भारतकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०३

-असंधेयपक्षमाह-

बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा य-
त्किंचनकारी वेत्यवेत्य संदध्यान्न वा ॥ १७ ॥

बालो वेति । आरोहद्यौवनत्वाद्, नैकत्रदृष्टिस्तत्रान्यत्र वाऽभिप्रायो-
ऽस्य स काकाक्षिवद् वर्त्तमानः किं दास्यति, अतिसंधानप्रधानो वा,
वञ्चनैकनिष्ठः, हरिद्रारागो वेति । हरिद्राराग इव रागो यस्य, न चिर-
स्थायी, मयि विरक्तो यत्र गतस्तत्रापि विरक्तः पुनरागन्तुकामः किं-
दास्यति, यत्किंचनकारी वा सोऽनर्थमपि कुर्याद्, इत्येवमवेत्य ज्ञात्वा
संदध्यात् प्रथमे पक्षे, न वेति । नैव संदध्यादिति द्वितीये ॥ १७ ॥

इतो निष्कासितापसृतस्ततः स्वयमपसृत उपजपंस्तर्क-
यितव्यः ॥ १८ ॥

तर्कयितव्य इत्युपकारापकाराभ्याम् ॥ १८ ॥

अनुरागादागन्तुकामः स बहु दास्यति मम गुणैर्भावितो योऽ-
न्यस्यां न रमते ॥ १९ ॥

अनुरागादागन्तुकामः, तत्रानिष्कासितत्वाद्, मम गुणैर्भावितोऽ-
नुरञ्जितोऽयं, योऽन्यस्यां न रमते, येन ततोऽपि स्वयमेवापसृतः ॥ १९ ॥

पूर्वमयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं नि-
र्यातयितुकामः, धनमभियोगाद्वा मयाऽस्यापहृतं तद्विश्वास्य प्रती-
पमादातुकामः, निर्वेष्टुकामो वा, मां वर्तमानाद्भेदयित्वा त्यक्तुका-
म इत्यकल्याणबुद्धिरसंधेयः ॥ २० ॥

पूर्वमयोगेनेति । अन्यायेन निष्कासितः, स मां शीलयित्वेति । अनु-
रागप्रदर्शनेनानुप्रविश्य, वैरं निर्यातयितुकामः प्रयच्छन्नप्यहमनया हठा-
न्निष्कासित इति, धनमभियोगाद्वेति । अस्याभियोगमेव कुर्वत्या मया
धनं बह्वपहृतमाकृष्टं, संप्रयोगश्च कादाचित्कः कृतः, तद्धनं स्नेहोपदर्श-
नेन मां विश्वास्य प्रतीपमादातुकामः, निर्वेष्टुकामो वेति । निष्पूर्वो विश-
स्तिर्निर्वेशे भृतौ वर्तते, इदानींतनसंयोगे तदेव धनं निर्वेशं कर्तुकामो-
नान्यद्दातुकामः, मां वा वर्तमानादिति । निष्कास्यैनं येन सह वर्तेऽहं-
तस्माद्वर्तमानाद्दातुकामात् संधानेन मां भेदयति, मा भूदस्या लाभेन
योग इति, स्वयं दास्यतीति चेदाह-त्यक्तुकाम इति । अकल्याणबुद्धि-
र्वैरनिर्यांतनाद्यभिप्रायः ॥ २० ॥

अन्यथाबुद्धिः कालेन लम्भयितव्यः ॥ २१ ॥

अन्यथाबुद्धी रागाद् दातुकामः कालेन, न तदानीमेव तस्य निष्का-

३०४ सटीक कामसूत्रे [ ६ अधिकरणे,

सनेनापादितवैकृतत्वाद्, लम्भयितव्य इति। प्रापयितव्यो न तु प्राप्यः-स्वातन्त्र्येण लाघवात् ॥ २१ ॥

इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः ॥२२॥

एतेनेति। अनन्तरोक्तेन विशीर्णेन व्याख्यातः, अयमपि तथैव तर्कयित्वा; अकल्याणबुद्धिरसंधेयोऽन्यथाबुद्धिः कालेन, न तदानीमेव लम्भयितव्य इति ॥ २२ ॥

तेषूपजपत्स्वन्यत्र स्थिता स्वयमुपजपेत् ॥ २३ ॥

येऽन्यत्र ये च न गताः संधेयास्तेषूपजपत्सु, न त्वनुपजपत्सु लाघवाद्, अन्यत्र स्थितेति। द्विधा-वर्तमाना, त्याज्य इतरस्मिंश्च, कारणापेक्षया स्वयमुपजपेत् ॥ २३ ॥

बहूनि कारणान्याह—

व्यलीकार्थे निष्कासितो मया, असावन्यत्र गतो यत्नादानेतव्यः ॥ २४ ॥

व्यलीकार्थमिति। व्यलीकमपराधो यदन्यस्याभिगमनं तन्निमित्तं मया निष्कासितः स पुनर्दास्यतीति, यत्नादानेतव्यः, ततोऽपि फलेन योगात् ॥ २४ ॥

इतः प्रवृत्तसम्भाषो वा ततो भेदमवाप्स्यति ॥ २५ ॥

इतः प्रवृत्तसम्भाषो वेति। मामुद्दिश्य प्रवृत्तसम्भाषः, इदं ते दास्यामीति, तत इति। यत्र गतस्तस्याः सकाशाद् भेदमवाप्स्यतीति ॥ २५ ॥

वर्तमानस्य वा दर्पविघातं करिष्यामि ॥ २६ ॥

किमन्यस्यै ददासीति तद्दर्पविघातं करिष्यामि, येन तद्दर्पो वर्तमानो विलक्षीभूतो निष्क्रामति ॥ २६ ॥

अर्थागमकालो वाऽस्य, स्थानवृद्धिरस्य जाता, लब्धमनेनाधिकरणं, दारैर्वियुक्तः, पारतन्त्र्याद्व्यावृत्तः, पित्रा भ्रात्रा वा विभक्तः ॥ २७ ॥

अर्थागमकालो वाऽस्य, वणिज्यया सेवया वा, स्थानवृद्धिर्वा, ग्रामादेरधिकस्य लाभाद्, लब्धं वाऽनेनाधिकरणमक्षपटलादिकं, दारैर्वियुक्तः, ममेदानीमवसरः प्राप्तः, पारतन्त्र्याद्व्यावृत्तः, कर्मस्थानेषु गृहे वा स्वतन्त्रः सुखं दास्यति, पित्रा जीवतैव विभक्तः, भ्रात्रा पितरि मृते ॥ २७ ॥

अनेन वा प्रतिबद्धमनेन संधिं कृत्वा नायकं धनिनमवाप्स्यामि ॥ २८ ॥

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०९

अनेन वा प्रतिबद्धमिति । तस्य मित्रत्वाद्, अनेन संधिं कृत्वा संक्र-मस्थानीयेन ॥ २८ ॥

विमानितो वा भार्यया तमेव तस्यां विक्रमयिष्यामि ॥ २९ ॥

विमानितो वेति । मत्तो विशीर्णः स्वभार्यया संसृष्टः, तया चास्म-दमर्षादवमानितोऽहं चाकृष्ट्या तमेव संधाय, तस्यां विक्रमयिष्यामि = विग्रहं कारयिष्यामि, आक्रोशस्य निर्यातनार्थम् ॥ २९ ॥

अस्य वा मित्रं मद्द्वेषिणीं सपत्नीं कामयते तदमुना भेद-यिष्यामि ॥ ३० ॥

अस्य वा विशीर्णस्य मित्रं शक्तिद्रव्यसंपन्नं मद्द्वेषिणीमपकर्तुकामां-न्मम सपत्नीं वर्तमानां भूतपूर्वां वा कामयते, तन्मित्रमधुना विशीर्णेन भेदयिष्यामि, येन सा लाभेन न योक्ष्यते, मां चोपकरिष्यति ॥ ३० ॥

चलचित्ततया वा लाघवमेनमापादयिष्यामीति ॥ ३१ ॥

चलचित्ततया वेति । इतोऽन्यत्र गतस्ततोऽन्यत्र गतस्तमपि चल-चित्ततया लाघवमापादयिष्यामि ॥ ३१ ॥

स्वयमुपजपेदित्युक्तं तस्य स्वरूपमाह—

तस्य पीठमर्ददयो मातुर्दौःशीत्येन, नायिकायाः सत्यप्यनु-रागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः ॥ ३२ ॥

