कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
५६६ | कादम्बरी- | [ कथायाम्-
'स्वैरिणि ! मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितैव कुमारभावेन, 'भीरु ! नायं कुल- कन्यकानां क्रमः' इति गर्हितेव महत्त्वेन, 'दुर्विनीते ! रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे ! मदनेन लघुतां नीतासि' इत्यनुशासितेवाऽभिजात्येन, 'कुतस्तवेयं तरलहृदयता' इति धिक्कृतेव धैर्येण, 'स्वच्छन्दचारिणि ! अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्या, अतिगुर्वी लज्जामुवाह ।
समचिन्तयच्चैवम्—'अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्या अद्य मया किं कृतमिदं मोहान्धया तथाहि, अदृष्टपूर्वोऽयमिति साहसिकया मया न शङ्कितम् । लघुहृदयां मां लोकैः कलयिष्यतीति निर्ह्रीकया नाककलितम् । कास्य चित्तवृत्तिरिति मूढया न परीक्षितम् । दर्शना- नुकूलाहमस्य नेति वा तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैक्लव्यान भीतम् , गुरुज-
'प्रथमावतीर्णयौवनमदनविकारा रतौ वामा। कथिता सदृश्च माने समधिकलज्जायती मुग्धा ॥' इति ।
हे स्वैरिणि स्वच्छन्दविहारिणि ! अविनयम् अशिष्टाचरणम् , नायकेन साकमशिष्टाचारं विधातुं शक्नोषि न तन्न चतैरिति सूचयितुम् 'एकाकिनी' इति पदमुपात्तमित्यवधेयम् । कुमारभावेन कन्यका- दशया आमन्त्रितैव आमन्त्रणपूर्वकं शिष्टितेव । कुलकन्यकानां कुलकुमारिकाणां क्रमो रीतिः, महत्त्वेन औदार्येण गर्हितेव निन्दितेव । अविनयम् अशिष्टाचारं रक्षं अवरोधय इति आचारेण साधुव्यवहारेण तर्जितेव ताडितेव । मूढे हिताहितप्रज्ञाशून्ये ! लघुतां तुच्छतां नीतासि प्रापितासि । आभिजात्येन कौली- न्येन अनुशासितेव पाठितेव । तरलहृदयता चपलचित्तता । अहं कुलमर्यादा अप्रमाणीकृता अवहेलिता । कुलस्थित्या कुलमर्यादया निन्दितेव गर्हितेव, अतिगुर्वीम् अतिमहतीं लज्जां त्रपाम् उवाह धारयामास ।
समेति । समचिन्तयत् अध्यायत् । न गणिता संख्याकृता सर्वेभ्यो जनकादिभ्यः शङ्का सन्देहो यया तया । दर्शयन्त्या प्रकटयन्त्या । मोहान्धया अज्ञानान्धया ।
उपपादयति—तथाहिती । साहसिकया हठकारिण्या अविचार्यविधायिन्येत्यर्थः । अयं कुमारः अदृष्टपूर्वः अनवलोकितपूर्वः इति न शङ्कितम् अनवलोकितपूर्वत्वेन प्रकृतिपरिचयाभावात् वञ्चयितुमपि समर्थो भविष्यतीति न चिन्तितमित्यर्थः। लघुहृदयां तुच्छचित्तां कलयिष्यति प्रतिपादयिष्यति इति निर्ह्रीकया निष्त्रपया मया नाकलितं न विभावितम् । का किंस्वरूपा अस्य कुमारस्य चित्तवृत्तिर्मनो- व्यापारः । दर्शनानुकूला अवलोकनसुभगा । तरलया चञ्चलया । विचारस्य विवेचनस्य क्रमः परम्परा न कृतो विहितः ।
प्रत्येति । प्रत्याख्यानेन कुमारद्वारा मद्रणयप्रतिषेधेन यद्वैक्लव्यं विह्वलीभावस्तस्माद् गुरुजनाद्
बाल-भाव कहाँ गया ?' यों कहकर मुग्धता मानो उसकी हँसी करती हो—'हे स्वेच्छाचारिणि ! तुम केवल अपनी इच्छाके अनुसार अशिष्ट व्यवहार मत कर' यों सम्बोधनपूर्वक कहकर कन्यावस्था मानो उसे उपदेश देती हो—'अरे भीरु ! यह कुलीनकन्याओंकी रीति नहीं' यों कहकर औदार्य मानो निन्दा करता हो—'दुर्विनीते ! अपने अशिष्ट व्यवहारका निवारण करो' यों कहकर आचार मानो भर्त्सना करना (फटकारता) हो—'अरी मूढे ! कामदेवने तुझमें लघुता (हलकापना) लाकर तुच्छ कर दिया है' यों कहकर मानो कुलीनता शासन करती हो—तुम्हारी यह चपलता कहाँसे आई' यों कहकर धैर्य मानो धिक्कार देता हो—हे स्वच्छन्दचारिणि ! मैंने तुझे अवहेलना की' यों कहकर मानो वंशमर्यादा निन्दा करती हो—यों न समझमें आता कि कहाँसे इस प्रकारकी चेतना आनेसे अत्यधिक लज्जानुभव करने लगी ।
उसके बाद वह इस प्रकार चिन्ता करने लगी कि—मैंने आज हताश और मोहान्ध होकर, समस्त आशङ्काओंकी गणना न कर, मनकी चञ्चलता प्रकट कर यह क्या किया ? मेरी और उनकी यह पहली ही भेंट थी—इसकी भी मैंने हृदयार्पण-रूप साहस करनेमें कुछ शङ्का नहीं की; 'लोग मेरे मनको चञ्चल बतलावेंगे' यह भी मैं निर्लज्जाके कारण विवेचना नहीं कर सकी; 'इनकी चित्तवृत्ति कैसी है' उसकी भी मूढता होनेके कारण परीक्षा नहीं कर सकी; 'मैं इनके दर्शन योग्य हू या नहीं' चञ्चलतावश इसकी भी मैं विवेचना नहीं कर सकी; उनके अस्वीकार कर देने पर एक बार जो आकुलता होगी उसका भी भय नहीं किया, गुरुजनसे भी
१. मूढ ! निगृहीतां मदनेन । २. लघुता नीतासि मदनेनेति ज्ञापितेव । ३. तरलतां । ४. अगणितसर्व- शङ्का । ५ मोहान्धया हताशया । ५ साहसिकतया । ७. अयं । ८. मया ।
कादम्बरीचिन्तावर्णना ९२ ] चन्द्रकला-विद्योतिनीसहिता । ५६७
नान्न त्रस्तम्, लोकापवादान्नोद्विग्नम्, तथा च महाश्वेतातिदुःखितेति' निर्दाक्षिण्यया नापे- क्षितम्, आसन्नवर्त्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम्, पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुता- नुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसञ्चारचतुरो वा नित्य- मिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्त-पुरदास्यः । सर्वथा हतास्मि मन्दपुण्या, मरणं मेऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतं वृत्तन्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्व- लोको वा । किं करोमि, कोऽत्र प्रतीकारः, केनोपायेन स्खलितमिदं प्रच्छादयामि, कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि, क्व वानेन दग्धहृदयेन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि' । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता प्रियसखीनां पुरो
पूज्यवर्गात् न त्रस्तं न भीतम् । लोकापवादाज्जनप्रवादान् नोद्विग्नं नोद्वेगः प्राप्तः । तथा च अपि च । अतिदुःखिता नितान्तक्लेशिता पतिवियोगादित्याशयः । निर्गतं निःसृतं दाक्षिण्यम् औदार्यं यस्यां सा तयैवंभूतया मया । 'सशोकायां महाश्वेतायां नाहं स्वस्य पाणि ग्राहयिष्यामि' इति पूर्वप्रतिश्रुतेन यदौ- दार्य समुत्पन्नं सम्प्रति पाणिग्रहणे तु तल्लुप्यत इत्याशयः । आसन्नवर्त्तिसखीजनोऽपि निकटस्थायि- सहचरीगणोऽपि उपलक्षयति ज्ञास्यति भविष्यति वर्त्तमानता । मन्दया मूढया मया । लक्षितं ज्ञातम् । नष्टचेतनया विलुप्तविवेकयेत्यर्थः ।
त्युलेति । स्थूलबुद्धयोऽपि मन्दमतयोऽपि विनयच्युतिं मम धैर्यस्खलनमित्यर्थः विभावयेयुः जानीयेयुः । अनुभूतमदनवृत्तान्ता अनुभवविषयीकृतकामोदन्ता । राजकुलसञ्चारचतुरः राजकुलसञ्चरण- निपुणः, इङ्गितं हृदयाभिप्रायद्योतककटाक्षादिशरीरव्यापारं जानातीति सः । परिजनः परिचारकगणः । इहार्थोपत्तिरलङ्कारः ।
ईदृशेष्विति । अन्तःपुरदास्यः अवरोधसेवाकारिण्यः, ईदृशेषु एवंविधेषु प्रजयव्यापारेषु, अति- निपुणतरा प्रकृतभावं प्रत्याययितुं नितान्तकुशला दृष्टियाँसां ताः । अतएव ता अपि तं ममाभिप्रायं ज्ञात- वत्य एवेत्याशयः ।
सर्वथेति । मन्दपुण्या पापिनीत्यर्थः । गन्धर्वलोकः स्वजनवर्गो वक्ष्यति कथयिष्यति । स्खलितं धैर्यच्युतिम्, प्रच्छादयामि गोपायामीत्यर्थः । दुर्विनीतानाम् अनुचितचरणविधायिनाम् इन्द्रियाणां चक्षु- रादीनां कारणानाम् । दग्धं हृदयं येन तेन अनेन पञ्चबाणेन कामेन गृहीता आविष्टता, क्व गच्छामि कुत्र व्रजामि, इति न खलु जानामीति सम्बन्धः । इह विषादभावस्य वितर्कनामा भावोऽङ्गमिरित प्रेयोनामा- लङ्कारः । न च 'न खलु जानामि' इति वाक्यस्य वाक्यान्तरे प्रवेशेन गर्भितत्वदोषः आपतत इति वाच्यम् , विच्छित्तिविशेषस्य प्रकाशनत्वेन 'गर्भितत्वं गुणः क्वापि' इति दर्पणोक्तदिशा गुणत्वस्यैव जायमानत्वात् ।
तथेति । महाश्वेताया व्यतिकरः सहचरीत्वसम्बन्धस्तेन, तथा 'महाश्वेतायां सशोकायां नाहं स्वस्य पाणि ग्राहयिष्यामि' इत्येवंरूपा प्रतिज्ञा कृता विहिता । प्रियसखीनां प्रियसहचरीणां पुर अग्रतोऽपि तथा
भय न हुआ एवं लोकापवादकी भी आशङ्का न किया । और महाश्वेता अत्यन्त दुःखी होकर समय व्यतीत करती हैं औदार्य-रहित होनेसे उसकी भी अपेक्षा नहीं की, एवं समीपवर्ती सखियाँ भी देखती होंगी मूढतावश मैं इसको भी समझ न सकी; एवं पार्श्ववर्ती परिजन जो देखते होंगे, चैतन्यलोप हो जानेके कारण मैं उसको भी देख न सकी, जिनकी बुद्धि स्थूल है वे भी मेरी इस धैर्यच्युतिको जब समझ लेंगे तब फिर अपने मदन-वृत्तान्तका अनुभव करनेवाली महाश्वेता, समस्त कला-विद्याओंमें निपुण सखिया एवं सर्वदा राजकुलमें विचरण करनेके कारण समस्त विषयोंमें सुचतुर दासियोंकी तो बात ही क्या है? विशेषतः अन्तःपुरस्थ दासियोंकी दृष्टि, ऐसी घटनाओंमें और भी निपुण होती है । मुझमें पुण्य थोड़े हैं जिससे मैं सब प्रकारसे ही मारी गई हूं । ऐसे लज्जाकर जीवन-धारणकी अपेक्षा आज मरना ही श्रेयस्कर है, क्योंकि-इस वृत्तान्तको सुनकर पिता-माता और गन्धर्व लोग क्या कहेंगे ? इस समय मैं क्या करूँ ? इसका क्या प्रतीकार है ? किस उपायसे अपने इस दोषका गोपन करूँ, अथवा किसके समीप अपनी इस दुर्विनीत इन्द्रियोंकी चपलता कहूं ? हृदयदाहकारी इस कन्दर्पद्वारा वशीभूत हुई मैं कहाँ जाऊँ यह समझमें नहीं आता । महाश्वेताके साथ सम्पर्क रहनेसे मैं उस प्रकारकी प्रतिज्ञा की थी, प्रिय सखियोंके
१. दुःखितेति । २. दाक्षिण्यया । ३. निपुणदृष्टय । ४. श्रुत्वैतद्वृत्तान्तं । ५. ॰॰॰दग्धहृदयेन गृहीता गच्छामि, दग्धहृदया पञ्चवाणेन गच्छामि ।
| ५६८ | कादम्बरी- | [ केयूरकवाक्- |
|---|
मन्त्रितम्, तथा च केयूरकस्य हस्ते^१ सन्दिष्टम्^२। न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसञ्चयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः। कोऽपि वा न कदाचिद् दृष्टो नानुभूतो न श्रुतो न चिन्तितो नोत्प्रेक्षितो मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव^३ संयम्य दत्तेवेन्द्रियैः, शरपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्यापनीतेवानुरागेण, गृहीतगुणपणेन^४ विक्रीतेव हृदयेन, उपकरणीभूतास्मि^५। न मे कार्यं तेन चपलेनेति क्षणमिव सङ्कल्पमकरोत्। कृतसङ्कल्पा च, अन्तर्गतन 'मिथ्याविनीते! यदि मया न कृत्यम्, एष गच्छामि' इति हृदयोत्कम्पचलितेन परिहसितेव चन्द्रापीडेन, तत्परित्यागसङ्कल्प-समकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन,
तत्प्रतिज्ञावत् मन्त्रितम् अभिहितम्। अपि च केयूरकस्य हस्ते पात्तौ तथा सन्दिष्टं महाश्वेतासमीपे प्रतिज्ञानुरूपं सन्देशवचनं प्रेषितम्। सम्प्रति पाणिग्रहणे तु सर्वथालीकभाषित्त्वप्रसङ्गः त्रपातिशयश्रेयस्याश्च।
न खल्विति। जानामि आकलय्यामि। उत्सन्नमन्मथेन मदनहतकेनेत्यर्थः। पूर्वकृतः प्राग्विहितो यः अपुण्यसञ्चयः दुष्कृतसमूहः तेन। मृत्युहतकेन दुष्टप्रकृतिना यमेन, चेनैतदवलोकनेन यथा मम प्राणत्याग एव सम्भावयिष्यत इत्याशयः। विप्रलम्भको वञ्चकश्चन्द्रापीड आनीतः प्रापितः।
कोऽपीति। चिन्तितो ध्यातः, नोत्प्रेक्षितः प्रागसम्भावितः। कोऽपि वा अनिर्वचनीयः पुरुषः। विडम्बयितुं कदर्धनां प्रापयितुम्, उपागतः प्राप्तः। इन्द्रियैश्चित्तादिभिः संयम्य बद्ध्वा दत्तेव चन्द्रापीडाय अर्पितेव। अनुरागेण प्रेम्णा दासीकृत्य परिजनीकृत्य उपनीतेव प्रापितेव। गृहीता आत्ता गुणाः चन्द्रापीडस्य सौन्दर्यादय एव पणा मूल्यानि येन तेन हृदयेन चित्तेन विक्रीतेव विक्रयीकृतेव अतएव यस्य उपकरणीभूतास्मि विक्रेयद्रव्यीभूतास्मि।
इह दत्तेव, समर्पितेव उपनीतेव, इत्येतेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः। तथा 'विक्रीतेव' इत्यत्र परिवृत्तिः क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः।
न मे इति। चपलेन चञ्चलेन तेन कुमारेण मे मम कार्यं प्रयोजनं न विद्यते, इति सङ्कल्पं मनोरथं क्षणमिव क्षणसदृशम् अकरोत् व्यदधात्। कृतसङ्कल्पा विहितमनोरथा। अन्तर्गतन सावनावदृष्टहृदयवर्तिना, हृदयस्य गन्धर्वराजपुत्र्या एव चित्तस्य य उत्कम्पः चन्द्रापीडगमनभयाञ्चितान्तकम्पनं तेन चलितः चित्तात् प्रस्थितः। वृत्तकम्पनेन यथा तत्रत्यः पक्षी सन्तिष्ठते तद्द्वित्याशयः, तेन तादृशेन चन्द्रापीडेन हे मिथ्याविनीते अतीकशिष्टाचारवति कादम्बरि! यदि चेत् मया चन्द्रापीडेन तव कृत्यं प्रयोजनं न विद्यते, तदा (तर्हि) एषः अहं गच्छामि व्रजामि' इत्यभिधाय परिहसितेव कृतहास्येव। चित्ते मां गाढं स्थापयसि अथ च सङ्कल्पयसि 'तेन चञ्चलेन न मे प्रयोजनम्' इति परिहासः सम्भवत्पं-
