काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
२७८ ॥ काशिका ॥ ४ । १ ॥ वा पैलादिपाठ एव ज्ञापक इजोभावस्य । नड । चर । बक्र । मुञ्ज । इतिक । इत्तिश । उपक । लमक ॥ शलङ्कु शलङ्कं च ॥ सप्तल । वाजप्य । तिक । अग्निशर्मन् वृषगणे । ग्राण । नर । सायक । दास । मित्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । कातल । काश्य । काश्यप । काव्य । अज । आमुष्य ॥ ष्ण्वारक्षौ ब्राह्मणवासिष्ठयोः ॥ अमित्र । लिगु । चित्र । कुमार । क्रोष्टु- क्रोष्टुश्च । लोह । दुर्ग । स्तम्भ । शिंशपा । अग्र । तृण । शकट । सुमनस् । सुमत । मिमत । चक् । जत् । युगन्धर । हंसक । दण्डिन् । हस्तिन् । पञ्चाल । चर्मसिन् । सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कामुक । ब्रह्मदत्त । उदुम्बर । शोण । अलोह । दण्ड * ॥ हरितादिभ्योऽञ् ॥ १०० ॥ हरितादिर्बिदाद्यन्तर्गणः । हरितादिभ्यो ऽञन्तेभ्योपत्ये फञ् प्रत्ययो भवति । इञोऽपवादः । हरितस्यापत्यं हारितायनः । कैदासायनः । ननु च गोत्र- इति वर्तते । न च गोत्रादपरो गोत्रप्रत्ययो भवत्येको गोत्रइति वचनात् । सत्य- मेतत् । इह तु गोत्राधिकारोपि सामर्थ्याद्यूनि प्रत्ययो विज्ञायते । गोत्राधिकार- स्तूत्तरार्थः ॥ यञिञोश्च ॥ १०१ ॥ यञन्तादिञन्ताच्च प्रातिपदिकादपत्ये फक् प्रत्ययो भवति । गार्ग्या- यणः । वात्स्यायनः । इञन्तात् । दाक्षायणः । प्लाक्षायणः । द्वीपादुनुसमुद्रं यञ् । सुतह्रदादिभ्य इञित्यतो न भवति । गोत्रग्रहणेन यञिञौ विशेष्येते । तदन्तात्तु यून्येवायं प्रत्ययः । गोत्राद्यूनि प्रत्ययो भवति वचनात् ॥ शरदच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ॥ १०२ ॥ गोत्रइत्येव । शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासंख्यं भृगुवत्साग्रायणेष्वर्थेष्वपत्यविशेषेषु । शारद्वतायनो भवति भार्गवश्चेत् । शारद्वतो ऽन्यः । शौनकायनो भवति वात्स्यश्चेत् । शौनको ऽन्यः । दार्भायणो भवति आग्रायणश्चेत् । दार्भिरन्यः । शरदच्छुनकशब्दौ बिदादी । ताभ्यामञो ऽपवादः फक् ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ १०३ ॥ गोत्रइत्येव । द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये ऽन्यतरस्यां फक् प्रत्ययो भवति । इञोऽपवादः । द्रौणायनः । द्रौणिः । पार्वतायनः । पार्वतिः ।
- एड । वागल्य । श्रावक । नाक । अच्यवत् । अन्तजन । इत्वर । गंधक । कयला । अध्यरादयश्च । एते शब्दा अन्य पुस्तकान्तरे ऽधिकाः ।
जैवन्तायनः । जैवन्तिः । कथमन्नन्तरो ऽश्वत्थामा द्रौणायन इत्युच्यते । नैवात्र महाभारतद्रोणो गृह्यते । किं तर्ह्यनादिः । तत इदं गोत्रे प्रत्ययविधानम् । इदानीं श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति ॥ अनृष्यानन्तर्ये बिदादिभ्यो ऽञ् ॥ १०४ ॥ गोत्रइत्येव । बिदादिभ्यो गोत्रापत्ये ऽञ्प्रत्ययो भवति । बैदः । और्वः । ये पुनरनृषिशब्दाः पुत्रादयस्तेभ्यो ऽनन्तरापत्यएव भवति । पौत्रः । दौहित्रः । अनृष्यानन्तर्यमित्यस्यायमर्थः, अनृषिभ्यो ऽनन्तरे भवतीति । यद्ययमर्थश्चपत्ये नैरन्तर्यप्रतिषेधो न कृतः स्यात् तत्रेष्टं न सिद्ध्यति । इन्द्रशूः सप्तमः काश्य- पानाम् । अनन्तरापत्यरूपेणैव चाञाभिधानं भविष्यति । अवश्यं चैतदेवं [L
३८० ॥ काशिका ॥ ४ ॥ १ ॥ काश्मरथ । शर्कराक्ष । पूतिमाष । स्थूण । चरक । पिङ्गल । कृष्ण । गोलुन्द । उलूक । तितिक्ष । भिषज् । भडित । भण्डित । दलभ । चिक्रित । देवहू । इन्द्रहू । एकलू । पिप्पलू । बृहदग्नि । जमदग्नि । सुलोभिन् । उक्थ्य । कुटीगु ॥ मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ॥ १०६ ॥ मधुशब्दाद्बभ्रुशब्दाच्च गोत्रापत्ये यञ् प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके वाच्ये । माधव्यो भवति ब्राह्मणश्चेत् । माधव एवान्यः । बाभ्रव्यो भवति कौशिकश्चेत् । बाभ्रव एवान्यः । बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम् । गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः । सर्वत्र लोहितादिकतन्तेभ्य इति । बाभ्रव्यायणी ॥ कपिबोधादाङ्गिरसे ॥ १०७ ॥ कपिबोधशब्दाभ्यामाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति । काप्यः । बौध्यः । आङ्गिरसदिति किम् । कापेयः । बौधिः । कपिशब्दो गर्गा- दिषु पठ्यते । तस्य नियमार्थं वचनम् । आङ्गिरसे यथा स्यात् । लोहितादि- कार्यार्थं गणे पाठः । काप्यायनी ॥ वतण्डाच्च ॥ १०८ ॥ आङ्गिरसदित्येव । वतण्डशब्दादाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति । वातण्ड्यः । आङ्गिरसदिति किम् । वातण्डः । किमर्थमिदं यावता गर्गादिष्वयं पठ्यते । शिवादिष्वप्ययं पठ्यते । तत्राङ्गिरसे शिवाद्यणोऽपवादार्थं पुनर्वचनम् । अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात्प्रत्ययद्वयमपि भवति । वात- ण्ड्यः । वातण्डः ॥ लुक् स्त्रियाम् ॥ १०९ ॥ आङ्गिरसदित्येव । वतण्डशब्दादाङ्गिरस्यां स्त्रियां यञ्प्रत्ययस्य लुग्भ- वति लुकि कृते शार्ङ्गरवादिपाठाङ्डीन् भवति । वतण्डी । आङ्गिरसदिति किम् । वातण्ड्यायनी । शिवाद्यणि तु वातण्डी ॥ अश्वादिभ्यः फञ् ॥ ११० ॥ आङ्गिरसदिति निवृत्तम् । अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति । आश्वायनः । दाश्वायनः । ये त्वत्र प्रत्ययान्ताः पठ्यन्ते तेभ्यः सामर्थ्याद्भूयो प्रत्ययो विधीयते । अश्व । अश्मन् । शङ्कु । बिद । पुट । रोहिष । खर्जूर । खर्जूल । पिञ्जूर । भडिल । भण्डिल । भडित । भण्डित । अविन्द । प्रतूत । रामोद । तृण । वीणा । काण्ड । मोलाङ्क । अर्क । रक्षस् । काश । साद ।
॥ काशिका ॥ ४ । १ ॥ २८५ वात । कुल । पवित्र । गोमिन् । श्याम । धूम । धूम्र । वाग्मिन् । विखाजर । कुष्ठ । वेश । आत्रेय । नप्त । सङ्घ । नड । योध । कार्ण । विश्वावसु । विशाला । गिरि । चपल । चुनभ । ह्रासक । वैल्य । धर्म । चानडुह्य । पुंसिजात । अर्जुन । शूद्रक । सुमनस् । दुर्मनस् । शान्त । प्राच्य । कित । काण । शुण्ठ । अविष्टा । बीह्य । पविन्दा ॥ आत्रेयभारद्वाजे ॥ कुत्स । गातव । कितव । शिव । खदिर ॥ भरद्वाज आत्रेये * ॥ भर्गात्तैगर्त्ते ॥ १११ ॥ भर्गशब्दादपत्ये विशेषे त्रैगर्तें गोत्रे फञ् प्रत्ययो भवति । भार्गायणो भवति त्रैगर्तश्चेत् । भार्गिरन्यः ॥ शिवादिभ्योऽण् ॥ ११२ ॥ 'गोत्रे' इति निवृत्तम् । अतः प्रभृति सामान्येन प्रत्यया विधीयन्ते । शिवा- दिभ्यो ऽपत्ये ऽण् प्रत्ययो भवति । यथायथमञादीनामपवादः । शैवः । प्रौष्ठः । तक्षन् शब्दो ऽत्र पठ्यते कारिततक्ष्णमुदीचामिञं बाधितुम् । वयत्प्रत्य- यस्य तु बाधो नेष्यते । ताक्ष्णः । ताक्ष्णायः । गङ्गाशब्दः पठ्यते तिकादिकिञा शुभ्रादिढका च समावेशार्थम् । तेन त्रैरूप्यं भवति । गाङ्गः । गाङ्गायनिः । गाङ्गेयः । विपाशशब्दः पठ्यते कुञ्जादित्वात्गोत्रे स्फञा समावेशार्थम् । वैपाशः । वैपाशा- यन्यः । शिव । प्रोष्ठ । प्रोष्ठिक । चण्ड । जम्भ† । मुनि । सन्धि । भूरि । कुठार । अनभिम्लान‡ । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन । कोहड । पिष्ट । हेरम्ब । खञ्जार । सञ्जाल । सुरोहिण । पर्ण । कहूष । परिल । वतण्ड । वृष । कर्ण । क्षीरह्रद । जलह्रद । परिविक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक । वृश्चिक । रेख । आलेखन । विप्रश्रवा । खण्डा । वर्सेनाट । पिटक । पिटाक । सुखाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्तित्पा । रोहितिक । आर्यश्वेत । सुविष्ट । खर्जूरकर्ण । मसूरकर्ण । तूलकर्ण । मयूरकर्ण । सहरक । तक्षन् । षष्टिपथ । गङ्गा । विपाशा । यस्क । लह्य । द्रुह्य । अयःस्थूण । भलन्दन । विरूपाक्ष । भूमि । इला । सपत्नी ॥ द्व्यचो मद्र्राः ॥ त्रिवेणी त्रिचकं च § * ॥
- पथ । कन्धु । बुध । मुनु । कर्कटक । श्वा । तण्ड । तलुण्ड । प्रमुन । विसम्भ । विशङ्क । इते ऽत्राधिकाः पुस्तकान्तरे । † भायहेति पा० २ । ‡ अनभिम्सानेति पा० २ । § त्रिवेणीरेवाभ्यस्तस्यानिकाञोऽपवादस्य ण्यच इति ढको ऽपवाद इत्यधिकं पुस्त- कान्तरे । ॥ कहूष । कपोध । परल । गोवाक्ष । गोभिलिक । राजल । तडाक । वहाक । इते ऽप्यंशिकाः पुस्तकान्तरे ऽधिकाः ।
२८२ ॥ काशिका ॥ ४ । १ ॥ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११३ ॥ वृद्धिर्यस्याचामादिस्तद्वृद्धम् । अवृद्धाभ्य इति शब्दधर्मः । नदीमानुषीभ्य इत्यर्थधर्मः, तेनाभेदात्प्रकृतयो निर्दिश्यन्ते । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः प्रत्यवमर्शः । अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि तेभ्यो ऽपत्ये ऽण्प्रत्ययो भवति । ढको ऽपवादः । यमुनाया अपत्यं यामुनः । इरावत्या अपत्यम्, ऐरावतः । वैतस्तः । नार्मदः । मानुषीभ्यः खल्वपि । शिकिताया अपत्यं, शैक्तितः । चिन्तिताया अपत्यं, चैन्तितः । अवृद्धाभ्यः किम् । चान्द्रभाग्याया अपत्यं, चान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीभ्य इति किम् । सौपर्णेयः । वैनतेयः । तन्नामिकाभ्य इति किम् । शोभनायाः, शौभनेयः ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११४ ॥ ऋषयः प्रसिद्धा वसिष्ठादयः । अन्धका वृष्णयः कुरव इति वंशाख्या । ऋष्यादिकुरुन्तेभ्यः प्रातिपदिकेभ्यो ऽपत्ये ऽण्प्रत्ययो भवति, ञो ऽपवादः । ऋष्यादिभ्यस्तु परत्वादृगादिभिरेव भवितव्यम् । ऋषिभ्यस्तावत् । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः । श्वाफल्कः । रान्धसः । वृष्णिभ्यः । वासुदेवः । आनिरुद्धः । कुरुभ्यः । नाकुलः । साहदेवः । कथं पुनर्न्नित्यानां शब्दानामान्ध- कादिवंशसमाश्रयणेनान्वाख्यानं युज्यते । के चिदाहुः । कथमपि काकतालीयन्या- येन कुत्रचिद्वंशेष्वसंकरेणैव नकुलसहदेवादयः शब्दास्सुबहवः संकलितास्तानू- पादाय पाणिनिना स्मृतिरुपनिबद्धेति । अथ वा ऽन्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादय, स्तन्नेदं प्रत्ययविधानमित्यदोषः ॥ मातुरुत्संख्यासंभद्रपूर्वायाः ॥ ११५ ॥ मातृशब्दात्संख्यापूर्वात्संपूर्वाद्भद्रपूर्वाच्चापत्ये ऽण् प्रत्ययो भवति, उका- रश्चान्तादेशः । द्वयोर्मातोरपत्यं, द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्र- मातुरः । उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः । स्त्रीलिङ्गनिर्देशो ऽर्थोपेशः, तेन धान्यमातुर्यहणं न भवति । संख्यासंभद्रपूर्वाया इति किम् । सोमात्रः । शुभादिषु पाठात्तु वैमात्रेयः ॥ कन्यायाः कनीन च ॥ ११६ ॥ कन्याशब्दादपत्ये ऽण्प्रत्ययो भवति ढकोऽपवादः । तत्सन्नियोगेन कनी- नशब्द आदेशो भवति । कन्याया अपत्यं, कानीनः कर्णः । कानीनो व्यासः ॥ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ११७ ॥ विकर्णशुङ्गच्छगलशब्देभ्यो यथासंख्यं वत्सभरद्वाजात्रिष्वपत्यविशेषेष्व- णप्रत्ययो भवति । वैकर्णो भवति वात्स्यश्चेत् । वैकर्णेरन्यः । शौङ्गो भवति
॥ काशिका ॥ ४ । १ ॥ २८३ भारद्वाजश्चेत्। शौङ्गिरन्यः। छागलो भवत्यात्रेयश्चेत्। छागलिरन्यः। शुङ्गा- शब्दं स्त्रीलिङ्गमन्थे पठन्ति ततो ढकं प्रत्युदाहरन्ति शौङ्गेय इति। द्वयमपि चैतत्प्रमाणमुभयथा सूत्रप्रणयनात् ॥ पीलाया वा ॥ ११८ ॥ तस्यामिकाणो बाधके ष्ठाच् इति ढकि प्राप्ते ऽण्प्रत्ययः पक्षे विधीयते। पीलाया अपत्ये वाऽण्प्रत्ययो भवति। पीलाया अपत्यं, पैलः। पैलेयः ॥ ढक्च मण्डूकात् ॥ ११९ ॥ मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः। माण्डूकः। माण्डूकिः ॥ स्त्रीभ्यो ढक् ॥ १२० ॥ स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्यो ऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति। एडबिडो ऽपत्यं, दरदो ऽपत्यम्, ऐडबिडः, दारद, इति ॥ वड- वाया वृषे वाच्ये ॥ * ॥ वाडवेयो वृषः स्मृतः। अपत्ये प्राप्तस्ततो ऽण्प्रत्ययश्च विधीयते, तेनापत्ये वाडव इति भवति ॥ अण् क्रुञ्चाकोकिलात्स्मृतः ॥ * ॥ क्रुञ्चाया अपत्यं, क्रौञ्चः। कौकिलः ॥ द्व्यचः ॥ १२१ ॥ स्त्रीभ्य इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तस्यामि- कायोपवादः। दत्ताया अपत्यं, दात्तेयः। गौपेयः। द्व्यच इति किम्। यामुनः ॥ इतश्चानिञः ॥ १२२ ॥ स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यच इत्यस्यानुकर्षणार्थः। इकारान्ता- त्प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। बाचेयः। नैधेयः। इत इति किम्। दात्तिः। प्रात्तिः। अनिञ इति किम्। दाक्षायणः। प्लाक्षायणः। द्व्यच इत्येव। मरीचेरपत्यं, मारीचः ॥ शुभादिभ्यश्च ॥ १२३ ॥ शुभ इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक् प्रत्ययो भवति। यथायोग- मिञादीनामपवादः। शौभेयः। वैष्टपुरेयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगण- तामस्य बोधयति। गार्हेयः पाण्डवेय इत्येवमादि सिद्धं भवति। शुभ। विष्ट- पुर । ब्रह्मकृत । शतद्वार । शतावर । शलाका । शालाचल । शलाकाछू । लेलागू । विमातृ । विधवा । शुकसा । रोहिणी । इकिली । दिशा । शालूक । अजवस्ति । शकन्धि ॥ ततस्तस्यामयोर्वासिद्धे ॥ गोधा । हकूलाष । सबीव ।
ian Sanskrit. Wait! Let's search if any Kashika edition actually has "तत्सन्नियोगेन" or "तत्सन्नियोगेन"? Wait, look at the letters again: त (ta) त्स (tsa) चि (ci)? No, look at the loop: it is round, with a vertical line to the right, and an 'i' matra on the left! That is definitely "चि" or "वि"! Wait, is there an anusvara? Above the letter before it, there is NO anusvara. Wait, could it be "तत्सन्नियोगेन" printed with a broken type? Wait, what if it's "तत्सन्नियोगेन"? Wait, how could 'न्न' become 'चि' or 'वि'? Wait, look at the three occurrences:
- Line 11: "तत्स...योगेन च वुगागमः"
- Line 13-14: "तत्स...योगेन च इनङादेशः"
- Line 20: "तत्स...योगेन च वा इनङादेशो भवति" All THREE have the EXACT same spelling! What is that spelling? Let's look at the components: Letter 1: त Letter 2: त्स Letter 3: चि or वि? Wait, look at the top: is there a dot? Look at line 11: above 'स', no dot. Wait, what is the word?