तस्येति । विशीर्णस्य, मातुर्दौःशील्येनेति । मातैवास्या दुःशीला, तयाऽर्थपरतया त्वं निष्कासितः, नायिका त्वय्यनुरक्तैव ॥ ३२ ॥

वर्तमानेन चाकामायः संसर्गं विद्वेषं च ॥ ३३ ॥

केवलं परवशा वर्तमानेन शठ्येन यः संसर्गः संप्रयोगो **नायिकाया-**अनिच्छन्त्या अकामायः औषधपानवद् विद्वेषः परमार्थतो यस्य दर्श-नपथेऽपि न तिष्ठतीति वर्णयेयुः ॥ ३३ ॥

तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यायेयुः ॥ ३४ ॥

तस्याश्चेति । नायिकायाः, साभिज्ञानैरिति । अभिज्ञानं वक्ष्यति, पूर्वानुरागैरिति । पूर्वमविशीर्णे येऽनुरागा आसंस्तएनं प्रत्याययेयुर्नायकं-बोधयेयुः, तथैव प्रतिपद्यते ॥ ३४ ॥

अभिज्ञानं च तत्कृतोपकारसंबद्धं स्यादिति विशीर्णप्रतिसं-धानम् ॥ ३५ ॥

तत्कृतोपकारसंबद्धमिति । नायकेन यः कृत उपकारोऽर्थेनानर्थप्रती-कारेण वा तेन युक्तं स्यात् कृतज्ञतासूचनार्थम् ॥ ३५ ॥

३९ का० सू०

३०६ सटीक कामसूत्रे [ ६ अधिकरणे

अपूर्वस्यासम्भवे विशीर्णप्रतिसंधानमुक्तं, सम्भवति चापूर्वे, विशीर्णे चोपजपति सति, केन संधानं युक्तमित्याह—

अपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्, स हि विदितशीलो दृढरागश्च सूपचरो भवतीत्याचार्याः ॥ ३६ ॥

अपूर्वेति । विदितशील इति । संवासेन ज्ञातस्वभावः, दृढानुरागश्च पूर्वमासक्तत्वात्, स ह्युभयधर्माध्यासितत्वात्कान्तानुवृत्त्या सुखेनोपचर्य्यत इति सूपचरो न त्वपूर्वः ॥ ३६ ॥

पूर्वसंसृष्टः सर्वतो निष्पीडितार्थत्वान्नात्यर्थमर्थदो दुःखं च पुनर्विश्वासयितुमपूर्वस्तु सुखेन नुरज्यत इति वात्स्यायनः ॥ ३७ ॥

नात्यर्थमर्थद इति । अर्थार्थे सन्धीयते स चेन्न यथावत् किं तेन संहितेन, दुःखं च पुनर्विश्वासयितुं तस्य सत्यपि विदितशीलत्वे दृढानुरागित्वे च निष्कासनेनोत्पादितवैरूप्यात्, सुखेनोनुरज्यत इति । तद्गदोषस्यादृष्टत्वात्, तस्य वा निष्पीडितार्थत्वादन्यर्थमर्थद इत्यर्थोक्तम्, अपूर्वो द्विविधः—अन्यवेश्यासंसृष्टोऽसंसृष्टश्चेति, संसृष्टोऽपि द्विविधः—निष्कासितोऽनिष्कासितश्च, तेषां सन्धानोपायो गम्योपावर्तने द्रष्टव्यः ॥ ३७ ॥

तथाऽपि पुरुषप्रकृतितो विशेषः ॥ ३८ ॥

पुरुषप्रकृतित इति । पुरुषस्वभावात्, कश्चिदपूर्वोऽपि दुरुपचरः कदर्थ्यश्च भवति, पूर्वसंसृष्टश्च निष्पीडितार्थोऽपि दाता, निष्कासितोऽपि सविश्वास इति ॥ ३८ ॥

संक्षेपेण सन्धाने कारणं त्रिविधं नायिकान्तरस्थं विशीर्णस्थं वर्तमानस्थं चेति, तदेव दर्शयन्नाह—

भवन्ति चात्र श्लोकाः— अन्यां भेदयितुं गम्यादन्यतो गम्यमेव वा । स्थितस्य चोपघातार्थं पुनः संधानमिष्यते ॥ ३९ ॥

अनियमिति । भेदयितुं विशीर्णात्, ‘तदनेन विमानितो वा भार्य्यया तमेव तस्यां विक्रमयिष्यामि’, ‘अस्य वा मित्रं मद्वेषिणीं कामयते तदमुना भेदयिष्यामि’ इत्युभयमुक्तं वेदितव्यं, स्थितस्योपघातार्थमित्यनेन ‘वर्त्तमानस्य वा दर्पविघातं करिष्यामि’ इत्येतदुक्तम्, अन्यतो गम्यमेव वेति । अन्यस्या नायिकाता विशीर्णं भेदयितुमित्यनेन च विशीर्णस्थं कारणमुक्तम् ॥ ३९ ॥

संप्रयोगार्थं विशीर्णः संधत्ते, तादृशमस्ति संधानं यत्र वर्त्तमानम-

४ अध्याये ] विशीर्णप्रतिसंधानप्रकरणम् । ३०७

तिसक्तं विशीर्णे वाऽनुरक्तमपेक्ष्य तदैव सम्प्रयोग इति दर्शन्नाह—

बिभेत्यन्यस्य संयोगाद्व्यलीकानि च नेक्षते । अतिसक्तः पुमान्यत्र भयाद्बहु ददाति च ॥ ४० ॥

बिभेतीति । यत्र यस्मिन्सन्निधाने वर्तमानेऽतिसंसक्तोऽप्यन्यस्य संयोगाद्विभेति, संयुक्तोऽयं कदा चिदपकरिष्यतीति, व्यलीकानि च नायिकाकृतानपराधान्नेक्षतेऽवधीरयत्यतिसक्तत्वादेव, भयादिति । परित्यागभयाद् बहु ददाति ॥ ४० ॥

असक्तमभिनन्देच्च सक्तं परिभवेत्तथा । अन्यदूतानुपाते च यः स्यादतिविशारदः ॥ ४१ ॥

असक्तमिति । यो विशीर्णोऽप्यनुरक्तत्वाद्धर्तमानमसक्तमभिनन्देद्-विज्ञातभावत्वाद्, यदस्यां न रक्त इति, सक्तं परिभवेद्, अलक्तकावस्थां-प्राप्स्यस्यचिरेणेति, अन्यदूतानुपाते चेति । अन्यस्य सम्बन्धि न्यायाति दूतेऽतिविशारदोऽत्यर्थमर्थदो मा भूदन्येन सन्धानमिति ॥ ४१ ॥

तत्रोपजापिनं पूर्वं नारी कालेन योजयेत् । भवेच्चाच्छिन्नसंधाना न च सक्तं परित्यजेत् ॥ ४२ ॥

तत्रेति । तस्मिन्संधाने, पूर्वमिति । पूर्वसंसृष्टं विशीर्णमुपजापिनं, नारीति । सामान्याभिधानेऽपि प्रकरणाद्वेश्यैव द्रष्टव्या, कालेन योजयेद्, न तदैव सम्प्रयोजयेद्, अन्यथा तदात्व एव वर्तमानेनातिसक्तेन फल-वतां विश्लेषः स्याद्, विशीर्णोऽप्यतिरक्तत्वात् प्रत्याशया कालान्तर-मपेक्षत एव, यदाह-‘भवेच्चाच्छिन्नसंधानेति । विशीर्णेन सहेत्यर्थः, न च सक्तं परित्यजेत्, तदात्व एव तस्य सफलत्वात् ॥ ४२ ॥

सक्तं तु वशिनं नारी संभाष्‍याप्यन्यतो व्रजेत् । ततश्चार्थमुपादाय सक्तमेवानुरञ्जयेत् ॥ ४३ ॥

यस्य तदात्वेऽन्यस्माल्लाभो महान् ; न च सम्प्रयोगं विना तत्र किं-प्रतिपत्तव्यमित्याह—सक्तं त्विति । वशिनं यथोक्तकारिणम्, अन्यत इति । अन्यमुद्दिश्य, ततश्चेति । यत्र व्रजिता सक्तमेवानुरञ्जयेत् कान्ता-नुवृत्त्या तत्र स्थितत्वाद्, नान्यम् ॥ ४३ ॥

प्रतिसंधानात् प्राक् चतुष्टयं निरूप्यमित्याह—

आयतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम् । सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा ॥ ४४ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्ण-प्रतिसंधानं चतुर्थोऽध्यायः ।