रूपमें भी उस प्रकार कह दी थी, और केयूरक द्वारा भी मैंने उस प्रकारका सन्देश भेज दिया था; किन्तु मुझ मन्दभागिनीके समझमें नहीं आता कि मुझे प्रतारक- (छलनेवाले) चन्द्रापीडको मेरे निकट धूर्त विधाता ले आया, या मदन अथवा पूर्वजन्मकृत पापसमूह, किंवा मेरी मृत्यु अथवा अन्य कोई दूसरा ले आया! जिनको मैंने पहले कभी नहीं देखा था, जिनका मुझे अनुभव नहीं था, जिनका नाम भी मैंने नहीं सुना था, जिनका चिन्तन भी नहीं किया था, किंवा जिनको सम्भावना भी नहीं की थी, ऐसे कोई अनिर्वचनीय व्यक्ति मुझे प्रतारणा करनेके लिए आया है, जिनके केवल देखनेसे ही मेरी इन्द्रियोंने मानो मुझे बाँधकर उनको दान कर दिया है; अपने शरण पिंजरेमें डालकर कामदेवने मानो मुझे समर्पण कर दिया है; दासी बनाकरके अनुराग मानो मुझे उपहार दे दिया है; और हृदयने उनके गुणरूप मूल्य-ग्रहण करके मानो मुझे बेच दिया है; इस प्रकार मैं उन्हीं की उपहार-व्यवहारकी सामग्री हो गई हूँ; जो हो अब मुझे उस चपल-स्वभाव कुमारसे कुछ भी प्रयोजन नहीं है' ऐसा मन-ही-मन संकल्प उसने कुछ देर तक किया तत्काल ही—'मिथ्याविनीते! यदि मुझसे तेरा कोई प्रयोजन नहीं है तो ले यह मैं चला' इस प्रकार, हृदय काँपनेसे चलायमान हुए हृदयस्थित चन्द्रापीडने मानो उसका उपहास किया हो। उनके परित्यागके सङ्कल्पके समयमें ही बाहर प्रस्थान करनेके लिए
१. केयूरकहस्ते।
२. सन्दिष्टम्; उपनतः।
३. दर्शनमात्रकेणैव।
४. गृहीत मूल्येन गुणपणेन, गुणपणेन।
५. उपकरणीभूतास्मि।
कादम्बर्या निजविकारजनितचिन्ता० १२ ] चन्द्रकला-विद्योतिनीसहिता । ५६१
'अविशेषज्ञे ! पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वे'ति तत्कालागतेनाभिहितेव बाष्पेण, अपनयामि ते सहासुभिर्धैर्यावलेप'मिति निर्भर्त्सितेव मनोभुवा, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव ।
तदेवमस्तमितप्रतिसमाधानबलौवलात् प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतम् अवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा ।
वेत्याशयः । इह क्रियोत्प्रेक्षा । तस्य चन्द्रापीडस्य परित्यागसङ्कल्पसमकाले प्रस्थितेन शरीरं परित्यज्य चलितेन, अतएव कण्ठलग्नेन गललग्नेन जीवितेन जीवनेन, पृष्टेव 'अहमपि व्रजामि' इत्यामन्त्रितेव । अपरोऽपि गमनाभिलाषी दयितः कण्ठमाश्लिष्य निजप्रयाणं पृच्छति । इहाप्युक्तालङ्कारः, तेन च चन्द्रापीडपरित्यागे जीवितमपि उज्झितं स्यादित्यनुरागस्य चरमावस्था प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः । तत्काले चन्द्रापीडपरित्यागसङ्कल्पविधानक्षणे आगतेन शोकोद्भायकतया नेत्रान्निर्गतेन बाष्पेण नयनाम्बुना 'हे अविशेषज्ञे तारतम्यापरिचिते गन्धर्वराजपुत्रि ! त्वया मद्द्वारा प्रक्षालितलोचनया धौतनेत्रया सत्या पुनरपि भूयोऽपि दृश्यताम् अवलोक्यतां यत् असौ जनश्चन्द्रापीडस्तव प्रत्याख्यानयोग्यो निराकरणोचितो न वा' इति अभिहितेव कथितेव । उक्तालङ्कारः, तेन च निराकरणाणयोग्य इति व्यज्यते इत्यलङ्कारेण वस्तुध्वनिः । तथा मनोभुवा कामेन 'ते तव असुभिः प्राणैः सह धैर्यावलेपं, न मे प्रयोजनं तेन चञ्चलेन, इति धैर्यगर्वम् अपनयामि दूरीकरोमि' इति निर्भर्त्सितेव अधिक्षिप्तेव । उक्तालङ्कारः, तेन च तत्काले धैर्यलोपः जीवनगमनोपक्रमश्च समुत्पन्न इति ध्वन्यत इति प्राग्वदेव ध्वनिः । अतएव तथैव प्राग्वदेव पुनरपि भूयोऽपि चन्द्रापीडाभिमुखं तदाकाङ्क्षि हृदयं चेतो यस्याः सा तथोक्ता बभूव जाता ।
तदेवमिति । एवम् अनेन विधिना अस्तमितं विलुप्तं प्रतिसमाधानं धैर्यावलम्बनं तद्रूपं बलं सामर्थ्यं यस्याः सा तथोक्ता कादम्बरी, प्रेमावेशेन प्रीत्यतिशयेन बलात् हठात् अस्वतन्त्रीकृता अस्वाधीनीकृता, अतएव परवशेव पराधीनेव । जालवातायनेन जालगवाक्षेण तमेव क्रीडापर्वतकं चन्द्रापीडविश्रामस्थानम् अवलोकयन्ती पश्यन्ती अतिष्ठत् आसीत् । इह 'परवशेव' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।
तत्रस्थेति । आनन्दजलेन नयनेनावलोकने प्रम दाश्रुपातेन यद् व्यवधानं तिरोधानं तस्माद् उद्विग्नेव उद्वेगं प्राप्तेव सती, स्मृत्या स्मरणेन तं चन्द्रापी डं ददर्श शुबोध, न तु चक्षुषा नयनेन ।
इह क्रियोत्प्रेक्षालङ्कारः शाब्दी परिसंख्यालङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
अङ्गुलीति । पाणिगृहीतया चित्रतूलिकया चित्रणे, अङ्गुलिभ्यः करशाखाभ्यो गलितैः स्यन्दितैः स्वेदघर्मैः यः परामर्शः संम्बन्धस्तेनानय्याभाव इति तात्पर्यम् तस्माद् भीतेव त्रस्तेव सती, चिन्तया ध्यानेन लिलेख हृदये चन्द्रापीडं चित्रयामास, चित्रतूलिकया । उक्तालङ्कारः ।
रोमाञ्चेति । उरःस्थलेन वक्षःस्थलेन आलिङ्गने, रोमाञ्चैः पुलकयत् तिरोधानं व्यवधानं तस्माद् शङ्कितेव सञ्जातशङ्केव सती; हृदयेन चेतसा चन्द्रापीडम् आलिलिङ्ग आश्लेषं कृतवती, न तु वक्षसा उरसा । प्राग्वदलङ्कारः ।
उसके प्राणने कण्ठ पर आकर मानो आज्ञा माँगी हो, 'हे तारतम्यानभिज्ञे ! तुम आँख धोकर फिर देखो कि यह व्यक्ति तुम्हारे प्रत्याख्यान करनेके योग्य है कि नहीं—इस प्रकार उस समय आविर्भूत होकर अश्रु-जल (बाष्प) ने मानो उससे कहा हो' 'कादम्बरी ! तुम्हारे प्राणके साथ धैर्यका अहङ्कार मैं दूर कर दूँगा, इस प्रकार मानो कामदेवने उसे तिरस्कार किया (फटकारा) हो'—यों फिर पहलेके ही समान उसका हृदय चन्द्रापीडके अभिमुखन हुआ ।
इस प्रकार उसकी धैर्यावलम्बन करनेकी शक्ति विनष्ट होनेके कारण प्रेमावेशते स्वतन्त्रता खोकर, पराधीनके समान उठ कर, गवाक्षके द्वार (खिड़की की जाली) में से क्रीडा-पर्वतकी ओर देखती-देखती वह खड़ी रही । वहाँ खड़ी-खड़ी आनन्दाश्रु-जलके व्यवधानसे मानो उद्विग्न होकर नयनोंसे देखनेके बदले वह उसे स्मृतिसे देखने लगी, अङ्गुलियोंमेंसे घर्मजल (पसीने) की बूँदें टपकनेके कारण बिगड़ जानेके भयसे मानो चित्रतूलिकासे चित्र काढ़नेके बदले, केवल भावनासे ही उसका चित्र खींचने लगी, रोमाञ्च व्यवधान कर देगा, इस आशङ्कासे ही मानो वक्षःस्थलसे लिपट्नेके बदले वह मन ही मन आलिङ्गन करने लगी; और उसके
१...बलात्प्रेमावेशेन । २. क्रीडापर्वतकम् ।
३६ का०
५७० | कादम्बरी- | [ कथामुखम्
तत्सङ्गमकालातिपातासहेव मनो गमागमाय नियुञ्जवती, न परिजनम् । चन्द्रापीडोऽपि प्रविश्य स्वच्छन्दं^२ कादम्बरीहृदयमिव द्वितीयं मणिगृहम्, शिलात- लास्तीर्णायामुभयत उपर्युपरि निवेशित-बहुपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे^३ गृहीतचरणयुगलस्ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्य्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः, आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ताः, येन मां सास्रेण सरागेणाकूर्णितत्रिभागेण हृदयान्तःपतत्स्मर-शर-कुसुम-रजो-
तत्सङ्गमेति । यातायाताय परिचारिकानियोगे, तस्य चन्द्रापीडस्य सङ्गमे समागमे यः कालाति- पातः समयातिक्रमं विलम्बमिति यावत् तं न सहत इति सा तथोक्ता सतीव, गमागमाय चन्द्रापीड- समीपे यानायाताय मनो हृदयं नियुञ्जवती नियुयोज, न तु कञ्चित् परिजनं परिच्छदम्, सर्वापेक्षया चेतसो शीघ्रगामित्वादित्याशयः । प्राग्वदलङ्कारः । परमार्थतस्तु रत्नगृहकुड्यतिरोधानेन साक्षादवलोक- यितुमसमर्था सती केवलं चन्द्रापीडमेव चिन्तयामासेति सारः ।
हन्त ! कविचक्रचूडामणेर्वर्णनातिशयचमत्कारविधायिनी खल्वियं रचनाचातुरीति सहृदया एव प्रमाणम् ।
इत्थं कादम्बरीगतभावानुक्त्वा चन्द्रापीडगतानपि तान् कथयितुमाह—चन्द्रापीड इति । मनोहर- त्वसादृश्यात् प्रवेशस्य हर्षोत्पादकत्वसादृश्याद्वा द्वितीयम् अपरं कादम्बरीहृदयमिव मणिगृहं रत्नमन्दिरम्, स्वच्छन्दं वाघरहितं यथा स्यात्तथा प्रविश्येति सम्बन्धः । उभयतः पार्श्वयोः उपर्युपरि ऊर्ध्वोर्ध्वं निये- शितानि स्थापितानि बहूनि नानाविधानि उपधानानि उच्छीर्षकाणि यस्यां तादृश्याम्, कुथायां चित्र- कम्बले निपत्य विस्तृतावयवः सन्नवस्थाय । उत्सङ्गे क्रोडे, गृहीतम् आत्तं चरणयुगलं पादद्वयं यस्य सः । यथादिष्टेषु यथायोग्यम् आज्ञप्तेषु भूमिभागेषु भूतलप्रदेशेषु उपविष्टाभिः आसीनाभिः ताभिः कन्यकाभिः कुमारिकाभिः परिवृतः परिवेष्टितः दोलायमानेन संशयविचालितेन चेतसा हृदयेन चिन्तां विवेश चिन्ता- मग्नो बभूवेत्यर्थः ।
इह 'कादम्बरीहृदयमिव' इत्यत्र द्रव्योत्प्रेक्षालङ्कारः ।
किमिति । कादम्बर्याः सह भुवः सहजा एते विलासा विभ्रमाः सकललोकहृदयहारिणः, आहोस्वित् अथवा मकरकेतुना कामेन नियुक्ता नियोजिता इत्यन्वयः । तेन मन्मथनियोगेन मां चन्द्रापीडं सास्रेण ससह्रिरेण सरागेण सानुरागेण, आकूर्णित ईषत् सङ्कोचितः त्रिभागस्तृतीयो भागो यस्य तेन तादृशेन, सङ्ख्याशब्दानां वृत्तिविषये पूरणार्थत्वमित्यभिहितमेव प्राक् । हृदयस्य चेतसः अन्तर्मध्ये पततां स्मरस्य कामस्य शरकुसुमानां बाणीभूतप्रसूनानां रजोभिः परागैः स्नपितं विच्छुरितं तेनेव चक्षुषा नयनेन तिर्यक्- कुटिलं विलोकयति पश्यति । विलोकयतीति अतीतानामीप्ये वर्त्तमानत्वम्, प्राक् प्रत्यक्षावलोकनसमये ये ये भावाः समुत्पन्नास्तानधिकृत्येदानीमुक्तत्वादिति । एवं परवाक्येष्वप्यवगन्तव्यम्, । '......स्नपिते- नेव' इत्यत्र क्रियोत्प्रेक्षालङ्कारः ।
समागमनमें जो विलम्ब हो रहा था उसे सहन करनेमें मानो समर्थ न हो करके ही यातायातके लिए किसी दासीको नियुक्त करनेके बदले अपने मनको ही नियुक्त किया ।
चन्द्रापीड भी और एक कादम्बरी-हृदयके समान उस मणिमय घरमें प्रवेश करके मणिमय शिलातलके ऊपर बिछे एक विचित्र-कम्बल (गलीचे) पर लेट गया । उनके दोनों ओर एक दूसरे पर बहुतसे तकिये रखे थे। वहाँ केयूरकने उसके चरण-युगल क्रोड़ (गोद) में रख कर संवाहन करने (दबाने) लगा और वे कन्याएँ निर्दिष्ट स्थान पर उसके आस-पास जा बैठीं। तब वह सन्देहकुल-चित्तसे चिन्ता करने लगा कि—इस गन्धर्वराजकन्या कादम्बरीके ये समस्त हावभाव स्वभावसे ही इस प्रकार सब लोगोंके हृदयहारी हैं, या आराधना नहीं करने पर भी भगवान् कामदेवने अपने आप ही प्रसन्न होकर मेरे लिए करवाए हैं ? जिससे कि वह मुझे आनन्दाश्रुसे भरी अनुरागकी सूचना करती और हृदयके अभ्यन्तर लगे कामवाणके पुष्पकी रज पड़ी हो इस प्रकार जरा तिर्छि
१. गमाय, गमनागमने । २. स्वच्छं । ३. उत्सङ्गेन । ४. इतिक ।
उत्कण्ठितचन्द्रापीडचिन्ता०-९३ ] चन्द्रकला-विद्योतिनीसहिता । ५७१
रुषितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्ज- यात्मानमावृणोति । मल्लज्जाविवर्त्तमानवदना च प्रतिबिम्बप्रवेशलोभेनेव कपोलदर्पणमर्प- यति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ता- म्बूलवीटिकोपनयनखेद-विधूतेन¹ रक्तोत्पल-भ्रम-भ्रमद्भ्रमरवृन्देन² करतलेन स्विन्नं³ मुख- मिव⁴ गृहीततमालपल्लवेनेव वीजयति' ।
पुनश्चाचिन्तयत्—'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासङ्कल्पसहस्रैरेवमायास्य मा विप्रलभते, लुप्तविवेको यौवनमदो मद्यति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि
मद्विलोकितेति । अपि च, मया चन्द्रापीडेन विलोकिता दृष्टा सती, लज्जया त्रपया, दुकूलेन 'वस्त्रे- णेव धवलेन शुभ्रेण स्मितालोकेन निजमन्दहास्यप्रभया आत्मानं निजशरीरम् आवृणोति आच्छादयति । 'दुकूलेनेव' द्वत्यत्र जात्युत्प्रेक्षालङ्कारः ।
मल्लज्जेति । अपि च, मल्लज्जया विवर्त्तमानं परावर्त्तमानं वदनं मुखं यस्याः सा, प्रतिबिम्बप्रवेशलो- भेनेव मम प्रतिच्छायापतनाभिलाषेणेव, कपोलौ गण्ड एव दर्पणो मुकुरस्तम् अर्पयति अभिमुखीकरोती- त्यर्थः । वदनविवर्त्तनेन कपोलसांमुख्यस्य प्रत्यक्षात्वादित्याशयः ।
इह 'प्रतिविम्बप्रवेशलोभेन' इत्यत्र गुणोत्प्रेक्षालङ्कारः, तथा 'कपोलदर्पणम्' इत्यत्र निरङ्गकेवलरूप- कालङ्कार इत्युभयोरङ्गाङ्गिभावसङ्करः ।
