बृहस्पतिरिति । सुनासीर इन्द्रः तस्य बृहस्पतिः सुराचार्यः तद्वत्, 'वृद्धश्रवाः सुनासीरः
प्रगढानुराग उत्पन्न हो गया था। वह नीति-शास्त्र के प्रयोगमें कुशल था; एवं संसारके राज्यशासनकार्यरूप नौका-का कर्णधार था, बड़े-बड़े सङ्कटोंमें भी उसको बुद्धि कुण्ठित नहीं होती थी। वह धैर्यका आधार था; मर्यादाका आश्रय था; सत्यका समुद्र था; गुणोंका शिक्षक था; सदाचार का उपदेशक था; एवं धर्मका आश्रय था। शेषनाग जिस प्रकार पृथिवीका भार-वहन करनेमें समर्थ हैं, वह भी उसी प्रकार समस्त पृथिवीका शासन करनेमें अच्छी तरह समर्थ था। जिस प्रकार समुद्र मकरादि बड़े बड़े जलजन्तुओंका आश्रय है, उसी प्रकार वह भी अत्यन्त अध्यवसायका आश्रय था। जिस प्रकार जरा नामकी श्मशानवासिनी राक्षसीने जरासन्धके शरीरके दो हिस्सोंको सङ्घटित किया था, उसी प्रकार उसने भी दण्डप्रदानमें सन्धि = मेल, और विग्रह = लड़ाई को सङ्घटित किया था।
१. भारैकनौ । २. सेतुः । ३. क्वचित् 'सकल' इति पदं नास्ति । ४. प्रकुटित...। ५. ०००मण्डलैकसारः ।
१७८ कादम्बरी- [ कथायाम्-
रिव सुनासीरस्य, कविरिव वृषपर्वणः, वशिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य, धौम्य इवाजातशत्रोः, दमनक इव भीमस्य, सुमतिरिव नलस्य, सर्वकार्येष्ववाहितमतिः, अमात्यो ब्राह्मणः शुकनासो नामासीत् । या नरकासुर-शस्त्रप्रहार-भीषणे भ्रमन्मन्दर-नितम्ब-निर्दय-निष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यञ्च समासाद्य दर्शितानेकराल्यफला लतेव महापादपम् अनेकप्रतानगहना विस्तारमुपययौ प्रज्ञा ।
पुरुहूतः पुरन्दरः, 'बृहस्पतिः सुराचार्यः' इति चामरः । वृषपर्वणो निजनामख्यातस्य दैत्याधिपतेः' कविः शुक्राचार्यः तद्वत् 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । दशरथस्य रामपितुः वशिष्ठः अरुन्धतीपतिः तद्वत् । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकः तद्वत् । अजातशत्रोः युधिष्ठिरस्य धौम्यः तद्वत् । भीमस्य निषधराजस्य दमयन्तीतातस्य दमनक इव सुमतिः तद्वत् । सर्वकार्येषु समस्तकृत्येषु नलस्य आहिता स्थापिता मतिर्बुद्धिर्यस्य स तादृशः, शुक्रस्य कीरस्येव नासा, नासिका यस्य स तादृशः । अन्वयस्तु प्रागेवोक्तः ।