३०८ सटीक कामसूत्रे [ ६ अधिकरणे,

आयतिमिति। प्रभावं, लाभमायत्यां, तदात्वे प्रीतिं पुष्कलां निर्व्याजं तस्यात्मविषये, सौहृदमात्मनस्तस्मिन् विषये, विचक्षणेति । परीक्षणे विचक्षणा = कुशला ॥ ४४ ॥

इति विशीर्णप्रतिसन्धानं षट्पञ्चाशत्तमं प्रकरणम् ॥ इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसन्धानं चतुर्थोऽध्यायः ।


पञ्चमोऽध्यायः ।

त्रिविधा वेश्या—एकपरिग्रहा, अनेकपरिग्रहा, अपरिग्रहा चेति, तत्र पूर्वस्या लाभ उक्तः, द्वितीयां वक्ष्यति, तृतीयाया विना परिग्रहमनेकस्माल्लभमानाया लाभविशेषा उच्यन्ते,

तत्रापरिग्रहकारणमाह—

गम्यबाहुल्ये बहु प्रतिदिनं च लभमाना नैकं प्रतिगृह्णीयात् ॥१॥

गम्येति। यदा गम्या बहवस्तेभ्यः स्पर्धया बहु लभते, प्रतिदिनं चैकैकमभिगच्छन्ती तदा नैकं प्रतिगृह्णीयात्, स हि बहु प्रतिदिनञ्च न ददाति ॥ १ ॥

यद्येवमनियतो लाभः ततश्च कश्चित्स्वल्पमपि दद्यात् तद्ग्रहणे चान्येऽपि तावन्मात्रकमेव दद्युरित्याह—

देशं कालं स्थितिमात्मनो गुणान्सौभाग्यं चान्याभ्यो न्यूनातिरिक्तां चावेक्ष्य रजन्यामर्घं स्थापयेत् ॥ २ ॥

देशं सम्पन्नमितरं वा, कालं यत्र काम उद्भूतशक्तिरनुद्भूतशक्तिर्वा, स्थितिः = देशप्रवृत्तिः, यथाऽपरकायं सेवमानस्यैकगुणः पूर्वकायमपि द्विगुणः, आत्मनो गुणान्रूपवैदग्ध्द्यादीन् सतोऽसतो वा, तथा सौभाग्यम्, अन्याभ्य इति। वेश्याभ्यः स्थानमानाभ्यामात्मनो न्यूनत्वं चाधिक्यं चावेक्ष्य तदनुरूपं रजन्यामर्घं स्थापयेद् , इयमेकां रात्रिमियता शेत इति ॥२॥

तत्र यदाऽवस्थापितेनार्घेण गम्य एव स्वदूतसम्प्रेषणेन भाणयति सिद्धं कार्यं, नो चेत्तत्राह—

गम्ये दूतांश्च प्रयोजयेत् तत्प्रतिबद्धांश्च, स्वयं प्रहिणुयात् ॥३॥

तत्प्रतिबद्धान् = गम्यप्रतिबद्धान्, प्रयोजयेदभिप्रायजिज्ञासाऽर्थं, विदिताभिप्राया तु स्वयं प्रहिणुयात् प्रेषयेदात्मीयानित्यर्थः ॥ ३ ॥

दूतसम्प्रेषणाद्गम्यसम्प्रेषणे रजन्यर्घलाभः, तस्मान्नियमितादधिको-

५ अध्याये ] लाभविशेषप्रकरणम् । ३०९

योऽनुरागाल्लभ्यते स लाभातिशयः, तं चेतादेव लभते भद्रकमेव नो चेदत्राह—

द्विस्त्रिश्चतुरिति लाभातिशयग्रहार्थमेकस्यापि गच्छेत् परिग्रह-
कल्पं सकलं च चरेत् ॥ ४ ॥

द्वीति । इतिशब्दो विकल्पार्थः, द्वौ त्रींश्चतुरो वा वारानेकस्यापि मूलं गच्छेत्, परिग्रहकल्पं सकलं चेति । तावत्सु दिवसेष्वन्यनिरपेक्षा-ऽनुरञ्जनविधिमाचरेदित्यर्थः ॥ ४ ॥

इदानीन्नियतमितमतिशयवन्तं राजन्यर्घलाभमधिकृत्यार्थितया द्रव्य-स्वरूपतो गम्यतश्च विशेषमाह—

गम्ययौगपद्ये तु लाभसाम्ये यद्द्रव्यार्थिनी स्यात्तद्दायिनि
विशेषः प्रत्यक्ष इत्याचार्याः ॥ ५ ॥

गम्येति । यदि बहवो गम्या युगपदुपस्थिता एको हिरण्यमपरस्त-त्तुल्यमूल्यं दातुं, ततो येन द्रव्यार्थिनी तद्दायिनि गम्ये लाभविशेषः-प्रत्यक्षः, तेनार्थिनी स्यादित्याचार्याः ॥ ५ ॥

अप्रत्यादेयत्वात्सर्वकार्याणां तन्मूलत्वाद्विरणयद इति वा-
त्स्यायनः ॥ ६ ॥

अप्रेति । हिरण्यमत्र लोकप्रतीत्या कपर्दकाः, ते च दत्ता गम्येन पुनर्न प्रत्यादीयन्ते, वस्त्रादिकं दत्त्वाऽपि किञ्चित्प्रत्यादत्ते, सर्वकार्याणा-मिति । तद्द्द्रव्यमन्यच्च कार्यं सर्वं हिरण्यमूलं, तेन लभ्यमानत्वात् , तेन तत एव विशेषः, तस्मात्तत्रैवार्थित्वं कर्तव्यम् ॥ ६ ॥

सुवर्णरजताम्रकांस्यलोहभाण्डोपस्कारास्तरणप्रावरणवासो-
विशेषगन्धद्रव्यकटुकभाण्डघृततैलधान्यपशुजातीनां पूर्वपूर्वतो वि-
शेषः ॥ ७ ॥

सुवर्णेति । सुवर्णरजते घटिते अघटिते वा, ताम्र कांस्यलोहैर्घटितं-भाण्डोपस्करम्, आस्तरणं = तूलिकादि,प्रावरणं = कम्बलादि,वासोवि-शेषः क्षौमादिः,गन्धद्रव्यं = चन्दनादि, कटुकं = मरिचादि, भाण्डः = पट्ट-खट्वाऽऽदिः, पूर्वपूर्वर्त इति । क्षुद्रपशुजातेर्धान्यं ततस्तैलादिरित्यादिना विशेषः ॥ ७ ॥

पत्तनसाम्याद्वा द्रव्यसाम्ये मित्रवाक्यादातिपातित्वायायतितो-
गम्यगुणतः प्रीतितश्च विशेषः ॥ ८ ॥

पत्तनसाम्याद्वेति । यद्वा गृहस्वरूपानुरूप्येण विशेषः, द्रव्यसाम्य-

३१० सटीक कामसूत्रे [ २ अधिकरणे,

इति । यद्वा द्वावपि रूपतः प्रमाणतस्तुल्यं द्रव्यं प्रयच्छतस्तत्र मित्रवचनमनुष्ठेयं, यत्र वा तदानीमदीयमानमतिपतति, यत्र चायतिः-प्रभावः पुरुषगुणा वा, यत्र गम्ये सति प्रीतिर्वा नायिकायाः, नायकस्य नायिकायां वेति ॥ = ॥

गम्यतो विशेषमाह—

रागित्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ९ ॥

रागीति। रक्तात् त्यागिनो विशेषः प्रत्यक्षः, तदात्व एव द्रव्यप्राप्तेः ॥ ९॥

शक्यो हि रागिणि त्याग आधातुं, लुब्धोऽपि हि रक्तस्त्यजति न तु त्यागी निर्बन्धाद्रज्यत इति वात्स्यायनः ॥ १० ॥

शक्य इति। रागिण्यत्यागिनि, रक्ते शक्यस्त्याग आधातुमुपायेन, कुत इत्याह—लुब्धोऽपि त्यजति द्रव्यं ददाति, निर्बन्धादिति। प्रयासेनापि न रज्यते तस्य तेजस्वित्वाद्, अरक्तस्तु न त्यजति ॥ १० ॥

तत्रापि धनवदधनवतोधनवति विशेषः, त्यागिप्रयोजनकर्त्रोः-प्रयोजनकर्तरि विशेषः प्रत्यक्ष इत्याचार्याः ॥ ११ ॥