मदवकाशेति । कररुहेण नखेन, शयनाङ्के शय्याया मध्यभागे, मदवकाशदायिनः ममावस्थितिस्या- नदायिनः आत्मनो हृदयस्य चेतसः प्रथमा आद्या या अविनयलेखा अशिष्टव्यवहारेखा तां लिखतीव अङ्कयतीव । क्रियोत्प्रेक्षालङ्कारः । शयनाङ्के कामाकृतवशाच्च नखैरुल्लेखस्तत्रैवं कल्पना कृतेत्यवधेया ।
मत्ताम्बूलेति । मह्यं ताम्बूलवीटिकाया नागवल्लीदलत्रीटिकाया उपनयने अर्पणायोपस्थापने यः खेदः परिश्रमः तेन विधूतेन कम्पितेन, तत्पाणौ रक्तोत्पलभ्रमेण कोकनदभ्रान्त्या भ्रमत पर्यटत् अमरवृन्दं मधुकरपटलं यत्र तेन, अत एव गृहीततमालपल्लवेनेव आत्ततापिच्छकिसलयेनेव विद्यमानेन मधुकरपट- लस्य तमालपल्लववत् श्यामवर्णत्वादित्याशयः, करतलेन हस्तेन, स्विन्नं घर्माक्तं मुखं वदनं वीजयतीव आन्दोलयतीव । इह श्रमवशाद्विधूते हस्ते मुखवीजनस्य, अमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षाद्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिमान् इत्येतेषामङ्गाङ्गिभावसङ्करः । 'भ्रमद्भ्रमरे'त्यादौ वृत्त्यनुप्रासेन स हि सङ्करः पुनः संसृज्यते ।
पुनरिति । प्रायेण बाहुल्येन मानुष्यकेण मानवत्या सुलभा अनायासप्राप्त्या लघुता अगाम्भीर्यम्, मिथ्यासङ्कल्पशतैः अलीकमनोरथजालैः, एवम् अनेन पूर्वोक्तप्रकारेण, आयास्य खेदयित्वा, मां विप्रलभते प्रतारयति । लुप्तो विनष्टो विवेको विधेयाविधेयविचारो यत्र स तथोक्तो यौवनमदः तारुण्याहङ्कारः कामो वा मद्यति मत्तं करोति ।
तदेतत्समर्थयति—यत इत्यादिना । यतो यस्मात्कारणात् । यूनां तरुणानां दृष्टिर्मनोवृत्तिरेव लोच-
हुई नेत्रोंसे कटाक्ष करके देखती है । और मैं जब उसकी ओर दृष्टिपात करता हूं तब वह लज्जावश शुभ्रवस्त्रके समान शुभ्रवर्ण-मन्द-हास्यकी प्रभासे अपने शरीरका आच्छादन कर लेती है । मुझसे लज्जित होकर मेरी ओरसे मुँह फेर, मेरे प्रतिविम्बको प्रवेश करानेकी इच्छासे ही मानो, अपने कपोल (गाल) रूप दर्पणको मेरी ओर समर्पण कर देती है । मुझे अवकाश देनेवाले हृदयके प्रथम अविनयको मानो रेखा ही को वह अपने नखसे शय्याके ऊपर अङ्कित करती (लिखती) है । जब उसने मुझे देनेके लिए उस पान-बीड़ीको उपस्थित किया, तब उसके परिश्रमसे उसका हाथ काँपने लगा था—जिसको रक्तोत्पल मान कर भ्रमरोंके झुण्ड करके ऊपर इधर उधर घूमा करते थे—इससे प्रतीत होता था कि-मानो वह तमाल-पल्लव लेकर घर्माक्त (पसीनेसे तर) अपने मुखमण्डल पर वायु सञ्चारन करती है ।
वह पुनः चिन्ता करने लगा कि—, प्रायशः यह मनुष्य जाति-सुलभ लघुता ही इस प्रकारके हजारों मिथ्या- भावनाओंका संकलन करा-कराकर परिश्रान्त कर शेषमें मेरी प्रतारणा करती है, अथवा यौवन-मद किंवा कन्दर्प
१ ॰॰॰विधुतेन । २. रक्तोत्पलभ्रमद्भ्रमरवृन्देन । ३. खिन्नं । ४. मुखमियं । ५. एवं मां ।
५७२ कादम्बरी- [ कथायाम्-
कालुष्यं¹ महत् पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तार्यते² । स्वयमुत्पा- दितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । निपुणमन्मथै³-गृहीता चित्रवर्त्तिकेव तरुणचित्तवृत्तिर्न किञ्चिन्नालिखति । सञ्जातरूपाभिमाना कुलटेवात्मसम्भावना न क्वचिन्नात्मानमर्पयति । स्वप्न इवाननुभूतमपि⁴ मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासम्भा-
नम् तिमिरेण नेत्ररोगविशेषेण उपहता क्षीणसामर्थ्यैव सती, अल्पमपि स्तोकमपि कालुष्यम् आधारो- भूतकामिनीचित्तविकारं वस्तूनामाविलत्वञ्च, महत् अधिकं पश्यति उत्प्रेक्षते अवलोकते च ।
इह मनोवृत्तिलोचनयोर्भेदेऽपि श्लेषद्वाराभेदाध्यवसायादतिशयोक्तिः, 'तिमिरोपहतेव' इत्यत्र क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
स्नेहलव इति । वारिणा सलिलेनेव यूनां यौवनमदेन तारुण्याहङ्कारेण, स्नेहलवोऽपि कामिन्या अनुरागलेशोऽपि पक्षे तैलादिस्नेहपदार्थकणोऽपि, दूरं विस्तार्यते नितान्तविस्तृतत्वेन बोध्यते पक्षे अत्यन्तं प्रसार्यते ।
स्वयमिति । कविमतिः कविबुद्धिः सेव, तरलता तरुणानां चित्तचापल्यम्, स्वयमात्मनैव उत्पा- दितैः जनितैः अनेकचिन्ताशतैः विविधवाञ्छित-( वर्णनीय ) वस्तुविषयकमनोवृत्तिसमूहैः आकुला व्यग्रा ( व्याप्ता ) सती, किञ्चिन्न उत्प्रेक्षते न सम्भावयति इति न अपि तु सर्वमेवोत्प्रेक्षत इत्यर्थः । कवीनां शेमुषी यथा वर्णनीयविषयकानेकविधचिन्ताभिर्व्याप्ता सती समस्तमेव काव्यमुत्प्रेक्षालङ्कारेण भूषयति, तथा तरुणानां चपला मनोवृत्तिरपि कामिनीविषयकानेकविधचिन्ताभिर्व्यग्रा सती, समस्तमेव समाग- मादिकं सम्भावयतीति निष्कर्षः ।
निपुणेति । चित्रसम्पादनदक्षजनगृहीता चित्रवर्त्तिकेव आलेख्यतूलिकेव यूनां चित्तवृत्तिः मनो- व्यापारः, निपुणेन उत्तेजनाकुशलेन मन्मथेन कामेन गृहीता आविष्टा सती, किञ्चिन्नालिखति नाङ्कयति इति न, अपि तु विश्वस्यालेख्यवत् समस्तमेव कामिनीसम्मिलनादिकं हृदये अङ्कयतीति तात्पर्यम् ।
सञ्जातेति । कुलमटति अतिक्रामति या सा कुलटा स्वैरिणी सेव आत्मसम्भावना आत्मप्रशंसा, सञ्जात उत्पन्नः रूपाभिमानः सौन्दर्याहङ्कारो यस्यां सा तथोक्ता सती, क्वापि कामिन्यां कामुके च, आत्मानं हृदयं निजशरीरं च नार्पयति इति न, किन्तु सर्वस्मिन् स्थले आत्मानमर्पयतीति तात्पर्यम् ।
स्वप्न इति । स्वप्न इव तरुणानां मनोरथः मनोऽभिलाषः, समस्तम् अननुभूतमपि कामिनीस्नेहादिकं द्रव्यादिकं च दर्शयति सम्भावयति दृग्विषयीकरोति च ।
। इन्द्रजालेति । इन्द्रजालस्य पिच्छिकेव सेवकेव तरुणानां प्रत्याशा दुराशा, असम्भाव्यमपि अनु- च्छेद्यमपि कामिनीसम्मिलनादिकम् अद्भुतपदार्थञ्च, पुरोऽग्रे स्थापयति प्रतिष्ठितं करोति 'वारिणेव' इत्यारभ्य 'पिच्छिकेव' इत्यन्तेषु पूर्णोपमालङ्कारः ।
मुझे उन्मत्त करनेमें तुला है। क्योंकि—युवकोंकी दृष्टि तिमिर रोगसे आक्रान्त होकर ही मानो नायिकाओंके मनमें अल्पविकार होने पर भी उसे गुरुतररूपमें देखती रहती है। जलमें थोड़े तैलविन्दु पड़नेसे भी जिस प्रकार वह अत्यन्त विस्तृत हो जाता है, उसी प्रकार युवकोंका यौवन-मद नायिकाओंके अनुरागकी कणिकाको भी अत्यधिक समझा देता है । कवियोंकी बुद्धि जिस प्रकार अपनेसे ही उत्पादित अनेकविध वर्णनीय वस्तुओंकी चिन्तासे व्याकुल होकर किस-किसको उत्प्रेक्षालङ्कारसे अलङ्कृत नहीं करती—अर्थात् सबको ही उत्प्रेक्षा करती है, युवकोंके मनकी चञ्चलता भी उसी प्रकार अपने आपसे उत्पन्न की हुई नानाविध इष्ट वस्तुओंकी चिन्तासे व्याकुल होकर नायिकाके विषय में सबकी ही सम्भावना करती है। उत्कृष्ट चित्रकारके हस्तधृत चित्रतूलिका (कूची) जिस प्रकार सबका ही चित्र काढ़ती है, युवकोंकी चित्तवृत्ति भी उसी प्रकार उत्तेजना-निपुण कामदेवके द्वारा आक्रान्त (वशी) होकर सब कुछ अङ्कित करती है (काढ़ लेती) है। सौन्दर्याभिमानिनी कुलटा जिस प्रकार सब पुरुषोंको ही अपना शरीर अर्पण करती है, सौन्दर्याभिमानी युवकोंकी आत्म-सम्भावना (आत्मश्लाघा, अपनेको श्रेष्ठ समझना) भी उसी प्रकार समस्त नायिकाओंमें ही मन समर्पण करती है। स्वप्नके समान युवकोंका मनोरथ, अननुभूत पदार्थका भी दर्शन करा देता है। एवं इन्द्रजाल (जादूगर) की पिच्छिका (मोरछल) के समान
१. कलुष । २. विस्तार्यते । ३" मदन "। ४. अनुभूतमपि ।
चन्द्रापीडावलोकनप्रकार० १४] चन्द्रकला-विद्योतिनीसहिता । ५७३
व्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान्—‘किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलक्षणा मय्येवं जातचित्तवृत्तिः तदा न चिरात् स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति, स एवास्य संशयस्य च्छेत्ता भविष्यति’ इत्यवधार्योत्थायोपविश्य च ताभिः कन्यकाभिः सहाक्षैर्गेयैश्च विपञ्चीवाद्यैश्च पाणविकैश्च स्वरसन्देहविवादैश्च सुभाषित-गोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाञ्चक्रे । मुहूर्त्तञ्च स्थित्वा निर्गम्योपवनालोकनाकौतूहलक्षिप्तचित्तः क्रीडापर्वतकशिखरमारुरोह ।
कादम्बरी तु तं दृष्ट्वा चिरयतीति महाश्वेतायाः किल वर्त्मावलोकयितुं विमुच्य तं गवाक्षम् अनङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोह । तत्र च विरलपरिजना सकलं
भूय इति । भूयः पुनरपि चिन्तितवान् अचिन्तयत्-अनेन पूर्वोदन्तेन वृथैव मुधैव मनसा चेतसा खेदितेन किम् ? । एवं जातचित्तवृत्तिः उत्पन्नमनोव्यापारः अनुरक्तेति यावत् । अप्रार्थितानुकूलः अयाचितदाक्षिण्यवान् । प्रकटीकरिष्यति प्रकाशयिष्यति । संशयस्य सन्देहस्य च्छेत्ता दूरीकर्त्ता भविष्यति । अवधार्य निश्चित्य । ताभिः पूर्वोक्ताभिः अक्षैर्ध्यूतक्रीडाभिः गेयैर्गानैश्च, विपञ्ची वीणा तस्या वाद्यैर्वादनैः, पणवा वाद्ययन्त्रविशेषास्तत्संयुक्तानि वाद्यानि पाणविकानि तैश्च, स्वराः षडजर्षभगान्धारमध्यमपञ्चम-धैवतनिषादाः तेषां सन्देहे संशये विवादैर्नानाविधतकैश्च, सुभाषितानि विविधमधुरसूक्तानि तेषां गोष्ठीभिः ‘गावोऽनेका वाचस्तिष्ठन्त्यास्विति’ गोष्ठ्यः ताभिर्गोष्ठीभिः संलापैश्च घञर्ये कः ‘अम्बाम्ब’ ( ८।३।१७ ) इति षत्वम्, गौरादित्वात् ङीष् प्रत्ययश्च ‘गोष्ठी समासंतलापयोः स्त्रियाम्’ इति मेदिनी । सुकुमारैः कोमलैः कलाविलासैः स्रग्गुम्फनादिकलाविद्याचेष्टाभिः । आसाञ्चक्रे अधितस्थौ । यत्तु ‘विपञ्ची सप्ततन्त्रीविशिष्टा वीणा’ इति व्याख्यातं तन्न रोचते सप्ततन्त्रीयुतायाः पृथगेवामरकोशेन परिवादिनीति नामकरणात् तस्मा- त्सामान्यवीणापरकमेव व्याख्यातव्यमिति समालोचकाः
मुहूर्त्तैति । मुहूर्त्तं किञ्चित्क्षणम् । निर्गम्य बहिरागत्य .उपवनालोकनस्य उद्याननिरीक्षणस्य कौतूह- लेन कौतुकेन क्षिप्तमुद्वेलितं चित्तं मनो यस्य सः । आरुरोह आरूढवान् ।
कादम्बरीति । तं क्रीडापर्वतशिखरवर्त्तिनं चन्द्रापीडम् । चिरयति महाश्वेता विलम्बते इति अस्मात्कारणात् । किलेत्यसत्ये । महाश्वेतायाः किल वर्त्मावलोकयितुम् असत्यं महाश्वेतायाः परावर्त्तन- मार्गं वीक्षितुम्, वस्तुतश्चन्द्रापीडं वीक्षितुमित्याशयः । तं गवाक्षम् अधिष्ठितं वातायनं, त्यक्त्वा अनङ्गेन मदनेन क्षिप्तम् उद्वेलितं चित्तं मानसं यस्याः सा तथोक्ता सती आरुरोह आरूढवती ।
तत्रेति । विरलाः स्तोकाः परिजनाः परिचारिका यस्याः सा । कलाभिः षोडशभागैः सहेति सकलं
युवकोंको आशा, असम्भावनीय वस्तुओंको भी लाकर रख देती है। पुनः चिन्ता करने लगा कि—‘निरर्थक इस प्रकार चिन्ता करके मनको परिश्रान्त करनेसे क्या लाभ ? यदि सत्य ही धवलनयना कादम्बरीकी चित्तवृत्ति मेरे प्रति इस प्रकार अनुरक्त हो ही गई है, तो ऐसा होने पर, थोड़ी देरमें अयाचित अवस्थामें अनुकूल हो कर वह कामदेव ही उसे व्यक्त कर देगा और वही यह संशय दूर करेगा' मन ही मन ऐसा निश्चय कर चन्द्रापीड उठकर बैठ गया; और उन कन्याओंके साथ पासोंसे, गानेसे, वीणा बजानेसे, पणव (ढोलक) बजानेसे, निषादादि किसी स्वरके कोमल मन्द्रादि संशयके विषयमें नानाविध वितर्कोंसे, मधुरवाक्यमें कथोपकथनसे, और इस प्रकारके ही अन्यान्य आलाप और मालाग्रथनादि कोमल कला-विद्याके व्यवहारसे चित्तविनोद करने लगा। इस प्रकार उस मणि-मन्दिरमें कुछ देर उसी भावसे रह कर, वैसे ही बाहर निकल कर उद्यानदर्शनके कौतुकसे आकृष्ट-चित्त होकर वह उस क्रीड़ा पर्वतके शिखर (चोटी) पर चढ़ा।
कादम्बरी तो वहाँ उसे देख कर ही 'महाश्वेता विलम्ब करती है' [ यों विचार ] उसके लौटनेके मार्गको देखनेके बहाने, कामातुर-चित्त हो उस गवाक्ष (खिड़की) को छोड़, अपने महलको सबसे ऊपर की अटारी पर चढ़ गई। वहाँ उसके साथ थोड़ी ही दासियाँ थीं, षोडशकलासे परिपूर्ण चन्द्रमण्डलके समान श्वेतवर्णं स्वंग्रदण्ड-
१. जातवृत्तिः। २. लयैश्च । ३. कचिद 'सुभाषितगोष्ठीभिश्चान्यैश्च' इति पाठो नास्ति । ४. पर्वत । ५. तातं । ६. कचिदिह 'उद्यता' इत्यधिकः पाठः । ७. विमुच्यतां गवाक्षमृत्युक्त्वा । ८. तलं कैलादाशिखरमिव गौर्यारुरोह । ९. क्वचित् , 'सकल' पदं न दृश्यते ।
५७४ | कादम्बरी- | [ कथायाम्-