य इति । यः शुकनासः प्रज्ञाबलेन बुद्धिसामर्थ्येन, नरकासुरस्य नरकाख्यदैत्यस्य शस्त्रप्रहारेण शस्त्राघातेन भीषणे क्षतचिह्नयुक्ततया भयानके, तथा भ्रमतः क्षीरोदमन्थनकाले घूर्णमानस्य मन्दरस्य अद्रेः यो नितम्बो मध्यभागः तस्य निर्दयनिष्पेषेण निरनुकम्पघर्षणेन कठिने कठोरे अंसपीठे पीठवद्विपुले स्कन्धद्वयं यस्य तथोक्ते, नारायणस्य विष्णोः वक्षःस्थले स्थितां विद्यमानामपि लक्ष्मीं श्रियम् अदुष्करलाभां स्वप्रयासलभ्याम् अमन्यत ज्ञातवान् । इह नरकासुरः शस्त्रप्रहारेणापि यां प्राप्तुं न समर्थो बभूव, या च मन्दराचलनिष्पेषेणापि न गतवती तामपि श्रियमदुष्करलाभाममन्यत इत्यर्थस्य पूर्वविशेषणद्वयेन ध्वननान्नापुष्टार्थत्वदोषस्य प्रसक्तिरिति भावुकानां भावः । भूमिसुतं नरकासुरं श्रीकृष्णो जघानेति हरिवंशीया कथेहानुसन्धेया । 'श्रोपाहिरिव' इत्यारभ्य 'त्र्यम्बक इव' इत्यन्तं पूर्णोपमालङ्कारः ।
यमिति । लता शततिः महापादपं विस्तृततरुमिव, प्रज्ञा मतिः 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः, यञ्च शुकनासं समासाद्य लब्ध्वा, दर्शितानि प्रकटितानि अनेकानि बहूनि राज्यानि अभिनवराज्यप्राप्तयः
जिस प्रकार महादेवजी पार्वतीको प्रसन्न करनेके लिए आभूषणादिका सम्पादन करते हैं, उसी प्रकार वह भी अनेक स्थानमें दुर्गिनिर्माणक्रियाका सम्पादन करता था । जिस प्रकार युधिष्ठिर धर्मप्रभव ( धर्मराजसे उत्पन्न ) थे, उसी प्रकार वह भी धर्मप्रभव ( यागादिद्वारा धर्मका उत्पादक ) था । और वह समस्त वेद-वेदाङ्गको जानता था । एवं समस्त राज्यके मध्यमें अद्वितीय प्रधान व्यक्ति था। जिस प्रकार वृहस्पति इन्द्रके, शुक्राचार्य वृषपर्वाके, वशिष्ठ दशरथके, विश्वामित्र रामचन्द्रके, धौम्य युधिष्ठिरके, दमनकमुनि भीमराजाके, एवं सुमति नलराजाके मन्त्री थे, उसी प्रकार शुकनास भी तारापीडका मन्त्री था और वह सभी कार्योंमें बुद्धि-प्रयोग ( विवेकपूर्ण कार्य ) करता था ।
नरकासुरके अस्त्र-प्रहारसे चिह्न-युक्त होकर जिसका वक्षःस्थल भयङ्कर हो गया था एवं समुद्रमन्थनके समय कन्धों पर भ्रमण करते हुए मन्दराचलके निर्दय घर्षणसे जिसके वक्षःस्थल के समीपवर्ती स्कन्धद्वय कठिन हो गये थे, नारायणके उस वक्षःस्थलमें लक्ष्मीदेवीके वास करने पर भी वह (शुकनास) उसे अपने बुद्धिबलसे प्राप्त करना दुर्लभ नहीं समझता था ।
एवं जिसप्रकार लता किसी एक विशाल वृक्षको पाकर उसके अवलम्बनसे अनेक फल उत्पन्नकर नये पल्लवोंसे सघन होकर क्रमसे विस्तारको पा जाती है, उसीप्रकार बुद्धि-जिस शुकनासको पाकर नये-नये राज्यप्राप्तिका दर्शन कराकर एवं बहुत्तर विषयमें प्रवेश कर दूसरोंके दुर्ज्ञेय होकर क्रमसे विस्तार पा गई थी ( सारांश यह है कि-वह अपनी बुद्धिसे राज्यमें ऐसे ऐसे कार्योंको करता था, जिनसे प्रजाको उत्तम शासनके अनेक लाभोंका अनुभव होता था, ऐसी उसकी लतारूप बुद्धि उस महावृक्षरूपी प्रधानके समागमसे अगणित प्रतानोंसे गहन होकर विस्तार पा गई थी ) ।
