भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

प्रायशो वर्णनात्. एतत्सर्वमग्रे विशिष्टकविवर्णन-श्लोकेषु टिप्पण्या स्फुटीभविष्यति. बिल्हणकविर्यथा स्वदेशं काश्मीरं परित्यज्य कर्णाटमहीपतेराश्रये जगाम, तद्वदयमपि स्वदेशं विहाय कान्यकुब्जमहीपालं शिश्रिये. दशरूपकावलोक-सरस्वतीकण्ठाभरण-क्षीरस्वामिकृतामरकोषटीका युक्तिकल्पतरु- कोषटीका-श्रीमदभिनवगुप्ताचार्यकृतध्वन्यालोकलोचन-काव्यप्रकाश-साहित्यदर्पण- शार्ङ्गधरपद्धति-सूक्तिमुक्तावलि सुभाषितावलि-सुभाषितहारावल्यादिषु राजशेखर- श्लोका , श्रीकण्ठचरितसमाप्तिसर्गे राजशेखरस्य नाम च वर्तते. एते सर्वेऽपि ग्रन्था अस्मिन्निर्णीतराजशेखरसमयादर्वाचीनाः. केवलं क्षीरस्वामिविषये मनाक्संदेहः. काश्मी- रदेशमहीपालस्य जयापीडस्याध्यापकः क्षीराभिधः कश्चन शब्दविद्योपाध्याय आसीत् ( राजतरङ्गिणी ४।४८८ ). स एवामरकोषटीकाकर्ता क्षीरस्वामीति न सम्यक्. यतः क्षीरस्वामिकृतामरकोषटीकाया 'श्रीभोजः' इति नाम बहुषु स्थलेषु वर्तते. भोजश्चै- कादशशतकमध्यभाग आसीत्, तस्मादेकादशशतकमध्यभागादर्वाचीनः क्षीरस्वामी कथमष्टमशतकोत्तरार्धसमुद्भूतस्य जयापीडनृपतेरध्यापको भवितुमर्हति ? तस्मात्क्षी- रोपाध्यायात्क्षीरस्वामी भिन्न एव. — राजशेखरप्रणीता ग्रन्थाः — बालरामायणम्, बालभारतम् ( प्रचण्डपाण्डवम् ), कर्पूरमञ्जरी, विद्धशालभ- ञ्जिका चेति ग्रन्थचतुष्टयमेव राजशेखरकृतं प्राप्यते. तत्र बालरामायणं मूलमात्रमेव, बालभारतस्य केवलमङ्कद्वयम्, नारायणदीक्षितकृतटीकासमेता विद्धशालभञ्जिका, वासुदेव-धर्मदास-कामराज-कृष्णसूनुकृताभिष्टीकाभिः समेता कर्पूरमञ्जरी च लभ्यते. बालरामायणे भर्तृमेण्ठ-भवभूति-शंकरवर्म-अकालजलद-तरल-सुरानन्द-कविराजा- नाम् कर्पूरमञ्जर्यां च मृगाङ्कलेखाकथाकारापराजित-हाल-हरिचन्द्र-नन्दिचन्द्र-कोटि- सानां कवीनां नामानि सन्ति. तेषु शंकरवर्म्मापराजितौ राजशेखरसमकालीनौ, अका- लजलद-तरल-सुरानन्द कविराजा राजशेखरस्य पूर्वपुरुषाः. तेषु कविराजो राघव- पाण्डवीयकर्ता, भर्तृमेण्ठ-भवभूतिहाल-हरिचन्द्राः प्रसिद्धा एव, नन्दिचन्द्र-कोटिसौ चाप्रसिद्धौ स्तः. पूर्वोक्तग्रन्थचतुष्टयप्रस्तावनासु राजशेखरेण रघुकुलचूडामणिर्महेन्द्र- पालः स्वशिष्यत्वेन वर्णितः. बालभारतप्रस्तावनायां तु निर्भयनरेन्द्रसूनोर्महीपाल- देवस्यापि वर्णनमस्ति. निर्भयराजोऽपि राजशेखरस्य शिष्य एवासीत्. 'बालकविः कविराजो निर्भयराजस्य तथोपाध्याय' इति कर्पूरमञ्जरीप्रस्तावनायाम् 'विभ्रमराजस्य

तथोपाध्याय 'इति कामराजसमत पाठः. निर्भयराज इति महेन्द्रपालस्यैव नामान्त- रमिति केचित्, महीपालदेवश्च चण्डकौशिकप्रस्तावनायामार्यक्षेमीश्वरेणापि वर्णित . 'कर्णाटीदशनाङ्कित शितमहाराष्ट्रीकटाक्षाद्दत प्रौढान्ध्रीस्तनपीडित प्रणयिनीभ्रू- भङ्गवित्रासित । लाटीबाहुविचेष्टितश्च मलयस्त्रीतर्जनीतर्जित सोऽयं संप्रति राजशे- खरकविर्बाराणसीं वाञ्छति ॥' अयं श्लोक औचित्यविचारचर्चायाम्, 'दातुर्वारिध- रस्य-' इत्यादिश्लोका सुभाषितावल्याम्, 'भासो रामिलसौमिलौ' इत्याद्या श्लोका- श्शार्ङ्गधरपद्धतौ, 'अकालजलदेन्दो सा' इत्याद्या बहव श्लोका सूक्तिमुक्तावलि-सुभा- षितहारावल्यो राजशेखरनाम्ना समुद्धता सन्ति ते च प्रसिद्धेषु राजशेखरग्रन्थेषु न प्राप्यन्ते तस्मात्सन्त्येवेऽपि केचन राजशेखरकृता ग्रन्था इति ज्ञायते 'विद्धि न षट्प्रबन्धान्' इति च बालरामायणप्रस्तावनाया स्वयमेव राजशेखरो वदति. अस्य कवे शार्दूलविक्रीडितच्छन्दोनिबद्धा श्लोका अतिसमीचीना सन्ति. 'शार्दूल- क्रीडितैरेव प्रख्यातो राजशेखर । शिखरीव परं धत्ते सोल्लेङ्घयशेखर ॥' इति सुवृत्ततिलके क्षेमेन्द्र 'आगस्कारिणि कैटभप्रमयने तच्छाडनार्थं रुषा नाभीपङ्कजमभ्रतां गमयितुं जाते प्रयत्ने धिय । खावासोन्नयनोपपादितभयभ्रान्तात्मनस्तत्क्षणादन्त- र्बाष्पपरा पुरातनमुनेर्वाग्दृष्टय पान्तु व ॥' अयं श्लोक सूक्तिमुक्तावलौ राजशे- खराम्तेवासिनाम्ना समुद्धृत तेन राजशेखरस्य कश्चन शिष्योऽपि कविरासीत् — राजशेखरकृतोऽन्यकविपरिचयः — सूक्तिमुक्तावलि-सुभाषितहारावलि-शार्ङ्गधरपद्धतिषु राजशेखरकृता प्राचीनकवि- प्रशंसाश्लोका केचन समुपलभ्यन्ते, ते सर्वेऽप्युत्तरवादेन कविनामक्रमेण समु- द्ध्रियन्ते— अकालजलदेन्दो. सा हृद्या वचनचन्द्रिका । नित्य कविचकोरैर्या पीयते न च हीयते ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि ) अकालजलदकवी राजशेखरस्य प्रपितामह आसीत् 'अकालजलदस्य प्रणप्तु ' इति विद्धशालभञ्जिकाप्रस्तावनायाम् 'स मूर्तो यत्रासीद्गुणगण इवाकालजलद सुरानन्द सोऽपि श्रवणपुटपेयेन वचसा । न चान्ये गण्यन्ते-तरुकविराजप्रभृतयो महाभागस्तस्मिन्नयमजनि यायावरकुले ॥ तदामुष्यायणस्य महाराष्ट्रचूडामणेरकाल- जलदस्य चतुर्थो दौर्दुकि ( दौहिकि ) शीलवतीसूनुरुपाध्यायश्रीराजशेखर ' इति

