कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६३६
णानि बलि-सिक्थ'-लुब्ध-मुग्ध-कृकवाकु-ग्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीड- द्भिः केशरि-किशोरकैरशून्योद्देशाम् ; प्रभूत-रुधिर-दर्शनोद्भूत-मूर्च्छापतितेनेव प्रतिबिम्बिते- नास्तताम्रेण सवित्रा ताम्रतरीकृतैः क्षतज-जल-प्रवाहैः पिच्छिलीकृताजिराम् ; अवलम्ब- मान-दीप-धूप-रक्तांशुकेन ग्रथित-शिखिगल-वलयावलिना पिष्ट-पिण्ड-पाण्डुरित'-घन-घण्टा- मालभारिणाँ त्रापुष-सिंह-मुख-मध्यस्थित-स्थूल-लोह-कण्टकं दत्त-दन्त-दण्डार्गलं लसत्पीतै- नील-लोहित-दर्पण'-स्फुरित-बुद्बुदमालं कपाटपट्टद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्;
मुक्ताफलेषु पूजोपायनीभूतान्नभ्रान्त्या मूढा ये कृकवाकवः ताम्रचूडाः तैरादौ ग्रस्तानि पूजोपायनीभूतान्न- भ्रमादेव कवलितानि पश्चाच्च मुक्तानि काठिन्यावगमादुज्झितानि, रुधिरारुणानि शोणिताक्ततया रक्तवर्णानि, विहलितेभ्यो विदारितेभ्यः करिकुम्भेभ्यो गजमस्तकेभ्यो विगलितानि प्रस्रुतानि यानि मुक्ताफलानि मौक्तिकानि तानि, विकिरद्भिः रुधिराक्ततया तृष्णया गृहीत्वा मांसाभावान्न भूयो विक्षिपनिरितस्तारुतः, अम्बिकायाः चण्डिकायाः परिग्रहेण वाहनमज्ज्ञानीयतया स्वीकारेण दुर्ललितैः प्राणवियोगाभावाद् दुर्दान्ती- भूतैः क्रीडद्भिः खेलां कुर्वद्भिः, केशरिकिशोरकैः मृगेन्द्रबालकः अशून्यैः वर्जित उद्देशः स्थानं यस्यास्ताम् । इह 'केशरिकिशोरकैः' इत्यत्रच्छेकानुप्रासः, तेन हि कुक्कुटानां मौक्तिकेपु पूजोपायनीभूतान्नभ्रमाद् भ्रान्ति- मानलङ्कारः संसृज्यते ।
प्रभूतेति । प्रभूतं प्रचुरं यद् रुधिरं शोणितं तस्य दर्शनेन अवलोकनेन उद्भूता उत्पन्ना या मूर्च्छा मोहः नया पतितेनेव, अस्तेनेव, प्रतिबिम्बितेन क्षतजसलिलधारास्वेव सङ्क्रान्ताकृतिना, अस्ते अस्ताचल- गमनसमये ताम्रो रक्तवर्णः तेन, सवित्रा सूर्येण, ताम्रतरीकृतैः विशेषेण रक्तवर्णीकृतैः क्षतजप्रवाहाः प्रागेव ताम्रवर्णाः, ततस्तु अस्तकालिकसूर्यप्रभया नितान्तमरुणीकृता इत्यभिप्रायः । क्षतजानि शोणितान्येव जलानि सलिलानि क्षतजानि जलानीति वा तेषां प्रवाहैः धाराभिः, पिच्छिलीकृतम् आर्द्रीकृतम् अजिरम् अङ्गणं यस्यास्ताम् ।
इह क्रियोत्प्रेक्षालङ्कारः, तथा 'क्षतजजले' त्यत्र किं रूपकं किं वोपमेति सन्देहसङ्कर, उभयोश्च मिथोन्नैरपेक्ष्येण संसृष्टिः ।
अवेति । अवलम्बमानानि अवनिष्टमानानि दीपधूपै रञ्जितानि अंशुगनि वस्त्राणि यत्र तेन, ग्रथिता गुम्फिना शिखिगलवलयानां वर्हिण्कण्ठमण्डलानाम् आवलिः पंक्तिः यस्मिन् तेन, पिष्टपिण्डेन तण्डुलचूर्ण- पिण्डेन पाण्डुरिमाः श्वेतवणीकृताः घनाः सान्द्राः या घण्टाः तासां मालां पङ्क्ति बिभर्त्ति धारयतीति तच्छी- लेन 'वृत्रेणीवाभालानाम्' इत्यादिना हस्वः । अपुषः सीसकस्यायमिति त्रापुषः सीसकरचितो यः सिंहः केसरी तस्य मुखमध्ये वदनान्तराले स्थितं विद्यमानं स्थूलं लोहकण्टकं यत्र, तत्, दत्तं दन्तदण्डो गजद- शनदण्ड एव अर्गलं विष्कम्भ. कपाटोरोधनकाष्ठमित्यर्थः यत्र तत् तथा लसत्सु अभिमुखे शोभमानेषु- पीत-नील-लोहितदर्पणेषु दर्पणेपु मुकुरेषु स्फुरिता सङ्क्रान्ता बुद्बुदमाला बुद्बुदसदृशगोलाकारलौहशङ्कु पङ्क्तिः यत्र तत्तथोक्तं कपाटपट्टद्वयं अररफलकयुगलं दधानेन धारयता, गर्भगृहस्य अन्तर्भवनस्य द्वारदेशेन
रक्ताई मुक्तासमूह गिरे हुए थे, उन्हें बलिको अन्न-समूह समझकर लोभी वन्य-कुक्कुट, पहले खाकर पीछे कठिन होने के कारण परित्याग कर दिए थे, इधर अम्बिकाके परिग्रह करनेसे हिंसाके अभावसे दुर्दान्त सिंहके बच्चे उन मुक्तामोंको बिखेर कर क्रीडा करते हुए विचरण करते थे । जल के समान रक्तका प्रवाह वर्श के प्रांगणको पिछिल कर दिया था, अस्तकालीन ताम्रवर्ण सूर्य उस रक्तके प्रवाहमें प्रतिबिम्बित होकर उसे और भी अधिक ताम्रवर्ण कर दिया था, उससे प्रतीत होता था कि, —प्रचुर रक्त देखनेसे मूर्च्छा उपस्थित हो जानेके कारण ही मानो सूर्य उसमें गिर पड़ा हो । अभ्यन्तरस्थ द्वारदेशके बीच, लटकते हुए दीपकोंके धूमसे रक्तवर्ण (रंगीन) हो गए थे; उसमें मयूरके कण्ठकी माला गूंथी हुई थी, तण्डुल-चूर्ण (ओटे) से शुक्लवर्णकी हुई निरन्तर घण्टियोंकी माला लटक रही थी; उस द्वारदेशके दोनों किवाड़ोंमें शीशेके सिंहके मुखके अभ्यन्तरमें मोटी एक लोहे की काँटी (बडगर्मा) दगी थी; हाथो दाँतको अर्गला (डीड़) दी हुई थी, और उस कपाटमें बुद्बुदके समान वर्तुलाकार लौहशङ्गधकी (लोहेकी कौंटियों) का सम्मुखवर्ती पीतवर्ण, नीलवर्ण और रक्तवर्णवाले दर्पणों में प्रतिबिम्ब पड़ता था। मन्दिरके
१. दनक रिकुम्भविद्रलितमुक्ताफलानि, विगलितवनरिकुम्भविगलितरक्तमुक्ताफलानि नकबधिरान- बलि । २. अनरहितैः। ३. क्षतजलप्रवाहैः । ४ "दीपधूम । ५. वलयावलम्बिना । पिष्टपाण्डुरित... । ७... मालाभारिणा । ८ " कण्टकदत्त "। ९. गलद्दीप्तलसत् "। १०. दर्पण । ११. कपाटपट्टद्वयं ।
६४० | कादम्बरी- | [ कथायाम्-
अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलक्तकरसरक्तपट्टैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबिम्बानाञ्च शिरश्छेदलग्नकेशजालाकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलभ्यमानाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च विल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणितताम्रकदम्बस्तबककृताचर्चनैश्च पशूपहारपटहपटुरटित
दीप्यमानां विराजमानाम्, कपाटद्वये ये लोहकीलका जटितास्ते 'जगन्मोहन' ( स्वभवनस्याग्रदेश ) स्थदर्पणेषु प्रतिबिम्बिता इत्यभिप्रायः।
अन्तरिति। च, अन्तर्मध्ये या पिण्डिका परिष्कृता भूमिः तत्र यत् पीठं मूर्त्तिस्थापनाय सिंहासनं तत्र पतन्तीति तैः, शरणमुपागतैः रक्षकं प्राप्तैः सर्वपशूनां जीवितैरिव, तेषामपि रुधिरसम्पर्केण लोहितत्वसम्भवादित्याशयः, अलक्तरसेन यावकद्रवेण रक्ता लोहिता ये पट्टास्तैः, अविरहितम् अवर्जितं चरणयोः पादयोः मूलं निकटं यस्यास्ताम् इह जात्युत्प्रेक्षा।
पतितेति। अपि च, पतितानि कृष्णचामराणां श्यामवालव्यजनानां प्रतिबिम्बानि प्रतिच्छायानि येषु तेषाम्, अत एव शिरश्छेदे मस्तककर्त्तने सति लग्नं सक्तं केशजालं कचसमूहो येषु तेषामिवावलोक्यमानाम्, श्यामवालव्यजनप्रतिबिम्बानामेव कचसमूहवदवलोक्यमानत्वादित्याशयः, परशुः कुठारः, पट्टिशः 'पट्टिशो लोहदण्डो यस्तीक्ष्णधारः क्षुरोपमः' इति वैजयन्त्युक्तः तत्प्रभृतीनां जीवविशसनशस्त्राणां प्राणिहिंसायुधानां प्रभाभिर्दीप्तिभिः बद्ध उत्पादितः, बहलोऽधिकः अन्धकारस्तिमिरो यत्र गृहे तस्य भावस्तया कारणेन, पातालगृहवासिनीमिव अधोभुवननिवासिनीमिव उपलभ्यमानां दृश्यमानाम्।
इह कचसमूहलग्नक्रियोत्प्रेक्षाद्वाद्या, अधोभुवनभवनवासोत्प्रेक्षणादपरा च क्रियोत्प्रेक्षैव, उभयोश्च मिथो नैरपेक्ष्येण संसृष्टिः।
रक्तेति। अपि च, रक्तचन्दनेन पत्राङ्गेन खचिता रञ्जिता अतएव स्फुरन्तः शोभमाना ये विल्वस्यैव फलपल्लवाः तैः कलिताः सम्मेलितास्तैः, अतएव बालकमुण्डानां शिशुशिरसां प्रालम्बैः ऋजुलम्बिनीभिः स्रग्भिरिव विद्यमानैः, विल्वपत्राणां श्रीफलदलानां दामभिः स्रग्भिः ( मालाभिः ) कृतमण्डनां विहिता लङ्काराम्। विल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनखचितानि श्रीफलान्यपि प्रोतानि, अतएवमवबुध्यते यद् बालकमस्तकानां माला परिहिता भवेदित्यभिप्रायः। इह जात्युत्प्रेक्षा। शिशुमस्तकगतलोहितसादृश्यनिरूपणाय 'रक्तचन्दनखचिते' ति विशेषणम्। बालकपदन्तु तच्छिरसामापेक्षिकलघुतया श्रीफलसादृश्यावगमाचेति बोध्यम्।
शोणितेति। अपि च, शोणितेन रुधिरसंस्स्रवेण ताम्रा रक्ता ये कदम्बस्तबका नीपगुच्छकास्तैः कृतं विहितम् अर्च्चनं पूजनं येषां तैः संसक्तनीपपुष्पपरागैरित्यर्थः, अतएव पशूपहारे पशूपायानदानकाले पटहस्य दुन्दुभेः यत् पटुरटितम् उच्चशब्दः तस्य रसेन श्रवणोत्साहेन उद्गसन्ति उद्गव्रजन्तीति ते तादृशा रोमाञ्चाः पुलका येषु तैरिव, अङ्गैर्हस्तपादादिभिरवयवैः, क्रूरतां रौद्रताम् उद्वहन्तीं धारयन्तीम्।
अन्दरमें देवीके चरणके समीपमें एक वेदी थी वह आल्ताके रससे रञ्जित एक वस्त्रसे आच्छादित थी, उससे प्रतीत होता था कि वहाँ समस्त पशुओं का जीवन आकर मानो शरणागत होकर रहता है। वहाँ परशु और पट्टिश (भाला) आदि कितने ही जीवहत्या करनेके शल थे, उनमें कृष्णवर्ण चामरोंका प्रतिबिम्ब (परछाईं) पड़नेसे ऐसा प्रतीत होता था कि—शिरश्छेद हो जानेसे उनके केश-कलाप ही मानो चिपक रहे हों। इस प्रकारके शस्त्रोंकी प्रभासे प्रचुर अन्धकार हो जानेके कारण देवी पाताल-वासिनीके समान देखनेमें प्रतीत होती थी। देवी कण्ठदेशमें कितनी विल्व-पत्रकी मालाएं पहन कर भूषित हुई थी, उनके बीच-बीचमें रक्त-चन्दन-रञ्जित (लाल-चन्दन-लिप्त) बहुतर विल्व-फल और विल्व-पत्र संयोजित (चिपके) हुए चमक रहे थे अत एव वे मालाएं बालकोंके मुण्ड की लम्बी-लम्बी मालाओं के समान प्रतीत होती थीं। रुधिरसे रक्त हुए कदम्ब-पुष्पके गुच्छोंसे अर्चन किए गए और पशुओंका बलिदान करते समय बजाई गई दुन्दुभीके उत्पन्न हुए उच्च शब्द श्रवण
१. '...अलक्तकपट्टैः, अलक्तकपटेः, अलक्तरक्तरक्तपट्टैः। २. कलापानाम्। ३. असिपरशु'। ४. बहलदद्द। ५. पातालनिवासिनीम्, पातालगृहवासिनीम्***। ६. स्फुरत्फलक। ७. विल्वदामभिः ८. कृतमण्डलाम् ९. शोणिताताम्र***।
चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६४१
रसोल्लासितं रोमाञ्चैरिवाङ्गैः क्रूरतामुद्वहन्तीम् , चारु-चामीकर-पट्ट-प्रावृतेन च ललाटेन शबरसुन्दरी-रचित-सिन्दूर-तिलक-विन्दुना दाडिम-कुसुम-कर्णपूर-प्रभा-सेक-लोहितायमान-कपोलभित्तिना रुधिर-ताम्बूला रुणिताधरपुटेन भ्रुकुटि-कुटिल-बभ्रु-नयनेन मुखेन कुसुम्भ-पाटलीत-दुकूल-कलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं बिभ्रतीम् , सम्पिण्डित-नीलगुग्गुलुं धूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गर्भगृहद्दीपिकालताभिरङ्गुलीभिरिव महिपासुर-शोणित-लवालोहिनीभिः स्कन्धपीठ-कण्डूयन-चलित-त्रिशूलदण्ड-कृतापराधं वनमहिपमिव तर्जयन्तीम् , प्रलम्ब-कूर्चधरैश्छागैरपि धृतव्रतैरिव, स्फुरदधरपुटैराखुभिरपि जपपरैरिव,
इह पुलकाविर्भावोत्प्रेक्षणात् क्रियोत्प्रेक्षा वृत्त्यनुप्रासश्चेत्युभयोरेकाश्रयानुप्रवेशरूपश्छरः।