शशिमण्डलपाण्डुरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्बालव्यजनैश्च फेनशुचि- भिरुद्धूयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीला- वगुण्ठनेनेवं चन्द्रापीडाभिसरणवेषाभ्यासमिव कुर्वती$^३$, मुहुश्चामरशिखां समासज्य, मुहुश्छत्र- दण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदलेखां परिष्वज्य मुहुः परिजना- न्तरितसकलदेहा नेत्रत्रिभागेणै, मुहुरावर्त्तितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्रलता- शिखरे कपोलं निधाय, मुहुर्निश्चलकरविधृतामधरपल्लवे वीटिकां विनिवेश्य$^६$, मुहुस्रुदीर्णोत्पलै- प्रहार-पलायमान-परिजनानुसरण-दत्त-कतिपयपदा विहस्य, तं विलोकयन्ती तेन च विलोक्य- माना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत्। आरुह्य च प्रतीहार्या निवेदितमहाश्वेता-
षोडशकलापरिपूर्णमित्यर्थः, यत् शशिमण्डल चन्द्रविम्बं तद्वत् पाण्डुरेण शुभ्रेण। इह लुप्तोपमा। हेम्नः सुवर्णस्य दण्डो यस्य तेन तथोक्तेन आतपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण आतप आलोको यस्याः सा। उद्धूयमानैः परिजनैः सञ्चाल्यमानैः, फेनो डिण्डीरस्तद्वत् शुचिभिः श्वेतैः इहाप्युपमालङ्कारः। चतुर्भिश्श्रुतःसंख्याकैः बालव्यजनैश्चामरैः उपवीज्यमाना वातं कुर्वाणा। कुसुमगन्धलुब्धेन पुष्पसौरभ-तृष्णया सता शिरसि मस्तके भ्रमता पर्यटता, अतएव नीलावगुण्ठनेनेव श्यामशिरोवेष्टनेनेव अमरकुलेन मधुकरगणेन। इह श्रौतोपमा। चन्द्रापीडस्य अभिसरणवेषाभ्यासं कुर्वतीव विदधतीव, अन्येषामवलोकन-भीत्या तत्र नीलावगुण्ठनस्यावश्यकत्वादित्याशयः। इह क्रियोत्प्रेक्षा। चामरशिखां बालव्यजनपुरोभागं समासज्य आश्रित्य। अवलम्ब्य समासज्य। विन्यस्य संस्थाप्य। परिष्वज्य आलिङ्ग्य। परिजनेन परिचारकेण अन्तरितो व्यवहितः सकलः समग्रः देहः शरीरं यस्याः सा तथोक्ता सती, नेत्रस्य लोचनस्य त्रिभागेण एककोणेन विलोयन्ती पश्यन्तीद्युत्तरेण सम्बन्धः। आवर्त्तितं परिवर्त्तनसमये वस्त्रापहरणेन प्रकटितं त्रिवलीवलयम् उदरोर्ध्ववर्त्तित्रिवलयमण्डलं यया सा, परिवृत्य परावर्त्तनं विधाय। प्रतीहारीवेत्रलता-शिखरे द्वारपालिकावेतसवल्ल्यग्रप्रदेशे। निधाय स्थापयित्वा। निश्चलकरविधृतां स्थिरहस्तगृहीतां वटिकां ताम्बूलस्येति शेषः, अधरपल्लवे ओष्ठकिसलये विनिवेश्य प्रवेशयित्वा उदीर्णं श्रोत्राम्रंशितं यद् उत्पलं कमलं तस्य प्रहारेण ताडनेन पलायमानो यः परिजनः परिचारकः यस्य अनुसरणे अनुगमने दत्तानि स्थापितानि कतिपयानि कियन्ति पदानि पदक्षेपा यया सा तादृशी सती विहस्य हास्यं विधाय। तं चन्द्रापांडम्। तेन चन्द्रापीडेन। महान्तम् अतिदीर्घमपि कालं समयं नाज्ञासीत् न ज्ञातवती।
आरुह्येति। आरुह्य आरोहणं विधाय तत्रासादाङ्गणमिति शेषः। निवेदिते ज्ञापितं महाश्वेतायाः
संयुक्त एक छत्र, उस पर रौद्र निवारण करने के लिए लगाया था—चार परिचारिकाएं (दासियाँ) समुद्रफेनके समान श्वेतवर्ण चार छोटे-छोटे पंखे हिलाकर उसको पवन करती थीं; और नीलवर्ण अवगुण्ठन (बुरका) के समान भ्रमरोंका झुण्ड, पुष्पोंके सुगन्धके लोभसे उसके मस्तकके ऊपर भ्रमण करते थे, उससे मानो चन्द्रापीडके प्रति दिनमें भी अभिसारिका होनेके वेशका अभ्यास करती थी। इस अवस्थामें वह बारम्बार चामरका अग्रदेश धारण कर, बारम्बार छत्रदण्डग्रहण कर, बारंबार तमालिकाके कन्धे पर हाथ धर कर, बारंबार मदलेखाका आलिङ्गन कर, वारंवार किसी परिचारिकाके शरीरसे ढक जानेके कारण केवल आँखको कोरसे देखकर, बारम्बार उदरोपरिस्थ वलित्रयमण्डल (तीन सिलवटों) से फिर फिर कर बारम्बार प्रतीहारी की छड़ी की मूठ पर गाल रख कर बारम्बार निश्चल हाथमें ली हुई ताम्बूल-वाटिका (पानकी बीड़ी) ओष्ठ-पल्लवके आगे धरकर, एवं कानसे एक कमल फेंक कर उसका प्रहार करनेसे दौड़ती किसी परिचारिकाके पीछे-पीछे कितने ही कदम चल कर, हंसती वह चन्द्रापीडको देखने लगी और चन्द्रापीड भी उसे देखने लगा। इस प्रकार करते-करते बहुत समय बीत गया, पर उसका ज्ञान नहीं हुआ। उसके बाद जब प्रतीहारीने उस मट्टालिकाके ऊपर आकर महाश्वेताके प्रत्यागमन (लौट आने) की सूचना दी तब वह महल परसे उतरी और
१. विरचितहेमदण्डेन। २. नीलावगुण्ठनेव। ३ ॰॰॰वेषाम्यस्यन्ती, ॰॰वेशान्यासं कुर्वती, ॰कैलासशिखर इव गौरी इत्यपि कचिदधिकः पाठः। ४ ॰॰॰सखीं परिष्वज्य। ५ ॰॰नेत्रत्रिभागेणावलोक्य। ६. निवेश्य। ७. उद्गृ-र्णोत्पल॰ ॰॰॰उदीर्णकर्णोत्पल।
[चन्द्रापीडायोनिदाहप्रण०-९५] चन्द्रकला-विद्योतिनीसहिता । ५७५
प्रत्यागमना तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारम- करोत् । चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्त्तित- स्नानविधिर्निरुपहत-शिलोत्तलाचिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहः- कर्म चक्रे ।
क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणी²- रोमन्थफेनशीकरासारे, सीरायुध-हल-भय-निश्चलकालिन्दी-जलत्विषि, तरुणी-चरणालक्तक- रस-शोण-शोचिषि, सुकुमरजः-सिकतिल-तले, लतामण्डपोपगूढे, शिखण्डि-ताण्डव-सङ्गीत- गृहे, मरकतशिलातले समुपविष्टः दृष्टवान् सहसैवातिबहुलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लावयमानां महीम्,
प्रत्यागमनं परावर्त्तनं यया सा तादृशी, तस्मात् प्रासादशृङ्गात् अवततार अवतीर्णा ।
स्नानेति । स्नानादिषु मज्जनादिषु मन्दादरापि चन्द्रापीडौत्सुक्यवशात्स्वल्परागापि । दिवसव्या- पारं दिनकृत्यम् अकरोत् व्यदधात् ।
चन्द्रेति । तस्मात् क्रीडापर्वतशिखरात् । प्रथमविसर्जितेनैव प्राक्व्यापारितेनैव कादम्बरीपरिजनेन कादम्बरीपरिचारिकया निर्वर्त्तितो निष्पादितः स्नानविधिः मज्जनव्यापारो येन सः, निरुपहते छेदादिभि- रदूषिते, शिलातले प्रस्तरोपरि अर्चितं पूजितम् अभिमतदैवतम् इष्टदेवता येन सः । आहारादिकम् अशनादिकं सर्वम् अहःकर्म दिनकृत्यं चक्रे कृतवान् ।
क्रमेणेति । किञ्च, कृताहारो विहितभोजनश्चन्द्रापीडः, क्रीडापर्वतकस्य प्राग्भागम् अग्र्यंशं भजत इति तस्मिन् तथोक्ते, मनोहारिणि चित्ताकर्षके, हारीतो 'हरियाल' इति प्रसिद्धः पक्षिविशेषः तद्वत् हरिते नीलवर्णे । लुप्तोपमालङ्कारः । हरिणीनां मृगीणां रोमन्थश्चर्वितचर्वणं तेन ये फेनाः कफाः तेषां शीकरा सारः कणवृष्टिर्यत्र तत्र । सीरायुधो बलरामः तस्य हलभयेन लाङ्गलत्रासेन निश्चलं निष्पन्दं यत् कालि- न्दीजलं यमुनातोयं तस्य त्विट् कान्तिरिव त्विट् यस्य तस्मिन् तादृशे । इहाप्युत्प्रेक्षालङ्कारः । तरुणीनां युवतीनां चरणयोः पादयोः अलक्तरसेन यावकद्रवेण शोणं रक्तवर्णं शोचिर्द्युतिर्यस्य तस्मिंस्तादृशे । कुसुमानां पुष्पाणां रजोभिः परागैः सिकतिलं बालुकामयं तलम् ऊर्ध्वदेशो यस्य तस्मिंस्तादृशे । लता- मण्डपैः उपगूढे संश्लिष्टे परिवृत्त इति यावत् । शिखण्डिनां मयूराणां यत् ताण्डवं लास्यं यत्र तत्तथोक्तं सङ्गीतगृहं गीतनृत्यवादित्रसदनं यस्मिंस्तत्र । एतादृशे मरकतशिलातले अश्मगर्भप्रस्तरवले समुपविष्टः मनासीनः सन्, अग्रेऽभिधीयमानानि दृष्टवान् अवलोकितवान् ।
सहसेति । दिवसं दिनम्, अतिबहलं निरतिशयं धाम तेजो यस्य तेन, धवलेन शुभ्रेण आलोकेन आतपेन जलेनेव सलिलेनेव विद्यमानेन सता, निर्वाप्यमाणम् अरट्यमानमिव दृष्टवान् । आतपं सूर्यालोकं मृणालवलयेन बिसकङ्कणेन पीयमानम् अन्यन्तरीक्रियमाणमिव दृष्टवान् । महीं क्षोणीं क्षीरोदेन दुग्धसमुद्रेण
स्नानके कार्य करनेका थोड़ा आग्रह रहने पर भी उसने महाश्वेताके अनुरोधसे (मन रखनेके लिए) वे सब ही सम्पादन किया । इधर चन्द्रापीड भी क्रीडापर्वतके शिखरसे नीचे उतरा और पहलेसे ही कादम्बरीकी भेजी हुई परिजनोंके साहाय्यसे स्नानकार्य सम्पादन करनेके बाद एक अखण्डित शिलातल पर इष्टदेवताकी पूजा करके, उसी क्रीडा-पर्वतमें ही उसने आहारादिक दिनका समस्त कृत्य सम्पादन किया ।
उस क्रीडापर्वतके पूर्व-भागमें वहीं हारीत पक्षीके समान मनोहर एक मरकत-मणिकी शिला थी, चर्वित- चर्वण (जुगाली) करनेके समयमें हरिणियोंके मुखसे फेनबिन्दुसमूह उसके ऊपर पड़े थे, बलरामके लाङ्गल (हल) के भयसे निश्चल हुए यमुना-जल के समान उसकी प्रभा प्रकाश पा रही थी; युवतियोंके चरणोंके आलक्त-रस (महावर) से उसकी दीप्ति रक्तवर्ण हो गई थी; पुष्पकी रेणुसे उसका ऊपरी भाग बालुकामय हो गया था; लता- मण्डपसे उसको चारों दिशायें वेष्टित (ढक गई) थीं; और उसके बीचमें मयूरोंके नृत्य करनेकी सङ्गीत-शाला थी; चन्द्रापीड भोजन करके उस शिलाके ऊपर बैठकर क्रमसे देखने लगा कि—सहसा (एकाएक) ही अत्यन्त तेजस्वी और जलके समान शुक्लवर्ण आलोकमालासे वह दिनका मानो निर्वाण कर (धो) देता है, मृणालमण्डल
१. निर्वर्त्तित°...। २. ...शिलाचित°...। ३. हरिण ...। ४. उपविष्टः । ५. ...ताल्यदलयेनेव / मृणालवलयेनेव ।
५७६ | कादम्बरी- | [ कथायाम्-
चन्दनरसवर्षेणेव सिच्यमानान् दिगन्तान्१ सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि—किमु खलु भगवानोषधिपतिरैकाण्ड एव शीतांशुरुदितो भवेत्, उत यन्त्रविक्षेप-विशीर्यमाण-पाण्डुर-जल-धारा-सहस्राणि३ धारागृहाणि मुक्तानि, अहोस्विदनिल-विकीर्यमाण-शीकर-धवलित-भुवनाम्बरसिन्धुर्धरातलमवतीर्णे'ति४ ।
कुतूहलाच्च५ आलोकानुसारप्रहितचक्षुरद्राक्षीत् । अनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रसमुद्धूयमानचामरद्वयां कादम्बरीप्रतीहार्या६ वामपाणिना वेत्रलतागर्भेणार्द्रे-
प्लाव्यामानामिव पूर्यमाणामिव दृष्टवान् । दिगन्तान् चन्दनरसवर्षेण मलयजद्रववृष्ट्या सिच्यमानानिव अभिषेकविषयीक्रियमानानिव दृष्टवान् । तथा अम्बरतलं गगनं सुधया गृहधवलीकरणद्रव्येण विलिप्यमानमिव विलेपनविषयीक्रियमाणमिव दृष्टवान् । मरकतमणिशिलातले समासीनश्चन्द्रापीडः अकस्मात् गगनधरण्यादिषु समन्ताद् व्यासमद्भूतं श्वैतिमानमपश्यत् येन हि अकाण्डे चन्द्रोदयादेः सन्देहोऽस्य समजनीति प्रघट्टकस्य निष्कर्षः । कादम्बर्या प्रेषितस्य तरलिकयानीयमानस्य हारस्यायं प्रकाश इति कविना विहितो भूमिकातिशय इति हृदयम् ।
इह 'जलेनेव' इत्यत्र श्रौतोपमा, 'विलुप्यमानमिव' इत्यत्र च क्रियोत्प्रेक्षेत्युभयोरङ्गाङ्गिभावसङ्करः । 'पीयमानमिव, प्लाव्यामानमिव, सिच्यमानमिव, विलिप्यमानमिव' इत्येतेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
आसीदिति । अस्य चन्द्रापीडस्य । खलु निश्चयेन । अकाण्ड एव असमय एव, शीतांशुरश्चन्द्रः । इह 'ओषधिपति' पदं न किमपि मुख्यमुपकरोतीति परित्याज्यमेव, अन्यथापुष्टार्थत्वदोषस्य वारयितुमशक्यत्वात् । उदितो भवेत् उद्गतः स्यात् । उत अथवा यन्त्राणां जलयन्त्राणां विक्षेपेण आर्मणेन विशीर्यमाणानि परितो विक्षीर्यमाणानि पाण्डराणि श्वेतानि जलधाराणां सलिलसाराणां सहस्राणि समूहा येषां तानि धारागृहाणि जलयन्त्रभवनानि मुक्तानि त्यक्तानि । अहोस्वित् किं वा, अनिलेन पवनेन विक्षीर्यमाणैः समन्ताद्विक्षीर्यमाणैः शीकरैः सलिलकणाभिः, धवलितं श्वेतीकृतं भुवनं यया सा तादृशी, अमरसिन्धुः आकाशगङ्गा धरातलं भूतलम् अवतीर्णा आगतेत्यर्थः, कथमन्धथा समन्तादेवेवंविधा श्वेतता प्रसरतीत्याशयः । इह शुद्धसन्देहोऽलङ्कारः ।
कुतूहलादिति । किञ्च, कुतूहलात् कौतुकात् आलोकानुसारेण तं प्रकाशमुद्दिश्येत्यर्थः प्रहितं प्रेषितं चक्षुर्लोचनं येन स तथोक्तश्चन्द्रापीडः आगच्छन्तीं मदलेखाम्, तस्याश्च समीपे तरलिकांम, तथा च गृहीतं हारमद्राक्षीदिति सम्बन्धः ।
आदौ मदलेखां विशिनष्टि—अनल्पेति । अनल्पैः अधिकैः कन्यकानां कुमारीणां कदम्बैः समूहैः परिवृतां परिवेष्टिताम्, ध्रियमाणम् उद्वहमानं धवलं शुभ्रम् आतपत्रं छत्रं यस्यास्ताम्, उद्धूयमानं वीज्यमानं चामरद्वयं वालव्यजनयुगलं यस्यास्ताम्, कादम्बरीप्रतीहार्या गन्धर्वराजपुत्रीद्वारपालिकया वेत्रलतागर्भेण वेतयष्टिधारिणा वामपाणिना सव्यहस्तेन, आर्द्रवस्त्रशकलेन क्लिन्नवसनखण्डेन अवच्छन्नम् आच्छादितं
मानो रौद्रका पान करता है, क्षीरोदसागर मानो पृथिवीको प्लावित कर (डुबा) रहा है, चन्दन-जलकी वृष्टि मानो दिशाओंको सिक्त करतो (भिगोती) है, और अमृत मानो आकाशको लिप्त करता है । यह देखते ही उसके मनमें यह हुआ कि—'क्या ओषधिपति भगवान् चन्द्र, असमयमें ही उदित हुए हैं, क्या धारागृह (फुहारेके यन्त्र) को खोल दिया गया है, जिससे उसके चारों ओर भ्रमण करते रहनेसे शुभ्रवर्ण हजारों जलधाराएँ निकली हुई हैं ? अथवा आकाश-गङ्गा भूतलमें उतरी है, जिसके जलविन्दुसमूह वायुके वेगसे फैलकर भुवन-मण्डलको शुभ्रवर्ण कर दिया है ?'