च बालरामायणप्रस्तावनायां वर्तते. अकालजलदकृतः कोऽपि ग्रन्थो नाद्याप्युप- लब्धः, केवलं 'भैकैः कोटरशायिभिः' इत्यादिश्लोकः शार्ङ्गधरपद्धत्यादिषु लभ्यते. ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना । आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ॥ (सूक्तिमुक्तावलि, सुभाषितहारावलिः, )

  • काव्यालोकाद्यनेकग्रन्थकर्ता काश्मीरदेशोद्भवोऽवगतिकर्मोपचितमन्त्राशीनोऽयमा- नन्दवर्धनाचार्यः प्रसिद्ध एव. अकालजलदश्लोकैश्चित्रमात्मकृतैरिय । जातः कादम्बरीरामो नाटके प्रवरः कविः ॥ (सूक्तिमुक्तावलिः, ) सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ । या वैदर्भंगिरां वासः कालिदासादनन्तरम् ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः. ) 'दग्ध्वेऽभूज्जिताशनश्च पुंडिताऽस्मीह्यापारतस्ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो -नमोऽह्यहे । अद्यो यदि गद्यपद्यरचने चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वाम- चरणं कर्णाटराजप्रिया ॥' एतच्छ्लोककर्त्री कदाचिदियमेव विजयाङ्का कर्णाटी स्यात्. एकोऽपि जीयते हन्त कालिदासो न केनचित् । शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः, ) जानकीहरणं कर्तुं रघुवंशे स्थिते सति । कविः कुमारदासश्च रावणश्च यदि क्षमः ॥ (सूक्तिमुक्तावलिः, ) काव्यानुशासनपृष्ठे औचित्यविचारचर्चायां १४४ पृष्ठे उत्तरार्द्धस्यनामोपरि टिप्पणं विलोकनीयम्.

९ दूरादपि सतां चित्ते लिखिताश्चर्यमञ्जरीम् । कुलशेखरवर्मा भ्या(१) चकाराश्चर्यमञ्जरीम् ॥ (सूक्तिमुक्तावलि.) आश्चर्यमञ्जरी कश्चन ग्रन्थ 'पाणिनिप्रत्याहारो वा महाप्राग्भारमाश्रिण्ये झयादि- त्रितश्च समुद्र, इत्याश्चर्यमञ्जरी' इत्यमरसोपज्ञीकाया चारित्रेये शतपदव्याख्याने मुकुट 'केरलोत्पत्ति-केरलविशेषमाहात्म्यनामकग्रन्थाभ्यां समुद्धृते कस्मिंश्चन लेखे केरलदेशक्षितिपाल कुलशेखर ३३२ मिते प्लवङ्गसंवत्सरे आसीदिति दर्शितम्' इति वामन-शिवराम-आपटेप्रणीताया राजशेखरवर्णनभूमिकाया १३ पृष्ठे टिप्पण्यां द्रष्टव्यम् कुलशेखरनृपतिकृता मुकुन्दमाला प्रसिद्धैव कुलशेखर एव राजशेखर इति मिथ्यैव केरलीयानां प्रवाद, यतो राजशेखरेणात्र कुलशेखरो वर्णित आदौ गणपतिं वन्दे महामोदविधायिनम् । विद्याधरमणेर्यस्य पूज्यते कण्ठगर्जितम् ॥ (सूक्तिमुक्तावलि, सुभाषितहारावलि) 'महामदविधायिनम्' इति पुस्तकान्तरपाठ हुता शिखिनि गौनाढ्या स्तोकशेषापि सा कथा । सुरलीदेन्दुलेखेव लोके पूज्यतमाभवत् । (सुभाषितहारावलि.) गुणाढ्यप्रणीता बृहत्कथा पञ्चशतमितां दग्धा, केवलमेकशतमितावशिष्टा, इति कथासरित्सागरेऽप्यनन्तरे कथा द्रष्टव्या अनुमासिनि संदर्भे गोनन्दनसम कृत । यथार्थनामतैवास्य यद्द्वाग्भवदति चारुताम् ॥ (सूक्तिमुक्तावलि.) यायावरकुलश्रेणेरीर्यटेश्च मण्डनम् । सुवर्णग्रन्थरुचिरस्तरळस्तरलो यथा ॥ (सूक्तिमुक्तावलि, सुभाषितहारावलि.)