तत्रापि धनवदधनवतोरिति । रागित्यागिनोर्यो धनवान्स विशिष्यते नेतरो निर्धनः, प्रयोजनकर्तरीति। नायिकायाः कार्यस्य यः कर्ता तस्मिन्नत्यागिनि विशेषः प्रत्यक्षः, तदात्व एव कार्यकारणात्, त्यागी तु दास्यतीति न प्रत्यक्षः ॥ ११ ॥

प्रयोजनकर्ता सकृत्कृत्वा कृतिनमात्मानं मन्यते त्यागी पुनरतीतं नापेक्षत इति वात्स्यायनः ॥ १२ ॥

सकृत्कृत्वेति । एकवारं कृत्वा, कृतिनमिति। कृतमस्याः कार्यं किमपरं करिष्यामीति, अतीतमिति। दत्तमेवास्यै न पुनर्द्ददामीति नापेक्षते त्यागशीलत्वात् ॥ १२ ॥

तत्राप्यायतितो विशेषः ॥ १३ ॥

आयतित इति । यदा तत्प्रयोजनमधीरितमवपतति तदा तत एव विशेषः ॥ १३ ॥

कृतज्ञत्यागिनोस्त्यागिनि विशेषः प्रत्यक्ष इत्याचार्याः ॥ १४ ॥

कृतज्ञात् त्यागिनि विशेषः प्रत्यक्षो द्रव्यदर्शनाद्, न तु कृतज्ञे तस्यात्यागित्वात् ॥ १४ ॥

चिरमाराधितोऽपि त्यागी व्यलीकमेकमुपलभ्य, प्रतिगणिकया वा मिथ्यादूषितः, श्रममतीतं नापेक्षते, प्रायेण हि तेजस्विनः

५ अध्याये ] लाभविशेषप्रकरणम् । ३११

५ अध्याये ] लाभविशेषप्रकरणम् । ३११

ऋजवोऽप्याहताश्च त्यागिनो भवन्ति, कृतज्ञस्तु पूर्वश्रमापेक्षी न सहसा विरज्यते परीक्षितशीलत्वाच्च न मिथ्या दूष्यत इति वात्स्यायनः ॥ १५ ॥

चिरमिति । दीर्घकालम्, आराधितोऽपि कान्तानुवृत्त्या, व्यलीकं नायिकाऽपराधमुपलभ्य, मिथ्यादूषित इति । मिथ्यैव दोषं ग्राहितः सदैवेयं व्यलीकं कुरुत इति, श्रममतीतमाराधनक्लेशं नापेक्षते, कुत इत्याह- प्रायेण हीति । बाहुल्येन त्यागिनां तेजस्विताऽऽदयस्त्रयो धर्माः संभवन्ति, तत्र तेजस्वितया व्यलीकं नोपेक्षन्ते, ऋजुतया मिथ्यादोषं ग्राह्यन्ते, अत्याहृतत्वाच्छ्रमं नापेक्षन्ते, ततश्च कथं दातारः, पूर्वश्रमापेक्षीति । कृतज्ञत्वादेव सहसा न विरज्यते व्यलीकमुपलभ्यापि, परीक्षितशीलत्वाच्चेति । कृतज्ञतयैव परीक्षणस्वभावत्वान्न मिथ्यैव, दोषं ग्राह्यते ॥ १५ ॥

तत्राप्यायतितो विशेषः ॥ १६ ॥

तत्रेति । स्पष्टम् ॥ १६ ॥

यत्र प्रभावोऽस्ति यथाऽर्थोपगमनहेतुस्तथा मित्रवचनमनर्थप्रतीघातोऽर्थसंशयश्च तेषां विशेषमाह—

मित्रवचनार्थगमयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥ १७॥

मित्रवचनादर्थः प्रत्यक्षस्तस्य दृश्यमानत्वाद्, अन्यत्र तु मित्रवचनमेव केवलम् ॥ १७ ॥

सोऽपि ह्यर्थागमो भविता, मित्रं तु सकृद्वाक्ये प्रतिहते कलुषितं स्यादिति वात्स्यायनः ॥ १८ ॥

सोऽप्यर्थागमः, भविता = भविष्यति, प्रतिहत इत्यननुष्ठिते, कलुषितं रोषितं स्यात्, ततश्च तत्प्रतिबद्धकार्यहानिरेव स्यात् ॥ १८ ॥

तत्राप्यतिपाततो विशेषः ॥ १९ ॥

अतिपातत इति । यदा तदानीमुपेक्षितोऽर्थोऽतिपतति तत एव विशेषः ॥ १९ ॥

मित्रं कलुषितं स्यादिति चेदाह—

तत्र कार्यसंदर्शनेन मित्रमनुनीय श्वोभूते वचनमस्त्विति ततोऽतिपातिनमर्थं प्रतिगृह्णीयात् ॥ २० ॥

तत्रेति । कार्यसंदर्शनेनेति । यन्मम कार्यं तत्तवापि कार्यं चेदिदं महदुपस्थितमतिपतति त्वद्वचनं च श्वः कर्तास्मीत्युनुनयपूर्वमुक्त्वा प्रतिगृह्णीयात् ॥ २० ॥

३१२ | सटीके कामसूत्रे | [ ६ अधिकरणे,


अर्थागमानर्थप्रतीघातयोरर्थागमे विशेषः प्रत्यक्ष इत्याचार्याः ॥ २१ ॥

अर्थागमे विशेषः प्रत्यक्ष इति । दृश्यमानत्वात् ॥ २१ ॥

अर्थः परिमितावच्छेदोऽनर्थः पुनः सकृत्प्रसृतो न ज्ञायते-कावतिष्ठत इति वात्स्यायनः ॥ २२ ॥

अर्थः परिमितावच्छेद इति । अस्यावच्छेद इयत्ता सा परिमिता स्वल्पा रजन्यर्घस्यानतिशयात्, सकृत्प्रसृत इति । अखण्डितप्रसरत्वादेकपुरुषप्रसृतो न ज्ञायते कावतिष्ठते किं मूलघाते शाखाघाते वेति, अत्र मधुबिन्दूपाख्यानमुदाहरणम् ॥ २२ ॥

तत्रापि गुरुतालाघवकृतो विशेषः ॥ २३ ॥

गुरुतालाघवकृत इति । लघोरनर्थात्प्रतिकर्त्तव्याद् गुरुरनर्थो विशिष्यते लघुश्चेद् गुरुरनर्थ इति ॥ २३ ॥

एतेनार्थसंशयादनर्थप्रतीकारे विशेषो व्याख्यातः ॥ २४ ॥

एतेनेति । अनन्तरोक्तेन पूर्वोत्तरपक्षेण, एकस्मादर्थः स्यान्न वेति संशयः, अन्यस्मादनर्थप्रतीकारः, तदाऽर्थसंशये विशेषः प्रत्यक्षः, तत्र हि संशयितेऽपि लोकस्य प्रवर्त्तनात्, परिमितावच्छेदोऽर्थोऽनर्थः पुनः सकृत्प्रसृतो न ज्ञायते कावतिष्ठत इति, अत्रैव विशेषः, न लघोरनर्थात्प्रतिकर्त्तव्याद् गुरावर्थे संशयिते विशेष इति व्याख्यातः ॥ २४ ॥

एवं द्विविधेन रजन्यर्घेण विशेषितेन यदुपचितं धनं स प्रकृष्टो नाम लाभातिशयः प्रधानार्थस्य साधनाद्, अतस्तद्द्वारा कर्त्तव्यं दर्शयन्नाह—

देवकुलतडागारामाणां करणं, स्थलीनामग्निश्चैत्यानां निवन्धनं, गोसहस्राणां पात्रान्तरितं ब्राह्मणेभ्यो दानं, देवतानां पूजोपहारप्रवर्त्तनं, तद्व्ययसहिष्णोर्वा धनस्य परिग्रहणम्, इत्युत्तमगणिकानां लाभातिशयः ॥ २५ ॥

देवेति । त्रिविधा वेश्या—गणिका रूपाजीवा कुम्भदासी च, ताः प्रत्येकमुत्तममध्यमाधमभेदात्त्रिविधाः, तडागं = पुष्करिणी, स्थलीनामिति । निम्नेषु प्रदेशेषु लोकागमार्थं सेतूनां निवन्धनम् , अग्निश्चैत्यानामिति । स्थानाद्बहिर्मृद्भिर्गेहानि कृत्वा सर्वे रसगन्धव्रीहिरत्नेरापूर्य्याग्नये समुत्सृज्यन्ते, पात्रान्तरितमिति । वेश्याद्रव्यस्याप्रतिग्राह्यत्वादन्यहस्तेन दानं, देवतापूजनानां प्रवर्त्तनं घटानिबन्धेन, उपहाराणां भक्ष्यादीनां, देवतांशमुद्दिश्य सर्वमेतत्प्रधानभूतोऽर्थः, तद्व्ययसहिष्णोरिति ।