जिस दिशामें से वह आलोक (प्रकाश) आता था उस ओर कौतुकसे दृष्टिपात किये (नेत्र फेके) तो बहुतर कन्याओंके बीचमें आती हुई मदलेखा को देखा । उसके मस्तकके ऊपर कोई परिचारिका श्वेतच्छत्र धारण की हुई थी, और दोनों ओर दो परिचारिकाएँ चमर डुला रहीं था । कादम्बरीकी प्रतीहारीने अपने बाएँ हाथमें
१. दिगन्तरान् ।
२. भगवानौषधिपतिः, केतकीगर्भपत्रपाण्डुरो भग...।
३. पाण्डुरधारासहस्राणि पारदप्रसाराः, जलधाराः ।
४. कुतूहलाद्धरातलम् ।
५. क्वचित्त 'कुतूहलाव' इति नास्ति ।
६. कादम्बरी प्रतीहार्या ।
चन्द्रापीडायोपहारप्रेषण०-१५] चन्द्रकला-विद्योतिनीसहिता । ५७७
वस्त्रशकलाच्छन्नमुखं चन्दनानुलेपनसनाथं नारिकेल¹-समुद्गकमुद्वहन्त्या दक्षिणकरेण दत्त- हस्तावलम्बाम्, केयूरकेण च निःश्वासहार्ये² निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गम्, मालतीकुसुमदामाधिष्ठित-करलतया च तमालिकयानुगम्यमानामाग- च्छन्तीं मदलेखां तस्याश्च समीपे तरलिकां, तया च सितांशुकोपच्छेदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्ड- रीकस्य, मन्दरक्षोभविक्षिप्तमिवामृतफेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोञ्झि- तम्, हासमिव श्रियः³ कुलगृहवियोगगलितम्, मन्दर-मथन-विखण्डिताशेष-शशिकला-खण्ड- सञ्चयमिव संहृतम्, प्रतिमागततारागणमिव⁴ जलधि⁵-जलादुद्धृतम्, दिग्गज-कर-शीकरा-
मुखं वदनं यस्य तत्तथोक्तम्, तथा चन्दनानुलेपनेन मलयजविलेपनेन सनाथं सहितं नारिकेलस्य श्रीफलस्य समुद्गकं मध्यवर्त्तिगोलकम्, उद्वहन्त्या धारयन्त्या सत्या, दक्षिणकरेण अपसव्यहस्तेन दत्तः अर्पितो हस्ता-वलम्बो यस्यास्ताम् । निःश्वासेन श्वासवायुना हाय हर्तुं शक्ये अत्यन्तक्षुद्रे इत्यर्थः, निर्मोकवद् भुजगक-ञ्चुकवत् शुचिनी श्वेते,, धौते प्रक्षालिते कल्पलताया मन्दारवल्ल्या दुकूले सूक्ष्मवस्त्रद्वयम्, दधता धारयता केयूरकेण निवेद्यमानो ज्ञाप्यमानो मार्गः पन्था यस्यास्ताम् । तथा मालतीकुसुमानां जातीपुष्पाणां दाम्ना मालया अधिष्ठितम् आश्रितं करतलं हस्ततलं यस्यास्तया तादृश्या तमालिकया अनुगम्यमानाम् अनु-व्रज्यमानाम् आगच्छन्तीम् आयान्तीं मदलेखाम्, तस्याश्च समीपे निकटे तरलिकां अद्राक्षीत् अपश्यत् ।
हारं वर्णयति-तयेति । किञ्च,' तया तरलिकया, सितां शुकं श्वेतवस्त्रम् उपच्छद आवरणं यस्य तस्मिन्, पटलके मञ्जूषायां गृहीतं धृतम् । क्षीरोदस्य दुग्धाम्बुधेः धवलतायाः श्वेततायाः कारणं हेतुरिव, तत्र विद्यमानत्वादित्याशयः । चन्द्रमसः शशिनः सहभुवं सहोदरमिव । नारायणनाभिपुण्डरीकस्य विष्ण्-तुन्दकूपिकासिताम्भोजस्य मृणालदण्डमिव । मन्दरस्य मन्दराचलस्य क्षोभेण क्षीरसागरमन्थनसमये, सुरासुरैराकर्षणात् सञ्चलनेन विक्षिप्तं विकीर्णम् अमृतफेनपिण्डस्य पीयूषडिण्डीरपिण्डस्य निकरं समूह-मिव । मन्थनश्रमेण क्षीरोदमथनायासेन उज्झितं त्यक्तम्, वासुकेः रज्ज्वात्मना परिणतस्य शेषनागस्य निर्मोकं कञ्चुकमिव । कुलगृहस्य पितृमन्दिरस्य क्षीरोदवसतेः वियोगेन विश्लेषक्लेशेन गलितं वदनात्पतितं श्रियो लक्ष्म्याः हासं हास्यमिव । संहृतं क्वाप्येकत्रीकृतं मन्दरस्य तदाख्यपर्वतस्य मथनेन मन्थनेन विख-ण्डिताश्चूर्णीकृता अशेषाः समस्ताः शशिकलाश्चन्द्रकलास्तासां खण्डसञ्चयम् अंशनिकरमिव । जलधिजलाद् समुद्रसलिलात् प्रतिमागततारागणमिव तत्रैव प्रतिसङ्क्रान्ततारकासमूहमिव । पुञ्जीभूतम् एकत्रीभूतं
बेंतकी छड़ी और आर्द्रवस्त्र (गीले रुमाल) से आच्छादित, चन्दनानुलेपनसे संयुक्त एक नारियलका सम्पुटले रखा था और दक्षिण हाथसे मदलेखाके हाथको सहारा दिया था । निःश्वास-वायु (फूँक मारने) से भी उड़ जायँ ऐसे, सर्पके कञ्चुक (काँचली, 'केंचुआ' मिथिला भाषामें) के समान स्वच्छ, कल्पलताके दो धुले वस्त्र पहने केयूरक उसे मार्ग-प्रदर्शन करता जाता था । हाथमें मालती (चमेली) पुष्पों के गजरे धारण किये तमालिका उसके पीछे-पीछे आ रही थी, उसके साथ ही तरलिका भी आ रही थी, जिसके हाथमें श्वेतवर्ण वस्त्रसे आच्छादित एक छोटी सी पेटी (टोकरी) के अभ्यन्तरमें मानो क्षीरोदसागरकी धवलताके कारण, चन्द्रके सहोदरके समान दीप्ति बरसाता अत्यन्त शुद्ध एक हार था । वह नारायणके नाभिकमलके मृणाल-दण्डके समान, मन्दराचलके द्वारा उत्पन्न हुए आन्दोलन (क्षोभ) से उठे अमृत-फेन-पिण्डसमूहके समान, समुद्र-मन्थनमें परिश्रम होनेसे शरीरसे परित्यक्त (छोड़े हुए) अनन्तनागके कञ्चुक (काँचुली) के समान, पितृ-गृहके साथ विच्छेद होनेके कारण मुख-मण्डलसे परिस्खलित होकर गिरे लक्ष्मी-देवीके हास्यके समान, मन्दराचलके द्वारा मथन करनेसे चूर्ण-विचूर्ण हुई चन्द्रमाकी समस्त कलाओंके खण्डोंके मानो सञ्चयके समान समुद्र-जलमेंसे उठाए प्रतिबिम्बित तारागणके ही समान, दिग्गजोंकी सूँडमेंसे निःसृत जलविन्दुसमूहके समान, कामदेवके हस्तीके सप्तविंशतितार्यक-मुक्ता-
१. नारिकेर... । २. निश्वासहार्यै । ३. क्वचित् 'श्रिय' इति पदं न दृश्यते । ४. प्रतिमातारागणमिव तारागणमिव । ५. जलनिधि... ।
५७८ कादम्बरी- [ कथामुखम्-
सारमिव पुञ्जीभूतम्¹, नक्षत्रमालाभरणमिव मदनद्विपस्य, शरन्मेघशकलैरिव कल्पितम्, कादम्बरी-रूप-वशीकृत-मुनिजन-हृदयैरिव निर्मितम्, गुरुमिव सर्वरत्नानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्³, प्रतिपक्षमिव चन्द्रमसः, जीवितमिव ज्योत्स्नायाः, लक्ष्मीहृदयमिव नलिनी-दल-गलज्जलबिन्दु-विलासतरलन्, उत्कण्ठितमिव मृणालवलयधवलकरम्, शरच्छशिनमिव घन-मुक्तांशु-निवह-धवलित-दिङ्मुखम्, मन्दाकिनीप्रवाहमिव सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् ।
दिग्गजानाम् ऐरावतादीनां दिग्दन्तिनां ये कराः शुण्डाः तेषां शीकरासारम् अम्बुकणधारासम्पातमिव । मदनस्य कामस्य यो द्विपो हस्ती तस्य नक्षत्रमालाभरणमिव सप्तसङ्ख्यकमुक्तामालारूपाभरणमिव । शरन्मेघानां घनात्ययजलदनां शकलैः खण्डैः कल्पितं निर्मितमिव । कादम्बर्या गन्धर्वराजपुत्र्या रूपेण सौन्दर्येण वशीकृतानि स्वाधीनीकृतानि यानि मुनिजनानां तापसानां हृदयानि चेतांसि तैः निर्मितमिव रचितमिव, तेषामपि तपस्ययात्यन्तशुचित्वादित्याशयः । सर्वरत्नानां समस्तमणीनां गुरुं श्रेष्ठमिव । एकत्र एकस्मिन् स्थले घटितं समवेतीकृतं सर्वसागराणां निखिलसमुद्राणां यशोराशिमिव कीर्तिसमूहमिव, अस्य हारस्य समुद्रोत्पन्नत्वात् 'सर्वसागराणाम्' इत्यभिहितम् । चन्द्रमसः शशिनः प्रतिस्पर्द्धिनमिव प्रतिसहूर्पकारिणमिव । ज्योत्स्नायाश्चन्द्रिकायाः जीवितं जीवनमिव, सर्वत्राभ्यन्तरस्वच्छशुभ्रत्वादित्याशयः ।
इह 'हासमिव, शीकरासारमिव, कल्पितमिव, निर्मितमिव' इत्येतेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः । तथा 'गुरुमिव, यशोराशिमिव' इत्युभयत्र गुणोत्प्रेक्षालङ्कारः । शेषेषु सर्वत्र जात्युत्प्रेक्षालङ्कार इत्यूहनीयम् ।
लक्ष्मीति । लक्ष्म्याः श्रियः हृदयं चित्तमिव, नलिनीदलात् कमलिनीपत्राद् गलन् पतः जलविन्दोः सलिलकणिकाया विलास इव विलासो द्युतिर्यस्य स तथोक्तः तरलो मध्यमणैर्यस्य तम्, पक्षे तु- नलिनीदलाद्गलज्जलविन्दुरिव विलासेन क्षणावस्थितिन्थापारेण तरलं चपलम् । इह पूर्णोपमालङ्कारः, स च लुप्तोपमया सङ्कीर्णः ।
'तरलं चञ्चले पिङ्गे भास्करेऽपि त्रिलिङ्गकम् । हारमध्यमणौ पुंसि यवागूसुरयोः स्त्रियाम् ॥' इति विश्वमेदिन्यौ ।
उत्कण्ठितमिति । उत्कण्ठितं मदनोद्वेगेन प्रियजनाय उत्सुकं 'पुरुषमिव, मृणालवलयस्येव मृणालकङ्कणस्येव धवलाः शुभ्राः करा रश्मयो यस्य तम्, पक्षे- मृणालवलयेन कामज्वरप्रशमनाय तद्धारणेनेति यावत् धवलौ करौ हस्तौ यस्य तम् । पूर्णोपमालङ्कारः ।
शरदिति । शरच्छशिनमिव घनात्ययचन्द्रमिव, घनः सान्द्रो यो मुक्तानां रसोध्द्वानाम् अंशुविवहः घनैर्र्वारिदैः मुक्ताः परित्यक्तो यः अंशुविवहः किरणसमूहश्च तेन धवलितानि शुभ्रीकृतानि दिङ्मुखानि येन तम् । उक्तालङ्कारः ।
मन्देति । मन्दाकिन्या आकाशगङ्गायाः प्रवाहमिव स्रोत इव. सुरयुवतीनां देवरमणीनां कुचयोः स्तनयोः परिमलं सौरभं वहतीति तम्, एकत्र तत्र धारणात् अपरत्र तत्र स्नानादित्याशयः । प्रभावर्षिणं कान्तिवृष्टिकारिणम् अतितारम् अत्यन्तविशुद्धम् । उक्तालङ्कारः । 'तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके' इति विश्वः ।
मालारूप आभूषणके समान, शरत्कालीन मेघखण्डद्वारा ही मानो प्रस्तुत किया गया, कादम्बरीके सौन्दर्यसे वशीभूत हुए तपस्वियोंके हृदयोंद्वारा ही मानो निर्माण किया गया. समस्त रत्नोंके मध्यमें मानो श्रेष्ठ (शिरोमणि) समस्त समुद्रोंका मानो एकत्र किया हुआ यशःसमूह, चन्द्रमाका मानो प्रतिद्वन्दी और चन्द्रिकाके जीवनके समान था। लक्ष्मीका चित्त जिस प्रकार कमल पत्रमेंसे निपतित (गिरे हुए) जलविन्दुके समान चञ्चल हैं, उस हारके मध्यका मणि भी उसी प्रकार कमल-पत्रमेंसे निपतित जलविन्दुके समान दीप्तिमान् था; उत्कण्ठित व्यक्तिका दोनों हाथ जिसप्रकार मृणाल वलयके सदृश धवल होते हैं, उस हारकी किरणें भी उसीप्रकार मृणालवलयके समान धवल थीं; शरत्कालीन चन्द्र जिसप्रकार मेघयुक्त किरणोंके समूहसे दिशाओंको शुभ्रवर्ण करता है, वह हार भी उसी प्रकार घने मोतियोंकी किरणोंसे दिशाओंको शुभ्रवर्ण कर देता था; मन्दाकिनीका प्रवाह जिस प्रकार देवाङ्गनाओंके स्तनोंके लेपका सौरभ धारण करता है, उसी प्रकार वह हार भी देवाङ्गनाओंके स्तनोंके लेपका सौरभ धारण करता था।
