भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

४ बालभारतम् सूत्रधारः—( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ! यद्वाल्मीकि- व्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य प्रथमे प्राणाः । यतः,— प्रथयति पात्रविशेषान् सामाजिकजनमनांसि रञ्जयति । अनुसंदधाति च रसान्नाट्यविधाने ध्रुवा गीतिः ॥ १४ ॥ तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । ) प्रस्तावना । ────────── ( ततः प्रविशति वाल्मीकिर्व्यासश्च । ) व्यासः—( सपादोपग्रहम् । ) भगवन् अद्भुतसंभव ! एष व्यासः पाराशर्योऽभिवादयते । वाल्मीकिः—( पृष्ठे पाणिं निधाय । ) वत्स सत्यवतेय ! स्वप्रबन्ध- परिसमाप्त्या वर्धस्व । व्यासः—परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । ) योगीन्द्रश्छन्दसां द्रष्टा रामायणमहाकविः । वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ १५ ॥ वाल्मीकिः—अष्टादशपुराणसारसंग्रहकारिन् ! कियान्वर्तते नवे- तिहासो भारतम् ? व्यासः—पुनः पुनर्विनयोद्घाटनेन मा लज्जयतु मामुपाध्यायः । के वयं नाम रामायणमहाकवेः पुरतः ? ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे येषां वेदवदादृता स्मृतिमयी वाग्लोकयात्राविधौ । स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यथ ये व्युत्पत्त्या परया रसोपनिषदं रामायणस्यास्य ते ॥ १६ ॥

६ बालभारतम् वाल्मीकिः—तदेहि । प्राप्तां सायंतनीं संध्यामुपासहे । ततः श्रावयि(श्रो)ष्यामि । संप्रति हि,— अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्राग्व्रणरुधिरारुणमांसपिण्डलोभात् ॥ २१ ॥ अपि च,— निर्यद्वासरजीवपिण्डकरणं कुर्वन् कयोष्णैः करै- र्मोक्षिप्तं रविबिम्बमम्बरतलादस्तोचलं चुम्बति । किं च स्तोकतमःकलापकलनाइयाभायमानं मना- ग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते ॥ २२ ॥ (इति परिक्रम्य निष्क्रान्तौ ।) विष्कम्भकः । (ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेवः—इत इतः । (सर्वे परिक्रामन्ति ।) युधिष्ठिरः—वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपा- ण्डवकुल नकुल ! द्विषद्दुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती । भीमः—(विहस्य ।) आद्या वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः किंब्रूमोऽद्य किरीटिनो न घटते द्रोणेन यस्योपमा । माद्रीन्दनयोनरेन्द्र ! विनयच्छद्मं हि वीरव्रतं न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥ २३ ॥ अर्जुनः— दुर्नेमं यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥ २४ ॥ १. राधा धन्विनां लक्ष्यविशेषः

प्रथमोऽङ्कः ७ नकुलः—निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्राय- विप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव । (सर्वे समारुह्य यथोचितमुपविशन्ति ।) (नेपथ्ये ।) इँदो इदो कुमारधिट्ठजुण्णो भट्टिआरिआ अ । युधिष्ठिरः—प्राप्तेवैषा स्वयंवरमित्री । (तत प्रविशति सधृष्टद्युम्ना द्रौपदी बन्दी राज्ञी च ।) (परिक्रामितकेन) धृष्टद्युम्नः—(एकतोऽवलोक्य ।) कथं तातद्रुपदमनुग्रहीतुं महर्ष- योऽपि स्वयंवरयात्रामञ्चमध्यासते, तदेतानभ्यर्हयामि । (सप्रश्रयमञ्जलिं बध्वा ।) स्वस्त्यापस्तम्ब ! तुभ्यं त्वमसि ननु मुने ! कस्य नो माननीय- स्त्वां वन्दे याज्ञवल्क्य ! द्विजसदसि कवे ! त्वां स्तुवे भारतस्य । विश्वामित्रः पवित्रं जगति विजयते वाममग्रे ! नमस्ते विश्वप्रेष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि दृप्तान्महर्षीन् ॥ २५ ॥ (द्रौपदी प्रणमति ।) धृष्टद्युम्नः—(अन्यतोऽवलोक्य ।) लक्ष्मी संचननेऽर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं नन्येते गृहमेधिनां धुरि धयं यत्त्वयमभ्यागताः । दृष्टः येन भवादृशां पुनरियम्पूज्यः समाजो जग- त्युत्कण्ठा भयता च संप्रति पुरः सेयं स्थिता द्रौपदी ॥ २६ ॥ सखी—इँदो इदो भट्टिशरिआ । जग्ग्याहिवाहिणो, वामगाधिमेढुं । युधिष्ठिरः—(सस्पृहमवलोक्य स्वगतम् ) अहो लोचनचकोरी ! युवा- मन्यादृशैः पिवन्त द्रौपदीवदनेन्दुचन्द्रिकाम् । १. 'इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च' इति च्छाया २ 'इत इतो भर्तृदारिका । दिग्वाहिणि, वामगमधिष्ठतु ।' (?) इति च्छाया क० म० १

८ बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेयतेव गलिता व्योम्नि द्रुतं गच्छतः ॥ २७ ॥ भीमः—(द्रौपदीसंभाषणमनुसंधाय । स्वगतम् ।) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगत्तयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ २८ ॥ अर्जुनः—(स्वगतम् ।) हृदय ! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,— शारीदूतकलाकूतूहलि मनश्छेकोक्तिशिक्षारति- र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना- क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ २९ ॥ नकुलः—(स्वगतम् ।) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयाद्वृत्तिर्याचामपाङ्गतराङ्गितं नयनरचितं पादन्यासो नितम्बभरालसः । अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३० ॥ सहदेवः—(स्वगतम् ।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । इदमग्रे हृदयलेप्यमानूप्यं लावण्यम् । तरङ्गय दृशौ मनाक्स्थगय दिक्ष्वरणान्युत्पलैः फरो यलय जायतां सरसिजाकरो जङ्गमः । विदस्य पुनरुक्ततां सुतनु लम्पटैकायटी- मुदञ्चय मुखं भवत्ययमकाण्डचन्द्रोदयः ॥ ३१ ॥ १. 'स्तोमारोहणः' इति पाठान्तरम्.

प्रथमोऽङ्कः बन्दी—(तारस्वरमास्थाय ।) सकलभुवनरक्षाशस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति सरथविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥ सखी—कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमरपङ्क्तिलाञ्छितेन नयनो- त्पलखण्डेन घूर्णमानं पिवदिव द्रौपदीवदनलावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् । बन्दी—अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः— न्यस्तं ताण्डवितभ्रू चक्षुरमुना कण्ठो लुठत्पञ्चमः संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासीत्स्मयते स्थितो भणितिभिः किं चैष वैपञ्चिको यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥ कथमहंपूर्विकया सर्वे एव धनुरारोपयितुं संरभन्ते ! धृष्टद्युम्नः—हंहो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपा- लानाम् । बन्दी—(विधिवत् ।) सर्वे कार्मुककर्कशाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे धर्म्यं वचो बन्दिनः । गुर्वी धनुरप्युन्नम्य पलिनं तच्चाध्यवस्यत्यसौ यस्य स्याम महर्दि तद्धिततमं भीष्टा यशःपण्डिनी ॥ ३४॥ (सर्वे परिरानिरूपेन ।) बन्दी—(द्रौपदीं प्रति ।) दामोर्मूर्मिं गतागतानि कुरुते या चन्द्रलेखाद्विषे तस्याः शांतनवोऽयमुज्वल्यशाः स्वर्गापगायाः सुतः । १. इतः प्रभृत्याहर्तुमुत्सहे महद्दोर्बलं रूपवान् चण्ड इव दिवौकसैः.

१० बालभारतम् वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं भीष्मं सुभ्रु ! ततः स्वयंवरनृपाः प्रत्येक्रमालोकय ॥ ३५ ॥ सखी—द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन प्रणमतु । द्रौपदी—यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरव- पितामहाय । ( सर्वे परिकामितकेन । ) वन्दी—( स्वगतम् । ) अयं भगवतो भीष्मादनूनगरिमा द्रोणाचार्यः । ( प्रकाशं द्रौपदीं प्रति । ) सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् । आकर्णपलितः सुभ्रु ! द्रोणाचार्यः प्रणम्यताम् ॥ ३६ ॥ द्रौपदी—यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः । वन्दी—निजदोःसम्भसंभावनागर्वखर्वितविवेक न्नृपतीनवलोक्य किमाह भारद्वाजः— शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि । हे भूभुजो जयवधूं प्रति धनूंषि धत्त मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ ३७ ॥ द्रौपदी—नमो नमस्ते द्रोणाय कलशोद्भवाय । ( सर्वे परिकामितेनेन । ) वन्दी— दूरोदञ्चिमरीचिरत्न रचनाचित्रं तनुत्रं तनो- र्द्धृत्व्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा । पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः ॥ ३८ ॥ १. राधा: यन्त्रिकां लक्ष्यविशेषः ।