५ अध्याये ] लाभविशेषप्रकरणम् । ३१३

५ अध्याये ] लाभविशेषप्रकरणम् । ३१३

तस्मिन्प्रधानेऽर्थे साध्ये यद्व्ययं सहते धनं तस्य परिग्रहणमयं प्रकृष्टो- लाभातिशयः, उत्तमगणिकानामिति । रूपादिभिर्नायिकागुणैः, काला- दिभिश्चान्विता उत्तमगणिकाः, गुणानां च पादार्धाभ्यां शून्या मध्य- माधमाः ॥ २५ ॥

सर्वाङ्गिकोऽलंकारयोगः, गृहस्योदारस्य करणं, महार्हभाण्डैः- परिचारकैश्च गृहपरिच्छदस्योज्ज्वलतेति, रूपाजीवानां लाभाति- शयः ॥ २६ ॥

सर्वाङ्गिक इति । सर्वेष्वङ्गेषु यो भवति, उदारस्येति । संस्थानतः- संस्कारतश्चेति, महार्हरिति । लोहताम्ररजतैः, परिचारकैरिति । यथा- स्वं कर्मणा परिचरन्ति ये, गृहपरिच्छदस्येति । गृहसंविधानकस्योज्ज्व- लतेत्ययं प्रधानार्थः, तद्व्ययसहिष्णोर्धनस्य परिग्रहणमिति वर्तते, अयं प्रकृष्टो लाभातिशयः, रूपाजीवानामिति । उत्तमानां, सत्स्वपि गुणेषु रूप- मेवाजीवो यासां, रूपस्य प्रधानत्वात् कलास्तु न सन्ति, तत्र रूपस्य गुणानां पादार्धहान्या मध्यमाधमाः, अत्र यः प्रधानार्थः स गणिका- नामस्त्येव ॥ २६ ॥

नित्यं शुक्लमाच्छादनमपक्षुधमन्नपानं नित्यं सौगन्धिकेन ताम्बू- लेन च योगः सहिरण्यभागमलंकरणमिति कुम्भदासीनां लाभा- तिशयः ॥ २७ ॥

नित्यमिति । आच्छादनमिति । परिधानीयं प्रावरणीयं च सदैव शु- क्लम्, अपक्षुधमिति । अकदर्षितत्वात्क्षुधमपनयति, सौगन्धिकेन सुग- न्धिसमूहेन चतुःसमकादिना ताम्बूलेन च नित्यं योगः, एतत्सर्वं गणि- कानां रूपाजीवानां चास्त्येव, विशेषमाह—सहिरण्यभागमिति । सुव- र्णलेशेन युक्तमित्यर्थः, अयं स्वप्रधानार्थं, तद्व्ययसहिष्णोर्धनस्य परि- ग्रहणमिति वर्तते, अयं च कर्मोपलक्षणार्थं, कर्मकरीणामित्यर्थः, आसां- चोत्तममध्यमाधमकर्मापेक्षयैव तथाविधत्वं द्रष्टव्यम् ॥ २७ ॥

एतेन प्रदेशेन मध्यमाधमानामपि लाभातिशयान्सर्वासामेव योजयेदित्याचार्याः ॥ २८ ॥

एतेनेति । प्रदेशेनेति । उत्तमानां लाभातिशयमार्गेण, मध्यमाधमाना- मपीति । गणिकारूपाजीवाकुम्भदासीनां, लाभातिशयानिति । प्रकृष्टा- पेक्षं मध्यमाधमान्योजयेत्, तथा चोक्तम्—

'यन्त्रिंशाऽर्धाजितं द्रव्यं प्रधानार्थस्य साधकम् । द्रव्यस्थानं हि वेश्यानां सलाभस्तूत्तमो मतः' इति ॥ २८ ॥

४० का० सू०

३१४ सटीक कामसूत्रे [ ६ अधिकरणे,

देशकालविभवसामर्थ्यानुरागलोकप्रवृत्तिवशादनियतलाभादियमवृत्तिरिति वात्स्यायनः ॥ २९ ॥

देशेति । देशस्य सुसंपन्नस्यासंपन्नस्य वा, कालस्य सुभिक्षस्य दुर्भिक्षस्य वा, विभवस्यात्मीयस्य महतोऽल्पस्य वा, सामर्थ्यस्याविपन्नशक्तेर्महत्या इतरस्या वा, गम्यानुरागस्य महतोऽल्पस्य वा, लोकप्रवृत्तेर्व्यवस्थायाः, वशादनियतो लाभस्तासां, ततश्च नेयं वृत्तिरियताऽप्रधानाऽर्थद्वारेण या निर्दिष्टा, कदा चित्ततो न्यूनाऽधिका वा सम्भवति ॥ २९ ॥

एवं च कार्यनिरपेक्षया कश्चित्स्वल्पोऽपि लाभो गृह्यते कश्चिन्नैव कश्चित्तदात्वे गृह्यते कश्चिदायत्यां यदाह—

गम्यमन्यतो निवारयितुकामा, सक्तमन्यस्यामपहर्तुकामा वा, अन्यां वा लाभतो वियुयुक्षमाणा, गम्यसंसर्गादात्मनः स्थानं वृद्धिमायतिमभिगम्यतां च मन्यमाना, अनर्थप्रतीकारे वा साहाय्यमेनं कारयितुकामा, सक्तस्य चाऽन्यस्य व्यलीकार्थिनी पूर्वोपकारमकृतमिव पश्यन्ती, केवलप्रीत्यर्थिनी वा, कल्याणबुद्धिः, अल्पमपि लाभं प्रतिगृह्णीयात् ॥ ३० ॥

गम्यमिति । अन्यत इति । अन्यस्या नायिकातो निवारयितुकामा माऽन्यत्र यासीदिति, अपहर्तुकामा मद्वेषिण्यां सक्तं त्यक्ष्यामीति, लाभत इति । गम्यसम्बन्धिनो लाभाद्, वियुयुक्षमाणा वियोक्तुमिच्छन्ती, गम्यसंसर्गादिति । येन गम्येन सह संसर्गस्तस्मात् स्थानं जनसंसदि विशिष्टदेशावस्थानं मन्यमाना वृद्धिं प्रकृष्टाख्यां लाभातिशयमायतिं प्रभावमभिगम्यतामन्येषां नायकानामभिगमनीयत्वम्, अनर्थप्रतीकारे वेति । अनर्थं प्रतिकर्तुं सहायमेनं कर्तुकामा, सक्तस्य वेति । यस्तस्यां सक्तोऽन्यत्र वर्तमानस्तेन यः पूर्वमुपकारः कृतस्तं स्वल्पत्वादकृतमिव पश्यन्ती, तस्यातीतस्य व्यलीकार्थिनी, अपराधं कर्तुकामाऽल्पमपि गृह्णीयाद् येनायमपराध्धमनयेति सक्तस्त्यजति, केवलप्रीत्यर्थिनी वेति । प्रीत्यैव केवलमर्थिनी नार्थैः, कल्याणबुद्धिरिति । अविसंवादिका ॥ ३० ॥

यदाऽऽयतिमनर्थप्रतीकारे चेत्युभयमुक्तम्, अत्र विशेषमाह—

आयत्यर्थिनी तु तमाश्रिताऽनर्थं प्रतिचिकीर्षन्ती नैव प्रतिगृह्णीयात् ॥ ३१ ॥

आयेति । यदाऽऽयतिर्महती स्यादनर्थश्च न महान्प्रातकर्तव्यस्तदा नैव प्रतिगृह्णीयात् ॥ ३१ ॥

५ अध्याये ] लाभविशेषप्रकरणम् । ३१५

त्यक्ष्याम्येनमन्यतः प्रतिसन्धास्यामि, गमिष्यति दारैर्योक्ष्यते, नाशयिष्यत्यनर्थान्, अङ्कुशभूत उत्तराध्यक्षोऽस्यागमिष्यति स्वामी पिता वा, स्थानभ्रंशो वाऽस्य भविष्यति, चलचित्तश्चेति मन्यमाना तदात्वे तस्माल्लाभमिच्छेत् ॥ ३२ ॥