१. दिग्गजाशीकरासारपुञ्जीभूतम् । २. शरच्छकलैरिव, शरन्मेघशकलैः, । ३. क्वचित् 'सर्वसागराणाम्', इति नावलोक्यते । ४. ज्योत्स्निकायाः । ५. मन्दाकिनीमिव ।
चन्द्रापीडायोपहारप्रेषणव० ६५ ] चन्द्रकला-विद्योतिनीसहिता । ५७६
दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्युतिमुषः¹ धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण² मदलेखामापतन्तीं³ प्रतिजग्राह⁴ । सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्त्तमुपविश्य स्वयमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच—‘कुमार ! तवेयमपहसिताहङ्कारकान्ता⁵ पेशलता प्रीतिपरवशं⁶ जनं कमिव न कारयति ? प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी ? अनेन चाकारणविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि ? एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति ? कं⁷ वा न समाश्वासयन्त्यमी⁸ स्वभाव-
दृष्ट्वेति । अपि च, तं हारं मौक्तिकं दृष्ट्वा निरीक्ष्य चन्द्रापीडः, अयं हार एव, चन्द्रातपस्य चन्द्रालोकस्य द्युतिं दीप्तिं मुष्णाति अपहरतीति तस्य, अस्य ऊहितपूर्वस्य धवलिम्नः श्वेततायाः कारणं हेतुरिति मनसा चेतसा निश्चित्य निर्णीयैति सम्बन्धः । समुचितोपचारक्रमेण उपयुक्त्याचरणानुपूर्व्या । आपतन्तीम् आयान्तीम्, प्रतिजग्राह अभ्यर्थितवान् ।
सेति । सा मदलेखा । मरकतग्रावणि अश्मगर्भात्मकशिलायाम् । तेन नारिकेलसमुद्गकसम्मानीतेन चन्दनाङ्गरागेण मलयजविलेपनेन अनुलिप्य परिधाप्य चन्द्रापीडमित्यन्वयः । मालतीकुसुमदामभिः जातीपुष्पस्रग्भिः, आरचितो विहितः शेखरः शिरोऽलङ्कारो यस्य तम् ।
कुमारेति । अपहसितो दूरीकृतः अहङ्कारः समस्तानामेव रूपवर्गों यया सा चासौ कान्ता समस्तानामेव स्पृहणीया चेति तादृशी । पेशलता चारुता (सौन्दर्यम् ), कमिव जनं न प्रीतिपरवशं स्नेहपरावीनं न कारयति ? अपि तु समस्तमेवं जनं प्रीतिपरवशं कारयतीत्यर्थः, अतएवास्मानपि स्नेहपराधीनाः कारितवतीत्याशयः । अर्थापत्तिरलङ्कारः, अनेन च सामान्येनाप्रस्तुतात् प्रस्तुतस्य विशेषस्यावगमादप्रस्तुतप्रशंसालङ्कारः सङ्कीर्यते । 'चारौ दक्षे च पेशलः' इत्यमरः । ते तव प्रश्रयो विनय एव एवंविधानां स्नेहपराधीनानां लोकानाम् अवकाशम् उपसर्पणावसरं ददाति । आकृत्या आकारविशेषेण जीवितस्वामी प्राणाधीश्र्वः कस्य नासि, अपि तु सर्वस्यैवासीत्यर्थः । इहाप्युक्तभावः उक्तादलङ्कारश्च ज्ञेयः । अकारणम् अनिमित्तम् आविष्कृतं प्रकटीकृतं वात्सल्यं स्नेहो येन तेन, चरितेन चरित्रेण, बन्धुत्वं स्वजनत्वम् । इहाऽप्युक्तभावः उक्तादलङ्कारश्च । प्रकृतिमधुरा स्वभावमनोहरा व्यवहृतिर्व्यवहारः । वयस्यतां मित्रत्वम् उत्पादयति जनयति । इहाऽप्युक्तभाव उक्तादलङ्कारश्च । स्वभावेन प्रकृत्या सुकुमारा मृदुला वृत्तयो व्यवहारा येम्यस्ते अमी भवद्गुणाः त्वदुत्कर्षाः कं वा लोकं न समाश्वासयन्ति .समाश्वासनां विदधते अपि तु सर्वमेवेत्यर्थः । इहाऽप्युक्तभाव उक्तादलङ्कारश्चेत्यवधेयम् ।
चन्द्रापीड उस हारको देख कर मन ही मन निश्चय किया कि—'यह हार ही, इस चन्द्र-किरणके सौन्दर्यको मात करनेवाले इस धवलताका कारण है।' उसके बाद दूरसे उसने अभ्युत्थानादि समुचित आचरण द्वारा आती हुई मदलेखाका स्वागत किया । आकर वह उसी मरकत-मणिके शिलातल पर ही कुछ समय तक बैठी किन्तु अपनेसे ही उठकर, उस चन्दनाङ्गरागसे चन्द्रापीडको लिप्त किया, दोनों सूक्ष्म-वस्त्र पहनाये, मालतीके पुष्पोंकी मालाओंसे मस्तक अलंकृत की और उस हारको लेकर कहने लगी—'राजकुमार ! आपका यह सौन्दर्य सभी सौन्दर्योके अहङ्कारको दूर करता है और सबका अभिलषणीय होनेसे किस व्यक्तिको आनन्दित नहीं करता है ? आपका विनय ही प्रीतिपरवश जनोंको आपके सम्मुख उपस्थित होने का अवसर देता है । इस आकृति द्वारा आप किसके जीवनके अधीश्वर नहीं हैं । निष्कारण वात्सल्यप्रकाशकारी इस चरित्र द्वारा आप किसमें बन्धुता उत्पन्न नहीं करते हैं ? आपका यह स्वभाव-सुन्दर व्यवहार किसके साथ मैत्री उत्पादन नहीं करता हं ? स्वभावसे ही सुकुमारवृत्तिवाले आपके ये गुण किसका समाश्वासन नहीं करते ? इस विषयमें आपको यह प्रकृति ही तिरस्कार करने योग्य है जो कि वह प्रथम दर्शनमें ही ऐसा विश्वास उत्पन्न कर देती है; नहीं तो
१ ॰मुषः । २. समुचितेन ॰॰॰ । ३. आयान्तीम् । ४. जग्राह । ५. अपहस्ति दिङ्कारकान्ता ६. परवशं किमिव । ७. कस्य । ८. समावासयन्त्यमी ।
५८० | कादम्बरी- | [ कथायाम्- ]
सुकुमारवृत्तयो भवद्गुणाः ? त्वन्मूर्त्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विश्रम्भमुप- जनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवा- भाति । तथाहि, सम्भाषणमप्यधःकरणमिवापतति, आदरोऽपि प्रभुताभिमानमिवानुमाप- यति, स्तुतिरप्यात्मोत्सेकमिव सूचयति, उपचारोऽपि चपलतामिव प्रकाशयति, प्रीतिरप्यना- त्मज्ञतामिव ज्ञापयति, विज्ञापनापि प्रागल्भ्यमिव जायते², सेवापि चापलमिव दृश्यते, दान- मपि परिभव इति भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते, जीवितेश्वरायं किं प्रतिपाद्यते
ननु मय्याज्ञाभावेऽपि लोकाः कथमेवं स्नेहपराधीनतादिकं स्वीकुर्वन्तीत्यत आह—त्वदिति । अत्र स्नेहपराधीनतादौ । त्वन्मूर्त्तिः भवदाकृतिरेव उपालम्भं प्रतिषेधवचनम् अर्हति योग्यं भवति, या प्रथम-दर्शने एव प्रथमावलोकने एव विश्रम्भं समस्तविषयेषु विश्वासम् उपजनयति उत्पादयति अत्यन्तशान्त-रूपत्वादित्याशयः । इह निन्दया स्तुतेरवगमाद् व्याजस्तुतिः ।
इतरथेति । इतरथा विश्वासात्पादनाभावे हि, सकलेषु समस्तेषु भुवनेषु विष्टपेषु प्रथितो विख्यातो महिमा माहात्म्यं यस्य तस्मिन् त्वद्विधे लोके प्रयुज्यमानं विधीयमानं सर्वमेव मधुरालापादिकम् अनुचितमिव अयोग्यमिव आभाति प्रकाशते सर्वैरवगम्यत इत्यर्थः, विश्वासात्पादनाभावेऽपि अनुपममहिम्नस्त्वद्विधस्य मधुरालापादिकरणे धाष्ट्र्यौद्र्मादित्याशयः । अनेनात्मनान्तु विश्वासात्पादनेन मधुरालापादौ नास्त्यनौचित्यमिति व्यञ्जितम् ।
निखिलानामेवानौचित्यमुपपादयति—तथाहीत्यादिना । सम्भाषणं मधुरालापोऽपि अधःकरणम् अधिक्षेप इव, आपतति उपस्थितो भवति, मधुरालापस्य यथार्थं विधातुमसमर्थत्वादित्याशयः । आदरोऽपि समानोऽपि प्रभुताया ऐश्वर्यस्य अभिमानम् अहङ्कारमिव अनुमापयति अनुमितिविषयं कारयति, तुल्येनैव तुल्यस्य संमाननाद्यत्वेन स्वामिनस्त्व संमाने संमानयितुरपि स्वामित्वाभिमानोऽन्यैरनुमातव्य एवेत्यभिप्रायः । स्तुतिः प्रशंसावादोऽपि आत्मनः प्रशंसाकर्त्तुः उत्सेकं स्तुतिकरणे शक्तिगर्वं सूचयतीव द्योतयतीव, अतिमहतः पुरुषस्य प्रशंसायाम् असामर्थ्यवतः प्रवृत्त्यसम्भवादिति भावः । उपचारोऽपि अभ्युत्थानादिव्यवहारोऽपि चपलतां चञ्चलतां प्रकाशं व्यञ्जयतीव, तथाविधव्यवहारेऽपि स्वस्यायोग्यत्वादिव्याशयः । प्रीतिः स्नेहोऽपि अनात्मज्ञतां स्वस्य परिणामापरिचिततां ज्ञापयतीव बोधयतीव, सदृशेष्वेव स्नेहोचित्यादिति भावः । विज्ञापनापि विषयविशेषविज्ञप्तिरपि प्रागल्भ्यं वाचालतेव जायते, तत्रापि साहसादित्याशयः । सेवापि शुश्रूषापि चापंल चाञ्चल्यम् दृश्यते अवलोक्यते, तत्राप्यनधिकारादित्याशयः । दानमपि अर्पणमपि परिभव इव त्वद्विधपात्रस्य विभवस्यावमाननेव भवति, प्रायेणैव दानेन पात्रस्य दारिद्र्यद्योतनादित्यभिप्रायः ।
- इह 'प्रागल्भ्यमिव' 'चापलमिव' इत्युभयत्र गुणोत्प्रेक्षालङ्कारः, शेषेषु सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
अन्यप्रियवचनमुत्थापयितुमाह—अपि चेति । स्वयमेवैतेनैव गृहीतम् आत्तं हृदयं चेतो येन तस्य भवते किं दीयते अर्पयितुं शक्यते, अपि तु न किमपीत्यर्थः, दानवृत्त्य हृदयपर्यन्तत्वात्तस्याऽप्यात्मनैवोपादानेनान्यादातव्याभावादित्याशयः । जीवितेश्वराय सदाचरणादिना जीवनस्वामिने भवते, किं प्रतिपाद्यते समर्प्येश्वरीकर्त्तुं³ शक्यते, अपि तु न किमपीत्यर्थः । दीयमानपदार्थानामपि जीवनावधित्व्रादिति प्राग्व-
आपके समान समस्त संसारमें विख्यात महिमावाले पुरुषोंके साथ जो कुछ (चाहे जैसा व्यवहार) किया जाय वे सब ही मानो अनुचित-सा प्रतीत होता है। देखिए—सम्भाषण करना भी मानो तिरस्कारके समान प्रतीत होता है, आदर करना भी मानो आधिपत्यका अभिमान सूचित होता है, प्रशंसा करना भी मानो स्वाभिमान का सूचन होता है, अभ्युत्थानादि-योग्य आचरण भी मानो चञ्चलता प्रकाश करता है, सौहार्द भी मानो अपनी योग्यताको अनभिज्ञता ज्ञापन करता है, किसी विषयका निवेदन करना भी मानो प्रगल्भताके समान हो जाता है, परिचर्या करना भी मानो चपलताके समान देखता है और दान करना भी मानो तिरस्कार करनेके समान होता है । और भी देखिये—आपने स्वयं ही हम लोगोंके हृदयको ग्रहण कर लिया है, अत एव आपको क्या दिया जाय ? आप जीवनके ही अधीश्वर हो गये हैं, अत एव आपको क्या देकर उसका अधीश्वर बनाया जाय ?