१० तरलो हारमध्यमणिरपि अयमपि कवी राजशेखरस्य पूर्वपुरुष पूर्वकालजल- द्धश्लोकटिप्पणे लिखितं बालरामायणप्रस्तावनापद्यं विलोकनीयम् राजशेखरोऽप्या- त्मानं यायावरकुलोत्पन्नमेन प्रबन्धेषु वर्णयति. कर्तुं त्रिलोचनादन्यः कः पार्थविजय क्षमः । तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथम् ॥ ( सुभाषितहारावलि . ) त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ ( शार्ङ्गधरपद्धति, सुभाषितहारावलि . ) दशकुमारचरितम्, काव्यादर्शश्चेति प्रबन्धद्वयमेव लभ्यते मल्लिकामाधवकर्त्ता तर- ण्डापरनामा रङ्गनाथकवि, न तु दण्डी कलापरिच्छेद-च्छन्दोविचित्यादय स्त्वन्येऽपि दण्डिकृता ग्रन्था इति काव्यादर्शाज्ज्ञायते कविरयं सत्समदासकप्रारम्भहृत्सुहृद् . सरस्वतीपवित्राणां जातिस्तत्र न कारणम् । व्यासस्पर्द्धा कुलालोऽभूद्द्रोणो भारते कविः ॥ ( शार्ङ्गधरपद्धति . ) पुस्तकान्तरे 'न देहिनाम्' इति पाठ . द्विसंधाने निपुणता सा ता चक्रे धनंजयः । यया जातं फलं तस्य सतां चक्रे धनं जयः ॥ ( सूक्तिमुक्तावलि, सुभाषितहारावलि . ) यसुदेवगौडधृतगुहद्विसंधानकाव्यकर्तारं धनंजयमाकर्ण्यैतेन शार्ङ्गधरपद्य- न्दर्भेऽमपि द्विसंधानकाव्यस्य नामान्तरम् कवियाञ्चल प्रसिद्ध मुदितं च राघ- वाण्डवीयकाव्ये निरूपम् सद्धि पाणिनये तस्मै यस्य रुद्रप्रसादतः । आसी व्याकरणं काव्यमनु जाम्बवतीजयम् ॥ ( सूक्तिमुक्तावलि, सुभाषितहारावलि . )

११

'पद्मं भूपतिभिः स्पृष्टा याति याता शनैः शनैः, इति जाम्बवतीविजयवा- क्यम्', 'स पदर्पेदैरम्बरमापुपूरे, इति जाम्भवत्यां पाणिनिः' इत्यादि जाम्बवतीज- यकाव्यस्यैकदेशा मुकुटेनाम्रकोशटीकायामुदाहृता सन्ति 'तथाहि पाणिनैः पाता- लविजये महाकाव्ये—सन्ध्यावधू गृह्य करेण' इत्यादि काव्यप्रकाशटीकायां नमिसा- धुना चोदाहृतम् तेन जाम्बवतीजयस्य पातालविजयमित्यपि नामान्तरं भाति सुभाषितावलि-सदुक्तिकर्णामृतादिषु बहवः पाणिनिश्लोकाः प्राप्यन्ते 'स्पृहणीयत्वं चरितं पाणिनैरुपजानिभिः । नमत्पार्वकसारामिद्यमानस्वेन जात्रिभिः ॥' इति सुवृत्त- तिलकस्यक्षेमेन्द्रश्लोकेभोपजातिच्छन्दोनिबद्धा पाणिनिश्लोका अयुतमाः सन्तीति ज्ञायते य एव व्याकरणसूत्रकर्ता स एव जाम्बवतीजयकाव्यस्य कर्तेत्यस्माद्राज- शेखरश्लोकात्स्फुटं प्रतीयत तस्मात्पाणिनिद्वयकल्पनं व्यर्थमेव

प्रद्युम्नान्नापरस्येह नाटके पन्नों गिरः । प्रद्युम्नान्नापरस्येह पौष्पा अपि शराः खराः ॥ (सूक्तिमुक्तावलिः)

सहर्षचरितारब्धाद्भुतकादम्बरीकथा । बाणस्य वाण्यनार्य्येव स्वच्छन्दा भ्रमति क्षितौ ॥ बाणेन हृदि लग्नेन यन्मन्दोऽपि पदक्रमः । प्रायः कविकुरङ्गाणां चापलः तत्र कारणम् ॥ (सूक्तिमुक्तावलिः)

सूक्तीनां स्मरकेलीनां कलानां च विलासभूः । प्रभुदेवी कविर्लाटी गतापि हृदि तिष्ठति ॥ (सूक्तिमुक्तावलिः, सुभाषितहारावलिः)

दृक्सम्प्रबोधरुद्धाणी भा रवेरिव भारवेः । माघेनेव च माघेन कम्पः कस्य न जायते ॥ (सुभाषितहारावलिः)

मायूराजसमो जज्ञे नान्यः करचुलिः कविः । उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः ॥ ( सूक्तिमुक्तावलिः, सुभाषितहारावलिः. ) हैहयवंशोद्भवाः करचुलि ( कलचुरि ) नामानः केचन क्षत्रिया अद्यापि 'रीमां' ( रेवां )। राज्ये वर्तन्ते. राजशेखरसमये चेदिदेशान्तर्गता माहिष्मती नाम नगरी तेषां राजधानीत्यासीत्, 'यन्मेखला भवति मेकलशैलकन्या वीतेन्धनो वसति यत्र च चित्रभानुः । तामेष पाशितकृतवीर्ययशोवतंसां माहिष्मतीं कलचुरेः कुलराजधानीम् ॥' इति बालरामायणम् ( ३।३५ ) मेकलसुता नर्मदा. सा च माहिष्मती इन्दोरनगरा- द्दक्षिणदिशि पञ्चदशयोजनान्तरे नर्मदादक्षिणतटेऽधुना 'महेश्वर' इति नाम्ना प्रसिद्धा इन्दोरनृपतेरेवाधीना वर्तते. चेदिदेश एव नर्मदोपकण्ठे त्रिपुरीनाम द्वितीयापि कलचुरिराजधान्यासीत्. 'सीतास्वयंवरनिदानधनुर्धरेण दग्धास्तुरङ्गितरतो विभुना भवेन । खण्डं निपत्य भुवि या नगरी बभूव तामेष चैद्यतिलकस्त्रिपुरीं प्रशास्ति ॥' इत्यपि बालरामायणम् ( ३।३८ ) 'त्रिपुरी चेदिनगरी' इति हैमनाममाला ( ४।४१ ) राजशेखरकृतविद्धशालभञ्जिकायाश्चनायकः करचुलिकुलोत्पन्नोऽस्यामेव त्रिपुर्यामा- सीत्. 'करचुलितिलको वर्तते चक्रवर्ती' इति, 'स्वस्तिश्रीमत्त्रिपुर्यां तुहिनकरसुतावी- चियाचालितायाम्' इति च विद्धशालभञ्जिकाचतुर्थेऽङ्के वर्तते, तुहिनकरसुता सोमोद्भवा नर्मदा. सा च त्रिपुरी इदानीं 'तेवुर' इति नाम्ना प्रसिद्धा जबलपुरसमीपे वर्तते इति दक्षिणदेशेतिहासपुस्तके ( ३७ पृष्ठे ) पण्डितवरभाण्डारकरः करचुलि- वंशोद्भवोऽयं मायूराजोपिचेदिदेश एवोत्पन्नः स्यात्. 'गण्डूषान्तेपिताम्बुप्रविकट- गलधटोरत्खजातास्मितानी हेलाकृष्टार्धचन्द्राभिभवबृहत्तमहाकुण्डलाभोगभाजम् । पीनोरःस्थापितार्ताद्विरदमदगधीमासरस्था रुकानां दूरं यातस्य यस्य स्मरति दश- शिरास्त्वग्विषूत्पीडितानाम् ॥' इत्याद्याः केचन श्लोका मायूराजनाम्ना समुद्धृताः सूक्तिमुक्तावल्यादिषु प्राप्यन्ते. तद्विलोचनेन च मायूराजः कस्यचिद्रामायणस्यानु- कूलनाटकस्य कर्तासीदिति ज्ञायते. ( वक्रोक्त्या मेण्ठराजस्य वहन्त्या सृणिरूपताम् । आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः ॥ ) मेण्ठो हस्तिपकः ; (पक्षे) राजशेखरेण बालभारत-बालरामायणप्रस्तावनायां गृही- तनामा कश्मीरदेशोद्भवो हयग्रीववधकाव्यकर्ता विक्रमार्कसमकालीनो भर्तृमेण्ठः