॥ काशिका ॥ ४ । १ ॥ २८५ गोधाया अपत्ये ढ्रक् प्रत्ययो भवति । गौधेरः । शुभादिष्वयं पठ्यते । तेन गौधेयोऽपि भवति ॥ आरगुदीचाम् ॥ १३० ॥ गोधाया अपत्ये उदीचामाचार्याणां मतेन आरक् प्रत्ययो भवति । गौधारः । आचार्याग्रहणं पूजार्थं, वचनसामर्थ्यादेव पूर्वेण समावेशो भविष्यति । आरग्वचनमनर्थकं, रका सिद्धत्वात् । ज्ञापकं त्वयमन्येभ्यो ऽपि भवतीति । जाडारः । पाण्डारः ॥ क्षुद्राभ्यो वा ॥ १३१ ॥ ढ्रगनुवर्तते, न चारक् । क्षुद्रा अङ्गहीना धर्महीना*श्च । अर्थधर्मैश्च तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिश्यन्ते । क्षुद्राभ्यो ऽपत्ये ढ्रक् प्रत्ययो भवति । एकोरण्डेरः । काणेरः । षण्डेरः । दासेरः । दासेयः ॥ पितृष्वसुश्छण् ॥ १३२ ॥ पितृष्वसृशब्दादपत्ये छण्प्रत्ययो भवति । अणोपवादः । पैतृष्वस्रीयः ॥ ढकि लोपः ॥ १३३ ॥ पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति । पैतृष्वसेयः । कथं पुनरिह ढक् प्रत्ययः । एतदेव ज्ञापकं ढको भावस्य ॥ मातृष्वसुश्च ॥ १३४ ॥ पितृष्वसुरित्येतदपेक्षते, पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि भवति । छण्प्रत्ययो ढकि लोपश्च । मातृष्वस्रीयः । मातृष्वसेयः ॥ चतुष्पाद्भ्यो ढञ् ॥ १३५ ॥ चतुष्पादभिधायिनीभ्यः प्रकृतिभ्यो ऽपत्ये ढञ्प्रत्ययो भवति । अणादी- नामपवादः । कामण्डलेयः । स्त्रैणैवाहेयः । जाम्बेयः ॥ गृष्ट्यादिभ्यश्च ॥ १३६ ॥ गृष्ट्यादिभ्यः शब्देभ्यो ऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः । गार्ष्टेयः । हार्ष्टेयः । गृष्टिशब्दो यश्चतुष्पाद्वचनस्तनः पूर्वेण सिद्धः, अचतुष्पा- दर्थे वचनम् । गृष्टि । दृष्टि । हलि । बलि । विग्रि । कुद्रि । वाजवस्ति । मिश्रयु† ॥ राजश्वशुराद्यत् ॥ १३७ ॥
- शीलहीनाश्चेति पा० २ । † बंलि । वंलि । हृष्टि । एते ऽधिकाः पुस्तकान्तरे ।
२८६ ॥ काशिका ॥ ४ । १ ॥ राजन्श्वशुरशब्दाभ्यामपत्ये यत्प्रत्ययो भवति । यथाक्रममञोणोरप- वादः । राजन्यः । श्वशुर्यः ॥ राज्ञो ऽपत्ये जातिग्रहणम् ॥ * ॥ राजन्यो- भवति, क्षत्रियश्चेत । राज्ञोन्यः ॥ क्षत्राद्धः ॥ १३८ ॥ क्षत्रशब्दादपत्ये घः प्रत्ययो भवति । क्षत्रियः । अयमपि जातिशब्द एव । क्षात्रिरन्यः ॥ कुलात्खः ॥ १३९ ॥ उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते । कुलशब्दान्तात्प्रातिपदि- कात्केवलाच्चापत्ये खः प्रत्ययो भवति । आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः ॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥ १४० ॥ कुलादित्येव । अविद्यमानं पूर्वपदं यस्य तदपूर्वपदं, समाससंबन्धिनः पूर्वपदस्याभावेन कुलशब्दो विशेष्यते । अपूर्वपदात्कुलशब्दादन्यतरस्यां यत् ढक्ञ् इत्येतौ प्रत्ययौ भवतः । ताभ्यां मुक्ते खोपि भवति । कुल्यः । कौले- यकः । कुलीनः । पदग्रहणं किम् । बहुच्पूर्वादपि यथा स्यात् । बहुकुल्यः । बहुकुलेयकः । बहुकुलीनः ॥ महाकुलादञ्खञौ ॥ १४१ ॥ अन्यतरस्यामित्यनुवर्त्तते । पक्षे खः* । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ दुष्कुलाड्ढक् ॥ १४२ ॥ दुष्कुलशब्दादपत्ये ढक् प्रत्ययो भवति । अन्यतरस्यामित्यनुवृत्तेः खश्च । दौष्कुलेयः । दुष्कुलीनः ॥ स्वसुश्छः ॥ १४३ ॥ स्वसृशब्दादपत्ये छः प्रत्ययो भवति । अणोपवादः । स्वसुरपत्यं, स्वस्रीयः ॥ भ्रातुर्व्यच्च ॥ १४४ ॥ भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति । चकाराच्छश्च । अणोपवादः । भ्रातृव्यः । भ्रात्रीयः । तकारः स्वरार्थः ॥ व्यन्सपन्ने ॥ १४५ ॥ सपत्नशब्दः शत्रुपर्यायः शब्दान्तरमव्युत्पन्नमेव । सपत्नीशब्दादपरे ऽका- रमिवार्थे निपातयन्ति । सपत्नीव सपत्नः । भ्रातृशब्दाद् व्यन्प्रत्ययो भवति
- महाकुलशब्दादञ्खञौ प्रत्ययौ भवतः । अन्यतरस्यांग्रहणानुवृत्तेः खश्चेति पा० २ ।
॥ काशिका ॥ ४ । १ ॥ २८७ समुदायेन चेदमित्रः सपत्न उच्यते । अपत्यार्थोऽत्र नास्त्येव । पाप्मना भ्रातृ- व्येण । भ्रातृव्यः कण्टकः ॥ रेवत्यादिभ्यष्ठक् ॥ १४६ ॥ रेवतीत्येवमादिभ्यो ऽपत्ये ठक् प्रत्ययो भवति । यथायोगं ढगादीना- मपवादः । रैवतिकः । आश्वपालिकः । रेवती । अश्वपाली । मणिपाली । द्वारपाली । वृकवञ्चिन् । वृकग्राह । कर्णग्राह । दण्डग्राह । कुक्कुटाक्ष * ॥ गोत्रस्त्रियाः कुत्सने षा च ॥ १४७ ॥ अपत्यं पौत्रप्रभृति गोत्रं गृह्यते । गोत्रं या स्त्री तदभिधायिनः शब्दा- दपत्ये षाः प्रत्ययो भवति चकाराट्ठक्च, कुत्सने गम्यमाने । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा । गार्ग्या अपत्यं, गार्ग्यो जाल्मः । गार्गिकः । ग्लौचुकायन्या अपत्यं, ग्लौचुकायनः । ग्लौचुकायनिकः । गोत्राद्यूनीति यूनि प्रत्ययो भवति । गोत्रमिति किम् । कारिकेयो जाल्मः । स्त्रिया इति किम् । औपगविर्जाल्मः । कुत्सनइति किम् । गार्गेयो माणवकः ॥ वृद्धाट्त्सौवीरेषु बहुलम् ॥ १४८ ॥ कुत्सनइत्येव । सौवीरेष्विति प्रकृतिविशेषणम् । वृद्धात्सौवीरगोत्राद- पत्ये बहुलं ठक् प्रत्ययो भवति कुत्सने गम्यमाने । भागवित्तेर्भागवित्तिकः । तार्णबिन्दवस्य तार्णबिन्दविकः । पक्षे यथाप्राप्तं फक् । भागवित्तायनः । पक्षे तार्णबिन्दविः । अकशापः शुभादिः । आकशापेयः । तस्यापत्यमाकशा- पेयिकः । पक्षे आकशापेयिः । भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः । तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलन्ततः ॥ बहुलग्रहणं स्त्रीनिवृत्त्यर्थम् । सौवीरेष्विति किम् । औपगविर्जाल्मः । कुत्सनइत्येव । भागवित्तायनो माणवकः । बहुलग्रहणमुगादिवैचित्र्यार्थम् । गोत्रस्त्रिया इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सनएव । अन्यः सौवीर- गोत्रएव । मध्यमौ द्वयोरपि । तदेतद्बहुलग्रहणाल्लभ्यते ॥ फेञ्छ च ॥ १४९ ॥ कुत्सनइत्येव, सौवीरेष्विति च । फेरिति फिञो ग्रहणं न फिनः, वृद्धा- धिकारात् । फिञन्तात्प्रातिपदिकात्सौवीरगोत्रादपत्ये छः प्रत्ययो भवति चका- राट्ठक् कुत्सने गम्यमाने । यमुन्दस्यापत्यं, तिकादिभ्यः फिञ्, तस्यापत्यं, यामु- * वृकबन्धु । चामरग्राह । ककुदाक्ष । एते शब्दाः पुस्तकान्तरे ऽधिकाः ।