चार्विति । अपि च, चारुः सुन्दरौ यः चामीकरपट्टः सुवर्णफलकं तेन प्रावृतेन आच्छादिनेन तेन, तथा शवरसुन्दरीभिः भिल्लवनिताभिः रचितो विहितः सिन्दूरतिलकविन्दुः यत्र तेन तथोक्तेन ललाटेन भालेन। दाडिमकुसुमे एव करकपुष्पे एव कर्णपूरौ श्रवणालङ्कारौ तयोः प्रभायाः कान्तेः सेकेन सम्पर्केण लोहितायमाने रक्तायमाने कपोलभित्ती गण्डद्वयं यस्य तेन, रुधिरताम्बूलाभ्यां शोणितनागवल्लीभ्याम अरुणितं लोहितवर्णीकृतम् अधरपुटं यस्य तेन, तथा भ्रुकुट्या भ्रूभङ्गेन कुटिले वक्रे बभ्रूणी पिङ्गले च नयने लोचने यस्य तेन तथोक्तेन, तथा कुसुम्भेन कमलोत्तराख्यरञ्जनद्रव्यविशेषेण पाटलिंतं श्वेतलोहितीकृतं यह्दुकूलं वसनं तेन कलितया आच्छादितया देहलतया शरीरवल्लत्या च करणेन, महाकालम्य रुद्रस्य-अभिसारिकावेशविभ्रमम् अभिसारिकानेपथ्यविलासं बिभ्रतीं धारयन्तीमिव विद्यमानाम् । इह प्रतीय-माना क्रियोत्प्रेक्षा।
सम्पिण्डितेति । अपि च, सम्पिण्डित एकत्रीभूतो यो नीलगुग्गुलुधूपयोः पलङ्कषधूपयोर्धूमस्तेन अरुणीकृताभिः रक्तीकृताभिः प्रचलन्तीभिः पवनभरात् कम्पमानाभिः गर्भगृहस्य अन्तर्भवनस्य दीपिका-लताभिः पवनवशात् वल्लीवल्लम्बमानीभूतैः प्रदीपैः, महिपासुरस्य तन्नामकप्रसिद्धदैत्यस्य शोणितलवैः रुधिरकणैः आलोहिन्य आरक्ताः ताभिः अङ्गुलीभिः करशाखाभिरिव विद्यमानाभिः, स्कन्धपीठस्य स्कन्ध-भागस्य कण्डूयनेन खर्जनेन चलितः कम्पितो यः त्रिशूलदण्डः तेन कृतो विहितः अपराध आगः येन तं वनमहिपम् अरण्यरक्ताचं तर्जयन्तीं न्यक्कुर्वन्तीमिव विद्यमानाम् । चूर्णहरिद्रयोः संयोगे यथाऽरुणवर्ण-स्तथा नीलस्यापि गुग्गुलुधूपयोर्धूमस्य दीपिकामिः संयोगे अरुणवर्णः समुत्पद्यते, संयोगवैचित्र्यादित्यव-धेयम् । अत एवेह हेतुविरुद्धकार्यजननाद्विषमाळङ्कारः, तथाद्या जात्युत्प्रेक्षा अपरा च क्रियोत्प्रेक्षा चेत्ये-तेषामङ्गाङ्गिभावसङ्करः। ननु भगवत्याश्चण्डिकाया मन्दिरे वनमहिषप्रवेशः कथमिति चेत् ? तन्मन्दिर-स्यारण्यान्तःपानितया वनमहिषप्रवेशस्यापि सम्भवादिति बोध्यम् ।
प्रत्यवेतिं । अन्येषु का कथा, प्रलम्बकूर्चधरैः लम्बमानचिबुकस्थःस्थलवर्त्तिरोमभारिभिः छागैरपि वस्त्रैरपि धृतव्रतैः गृहीततपोनिद्यमैः सद्भिः आराध्यमानामिष उपास्यमानामिव, प्रलम्बकूर्चधरत्त्वादि-
करनेके उत्साहसे मानो रोमाञ्चित हों ऐसे अवयवोंसे वह भयङ्करता दिखती थीं। सुन्दर स्वर्णफलकसे आवृत तथा शबर-रमणियों (भीलिनियों) द्वारा लगाए गए सिन्दूरके तिलक-विन्दुसे समन्वित ललाटसे, कर्णयुगलमें धारण किए हुए दाडिमपुष्प (अनारके फूल) की प्रभाके सम्पर्कसे रक्तवर्ण हुए कपोल-भित्ति (चौड़े गाल) से, रुधिर-संस्रवसे और ताम्बूलके रससे अरुणवर्ण हुए ओष्ठ-युगल (होठ) से, स्वभावतः पिङ्गल नयनवाले तथा टेढ़ी भौंवाले मुखसे, और कुसुम्भ नामक रञ्जनद्रव्यविशेषमें श्वेतरक्तवर्ण (गुलाबी रंगे) हुए वस्त्रसे समन्वित देह-लतासे, उसने मानो महाकालके प्रति अभिसारिकाके वेशका विलास धारण किया था। वायुके भारसे कम्पित हुई लताके समान लम्बमान श्यामवर्ण गुग्गुल और धूपके धूमपुञ्जसे अरुणवर्ण हुए अभ्यन्तरके मण्डपके चञ्चल प्रदीप, महिषासुरके रुधिर-बिन्दुओंसे रक्तवर्ण हुई अङ्गुलियोंके समान दीखनेमें आते थे, इधर एक जङ्गली महिषने अपने चौड़े कन्धेको खुजला कर मन्दिरके त्रिशूल-दण्डको कम्पित कर दिया, इस अपराधके कारण ही उसको मानो देवी उन प्रदीर्पोंसे तर्जना करती (धमकाती) थी। दीर्घ-श्मश्रु-धारण (लम्बी-लम्बी दाढ़ी वढा)
१. अविरतनवोपहारपहहपट्टरचितरत्तोत्सन्नभित्त...।
२. ॰...चाहैः।
३. ॰...पट...।
४. दाडिमी...।
५. भ्रुकुटिकुटिलभ्रूणा रक्तनयनेन, भुकुटिकुटिलभ्रूणा रक्तनयनेन, भ्रुकुटिः...।
६. पाटलिंतसुकुदुकूल।
७. ॰...गुग्गुल...।
८. ॰...विरचिताङ्गुलीभि...।
९. प्रदल...।
६४२ कादम्बरी [ कथायाम्-
कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव¹ ज्वलित-लोहित-मूर्द्ध-रत्न-रश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता² स्तुतिपरेणेव स्तूयमानाम् ; स्थूलस्थूलैः शिराजालकैर्गोधा-गोधिका³-कृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैरङ्गेष्वविक्षितेन, अलक्ष्मी⁴-समुत्खात-लक्षणस्थानैरिव⁵ विस्फोटव्रणबिन्दुभिः कल्माषित-सकलशरीरेण, कर्णावतंससंस्थापिताया च चूडया रुद्राक्षमालिकामिव⁶ दधानेन,
त्यभिप्रायः। स्फुरन्ति स्पन्दमानानि अधरपुटानि येषां तैः, आखुभिर्मूषकैरपि जपपरैः मन्त्रजपप्रवृत्तैः सद्भिः आराध्यमानामिव, जपप्रवृत्तवत् स्पन्दमांनाधरपुटत्वादिति भावः। अधरपुटस्पन्दनमात्रतां स्वभावः। कृष्णाजिनं श्यामवर्णमात्मीयं चर्मकृष्णसारचर्म च तेन प्रावृतम् आच्छादितम् अङ्गम् अवयव येषां तेषां तैः कुरङ्गैर्मृगैरपि प्रतिशयितैः कृतप्रतिशयनैः सद्भिः आराध्यमानामिव, तद्वत् कृष्णाजिनाच्छादितावयवत्वादिति भावः। विपत्प्रतीकाराय अभीष्टप्राप्तये दिवसमासादिनियममशनापरित्यागपूर्वकं देवताग्रे शयनं प्रतिशयनम्। तथा ज्वलिता दीप्ताः, लोहिता अरुणवर्णाः, मूर्द्धरत्नस्य शिरोमणे रश्मयो रोचिषो येषां तैः कृष्णसर्पैर्विजातीयभुजङ्गैरपि शिरःसु मूर्धसु धृता मणयो रत्नान्येव दीपा मणिवद्दीपारूपा यैस्तैः सद्भि राराध्यमानामिव, मस्तकेषु दीपधारणपूर्वकं देवतोपासनां विधत्ते।
इह प्रत्येकवाक्य एव क्रियोत्प्रेक्षा, तथा 'आराध्यमानाम्' इत्येकस्यामेव क्रियायामनेकेषां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगिता चेत्युभयोरङ्गाङ्गिभावसङ्करः। अनेन च महाराज्याभूमिन्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः।
सर्वत इति। अपि च, सर्वतश्चतुर्दिक्षु रटता शब्दं विदधता, कठोरः कर्कशस्वरो यो वायसगणः सकृत्प्रजासमूहस्तेन, स्तुतिपरेण स्तुतिप्रवृत्तेन सता स्तूयमानामिव नूयमानामिव, स्तवप्रवृत्तवत् समन्तात् शब्दविधानात्। स्तुतिपरो हि प्रदक्षिणतया भ्रमन्नुच्चैः स्तुतिशब्दं विधत्ते। इहापि क्रियोत्प्रेक्षा।
स्थूलेति। दग्धो ज्वलितो यः स्थाणुः शाखापर्णरहितस्तरुः तस्य आशङ्कया भ्रान्त्या समारूढैः शरीरारूढैः, गोधा गोधिका, कृकलासः सरट एतेषां कुलैः समूहैरिव, स्थूलस्थूलैः अन्यान्यापेक्षया अत्यन्तस्थूलः शिराजालकैः धमनीसमूहैः, गवामक्षीवेति गवाक्षः 'अदग्गोऽदर्शनातू' इत्यच्, गवाक्षं सञ्जातमस्येति गवाक्षितः तारकादिभ्वादितच् । तेन जालकमयीभूतेन 'जरद्द्रविडधार्मिकाधिष्ठिताम्' इत्यधिकदूरस्थायिन्या क्रियया सम्बन्धः। इह भ्रान्तिमान् जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। इत आरभ्य पुँल्लिङ्गत्तृतीयेकवचनान्तानि पदानि अग्रेतनस्य 'जरद्द्रविडधार्मिकेण' इत्यस्य विशेषणान्यवगन्तव्यानि।
अलक्ष्मीति। अलक्ष्म्या अध्रिया देव्या समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रिकशास्त्रोक्तानि शुभचिह्नानि तेषां स्थानैरिव, विस्फोटकाः शीतलाप्रकोपजाः प्रसिद्धाः तेषां व्रणबिन्दुभिः कल्माषितं विचित्रीकृतं सकलं समग्रं शरीरं यत्र तेने। इह जात्युत्प्रेक्षा।
कर्णेति। अपि च, कर्णावतंसे श्रवणालङ्कारस्थाने संस्थापितया न्यस्तया चूडया शिखया कारणेन, रुद्राक्षमालिकां दधानेन धारयतेव, मयूरपिच्छरचितायास्तच्छिखायाः कण्ठपर्यन्तपातित्वेन रुद्राक्षमालावदवगतेरित्याशयः। क्रियोत्प्रेक्षा।
कर छागगण ( बकरे ) भी मानों व्रतालम्बन कर देवी की आराधना करते हों; ओष्ठयुगल निरन्तर स्पन्दित होने के कारण मूषकगण भी मानो जपमें प्रवृत्त होकर देवीकी उपासना करते हों, कृष्ण-चर्म ओढ़ कर हरिणगण भी धरना देकर देवीकी आराधना करते हों, और मस्तकमें प्रज्वलित ( चमकने ) हुए रक्तवर्ण रत्नकी किरणोंके कारण कृष्णसर्पगण भी मानो मस्तक पर मणिप्रदीप धारण कर देवीकी उपासना करते हों—ऐसा प्रतीत होता था। कर्कश-स्वरवाले काकगण (कौवे) भी सर्वत्र काँव काँव करके मानो स्तुति करनेमें प्रवृत्त होकर उसकी आराधना करते थे। वहाँ एक द्रविडदेशीय वृद्ध धार्मिक रहता था। दग्ध-स्थाणु (जले हुए ठूंठ) की आशङ्कासे शरीर पर चढ़े हुए गोह, छिपकली और गिरगिटोंके समूहके समान अत्यन्त-स्थूल शिराओं (मोटी मोटी नसों) के समूहसे व्याप्त होनेके कारण उसके शरीरमे गवाक्ष-जाल (जालीदार खिड़कियां) उत्पन्न हो गए थे। अलक्ष्मी देवीके द्वारा जड़से उखाड़े गए शुभलक्षणोंके रिक्त-स्थानके समान विस्फोटक-व्रण-बिन्दुओं (फोड़ोंके घावके चिह्नों) से उसका शरीर विचित्र हो गया था। कर्णाभरणके स्थानमें रक्खी गई उसकी शिखा वक्षःस्थल पर्यन्त लटकनेके कारण प्रतीत होता था कि वह मानो रुद्राक्ष माल धारण करता था। अम्बिकाके चरणोंमें गिरनेसे उसके काले ललाटदेश पर अंबुर्द-
१. प्रतिशयनैरिव ।
२. रुवता ।
३. शिराजालैर्गोधाम् "गोपालिका, गोधारगृहगोधिका गोधारगोधिका ।
४. लक्ष्मी ।
५. विस्फोटका ।
६. क्वचित् 'इव' शब्दो नास्ति ।
६४४ कादम्बरी- [ कथायाम्-
व्रणितचरणाङ्गुष्ठकेन, असम्यक्कृत-रसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधि-राज्यवरप्रार्थना-कदर्धित दुर्गेण, दुःशिक्षित-श्रमणादिष्ट१-तिलकाबद्धविभवप्रत्याशेन, हरित-पत्र-रसाङ्गार-मसी-मलिन-शम्बूकाहिना, पट्टिका-लिखित-दुर्गास्तोत्रेण, धूम-रक्ताक्तकाक्षर-ताल-पत्रकुहक-तन्त्र३-पुस्तिका-संग्राहिणा, जीर्ण-पाशुपतोपदेश४-लिखित-महाकालमतेन, आवि-र्भूत-निधि-वाद-व्याधिना, सञ्जात-धातुवाद-वायुना, लग्नासूर-विवर-प्रवेश-पिशाचेन, प्रवृत्त-
रङ्गपंः तेन व्रणितः चरणाङ्गुष्ठो यस्य तेन, दर्भादिच्छित्तिदूरीकरणाय कृमिसूत्रकोपेंग पादाङ्गुष्ठाच्छादनम्।
असम्यगिति। सम्यक् कृतो यथाविधि विहितो न सम्यक् कृतो येन तेन रसायनेन जराव्याधि-विनाशिवहुद्रव्यव्ययसाध्यपारदकुलङ्गाद्यौषधसेवनेन आनीतः प्रापितः कालज्वरः मरणपर्यवसायितापो येन तेन। अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति तृष्णातिशयो ध्वन्यते।
जरामिति। जरां गतेनापि अत्यन्तपरिणतवयस्त्वं वृद्धत्वमिति यावत् प्राप्तेनापि सता, दक्षिणा-पथस्य दाक्षिणात्यदेशस्य यद् अधिराज्यमाधिपत्यं तस्य वरप्रार्थनया अभीष्टयाच्ञया कदर्यिता विरक्ती-कृता दुर्गा चण्डिका येन तेन।
दुरिति। दुःशिक्षितेन लब्धकुशिक्षणे श्रमणेन केनचित् अनिर्दिष्टनाम्ना परिव्राजकविशेषेण आदिष्टे तिलके सिद्धोपधिजनिते भ्रूयुगलमध्यविन्दौ लावद्धा विहिता विभवप्रत्याशा धनसम्पदभिलापो येन तेन।