१. 'दमनक इव नलस्य', इत्येव पाठो न तु 'सुमतिरिव' इत्यादिः । २. अप्रतिहतमतिः । ३. क्वचित् 'प्रहार' इति पदं नास्ति । ४. क्वचित् 'नितम्ब' इति पदं नास्ति । ५. पादपम् ६. उपाययौ ।
राजभोगविलास०-५ ] चन्द्रकला-विद्योतिनीसहिता । [ १७६
यस्य चानेक-चारपुरुष-सहस्र-सञ्चार-निचिते चतुरुदधि-वलयपरिखा-प्रमाणे धरणी-तले भवन इवाविदितमहरहः समुच्छ्वसितमपि राज्ञां नासीत् ।
स राजा बाल एव सुर-कुञ्जर-कर-पीवरेण, राज्यलक्ष्मी-लीलोपधानेन, सकल-जगदभय-प्रदान-शौण्डेन, रण-यज्ञ-दीक्षायूपेन, स्फुरदसिलतामरीचि-जाल-जटिलेन, निखिलाराति-कुल-प्रलयधूमकेतुना, बाहुदण्डेन विजित्य सप्तद्वीपवलयां वसुन्धरां तस्मिन् शुकनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य सुस्थिताः प्रजाः कृत्वा कर्त्तव्यशेषमपरम्पश्यन् । प्रशमिताशेषविपक्षतया ऽविगताशङ्कःऽ शिथिलीकृत-वसुन्धराव्यापारः प्रायशोऽ यौवनसुखमनुबभूव ।
इत्यर्थः, फलानीव यया सा तादृशी, तथा अनेकैः बहुभिः प्रतानैः किसलयैः गहना सान्द्रा, मतिपत्ते तु अनेकेषु विषयेषु प्रतानेन प्रसारेण गहना अन्यदुर्बोधा सती । इह पूर्णोपमा लुप्तोपमया सङ्कीर्यते ।
यस्येति । अनेके ये चारपुरुषा गुप्तचराः तेषां सहस्रस्य सञ्चारः परिभ्रमणं तेन निचिते व्याप्ते, चत्वारि चतुःसंख्याकानि उदधिवलयानि मण्डलीभूतसागरा एव परिखा दुर्गाणि ताभिः प्रमाणं परिमाणं यस्य तस्मिन् समग्र इत्यर्थः, धरणीतले जगतीतले भवन इव निजगृह इव राज्ञाम् अन्येषां भूपतीनाम् अहरहः प्रतिदिनं समुच्छ्वसितमपिनिश्वासत्यागोऽपि यस्य च शुकनासस्य अविदितम् अज्ञातं नासीत् न बभूवेत्यर्थः । गुप्तचरैः निखिलमेवोदन्तं शुकनासो ज्ञातवानिति तात्पर्यम् । इहोपमा ।
स इति । स राजा तारापीडः कर्त्तव्यशेषम् इतः परं किं कर्त्तव्यमस्तीत्यपरं विचारविषयं कार्यम् अपश्यत् अवलोकयत् इत्युत्तरेण सम्बन्धः । बाल एव शैशव एव सुरकुञ्जरस्य ऐरावतस्य करवत् शुण्डा-दण्डवत् पीवरेण स्थूलेन, राज्यलक्ष्मीः आधिपत्यश्रीः तस्या लीलोपधानेन विलासोपवर्हस्वरूपेण, सकलानां समस्तानां जगतां संसाराणाम् अभयप्रदाने शौण्डो मत्तः ‘शौण्डो मत्ते च विख्याते पिप्पल्यां च भवेत् स्त्रियाम्’ इति विश्वमेदिन्यौ, रणः संग्राम एव यज्ञः क्षत्रियाणां पुण्योत्पादनादुत्सवस्वरूपत्वाच्चेत्याशयः । तस्य दीक्षायाम् आरम्भे यूपेन पशुबन्धनदारुस्वरूपेण, स्फुरन्ती देदीप्यमाना या असिलता लतावलग्न-मानखड्गः तस्या मरीचिजालेन रश्मिसमूहेन जटिलो व्याप्तः तेन तादृशेन, तथा निखिलस्य समग्रस्य अरातिकुलस्य वैरिगणस्य प्रलये विनाशे धूमकेतुना अशुभसूचकग्रहविशेषेण, यद्वा धूमकेतुरिव तेन तादृशेन, बाहुदण्डेन भुजदण्डेन सप्तद्वीपाः जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्कराख्या एव वलयं कङ्कणं यस्याः तां तादृशीं वसुन्धरां भूमिं विजित्य जयं प्राप्य तस्मिन् उक्तगुणविशिष्टे शुकनासनाम्नि शुकनस-संज्ञके मन्त्रिणि सचिवे सुहृदीव सख्याविव राज्यभारम् आरोप्य निधाय अतिविश्वासपात्रतया हानि-सन्देहाभावादित्याशयः, सुस्थिताः सुखेन स्थायिन्यः प्रजाः प्रकृतीः कृत्वा निष्पाद्य अन्वयस्तूक्त एव प्रशमिताः शान्ति प्रापिता अशेषाः समग्रा विपक्षा वैरिणो येन तस्य भावस्तया कारणेन, विगताशङ्को निर्भयः, तथा शिथिलीकृतो मन्दीकृतो वसुन्धरायाः पृथिव्या व्यापारः शासनकार्यं येन स तादृशः । प्रायशो बाहुल्येन यौवनसुखं स्त्रीसंभोगादीनि तारुण्यसुखम् अनुबभूव अनुभवविषयीचक्रे ।
जिस प्रकार अपने घरमें किसी घटनाके घटनेपर लोगोंसे वह अज्ञात नहीं रहता है, उसी प्रकार परिखास्वरूप चारों समुद्रोंसे परिवेष्टित समस्त पृथिवीपर विचरण करनेवाले हजारों गुप्तचरों (जासूसों) के द्वारा अन्यान्य राजाओंके प्रतिदिन साँस लेने का समाचार उस शुकनाससे अज्ञात नहीं रहता था ।
वह राजा तारापीड, बाल्यावस्थामें ही ऐरावत हाथ की सूँड़के समान स्थूल, राज्यलक्ष्मीके लीलोपधान (क्रीड़ाके तकिये) के स्वरूप, समस्त संसारकों अभयदानमें मत्त, युद्धरूप यज्ञारम्भके यूपकाष्ठ (स्तम्भ) के स्वरूप, चमकते हुए खड्गकी किरणोंके जालसे व्याप्त (ढका हुआ) एवं धूमकेतुकी पूँछके समान सब शत्रुकुलके प्रलयका सूचक बाहुदण्डद्वारा सप्तद्वीपरूपी कङ्कणवाला पृथिवीको जीतकर अपने मित्रके समान अत्यन्त विश्वासी उन शुक-नासनामक मन्त्रीके ऊपर सब राज्यका भार सौंपकर प्रजाको स्वस्थ कर अन्य अवशिष्ट कार्यको देखने लगे । वाद
१. यस्यानेक । १. ...परिचिते, विचिते । ३. परिधिप्रमाणे परिक्षेपप्रमाणे । ४. धरगितले । ५. राज्यलक्ष्मी' । ६. सकलजगदभयदानयशदीक्षायूपेन । ७. ...धूमकेतुदण्डेन बाहुना । ८. सकलद्दीपवलयाम् । ९. अपश्यत् ! १०. क्व-चित् 'तथा' इत्याधिकः । ११. विगलिताशङ्कः । १२. शिथिलितपृथिवी(पृथ्वी)व्यापारः। १३. प्रायोयौवनसुखमन्यनुबभूव ।
| १८० | कादम्बरी- | [ कथायाम्- |
|---|
तथाहि कदाचिदुल्लसत्कठोर-कपोल-पुलक-जर्जरित-कर्णपल्लवानां प्रणयिनीनां चन्दन-जलच्छटाभिरिव स्मित-सुधाच्छविभिरभिषिच्यमानः, कर्णोत्पलैरिव लोचनांशुभिस्ताड्यमानः, कुङ्कुमधूलिभिरिवाभरणप्रभाभिराकुलीक्रियमाण-लोलेलोचनः, धवलांशुकैरिव कर-नख-मयूख-जालकैराहन्यमानः, चम्पककुसुम-दल-मालिकाभिरिव भुजलताभिराबध्यमानः, दष्ट्राधर-धूत-करतल-चलनमणिवलय-कलकल-रमणीयम् , अतिरभस-