१४ कवि अय श्लोकः सूक्तिमुक्तावलि-सुभाषितहारावल्यो राजशेखरश्लोकबहिर्भूत- स्तत्समीप एव तिष्ठति भाति चायमपि राजशेखरस्यैवेत्यतोऽत्र गृहीतः । मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि . ) हरविजयकाव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहा- -कवि प्रसिद्ध एव. तौ शूद्रककथाकारौ रम्यौ रामिलसौमिलौ । काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम् ॥ ( सुभाषितहारावलि . ) सौमिलस्य नाम मालविकाग्निमित्रप्रस्तावनायां वर्तते, तेन कालिदासात्सौमिल- स्तस्मादपि शूद्रक प्राचीन 'सभ्याये कुशता' इत्यादिश्लोक शार्ङ्गधरपद्धतौ रामिलसौमिलयोर्नाम्ना समुद्धृतः , 'वरपुरुषादिव सवितु' इत्यादिरमिलश्लोक सुभाषितावलावप्यस्ति. यथार्थता कथं नाम्नि मा भूद्वररुचेरिह । व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः ॥ ( सूक्तिमुक्तावलि . ) कात्यायनापरनामा वररुचि प्रसिद्ध एव सद्‌वृत्तो व्याकरणवार्तिकपाठ प्राकृत- सूत्राणि च सर्वत्र सुलभान्येव. सुभाषितावल्यादिषु बहवो वररुचिना. श्लोकाः समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव. के चैकटनितम्बेन गिरां गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलि )

१५ स्थिता माध्वीकपाकत्वान्निसर्गमधुरापि हि । किमपि स्वदते वाणी केषांचिदपि शांकरी ॥ ( सूक्तिमुक्तावलि..) अत्र बालरामायणप्रस्तावनायां गृहीतनामा स्वसमकालीन. कृष्णशंकरवर्मा राज- शेखरस्य विवक्षित , न तु शंकराचार्य. कश्चिदन्यो वा शङ्कर इति भाति. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ ( सूक्तिमुक्तावलि , शार्ङ्गधरपद्धति .) पृथिव्यां प्रथिता गाथा सातवाहनभूभुजा । व्यधुर्वृत्तेस्तु विस्तारमहो चित्रपरम्परा ॥ ( सूक्तिमुक्तावलिः.) पार्थस्य मनसि स्थानं लेभे खलु सुभद्रया । कवीना च वचोवृत्तिचातुर्येण सुभद्रया ॥ ( सूक्तिमुक्तावलि , सुभाषितहारावलिः. ) 'दुग्धं न यादनु' इत्यादिश्लोक सुभद्राकृत सुभाषितावलौ वर्तते. नदीना मेकलसुता नृपाणां रणविग्रहः । कवीना च सुरानन्दश्चेदिमण्डलमण्डनम् ॥ ( सूक्तिमुक्तावलि . ) मेकलसुता नर्मदा सुरानन्दो राजशेखरस्य पूर्वपुरुष इत्यकाउलजलदघनेनश्लो- कटिप्पणमुद्धृते बालरामायणप्रस्तावनापद्ये द्रष्टव्यम् चेदिदेशो डाहलापरपर्याय . 'त्रैपुरास्तु डाहला' स्युश्चैद्यास्ते चेदयश्च ते' इति हेमनाममाला ( ४।२१ ) 'डाह- लाश्चेद्यचैद्या.' इति त्रिकाण्डशेषे भूमिवर्ग 'नीत्वा गङ्गाधरधरतां डाहलाधीश- लक्ष्मि' इति विक्रमाङ्कदेवचरितम् ( १८।९५ )

१६ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्माघो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः । दण्डी बाणदिवाकरा गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥ (शार्ङ्गधरपद्धतिः) एषु कविषु साहसाङ्क-स्कन्धयोर्विषये न किमपि ज्ञायते. कान्त इति तु रत्ना- करविशेषणम्. --- अत्रायं निष्कर्षः --- अस्य संपूर्णलेखस्य निष्कर्षस्त्वयम्—यन्महाराष्ट्रचेदिदेशयोरन्यतरोद्भवः कान्य- कुब्ज महीपालस्य महेन्द्रपालस्याश्रितो ब्राह्मण क्षत्रियो वा राजशेखरकविः ८८४ ख्रिस्तसंवत्सरादनन्तरं ९५९ संवत्सरात्पूर्वं चासीत्. राजशेखरस्य विस्तरेण वर्णने तु पुण्यपत्तनस्थार्यभूषणमुद्रणशालये मुद्रितायां फर्गुसनपाठशालाध्यक्षेण एम्. ए. पदवी- मण्डितेन शिवरामसूनुवामनपण्डितेन प्रणीतायाम् 'राजशेखर' हिज् लाइफ ऐण्ड रायटिंग्स्' इति नामाङ्कितायां पुस्तिकायां द्रष्टव्यम्. इत्यलं बहुभिः पिष्टस्य मुहुः पेषणेन.