हरितेति। हरितपत्ररसेन नीलपलाशनिर्यासेन युक्ता सहिता या अङ्गारमसी तया मलिनं शम्बूकं शङ्खं वहतीति तेन शङ्खमयमसीपात्रधारिणेत्यर्थः।
पट्टिकेति। पट्टिकायां दारुफलके लिखितं लिपीकृतं दुर्गास्तोत्रं येन तेन।
धूमेति। धूमेन रक्तानि रञ्जितानि अलक्तकाक्षराणि यावकद्वारा लिपीकृतवर्णा येषु तैस्तथोक्तैः तालपत्रैः या कुहकाय इन्द्रजालाय तन्त्रमन्त्राणां वशीकरणमारणमोहनोच्चाटनादीनां पुस्तिका तां संगृह्णातीति तेन सङ्ग्रहकारिणेत्यर्थः।
जीर्णेति। जीर्णेः परिणतवया यः पाशुपतः शैवः तस्य उपदेशेन मनुष्यरुधिरेण होमप्रतिपादक-शित्त्या लिखितं लिपीकृतं महाकालमतम् ईश्वरमतं येन तेन।
आविरिति। आविर्भूतः प्रकटितो निधिवादः 'अनेन विधिना निधिर्लभ्येत' इति धनभाण्डवाद इव व्याधिर्यस्य तेन।
सञ्जातेति। सञ्जातः समुत्पन्नः धातुवादः 'अनेन कर्मणा लौहं ताम्रं वा सुवर्णं भवति' इति धातु-विषयकप्रवाद एव वायुः वातव्याधिर्यस्य तेन।
लग्नेति। लग्नः असुरविवरे पातालवासिदैत्यच्छिद्रे प्रवेशः प्रवेशावेश एव पिशाचो यत्र तेन।
प्रवृत्तेति। प्रवृत्तः उत्पन्नो यक्षकन्यासु गन्धर्वपुत्रीषु कामित्वमनोरथेन सुरताभिलाषेण व्यामोहो विशेषेण बुद्धिभ्रान्तिर्यस्य तेन।
अङ्गुष्ठावरण किया था उसे घिस जानेके कारण चरणके अँगूठेमें विवाई फूट गई थी। विधिके अनुसार निर्माण नहीं किए गए रसायनके प्रयोग (सेवन करने) से असामयिक ज्वर आ गया था। अत्यन्त वृद्ध होने पर भी दाक्षिणात्यदेशके राज्यके वरकी प्रार्थना करके चण्डिका देवीको विरक्तकरता (पीड़ा देता) था। कुशिक्षासे शिक्षित किसी संन्यासीके आदेशसे तिलक धारण कर, उससे ही धनसम्पत्ति मिलनेकी प्रत्याशा करता था, हरिद्वर्ण पत्तोंके रससे संयुक्त अङ्गार (कोयले) की बनी हुई मसी (स्याही) से मलिन हुई एक सीपी उसके निकट थी। एक काष्ठ-फलक (पट्टी) पर उसने दुर्गाका स्तोत्र लिख रक्खा था। उसके पास इन्द्रजालके लिए एक तन्त्र-मन्त्रोंकी पुस्तकका संग्रह था, जिसके तालपत्रों पर लिखे आल्ताके रस (लाल लाक्ष) से अक्षर धुएँसे रंग गए थे। किसी प्राचीन महापाशुपतके उपदेशसे उसने महाकाल-मत लिख लिया था। 'इस अनुष्ठानको करनेसे निधि (खजाना) प्राप्त किया जाता है, इस प्रकारके प्रवादकी व्याधि उसके हृदयमें आविर्भूत हुई थी। 'इस अनुष्ठानको करनेसे लोहा भी सोना होता है' इस प्रकारके धातुविषयक प्रवादमूलक वातव्याधि उसे उत्पन्न हो गई थी। असुरोंके हृद (पाताल) में प्रवेश करनेका आकरूप पिशाच उसके पीछे लगा था। यक्ष-कन्याओंके
१ ॰'श्रवणादिष्ट॰'। २ ॰'नपी॰'। ३. कुतुकुहकनन्त्रयन्त्रमन्त्र । ४. जीर्णमहापाशुपतोपदेश ।
शरद्वद्विद्वामिवर्णनम् ११८] चन्द्रकला-विद्योतिनीसहिता। ६२५
वृद्धकन्यका-कामित्व-मनोरथ-व्यामोहेन; वर्द्धितान्तर्द्धान-मन्त्रभावनसंग्रहेण; श्रीपर्वताश्चर्य-वार्तासंश्रवाभिज्ञेन; असकृदभिमन्त्रित-सिद्धार्थक-प्रहृति-प्रवाहितैः पिशाचगृहीतकैः करतल-ताडन-चिपटीकृत-श्रवणपुटेन; अविमुक्त-शैवाभिमानेन; दुर्ग्रहीतालाबुवीणावादनोद्वेजित-पथिक-परिहृतेन; दिवसमेव मशकक्वणितानुकारि किमपि नमितोत्तमाङ्गं गायता; स्वदेश-भाषानिबद्ध-भागीरथी-भक्तिस्तोत्र-नर्तकेन; गृहीत-तुरगब्रह्मचर्येण अन्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः सम्प्रयुक्त-स्त्रीवशीकरणचूर्णेन; अतिरोपणतया कदाचिद् दुर्व्यवहार-
वर्द्धितेति। वर्द्धितो वृद्धितङ्गतः अन्तर्द्धानमन्त्रभावनाय तिरोभावनमन्त्रनिष्पादनाय सङ्ग्रह आग्रहो येन तेन।
श्रीति। श्रीपर्वते श्रीमन्नगशैले यत् आश्चर्यवार्तामहत्त्वम् अद्भुतजनश्रुतिसमूहस्तस्य अभिज्ञेन विदुषेण।
पुरा किल कस्मिश्चिदचले पार्वत्या अपि सौभाग्यमिच्छन्ती लक्ष्मी (मुहुर्मुहु) र्च्चनं तपस्यन्ती निवबन्धेनं च कारयित्वा बह्वो हवनं चकार, तत आरभ्यासावचलः 'श्रीपर्वत' इति नाम्ना प्रसिद्धोऽभूदिति पुराणसिद्धम्।
असकृदिति। असकृन्निरन्तरम् अभिमन्त्रिणानां मन्त्रद्वारामौकिकशक्तिसमुत्पादितानां सिद्धार्थकानां सर्षपाणां प्रहत्या रक्षोभूतपिशाचानां दूरीकरणाय तच्छरीरेषु मुहुर्मुहुः प्रक्षेपेण प्रवाहितैः कोपाच्छीघ्र-मायातैः पिशाचगृहीतकैः भूताविष्टलोकैः करतलताडनेन हस्ततलाघातेन चिपटीकृतं चिपिटक्वत् विस्तारितीकतं श्रवणपुटं श्रोत्रपुटं यस्य तेन।
अवीति। अविमुक्तः अनुज्झितः शैवाभिमानः शैवोऽहमित्यवलेपो येन तेन।
दुर्ग्रहीतेति। दुर्ग्रहीता वादनकालिकग्रहणप्रकारं विरहय्य परिधृता या अलाबुवीणा तुम्बीरचित-दण्डक्रीयं तस्य वादनेन तज्जनितैर्विरसौःकृतैः पथिकैः पान्थैः परिहृतः परित्यक्तस्तेन।
दिवसमिति। दिवसं वासरमेव न तु रात्रौ यत् मशकस्य झनितं झिङ्झिनं तदनुकर्तुं शीलं यस्य तत् यथा स्यात्तथा, कम्पितं चालितम् उत्तमाङ्गं शिरो यत्र क्रियायां तद् यथा स्यात्तथा च किमपि वक्तुम-शक्यं गायता गानं विदधता। वासरमित्यन्तसंयोगे द्वितीया।
स्वदेशेति। स्वदेशभाषा द्राविडदेशवाणी तया निबद्धं गुम्फितं यद् भागीरथ्या गङ्गाया भक्तिस्तोत्रं तेन नृत्युति गात्रविक्षेपं करोतीति तेन।
गृहीतेति। गृहीतं स्वीकृतं तुरगस्येव अश्चस्येव ब्रह्मचर्यं येन-न तादृशस्तस्य भावस्तथा कार-णेन यथा अश्वा निरन्तरसंयमनप्रतिबन्धादेव ब्रह्मचर्यं धारयन्ति न पुनः शुभप्राप्तिलोभात् तथा अय-मपि योषित्प्राप्यभावादेव ब्रह्मचर्यं धारितवान् न पुनः पुण्योपार्जनप्रत्याशयेत्याशयः। अन्यदेशाद् अन्य-जनपदान् आगता आयाताः सत्य दयिताः तत्रावस्थितास्तासु जरत्प्रव्रजितासु जराजीर्णसंन्यासिनिषु बहुकृत्वः अनेकवारान् सम्प्रयुक्तं निक्षिप्तं स्त्रीवशीकरणचूर्णं येन तेन। एतेनास्य महाकामुकत्वं प्रतीयते।
अतीति। रुष्टानां पुंषाणां ह्युन्मानां समाहार इत्यद्युप्त्री सजाता अद्यपुर्प्पीत्यटपुप्पिका सजाते
वृद्ध कन्या कामेने का अभिलाषी होने से उसको मन्त्रिन (बुद्धिमें भ्रम) उत्पन्न हो गया था। अन्तर्द्धान (अदृश्य) हो जानेके उपयोगी मन्त्र-साधन करनेके लिए उसकी अग्रह-वृद्धि पाई जाती थी। श्रीपर्वतके हजारों आश्चर्यमय वृत्तान्तोंको वह जानता था। अभिमन्त्रित की हुई सरसोंको भूतभगानेके लिए बारम्बार शरीरों पर फेंकनेसे दौड़े हुए-पिशाचसे अभिभूत-मनुष्योंके करतल (थप्पड़) से मारकर इसके कान चपटे कर दिए थे। उसने अपने शैव होनेका अभिमान नहीं छोड़ा था। विपरीत भावसे (उलटा-पुलटा) पकड़कर बजाई गई अलाबू (तूंबे) की वीणा का शब्द सुनकर उद्विग्न हो कर पथिक गण (राही) उसका परित्यागकर चले जाते थे। दिन भर मस्तक हिला-हिलाकर वह मशक-शब्द (मच्छर के भिनभिनाहट) के समान अनिर्वचनीय गान करता था। स्वदेशीय भाषामें रचना किए हुए गङ्गाके एक भक्तिस्तोत्रको गाता हुआ नृत्य करता था। अगा-ब्रह्मचर्य (स्त्रियोंके न होनेसे बलात्कारात्ते रक्षित ब्रह्मचर्य) के समान ब्रह्मचर्य ग्रहण करनेके कारण, अन्यदेशसे आकर उस स्थानमें बसती हुई वृद्ध संन्यासिनियोंके शरीरपर स्त्री-वशीकरणका चूर्ण निक्षेप (डाला) करता था। अत्यन्त कोपन-स्वभाव (चिड़-चिड़ापन) होनेके कारण बलिष्ठोंके समीपने वैरीजैसे अथवा दूसरेके द्वारा
१. '...सम्बर्द्धितान्तर्द्धानसंग्रहेण। २. आकुचिन्ताभिज्ञैः। ३. '...निबडीकृत०'। ४. ०प्रथनासुद्रेजनाकुल०। ५. अलब्बुदु०, ०लम्बुडूण०। ६. दिवसमग्रेऽशकमणितानुकारि ...स्तरेन। ७. ०...आगतसु। ८. प्रव्रजितासु। ९. आधुपुप्पिका।
| ६४६ | कादम्बरी- | [ कथायाम्- |
|---|
पुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहु-बाहुयुद्ध-पात-भग्न पृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्-प्रधावित-स्खलिताधोमुख-पात-स्फुटित शिरःकपालभुग्न-ग्रीवेण, कदाचिज्जनपदकृते नवागतापरधार्मिकादरमत्सरोद्वद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दमन्द-सञ्चारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया
कः प्रत्ययः, यानि कानिचित् अष्टसंख्याकानि कुसुमानीत्यर्थः । एवञ्च अतिरोपगतया अत्यन्तकोपस्वभावतया, कस्मिंश्चित्समये दुर्व्यवस्थाया अथवारूपे स्थापिताया अष्टपुष्पिकायाः, पातेन कुतूहलाद्भाग्याद्वा केनचित्पुरुषेण चण्डिकापीठात् पातनेन उत्पादितो जनितः क्रोधः कोपो यस्य तेन, अतएव मुखभङ्गिविकारैः चण्डिकामपि भृशमत्यर्थम् उपहसता हासं विदधता । अज्ञातानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पीठे दुष्प्रकारेण विहितानि तानि पुष्पाणि दैवात्पतितानि कुतूहलाय केनचित्पातितानि वा । ततस्तदुपरि द्रविडस्य कोपश्चण्डिकाया उपरि भवति यत्त्वं पुष्पाण्यपि रक्षितुं नापारयः, अतएव मुखभङ्गिविकारैस्तामुपहसतीत्यभिप्रायः ।
कदाचिदिति । निवार्यमाणेन 'इह वासो न विधेयः' इति निषिध्यमानेन आवासेन निवासस्थानेन कारणेन, रुषितैः कुपितैः अध्वगैः पान्थैः आरब्धेषु बहुषु अनेकेषु बाहुयुद्धेषु भुजसङ्ग्रामेषु पातेन भग्नं स्फुटितं पृष्ठं पश्चाद्भागो यस्य तेन ।
कदाचिदिति ।। कृतो रजः पर्णादिक्षेपादिना विहितः अपराध भागो येन तस्य तथोक्तस्य बालकस्य शिशोः पलायनेन योऽमर्षः कोपः तेन यत् पश्चात् प्रधावितं शीघ्राममनं तेन यत् स्खलितं प्रच्युतिस्तस्मात् अधोमुखपातेन स्फुटितं भग्नं शिरः कपालं मस्तकखर्परं भुग्ना कुटिलीभूता च ग्रीवा यस्य तेन ।
कदाचिदिति । जनपदैः देशस्थितैः पुरुषैः कृतो विहितो यो नवागनस्य नूतनायातस्य अपरधार्मिकस्य अन्यसत्पुरुषस्य आदरः सन्मानं तत्र मत्सरेण विद्वेषेण उद्वद्धः स्वनिधनायोद्वन्धनावर्लम्बनीकृत आत्मा शरीरं येन नेन ।
'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परन्त्यावर्त्तनेऽपि च ।'
इति धरणिः ।
निरिति । निःसंस्कारतया शिक्षा-सत्सङ्गाद्युत्पन्नसाधुवासनारहितत्वेन, यत्किञ्चनकारिणा तुच्छ-कर्मविधायिना अकार्येष्वपि प्रवृत्तिविधायिनेत्यर्थः ।
खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं शनैः शनैः सञ्चरितुं विहर्तुं शीलं यस्य तेन ।
बधिरेति । बधिरतया श्रवणेन्द्रियरहिततया, संज्ञया हस्तचालनादिकसङ्केतेन व्यवहर्त्तुं शीलं यस्य तेन ।
रात्र्यन्धेति । रात्र्यन्धतया रजन्यामनवलोकितत्वेन दिवाविहारिणा दिवसभ्रमणकारिणा ।
लम्बोदरेति । लम्बोदरतया प्रभूताहारिणा अत्यधिकभोजनकारिणा ।