त्यक्ष्याम्येनं तदात्वे ततो लाभं गृहीत्वाऽन्यतः प्रतिसन्धास्यामि तस्याधिकत्वाद्, गमिष्यति दारैर्योक्ष्यते, गतः कृतदारपरिग्रहो वा कथं दास्यति तस्य परवशप्रायत्वाद्, नाशयिष्यत्यर्थानर्थात्स्वकीयान्, अस्येति । गम्यस्य कर्मणि स्वामी पिता वाऽङ्कुशभूत इति दमयिता, उत्तराध्यक्षः = उपरिकर्त्ता, आगमिष्यति तदाऽयमस्वतन्त्रः कथं दास्यतीति, स्थानभ्रंशो वेति । यस्मिन्स्थानेऽस्याधिपत्यं तस्माद्धिच्युतिः, चलचित्तो वा प्रतिज्ञायापि न दास्यति, तदात्व इति । तदानीम् ॥ ३२ ॥

प्रतिज्ञातमीश्वरेण प्रतिग्रहं लप्स्यते, अधिकरणं स्थानं वा प्राप्स्यति, वृत्तिकालोऽस्य वाऽऽसन्नः, वाहनमस्यागमिष्यति, सस्यमस्य पक्ष्यते, कृतमस्मिन्न नश्यति, नित्यमविसंवादको वेत्या- यत्यामिच्छेत् परिग्रहत्वं चास्याचरेत् ॥ ३३ ॥

प्रतिग्रहं लप्स्यत इति । स ह्यक्लेशेनोपलब्धार्थो दास्यति, अधिकरणमक्षपटलादिकं स्थानं यत्राधिपत्यं करिष्यति, वृत्तिकालो वेति । सेवकत्वाज्जीवनकालोऽस्यासन्ना राजकुले ग्रामविलग्नस्य वर्तमानत्वाद्, वाहनं यानपात्रमागमिष्यति वाणिज्यधर्मं स्थितत्वात्, स्वराष्ट्रादिसस्यमस्य पक्ष्यत इति, कृषिवृत्तित्वात्, ततश्च पक्वं सस्यं दास्यति, कृतमस्मिन् न नश्यति, अभिगमनं न निष्फलं, कृतज्ञत्वाद्, नित्यमविसंवादको वा, प्रतिज्ञायावश्यं दास्यति, आयत्यामिति । अनागतकाले, परिग्रहत्वं चास्याचरेत् तत्रार्थस्य लिप्स्यमानत्वात् ॥ ३३ ॥

भवन्ति चात्र श्लोकाः—

कृच्छ्राधिगतवित्तांश्च राजवल्लभनिष्ठुरान् । आयत्यां च तदात्वे च दूरादेव विवर्जयेत् ॥ ३४ ॥

कृच्छ्राधिगतवित्तांश्चेति । कृशेनाजितधनान्, राजवल्लभनिष्ठुरानिति । ये राज्ञ इष्टा निष्ठुराः क्रूरा येषां नाकरणीयमस्ति, आयत्याञ्च तदात्वे चासत्यपि लोभप्रतिग्रहङ्गेकारणे दूरादेव विवर्जयेद्, न तद्दर्शनं सम्भाषणं च कुर्यादित्यर्थः, प्रायशस्तेभ्योऽनर्थसंभवात् ॥ ३४ ॥

शास्त्रकार एव प्रकरणसंबन्धमाह—

३१६ सटीक कामसूत्रे [ ६ अधिकरणे,

केषां तर्हि ? उपादानमित्याह—

अनर्थो वर्जने येषां गमनेऽभ्युदयस्तथा ।
प्रयत्नेनापि तान्गत्वा सापदेशमुपक्रमेत् ॥ ३५ ॥

अनर्थ इति । यांस्त्यक्त्वाऽन्यस्मादनर्थोऽभिगमने चाभ्युदयस्तानूभयप्रयोजनत्वात्, प्रयत्नेनापि तान्गत्वेति । अभिगम्य, सापदेशमुपक्रमेदिति । यत्किंचिन्निमित्तीकृत्यानभिगच्छन्तमप्यभिगच्छेदित्यर्थः, वृत्ताद्यभावादात्मनेपदं न भवति ॥ ३५ ॥

येष्वर्थ एव प्रयोजनं तानाह—

प्रसन्ना ये प्रयच्छन्ति स्वल्पेऽप्यगणितं वसु ।
स्थूललक्षान्महोत्साहांस्तान्गच्छेत्स्वैरपि व्ययैः ॥ ३६ ॥

इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे
लाभविशेषाः पञ्चमोऽध्यायः ।

प्रसेति । स्थूललक्ष्याः = महेच्छाः, महोत्साहा महानुत्साहो येषां, महत्त्वं चोत्साहस्य शौर्यादिभिः, ते तुष्टाः स्वल्पेऽपि वेश्याविषये प्रभूतंद्रव्यं प्रयच्छन्ति तस्मात्तान्गच्छेत् स्वैरपि व्ययैरुपचारलक्षणैः ॥ ३६ ॥

इति लाभविशेषाः सप्तपञ्चाशत्तमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे लाभविशेषाः पञ्चमोऽध्यायः ।


षष्ठोऽध्यायः ।

शास्त्रकार एव प्रकरणसंबन्धमाह—

अर्थानाचर्यमाणाननर्था अप्यनूद्भवन्त्यनुबन्धाः संशयाश्च ॥ १ ॥

अर्थेति । अर्थानिति लाभविशेषाननन्तरोक्तान्, आचर्यमाणान्साध्यमानान्, अपरिग्रहाया वेश्याया इत्यर्थः, अनर्था इति । अर्थविरुद्धाः, अनूद्भवन्तीति, 'अनुलक्षणे' इत्यनोः कर्मप्रवचनीयत्वेऽर्थानिति द्वितीया, अर्थान्साध्यमानाँल्लक्ष्यीकृत्यानर्था अपि स्वहेतुभ्य उत्पद्यन्ते, तत्र यदाऽर्था एवोत्पद्यन्ते तदा निरनुबन्धोऽर्थपक्षः, यदाऽर्थं बाधित्वाऽनर्थास्तदा निरनुबन्धोऽनर्थपक्षः, अनुबन्धा इति । अर्थानर्थयोः संशयाश्चोभयोरेव गृह्यन्ते, तस्मात्तेषु हानोपादानार्थं तद्विचारो युक्तः, इत्यर्थानर्थानुबन्धसंशयविचारा उच्यन्ते ॥ १ ॥

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७

तत्रार्थास्तदनुबन्धाश्चोपादेया एव, तत्संशयाश्च केषां चित्प्रवृत्तेः, येऽनर्थास्तदनुबन्धास्तत्संशयाश्च तेषामनुपादेयत्वादुत्पत्तिकारणान्याह-

ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदम्भादत्यार्जवाद-
तिविश्वासादतिक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ॥ २ ॥

त इति । अनर्थादयः, बुद्धिदौर्बल्यादिति । ऊहापोहतत्त्वाभिनिवेशाविवेकाभ्यां वैकल्यं, बुद्धिदौर्बल्यं, रागः = सक्तिः, अभिमानः = अहंकारः, दम्भः = छद्म, आर्जवम् = ऋजुता, विश्वासः = विश्रम्भः, क्रोधः = कोपः, एते कार्यवशाद्युक्तिभिः प्रयुज्यमाना नैव दोषाय, आधिक्येन तु दोषायैवेत्यतिशब्देनाह, प्रमादः = योऽन्यत्र व्यासङ्गः, साहसम् = अविमृश्यकारित्वम्, एतन्नवधा मानुषं निमित्तं, दैवयोगादिति । दैवेनाशुभकर्मसंज्ञकेन योगादित्यर्थः ॥ २ ॥

तेषां फलं कृतस्य व्ययस्य निष्फलत्वम्, अनायतिः, आगमिष्यतोऽर्थस्य निवर्तनम्, आप्तस्य निष्क्रमणं, पारुष्यस्य प्राप्तिः, गम्यता, शरीरस्य प्रघातः, केशानां छेदनं, यातनम्, अङ्गवैकल्यापत्तिः ॥३॥