महाकविश्रीराजशेखरकृता कर्पूरमञ्जरी वासुदेवकृतया टीकया समेता —प्रथमं जवनिकान्तरम्— भद्दं होउ सरस्सईअ कइणो णंदंतु वासाइणो अण्णाणं पि परं पवट्टउ वरा वाणी छइल्लप्पिआ। वच्छोमी तह मागही फुरदु णो सा किं च पंचालिआ रीईओ विलिहंतु कव्वकुसला जोण्हं चकोरा विअ ॥ १ ॥ दशास्योद्यद्दाल्यच्छिद्रं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोड्डसद्भृङ्गसङ्गं हरोत्तुङ्गसङ्गाच्च गङ्गास्तरङ्गान् ॥ तातं प्रभाकरं नत्वा मातरं गोमतीमपि । कर्पूरमञ्जरीटीका वासुदेवेन तन्यते ॥ कर्पूरमञ्जर्याख्यसट्टकारम्भे सूत्रधार आशीरूपा नान्दीं पठति— भद्दमिति । भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च 'व्यासादय' इत्यादौ 'सरस्वत्या' इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गा- भासेऽपि 'भवतु' इत्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शङ्क्यः । तेन रीतीनां शब्दगुण । यथोक्तं सरस्वतीकण्ठाभरणे (१।७६)—'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरस्वत्याः सततं १ अत्र 'साट्टअ' इति पाठः क्वचित् ; तल्लक्षणं चोक्तं साहित्यदर्पणे (६।२७६) 'सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चाद्भुतो रसः । अङ्का जवनिकाख्याः स्याद्व्यङ्ग्यादिसमन्वयम् ।' इति । विशेषस्तु भावप्रकाशे द्रष्टव्यः । १

२ कर्पूरमञ्जरी भद्रभाजनत्वादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यत्र आशंसनम् । ‘भवेत्तल्लिङ्गवचनं यल्लिङ्गवचनोपमम्’ इत्युक्तत्वाज्ज्योरक्षामित्युपमाने भिन्नवचनतादोषो न शङ्क्यः । ‘यल्लिङ्गमलिङ्गमित्युक्तं तल्लिङ्गवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीम- ताम् ॥’ इति वृद्धेः, ‘न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूष- नायालं यत्रोद्वेगो न धीमताम् ॥’ (का. २।५१) इति दण्डिना चोक्तत्वात्, अत्र चाल्पीयस्या अपि ज्योत्स्नाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य ‘पदैक- देशरचनावर्णेष्वपि रसादयः’ (४।४३) इति काव्यप्रकाशकृदुक्तेरैशवचनेन व्यञ्जनादुद्वेगाभावो वेदितव्यः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम्। रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्यज्यते । ‘काव्यकुशला’ इति तादृशानामेव सम्बन्ध्यमत्र सूचितम् । तल्लक्षणं भरते—‘सभ्यास्तु विबुधैर्ज्ञेया ये द्विषड्लान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः । अगर्वा रससारशालीर्यश्रितयकोविदाः ॥ असाद्वदनिषेद्धारश्चतुरा मत्सरच्छिदः । अमन्दरसानिष्यन्दिहृदया भूषणोज्ज्वलाः ॥ सुवेषा भोगिनो नानाभावोपचारविशा- रदाः । स्वस्वोचितस्थाननिष्ठाश्चाप्रधर्षसापगत्यणाः ॥’ इति । चकोरोपमानेन विधे- चानकर्तृत्वप्रार्थना व्यङ्ग्या । सोऽयमलंकारेण वस्तुध्वनिः । विदग्धप्रियेति षष्ठी- तत्पुरुषो वृत्त्या वाण्या विशेषणम् । यद्वा,—वैदर्भ्यादीनाम् । अस्मिन्पक्षे कर्मधारय- माश्रित्य वैदर्भ्यादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकारध्वनिः । वैद- र्भ्याद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे (२।२९)—‘तत्रा- समासा निःशेषसमप्रगुणगुम्फिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ पूर्वैरीतैर्निर्वाहे गण्डरीतिस्तु मागधी । अनल्पस्पष्टपदामोजःकान्तिविवर्जिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥’ इति । रीतिसामान्यलक्षणं च तत्रैव—‘वैदर्भ्यादिरिहाः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गतौविधातोः सा व्युत्पत्त्या रीतिरिष्यते ॥ (स. क. २।२७) इति। गौड़ी लाटीनामेकैकगुणव्यति- रेकेणैवोपादानम् । चकोरा ईवेत्युपमालंकारः सा यथ—‘साधर्म्यमुपमा भेदे’ (१०।८७) इति काव्यप्रकाशे । वामनेनाप्युक्तम्—(वा. सू. ४।२।४२) ‘उपमानोपमेययोर्गुणलेशेनः साम्यमुपमा’ इति । दण्डिनाप्युक्तम् (का. २।१४)— ‘यथाकथञ्चित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं

१. प्रथम जवनिका: भैरवानन्द योग-सिद्धि एवं कर्पूरमञ्जरी प्रादुर्भाव

प्रथमं जवनिकान्तरम् ३

निदर्श्यते॥' इति। 'भद्द होदु' इत्यादी छेकानुप्रासः। 'कइणो' इत्यादौ वृत्त्यनुप्रासः। स यथा तत्रैव—'वर्णेष्वस्तिरनुप्रासश्छेकोवृत्तिगतो द्विधा। सोऽनेकस्य सकृत्पूर्व एक- स्याप्यसकृत्परः॥' इति। इयं च वैदर्भी रीतिः। ओजःप्रसादश्लेषसमाधिमाधुर्यसौ- कुमार्यार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात्। एतेषां विवरणं न कृतम्, ग्रन्थगौरवभयात्। एवमन्येऽपि वैशिक्यादयः शब्दालङ्कारा ज्ञेयाः। 'ध्वनिमत्ता तु गाम्भीर्यम्' (स. क. १।७३) इत्युक्तत्वाद्गाम्भीर्यादयो गुणाश्च। केचित्तु रीत्यादीनामपि गुणत्वं मन्यन्ते। अत्र च 'रतिर्देवादि विषया' इत्युक्तत्वात्सरस्वत्यादि- विषया रतिरुक्ता। विदग्धप्रियेत्यनेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदर्भादि- शब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात्, 'काव्यकुशल'पदेन च तेषां नायक- स्वारोपात् शृङ्गारो ध्वन्यते। स्पष्टाद्यदि स्वयमूद्यम्। इदं च शार्दूलविक्रीडि- तम्—'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति। 'वर्णविन्यासयोगः। पद्यादौ नामवस्ते वचसि च शकले प्राकृतादौ ममोऽयम्' इत्युक्तेर्गणादिविचारः क्रियते—तत्र 'गो भूमिश्रिगुष्ठ श्रियं दिशति' इत्युक्तत्वाद्रगणोदिरनास्ति। 'मुख भयमरणक्लेशेषु गान्यवर्ग' इत्युक्तैर्वर्णशुद्धेः। 'देवतावाचकाः शब्दा ये च भद्रा- दिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि च॥' इत्यभिधानात्। 'मगण नगण दुइ मित्त होइ भगण यगण होइ मिथ। उदासीन जत दुअ गणअ अवसिट्ठ दुइ अरि गित्थ॥', 'मित्रानिमित्रादयः स्युर्यदि धामुदयः शून्यः सन्धु पीडाम्' इत्य- रिखंक्षकस्य सगणस्य मित्रसञ्ज्ञा मगणादुत्तरपतितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम्। नान्दी लक्षणे 'शब्दतो वार्धतो वापि मनाक्काव्यार्थसूचनम्' इत्युक्तेस्तद्युच्यते—सर- स्वत्याः क्षीरत्वस्य कर्पूरमञ्जर्याः। 'सरस्वती स्यात्क्षीरत्वे नद्यां नद्यन्तरे गवि' इत्य- जयः। विविधं वस्तुमभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासो भैर- वानन्दः। तदीयोयोगिनः कवयो विद्वांसः स्तुतानुवृत्ताः। वरा उत्कृष्टा वाणी यस्यां सा कर्पूरमञ्जरीमदृशी कान्ता। विदर्भमगधपञ्चालदेशीयरीतिषु कं सुखं यान्तां ता नाना विलासिन्यः काव्यानभिज्ञा रसिका इति। 'हरोत्तमाङ्गस्थितवस्तुवर्णने' इत्युक्तं 'ज्योत्स्ना'पदेन शिवशिरः स्थितचन्द्रकलाम्यारणम्। भद्द इति भद्रशब्दे 'सर्वेश्र श्वराम्' इति सूत्रेण रलोपे 'शेषादेशयोरूध्वमनादौ' इति दस्य द्वित्वे 'अत ओ सो' इति सोरोकारादेशे प्राप्ते 'न लुप्त मोर्बिन्दुः' इत्यनुस्वारः। एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञेया। क्वचिद्विशेषं वक्ष्यामः। उइ-षष्ठोमीशब्दौ 'दाटादयो बहु- ल्म्' इति विदग्धवैदर्भीशब्दयोः साधू। णीण्हं इति ज्योत्स्नाशब्दे 'अधो मनयामूं'

अवि अ, - अकलिअपरिरंभविब्भमाई अजणिअचुंबणडंबराई दूरं । अघडिअथणताडणाई णिच्चं णमह अणंगरईण मोहणाई ॥ २॥ . स्थापकः- ' ससिहंडमंडणाणं छम्मुहणासाणं सुरअणपिआणं । गिरिसंगिरिंदसुआणं संघाडी वो सुहं देउ ॥ ३ ॥ इति नलोपे प्राप्ते 'न्हऋष्णाश्लथा ष्ह' इति सम्प्र ष्हादेशे 'उपरि लोप -' इति तलोपे 'अधो मन्‍याम्' इति यलोप. ॥ अवि अ इति । अपि च, - अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम् । अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि ॥ दूरमत्यर्थं ताडनानि चन्द्रक्लोद्बोधनार्थानि 'अनुष्ठे चरणे च गुल्फनिलये' इत्या- दिना पञ्चमायकाद्युक्तानि । 'ताडन'पदेन नखदशनारीण्युपभुक्तानि । मोहनानि सुर- तानि । अत्र संभोगशृङ्गार उक्तः । चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते । तेषां क्रियमाणत्वादेव । परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न चिन्तिताः । अनङ्गरत्योरिति षाष्ठ्यतिष्ठेन नमतेति पदयोश्च गम्यानामधिरङ्गिरिति व्याख्याम् । सुरतानामतिश- यितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः । सत्स्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तिर्विशेषोक्तिः । सा यथा काव्यप्रकाशे- (१०।१०८) 'विशेषोक्तिरखण्डेषु कारणेषु फलाऽवचः' इति । काव्यार्थसूचनेऽनङ्ग- रतिशब्देन चन्द्रात्तकवूर्णनशूर्योर्नायक्रयोर्मोहनानीति ज्ञेयम् ॥ स्थापकः-