इधर उधर रक्खी हुई अष्टपुष्पिका (आठ प्रकार के फूलोंका संग्रह) के गिर जाने पर उसको अभिनव क्रोध उत्पन्न हो जाता था, अतएव उस पुष्पकी रक्षा करनेमें समर्थ न होनेसे नानाविध मुखभङ्गी (मुँह बना-बना) कर चण्डिका देवीका भी अत्यन्त उपहास करता था वहाँ विश्राम करने की अभिलाषा वाले पथिकों (राहियों) को रहनेके लिए निषेध करने पर क्रुद्ध हुए उन लोगों के साथ अनेक बाहुयुद्ध होनेमें गिर पड़नेसे किसी समय उसकी पीठ टूट गई थी । किसी समय धूलि-पत्र आदि फेंककर अपराध करके भागे हुए बालकोंसे चिढ़ कर उनके पीछे दौड़नेमें पद-स्खलन हो (ठोकर लग) जाने पर अधोमुख (औंधे मुँह) होकर प्रस्तर पर गिर पड़नेसे उसके मस्तक और कपाल फूट गये थे तथा गर्दन टेढ़ी हो गई थी । वहाँके लोगोंके द्वारा किसी समय नवीन आए हुए अन्य किसी धार्मिकका आदर किया हुआ देखकर उसमें विद्वेष हो जानेके कारण वह आत्महत्या करनेके लिए गलेमें उद्बन्धन (फाँसी) लगा लेना था । शिक्षाजनित व्युत्पत्तिरहित होनेके कारण वह अतितुच्छ (चाहे सो कुछ) कार्य करता था। खञ्ज (लँगड़ा) होनेके कारण धीरे-धीरे चलता था। बधिर (बहरा) होनेके कारण अङ्गुल्यादि संकेतों (इशारों) से दूसरेके साथ व्यवहार करता था । रात्र्यन्ध (रतौंधी) होनेके कारण दिनमें ही बाहर भ्रमण करता था और लम्बा उदर (पेट) होनेके कारण प्रचुर भोजन करता था । विविध उपाधोंके
१. कदाचिन्निवार्यमाणवासिनाध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन, कदाचिदनवगतानुजडित्तरलोहिना शिरः-कम्पनवक्रितग्रीवेण । २. ०...जनपदकृत ०... । ३... उद्बद्धात्मना । ४. मन्दं मन्दं सञ्चारिणा ।
शस्त्रद्रविडधार्मिकवर्णना ११८ ] चन्द्रकला-विद्योतिनीसहिता । ६४७
प्रभूतताहारिणा, अनेकशः फल-पातन-कुपित-वानर-नखोल्लेख-छिद्रितनासापुटेन, बहुशः कुसुमावचय-चलित-भ्रमर-सहस्र-दंश-शीर्णीकृत-शरीरेण, सहस्रशः शयनीकृतासंस्कृत-शून्यदेवकुल-कालसर्पदष्टेन, शतशः श्रीफलतरु-शिखर-च्युति-चूर्णितोत्तमाङ्गेन, असकृदुन्मत्त-देवमातृ-गृह-वास्तव्य-नखैर्जर्जरित-कपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्त-खण्ड-खट्वारोपित-वृद्धदासी-विवाह-प्राप्तविडम्बनेन, अनेकायतन-प्रतिशयिन-निष्फलोत्थानेन, दौःस्थ्यत्यमपि विविध-व्याधि-परिवृतं स्वकुटुम्बमिवोद्वहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमप्यनेकद्रण्डावात-निर्मितबहुगात्रगण्डकं फलितमिव प्रकाशयता,
अनेकशेति । वृक्षात्त्रोटनाद्युपायैः फलपातनेन कुपितानां क्रुद्धानां वानराणां कपीनां नखैर्नखरैः उल्लेग्नेन अनेकशो बहुवारं छिद्रितं कृतच्छिद्रं नासापुटं यस्य तेन ।
बहुश इति । बहुशो बहुप्रकारेण कुसुमावचये पुष्पचयनकाले चलितस्य भीतं गतस्य भ्रमरसहस्रस्य सङ्घसमूहस्य दंशेन दशनेन शीर्णीकृतं शरीरं वपुर्यस्य तेन ।
सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतेषु स्वापस्थानीकृतेषु असंस्कृतेषु अशोधितेषु शून्येषु निर्जनेषु देवकुलेषु देवभवनेषु कालसर्पैः कृष्णनागैः दष्टो दंशितस्तेन ।
शतश इति । शतशः शतवारं श्रीफलतरोः बिल्ववृक्षस्य शिखरात् अग्रदेशात् च्युत्या पतनेन चूर्णितम् उत्तमाङ्गं शिरो यस्य तेन ।
असकृदिति । असकृत् वारंवारम् उन्मत्तेषु भग्नेषु देवमातृगृहेषु ब्राह्मीप्रभृतिभवनेषु वसन्तीति वास्तव्या ये ऋक्षा भल्लुकाः तेषां नखैः नखप्रघातैः जर्जरितः क्षतविक्षतीकृतः कपोलो यस्य तेन ।
सर्वदेति । सर्वदा सर्वस्मिन् काले वसन्तक्रीडिना वसन्तोत्सवप्रियायिना लोकेन उत्क्षिप्तयाम् उत्तोलितायां खण्डायां त्रुटितायां खट्वायाम् आरोपिता स्थापिता या वृद्धा परिणतवया दासी कृतहारिका तया विवाहेन परिणयेन प्राप्तं लब्धं विडम्बनं कदर्यना येन तेन ।
अनेकेति । अनेकेषु बहुषु आयतनेषु देवनास्थानेषु यानि प्रतिशयनानि मनोरथप्राप्तये दिनमासादिनियतं भोजनादित्यिागपूर्वकं देवनाग्रे शयनानि तेभ्यो निष्फलं निरर्थकम् उत्थानं जागरणं यस्य तेन
दौःस्थित्यमिति । विविधा अनेकप्रकारा ये व्याधयः पीडाः तैः परिवृतं परिवेष्टितम्, दुःस्थितस्य भावो दौःस्थित्यं तदपि दुर्गतिमपि स्वकुटुम्बमिव आत्मीयवर्गमिव उद्वहता धारयता । इह चाम्युत्प्रेक्षा, तया च दुर्गतिपीडानां नैरन्तर्यं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
मूर्खतामिति । बहुभिः अनेकैः व्यसनैः सुरापानाद्यासक्तिभिः अनुगताम् अनुसृताम्, मूर्खतामपि अविवेकत्वमपि, प्रसूतानि जनितानि अनेकानि बहूनि अपत्यानि सन्ताना यया तामिव, दर्शयता व्यवहारेण प्रकाशयता व्यसनानामवापत्यरूपत्वादित्याशयः । इह बहुसन्तानजनननोत्प्रेक्षणात्क्रियोत्प्रेक्षा ।
क्रोधमिति । अनेकैर्विविधैः दण्डावातैः अपकारिलोकोद्वारा लघुडप्रहारैः निर्मिता रचिता बहवोऽ-
द्वारा फल गिरानेसे क्रुद्ध (चिढ़े) हुए वानरोंके नखों (पञ्जों) के आघातसे अनेक बार उसकी नाक पर छिद्र कर दिए थे। कितनी ही बार पुष्पचयन करने के समयमें छूटे हुए हज़ारों भौरोंने दंशन (डंक मार-मार) कर उसका शरीर जीर्ण कर डाला था। अपरिष्कृत (साफ़ किए बिना) शून्य देवालयोंमें शयन करनेसे काले साँपों ने हजारों बार उसे काट लिया था। श्रीफल-वृक्षके शिखर (चोटी) पर से गिरने के कारण सैकड़ों बार उसका मस्तक चूर्ण हो गया था। ब्राह्मी-प्रभृति देवमाताओं के भग्न (टूटे-फूटे) मन्दिर में रहने वाले भल्लुकों (रीछों) ने नखों (पञ्जों) के आघात से मार-मार कर उसके गाल जर्जरित कर दिए थे। वसन्तोत्सव (होली) में मत्त नागरिकों द्वारा एक टूटी खाट पर बैठाकर लाई गई वृद्ध-दासी के साथ उसका विवाह करा देनेसे वह सर्वदा विडम्बना पाता था। अनेक देव-मन्दिरों में मनोरथ सिद्धि के लिए धरना देकर शयन करने पर भी वहाँ से वह निष्फल होकर ही उठता था। अनेक व्याधियोंसे पीड़ित अपनी दुर्गति को भी वह अपने परिजन (कुटुम्ब) के समान पालन करता था। मद्यपानादि बहुतसे व्यसनों से समन्वित मूर्खता को इस प्रकार प्रकाशित करता था मानों उस मूर्खताने अनेक सन्तान उत्पन्न किए हों, अपकारियों द्वारा अनेक लाठियों (डंडों) के आघात (चोट) से शरीर में उत्पन्न गात्रगण्डकों
१. असकृद्वहुशः ।
२. 'वास्तव्यभल्लुक' ।
३ दौःस्थित्यमपि ।
४. 'अभिजन' ।
५. 'गण्डकैः।
६५० | कादम्बरी- | [ कथायाम-
विगतश्रममेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीप-विरचित-पर्णसंस्तरे^१ च दिवसगमन-खिन्न^२-परिवर्तितयामिके सुषुप्सति सैनिकजने, कृत-बहु-पावकप्रभा-पीत-तमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहार^५-निवेदितं शयनीयमगात्। निष्षण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम्, अरतिगृहीतश्च विसर्जयाञ्चभूव राजलोकम्, अतिवल्लभानपि नाललाप पार्श्वस्थान्, निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किम्पुरुषविषयम्, अनन्यचेताः सस्मार हेमकूटस्य^६, निष्कारण-बान्धवतामचिन्तयन्महाश्वेतापादानाम्^७, जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम्, अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय, तमा-
पृष्ठानि येषां तेषां भावस्तया तादृश्या कारणेन विगतश्रमत्वेषु दूरीभूतायासेषु, वाजिषु तुरगेषु पुरः अग्रतो निखाताः प्रोथिता याः कुन्तयष्टयः प्रासलगुडाः तासु संयतेषु बद्धेषु सत्सु। वाजिनां तुरगाणां समीपेपु निकटेपु विरचिताः स्वापाय निर्मिताः पर्णसंस्तराः पत्रमयास्तरणानि येन तस्मिन्, दिवसं वासरपर्यन्तं गमनेन खिन्नाः केचन परिश्रान्ता अत एव अन्ये परिवर्त्तिताः परिवर्तनं कृता यामिकाः प्रहरिणो येन तस्मिन्, सुषुप्सति स्वपितुमिच्छति सति, तथा कृतानां जनितानां बहूनामनेकेषां पावकानां वह्नीनां प्रभाभिर्दीप्तिभिः पीतानि ग्रस्तानि विलोपितानि तमांसि अन्धकारा यस्य तस्मिन् तादृशे सेनानिवेशे सैन्यसमूहे, रजन्यामपि दिवस इव विराजमाने शोभमाने सति। परिजनेन सेवकेन एकदेशे एकभागे संयतस्य बद्धस्य। प्रतीहारेण द्वारपालेन निवेदितं विज्ञापितम्, शयनीयं तल्पम् अगात् गतवान्।
निष्षण्णस्येति। अपि च, दुःखस्य आसनम् आसिका दुःखप्राप्तिरित्यर्थः, 'पर्यायार्हणोत्पत्तिषु' इत्यनेन णुल्प्रत्ययः। निष्षण्णस्य तल्पे विद्यमानस्य, अस्य चन्द्रापीडस्य। पस्पर्श स्पृष्टवती। अपि च अरतिगृहीतः समस्तविषयेष्वेवारुचिसम्पन्नः विसर्जयाम्बभूव शयनायानुज्ञां प्रदत्तवान्, अतिवल्लभा नपि अतिप्रियानपि पार्श्वस्थान् समीपस्थायिनो नाललाप न बभाषे, निमीलिते मुद्रिते लोचने नयने यस्य सः। किंपुरुषविषयं किन्नरदेशं मनसा जगाम चिन्तयामासेत्यर्थः। मातुः स्मरति इतिवद् 'हेमकूटस्य' इत्यत्र, 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। महाश्वेतापादानां महाश्वेताया इत्यर्थः तपस्वितया गौरववशात्पादशब्दप्रयोगो बहुत्त्वं च सङ्गच्छते। वस्तुतस्तु - 'प्रसादानाम्'। इत्युचितः इव इति प्रतिभाति। जीवितफलं जीवनप्रयोजनस्वरूपम् कादम्बरीदर्शनम्। अभिललाष दवान्छ। अपगतेन दूरीभूतेन अभिमानेन अहङ्कारेण कारणेन पेशलो मनोहरः तस्मै, मदलेखापरिचयाय मदलेखासंस्तवाय। सावकाङ्क्षः
करनेसे पीठ आर्द्र हो जानेके कारण परिश्रम (थकावट) दूर हो गया और उनको सम्मुखमें प्रोथित (गड़ी हुई) भालोंकी लकड़ियोंसे बाँध कर रख दिया, दिन भर चलनेसे परिश्रान्त हुए प्रहरीगण (पहरेदार लोग) प्रहर निश्चय कर घोड़ोंके समीपमें ही पत्तोंकी शय्या (बिछौने) निर्माण कर उस पर शयन करनेकी अभिलाषा करने लगे और बहुत स्थानोंमें प्रज्वलित अग्निके आलोकसे अन्धकारका नाश हो जानेके कारण समस्त सेनानिवेश (सेनाका डेरा) दिनके समान शोभा पाने लगा, तब चन्द्रापीड किसी भृत्यके द्वारा एक भागमें बाँधे गए इन्द्रायुधके सम्मुख (सामने) निर्माण किए हुए निजी दौवारिकके द्वारा निवेदित किए हुए, शयनके कक्षमें प्रवेश किया। वहाँ आकर उस शय्याके ऊपर जब बैठा तत्काल ही दुःखासिका (अकुलाहट) आकर इसके हृदयका स्पर्श करने लगी, इस तरह समस्त विषयोंसे ही अरुचि हो जानेके कारण उसने समस्त राजाओं को विदा किया। समीपमें बैठे हुए अत्यन्त प्रियजनोंके साथ भी वह कुछ वार्तालाप नहीं कर सका। केवल नेत्रोंको सङ्कुचित (मींच) कर बारंबार मनसे किन्नरदेशकी भावना करने लगा। एकाग्रचित्तसे हेमकूट-पर्वतका स्मरण करने लगा। महाश्वेताकी अकारणकी दयावान् बान्धवताके विषयमें चिन्तन करने लगा। बारंबार कादम्बरीके दर्शन करनेसे ही सफल जीवन है, ऐसा मनमें समझकर उसकी ही इच्छा करने लगा अहङ्कार-रहित होनेके कारण बहुत ही मनोहर लगते मदलेखाके-आलाप-व्यवहारको फिरसे निरन्तर होनेकी