इह 'सुरकुञ्जरकर-पीवरेज' इत्यत्र प्रथमतृतीयान्ते लुप्तोपमा, द्वितीयतृतीयान्ते निरङ्गकेवलरूपकम्, तृतीयतृतीयान्ते अश्लिष्टशब्दनिबन्धनपरम्परितरूपकम्, षष्ठतृतीयान्ते निरङ्गकेवलरूपकलुप्तोपमयोः सन्देहः। 'सुहृदीव' इत्यत्र चोपमा।
अथ तारुण्यसुखानुभवप्रकारमेवोपपादयति-तथाहीत्यादिना । कदाचित् कस्मिंश्चित् समये अनङ्गपरवशः कामाधीनः सन् भूपतिः सुरतं मैथुनम् आततान विस्तारयामास इत्युत्तरेण सम्बन्धः। उल्लसद्भिः विकसद्भिः कठोरैः वेधनयोग्यत्वात् कठिनैः, कपोलयोः गण्डयोः पुलकैः रोमाञ्चैः जर्जरितानि कपोलोपरि-निपतनात् श्लथीकृतानि कर्णपल्लवानि श्रोत्रकिसलयानि यासां तादृशीनाम्, प्रणयिनीनां कामिनीनां चन्दनजलस्य मलयजसलिलस्य छटाभिः विन्दुसमूहैरिव, स्मितम् ईषद्धसितं सुधां पीयूषमिव स्मितमेव सुधा इति वा, तस्याः छविभिः शोभाभिः अभिषिच्यमानः क्षप्यमानः तत्कान्तीनां विशदत्वादित्याशयः। इह 'चन्दनजलच्छटाभिः' इत्यत्रोपमालङ्कारः 'स्मितसुधाच्छविभिः' इत्यत्र लुप्तोपमानिरङ्गकेवलरूपकयोः सन्देहसङ्करश्च, उभयोरपि परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः।
कर्णोत्पलैरिति । कर्णोत्पलैरिव श्रोत्रकुवलयैरिव लोचनांशुभिः नयनकान्तिभिः ताड्यमानः प्रहारविषयोक्रियमाणः तीक्ष्णकटाक्षपातादित्याशयः ।
कुङ्कुमेति । कुङ्कुमं केसरं तस्य धूलिभिः चूर्णैरिव आभरणप्रभाभिः भूषणकान्तिभिः आकुलीक्रियमाणे व्याहन्यमाने अत एव लोले चपले लोचने नयने यस्य स तादृशः।
धवलेति। धवलांशुकैरिव शुभ्रवस्त्रैरिव, करनखानां हस्तपुनर्भुवां मयूखजालकैः रश्मिमण्डलैः आहन्यमानः, ताड्यमानः अतिनिकटतया तीक्ष्णपतित्वादित्याशयः ।
चम्पकेति । चम्पककुसुमानां हेमपुष्पकप्रसूनानां 'चाम्पेयश्चम्पको हेमपुष्पकः' इत्यमरः, दलमालिकाभिरिव मृदुलस्वादलपङ्क्तिभिरिव भुजलताभिः बाहुवल्लीभिः आवध्यमानः आलिङ्ग्यमानः। इह 'कर्णोत्पलैरिव' इत्यारभ्य 'चम्पककुसुमदलमालिकाभिः' इत्यन्तमुपमालङ्कारः ।
दष्टाधरेति । दष्टेन दन्तः खण्डितेन अधरेण रदनच्छदेन हेतुना, धूतं निषेधव्यञ्जनाय कम्पितं यत् करतलं पाणितले तत्र चलतां चपलीभूतानां मणिवलयानां रत्नकटकानां कलकलेन मधुराव्यक्तध्वनिसमूहेन रमणीयं मनोहरम्। अग्रेतनस्य 'सुरतम्' इत्यस्यैतद्विशेषणम्, इत्थमस्यान्यपि। अतिरभसेन अतिस्वरया दलितानि खण्डितानि यानि दन्तपत्राणि हस्तिदन्तरचितकर्णाभरणानि तैः दन्तुरं विषमं
पृथिवीके शासनकार्यमें विशेष लिप्त नहीं रहकर एवं सब शत्रुओंको शान्तभाव अवलम्बन कराकर निःशङ्क चित्त होकर उसने प्रायः यौवन-सुखका अनुभव किया।