प्रथमं जवनिकान्तरम् ५ अवि अ,- ईसारोसप्पसाअप्पणइसु बहुसो सग्गगंगाजलेहिं आमूलं पूरिआए तुहिनकरकलारुप्पसिप्पीए रहो । जोण्हामुत्ताहलिहं पणमउलिणिहित्तग्गहत्थेहिं दोहिं अग्घं सिग्धं व देतो जयइ गिरिसुआपायपंकरुहाणं ॥ ४ ॥ तिरेकालङ्कारो व्यङ्ग्यः । ‘महाहिवत्था प्राप्ता चन्द्ररेखाविभूषणा’ (सप्त. ८।१६) इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । ‘मण्डन’पदेन विरुद्धवैरस्याप्यलंकारकारित्व- सूचनाद्व्यतिरेकालङ्कार एव व्यङ्ग्यः ॥ अवि अ इति । ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै- रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रहः । ज्योत्स्नामुक्ताफलनिभं नतमौलिनिहिताग्रमग्रहस्ताभ्यां द्वाभ्या- मर्ध्यं शीघ्रमिव ददज्जयति गिरिसुतापादपङ्केरुहयोः ॥ बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थं क्रियमाणासु प्रणतिषु नतमौलिने क्षिप्ता- ग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रमर्घ्यमिव ददद्रहो जयतीत्यन्वयः । चन्द्रकलायाः शुक्तित्वम् । अन्योऽपि भक्तो जलपूरितया रूप्य- शुक्त्या मुक्तायुक्तं प्रणामपूर्वं हस्ताभ्यामर्घ्यं ददातीत्यर्थक्षेपः । बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम् । स्वर्गगङ्गेति भावित्वमभिप्रेत्युक्तम् । शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम् । देवीपादयोश्चन्द्रकरासम्बन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावे- शेन मानभङ्ग इति शङ्कया । अत्र रूपकम्—‘उपमैव तिरोभूतभेदा रूपकमुच्यते’ (का २।६६) इति तल्लक्षणात् । अर्घ्यमिवेत्युत्प्रेक्षा—‘अन्यथैव स्थिता वृत्तिश्चेत- नस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षां विदुर्बुधा ॥’ (का २।२२१) इत्युक्तत्वात् । ‘परोत्कर्षाक्षमेर्ष्या स्याद्दीनेऽन्याग्मन्द्युतोऽपि वा’ इति रसकलिका- यामुक्तत्वान्मन्दरादिनीरुपसपध्यार्माय्यां हेया गौर्याः । इयं च स्वाधीनभर्तृका । सा यथा तत्रैव—‘स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः’ इति । अन्यो- ऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः । ‘दाढादयो बहुलम्’ इति ‘शुक्ति’शब्दस्य सिप्पीत्यादेशः । तदुक्तम्—‘अर्धाङ्गीदूर्यशुक्तीनां वधूर्धमिल्लशब्दयोः । रैट्टुवेरील्ल- असिप्पी’ इति । हत्थेहिति ‘आत्त्विदोरान्तर्वतो मतुप्’ इति मतुप् डा । ‘सेवादिषु वा’ इति निहितेत्यत्र या डिरम् ॥

६ कर्पूरमञ्जरी (नान्द्यन्ते।) स्थापकः—(परिक्रम्य नेपथ्याभिमुखमवलोक्य।) किं उण णट्टप्पउत्तो विअ दीसदि अम्हाणं कुसीलवाणं जणो। जदो एका पत्तोइदाईं सिअ- आईं उच्छिणेदि। इदरा कुसुमावलीओ गुंफेदि। अण्णा पडिसीसआईं पडिसारेदि। कावि हू वण्णिआओ पट्टए घट्टेदि। एसो बंसो ठाविदो ठाणे। इअं वीणा पडिसारीअदि। इमे तिण्णि वि मिअंगा सज्जीअंति। नान्द्यन्ते सूत्रधार इति कविवचनम्। एवमग्रेऽपि मध्ये मध्ये कविवचनं संसृक्तं ज्ञेयम्। नान्दीलक्षणं तु—'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः। नान्दीति कथ्यते' इत्यादि भरते। नाट्यप्रदीपेऽपि—'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः। यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी॥' इयं च मङ्गलार्था—'यन्नाट्यवस्तुनः पूर्वरङ्गं विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते॥ उत्थापनाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि। तथा- प्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये॥' इत्युक्तत्वात्। सा चेहाष्टपदी वृत्ता— 'नाट्यपूर्वोक्ता नान्दी त्वाशीर्वचनसंयुता। अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता। नान्दी पदैर्द्वादशभिर्वाष्टभिर्वाप्यलङ्कृता॥' इति भरतोक्तेः। पदानि चात्र श्लोक- चरणरूपाणि—'श्लोकपादं पदं केचिच्चुप्तिङन्तमथापरे। परेऽवान्तरवाक्यैकस्वरूपं पदमूर्चिरे॥' इति नाट्यप्रदीपेऽभिहितत्वात्। अवान्तरवाक्यरूपे पदेऽपदेयं द्रष्टव्या। सा चेयं सूत्रधारप्रयोज्या—'सूत्रधारः पठेन्नान्दीं मध्यमं स्वरमाश्रि- तः।' इति भरतोक्तेः। ईदृशीं नान्दीं पठित्वा सूत्रधारे गते पश्चात्सूत्र- धारः स्थापकाख्योऽपरः प्रविशतीति शेषः। उक्तं च दशरूपके—(२।२) 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते। प्रविश्य तद्वदपरः काव्यमास्थापये- न्नटः॥' इति। भावप्रकाशेऽपि—'सर्वं रङ्गं विधायादौ सूत्रधारे विनिर्गते। तद्रूपः प्रविशत्यन्यः सूत्रधारगुणावहः॥' इति। पूर्वरङ्गशब्देनार्थरूपो रङ्गः— 'पूर्वो रङ्गस्य इति पूर्वरङ्गो नाट्यशाला। तदारम्भावस्थप्रयोग इति।' अन्यत्राप्युक्तम्—'गान्धर्वाणां पुरा संस्था यत्रत्या वाचिका भवेत्। अतो रङ्ग इति ज्ञेयः पूर्वरङ्गनिरूप्यते। तस्मादयं पूर्वरङ्ग इति विशेष्यते॥' इति। एवमपरमुच्यते सङ्गीतसर्वस्वे—'नर्तनीरङ्गशालायां प्रथमं येन गृह्यते।

प्रथमं जवनिकान्तरम् ७ एस कांसतालाणं पक्खाउज्जाण हल्बोलो सुणीअदि। एदं धुवागीदं आल- पीअदि। ता किं पि कुडुब हक्कारिअ पुच्छिस्सं। (नेपथ्याभिमुखमवलोक्य सज्ञापयति।) रङ्गभूमिं समाक्रम्य सूत्रधार स उच्यते ॥' इति । लक्षण चास्य मातृगुप्ता- चार्यैरुक्तम्—'चतुरातोद्यनिष्णातोज्नेकभूपासमाहृत । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ देश्योपचारचतुर पौरुषेयविचक्षण । तत्तद्गीतानुगा- नेयवलातालवधारण ॥ अवधार्य प्रयोक्ता च योक्तृणामुपदेशक । एवं गुणगणोपेत सूत्रधार स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते—'स्थापक प्रविशेत्तत्र सूत्रधारगुणाकृति ।' इति । सूत्रधार इत्यस्याग्रे क्वचित्पठोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थ । तेन सूत्रधारो वदतीति द्वितीयपदस्यार्थ । एवमग्रेडपि ज्ञेयम् । नेपथ्याभिमुखमिति । 'नेपथ्य स्याज्जवनिका रङ्गभूमिप्रसाधनम् ।' इत्यजय । किं उण इति । किं पुनस्तैलप्रवृत्त इव दृश्यतेऽस्माकं कुशीलय्याना परिजन । जदो इति । यत एका पात्रोचितानि सिचयान्युचिनोति । इतरा कुसुमावलीर्गुम्फति । अन्या प्रतिशीर्षकाणि प्रसादयति । प्रतिशीर्षकाणि नाट्यलोचने—'अमात्यकञ्चकिश्रेष्ठिविदूषकपुरोधसाम् । चेष्टा- बद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥' इति । कापि रङ्गे वर्णिका पट्टे वर्तयति । चित्रफलकानि चिनवतीत्यर्थ । एष वंशो स्थापितो ध्यान । वंशो वेणुवाद्यम् । इयं वीणा प्रतिसार्यते । इमे त्रयोऽपि मुञ्जा ग यन्ते । त्रैविध्यं च भरते—'मायूरी अर्धमायूरा कर्मारवी चेति त्रिधा ।' इति । एष कांस्यतालाना प्रक्षालनोज्ज्वलानां हल्हलो श्रूयते । 'हल्बोलो' इति देशी । एतद्द्रुवागीतमालप्यते ।