२८८ ॥ काशिका ॥ ४ । १ ॥ न्दायनीयः । यामुन्दायिनकः । कुत्सनइत्येव । यामुन्दायनिः । फिञन्तादौत्स- र्गिकस्याञ आगतस्य व्यत्तञ्णिष्वार्षजित इति लुक् । सौवीरेष्वित्येव । तैकायनिः । यमुन्दश्च सुयामा च वार्ष्यायणिः फिषः स्मृताः । सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित् स्मरेत् ॥ फाण्टाहृतिमितमताभ्यां णफिञौ ॥ १५० ॥ सौवीरेष्वित्येव । कुत्सनइति निवृत्तम् । फाण्टाहृतिमितमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः । फकोऽपवादः । अल्पाच्तरस्या- पूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासंख्यमिह न भवतीति । फाण्टाहृतः । फाण्टाहृतायनिः । मैमतः । मैमतायनिः । सौवीरेष्वित्येव । फाण्टाहृतायनः । मैमतायनः । फाण्टाहृतेर्यञिञोश्चेति फक् । मिमतशब्दोऽपि नडादिषु पठ्यते ॥ कुर्वादिभ्यो ण्यः ॥ १५१ ॥ सौवीरेषु बहुलमिति च निवृत्तम् । कुरु इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये ण्यः प्रत्ययो भवति । कौरव्यः । गार्ग्यः । कुरुनादिभ्यो ण्य इति कुरुशब्दात् परो ण्यप्रत्ययो भविष्यति । स तु क्षत्रियसङ्गराजसंज्ञकस्तस्य बहुषु लुका भवि- तव्यमयं तु ण्यतएव । कौरव्याः । कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात्फिञपि भवति । कौरव्यायणिः । रथकारशब्दोऽत्र पठ्यते, स जातिव- चनः । त्रैवर्णिकेभ्यः किं विद्मना रथकारजातिः । कारिखस्तु रथकारशब्दादु- त्तरसूत्रेणैव ण्यः सिद्धः । केशिनीशब्दः पठ्यते, तस्य कैशिन्यः । पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात् । वेनाच्छन्दसीति पठ्यते, कथं भाषायां वैन्यो राजेति । छान्दस एवायं प्रमादात्कविभिः प्रयुक्तः । वामरथशब्दः पठ्यते, तस्य कण्वादिवत्कार्यमिष्यते स्वरं वर्जयित्वा लुगादिकमतिदिश्यते । बहुषु वामरथाः । स्त्री वामरथी । वामरथ्यायनी । युवा वामरथ्यायनः । वामरथ्यस्य छात्रा वामरथाः । वामरथानि संघाङ्कलक्षणानि । स्वरस्तु ण्यप्रत्ययस्यैव भवति, नातिदेशिकमाद्युदात्तत्वम् । कुरु । गर्ग । मङ्गुष । अजमारक । रथकार । वाक- टूक ॥ सङ्घराजः क्षत्रिये ॥ कवि । मति । वाक् । पितृमत् । इन्द्रजालि । दोर्मि- ष्णीवि । गन्धकारि । केशरि । कापिञ्जलादि । कुट । शलाका । मुर । हरक । अग्र । दर्म । केशिनी ॥ वेनाच्छन्दसि ॥ शूर्पखाय । श्यावनाय । श्यावरथ । श्याव- पुत्र । सत्यंकार । वह्नीकार । शङ्कु । शक्त । पायिकारिन् । मूढ । शकन्धु । कई । हर्मु । शक्तिन् । इनपिण्डी * ॥ वामरथस्य कण्वादिकत्स्वरवर्जम् ॥
- विस्फोटहक । काक । स्फावटक । शक्तिन् । घातकि । धेनुकि । मुञ्जिकार । इति अधिकाः पुस्तकान्तरे ।
काशिका ॥ ४ । १ ॥ २८२ सेनान्तलक्षणकारिभ्यश्च ॥ १५२ ॥ सेनान्तात्प्रातिपदिकाल्लक्षणशब्दात्कारिवचनेभ्यश्चापत्ये ण्यः प्रत्ययो भवति । कारिशब्दः कारूणां तन्तुवायादीनां वाचकः । कारिषेण्यः । हारि- षेण्यः । लाक्षण्यः । कारिभ्यः । तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ उदीचामिञ् ॥ १५३ ॥ ण्ये प्राप्ते इञपरो विधीयते । सेनान्तलक्षणकारिभ्यो ऽपत्ये इञ् प्रत्ययो भवति उदीचां मतेन । कारिषेणिः । हारिषेणिः । लाक्षणिः । तान्तु- वायिः * । कौम्भकारिः । वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम् । तौत्तुन्शब्दः शिवादिस्तेनाण्बाधार्थमिञ् बाध्यते न तु ण्यः । तस्यो- पत्यं, तात्तः । ताप्त्यः ॥ तिकादिभ्यः फिञ् ॥ १५४ ॥ तिक इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति । तैका- यनिः । कैतवायनिः । वृषशब्दोऽत्र पठ्यते तस्य प्रत्ययसन्नियोगेन यकारान्तत्व- मिष्यते । वार्ष्यायणिः । कौरव्यशब्दः पठ्यते स च तक्षत्रियवचनः । औरसशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् । यस्तु कुर्वादिव्यो ण्यस्तदन्ताद् इञेव भवि- तव्यम् । तथा च ण्यत्तक्षत्रियार्षेञित इत्यत्रोदाहृतं कौरव्यः पिता कौरव्यिः पुत्र इति । तिक । कितव । संज्ञा । बाल । शिखा । उरस् । शाल । सैन्धव । यमुन्द । रूप्य । याम्य । नीच । अमित्र । गोकक्ष । कह । देवरथ । तेतिल । औरस । कौरव्य । मौरिकि । भौलिकि । चैपयत । चैटयत । शैक्यत । क्षैत- यत । ध्वाङ्क्षवत । चन्द्रमस् । शुभ । गङ्गा । वरेण्य । सुदामन् । चारहु । वल्लाका । स्वल्प । वृष । लोमक । उदञ्च । यज्ञ † ॥ कौसल्यकार्मार्याभ्यां च ॥ १५५ ॥ कौसल्यकार्मार्यशब्दाभ्यामपत्ये फिञ् प्रत्ययो भवति । इञोपवादः । कौसल्यायनिः । कार्मार्यायणिः ॥ परमहस्तेरेवायं प्रत्यय इष्यते ॥ कोसलस्या- पत्यं कर्मारस्यापत्यमिति । प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते । तथा च स्मृत्यन्तरम् ॥ दगुकोसलकर्मारच्छागसुत्रामां युट्वाशिष्टस्येति ॥ दार्ग्या- यनिः । कौसल्यायनिः । कार्मार्यायणिः । काप्यायनिः । वार्ष्यायणिः ॥ अणो द्व्यचः ॥ १५६ ॥
- तौन्तवायिरित्यधिकं पुस्तकान्तरे । † बाह्र । भीत । भाजन । रह । नावक । ध्वाङ्क्षवद । वसु । बन्धु । बालवल्का । युधामन् । इतो ऽधिकाः शब्दाः पुस्तकान्तरे । १६