प्रथमोऽङ्कः ११ (विचिन्त्य ।) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञान- मुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि । सखी—सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः । द्रौपदी—यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः । बन्दी—(विहस्य स्वगतम् ।) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः । यदेषः,— दुर्नामं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः । अङ्गराज इति चिन्तयन्निमां भाषते व्रज पुरः कुरुद्वहः ॥ ३९॥ (सर्वे परिक्रामितकेन ।) स एव—(प्रकाशम् ।) यौवराज्याभिषेकार्हो धीरो दुर्योधनानुजः । दुःशासनो महाचेष एष मञ्चं विमुञ्चति ॥ ४० ॥ सखी—यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधन- नरेन्द्रस्य । धृष्टद्युम्नः—(स्वगतम् ।) यथार्थनामा दुःशासन एवायम् । चापं प्रति त्रिचतुराणि पदानि दत्त्वा कृष्णादृढग्रहणनिमित्तविषण्णचेताः । दुःशासनो नृपतिचक्रविमुक्ततार- हुंकारलज्जितमनाः शनकैः प्रयाति ॥ ४१ ॥ द्रौपदी—अपि नाम चण्डचरित एषः । बन्दी—(निरूप्य ।) नमो नमो विष्ण्ुकोदण्डपणबन्धाय । (स्वगतम् ।) द्रौपदीं परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया । दोर्बलं विफलमात्मनो विदन्ब्रीडयैष विनतो निवर्तते ॥ ४२ ॥ (परिक्रामितकेन ।)

१२ बालभारतम् बन्दी— गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः । मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥ ४३ ॥ द्रौपदी—यो द्यूतकैतवविचक्षणः श्रूयते । सखी—आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस्य पुनः रक्षिता । (?) बन्दी— यात्रारुतोऽस्य चतुरङ्गचमूसमुत्थे पांसूत्करे वियति सर्पति वीतरन्ध्रे । दिग्भागनागपतिकेशवकच्छपाना- मूर्ध्न क्षणाद्गच्छति भूवलयस्य भारः ॥ ४४ ॥ ( सगतम् । ) धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् । तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ ४५ ॥ ( पुनरवलोक्य विहस्य च । ) कथ विमुक्तराधावेधाभिमानस्य स्वयंवरयदुरु- चीर्ण स्कन्धाद्धनुः । ( सर्वे परिक्रामिनयेन । ) बन्दी— सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः । सिन्धुपारोत्तमहयः सिन्धुरप्रतिमॊ बले ॥ ४६ ॥ अपि च,— शम्याद्वये दलितदाडिमबीजलोल्या- न्मुक्ताफलेषु करिणां रुधिराऽरुणेपु । व्योम्नः शुकाधिपततस्तरसा निरीक्ष्य नाथस्त्रियो बहु हसन्ति सहस्ततालम् ॥ ४७ ॥ द्रौपदी—यो दुर्योधनभगिनीपतिः ।

[Header] प्रथमोऽङ्कः १३

धृष्टद्युम्नः—कथं धनुरारोपणपणं प्रत्ययमुदास्ते ? बन्दी— दुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ । कौतुकागमनमात्मनो वदन्खासनान्नचलति नो जयद्रथः ॥ ४८ ॥ ( परिक्रामितेन । ) बन्दी— दुर्योधनो नृपकिरीटघटिडूरत्न- रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः । हेलाचलच्चमरनर्तितकर्णपूरः शूरः शरासनविदां प्रथमोऽयमास्ते ॥ ४९ ॥ यस्य च,— पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति- र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाञ्जलेः । ते प्रत्यग्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्याचिताः ॥ ५० ॥ द्रौपदी—यः खण्डपरशुचूडामणेः कुलालकरणम् । सखी—आं, सखि ! स एवेषः । द्रौपदी—अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विपाशन- दातृत्वेन च च्छलप्रहारी एषः । बन्दी—किमाह महाराजदुर्योधनः । निर्दिशन्तु निजबाहुविक्रमं शार्ङ्गिनापि धनुरीह पार्थिवाः । साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ ५१ ॥ (विचिन्त्य स्वगतम् ।) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिक्रा- मितेन प्रकाशम् ।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः । १. वग्द्स.