८ कर्पूरमञ्जरी ( ततः प्रविशति पारिपार्श्वकः । ) पारिपार्श्वकः—आणवेदु भावो । स्थापकः—( विचिन्त्य । ) किं उण णट्टपउत्ता विअ दीसध ? पारिपार्श्वकः—अध इं । सट्टअं णच्चिदव्वं । स्थापकः—को उण तस्स कई ! पारिपार्श्वकः— उक्तं च भरते—'प्रावेशिकी आक्षेपिकी कामिकी उत्थापिनी प्रासादिकी इति पञ्च ध्रुवाः ।' इति । तत्किमपि कुटुम्बमाकार्य पृच्छामि । नेपथ्येति । संज्ञापनमाह्वानसंकेतकरणम् । तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्य- दर्पणे । आणवेदु इति । आज्ञापयतु भावः । 'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् । स्थापकः— किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे । पारिपार्श्वकः— अथ किम् । सट्टकं नर्तितव्यम् । सट्टकमिति । तल्लक्षणं च भावप्रकाशे—'सैब प्रवेशकेनापि विष्कम्भेन विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टके नामतो भवेत्।' स्थापकः— कः पुनस्तस्य कविः ? पारिपार्श्वकः—

प्रथमं जवनिकान्तरम् ९ भाव ! कहिज्जदु एअं को भण्णइ रअणिवल्लहसिहंडो । रहुउलचूडामणिणो महिंदवालस्स को अ गुरू ॥ ५ ॥ स्थापकः—(विचिन्त्य ।) अए, पण्होत्तरं खु एदं । (प्रकाशम् ।) राजसेहरो । पारिपार्श्वकः—सो एदस्स कई । स्थापकः—किं सट्टअं ? पारिपार्श्वकः—(स्मृत्वा ।) कहिदं जेव छइल्लेहि,— सो सट्टओ त्ति भण्णइ दूरं जो णाडिआईं अणुहरइ । किं उण पवेसविस्कंभकाई केवलं ण दीसंति ॥ ६ ॥ भाव ! कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः । रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः ॥ राजशेखरकविनाम्न पर्यायो रजनीत्यादि । स्थापकः—विचिन्त्यनं स्वगतपर्याय । 'अश्राव्य स्वगत मतम्' इति तल्लक्षणम्। पण्ह इति । अये, प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्त चेत्प्रश्नोत्तरमस्तीत्यर्थ । प्रकाशमिति । 'सर्वश्राव्यं प्रकाशं स्यात्' इति तल्लक्षणम् । राज इति । राजशेखरः । काथा वदति— स एतस्य कविः । 'गोत्रं नाम च बध्नीयात्' इत्युक्ते कवेर्नामोक्ति । किं सट्टकम् ? कहिदं इति । कथितमेव विदग्धैः,— सट्टकमिति भण्यते दूरं यो नाटिकागिरनुहरति । किं पुनः प्रवेशकविष्कम्भकौ केवलं न दृश्यत. ॥

१० कर्पूरमञ्जरी स्थापकः—(विचिन्त्य ।) ता किं ति सक्कअं परिहरिअ पाउअबन्धे पउत्तो कई ? पारिपार्श्वकः—सव्वभासाचउरेण तेण भणिदं जेव । जधा,— अत्थविसेसा ते चिअ सद्दा ते चेअ परिणमंता वि । उत्तिविसेसो कव्वं भासा जा होइ सा होउ ॥ ७ ॥ अवि अ,— परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो । पुरिसमहिलाणं जेत्तिअमिहंतरं तेत्तिअमिमाणं ॥ ८ ॥


दूरमल्यर्थम् । तल्लक्षणं सुधाकरे—'यन्नीचैः केवलं पात्रैर्भाविभूताथंसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥' इति । 'तत्र विष्कम्भको भूतभाविवस्त्वं- शसूचकः । अमूख्यपात्ररचितः संक्षेपैकप्रयोजनः ॥' तद्भेदा अपि तत्रैव—'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ॥' ता किं इति । तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः ? पारिपार्श्वकः— सर्वभाषाचतुरेण तेन भणितमेव । यथा,— अर्थविशेषास्त एव शब्दास्त एव परिणमन्तोऽपि । उक्तिविशेषः काव्यं भाषा या भवति सा भवतु ॥ परिणमन्तोऽपीत्यनेन प्राकृतस्य संस्कृतयोनित्वमुक्तम् । तदुक्तं प्राकृतसंजीवि- न्याम्—'प्राकृतस्य तु सर्वमेव संस्कृते योनिः' इति । दण्डिना चोक्तम् (का. १।३३)—'तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।' इति । उक्तिविशेष इति 'तददोषौ शब्दार्थौ' ( १।४ ) इत्यादिना काव्यप्रकाशे नानाभेदभिन्नं काव्यमुपक्षिप्तम् । भाषाविशेषोनादरश्चोक्तः । कण्ठाभरणे— (२।७) 'संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः ।' इत्यादिना 'सर्वाभिरपि कथन' (स. क. २।११ ) इत्यन्तेन । अवि अ इति । अपि च,— परुषाः संस्कृतगुम्फाः प्राकृतगुम्फोऽपि भवति सुकुमारः । पुरुषमहिलानां यावदिहान्तरं तेषु तावत् ॥