१ ॰॰॰प्रस्तरे, स्त्रस्तरे। २. खिन्नेषु। ३ ॰॰॰परिकल्पितयामिके। ४. प्रभाप्रकाशितातनसि दिवसामनामे सेनानिवेशे। ५ ॰॰॰प्रतिहार ॰॰॰। ६. हेमकूटं हेमकूटस्य स्मरवान्। ७. उत्कण्ठितोऽचिन्तयत्। ८. प्रसादानाम् ९. जीवितविन्द।
च० शशिसन्दर्शनवर्णना १२० ] चन्द्रकला-विद्योतिनीसहिता । ६५१
लिकां द्रष्टुमाचकाङ्क्ष, केयूरकागमनमुत्प्रेक्षत, हिमगृहकमपश्यत्, १उष्णमायतं पुनरुक्तं २निशश्वास बबन्ध चाधिकां प्रीति शेषहारे, पश्चात् स्थितां पुण्यभागिनीममन्यत पत्रलेखाम्, एवञ्चानुपजातनिद्र एव तामनयन्निशाम् । उषसि चोत्थाय तस्य जरद्रविडधार्मिकस्येच्छयाँ निसृष्टैर्धनविसरैः पूरयित्वा मनोरथम्, ४अभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नल्यैरेवाहो-भिरुज्जयिनीमाजगाम ।
आकस्मिकागमनप्रहृष्टसम्भ्रान्तानां पौराणामर्घकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतकित एव विवेश॑ नगरीम् । अहमहमिकया च प्रधावितादितिहर्षरसविव्हलात् परि-जनात् — 'देव ! द्वारि चन्द्रापीडो वर्त्तते' इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुकममलमाग लितमाकर्षन्, प्रहर्षनेत्रजलविन्दुवर्षी मुक्मुक्ताफला-
अभिलाष । उत्प्रेक्षत सम्भावितवान् निजतुलनया कादम्बर्या अप्युत्सुकत्वेन तथैव प्रेषणसम्भवा-दित्याशयः । अपश्यन्मनसेति शेषः, अचिन्तयदित्यर्थः । आयतं दीर्घं पुनरुक्तं मुहुर्मुहुः निशश्वासनिश्वासान् मुमोच । शेषहारे शेषसंज्ञके मुक्तामालायाम् अधिका बहुलां प्रीतिं स्नेहं वबन्ध विदधौ । पुण्यभागिनीम् अमन्यत अवोधिष्ट कादम्बरीवलोकनलाभादित्याशयः । एवञ्च अनेन विधिना, अनुप-जातनिद्रोऽनागतप्रमील एव तां निशां रात्रिम् अनयत् यापितवान्, सर्वत्र प्रायेणैव कादम्बर्या औत्सुक्य-वशादित्यभिप्रायः ।
उपसीति । इच्छया तदभिलापानुसारेणैव निसृष्टैर्दत्तः, धनानां द्रव्याणां विसरैर्वृन्दैः । अभिरमणी-येषु समन्तादेव सुन्दरेषु प्रदेशेषु स्थानेषु अभिमतम् इष्टं यथा स्यात्तथा निवसन् आवासं विदधन् अल्पैः स्तोकौरेव अहर्भिर्दिवसैः उज्जयिनीं विशालाम् आजगाम आययौ ।
आकस्मिकेति । आकस्मिकम् असम्भावितं यद् आगमनम् उपस्थितिरस्तेन प्रहृष्टाः प्रमुदिताः सम्भ्रान्ताः सत्वराश्चेति ते तादृशास्तेषाम्, पौराणां पुरवासिनाम् अर्घकमलानीव पूजानिमित्तपद्मजानीव नमस्काराञ्जलिसहस्राणि प्रणामाञ्जलिसमुदायानि प्रतीच्छन् गृह्णन् अतर्कित एव असम्भावित एव नगरीम् उज्जयिनीं विवेश प्रवेशं चकार । इहोपमाऽलङ्कारः ।
अहमिति । अपि च, अहं पूर्वमहं पूर्वमित्यहमहमिकया । उपलभ्य संत्रादं प्राप्य, अस्य चन्द्रापीडस्य पिता तारापीडः, निर्भरेण सातिशयेन आनन्देन प्रमोदेन मन्दं मन्थरं गमनं यस्य सः, मन्दरः सागर-मन्थनकाले मन्दराचलः क्षीरोदजलमिव दुग्धाम्बुधिसलिलमिव, आगलितं स्कन्धदेशाच्चिपतितम् अमलं विशदम् उत्तरीयांशुकम् उपसंन्यानवस्त्रम् आकर्पन् स्वस्थानं प्रापयन् । इहोपमावृत्त्यनुप्रासयोः संसृष्टिः । प्रहर्षात्प्रमोदात् नेत्रजलविन्दून् अश्रुकणान् वर्षतीति सः, अत एव मुक्तस्यक्तः मुक्ताफलानां मौक्तिकानाम्
अभिलाषा करने लगा । तमालिकाको देखनेके लिए आकाङ्क्षा होने लगी । केयूरकके आगमनकी सम्भावना करने लगा । उस हिमगृहको क्या स्मृत हुई । उसके बाद वह वारंवार उष्ण और दीर्घ (गरम और लम्बे) निश्वासका परित्याग करने लगा । 'शेष' नामक मुक्तामालासे अधिक प्रीति करने लगा । पश्चाद्वर्त्तिनी (पीछे रही) पत्रलेखाको पुण्यवती मानने लगा । इस प्रकार निद्रा नहीं होनेके कारण जागरित अवस्थाओं में ही उसने समस्त रात्रिको व्यतीत किया । एवं प्रातःकालमें उठकर, उस वृद्ध द्रविड़धार्मिककको अभिलाषाके अनुसार बहुत द्रव्यके दानसे उसका मनोरथ पूर्ण करके, मार्गमें सुन्दर स्थान पर यथारुचि (इच्छाके अनुसार) ठहरता हुआ, थोडे ही दिनोंमें उज्जयिनीमें प्रवेश किया (आ पहुँचा)।
आकस्मिक आ जानेसे आनन्दसे व्यस्त हुए पुरवासियोंको-पूजार्थ-कमलके समान हजारों नमस्काराञ्जलियों को ग्रहण करते राजकुमारने सबके अतर्कित भावमें ही उज्जयिनीमें प्रवेश किया । सर्वप्रथम समाचार ले जानेकी आशासे 'मैं आगे, मैं आगे' कह कर दौड़ते और अत्यन्त संभ्रम तथा आनन्दसे विह्वल हुए राजपरिजनोंसे जब इसके पिताने सुना कि—'महाराज ! चन्द्रापीड द्वार पर उपस्थित हुए हैं', तब वह अत्यन्त आनन्दके मारते मन्द मन्द गमन करता, क्षीरोदसागरके जलको मन्दराचलके समान अपने नीचे गिरने निर्मल उत्तरीयवस्त्र (दुपट्टे) को आकर्षण करता (खींचता), कल्पवृक्षमं से गिरते मुक्ताभोंकी वर्षाके समान आँखों से आनन्दाश्रु
१. उष्णमुष्णमायतः ।
२. मुहुर्निशश्वास ।
३. बवन्ध दानवेन्द्रव्यादिता ।
४. स्वेच्छाविस्सृष्टैः ।
५. मनोरथानभिमतेष्वतिरमणीयेषु मनोरथानभिमतेष्व....।
६. आविवेश ।
७. प्रधावितानतिरभसदपर्विह्नलात् परिजनान् ।
८. क्वचिन् मुक्तपदं नास्ति ।
६५२ | कादम्बरी- | [ कथायाम्-
सार इव कल्पपादपः, प्रत्यासन्नवर्त्तिभिर्जरापाण्डुमौलिभिश्चन्दनविलेपनैरनुपहतक्षौमधारि- भिः केयूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्श- यद्भिः प्रतिपन्नासि-वेत्र-च्छत्र-केतु-चामरैरनुगम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युज्जगाम । ^२चन्द्रापीडोऽपि ^३दृष्ट्वा पितरं दूरादेवावतीर्य वाजिनश्चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन 'एह्येहि' इत्याहूय पित्रा ^४गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसन्निहितानाञ्च ^६माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया ^७प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गला-
आसारो धारा येन स तथोक्तः कल्पपादप इव पारिजाततरुरिव स्थितः । इहोपमा । प्रत्यासन्नवर्त्तिभिः सततं निकटस्थायिभिः सहचारिभिरित्यर्थः, जरया वार्धकेन पाण्डवः श्वेताः मौलयः शिरांसि येषां तैः, चन्दनविलेपनैः मलयजाङ्गरागैः, अनुपहतानि अखण्डानि क्षौमाणि पट्टवस्त्राणि धारयन्तीति तैः, केयूर- मङ्गदं विद्यते येषां तैः, उष्णीषं शिरोवेष्टनं विद्यते येषां तैः, किरीटं कोटीरं विद्यते येषां तैः, शेखरः विद्यते येषां तैः, वहवोऽनेके कैलासाः पर्वता यस्यां तामिव, तथा वहवः क्षीरोदाः सागरा यस्यां तामिव, क्षितिं भूमिं दर्शयद्भिः प्रकाशयद्भिः, तुल्यश्वेतत्वात्सर्वेषामेव कैलासक्षीरसागरयोः सदृशत्वादित्याशयः । इह जात्युत्प्रेक्षाद्वयम्, तयोश्च परस्परं नैरपेक्ष्येण संसृष्टिः तथा प्रतिपन्नानि शिष्टताप्रकटनाय धृतानि (गृहीतानि) असिवेत्र च्छत्र-केतु-चामराणि खड्ग-वेत्रातपपताकावालव्यजनानि यैस्तैः, राजसहस्रैः स्वाधीननृपसमूहैः अनुगम्यमानोऽनुग्रज्यमानः सन् चरणाभ्यामेव पादाभ्यामेव प्रत्युज्जगाम अभिमुखं प्रतस्थे ।
चन्द्रेति । वाजिनः अश्वात् चूडामणेः शिरोरत्नस्य मरीचिमाला दीधितिश्रेणी अस्यस्येति तादृशेन, मौलिना शिरसा, मही भूमीम्, आगच्छत् प्राप्नोत् स्पर्शमकरोदित्यर्थः, प्रणामार्थमित्याशयः । इह च्छेकानुप्रासः ।
अथेति । अथ प्रणामानन्तरं प्रसारितभुजेन विस्तारितबाहुना । गाढमत्यर्थम् उपगूढ आलिङ्गितः सन् सुचिरं बहुकालं परिष्वज्य तातं प्रत्याश्लिष्येत्यर्थः, तत्कालसन्निहितानां तत्समयसमीपागतानां माननीयानां पूज्यानां च जनानामिति सम्बन्धविवक्षया षष्ठी, कृतो विहितो नमस्कारः प्रणामो येन स तादृशश्चन्द्रापीडः । विलासवतीभवनं मातृगृहं राज्ञा तारापीडेन अनीयत प्राप्यत ।
तयेति । सर्वाणि समस्तानि अन्तःपुराणि अवरोधपुरस्थजनाः परिवारा यस्यास्तया, तया विलासवत्याऽपि, प्रत्युद्गम्य अभिमुखमेत्य अभिनन्दितं श्लाघितम् आगमनम् उपस्थितैर्यस्य सः, तया कृतो विहित आमनस्य मङ्गलाचारः आभ्युदयिकव्यवहारो यस्य स चन्द्रापीडः । दिग्विजयसम्वृद्धाभिः
वर्षण करता (टपकाना) पैदल ही सामने मिलने आया और उसके पश्चात् महाराज तारापीडके अनुगमन करने वाले हजारों राजाओंका आगमन हुआ। उनके केश वृद्धावस्था होनेके कारण शुभ्रवर्ण हो गए थे। चन्दनका उन्होंने लेप किया था। और अच्छिन्न पट्टवस्त्र (कोरे रेशमी कपड़े), केयूर (बाजूबन्द), उष्णीष (पगड़ी), मुकुट और शेखर (शिरोमाल्य) धारण करनेसे वे पृथ्वीको बहुतेरे कैलास-पर्वत एवं बहुतेरे क्षीरोद-सागर-सम्पन्नके समान दरसाते थे, उन्होंने खड्ग (तलवार), छड़ी, ध्वज तथा चामर आदिको धारण किया था। पिताको दूरसे ही देखकर चन्द्रापीडने घोड़े परसे उतरे कर चूडामणिके किरण-जालसे व्याप्त हुए मस्तकके द्वारा नमस्कार करनेके लिए अवनत हो भूमिका स्पर्श किया। तदनन्तर—'आओ, आओ' इस प्रकार कह कर बाहु युगल प्रसारण पूर्वक (फैला) पिताने उसका गाढ आलिङ्गन किया। चन्द्रापीड भी बहुत काल तक पिताका प्रत्यालिङ्गन कर, उस समयमें निकटवर्ती माननीय व्यक्तियोंको नमस्कार किया। तदनन्तर महाराज तारापीड हाथ पकड़ कर उसको विलासवतीके महलमें ले गया। महारानीने भी उस भावसे ही अन्तःपुरस्थ समस्त रमणियोंके साथ मिलनेके लिए आगे आकर, आगमनका अभिनन्दन करके माङ्गलिक क्रियाएँ सम्पन्न कीं। उसके
१. धारिभिर्हारिभिः ।
२. क्वचित् 'चन्द्रापीडोऽपी'ति नोपलभ्यते ।
३. दृष्ट्वा च ।
४. आदरादाहूय ।
५. सुचिरं गाढमुपगूढः ।
६. माननीयानाममात्यानां महीपतीनां च ।
७. प्रत्युद्गमाभिनन्दितागमनः ।
कादम्बरीवृत्तान्तविषयकप्रश्नः १२१] चन्द्रकला-विद्योतिनीसहिता ६५३
चारो दिग्विजयसम्बद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ। तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश इव क्रिया निरवर्त्तयत्। अपराह्ने निजमेव भवनम् अयासीत्। तत्र च रणरणक-खिद्यमान-मानसः कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तीनगरां वा सकलमेव महीमण्डलं शून्यममन्यत। ततो गन्धर्वराजपुत्रीवार्त्ताश्रवणोत्सुकतया महोत्सवमिव ईप्सितवरप्राप्तिकालमिव अमृतोत्पत्तिमयमिव पत्रलेखागमनं प्रत्यपालयत्।
ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छन्, उपानयच्चैनाम्। कृतनमस्काराञ्च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः प्रकृतिवल्लभामपि कादम्बरीसकाशात्प्रसादलब्धापरसौभाग्यामिव वल्लभतरतामुपगतामुत्थायातिशयदर्शितादरमालिङ्ग पत्रलेखाम्, मेघनादञ्च प्रणतं पृष्ठे करकिसलयेन पस्पर्श। समुपविष्टश्चाब्रवीत्—‘पत्रलेखे!