४. चतुर्थ जवनिका: सुरंग-मार्ग, विवाह-कौतुक एवं साम्राज्य प्राप्ति

किं किं किं चु चु चुम्बनैर्म म सुधा वक्त्राम्बुजस्याग्रतो दे दे देहि पि पि प्रिये सु सु सुरां पात्रे त्रि रे रेवति । मा मा मा वि विलम्बनं कु कु कुरु प्रेम्णा हली याचते यस्येत्थं मदघूर्णितस्य तरसा वाचः स्खलन्त्याकुलाः ॥ ५२ ॥ अपि च,— नीलाम्बरं नलिनदाम च यस्य भूषा यत्प्रीतिकारि मधुरं मधु रेवती च । लीलार्धदृष्टधनुरत्र हली सहेलं शारैः स एष खलु खेलति खेलगामी ॥ ५३ ॥ द्रौपदी—यः किलैरावणवारण इव सदा मदस्वच्छन्दः । वन्दी—किमाह कामपालः— रेवतीं त्रिभुवनैकसुन्दरीं न प्रकोपयति रोहिणीसुतः । तेन नैष विदधाति कौतुकी दृष्टिभागमपि कृष्णकार्मुके ॥ ५४ ॥ (पुनः ।) वन्दी— यः पीयूषभुजां पुरः प्रहरतां दम्भोलिपाणिं रणे निर्जित्योर्जितशार्ङ्गनिर्गतशरश्रेणीभिरुद्दामभिः । शच्या वाञ्छितमौलिबन्धरचनैः पुष्पैः सदा सुन्दरां- श्चक्रे नन्दनपारिजातकतरून्विभ्रम्भरासाक्षिणः ॥ ५५ ॥ वृषतुरगकरीन्द्रस्यन्दनाद्याकृतीनां किमपरमसुराणां मन्दिता सोऽयमास्ते । कृतसुरपरितोषः षोडशस्त्रीसहस्र- प्रणिहितपरिरम्भास्यास्पदं पद्मनाभः ॥ ५६ ॥ द्रौपदी—यस्य किल कलकण्ठीमञ्जुलजल्पिनी रुक्मिणी प्रथमकल- त्रम् । यस्य काञ्चनाभा सत्यभामा संवननं हृदयस्य । वन्दी—किमाह देवो वासुदेवः ।

प्रथमोऽङ्कः १५ यत्सिग्मदस्य मद्रतस्य च भूमैमायां यस्मिन्नमी च यदुवंशमुखाः कुमाराः । नन्वद्य सोऽहममुना कमलाक्षनार- ङ्गीचक्रकेलिचतुरञ्चतिने लज्जे ॥ ५७ ॥ (परिक्रमितकेन ।) वन्दी— यत्साक्षाच्छूरचूर्णीकरणसहभुवः पूतनाफुत्कृतानां कर्त्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः । यस्यासन्दानदंप्रथवलकुवलयापीडपीठाम्रगल्भाः क्रीडाडिम्भस्य लीलाऽद्रुतधरणिधराः कण्ठयः कालियारेः ॥ ५८ ॥ तस्यैष शम्बरमहासुरसुन्दरीणां सिन्दूरमण्डनहरेण पराक्रमेण । शाश्वत्प्रकामकलनीयजनोपमानं प्रत्यक्षयत्यनिशिरुस्तनयः पुरस्तात् ॥ ५९ ॥ द्रौपदी—यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाराज्य- पताकां निर्विलम्बमवलम्बते । वन्दी—धृष्टद्युम्न आर्य ! उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् । शार्ङ्गिणा भगवता ससंभ्रमं धूनितहस्तघटनेन वार्यते ॥ ६० ॥ (परिक्रमितकेन ।) वन्दी—कथं सात्यकिः, धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः । प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥ अपि च,— यः सत्त्वस्य निधिः श्रियां च सरणिः सान्नां च धाम्नां च यो यो दाता च दयालुरेव च पदं कीर्तेश्च नीतिश्च —