जिस समय राजा, चन्दन-जलकी धाराके समान प्रिययुवतियोंके सुधामय ईषद्धास्यके शोभाजलसे अभिषिक्त होता था, उस समय उन प्रियाओंके गालोंपर अत्यधिक रोमाञ्च उत्पन्न होकर कर्णके पल्लवोंको जर्जरित करता था। कोई कोई प्रिययुवती, तीव्र कटाक्ष प्रहार करनेके समय कर्णके नीलोत्पलके समान नयन-किरण द्वारा राजाको ताड़न करती थी। केसरके धूलिसमूहके समान किसी-किसी युवतीके आभूषणोंकी प्रभासे राजाका नयनयुगल प्रतिहत होकर चञ्चलभाव धारण करता था। शुभ्रवस्त्रके समान किसी युवतीके अपने हस्तस्थित नखसमूहके किरणपुञ्जद्वारा राजा आहत होता था। कोई-कोई युवती चम्पाकी फूल पत्तोंकी मालाके समान कोमल बाहुलता द्वारा राजाको बाँध लेती थी। इस तरह कामवश होकर सुरत-क्रीड़ा करता था, जो प्रियाओंके अधरदंश होनेसे काँपते हाथोंमें हिलते हुए मणिमय कङ्गनोंके कलकलसे रमणीय लगती थी; अत्यन्त वेगमें टूटे हुए कर्णभूषणके टुकड़ोंसे शय्या ऊँची-नीची
१. कुङ्कुमपटवासधूलिभिः, कुङ्कुमवासधूलिभिः ।
२. क्वचित् 'लोल' इति पदं नास्ति ।
३. नखर... ।
४. दष्टाधराधूतकरातल, दष्टाधरकरतल... ।
५. कलकलरव, कलरव ।
६. रतिरमस... ।
राजभोगविलास०-५ ] चन्द्रकला-विद्योतिनीसहिता । १८१
दलित-दन्त-पत्र-दन्तुरं-शयनम्, उत्क्षिप्त-चरणं-गलदलक्तरक्तशेखरम्, सरभस-कच-ग्रह-चूर्णित-मणिकर्णपूरम्, उल्लसित-कुच-कृष्णागुरुपङ्क-पत्र-लताङ्कित-प्रच्छदपटम्, अच्छ-श्रमजल-लुलित-गोरोचना-तिलकपत्रभङ्गम्, अनङ्ग-परवशः सुरतमातवान् ।
कदाचिन्मकरकेतु-कनक-नाराच-परम्पराभिरिव कामिनी-करपुट-विनिर्गताभिः कुङ्कुमजल-धाराभिः पिञ्जरीक्रियमाणकायो लाक्षाजलच्छटा-प्रहारपाटलीकृतदुकूलो मृगमद-जलविन्दु-शवल-चन्दन-स्थासकः कनकशुङ्गकोपैरिव चिरं चिक्रीड ।
कदाचित् कुच-चन्दन-चूर्ण-धवलित निर्मिर्मात्नम्, चङ्गुल-तुला-कोटि-वाचाल-चरणा-
शयनं शय्या यत्र तत्तथोक्तम् । उत्क्षिप्तौ भूपतेः मस्तकपर्यन्तम् उत्तोलितौ यौ चरणौ रमण्याः पादौ ताभ्यां गलन् स्रवन् योऽलक्तको लाक्षारसः तेन रक्तो लोहितीकृतः शेखरो भूपतेः शिखा यत्र तत्तथोक्तम् । सरभसं सवेगं यः कचग्रहः केशधारणं तेन चूर्णितं भग्नं मणिकर्णपूरं रत्नमयकर्णालङ्कारः यत्र तत्तथोक्तम् । उल्लसितयोः भूपतेः हस्तस्पर्शेन स्फुरितयोः कुचयोः स्तनयोः याः कृष्णागुरुपङ्कस्य सान्द्रकृष्णागुरुद्रवस्य पत्रलताः तत्तत्स्वरूपचिह्नानि ताभिः अङ्कितः सञ्जातचिह्नः प्रच्छदपटः शयनीयास्तरणवसनं यत्र तत्तादृशम्, कामिन्या न्युब्जशयनादित्याशयः । अच्छैः निर्मलैः श्रमजलैः रतिक्लान्तिघर्मोदकैः लुलिताः कथञ्चित् धौताः गोरोचनायाः कुङ्कुमस्य तिलकपत्रभङ्गा भालस्यतिलकपत्रभङ्गरूपचिह्नानि यत्र तत्तथोक्तम्, अन्वयस्तूक्त एव ।