द्विगुणीकरणविषयाणिः। आययौ आजगाम।
त्रेति। तत्रापि शुकनासभवनेऽपि अमुना क्रमेणैव उक्तविधिनेव। स्कन्धावारवर्तिनं सैन्यमध्यस्थाथिनम्। परवश इव परतन्त्र इव, कादम्बर्यात्सुक्येन चेतोरहितत्वादित्याशयः। निरवर्त्तयत् निष्पादितवान्।
त्रेति। रणरणकेन कादम्बर्या औत्सुक्योद्वेगेन खिद्यमानं पीड्यमानं मानसं चेतो यस्य सः। अमन्यत अजानत्।
तत इति। ईप्सितवरप्राप्तिकालमिव अभिलषितवरलब्धिसमयमिव। प्रत्यपालयत् प्रतीक्षितवान्। इह त्रिगुणामुपमानां परस्परं निरपेक्ष्येण संसृष्टिः।
तत इति। कतिपयदिनापगमे कियत्कालानिक्रमे। आदाय गृहीत्वा आगच्छन् आययौ। एनां पत्रलेखाम्, उपानयत् चन्द्रापीडनिकटे उपास्थापयत्। प्रकाशिता आविष्कृता प्रीतिः स्नेहो येनैवंभूतः। प्रकृत्या स्वभावेनैव वल्लभा प्रिया नामपि। प्रसादेन अनुग्रहेण लब्धं प्राप्तम् अपरंसौभाग्यम् अन्यसुभगत्त्वं यया नामिव, अतएव वल्लभतरताम् अतिशयेन दयितताम् उपगतां प्राप्तां पत्रलेखाम्। अतिशयेन आधिक्येन दर्शितः प्रकाशित आदरः सम्मानं यत्र कर्मणि तद् यथा स्यात्तथा आलिङ्ग आश्लेषितवान्। करकिसलयेन हस्तपल्लवेन पस्पर्श स्पृष्टवान्। इह क्रियोत्प्रेक्षा पदार्थहेतुकं काव्यलिङ्गम्वेत्युभयोरङ्गाङ्गिभावसङ्करः।
समुपेति। समुपविष्टः समासीनः। कथय निवेदय, तत्रभवत्याः पूज्यायाः। मदलेखया सहेति
बाद वहाँ थोड़ी देर तक दिग्विजयके सम्बन्धमें नानाविध कथोपकथन (बातचीत) करके वह शुकनाससे मिलने गया। वहाँ भी उसी भावसे अधिक देर तक रहकर 'वैशम्पायन सैन्यदलके अन्तःपुरमें ठहरे हैं, एवं कुशल हैं' इस प्रकारका वृत्तान्त सूचित कर, मनोरमासे मिलकर, फिर विलासवतीके महलमें आकर, वहाँ ही पराधीनके समान उसने स्नानादिक समस्त कार्योका सम्पादन किया। एवं सायंङ्कालमें अपने महलमें ही चला गया किन्तु वहाँ उत्कण्ठोद्वेगसे मन पीड़ित होने लगा, इसलिए वह कादम्बरीके विरहमें केवल अपने ही को, अपने महल ही को, एवं उज्जयिनी-नगरी ही को नहीं, किन्तु समस्त भू-मण्डलको ही शून्य समझने लगा। उसके बाद गन्धर्वराजनन्दिनी-कादम्बरीका वृत्तान्त सुननेके लिए उत्कण्ठित होनेके कारण, महोत्सवके समान, अभीष्ट (मनोवाञ्छित) वर-प्राप्ति समयके समान एवं अमृतके उत्पत्ति-कालके समान पत्रलेखाके आगमनकी प्रतीक्षा करने लगा।
इसके बाद कुछ दिन बीत जाने पर मेघनाद पत्रलेखाको लेकर आया और उसे राजपुत्रके निकट उपस्थित किया; उस समय पत्रलेखाको नमस्कार करने पर दूरसे ही ईषद्धास्य (मुस्कुराहट) उसके प्रति दिखाकर चन्द्रापीडने स्वभावसे ही प्रियपात्र होने पर भी, कादम्बरीके समीपसे उसके अनुग्रहसे अन्य सौभाग्य प्राप्त कर लेनेके कारण ही मानो और भी उसकी अधिक प्यारी समझ कर, उठ कर अत्यन्त आदर दिखा कर आलिङ्गन किया। प्रणाम करते हुए, मेघनादकी पीठ पर उसने अपना कोमल हाथ फेरा और बैठ कर कहने
१. समुपविष्टश्च समुपविष्टां च, समुपविष्टां च ताम्।
| ६५४ | कादम्बरी- | [ कथायाम्- |
|---|
कथय, तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याश्च कुशली वा सकलः तमालिका-केयूरकादिर्^१ परिजनः ?' इति। साब्रवीत्—'देव ! यथाज्ञापयसि भद्रम्। त्वामे-^२ र्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति। एवमुक्तवतीं पत्रलेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश। तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलम्, अतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारप्ररूढायाः^३ स्थलकमलिन्याः पृथुभिरुन्नालैः पलाशैरुप रचिता तप त्रकृत्यायाः^४ अध्यास्य मध्यभागमन्यतरस्य मरकत-पताकायमानस्य पत्रमण्डपस्य^५ तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्या-प्राक्षीत्—'पत्रलेखे ! कथय, आगते मयि^६ कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ठ्यः समभवन् ? कीदृशो वा कथाः समजायन्त ? को वातिश-येनास्मान् स्मरति^७ ? कस्य वा गरीयसी प्रीतिः' इति। एवं पृष्टा च व्यजिज्ञपत्—'देव ! दत्तावधानेन श्रूयताम्, यथा स्थितास्मि, यावन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा
समदलेखा तस्याः। शेखरीकृतो मस्तकालङ्कारीकृतो योऽञ्जलिः पाणिद्वयसंयोगस्तेन।
एवमिति। विसर्जितः परित्यक्तो राजलोकः स्वाधीनतृपतिवर्गो येन स तादृशश्चन्द्रापीडः। विवेश प्रविष्टवान्। उत्ताम्यता कादम्बरीवियोगेन अस्थैर्यं प्राप्नुवता। धारयितुं संवरीतुम् अपारयन् अशक्नुवन् अतिप्रीत्या अत्यधिकस्नेहेन दूरम् उत्सारितो विसर्जितः परिजनो येन सः। अङ्गारप्ररूढाया भवनाभ्यन्त-रोत्पन्नायाः पृथुभिर्विस्तृतैः, तथा उद्गतानि उत्थितानि नालानि येषां तैः, पलाशैः पर्णैः, उपरुचितं विहि-तम् आतपत्रकृत्यं छत्रकार्यं यया तस्याः स्थलकमलिन्याः स्थलपद्मिन्याः, मध्यभागं मध्यदेशम् अध्यास्य अधिष्ठाय, मरकतपताकायमानस्य अश्मगर्भ रत्न रचित वैजयन्तीवदाचरतः पत्रमण्डपस्य पर्णमण्डपस्य तले अधःप्रदेशे सुखप्रसुप्तम् आनन्दशयितं हंसमिथुनं हंसयुगलं चरणारविन्देन पादकमलेन समुत्सार्य दूरीकृत्य। अप्राक्षीत् पृष्टवान्।
पत्रेति। कियन्ति किं संख्यावन्ति वा दिनानि वासराणि स्थितासीति शेषः। देव्याः कादम्बर्याः कीदृशः किद्रूपः प्रसादोऽनुग्रहः। गोष्ठ्यः अन्योन्यसंलापाः। 'गोष्ठी सभासंलापयोः' इति मेदिनी। अति-शयेन आधिक्येन, स्मरति स्मृतिपथमानयति। गरीयसी अतिशयेन गुरुतरा प्रीतिः स्नेहो मयीति शेषः।
एवमिति। अपि च, एवम् उक्तप्रकारेण पृष्टा प्रश्नविषयीकृता पत्रलेखेति शेषः, व्यजिज्ञपत् न्यवेदयत्। दत्तावधानेन चित्तैकाग्र्येण।
लगा—'पत्रलेखे ! माननीया देवी महाश्वेता और मदलेखासहित देवी कादम्बरी सबकी कुशल तो कहो ? एवं तमालिका और केयूरकादि समस्त परिजनवर्ग भी कुशलसे तो हैं?' पत्रलेखाने उत्तर दिया—'राजपुत्र ! जैसे आप पूछते हैं वैसे ही वे कुशल हैं सखी जन और परिजनोंके साथ देवी कादम्बरी मस्तक पर अञ्जलिपुट रखकर आपको नमस्कार करती हैं। इस प्रकार कहती हुई पत्रलेखाको लेकर और समस्त राजाओंको विदा करके वह मन्दिरके अभ्यन्तरमें प्रवेश किया। वहाँ मन विरहसे उतावले होनेके तथा अत्यधिक प्रीतिके कारण वह बहुत देर तक कुतूहलको रोकनेमें समर्थ न हुआ, इसलिए समस्त परिजनोंको हटाकर एक कमरेमें जाकर, एक स्थल-पद्मिनीके मध्यमें प्रवेश कर गया। उसके ऊँचे नाल (दण्ड) वाले और बड़े-बड़े पत्रसमूह छत्र (छाते) का कार्य करते थे। आनन्दसे सोए हुए एक हंस-मिथुनको मरकतमणि-निर्मित पताकाके समान शोभायमान प्रतीत होते एक दूसरे पत्र-मण्डपके तले चरणारविन्द द्वारा सरका कर, वहाँ बैठ कर, पत्रलेखासे पूछने लगा—'पत्रलेखे ! कहो, मेरे आने पर तू किस भावसे वहाँ कितने दिन तक रही ? देवी कादम्बरीका अनुग्रह तुम्हारे ऊपर किस रूपका था ? परस्पर क्या क्या वार्त्तालाप हुआ (बात-चीत हुई)? सहचरियोंसे कैसी कैसी बातें हुईं? [मेरा प्रस्ताव किस रूपमें आया] हमें वहाँ कौन अधिक स्मरण करता है? और मेरे प्रति किसकी अधिक प्रीति मालूम होती है?' इस प्रकार राजपुत्रसे पूछी जाने पर उसने उत्तर दिया—'राजकुमार ! मैं किस भावसे कितने दिन वहाँ रही, देवीका जिस प्रकार अनुग्रह हुआ, परस्पर जो वार्तालाप हुआ, और जैसी कथाएँ हुई
१. केयूरकादिः, केयूरकादिकः।
२. त्वामेव।
३. अगारमचिरप्ररूढायाः।
४. विरचितात्तपत्रकृत्यस्य।
५. शयनमण्डपस्य तालस्य तले।
६. क्वचित् 'मागते मयी'ति पाठो न विद्यते।
७. यो वातिशयेन तव स्मरति यस्य वा त्वयि गरीयसी प्रीतिरस्तीति।
८. इह 'मयि' इत्यधिकः पाठः।
| कादम्बरीकथामुखम् ० १२२ ] | चन्द्रकला-विद्योतिनीसहिता । | ६३५ |
|---|
वा गोष्ठ्यः समभवन्, यादृश्यश्च कथाः समजायन्त, यो वातिशयेन तव स्मरति, यस्य वा त्वयि गरीयसी प्रीतिरस्तीति ।
'ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं¹ तथैव कुसुमशयनीयसमीपे समु-पाविशम् ; अतिदृञ्च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना, प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः², नामाक्षरेषु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवन् अपराह्ने च मामेवावलम्ब्य निष्क्रम्य हिमगृहकान् सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभ-बालोद्यानं जगाम । तत्र सुधाधवलां कालिन्दीजलतरङ्गमय्येव मरकतसोपानमालया प्रमद-वनवेदिकामध्यारोहत्³ । तस्याञ्च मणिस्तम्भावष्टम्भस्थिता⁴ स्थित्वा च मुहूर्त्तन्निव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्त्तु मिच्छन्ती निश्चलधृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयन् । विलोकयन्त्येवं च कृतसङ्कल्पा मदनाग्निं प्रवेष्टुमिच्छन्ती स्नाताविब⁵
तत इति । तथैव प्राग्वदेव, कुसुमशयनीयसमीपे कादम्बर्याः पुष्पशयननिकटे समुपाविशं समुप-विश । देव्याः कादम्बर्याः प्रसादा अनुग्रहास्तान् ।
किमिति । मम 'चक्षुषिः चक्षुः' देव्या इत्यन्वयः, एवं सर्वत्राप्यनुमन्त्रेयः, अनेन सदवलोकनातिशयः 'वपुषि वपु'रित्यनेन सहमातिरेकः, 'करे करपल्लव' इत्यनेन मयि स्नेहाधिक्यम् , 'मम नामाक्षरेषु वाजी वचनम्' अनेन मुहुर्मुहुर्मम नामोच्चारणम् , 'मम प्रीतौ च हृदयम्' इत्यनेन च मम प्रीत्युत्पादने चित्तै-काग्रयं ध्वन्यते । इह समवदित्येकस्यां क्रियायामनेकेषां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगिता ।
अनेति । अवलम्ब्य आश्रित्य । निष्क्रम्य निर्गत्य । यदृच्छया स्वेच्छया सञ्चरन्ती व्रजन्ती निषिद्ध-परिजना निवारितपरिच्छदा, वल्लभं प्रिय यद् बालोद्यानम् अभिनवोपवनं तद् जगाम गतवती । तत्र वल्लभवालोद्याने कालिन्द्या यमुनाया जलतरङ्गैः सलिलकल्लोलैः रचिता कालिन्दीजलतरङ्गमयी तयेव, श्यामलत्वादिन्याद्याशयः, मरकतसोपानमालया अश्मगर्भसोपानपङ्क्त्या करणेन, सुधया चूर्णलेपेन धवला शुक्ला ताम् , प्रमदवनस्य क्रीडोद्यानस्य वेदिका .परिकृतोन्नतभूमिस्ताम् अध्यारोहत अधिरोहण कृतवती । क्रियोत्प्रेक्षा ।
तस्यामिति । अपि च मणिस्तम्भस्य अवष्टम्भेन आश्रयेण तदाधारेणेत्यर्थः । स्थिता उपविष्टा, हृद-येन सह दीर्घकालं बहुसमयम् अवधार्य सम्मन्त्रणेन निश्चित्य । व्याहर्त्तुं कथयितुम् इच्छन्ती अभिल-षन्ती, निश्चलं स्थिरं यथा स्यात्तथा धृता तारका कनीनिका यस्य तेन, निष्पन्दामि निश्चलानि पक्ष्माणि रोमाणि यस्य तेन । व्यलोकयत् अपश्यत् ।
विलोक्येति । विलोक्यन्त्येककृतसङ्कल्पा व्याहर्त्तुं प्राणान् परित्यक्तुञ्चेति शेषः । मदनः काम एव अभ्रिर्वह्निस्तं प्रवेष्टुं प्रवेशं कर्तु म् इच्छन्ती अभिलषन्ती, स्वेदाम्भसो घर्मजलस्य स्रोतसि प्रवाहे स्नातावित्र
[जैसे प्रस्ताव हुआ ], जो आपको अधिक स्मरण करती है और उनमें जिसकी अधिक प्रीति है, यह सब आप मनोयोग (ध्यान) देकर श्रवण कीजिए।"