१. उपलम्भम् ।
२. ज्ञायते ।
३. आयत्तजीविताथाय ।
चन्द्रापीडायोपहारख०-१५ ] चन्द्रकला-विद्योतिनीसहिता । ५८१
प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया, दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते। प्रणयिताञ्चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम्। अप्रतिपाद्या हि परस्वता सज्जनविभवानाम्। आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते^१, दत्त्वात्मानमपि वञ्चिता न भवति, जीवनमप्यर्पयित्वा न पश्चात्तप्यते। प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती^२ महत्ता सताम्^३। न च तादृशी भवति याचमानानान्, यादृशी ददतां लज्जा, यत्सत्यम्^४ अमुना व्यतिकरेण कृतापराधमिव त्वय्या-
दाशयः। प्रथमम् आदौ कृतं विहितम् आगमनमेव महोपकारो निरतिशयोपकृतिर्येन तस्य ते तव आगमनं केन दर्शनेन सफलं क्रियते विधातुं शक्यते, अपि तु न केनापीत्यर्थः, समस्तफलापेक्षयैव जीवन-फलं श्रेष्ठं तत्त भवतावलोकनेनैवार्पितम् अतएव तत्सदृशमस्माभिः किं फलं देयमिति येन तवागमनं तत्सदृशफलवद्भवेदित्याशयः।
इह सर्ववाक्येष्वेवार्थपत्तिरलङ्कार इति सुधीभिराकलनीयम्।
अथैवं कस्मै प्रयोजनायेदं भवत्या उपायनानयनमित्यन आह—प्रणयितामिति। कादम्बरी गन्धर्व-राजपुत्री अनेन व्यपदेशेन उपायनार्पणव्याजेन प्रणयितां भवन्तं प्रति सौहार्दं दर्शयति प्रकटयति, न विभवं न तु वित्तसम्पदम्। हि यतः, सज्जनविभवानां सत्पुरुषधनसम्पत्तीनां परस्वता अन्यदीयता अप्रतिपाद्या अर्पणादिना न सम्पादनीया, अपि तु परोपकारफलकत्वेन स्वतःसिद्धैवेत्याशयः। अनेन कादम्बर्या धनसम्पदि भवतोऽपि स्वत्वमस्तीति केवलसौहार्दप्रकटनमेव फलं दानस्येति ध्वनितम्। इह शाब्दी परिसंख्यालङ्कारः सामान्येन विशेषसमर्थनरूपोऽलङ्कारश्चेत्युभयोरङ्गाङ्गिभावसङ्करः। तथा ‘अप्रतिपाद्या’ इत्यत्र नञर्थस्य प्राधान्येनैवोपादानं युक्तम्, अन्यथा समासे तस्य गुणीभावत्वेन विधेया-विमर्शस्य वारयितुमशक्यत्वादिति कुशलाः।
आस्तामिति। विभवो हारादिरूपः स्तोकफर्लहेतुः तावद् आस्तां तिष्ठतु दूर इति शेषः। भवादृशस्य त्वद्विधस्य। अङ्गीकुर्वाणा स्वीकुर्वाणा नाकार्यकारिणी नाकृत्यविधायिनी नियुज्यते व्यपदिश्यते कादम्बरीति शेषः। दत्त्वा त्वदधीनं कृत्वा वञ्चिता प्रतारिता न भवति। जीवनं जीवितमपि अर्पयित्वा दत्त्वा न पश्चात्-तप्यते नानुत्पप्यते। इह चन्द्रापीडस्य मुख्यनिरूपणकार्यं प्रति अधिकहेतोरुपस्थापनाद् समुच्चयोऽलङ्कारः।
ननु कादम्बर्या अर्पितमप्युपायनं मया कथं स्वीकरणीयमित्यत आह—प्रणयीति। सतां सज्जनानां महत्ता महिमा मनसः सद्द्व्यवहारप्रसार इत्यर्थः, प्रणयिजनानां स्नेहेलोकानां द्रव्योपायनदानस्य प्रत्याख्याने निराकरणे पराङ्मुखी तद्व्याख्यानं न कदाचित्कुर्वन्तीत्यर्थः, यतो हि दाक्षिण्यपराधीना औदार्याधीना सा महत्ता, अतएवावश्यमेवेदमुपायनं भवता स्वीकरणीयमित्याशयः।
ननुदासीनत्वादिदमुपायनं स्वीकर्तुं मयि लज्जा सञ्चायत इत्यत आह—न चेति। तादृशी यादृशी ददतां वितरणं कुर्वतां लज्जा त्रपा याचमानानाम् अभ्यर्थ्यमानानां पात्राणामित्यर्थः। यत्सत्यमित्येक-मेवेति पदं निश्चयार्थे। अतएव कादम्बरी, अमुना हारसमर्पणव्यतिकरेण आत्मानं त्वयि कृतापराधमिव विहितागासमिव अवगच्छति जानाति यत्स्वस्वरूपोचितदानाभावेऽपि दातृत्वं स्वीकृतमित्याशयः।
आपने पहले ही यहाँ पधार कर जो गुरुतर उपकार किया है, उसके उपयुक्त प्रत्युपकार क्या हो सकता है? दर्शनद्वारा ही आपने हम लोगोंका जीवन सफल किया, अत एव आपके आगमनको हमलोग सफल किस प्रकार कर सकती हैं? तब कादम्बरी इस उपहारप्रदानके बहानेसे आपके साथ केवल स्नेह दिखाती है, किन्तु ऐश्वर्य नहीं, क्योंकि—सज्जनोंकी धनसम्पत्तिमें स्वभावतः दूसरोंका अधिकार होता ही है, अत एव उससे और सत्त्व उत्पन्न नहीं हो सकता (यह कुछ सिद्ध करनेका विषय नहीं है)। तब तक धनसम्पत्ति तो दूर रहे अर्थात्—उसकी बात तो यहाँ है ही नहीं। आपके समान व्यक्तिके दासत्व स्वीकार कर रहनेसे भी वह कुछ अकार्यकारिणी नहीं कही जायगी। अपनी आत्मा आपको वह समर्पित करे तो भी वह वञ्चित हुई नहीं कही जायगी, अथवा जीवनका समर्पण करे तो भी उसको कभी अनुताप नहीं होगा। सज्जनोंकी चित्तवृत्ति, प्रणयिजनका प्रत्याख्यान करनेके पराङ्मुख (अनिच्छुक) और विशेषतः उदारताके अधीन रहती है। दाताओंको जिस प्रकार लज्जा होती है, याचकोंको उस प्रकार नहीं होती (अर्थात् कुछ देते हुए हमको जितनी लज्जा आती है, उतनी तो माँगते हुए भी नहीं आती) इसलिए इस उपहारदानसम्बन्धसे निश्चय ही कादम्बरी मानो आपके समीप अपनेको अपराधिनी
१. गृह्यते। २. परवशा। ३. महतान्। ४. यत्तु सत्यम्।
| ३८२ | कादम्बरी- | [कथामुखम्- |
|---|
त्मानमवगच्छति कादम्बरी। तदयममृतमथनसमुद्भूतानां१ सर्वरत्नानामेकः शेष इति२ **शेष-**नामा हारोऽमुनैव हेतुना बहुमतो भगवता अम्भसाम्पत्या गृहमपगंताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै, तयापि त्वद्वपुस्स्थानुरूपमाभरणस्येति विभावयन्त्या नभस्तलमेवोचितं सुधासूतेर्धाम४ न धरेत्यवधार्यानुप्रेषितः। यद्यपि निजगुणै-गणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम्। किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना६ ! न चैं नारायणोऽत्रभवन्तमति-
इह वाक्यार्थहेतुकं काव्यलिङ्गम्। तथा यत्पदयुक्तवाक्यस्य वाक्यगतविधेयाविमर्शदोषवारणाय पूर्वत्र पाठ एव न्याय्य इति मन्तव्यम्।
तदयमिति। अमृतमथनात् क्षीरसागरमन्थनात् समुद्भूतानां प्रकटितानां सर्वरत्नानाम् एकः शेषः अवशिष्ट इति अस्मात्कारणादेव शेषनामा अयं हारः, अमुनैव हेतुना शेषत्वेन भगवता माहात्म्यवता अम्भसाम्पत्या सागरेण बहुमतः तदतिरिक्ताभावादुत्कर्षाख्यातः। उपागताय प्राप्ताय प्रचेतसे वरुणाय दत्तः अर्पितः, पाशभृताऽपि वरुणेनापि गन्धर्वराजाय चित्ररथाय। 'प्रचेता वरुणः पाशी' इत्यमरः। इह 'प्रचेतसे' इत्युपक्रम्य 'प्रचेतसापि' इत्यग्रे वक्तुमुचितं भग्नप्रक्रमत्वदोषवारणायेत्यवगन्तव्यम्। तयापि कादम्बर्या, अस्य आभरणस्य अलङ्कारस्य त्वद्वपुस्स्वदीयं शरीरम् अनुरूपं रूपस्य योग्यमिति विभाव-यन्त्या चिन्तयन्त्या तथा सुधासूतिश्चन्द्रस्तस्य तादृशस्य, नभस्तलं गगनतलमेव उचितं निर्मलत्वाद्युन्न-तत्वाच्च स्वयोग्यं धाम स्थानम्, न धरा पृथिवी इत्यवधार्य हृदयेन निर्णीय चन्द्रापीड एव अस्य हारस्य समुचित आश्रयो न तु कादम्बरीत्यभिप्रायः। अनुप्रेषितः अनुपेषितः त्वत्समीपं प्रेषित इत्यर्थः। इह 'दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम्' इति लक्षणात्।
यद्यपीति। निजाः स्वकीयाः गुणगणा विद्याविनयादय एव आभरणानि आभूषणानि तैः भूषिता अलङ्कृता अङ्गयष्टयो येषां ते तादृशाः। भवादृशाः, त्वत्सदृशाः, क्लेशहेतुं भारवशात् क्लेशकारणम्, इतरैर्गुणरहितैर्जनैर्लोकैर्बहुमतम् आदरपूर्वकसङ्गीकृतम् आभरणभारम् आभूषणवीवधम् अङ्गेषु करचरणा-दिषु नारोपयन्ति न स्थापयन्ति, तथापि एवं सत्यपि कादम्बरीप्रीतिः कादम्बरीस्नेहः अत्र हारधारणे कारणं नियामकम्। कुः पृथिवी 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः, तां स्तुभ्नाति व्याप्नोतीति कुस्तुभः सागरः तत्र भव इत्यर्थेऽणि सति कौस्तुभः स एव अभिधानं नाम यस्य तत्तथोक्तम्, शिलाशकलं पाषाणखण्डं लक्ष्म्याः श्रियः निजप्रियतमाया इत्यर्थः, सहजम् एकसागरोत्पन्नत्वात् सोदर्यम् इति हेतोः बहुमानम् अधिकारदरम् आविष्कुर्वता प्रकटयता भगवता परमैश्वर्यवता शार्ङ्गम् एतन्नामकः-स्वचापः पाणौ हस्ते यस्य स तेन तादृशेन नारायणेन, 'चापः शार्ङ्गं सुरारेस्तु' इत्यमरः, किम् उरसि वक्षसि न कृतम् नार्पितम् अपि तु कृतमेवेत्यर्थः। अत एव तत्प्रीत्यै भवताऽप्ययं हारो वक्षसि परिधेय एवेत्यभि-प्रायः। इहाप्युक्तारङ्कारः, तेन च भवतोऽपि प्रेयसी कादम्बरीति वस्तु प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः।
ननु नारायणादयो ह्यस्मदादिभ्यो महत्तमा अत एव तेषां चरितमपि लोकातीतमहं तु तादृशो न भवामीति चेत्तत्राह—न चेति। अत्रभवन्तं समादरणीयं त्वाम्, नारायणः शार्ङ्गपाणिः न अतिरिच्यते
मानती है। यह हार क्षीरसागर मन्थन करके निकाले गए सब रत्नोंमें अवशिष्ट 'शेष' नामका है, इस कारणसे ही भगवान् जलधि इसका अत्यन्त आदर करते हैं और वे इसे लेकर गृहस्थित वरुणको दान कर दिये थे। उन्होंने गन्धर्वराजको और गन्धर्वराजने कादम्बरीको दिया। उसने भी 'आपके शरीरके उपयुक्त यह 'अलंकार' समझकर 'चन्द्रका उपयुक्त स्थान आकाश ही है भूतल नहीं' यह स्थिर कर इसे आपके समीप भेजा है। यद्यपि आप जैसे सत्पुरुष अपने गुण-ग्रामरूप अलङ्कारसे ही अपने शरीरको आभूषणोंसे अलङ्कृत गिनकर, अपने ही समान अन्य लोगोंके भी प्रिय आभूषणको क्लेश-हेतु जानकर धारण नहीं करतें तथापि [ तो भी ] आपको इस हारके धारण करनेके विषयमें कादम्बरीकी प्रीति ही कारण है। यथा भगवान् नारायणने कौस्तुभ नामक प्रस्तरके खण्ड (टुकडे) को भी, लक्ष्मीके सहोदर होनेके कारण विशेष आदरसे अपने वक्षःस्थल (छाती) पर धारण नहीं
१. उद्गतानाम्। २. एकशेष इति। ३. लग्ननामा। ४. सुधासूतो धाम्नः। ५. गुण......। ६. शार्ङ्गिणा। ७. नापि।
चन्द्रापीडस्योत्तरवर्णना-९६ ] चन्द्रकला-विद्योतिनीसहिता । ५८३
रिच्यते, नापि कौस्तुभमणिरणुनापि गुणत्वेन शेषमतिशेते न, चापि कादम्बरीमाकारानुकृति- कलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः। नचाभूमिर्रेषा प्रीतिप्रसरस्य । नियतञ्च भवता भग्नप्रणयां महाश्वेतामुपालम्भसहस्रैः खेदयित्वात्मानमु- त्स्रक्ष्यति । अतएव महाश्वेता तरलिकाभपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य सन्दिष्टमेव 'न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः' इत्युक्त्वा च ताराचक्रमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध ।
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत्—'मदलेखे ! किमुच्यते, निपुणासि, जानासि ग्राहयितुम्, उत्तराकाशमपहरन्त्या कृतं वचसि कौशलम् । आये मुग्धे ! के वयमात्मनः ?