१६ - बालभारतम् तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्रविवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥ द्रौपदी—यो यादवकुमारोऽपि भूत्वा अनास्वादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् । बन्दी— यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घ्यते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥ ( परिक्रामितेकेन ।) शिशुपालमहीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥ पाणिप्रस्थैर्वकुलसुमनःसौरभं यो मिमीते दंपत्योर्यः सुरतसमरे सौरयसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः शक्तः स्तोतुं यदि स निखिलाम्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥ द्रौपदी—यो निर्जितसुरासुरः । बन्दी— दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६ ॥ ( परिक्रामितेकेन ।) सत्यसंधो जरासंधः क्रान्तदिग्वलयो बलैः । अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥ अस्यासमं समरकर्म दिदृक्षमाणै- र्दोपद्वयं फणिभिरपि चमूरजस्तः । यत्कूर्णितेक्षणतया न पवन्धवृत्तं दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥ द्रौपदी—यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संधित इति जरासंधो भूपतिः ।

प्रथमोऽङ्कः १७ बन्दी— अस्य वैष्णवमिदं महाधनुः स्वप्रभावविभवेन भूपतेः । अम्बरे भुवि दिशां च संचये दर्शयत्यतनुकार्मुकावलीः ॥६९॥ (परिक्रामितेने ।) बन्दी—कथमेते राजानो युगपदुत्थिताश्चापमारोपयितुं विडम्बि- ताश्च । तथा हि,— जातं कीकसभङ्गतः शकपतेर्दोर्दण्डयोः खण्डनं निष्धूता रमेश्र्वरस्य वदनात्कीलालकल्लोलिनी । जानुभ्यां जगतीं गतश्च तरसा पाण्ड्यः प्रचण्डोऽप्ययं कोदण्डेन न खण्डिताः क्षितिभुजो दामोदरीयेण के ॥७०॥ बन्दी—( सविषादम् । ) हा मन्त्रं शकुनेः कुलक्षयकरं दुर्योधनं हा नृपं हा भीष्मं च पितामहं गुरुमपि द्रोणं सपुत्रं च हा । दग्धा यज्जतुधाम्नि पाण्डुतनया जीवेत्स चेदर्जुनो राधायन्त्रमविद्धमत्र न भवेत्कन्या च न द्रौपदी ॥ ७१ ॥ धृष्टद्युम्नः— वैकुण्ठकार्मुकदढाक्रमणेककुण्ठे दोर्दण्डखण्डनविखण्डितराजचक्रे । द्राग्द्रौपदी नमितकण्ठविलोठिहार- विश्लिष्यष्टिगणनागुणनां करोति ॥ ७२ ॥ सखी—किं पुनरेष भरितभुवनः कोलाहलो विपुलः ? बन्दी—(अवलोक्य सहर्षम् ।) धृष्टद्युम्ने विषण्णे हसति मुरजिति द्रौपदीचित्तनिन्द्ये कोदण्डप्रौढिगाढगलितगुरुवले चाथ राज्ञां समाजे । प्रह्वत्कृष्णाजिनानां करक¹करजुषा घह्लकलव्याकुलानां विप्राणां कोऽपि मध्यादवतरति युवा कार्मुके दत्तदृष्टिः ॥ ७३ ॥ १. करकः कमण्डलुः.

३८ बालभारतम् अपि च,— व्रीडानतेषु वदनेषु च भूपतीनां संचारयन्विकचपङ्कजचारु चक्षुः । अभ्येति मत्तगजखेलगतिः स एष साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४ ॥ अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।) एतत्कृष्णस्य शाङ्गं ननु धनुरतनुप्राणदोर्दण्डचण्डै- र्दूराद्रूपप्रकाण्डैः सपदि परिहृतं शिञ्जिनीसज्जनेषु । मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भुजायन्त्रयोगे प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५ ॥ (सरभसं परिक्रम्य धनुरारोपणं नाटयन् ।) मद्बाहुयन्त्रयुगयन्त्रितमाततज्यं न स्याद्धनुः कथमदं हि रथाङ्गपाणेः । विक्षोभनिर्यदि न याति च भूमिपृष्ठ- मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥ भीमः—वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्धित- कोदण्डकोटिः स्यात्किरीटी । तत्तस्याधस्ताद्दक्षं दाढ्र्याय निधेहि । (इति तथा करोति ।) नकुलः— धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा- स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः ! स्वस्ति वः । यज्जिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयैवाटनीं धत्ते पाणितलं तलेऽस्य धनुषो वामं द्वितीयापतिः ॥ ७७ ॥ (अर्जुन आरोपयति ।) सखी—भगवति मिथुनसंघटनैकदेवते ! कुण्ठितनिःशेषनरेन्द्रचक्र- मेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् । (अर्जुनो बाणमोक्षं नाटयति ।)