आपके वहाँसे आने पर 'केयूरकके साथ पीछे लौटकर' मैं पूर्वके समान पुष्प-शय्याके समीप जा बैठी और देवी कादम्बरीके नए नए अनुग्रहका अनुभव करती वहाँ सुखसे रहने लगी । अधिक और क्या कहूँ, वहाँ मेरी आँख, वहाँ देवीकी; जहाँ मेरा शरीर, वहाँ देवीका; जहाँ मेरा हाथ, वहाँ देवीका हस्त-पल्लव; [ विद्यमान था ] वह मेरे नामके अक्षरोंका ही उच्चारण करती थी और मुझसे प्रीति करनेमें 'ही देवीका मन संलग्न था । इस प्रकार उस दिनोंके मध्यमें प्रतिदिन ही होता रहा । सन्ध्याकालमें मेरे ही सहारे हिम-गृहमें से निकल कर, समस्त परिजनोंको साथ आनेमें रोक कर, अपने इच्छानुसार भ्रमण करती वह अपने प्रिय नूतन उद्यान (फुलवारी, बगीचे) की ओर गयी । वहाँ यमुनाके जल-तरङ्गसे निर्मितके समान प्रतीत होती, एक मरकत-मणि की सोपान-माला (सीढ़ियों) पर होकर चूनेकेप (चूने) से शुभवर्ण होते हुए प्रमद-वनकी वेदिका (चबूतरे) पर चढ़ी और उस वेदिकाके ऊपर मणिमयस्तम्भका अवलम्बन (सहारा) लेकर क्षणभर खड़ी रहकर, मनके साथ बहुत समय तक स्थिर विचार करके, मुझसे कुछ कहनेकी अभिलाषासे नयनयुगलकी ताराओं और पलकोंको निश्चल भावसे मेरे मुखकी ओर अधिक काल तक अवलोकन करती रही । अवलोकन करते-करते ही कृतसङ्कल्प होकर मदनानन्दमें प्रवेश करनेकी अभिलाषासे घर्म-जलके स्रोतमें ही मानों स्नान किया । उस प्रवाहसे
१. प्रतिनिवृत्त्या । २. करपल्लवान् । ३. आरोह । ४. मणित्थूणावटन्मस्थिता । ५. व्यलोकयन्त्येव ।
६५६ कादम्बरी- [ कथायाम्-
स्वेदान्भसः स्रोतसि¹, स्रोतसेव तरलीकृता समकम्पत, कम्पिताङ्गी च पतनभियेवागृह्यत विषादेन ।
अथ मया विदिताभिप्रायया तन्मुख-विनिवेशित-निष्कम्प-नयन-दत्तावघानया 'आज्ञापय' इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जया² आत्मप्रतिमामपि लिखित-मणिकुट्टिमेन चरणाङ्गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसान् कुट्टिमोल्लेखमुखर-नूपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विन्नवदनव्यजनीकृतेन³ अंशुकपल्लवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दन्तखण्डितं शिखण्डिने ददती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म
स्नानं कृतवतीव । अन्योऽपि भर्तुकामोऽग्निप्रवेशायाभिलपन् प्रथमं स्नाति । स्रोतसा घर्मप्रवाहेन तरलीकृतेव चालितेव सती समकम्पत । अन्योऽपि घर्मजलेन चालितः सन् कम्पते । विषादेन वियोगोद्वेगेन, कम्पिताङ्गी, कादम्बरी, पतनभियेव च्युतिभीत्येव अगृह्यत अवालम्ब्यत । अन्यमपि अपस्मारप्राप्त्यादिना कम्पिताङ्गं च्युतिभीत्या अन्य आदत्ते । इहाद्ये द्वे क्रियोत्प्रेक्षे, तृतीया च गुणोत्प्रेक्षा ।
अथेति । विदितो ज्ञातः अभिप्रायः कादम्बर्या हृद्गतभावप्रकाशाशयो यया तया, तस्याः कादम्बर्या मुखे वदने विनिवेशिते स्थापिते निष्कम्पे निश्चले नयने लोचने यया सा चासौ दत्तम् अवधानं चित्तैकाग्र्यं यया सा चेति तया । विज्ञापिते निवेदने कृते । वेपथुमद्भिः कम्पवद्भिः निजावयवैः स्वाङ्गरपि निवार्यमाणेव निषिध्यमानेव । अन्योऽपि कम्पयुक्तः सन् बन्धुमनर्थान्निषेधयति । रहस्यस्य गोपनीयवस्तुनः श्रवणलज्जया आकर्णनत्रपया । अग्रिमवाक्येऽप्येवत्कारणमित्यवधेयम् । लिखितं संघृष्टं मणिकुट्टिमं रत्नबद्धभूमिः येन तेन चरणाङ्गुष्ठेन पादाङ्गुष्ठेन, अपक्रमायेव अपसारणायेव, आत्मप्रतिमानपि निजप्रतिविम्बमपि आमृशन्ती स्पर्शं कुर्वन्ती । कुट्टिमस्य बद्धभूमेः उल्लेवेन घर्षणेन मुखरं वाचालं नूपुरं पादकटकं यस्य तेन, चरणारविन्देन पादकमलेन, भवनकलहंसान् गृहकादम्बान् विसर्जयन्ती अपसारयन्तीव, चरणे नूपुरशब्दो नास्ति मन्ये तस्माद् स्थानादपसरणस्यैव स शब्द इत्यभिप्रायः । स्विद्यतो घर्माक्तीभवतो वदनस्य मुखस्य व्यजनीकृतेन अंशुकपल्लवेन वस्त्रप्रान्तेन, कर्णोत्पलमधुकरानपि श्रवणोत्पलभ्रमरानपि उत्सारयन्तीव दूरीकुर्वन्तीव । शिखण्डिने गृहमयूराय, दन्तैर्दशनैः खण्डितं चर्वितम्, ताम्बूलवीटिकायाः नागवल्लीदलवीटिकायाः शकलं खण्डम् उत्कोचमिव अपसारणार्थं 'रिश्वत' इति यवनभाषाप्रसिद्धं गुप्तं द्रव्यदानमिव ददती अर्पयन्ती । अन्योऽप्यर्थी स्वाभीष्टस्थानादपसर्तुं कस्मैचित् द्रव्यं ददाति । तथा वनदेवतानाम् अरण्याधिष्ठात्रीणां श्रवणात् आकर्णनात् शङ्कितेव सती। लज्जया त्रपया कलितो विहितो गद्गदः अस्फुटस्वरो यस्याः सा, गदितुम् अभिधातुं न शक्नोति स्म न समर्था बभूव ।
इह 'निवार्यमाणेव' 'अपक्रमायेव' 'शङ्कितेव' इत्येतेषु वाच्याः क्रियोत्प्रेक्षालङ्काराः । 'विसर्जयन्ती' 'उत्सारयन्ती' इत्युभयत्र प्रतीयमानक्रियोत्प्रेक्षे । 'उत्कोचमिव' इत्यत्र तु जात्युत्प्रेक्षालङ्कारः ।
सञ्चालित होकर ही मानों काँपने लगी और उस समय कम्पित होनेके कारण गिर जानेके भयसे ही मानो विषाद ने आकर उनको पकड़ लिया ।
उसके बाद मैने उनका अभिप्राय समझ लिया और उनके मुख-मण्डल पर निश्चल भावसे नेत्रोंको रख मनोयोगपूर्वक उनसे कहा—'देवि ! आप अपने मनका भाव व्यक्त करें' इस प्रकार निवेदन करनेपर उनके अवयव भी कम्पित होकर मानो उसको रोकने लगे; गुप्त-विषय सुननेकी लज्जासे अपने प्रतिबिम्बको भी मानो हटानेके लिए चरणके अङ्गुष्ठसे मणि-मय भूतल कर्षेण (घिस) कर वह उसे स्पर्श करने लगी; मणि-मय भूतलपर अङ्गुष्ठ घर्षण (घिसने) से शब्दायमान (झनझनाहट करते) नूपुरवाले चरणकमलोंसे गृहपालित कलहंसोंको भी मानों दूर भगाने लगीं; घर्माक्त मुखमण्डल पर हवा करनेके लिए सञ्चालित वसनाञ्चलसे कर्णोत्पलस्थित भ्रमरोंको भी मानो उड़ाने लगीं; गृह-पालित मयूरोंको (बकवा न करनेके लिए) उत्कोच (रिश्वत) के समान दन्त-चर्वित ताम्बूल खण्डको देने लगीं; 'वनदेवताएँ सुन लेगीं' इस आशंकासे मानो बारम्बार इधर-उधर दृष्टिपात करने लगीं; और
१. स्वेदान्भःस्रोतसि ।
२. नप्रतिमाम् ।
३. स्विन्नवदनव्यजनक्षिप्तेन ।
४. ददवान्... ।
कादम्बरीवार्त्ताश्रवण० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६५७
किञ्चिदपि लज्जाकलितगद्गदं गदितुम् । प्रयत्नतोऽपि चास्यां निःशेषं ज्वलता मदनानलेनेव दग्धा, प्रवहता नयनोदकेनेवोढा, प्रविशद्भिर्दुःखैरिवाक्रान्ता, पतद्भिः कुसुमचापशरैरिव शकलीकृता, निष्पतद्भिर्निश्वासितैरिव निर्वासिता, हृदयवर्त्तिभिश्चिन्ताशतैरिव विवृता, निश्वासपायिभिः मधुकरकुलैरिव निपीता, न प्रावर्त्तत वाणी । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलविन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयाति-
प्रत्नत इति। अस्याः कादम्बर्या वाणी वाक्, निःशेषं समस्तावयवं यथा स्यात्तथा ज्वलता कामाग्निना दग्धेव सती, प्रवहता स्रवता नयनोदकेन अश्रुणा ऊढा सङ्गाह्य प्रापितेव सती, प्रविशद्भिः वदनच्छिद्रद्वारा हृदयं प्राप्नुवद्भिः दुःखैः क्लेशैः आक्रान्तेव व्याप्तेव सती, पतद्भिः उपरि पतनं कुर्वद्भिः कुसुमचापस्य कामस्य शरैर्वाणैः शकलीकृता खण्डीकृता छिन्नेव सती, निष्पतद्भिर्निःसरद्भिः निश्वासवायुभिः वदनानिलैः निर्वासिता बहिष्कृतेव सती, हृदयवर्त्तिभिः मानसख्यायिभिः चिन्ताशतैः विवृता आकृष्टेव सती, निश्वासपायिभिः वदनानिलपानकारिभिः तिरतिशयसौरभत्वादित्याशयः, मधुकरकुलैः भ्रमरसमूहैः निपीतेव पानविषयीकृतेव सती च, प्रयत्नतोऽपि अत्यधिकोद्योगानपि न प्रावर्त्तत वदनान्न निरगच्छत् । इह प्रत्येकविशेषण एव क्रियोत्प्रेक्षा ।
केवलमिति । कादम्बरी अधोमुखी अवाङ्मुखी सती दुःखसहस्रगणनाय क्लेशसहस्रपृथक्संख्याविधानाय मुक्ताक्षमालिकां मुक्तामयजपमालां कल्पयन्तीव रचयन्तीव, अवाङ्मुखत्वादेव अस्पृष्टकपोलस्थलैः विद्यमानैः गलद्भिः स्रवद्भिः शुचिभिः श्वेततवर्गैः नयनजलविन्दुभिः बाष्पकणैः केवलं दुर्द्दिनं वृष्टिम् अदर्शयत् प्रकटनकारयत् । इह क्रियोत्प्रेक्षा । 'घनान्धकारे वृष्टौ च दुर्द्दिनं कवयो विदुः' इति कोशः ।
तदेति । अपि च, लज्जा त्रपापि तदा तस्मिन् समये तस्याः कादम्बर्याः सकाशात् लज्जालीलां त्रपाकार्यं सङ्कुचितभावम् अशिक्षतेव शिक्षितवतीव । लज्जाया लज्जा जाता, अर्थात् लज्जावशाङ्गना सङ्कुचिताऽभवदित्यनेन न्यूना लज्जा जातेति प्रतीयते । यदि लज्जा प्रबला स्यात्तदा चन्द्रापीडप्रणयो वाण्या कथं प्रकाशयेत ? किन्तु विश्वासवशात्तस्या न्यूनत्वे सति प्रणयप्रकाशनं सञ्जातसित्यभिप्रायः । परमार्थतस्तु—इयन्तं समयपर्यन्तं लज्जा स्वकृत्यं सङ्कुचितभावं न जानाति स्म, तस्याः सकाशात् शिक्षगोत्तरमेव तं प्रकाशितवतीति रहस्यम् ।
इह क्रियोत्प्रेक्षालङ्कारः, तेन च कादम्बर्याः निरतिशयलज्जया संकुचितभावो, ध्वन्यत इत्युक्तद्वारेण वस्तुध्वनिः । उत्तरत्राप्येवंविध एवाभिप्रायोऽलङ्कारो ध्वनिश्चोहनीयः । विनयः शिष्टाचारोऽपि
बोलनेकी अभिलाषा रहने पर भी लज्जासे कण्ठ गद्गद (स्वर अस्पष्ट) हो जानेके कारण कुछ भी बोलनेमें समर्थ न हुई। उनकी वाणी मानो प्रज्वलित मदनानलने निःशेष करके दग्ध कर (जला) दी हो, अनवरत नयन-जल-प्रवाहने मानो वह (सञ्चालित होकर ले) गई हो, हृदयमें प्रवेश करते हुए ही मानो दुःखों ने आक्रमण किया हो, मदनके बाण गिरते रहनेसे ही मानो टुकड़े-टुकड़े कर दी गई हो, निकलने हुए निश्वासों ने मानो निर्वासन कर (बाहर निकाल) दी हो, 'हृदय में रहनेवाली सैकड़ों चिन्ताओने मानों आकर्षण कर (पकड़) गल्ता हो और निश्वासको पान करते हुए भ्रमरों ने मानो पान कर लिया हो—इस प्रकार विशेष यत्न करने पर भी निकलनेमें प्रवृत्त न हुई । हजारों दुःखोंकी गणना करनेके लिए ही मानो मोतीके दानों की जपमाला निर्माण करती हों, इस प्रकार वह अधोमुख होकरके, कपोल (गाल) का स्पर्श न करें ऐसे निर्मल अश्रु-बिन्दुओंके द्वारा केवल वृष्टि प्रदर्शन करने लगीं।
उस समय लज्जाने भी मानो उनके समीपसे लज्जाके कार्यकी शिक्षा ली, विनयने भी मानो अत्यन्त
१. लज्जाकुलितगद्गदया। २. क्वचिद् 'अस्याः' इति पदं न विद्यते । ३. दग्धा। ४. मोहिता। ५. निश्वासितैरिव, श्वसितैरिव । ६. आकृष्टा । ७. निश्वासनायिभिः, निश्वासपातिभिः। ८. लज्जापि लज्जां लीलामिव शिक्षिता विनयोपदेशम् ।
६५८] कादम्बरी- [कथायाम्-
शयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमोऽपि विभ्र- मिताम्; विषादोऽपि विषादिताम्, विलासोऽपि विलासम्। तथाभूता च 'देवि! किमिदम्' इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षेणात्मनः समुद्बन्धनायेव मृणालकोमलया बाहुलतया वेदिकाकुसुम- पालिकाग्रथित-कुसुममालामवलम्ब्य समुन्नतेकभ्रूलता मृत्युमार्गम्$^१$ इवावलोकयन्ती दीर्घ- मुष्णञ्च निश्वसितवती। तद्दुःखमुत्प्रेक्षमाणया च$^२$ कथनाय पुनः पुनरनुबध्यमाना मया व्रीडया नखमुख-विलिखितकेतकीदला$^३$ लिखितेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु सन्दिशन्ती क्षितितल-निहित-निश्चल-नयना सुचिरमतिष्ठत्। क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनः पुनरप्यापूर्यमाणलोचनच्युतैर्मदनानल्धूम-
विनयातिशयम् अशिक्षतेव। विभ्रमोऽपि अधीरताऽपि, विभ्रमिताम् अधीरताम्। विषाद इष्टवियोगेषु प्रातिकूल्यरूपः।
तथेति। लोहितायमानो निरन्तररोदनादारक्तवर्ण उदरे अभ्यन्तरे ययोस्तथोक्ते लोचने नयने प्रमृज्य प्रोन्द्य। दुःखप्रकर्षेण क्लेशातिशयेन आत्मनः स्वस्य समुद्बन्धनायेव संयतायेव मृणालवत् बिसवत् कोमलया मृदुलया बाहुलतया भुजवल्ल्या करणभूतया, वेदिकाकुसुमानां या पालिका रक्षिका दासी तया ग्रथिता गुम्फिता या कुसुममाला पुष्पस्रक् ताम् अवलम्ब्य आश्रित्य, समुन्नता ऊर्ध्वमुपगता एका भ्रूलता यस्याः सा अत एव मृत्युमार्गं यमपन्थानम् अवलोकयन्तीव पश्यन्तीव सती। इहाद्या फलोत्प्रेक्षा अपरा क्रियोत्प्रेक्षैत्युभयोश्च मिथो नैरपेक्ष्येण संसृष्टिः।