तेषां बुद्धिदौर्बल्यादीनाम्, अथ वा तेषामित्यनर्थानां सानुबन्धानां तत्संशयानां च फलमिति परिणामः, अनर्थ एव हि विपरिणामरूपेण संशय्यमानत्वादनर्थसंशयानामपि फलं, व्ययस्येति । गम्याभिगमनाय कृतस्य, अनायतिः = प्रभावहानिः, आगमिष्यत इति । अधिकृते व्यये लप्स्यमानस्य निवर्तनमिति बोद्धव्यम्, आप्तस्येति । प्राप्तस्यार्थस्य निष्क्रमणमन्येन गृह्यमाणत्वात्, पारुष्यस्येति । दुरूक्तस्य, गम्यता = अपरिचेयता, शरीरस्य प्रघातः = प्राणैर्वियोगः, केशानां, छेदनं = लवनं, यातनं = बन्धनं ताडनम्, अङ्गवैकल्यं = कर्णनासाविच्छेदः ॥३॥

तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत ॥ ४ ॥

तान्बुद्धिदौर्बल्यादीनादित एव परिहर्तुमिच्छेदु, यावदर्थहेतूनपायान्न प्रयुङ्क्ते ऽन्यथा ह्यर्थं बाधित्वाऽनर्थोऽपि स्यात् कारणानां संनिहितत्वाद्, अर्थभूयिष्ठांश्चेति । अर्थबहुलानानर्थहेतूनुपेक्षेत, तत्र ह्यर्थहेतूनामेवोपायानां बाहुल्यात् ॥ ४ ॥

इदानीं निरनुबन्धान्विचारयितुमाह-

अर्थो धर्मः काम इत्यर्थत्रिवर्गोऽनर्थोऽधर्मो द्वेष इत्यनर्थत्रिवर्गः ॥५॥

अर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः, ततश्चार्थानर्थानुबन्धसंशयविचारा इत्यस्मिन्सूत्रे धर्माधर्मयोः कामद्वेषयोरपि संग्रहः सिद्धः, अनेन निरनुबन्धपक्ष उक्तो वेदितव्यः ॥ ५ ॥

३१८ सटीक कामसूत्रे [ ६ अधिकरणे,

तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६ ॥

तेष्विति । अर्थादिषु षट्सु साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्याप्यन्यस्यापि सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्योत्पत्तिरनुबन्ध इति ॥ ६ ॥

संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥

अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ संदिग्धायां स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः एकस्यैव भावाभावाभ्यां संशय्यमानत्वात् ॥ ७ ॥

इदं वा स्यादिदं वेति संकीर्णः ॥ ८ ॥

इदं वा स्यादिदं वेति सङ्कीर्णः संशयः, द्वयोरन्यतरोत्पत्त्या विकल्पस्य संकीर्यमाणत्वात् ॥ ८ ॥

एकस्मिन् कार्ये क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योगः ॥ ९ ॥

एकस्मिन्कार्य इति । अर्थादिसाधने कार्ये क्रियमाणे, द्वयस्येति । अर्थादीनां षण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्पत्तिरुभयतो योग इत्युभाभ्यां द्वयस्योत्पत्तिः ॥ ९ ॥

समन्तादुत्पत्तिः समन्ततो योग इति तानुदाहरिष्यामः ॥ १० ॥

समन्तादिति । एकस्मिन् क्रियमाणे कार्ये बहुभ्योऽर्थादीनामुत्पत्तिः, समन्ततो योगः, अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः, तानिति । निरनुबन्धादीनुदाहरणानुदाहारष्यामः, स्पष्टोऽर्थः ॥ १० ॥

ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः स्वरूपतोऽपरिज्ञाने कथमुदाहरणमित्याह—

विचारितरूपोऽर्थत्रिवर्गः, तद्विपरीत एवानर्थत्रिवर्गः ॥ ११ ॥

विचारितरूप इति । त्रिवर्गप्रतिपक्षो निरूपितस्वभाव इत्यर्थः, तद्विरुद्धत्वादनर्थोऽपि विचारितरूप इत्याह—तद्विपरीत इति ॥ ११ ॥

तत्रार्थानर्थयोस्त्रिवर्गयोरर्थानर्थावाद्यावधिकृत्याह—

यस्योत्तमस्याभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमायतिरागमः प्रार्थनीयत्वं चान्येषाम् स्यात्सोऽर्थोऽर्थानुबन्धः ॥ १२ ॥

यस्येति । उत्तमादिभेदात्त्रिविधो नायको व्याख्यातः, तत्र यः समस्तगुणस्तस्योत्तमगुणस्याभिगमने, प्रत्यक्षतोऽर्थलाभ इति । तत एव प्रत्यक्षात्तदानीमर्थलाभः, ग्रहणीयत्वमिति । लोकग्राह्यत्वमुपादेयत्वम्, आयतिः = प्रभावः, आगमस्तत्कालीयानां प्रार्थनीयत्वमन्येषां गम्यादीनां,

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१९

सोऽर्थ इति । योऽसौ तदात्वे लाभः, अर्थानुबन्ध इति । ग्रहणीयत्वादि- भिरथैरनुबन्धो यस्य, अयं सजातीयानुबन्धः ॥ १२ ॥

लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥१३॥

लाभमात्र इति । तदात्वे यो लाभस्तन्मात्रमेव निमित्तं कस्य चिदिति । लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो- निरनुबन्धो, ग्रहणीयत्वाद्यभावात् ॥ १३ ॥

अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकवि- द्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽनर्थानुबन्धः ॥ १४ ॥

सक्तादिति । यः सक्तो निःसारत्वादन्यदीयमुपहत्य प्रयच्छति तस्मादन्यार्थस्य परिग्रहे, आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठ- तीति, अर्थस्येति । पूर्वोपात्तस्य निष्क्रमणं चात्र द्रव्यस्य नागरकेण गृह्य- माणत्वाद्, लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि, नीचस्य वा जातिन्यून- स्य, गमनमायतिघ्नमिति । प्रभावं हन्ति, अत्रार्थोऽनर्थानुबन्धः, तदा- ऽर्थलाभस्यायतिच्छेदाद्यनर्थानुबन्धित्वादु अयं विरुद्धानुबन्धः ॥ १४ ॥

स्वेन व्ययेन शूरस्य महामात्रस्य प्रभावतो वा लुब्धस्य गमनं- निष्फलमपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशम- नमायतिजननं च सोऽनर्थोऽर्थानुबन्धः ॥ १५ ॥

स्वेनेति । आत्मीयद्रव्यपरिक्षयेण गमनं निष्फलं लुब्धत्वान्न प्रयच्छ- ति, तथाऽपि व्यसनप्रतीकारार्थं शत्रुप्रघातार्थं महामात्रस्य शूरत्वाद्, महतश्चार्थस्येति । अप्रयुक्तमर्थं साध्यमानं यस्मिन्महत्वान्निबध्य तिष्ठति तं प्रशमयति तस्य शूरस्यापि राजकुले लब्धप्रभावत्वाद्, आयतिजननं- चेति । शूरस्य प्रभाववतो वा सम्पर्को लोके महतीमायतीं जनयति सोऽनर्थ इति । यः कृतो व्ययो निष्फलः, अर्थानुबन्धः, व्यसनप्रतीका- रादिनाऽर्थेनानुबद्धत्वादयं विरुद्धानुबन्धः ॥ १५ ॥

कदर्यस्य सुभगमानिनः कृतघ्नस्य वाऽतिसन्धानशीलस्य स्वै- रपि व्ययैस्तथाऽऽराधनमन्ते निष्फलं सोऽनर्थो निरनुबन्धः ॥१६॥

कदर्यस्येति । आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्सञ्चिनोति तस्य, सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स न प्रयच्छति, यस्तु दुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः, कृत- घ्नस्य वेति । अकृतज्ञस्य, वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः, अतिस- न्धानशीलस्य छलनपरस्य, तथाऽऽराधनमिति । यथा स्वैरपि व्ययरभि-

३२० सटीककामसूत्रे [ ६ अधिकरणे,

गमनं निष्फलं, तदनुरञ्जनमध्यन्ते निष्फलं, सोऽनर्थ इति । यः कृतो व्ययो- निरनुबन्धोऽर्थानर्थाभ्यां निरनुबन्धत्वात् ॥ १६ ॥

कदर्यादेर्विशेषमाह —

तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुबन्धः ॥ १७ ॥

तस्यैवेति । क्रौर्यप्रभावाधिकस्येति । दोषत्रयमत्राधिकं, तथैवा- राधनमिति । यथा स्वैर्धैर्यैरभिगमनं निष्फलं कदर्यादीनामदातृत्वाद्, निष्कासनमददतां दोषकरं, ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुष्य- शरीरप्रघातादीननर्थान्कुर्युरित्यनर्थोऽनर्थानुबन्धः, अयं सजातीयानु- बन्धः ॥ १७ ॥

एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥ १८ ॥

एवमिति । एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्, तत्र ब्राह्म- णस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं गार्हस्थ्यधर्मप्रवर्तनं च धर्मो धर्मानुबन्धः, काममात्रं धर्मो निरनुबन्धः, तस्यैवाकृतस्नानभोजनस्य ब्राह्मणस्यातिव्यवायाद् धातुक्षये मुमूर्षु- त्वाद् धर्मोऽधर्मानुबन्धः, अभिप्रेतस्य धनवतो भोगिनोऽभिगमने कामः कामानुबन्धः, रागापनयनमात्रेऽभिप्रेतस्य गमनं कामो निरनुबन्धः, अभिप्रेतस्य हरिद्रारागस्य गमनं कामो द्वेषानुबन्ध इति, अत्र निरनुबन्धाः- षड्, विजातीयविरुद्धाभ्यामनुबन्धा द्वादश ॥ १८ ॥

परस्परेण च युक्त्या सङ्किरेदित्यनुबन्धाः ॥ १९ ॥

परस्परेण च युक्त्येति । विरुद्धं त्यक्त्वा शेषाणां विजातीयानाम- न्योन्ययोगादित्यर्थः, तत्रार्थो धर्माधर्मकामद्वेषैः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽ- धर्मोऽपि, कामोऽर्थानर्थधर्माधर्मैः प्रत्येकमनुबद्धश्चतुर्विधः, तथा द्वेषोऽपि, इति चतुर्विंशतिः संकीर्णानुबन्धाः ॥ १६ ॥

शुद्धसंशयमधिकृत्याह—

परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥ २० ॥

परीति । यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि दास्यति, तत्राज्ञातदानशीलत्वाद्यान्न वेत्यर्थसंशयः ॥ २० ॥

निष्पीडितार्थमफलमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ॥ २१ ॥

३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१

३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१

उत्सृजन्त्या इति। कामुकेभ्योऽङ्गानि दत्त्वाऽर्थार्जनं वेश्याया धर्मः, तथा हि–"यथास्वं वृत्तिर्धर्मः" इत्याचार्याः, तत्रार्थमलभमानाया निष्पी-डितार्थस्योत्सर्जनमपि किं धर्मो न वेति संशयः ॥ २१ ॥

अभिप्रेतमनुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा कामः स्यान्न वेति कामसंशयः ॥ २२ ॥

अभिप्रेतमत्र रुचिरं नायकं परिचारकमात्मीयमन्यं वा क्षुद्रं निकृष्टं-गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्याद्वा न वेति सं-शयः ॥ २२ ॥

प्रभाववान् क्षुद्रोऽनभिमतोऽनर्थं करिष्यति न वेत्यनर्थसंशयः॥२३॥

अनभिमत इति। अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः, स हि राज-कुले लब्धप्रभावत्वादनर्थं करिष्यति न वेति संशयः ॥ २३ ॥

अत्यन्तनिष्फलः सक्तः परित्यक्तः पितृलोकं यायात्तत्राधर्मः स्यान्न वेत्यधर्मसंशयः ॥ २४ ॥

सक्त इति। अनुरक्तोऽभिगन्तुमिच्छन् परित्यक्तो निष्फलत्वात्, पितृलोकं यायादिति। अवस्थाऽन्तरप्राप्तौ यमलोकं यायादिति सम्भा-व्यते, तत्रेति। परित्यागेऽधर्मः स्यान्न वेति संशयः ॥ २४ ॥

रागस्यापि विवक्षायामभिप्रेतमनुपलभ्य विरागः स्यान्न वेति द्वेषसंशय इति शुद्धसंशयाः ॥ २५ ॥

रागस्याऽपि विवक्षायामिति। कामो न भविष्यतीति न विवक्षितं-रागेण पीड्यमानत्वाद्, अभिप्रेतोऽपि नास्ति यमाश्रित्य स्यादित्याह—अभिप्रेतमनुपलभ्येति। केवलमेव वर्तमानाया विद्वेषः स्यान्न वेति संश-यः, शुद्धसंशया इति। एकस्यैव भावाभावाभ्यां संशय्यमानत्वाद् ॥२५॥

अथ संकीर्णाः ॥ २६ ॥

अथेति। आनन्तर्ये, संकीर्णा निर्दिश्यन्ते, शुद्धानन्तरं हि संकीर्ण-स्योद्दिष्टत्वाद्, इदं वा स्यादिदं वेति संकीर्ण इति ॥ २६ ॥
स च विरुद्धाविरुद्धाभ्यां; तत्र पूर्वमधिकृत्याह—

आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा स-मुपस्थितस्याराधनमर्थोऽनर्थ इति संशयः ॥ २७ ॥

आगन्तोरिति। कुतश्चिदागतस्याभिगमनेऽविदितशीलत्वादर्थोऽनर्थो-वेति संशयः, तस्य चार्थितया समुपस्थितत्वादर्थः, वल्लभसंश्रयत्वात्प्र-भविष्णुत्वाद्वाऽनर्थ इति कारणद्वयसंनिधानात्संशयः ॥ २७ ॥

श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां-

४१ का० सू०

३२२ सटीक कामसूत्रे [ ६ अधिकरणे,

दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽधर्म- इति संशयः ॥ २८ ॥

श्रोत्रियस्येति । गृहस्थस्यापि क्रियावतः, ब्रह्मचारिण इति । प्रथमाश्रमस्य, दीक्षितस्य व्रतिन इति । श्रितव्रतस्य कियन्तं कालं गृहीतपशुकादिव्रतस्य, लिङ्गिन इति । भौतादेशवतः, मुमूर्षोरिति । मर्तुमिच्छोः कामस्यावस्थाऽन्तरप्राप्तत्वाद्, मित्रवाक्यादिति । श्रोत्रियादीनां मित्रस्याभ्यर्थनावचनादानृशंस्याच्च करुणयाऽभिगमने, धर्मोऽधर्म इति । मा भूत्प्राणत्याग इति धर्मः, नियमभ्रंशः कृत इत्यधर्मः, तदुभयमपि कस्मान्न भवतीति चेत्, न, अन्यतरस्य बलीयस उत्पादनात् ॥ २८ ॥

लोकादेवाकृतप्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो- द्वेष इति संशयः ॥ २९ ॥

अकृतप्रत्ययादिति । अकृतनिश्चयाल्लोकात्, किमयं गुणवान् वेति, स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादाद् गुणवानित्यभिगमनादभिसरणे किं कामो द्वेषो वेति विरुद्धसंकीर्णसंशयः ॥ २९ ॥

अविरुद्धमधिकृत्याह—

संकिरेच्च परस्परेणेति संकीर्णसंशयाः ॥ ३० ॥

संकिरेच्चेति । तत्रार्थो धर्माधर्मकामद्वेषैश्चतुर्भिः प्रत्येकं विकल्पितश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषैर्विकल्पितश्चतुर्विधः, तथा द्वेषोऽपि, विरुद्धसंकीर्णाश्चतुर्विंशतिः पूर्वैः सह सप्तविंशतिरित्युक्ताः संकीर्णसंशयाः ॥ ३० ॥

उभयतो योगमधिकृत्याह—

यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ॥ ३१ ॥

अत्रेति । यस्मिन्नुभयतो योगे, परस्येति । अपूर्वस्य, उत्तरत्राप्यधिकृतं वेदितव्यम्, अभिगमनेऽर्थः । परस्मादेव, सक्ताच्चेति । अनुरक्तात्, सङ्घर्षत इति । स्पर्धमानादर्थः, स मा भूदनेनास्याः संप्रयोग इति स्पर्धया ददाति, स इति । उभयतो योग उभयतोऽर्थनामा, अन्यत्र यस्मिन् परस्मिन् सक्ते चेदभिगमनं तदेकमेवार्थसाधककार्यं न विजातीयमन्यदस्ति, उभयस्माच्च सकाशात् फलद्वयं प्रत्युपस्थितं तेनैकस्मिन् क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योग इति मूलसूत्रार्थो योज्यः ॥ ३१ ॥

यत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताच्चामर्षिताद्वित्तप्र- त्यादानं स दूभयतोऽनर्थः ॥ ३२ ॥

यस्मिन्नुभयतो योगे स्वेन व्ययेनाभिगमनम्, परस्येति वर्तते, नि-