कदाचिदिति । कदाचित् कस्मिन्नपि समये मकरकेतोः कामदेवस्य कनकनाराचपरम्पराभिरिव हेममयविशालवाणपङ्क्तिभिरिव, कस्याश्चित् कामिन्याः रमण्याः करपुटेन हस्तसम्पुटेन तत्प्रेरणयेत्यर्थः, विनिर्गताभिः निःसृताभिः कुङ्कुमजलधाराभिः गोरोचनासलिलपङ्क्तिभिः पिञ्जरीक्रियमाणः पिङ्गलवर्णवद् विधीयमानः कायो देहो यस्य स तादृशः । लाक्षाजलस्य स्याकससलिलस्य छटाभिः धाराभिः कस्याश्चित् रमण्याः शृङ्गकोपान्निःसृताभिरित्याशयः, प्रहारेण अभिघातेन पाटलीकृतं श्वेतरक्तीकृतं दुकूलं वस्त्रं यस्य स तादृशः । मृगमदजलविन्दुभिः कस्याश्चिद्रमण्याः शृङ्गकोपान्निःसृताभिः कस्तूरीसलिलकणिकाभिः, शवलः कर्बुरः, चन्दनस्थासकः मलयजविहितचर्चा यस्य स तादृशः । 'चर्चा स्याच्चर्ममुण्डायां चिन्तास्यासकयोरपि' इति हेमचन्द्रः । कनकशुङ्गकोशैः लम्बमानकोपाकारहेममयसलिलयन्त्रविशेषैः चिरं बहुकालं चिक्रीड क्रीडां कृतवान् 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके' इति मेदिनी । फाल्गुने जायमानस्य रङ्गजलक्रीडामयस्य कामदेवोत्सवस्य वर्णनमिदम् । अयमुत्सवो रत्नावल्यां 'कीर्णैः पिष्टातकौघैः' इत्यादिना वर्णितः । सातवाहनेनाऽपि गाथासप्तशत्याम्—
'तेत्तूण चुण्णमुट्ठिं हरिसुस्ससि आएं वेपमाणाए । भिसिनेमिति पिअअमं हत्थे गंध दअं जाअं ॥'
इत्यादिना वर्णितः । इह 'कनकनाराचपरम्पराभिरिव' इत्यत्र जात्युत्प्रेक्षालङ्कारः ।
कदाचिदिति । सावरोधजनः अन्तःपुरप्रणयिनीजनसहितो भूपतिः जलक्रीडया सलिलखेलया
हो जाती थीं; ऊँचे किये हुए चरणोंमें लगे अलक्ते मस्तक लाल-लाल हो जाता था; वेगसे बाल पकड़नेते मणि-कर्णपूर चूर-चूर हो जाता था; राजाके करस्पर्शते स्फुरित हो जानेके कारण जिनके स्तनोंपर काले अगरुके लेपसे रची हुई पत्र-लतासे ऊपरका वस्त्र अङ्कित हो जाता था; निर्मल पसीनेकी महीन-महीन बूंदोंसे गोरोचनके तिलक और पत्रभङ्ग बिगड़ जाते थे ।
किसी-किसी समयमें राजा सुवर्णकी पिचकारियोंसे प्रिय युवतियोंके साथ बहुत देर तक क्रीडा करता था, उस समय किसी युवतीके हाथके आकर्षणमें पिचकारीसे निन्दत कामदेवके सुवर्णमय बाणोंकी कतारोंके समान केसरिये जलकी धाराओंसे राजाका शरीर पीला-पीला हो जाता था, किसी युवतीके पिचकारीसे निर्गत् लाक्षा (आलता) जल की धाराके प्रहारसे राजाका वस्त्र लाल-लाल हो जाता था, एवं किसी युवतीके सोनेकी पिचकारीसे निर्गत कस्तूरी-युक्त जल की बूंदोंसे राजाका शरीरस्थित चन्दन-लेप चितकबरा हो जाता था ।
किसी-किसी समयमें राजा रनिवासकी प्रियरमणियोंके साथ जलक्रीडा करनेके लिए रनिवासके गृह-सरो-
१. दन्तुरितं... । २. चरणगल... । ३. अश्रमजल... । ४. रोचना, ०गोरोचन... । ५. ...विनिर्गताभिरिव । ६. धवलोन्मिनालन् ।