आद्यन्ताद् वृद्धः प्रातिपदिकादपत्ये फिञ् प्रत्ययो भवति । इञोप- वादः । कार्त्त्रायणिः । हार्त्त्रायणिः * । अण इति किम् । दाक्षायणः । वृद्ध इति किम् । औपगविः ॥ त्यदादीनां वा फिञ् वक्तव्यः ॥ * ॥ त्यादायनिः । त्यादः । यादायनिः । यादः । तादायनिः । तादः । अणञ प्राप्तः ॥ उदीचां वृद्धादगोत्रात् ॥ १५७ ॥ वृद्धं यच्छब्दरूपमगोत्रं तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचामा- चार्याणां मतेन । आम्रगुप्तायनिः । चामरतायणिः । कारिशब्दादपि वृद्धादगो- त्रात्परत्वादनेनैव भवितव्यम् । नापितायनिः । उदीचामिति किम् । आम्र- गुप्तिः । वृद्धादिति किम् । याज्ञदत्तिः । अगोत्रादिति किम् । औपगविः ॥ वाकिनादीनां कुक्च ॥ १५८ ॥ वाकिन इत्येवमादिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति तत्स- न्नियोगेन चैषां कुगागमः । यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहण- मन्येषामुभयार्थम् । वाकिनकायनिः । गारेधकायनिः । इञाद्यपवादो योगः । उदीचामित्यधिकारात्पक्षे तेऽपि भवन्ति । वाकिनिः । गारेधिः । वाकिन । गारेध । कार्केय । काक । लङ्का ॥ चर्मवर्मणोर्नलोपश्च ॥ पुत्रान्तादन्यतरस्याम् ॥ १५९ ॥ उदीचां वृद्धादिति वर्तते । पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्ध- स्तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते । पुत्रान्तात्प्रातिपदिकाद्यः फिञ्प्रत्य- यस्तस्मिन् परभूते ऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य । तेन त्रैरूप्यं संप- द्यते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः । वात्सीपुत्रकायणिः । वात्सीपुत्रायणिः । वात्सीपुत्रिः ॥ प्राचामवृद्धात्फिन्बहुलम् ॥ १६० ॥ अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन । म्लुचु- कायनिः । अहिचुम्बकायनिः । प्राचामिति । किम् । म्लौचुकिः । अवृद्धादिति किम् । राजदत्तिः । उदीचां प्राचामन्यतरस्यां बहुलमिति सर्वेऽते विकल्पा- र्थास्तेषामेकेनैव सिद्धयति तत्राचार्यग्रहणं पूजार्थम् । बहुलग्रहणं वैचित्र्यार्थम् । क्व चिन्न भवत्येव । दाक्षिः । प्लाक्षिः ॥ मनोर्जातावञ्यतौ षुक्च ॥ १६१ ॥ मनुशब्दादञ् यत् इत्येतौ प्रत्ययौ भवतस्तत्सन्नियोगेन षुगागमः समु- दायेन चेज्जातिर्गम्यते । मानुषः । मनुष्यः । जातिशब्दावेतौ । अपत्यार्थाच्च
- बास्क इति विवार्ताद्यभोञ् । बास्कस्यापत्यं बास्कायनिः । इत्यधिकं पुस्तकान्तरे ।-
॥ काशिका ॥ ४ । १ ॥ २८१ नास्त्येव । तथा च मानुषा इति बहुषु न लुग्भवति । अपत्यविवक्षायां त्वत्रैव भवितव्यम् । मानवी प्रजा । अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२ ॥ पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति । संबन्धिवचनत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः । अपत्यमिति व्यपदेशार्थं संज्ञिनः पौत्रप्रभृतेः । पौत्रप्रभृतीति किम् । आनन्तरस्य मा भूत् । कौञ्जः । गार्गः । गोत्रप्रदेशा एको गोत्रइत्येवमादयः ॥ जीवति तु वंश्ये युवा ॥ १६३ ॥ अभिजनप्रबन्धो वंशः । तत्र भवो वंश्यः पित्रादि,तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति । पौत्रप्रभृतीति च न सामानाधिकरण्येना- पत्यं विशेषयति, किं तर्हि षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति । तेन चतुर्थादारभ्य युवसंज्ञा विधीयते । गार्ग्यायणः । वात्स्यायनः । तुशब्दोवधा- रणार्थो युवैव न गोत्रमिति ॥ भ्रातरि च ज्यायसि ॥ १६४ ॥ भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृते- रपत्यम् । गार्ग्यस्य द्वौ पुत्रौ तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति । अवंश्यार्थोयमारम्भः । पूर्वजाः पित्रादयो वंश्या इत्युच्यन्ते । भ्राता तु न वंश्यः। अकारणत्वात् । गार्ग्ये जीवति गार्ग्या- यणोस्य कनीयान्भ्राता । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः ॥ वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ १६५ ॥ सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । येषाम् उभयत्र दशाहानि कुलस्यान्नं न भुज्यते * । इत्येवमादिकायां क्रियायामनधिकारः । भ्रातुरन्यस्मिन्सपिण्डे स्थविर तरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति । प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणमिदं तु संज्ञिनः । तरब्निर्देश उभयोत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात् । पितृव्ये पितामहे भ्रातरि वयसाधिके जीवति । गर्गस्यापत्यं गार्ग्यायणः । गार्ग्यो वा । वात्स्यायन । वात्स्यो वा ।
- दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते इति पद्यार्द्धमधिकं कुत्र चित् ।
२८२ ॥ काशिका ॥ ४ । १ ॥ दाक्षायणः । दाक्षिर्वा । स्थविरेति किम् । स्थानवयोन्यूने गार्ग्य एव भवति । जीवतीति किम् । मृते मृते वा गार्ग्य एव भवति ॥ वृद्धस्य च पूजायाम् ॥ १६६ ॥ अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद्गोत्रं वृद्धमित्युच्यते । वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम् । संज्ञासामर्थ्याद्गोत्रं युव- प्रत्ययेन पुनरुच्यते । वृद्धस्येति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिरिति । तत्र भवान् गार्ग्यायणः । गार्ग्यो वा । तत्र भवान् वात्स्यायनः । वात्स्यो वा । तत्र भवान् दाक्षायणः । दाक्षिर्वा । पूजायामिति किम् । गार्ग्यः । वात्स्यः ॥ यूनश्च कुत्सायाम् ॥ १६७ ॥ कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति । निवृत्तिप्रधाने विकल्पो, युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति, प्रतिपत्ताभावात् । गार्ग्यौ जाल्मः । गार्ग्यायणो वा । वात्स्यो जाल्मः । वात्स्यायनो वा । दाक्षि- र्जाल्मः । दाक्षायणो वा । कुत्सायामिति किम् । गार्ग्यायणः ॥ जनपदशब्दात्क्षत्रियादञ् ॥ १६८ ॥ जनपदशब्दो यः क्षत्रियवाची तस्मादपत्ये ऽञ् प्रत्ययो भवति । पाञ्चालः । ऐक्ष्वाकः । वैदेहः । जनपदशब्दादिति किम् । द्रुह्योरपत्यं, द्रौह्यवः । पौरवः । क्षत्रियादिति किम् । ब्राह्मणस्य पञ्चालस्यापत्यं, पाञ्चालिः । वैदेहिः ॥ क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यपत्यवत् ॥ * ॥ पञ्चालानां राजा पाञ्चालः । वैदेहः । मागधः । ॠद्वृद्धात्पेति प्राप्तस्य वुञोऽपवादः ॥ साल्वेयगान्धारिभ्यां च ॥ १६९ ॥ साल्वेयगान्धारिशब्दाभ्यामपत्ये ऽञ् प्रत्ययो भवति । जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्यामपवादे वृद्धादिति ञ्यङि प्राप्ते पुनरञ्विधीयते । साल्वेयः । गान्धारः । तस्य राजनीत्येव । साल्वेयो राजा । गान्धारो राजा ॥ द्व्यञ्मगधकलिङ्गसूरमसादण् ॥ १७० ॥ जनपदशब्दात्क्षत्रियाभिधायिनो द्व्यचो मगध कलिङ्ग सूरमस इत्येते- भ्यश्चापत्ये ऽण् प्रत्ययो भवति । अञोऽपवादः । आङ्गः । वाङ्गः । सौरमसः । पौण्ड्रः । मागधः । कालिङ्गः । सौह्मः । तस्य राजनीत्येव । आङ्गो राजा । वाङ्गो राजा ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ १७१ ॥ जनपदशब्दात्क्षत्रियादित्येव । वृद्धाच्च प्रातिपदिकादिकारान्ताच्च को- सलाजादशब्दाभ्यां चापत्ये ञ्यङ् प्रत्ययो भवति । अञोऽपवादः । वृद्धात्तावत् । आम्बष्ठ्यः । सौवीर्य्यः । इकारान्तात् । आवन्त्यः । कौन्त्यः । कोसलाजादयो-
(or तन्नामिका)". Actually, in exact transcription, usually people want the text as printed. Let's look at "तवामिका": yes, it looks like तवामिका.
Line 11: "अपत्यं, द्व्यच इति ढक् । साल्वेयः ॥ अयमपीष्यते ॥ साल्वः । तस्य निवासः" Wait, is there a comma after अपत्यं? "अपत्यं, द्व्यच इति ढक् ।" - yes, there is a comma! "साल्वेयः ॥ अयमपीष्यते ॥ साल्वः । तस्य निवासः" - wait, look at "निवासः": नि - वा - स - ः (with a colon/visarga).
Line 12: "साल्वो जनपदः । तदवयवा उदुम्बरादयस्तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययवि-" Wait, "क्षत्रियवृत्तिभ्य इदं प्रत्ययवि-" Yes!
Line 13: "धानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो" Wait, check every word: धानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो Yes!
Line 14: "भवति । अञोऽपवादः । औ
२९४ ॥ काशिका ॥ ४ ॥ २ ॥ अतश्च ॥ १७७ ॥ स्त्रियामित्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भ- वति । तकारो विस्पष्टार्थः । शूरसेनी । मद्री । दरत् । अवन्त्यादिभ्यो लुग्व- चनात् तदन्तविधिरत्र नास्ति तेनेह न भवति । आम्बष्ठ्या । सौवीर्या ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥ १७८ ॥ प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग्न भवति । अतश्चे- त्यनेन स्त्रियां लुक् प्राप्तः प्रतिषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् । पाञ्चाली । वैदेही । आङ्गी । वाङ्गी । मागधी । भर्गादिभ्यः । भार्गी । कारुषी । कैकेयी । यौधेयादिभ्यः । यौधेयी । शौभ्रेयी । शौक्रेयी । कस्य पुनरकारस्य प्रत्ययस्य यौधे- यादिभ्यो लुक् प्राप्तः प्रतिषिध्यते । पाञ्चमिकस्याञः पर्श्वादिद्यौधेयादिभ्याम- णञावित्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक् प्राप्नोति । एतदेव विज्ञापयति पाञ्चमिकस्यापि तद्राजस्यातश्चेत्यनेन लुग्भवतीति । किमेतस्य ज्ञा- पनेन प्रयोजनं पर्श्वाद्यणः स्त्रियां लुक् सिद्धो भवति । पर्शूः । रक्षाः । आसुरी । तथा चोक्तं "यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुगिति" । भर्ग । करुष । केकय । कश्मीर । साल्व । सुस्याल । उरश * । कौरव्य । भर्गादिः । यौधेय । शौभ्रेय । शौक्रेय । यावाणेय । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । यौधेयादिः ॥ ॥ इति काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥ ॥ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ तेन रक्तं रागात् ॥ १ ॥ शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यते ऽनेनेति रागः । तेनेति तृतीयासमर्थाद्रागविशेषवाचिनः शब्दाद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् । रागादिति किम् । देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ हारिद्रौ कुक्कुटस्य पादाविति । उपमानाद्भविष्यति, काषायाविव काषायौ । हारिद्राविव हारिद्रौ । इहैवेयान्नादरिति यावत्तृतीयासमर्थविभक्तिरनुवर्त्तते ॥ लाक्षारोचनाशकलकर्दमाट्ठक् ॥ २ ॥
- उरस । पा० २ ।
॥ काशिका ॥ ४ । २ ॥ २८५ लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । अणोपवादः । लाक्षया रक्तं वस्त्रं, लाक्षिकम् । रोचनिकम् । शाक- लिकम् । कार्द्दमिकम् ॥ शकलकर्द्दमाभ्यामणपीष्यते ॥ शाकलम् । कार्द्दमम् ॥ नील्या अन् वक्तव्यः ॥ * ॥ नील्या रक्तं नीलं वस्त्रम् ॥ पीतात् कन् वक्त- व्यः ॥ * ॥ पीतेन रक्तं पीतकम् ॥ हरिद्रामहारजनाभ्यामञ्वक्तव्यः ॥ * ॥ हारिद्रम् । माहारजनम् ॥ नक्षत्रेण युक्तः कालः ॥ ३ ॥ तृतीया समर्थविभक्तिरनुवर्त्तते । तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवा- चिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः, कालश्चेत्स भवति । कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते । पुष्यादि- समीपस्थे चन्द्रमसि वर्त्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति । पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौष- महः । माघी रात्रिः । माघमहः । नक्षत्रेणेति किम् । चन्द्रमसा युक्ता रात्रिः । काल इति किम् । पुष्येण युक्तश्चन्द्रमाः ॥ लुबविशेषे ॥ ४ ॥ पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते । यावान् कालो नक्षत्रेण युज्यते ऽहोरात्र- स्तस्याविशेषे लुब् भवति । अद्य पुष्यः । अद्य कृतिकाः । अविशेषइति किम् । पौषी रात्रिः । पौषमहः ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ५ ॥ अविशेषे लुब्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवणशब्दादश्वत्थ- शब्दाच्चोत्पन्नस्य प्रत्ययस्य लुब् भवति संज्ञायां विषये । श्रवणा रात्रिः । अश्वत्थो मुहूर्त्तः । लुपि युक्तवद्भावः कस्मान्न भवति । निपातनाद् विभाषा फाल्गुनीश्रवणाकार्त्तिकीति । संज्ञायामिति किम् । श्रावणी आश्वत्थी रात्रिः ॥ द्वन्द्वाच्छः ॥ ६ ॥ नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे । अद्य राधानुराधी- यम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद् बाधते ॥ दृष्टं साम ॥ ७ ॥ तेनेति तृतीयासमर्थाद् दृष्टं सामित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । यद् दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्टं, क्रौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ॥
२७६ ॥ काशिका ॥ ४ ॥ २ ॥ कलेर्ढक् ॥ ८ ॥ कलिशब्दात्तृतीयासामर्थ्याद् दृष्टं सामेत्येतस्मिन्नर्थे ढक् प्रत्ययो भवति । अणोऽपवादः । कलिना दृष्टं साम, कालेयम् ॥ सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः ॥ * ॥ अग्निना दृष्टमाग्नेयम् । एवमग्नौ भवमग्नेरागतमग्नेः 'स्वमिति सर्वत्र ढगेव भवति । आग्नेयम् । तथा कालेयमपि प्रतिपत्तव्यम् ॥ दृष्टे सामनि अण् वा डिद्वतीति वक्तव्यम् ॥ * ॥ उशनसा दृष्टं साम, औशनसम् । औशनम् ॥ जाते चार्थे योऽन्येन बाधितः पुनर्र्विधीयते स वा डिद्वतीति वक्तव्यम् ॥ * ॥ प्राग्दीव्यतोऽण् प्राप्तः कालठञा बाधितः सन्धिवेलाद्यृतुनक्षत्रेभ्य इति पुनर्विधी- यते स वा डिद्वतीति वक्तव्यम् । शतभिषजि जातः शतभिषः । शातभिषजः ॥ तीयादीकक् स्वार्थे वा वक्तव्यः ॥ * ॥ द्वैतीयीकम् । तार्तीयीकम् । द्वितीय- कम् । तृतीयकम् ॥ न विद्यायाः ॥ * ॥ द्वितीया तृतीया विद्या ॥ गोत्रादङ्- वद्विष्यति ॥ * ॥ दृष्टं सामेत्यस्मिन्नर्थे । औपगवेन दृष्टं साम, औपगवकम् । कापटवकम् । गोत्रचरणाद्वुञ् भवति । दृष्टे सामनि जाते च द्विरणिद्वद् विधीयते । तीयादीकक् न विद्याया गोषादङ्ग्वद्विष्यते ॥ वामदेवाड् ड्यड्ढ्यौ ॥ ९ ॥ वामदेवशब्दात्तृतीयासामर्थ्याद्दृष्टं सामेत्यस्मिन्नर्थे ड्यत् ढ्य इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । वामदेवेन दृष्टं साम, वामदेव्यं साम । तित्क- रणं स्वरार्थम् । डित्करणं किमर्थे, ययतोश्चातदर्थ इति नञ उत्तरस्यान्तोदा- त्तत्वे विधीयमाने ऽनयोर्ग्रहं मा भूत् । अननुबन्धकग्रहणपरिभाषया एकानु- बन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते । अवामदेव्यम् । सिद्धे यस्येतिलोपेन किमर्थं ययतोः डितौ । ग्रहणं मा ऽतदर्थे भूदामदेव्यस्य नञ्स्वरे ॥ परिवृतो रथः ॥ १० ॥ तेनेति तृतीयासामर्थ्यात्परिवृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत्स भवति । वस्त्रेण परिवृतो रथः, वास्त्रो रथः। काम्बलः । चार्मणः । रथ इति किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । यस्य न कश्चिदवयवो वस्त्रादिभिरवेष्टितः तेनेह न भवति । काष्ठैः परिवृतो रथः ॥ पाण्डुकम्बलादिनिः ॥ ११ ॥
॥ काशिका ॥ ४ । २ ॥ २८७ पाण्डुकम्बलशब्दात्तृतीयासमर्थात्परिवृतो रथ इत्येतस्मिन्नर्थे इनिः प्रत्य- यो भवति । अणोपवादः । पाण्डुकम्बली । पाण्डुकम्बलिनौ । पाण्डुकम्बलिनः । पाण्डुकम्बलशब्दो राजास्तरस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमयो निवृत्त्यर्थम् ॥ द्वैपवैयाघ्रादञ् ॥ १२ ॥ द्वीपिब्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथ इत्येतस्मिन्नर्थे ऽञ् प्रत्ययो भवति । अणोपवादः । स्वरे विशेषः । द्वैपेन परिवृतो रथो द्वैपः । वैयाघ्रः ॥ कौमारापूर्ववचने ॥ १३ ॥ कौमार इत्येतदणप्रत्ययान्तं निपात्यते ऽपूर्ववचने । पाणिग्रहणास्यापूर्व- वचनम् । उभयतः स्त्रिया अपूर्वत्वे निपातनमेतत् । अपूर्वपतिं कुमारीं पतिरुप- पन्नः कौमारः पतिः । कुमारीशब्दाद् द्वितीयासमर्थादुपयन्तरि प्रत्ययः । अपूर्व- पतिः कुमारी पतिमुपपन्ना कौमारी भार्या । प्रथमान्तादेव स्वार्थे प्रत्ययो ऽपू- र्वत्वे द्योत्ये । कौमारापूर्ववचने कुमार्या अभिधीयते । अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा ॥ कुमार्या भवः कौमारः, तस्य स्त्री कौमारी भार्येति सिद्धम् ॥ तत्रोद्धृतममत्रेभ्यः ॥ १४ ॥ तत्रेति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथावि- हितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धेः । अमत्रं भाजनं पात्रमुच्यते । शरावेषूद्धृतः शाराव ओदनः । माल्लिकः । कार्परः । अम- त्रेभ्य इति किम् । पात्रादुद्धृत ओदनः । तत्रेति सप्तमी समर्थविभक्तिः चीरा- ड्ढञिति यावदनुवर्तते ॥ स्थण्डिलाच्छयितरि व्रते ॥ १५ ॥ स्थण्डिलशब्दात्सप्तमीसमर्थाच् शयितर्यभिधेये यथाविहितं प्रत्ययो भ- वति, समुदायेन चेद्व्रतं गम्यते । व्रतमिति शास्त्रतो नियम उच्यते । स्थण्डिले शयितुं व्रतन्स्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी । व्रतइति किम् । स्थण्डिले शेते भ्रष्टव्रतः ॥ संस्कृतं भक्षाः ॥ १६ ॥ तत्रेति सप्तमीसमर्थात्संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्संस्कृतं भक्षाश्चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं भक्षमित्युच्यते । सक्तु