प्रथमोऽङ्कः १९ बन्दी— आकर्णाञ्चितचापमण्डलमुचा बाणेन यन्त्रोदर- च्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना । ( द्रौपदीमवलोक्य । ) तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः कामेन द्रुपदात्मजाहृदि हठान्न्यस्ताश्च पञ्चेषवः ॥ ७८ ॥ सखी—आश्चर्यमाश्चर्यम् । असलिलाकुवलयोत्पत्तिरकुसुमं कुसुम- कोदण्डकाण्डममग्नतन्नं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने निप्पतन्ती न विरमति । अर्जुनः—कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः,— जैत्रं तन्त्रं कुसुमधनुषः प्रेमसख्यैऋदूताः सत्यंकाराः प्रणयघटितेस्तुष्टये पुष्टियोगाः । विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा- मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः ॥ ७९ ॥ बन्दी—हा हा धिकष्टम् । ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै- र्यदुत जनकलोकस्यैकहेतुः कुमारी । अफलितकुलशीलोऽप्येष यत्कोऽपि धन्यी द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८० ॥ अर्जुनः—हंहो वन्दिबृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे शीलपर्यालोचनया । धनुरारोपणपणपरिणेया द्रौपदी । ( नेपथ्ये । ) हंहो ब्राह्मण, त्वामेव समुदिता नृपतयो भाषन्ते— सायकश्च त्वया मुक्तो यन्त्रं वा तेन घातितम् । तन्मा वृथा निकत्थस्व न राधां विद्धवानसि ॥ ८१ ॥ (पुनः साक्षेपम् । )

२०. बालभारतम् रे रे ब्राह्मण ! मुञ्च विप्लवममुं श्रुत्यर्थवीथीं स्मर क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः । तच्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ ८२ ॥ अर्जुनः—(तान्प्रति ।) कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवेव्रताय त्यक्ताभ्यासः कुरुपतिरयं धीसमुत्थैर्विलासैः । भोः कर्णाद्याः ! शृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्यविद्धम् ॥ ८३ ॥ सखी—सखि ! इतस्तरलिताहारहारिवक्षः उन्मुक्तचक्रमुचण्डस्थित- चित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिश- मसंख्यशङ्कुकंसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरे- न्द्राणाम् । बन्दी— संघट्टोत्पिष्टचूडाच्युतमणिगणिकाकर्बुरैर्बाहुदण्डै- स्तूणोत्कीर्णैस्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते । अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ ८४ ॥ (नेपथ्ये ।) देवस्य द्युमणेः कुले नृपतयो ये चात्र चूडामणेः श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि । विप्रश्चीवरवान्सहायरहितः कोऽप्येष यः पश्यतां राधावेधकरो हठेन हरते कीर्त्या समं द्रौपदीम् ॥ ८५ ॥ भीमः—वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तस्व अहं राजचक्रस्य पुरतो भवामि । (तथा करोति ।) १. भीष्माय.

प्रथमोऽङ्कः २१ नकुलः—आर्य ! इमं तालतरमायुधीकुरु । ( भीमस्तथा करोति । ) बन्दी— उत्पाटितमहातालः कृतचण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥ अर्जुनः—( राजन्यमवलोक्य । ) वयमहमिह विप्राः श्रौतराधारहस्य- स्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णाञ्चापदण्डप्रचण्डां- स्त्यजत रथगजस्यासान्पुरस्योपकण्ठम् ॥ ८७ ॥ बन्दी— ( विचिन्त्य । ) वीर्यं वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्यं भुजवीर्या हि यद्विजाः ॥ ८८ ॥ ( अर्जुनस्तदेव पठति । ) ( नेपथ्ये । ) साधु ब्राह्मण ! साधु क्षात्रमार्गमनुवर्तसे । भीमः—यद्येवम्,— प्रसर्पन्तु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डषण्डैर्दिशः । नृमांसफकलान्तरेष्वपि च साभिलाषैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः ॥