गुणैरधिको भवति। अणुनापि अल्पेनापि गुणत्वेन उत्कर्षलेशेन शेषं तत्संज्ञकमिमं हारं न अतिशेते नातिक्रामति अह्वल्पयस्यापि आकारस्य स्वरूपस्य अनुकृतिरनुकरणं तस्याः कलालेशः तयापि कादम्बरीम् अनुगन्तुम् अनुसर्तुं नालं न समर्था, हरिप्रीयात् कादम्बरी रूपेणाधिकश्रेष्ठेति भावः । अतएव तर्ह्रीति- वशाद्धारोऽयं भवता धारणीय एवेति तात्पर्यम् । इह कादम्बरी लक्ष्मीतो मुख्येतिप्रतिपादनाद् व्यतिरेकः ।
अत इति । इयं कादम्बरी, त्वत्तो भवत्सकाशात् इमं हारधारणरूपं बहुमानमत्यादरम् अर्हति लब्धुं योग्या भवति । एषा कादम्बरी, प्रीतिप्रसरस्य भवतः स्नेहातिशयस्य अभूमिः अपात्रं न अपि तु पात्र- मेवेत्यर्थः । भग्नः हारपरावर्तनेन खण्डितः प्रणयः अनुरोधः, स्नेह इत्यर्थः, यस्याः सा कादम्बरी, उपा- लम्भसहस्रैः 'एवंविधेन अदृष्ट्वेन सह त्वया मैत्री विहिता, स एव चेह प्रापितः एवंविधैरपमानसमूहैः, महाश्वेतां खेदयित्वा विषादं प्रापय्य नियतं निश्चितम् आत्मानम् उत्स्रक्ष्यति परित्यक्ष्यति ।
अत इति । हारम् आदाय गृहीत्वा विद्यमानामिति विद्यमानपदाक्षेपान्नैकेककर्तृकत्वव्याघातः । त्वत्सकाशं भवदन्तिकं प्रेषितवती प्रहितवती । महाश्वेताया अपि हारग्रहणे महाननुरोध इत्यवगन्तव्यम्, अन्यथा तरलिकां त्यक्त्वा काचित् सेविकैवागच्छेद्धित्याशयः । तया महाश्वेतयापि, कुमारस्य त्वत्तो निकटे सन्दिष्टमेव वाचिकं कथितमेव । महाभागेन जन्मप्रभृतिकलङ्कपङ्करहितानुपमकीर्त्तिसंयुतेन भवता । प्रथम प्रणयप्रसरभङ्गः आद्यस्नेहप्राप्तिनिरासः मनसा चेतसापि न कार्यो हारनिराकरणेन न विधेयः किं पुनर्वचसे- त्याशयः । चामीकरः सुमेरुः तदाख्यो यः अचलः पर्वतस्तस्य तटे उपरिभागे ताराचक्रं नक्षत्रवृन्दमिव, तस्य चन्द्रापीडस्य वक्षःस्थले उरोदेशे बबन्ध वन्धनं चकार परिहितवतीत्यर्थः, मदलेखेत्यन्वयः । इहोपमा ।
चन्द्रेति । विस्मयमानो मदलेखाया वचनचातुर्येणाश्चर्यमापन्नः । किमुच्यते किं मया वाच्यम् । निपुणासि कुशलासि, ग्राहयितुं स्वीकारयितुं जानासि अवगच्छसि । उत्तराकाशं प्रतिवचनसमयम् अप- हरन्त्या दूरीकुर्वन्त्या वचसि वाग्व्यापारे कौशलं पाण्डित्यं कृतं विहितम् ।
अयीति । अयीति कोमलामन्त्रणे । आत्मनः स्वस्य वय के ? अपि तु न केऽपीत्यर्थः । युष्माकमा- चरणेन वयं युष्मदीया एव सम्पन्ना इत्याशयः । के वेति । युष्माकमभिलाषेणैव स्वीकरणमस्वीकरणं वा
किया ? नारायण कुछ आपसे बढ़कर नहीं हैं, कौस्तुभ-मणि अल्पमात्र गुणसे भी इस हारसे उत्कृष्ट नहीं है और स्वरूपके अनुकरणमें कादम्बरीकी समानता लक्ष्मी अल्पमात्र भी नहीं कर सकती । अत एव यह आपके समीप इस आदर पानेके योग्य है, क्योंकि आपके स्नेह का अपात्र नहीं है । (अतः उसके मानकी रक्षा आपको अवश्य करना चाहिए ।) विशेषतः आप इस अनुरोधकी रक्षा यदि नहीं करेंगे तो हजारों उलाहनोंसे वह महाश्वेताको दुःखित कर निश्चय ही प्राण-त्याग कर देगी । इसलिए ही महाश्वेताने यह हार लेकर तरलिकाको भी आपके समीप भेजा है, और उसने भी, आपके समीप सन्देश दिया है कि—'महाभाग ! कादम्बरीके प्रथम प्रणय-प्रसरके भङ्ग करनेका विचार मनसे भी नहीं करना' इतनी बात कह कर मदलेखाने सुमेरु-शृङ्गके ऊपर तारागणके समान उनके वक्षःस्थल पर हार धारण करा दिया ।
किन्तु चन्द्रापीडने मदलेखाकी वाक्पटुतासे विस्मयापन्न होकर उत्तर दिया—'मदलेखे ! मेरे कहनेके लिए क्या है ? तुम बहुत निपुणा हो, अङ्गीकार कराना जानती हो, बोलनेमें ऐसी विशेष वाक्पटुता दिखलाई है कि मेरे उत्तर देनेके लिए अवकाश ही नहीं रखा । हे मुग्धे ! अपना मैं कौन हूँ ? और फिर लेने और न लेनेका
१. लग्नप्रणया । २. महाश्वेताम् । ३, स्वात्मानम् । ४. महाश्वेतया । ५. अनुप्रेषिता । ६. उच्यते । ७. कार्ययितुम् ।
५८३] कादम्बरी [उत्तरभागः
के वा वयं ग्रहणस्याग्रहणस्य वा ? गतो वशित्वमसौ जनः। सौजन्यशालिनीभिर्गुणैर्निर्मूलमिवो- पकरणकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम्। अतिदक्षिणायाः खलु देव्याः कादम्बर्याः निर्दाक्षिण्यमपि गुणं न कश्चिन्न दासीकुर्यात्' इत्युक्त्वा च कादम्बरी- सम्बन्धानेव कथाभिः सुचिरं स्थित्वा विसर्जयाम्बभूव मदलेखाम्।
अनतिदूरे गतायां च तस्यां क्रीडापर्वतकारूढं तदुपशिरोवर्तिनं चन्द्रसमं चन्दनदु- कूलहारवन्तं चन्द्रापीडं द्रष्टुं समुत्सारितवेत्रच्छत्रचामरचिह्ना निर्वारिताशेषपरिजनानुगमना तमालिकाद्वितीया चित्ररथसुता पुनरपि तत्रैव सौधशिखरमारुरोह। तत्रस्था च पुनस्तस्यैव विविधविलासपरिक्लिन्नविकारिविलोकितेर् जहारस्य मनः। तथाहि- 'सुहृन्निमज्जनबिन्द-
मन समाधेयेत्यभिप्रायः। यद्यप्यत्र "अस्मदो द्वयोश्च" इत्यनेन बहुवचनम्। इयं कया, तस्याः के स्वतन्त्रतामहेतावः, तथा सति, युक्तान्तापादनं सर्वमेवायुक्तं कृतमिति भावः।
केनेति। सौजन्यशालिनीभिः सुजनतायुक्तिकर्त्रीभिः। उपकरणकृतः परिचारकीकृतः अयं महद्गतो जनः स्वद्रुवाह—यथेत्यादि। इष्टेष्वनिष्टेषु हिताहितेषु। विनियुज्यतां प्रेष्यताम्।
अतीति। अतिदक्षिणाया अतिउदारायाः देव्याः कादम्बर्या गुणाः सुशीलतासम्बन्धिदोषाः, निर्दा- क्षिण्यमपि अनुदारमपि कश्चिजनं न दासीकुर्यान्न इति, न, अपि तु सर्वमेवेत्यर्थः। अतएव ममोपायानां करणे किमपि न विप्लवायहेत्वित्याशयः। विसर्जयाम्बभूव गृहे गन्तुमनुज्ञामयाम्बभूव चन्द्रापीड इति शेषः।
अनतीति। गतायां प्राप्तायां तस्यां मदलेखायाम्। तदुपशिरोवदम् तदुपार्वडजातै चन्दनसमं शशिनमिव चन्दनेन मदलेखाद्वारा विहितमण्डनावलेपनेन दुकूलमयं धवलविद्योत्यानां दुकूलवस्त्राणां हारेण च शोभामकन घटयन्तमुज्वलयन्तं, पदान्तरे-चन्दनदुकूलहारवन्तम्। समुत्सारितानि दूरीकृतानि वेत्रच्छत्रचामराख्येषु देवतानुरूपवाक्यलक्षणानि विहितानि रूपाणि यथा सा, ताहशी, वेत्रयष्टिधारिणी द्वारपालिकां छत्रधारिणीं चामरधारिणीं च सेविकामानयताम् निर्वार्यन्तेयर्थः, निर्वारितं निवारितम् अशेषाणां समग्राणां परिवारानां परिचारिकाणाम् अनुगमनम् अनुब्रजनं यथा सा, तथा, तमालिकाद्वितीया कपरा यस्याः सा चित्ररथसुता गन्धर्वराजपुत्री कादम्बरी। पुनरपि द्वितीयवारमपि। आरोह आस्ता। इह श्लोकोपना।
तत्रस्थेति। तत्रैव प्रासादेव विविधा नानाप्रकारा ये विलासा शृङ्गारेक्षणलक्षाणैः तैराकुडितानि सपलीकृतानि तैः, विकारिभि विकारोत्पादकानि च यानि विलोकितानि दृष्टिपातादिति तैः, तस्य चन्द्रापीडस्य मनो हृदयं जहार हृतवती।
नानाविधिविलासानेव प्रतिपादयति—तथाहितीत्यादि। निमज्जनबिन्दो संक्रान्तः पश्चात् प्रतिविम्वन्ते तत्रस्थं
ही मैं कौन हूँ! मेरी स्वाधीनता की बात ही क्या उत्पादित हो गई! सौजन्य-युक्त सब सौन्दर्य-युक्त गुणावलियोंने मुझे अपना एक बार दास बना लिया है, अब यह अपना व्यक्ति जिस किसी कार्य में इस व्यक्तिको इच्छानुसार (जिस प्रकार चाहे वैसा ही) नियुक्त करें। अत्यन्त उदार प्रकृति कादम्बरी देवीके वशीकरण-कौतुकप्रधान चित्त सौन्दर्य-विहीन व्यक्तिको भी वशीभूत नहीं करते हैं—यह कहा नहीं जा सकता! यह कह कर कादम्बरी-सम्बन्धी वार्तालाप करने में बहुत समय तक रह कर, राजकुमारने मदलेखाको विदा कर दिया।
मदलेखाके कुछ दूर चले जानेके बाद क्रीडापर्वत पर—अट्टालक पर आए हुए चन्द्रके समान—चन्दन, दुकूल वस्त्र तथा हार धारण करनेसे शोभायमान दीखते हुए चन्द्रापीडको देखनेके लिए, प्रतीहारी, छत्रधारिणी और चामरधारिणी परिचारिकाओंको छोड़ कर, कल्याण सम्बन्ध परिजनोंको भी साथ आनेसे निषेध कर, केवल तमालिकाके साथ कादम्बरी फिरसे उसी अट्टालिका (महल) के शिखरपर चढ़ीं। वहीं रहकर फिरसे पहलेकी भाँति ही वह नानाविध रुचियुक्त चेष्टा और विकारजनक दृष्टिका से उनके मनका हरण करने लगी। जिनमें ही
१. ग्रहणस्याग्रहणस्य । २. गता । ३. इष्टेष्वनिष्टेषु वा । ४. निर्दाक्षिण्याद्यपि। ५. कश्चिदिति नेदम्। ६. क्रीडा- पर्वतकारूढम्। ७. तदुपगगनम् । ८. समाहारित... । ९. क्वचित् 'समुत्सार्य' इति दर्शनं दृश्यते। १०. परिक्लिन्न- तरविहितैर्विलोकितेः, विकारिभिर्विलोकितेः। ११. 'कुहूहृत' इति क्वचित्।
कादम्बरी निजविकारप्रशम० ६७ ] चन्द्रकला-विद्योतिनीसहिता । [ ५८५
न्यस्तवामहस्तपल्लवा प्रावृतांशुकानुसारिप्रसारित-दक्षिणकरा निश्चलतारका लिखितेव, मुहुर्जृम्भिकारम्भदत्तोत्तानकरतलतया तद्गोत्रस्खलनभिया निरुद्धवदनेव, मुहुरंशुकपल्लव-ताडित-निःश्वासामोद-लुब्ध-मधुकर-मुखरतया प्रस्तुताह्वानेव, मुहरनिलगलितांशुक-सम्भ्रम-द्विगुणीकृत-भुजयुगल-प्रावृत-पयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्ट-कुसुम-पूरिताञ्जलि-समाघ्राण-लीलया कृतनमस्कारेव, मुहुरुभय-तर्जनी-भ्रमित-मुक्ताप्रालम्बतया निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलन-विधुत-करतलतया कथितकुसुमायुधशरप्रहारवेदनेव.
स्थापितं वामहस्तपल्लवं सव्यपाणिकिसलयं यया सा, प्रावृतस्य परिहितस्य अंशुकस्य सूक्ष्मवस्त्रस्य अनुसारेण पवनेनापहृतस्य तत्सज्जीकरणव्याजेनेत्यर्थः प्रसारितो विस्तारितो दक्षिणकरः अपसव्यहस्तो यया सा, तथा निश्चले निष्पन्दे तारके कनीनिकायुगलं यस्याः सा, लिखिता चित्रितेव सती कादम्बरी, 'विलोकयन्तो तावदवतस्थे' इत्यग्रिमेण सम्बन्धः। अग्रेऽपीत्थमेव सम्बन्धो ज्ञेयः। इह क्रियोत्प्रेक्षा।
मुहुरिति। जृम्भिका मुखाद्विविकाशः तस्य आरम्भे प्राङ्काले दत्तं व्यात्तवदनोपरि न्यस्तम् उत्तानं करतलं पाणितलं यया तस्या भावस्तया कारणेन, तस्य चन्द्रापीडस्य यद् गोत्रस्खलनं भ्रमेण नामोच्चारणं तद्भियेव तद्भीत्येव निरुद्धवदना पिहितमुखी। मदनजागरेण या जृम्भा जाता तत्र व्यात्तमुखस्य पिधानार्थं यः कर आच्छादनीकृतः स मन्ये प्रीतिवशाच्चन्द्रापीडस्य नामनिर्गमनभीत्या विहित इत्यभिप्रायः। हेतूत्प्रेक्षा।
मुहुरिति। अंशुकपल्लवेन वस्त्रप्रान्तेन ताडिताः प्रहताः निःश्वासस्य आमोदेन परिमलेन लुब्धा लिप्सवो ये मधुक्रा भ्रमराः तैर्मुखरतया शब्दायमानतया, प्रस्तुतम् उपक्रान्तम् आह्वानम् आकारणं यया सेव। आह्वानप्रस्तावेोत्प्रेक्षणात् क्रियोत्प्रेक्षा।
मुहुरिति। अनिलेन पवनेन गलिते कुचमण्डलात् स्रस्ते अंशुके उत्तरीयवस्त्रे सम्भ्रमेण शीघ्रेण द्विगुणीकृतम् ऊर्ध्वाधोरूपेणोरसि स्थापितं यद् भुजयुगलं बाहुद्वयं तेन प्रावृतौ आच्छादितौ पयोधरौ कुचौ यया तस्या भावस्तस्या कारणेन बाहुद्वयवेष्टितकुचयेत्यर्थः। दत्ता अर्पिता आलिङ्गनाय आश्लेषाय संज्ञा सङ्केतो यया सेव, बाहुद्वयेनाश्लेषप्रकारविधानादित्याशयः। उक्तालंकारः।
मुहुरिति। केशपाशात् कचकलापात् आकृष्टैः आनीतैः कुसुमैः प्रसूनैः पूरितस्य अञ्जलेः समाघ्राणस्य लीलया विभ्रमेण कृतनमस्कारेव विहितप्रणामेव, अञ्जल्युपरि आघ्राणाय नमिते शिरसि नमस्कारचेष्टा सञ्जातेति भावः। उक्तालंकारः।
मुहुरिति। उभयतर्जनीभ्याम् अङ्गुष्ठसमीपाङ्गुलिद्वयाभ्यां भ्रमितं घूर्णितं मुक्ताप्रालम्बं मौक्तिकहारो यया तस्या भावस्तया कारणेन, निवेदितो ज्ञापितो हृदयस्य उत्कलिकाया सङ्गमोत्कण्ठाया उद्गम उत्पत्तिर्यया सेव, हारभ्रान्त्या औत्सुक्येन हृदयभ्रमणस्य द्योतनादित्याशयः। उक्तालंकारः।
मुहुरिति। उपहारकुसुमेषु उपायनप्रसूनेषु स्खलनेन विधुतं कम्पितं करतलं पाणितलं यया
वार अपना बायाँ कोमल हाथ नितम्बमण्डल पर रखकर पहने हुए वस्त्रके वायुद्वारा उड़ाकर ले जाने तक दायाँ हाथ नीचे लटका कर, निश्चल कनीनिकाद्वय (दो पुतली) रखकर चित्रितके समान (काढ़ी गई) हो, कितनी ही बार जँभाई-आरम्भ करनेके समयमें मुखके ऊपर उत्तानभागसे (चित्त) करतल रखनेसे भ्रमवश चन्द्रापीडका नामोच्चारण हो जानेके भयसे ही मानो अपना मुँह बन्द करती हो; निश्वास (साँस) के सौरभलोभसे घूमते भ्रमरोंको, कितनी ही बार, वस्त्राञ्चल (वस्त्रके किनारे) से झपट मार कर उनकी गुञ्जारसे मानो चन्द्रापीडको आह्वान करती (बुलाती) हो; कितनी ही बार वायुके वेगसे वक्षःस्थलीय उत्तरीय वस्त्रके उड़ जानेकी त्वरा (घबराहट) से अपनी दोनों भुजाओंको मोड़ और उनसे स्तनोंको आच्छादित (ढक) कर मानो आलिङ्गनका सङ्केत (इशारा) करती हो; कितनी ही बार केशकलापमेंसे पुष्पोंको लेकर अपनी अञ्जलीपूर्ण (भर) कर लीलासहित सूँघनेके बहाने मानो नमस्कार करती हो; कितनी ही बार दोनों हाथोंकी तर्जनी अङ्गुलियोंसे मुक्ताहार भ्रमण कराने रहनेसे हृदयमें उत्पन्न होती उत्कण्ठाको मानो सूचित करती हो; कितनी ही बार विक्षिप्त कुसुमोके ऊपर ठोकर लगजानेसे हाथ काँपते रहनेके कारण मानो मदन-बाणके प्रहारकी वेदना प्रकाशित करती
१. अंशप्रावृत०००। २. गोत्रस्खलनभयविरुद्धवदनेव। २निःश्वातामोदः। ४*सम्भ्रमद्विगु-णितभुजलतावृतपयोधरतया, संवरणसम्भ्रम०००। ५ प्रलम्बतया। ६. करतया।
३७ का०