तदिति। किञ्च, तस्याः कादम्बर्या दुःखं क्लेशम् उत्प्रेक्षमाणया स्वप्रज्ञया सम्भावयन्त्या (मया), पुनः पुनः भूयो भूयः कथनाय अभिधानाय अनुबध्यमाना अनुरुध्यमाना, व्रीडया लज्जया नखमुखेन नखाग्रेण विलिखितं व्रीडास्वभावात् संघृष्टं केतकीदलं यया सा, अत एव वक्तव्यं कथनीयं विषयं लिखित्वा लिपीकृत्य अर्पयन्तीव ददतीव, विवक्षया वक्तुमिच्छ्या स्फुरितश्चलितः अधरो यस्याः सा, अत एव निश्वासमधुकरान् वदनानिलपानाथौपस्थितभ्रमरान् उपांशु रहसि सन्दिशन्तीव कथयन्तीव, क्षितितले भूतले निहिते स्थापिते निश्चले निस्पन्दे नयने लोचने यया सा तादृशी सती, सुचिरं बहुकालपर्यन्तम् अतिष्ठत् स्थिता।
क्रमेणेति। भूयः पुनरपि मन्मुखे मद्वदने दृष्टिं निधाय स्थापयित्वा। आपूर्यमाणाभ्यां लोचनाभ्यां नयनाभ्यां च्युतैः पतितैः वाष्पजलबिन्दुभिः अश्रुकणैः, मदनानण्डलस्य कामाग्नेः धूमेन धूसरं मलिनाम्
विनयका अभ्यास किया, मुग्धता (अनभिज्ञता) ने भी मानो मुग्धता की शिक्षा ली, सौन्दर्यने भी मानो सौन्दर्यका अभ्यास किया, भयने भी मानो भीरुता की शिक्षा ली, अधैर्यने भी मानो अधीरता की शिक्षा ली, विषादने भी मानो विषादिताका अभ्यास किया और विलासने भी मानो विलासकी शिक्षा ली।
इस प्रकार उनकी अवस्था होने पर मैंने उनसे विनती की—'देवि! यह कैसा व्यापार है?' तब उन्होंने अभ्यन्तरसे रक्तवर्ण हुए अपने नयनयुगल पोंछ डाले, अत्यन्त दुःखसे अपनेको उद्बन्धन करने (फाँसी लगाने) के लिए ही मानो मृणाल तुल्य कोमल बाहुलता द्वारा वेदिका-पुष्परक्षिणी दासी (लता-गृह की मालिन) की गूंथी हुई एक पुष्प-मालाको पकड़ कर, मृत्यु का मानो मार्ग देखती हों इस प्रकार एक भ्रू-लताको उन्नतित (ऊँची चढ़ा) कर, वह दीर्घ और उष्ण निश्वास (लम्बी और गरम साँस) छोड़ने लगीं। उनके मनोदुःखकी सम्भावना कर कहनेके लिए मैंने बारम्बार अनुरोध किया, उस समय वह लज्जाके कारण वक्तव्य विषयको नखाग्रद्वारा केतकीके पत्र पर लिख कर ही मानो समर्पण करने लगीं और बोलनेकी अभिलाषासे अधर स्पन्दित होने (होठ फड़कने) लगे, उससे वह निश्वास-पान करनेके लिए आए हुए भ्रमरोंके समीपमें ही मानो गुप्त विषय कहने लगीं और भूमि पर निश्चलभावसे नेत्र रख कर अधिक काल तक खड़ी रहीं।
क्रमशः फिर मेरे मुखकी ओर दृष्टि रखकर मन्मथाग्निके धूमसे धूसरवर्ण हुई अपनी वाणीको परिपूर्ण
१. मृत्युपाशम्। २. तद्दुःखकारणं ततो दुःख। ३...विलिखितकेतकीदला। ४. पुनरप्यापूर्यमाण।
कादम्बरीवार्त्ताश्रवणाव० १२२ ] चन्द्रकला-विद्योतिनीसहिता । ६५६
धूसरां वाचमिव प्रक्षालयन्ती बाष्पजलविन्दुभिः, बाष्पजलविन्दुव्याजेन च विलक्ष-स्मित-स्फुरितैर्दशनांशुभिः साध्वस-विस्मृतान् पूर्वान्$^१$ अभिधेयवर्णानिव ग्रथ्नती कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम्—'पत्रलेखे ! वल्लभतया तस्मिन् स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवतीदर्शनात्प्रभृति प्रियाऽसि । न जाने केनापि कारणेनापहस्तित$^२$-सकलसखीजनं त्वयि विश्वसिति$^३$ मे हृदयम् । कमपरमुपालभे, कस्य वाऽन्यस्य कथयापि परिभवम्, केन वाऽन्येन साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यमद्य$^४$ निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते, स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतान्यहृदयेन । कथमिव मादृशीरजनिकर-किरणा-
अस्फुटामित्यर्थः । वाचं स्वयमुच्चार्यमाणं वचनं प्रक्षालयन्तीव धौतं कुर्वन्तीव सती । अपि च, विलक्षस्मितं सलज्जमन्दहास्यं तेन स्फुरितैर्दीपितैः दशनांशुभिः दन्तमयूखैः, साध्वसेन भयेन विस्मृतान् स्मरणरहितान्, पूर्वान् पूर्वनिर्दिष्टान् बाष्पजलविन्दुव्याजेन अश्रुकणच्छद्मना विद्यमानानिति शेषः, अभिधेयवर्णान् प्रतिपाद्यविषयसूचकाक्षराणि ग्रथ्नतीव गुम्फतीव सती । इहाश्रुकणानां गोलाकारतादिरूपत्वेन अक्षरसादृश्यं दशनांशूनाञ्च विस्तृतत्वेन सूत्रसादृश्यम्, अत एव च तैस्तेषां गुम्फनमुपपद्यत इत्यवधेयम् । आत्मानं स्वं व्याहाराभिमुखं भाषणाद्योद्यतमू अकरोत् व्यदधात् । इह सापह्नवा भियोत्प्रेक्षा ।
अब्रवीदिति । अब्रवीत् अवादीत् । स्थाने विषये । यन्न स्थाने, भवती त्वम् . दर्शनात्प्रभृति अवलोकनादारभ्य प्रिया वल्लभाऽसि । अपक्रान्तो हस्ताद्द्वयपस्तः स कृत इत्यपहस्तितः कर्मणि क्तः। अपहस्तिता निष्कासिताः सकलाः समस्ताः मत्सखीजनाः सहचरीवर्गा येन तत्, मे मम हृदय चित्तं कर्तृ, केनापि प्रतिपादयितुमशक्येन हेतुना त्वयि भवत्यां विश्वसिति विश्वासं विधत्ते, इति न जाने नाकल्यामि इत्यन्वयः ।
कमिति । अपरमन्यं कम् उपालभे निन्दामि, परिभवं कामदेवजनितमत्याचारम्, कथयामि निवेदयामि । दुःखं मानसक्लेशम् साधारणीकरोमि विभजामीत्यर्थः ।
दुःखैति । असह्यं सोदुमशक्यम् इमम् अनुभवविषयीभूतं दुःखभारं क्लेशातिशयं, निवेद्य कथयित्वा, भवत्यास्तव निकटे जीवितं जीवनं त्यक्ष्यामि विसर्जयिष्यामि ।
ननु 'शोकक्षोभे च हृदयं प्रलापैरेव धार्यते' इत्यभियुक्तोक्तिदिशा सहचरीभ्यः श्रावयित्वा क्लेशातिशयोऽयमल्पीक्रियतामित्यत आह—जीवितेनैवेति । जीवितेनैव निजजीवनेनैव, ते तव निकटे शपामि शपथ करोमि । विदितो ज्ञातो वृत्तान्त उदन्तो येन तेन, अमुना स्वहृदयेनापि निजस्वान्तेनापि जिह्रेमि त्रपे, अतःएव अन्यहृदयेन किमुत कथनीयमित्यर्थः । सुतरां न सम्भवितुमर्हति परेभ्यो निवेदनमित्याशयः ।
कथमिति । मादृशी शैशवातिक्रान्तत्वादुद्भूतविचारशक्तिरिव्याशयः । कौलीनेन, सहसात्मसमर्पणा-
नेत्रोंमेंसे विगलित (गिरते) बाष्प-विन्दुद्वारा मानो वारम्वार प्रक्षालन करती (धोती) हुई, और वाष्प-विन्दुओंके बहाने भयवश पूर्वनिर्दिष्ट भूले हुए वक्तव्य विषयोंके अक्षरोंको लज्जा-युक्त मन्द-हास्यसे प्रकाशित हुई दन्त-रश्मियोंसे मानो ग्रथन करतीं (गूँथती) हुई देवीने किस प्रकारसे अपने आप ही बोलनेमें साहस किया और मुझसे कहा—पत्रलेखे ! प्रियताके कारण जिस स्थानमें तू है, उस स्थान में न पिता है, न माता है, न महाश्वेता है, न मदलेखा है, न मेरे प्राण हैं । जबसे तुझे देखा है तबसे ही तू मेरी प्रिय हो गई है। मैं नहीं जानती कि मेरा हृदय क्यों सब सखियोंको भी दूर रख कर तुम्हारे ऊपर ही विश्वास करता है। मैं और किसकी निन्दा करूँ ? अन्य किसके समीपमें ही इस अत्याचारकी कथा कहूँ ? अन्य किसको इस दुःख को विभक्त कर दूँ ? तो आज तुम्हारे समीपमें इस असह्य दारुण दुःखको जता कर अब मैं अपना जीवन त्याग कर दूँगी । मैं तुम्हारे निकटमें अपने जीवनकी शपथ लेती हूँ । मेरा हृदय भी यह वृत्तान्त जानता है, इसलिए मैं उससे भी लज्जित होती हूँ, फिर अन्य किसीके हृदयका तो कहना ही क्या है ? मेरे समान कन्या चन्द्र-किरणोंके समान
१. अपूर्वान् । २. अप्रहस्तित... । ३. निःश्वसिति । ४. क्वचित् 'दुःखभारमसह्यम्' इत्येव पाठः ।
६६० कादम्बरी [ कथायाम्- .
वदातं कौलीनेन^१ कलङ्कयिष्यति कुलम् , कुलक्रमागतञ्च लज्जां परित्यक्ष्यति, अकन्यकोचिते^२ वा चापले चेतः प्रवर्त्तयिष्यति । साहं न सङ्कल्पिता पित्रा, न दत्ता मात्रा^३, नानुमोदिता गुरुभिः, न किञ्चित् सन्देशामि, न किञ्चित् प्रेषयामि, नाकारं दर्शयामि, कातरेयं अनाथेव नीचेयं बलादवलिप्तेन गुरुगहर्णीयंतां^७ नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमच- माचारः, किं परिचयस्येदं फलम् , यदेवमभिनव-बिस-किसलय-तन्तु-सुकुमारं मे मनः परि- भूयते । अपरिभवनीयो^८ हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेपुशराः खण्डयन्ति, पश्चान्मर्माण । तदामन्त्रये
जनापवादेन, रजनिकरस्य शशिनः किरणवद् अवदातं निर्मलं कुलं वंशं कथमिव कलङ्कयिष्यति कलङ्क- वत् कलङ्कयुक्तं विधास्यति न कथमपीत्यर्थः । अप्रशस्ता कन्या अकन्यका, एवञ्च अकन्यकोचिते अप्रशस्त- कन्यायोग्यं, चापले मदनचाञ्चल्ये स्वेनैव निजार्पणे चेतो हृदयं प्रवर्त्तयिष्यति प्रेरयिष्यति ।
साहमिति । साहं कादम्बरी, पित्रा जनकेन न सङ्कल्पिता परिणयेन दातुमभिमता, न मात्रा जनन्या दत्ता अर्पिता, गुरुभिर्मातुलादिभिः नानुमोदिता न समर्थिता । सन्दिशामि वाचिकं कथयामि । किञ्चिद् मदनोपाशनादिकं न प्रेषयामि प्रेषणं करोमि । आकारं स्वरूपविकारं शृङ्गारव्यापारमित्यर्थः । इह तथापीति अध्याहर्त्तव्यम् । कातरा सामर्थ्यहीना, अनाथा परित्राणरहिता । अवलिप्तेन आत्मना प्रवृत्तैर्दर्पितेन कुमारेण अनुद्वाहितेन चन्द्रापीडेन गुरुभिर्महद्भिः गर्हणीयतां निन्दनीयतां नीता प्रापिता निजसौन्दर्यावलोकनेनैव मदनविह्वलीकृतत्वादित्याशयः । इह हेतोरभावेऽपि महानिन्दनीयताप्रापणरूप- कार्योत्पत्तेर्विभावनालङ्कारः ।
कथयेति । कथय अभिधेहि, महतां सत्पुरुषाणाम् । आचारः कुलक्रमागतव्यवहारः । परिचयस्य संस्तवस्य । अभिनवं नूतनं यद् बिसकिसलयं मृणालपल्लवं तस्य तन्तुः सूत्रं तद्वत् सुकुमारं कोमलम् । परिभूयते आक्रम्य स्वाधीनीक्रियते । नन्वेतेन का हानिरित्यत आह—अपरीति । हि यस्मात् यूनां तरुणेः, कुमारिकाजनः कन्याजनः अपरिभवनीयः आक्रम्याधीनीकर्त्तुं न योग्यः, अधर्मात्पत्तेरित्याशयः । इह सामान्येन विशेषसमर्थनादर्थान्तरन्यासः स च वैधर्म्यपुरस्कृतो वेदितव्यः । तथा 'अमुक्ता भवता नाथ !' इतिवत् मुख्यस्य नञर्थस्य 'अपरिभवनीय' इत्यत्र समासेन गुणीभावाद्विधेयाविमर्शदोषः समापतति, स च नञः पार्थक्यकरणेनैव समाधातुं शक्यः ।
प्रायेणेति । प्रथमम् आदौ । दहति भस्मीकरोति विलोपयतीत्यर्थः । कुसुमेषुशराः मदनबाणाः विनयादिक शिष्टाचारदिकं खण्डयन्ति शकलीकुर्वन्ति छिन्दन्तीत्यर्थः ।
मर्मच्छेदे प्राणवियोगस्य निश्चितत्वादाइ-तदिति । तत्तस्मात् कारणाद , आमन्त्रये अभ्यर्थयामि,
निर्मल कुलको लोकापवादद्वारा कलङ्कित कैसे करेगी ? और किस प्रकार ही कुलक्रमागतका परित्याग करेगी ? और निन्दनीय कन्याओंके उपयुक्त चञ्चलनामें कैसे चित्तको प्रवर्त्तित करेगी ? पिताने मुझे देनेके लिए अपना मत नहीं दिया, माताने मां दान नहीं किया और गुरुजनोंने भी अनुमोदन नहीं किया, इसलिए मै कोई भी सन्देश नहीं कहती हूँ, न उस प्रकारका कोई उपहार भी भेजती हूँ और न कोई आकृतिक विकार दिखाती हूं; तथापि गर्वित-स्वभाव कुमार चन्द्रापीडने मुझे कातरताके समान, अनाथके समान एवं नीच जातियोंके समान बलपूर्वक अत्यन्त निन्दाके पात्र बना दिया है । तू ही कह—क्या यह महापुरुषोंका व्यवहार है ? क्या यह परि- चयका फल है कि—नूतन-मृणालसूत्रके समान मेरे कोमल मनको इस रीतिसे आकुल कर दिया जाता है ? क्योंकि युवकोंको तो प्रायः कन्याओंको आकुल करना उचित नहीं है [ अर्थात् कन्याओंके साथ कभी बलात्कार नहीं करना चाहिए ] । कामाग्नि प्रायः सर्वप्रथम लज्जाको दग्धकर देती (जला डालती) है, उसके बाद हृदयको; कामके बाण तो सर्वप्रथम विनयादिका खण्डन करते हैं, तदनन्तर मर्म-स्थानका अ, एव इन्मान्तरमें
१. कौलीनेन । २. अन्यकन्यकोचिते, अन्यकन्यकाजनोचिते । ३. सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता । ४. कातरा च इतरेव । ५. कातरा चानाथेव । ६. अवलिप्तेन । ७. गुर्वी गर्हणीयताम् । ८. अनभिभवनीयः परिभवनीयः ।