२२ बालभारतम् द्वितीयोऽङ्कः ( ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च । ) विदुरः— आ देवाद्दिव्यपङ्केरुहसदनजुषोऽस्मिन्महाराजवंशे विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः । हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा- मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥ १ ॥ तत्रैव गोत्रे संप्रति तु— वाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् । शैलूषैः कितवैरनेककपटश्रेणीमहानाटके द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः ॥ २ ॥ पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरेवं भण्यते ? यतो द्यूत- महचरा एवं मन्त्रयन्ति— रेणन्मणिनूपुरा रणरणङ्कारुच्छटाः क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः । भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं प्रसद्यदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ ३ ॥ विदुरः—तिमिङ्गिलगिलन्यायोऽयं शृङ्खयति नात्र जीयते । ( विचिन्त्य । ) श्रीनिर्वासनडिण्डिमो घनरव सद्यः स्थितं छद्मनां सत्योत्सारणघोषणा तत इतो लज्जा निरापाञ्जलिः । द्वारं दुर्यशसां पराभवपदं गोष्ठी गरिष्ठापदां द्यूतं दुर्नयवारिधिर्निपततां कस्तत्र हस्तग्रहः ॥ ४ ॥ पुरुषः—आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्त्र्यते ? विदुरः—चण्डाटक ! शृणु यन्मन्त्र्यते । ( पुनस्तदेव पठति । ) १. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः.

द्वितीयोऽङ्कः २६ चण्डातकः—अभिन्नो भ्रातृषु, स्वच्छचित्तो मित्रेषु, स्निग्धो वन्धुषु, निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज- युधिष्ठिरः । तत्किमिति तत्रैव कौरवेन्द्रस्य विशेषपरिस्पन्दः ? विदुरः—किमुच्यते— युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ५ ॥ ( विचिन्त्य ।) कौरवपतिस्तस्य प्रत्युदाहरणम् । दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ ६ ॥ यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनिकर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः—'यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति । चण्डातकः—ततस्तेन किं प्रतिपन्नम् ? विदुरः—यत्पाशसयतो धन्य करी प्रतिपद्यते । तथा चाभिहितं तेन,— राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः । आहूतो न निवर्तेय द्यूताय च रणाय च ॥ ७ ॥ पुरुषः—अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयस्व किं कारणं दुर्योधनस्य दुर्जयत्वे । विदुरः—श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो दुर्योधनः—


१. अय श्लोकोऽप्रमश्लोभौ महाभारतस्थो. क० ग० १ ०

२४ बालभारतम् तत्रोत्सर्पिणि राजसूयसमये राज्ञः पृथाजन्मनो द्वीपैशैर्विनयान्वितैरुपचितं चित्रैर्महाप्राभृतैः । प्रत्यक्षीकृतवान्यदस्मि विभवं कोपाधिकारे स्थित- स्तेनाद्यापि निरौषधो मनसि मे दाहज्वरो वर्तते ॥ ८ ॥ अपि च, गान्धाराधिपते मातुल ! मायामये मयसभाधितले महाम्बु त्यक्त्वा ततो व्रजति मय्यनभिज्ञभावात् । यत्कृष्णया विहसितं सह फाल्गुनेन तन्मे मनः कुसुमलावमिदं लुनाति ॥ ९ ॥ ( नेपथ्ये । ) देवश्चन्द्रकुलप्रतापतिलकः षाड्गुण्यवाचस्पति- र्धीरो निर्मलकीर्तिनिर्जरगिरिर्भूर्खण्डविद्याधरः । कृत्स्नद्वीपजयैकलम्बितमहाश्वेतातपत्रोन्नतिः पाण्डोः पाण्डुयशस्करो विजयते पृथ्वीं पृथानन्दनः ॥ १० चण्डातकः—युधिष्ठिरबन्दी पठति किंनरकण्ठ एषः । ( पुनर्नेपथ्ये । ) नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः शश्वत्खङ्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः । आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे चिरं श्रीदुर्योधनदोष्णि विक्रमधने लीनं जगन्नन्दति ॥ ११ ॥ चण्डातकः—एष दुर्योधनमागधः कलकण्ठो नाम । विदुरः—संप्राप्तावेतौ युधिष्ठिरदुर्योधनौ सभाम् । एते च भीष्मद्रो- णकृपहार्दिक्यकर्णसोमदत्ताश्वत्थामादयो भीमसेनः कौरवेश्वरभ्रातृशतं च प्रविशति, तदावामपि प्रविशावः । ( इति निष्क्रान्तौ ।) विष्कम्भकः ।


१. उदाहृतोऽयं श्लोकः क्षेमेन्द्रेणौचित्यविचारचर्चायाम्.