काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ८ ॥ २ ॥ ७६५ उपसर्गस्यायतौ ॥ १९ ॥ आयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति । प्रायते । पलायते । अत्र च यो ऽयमेकादेशस्तस्य स्थानिवद्भावादायतेरुपसर्गस्य च विभागे सति यद्यातिग्रहणं रेफस्य विशेषणं तदा येन नाव्यवधानं तेन व्यवहितेऽपि वच- नप्रामाण्यादिति एकेन व्यवधानेऽपि सति लत्वं भवति । तथा च पल्ययते इत्य- त्रापि भवति । उपसर्गस्य विशेषणे त्वायतिग्रहणे सिद्धमेवैतत्सर्वं प्रतेरपि तु व्यव- हितेऽपि प्राप्नोति । तत्र केषां चिद्दर्शनं भवितव्यमेव प्रत्ययतइति । प्रथमपक्षद- र्शनाभिनिविष्टास्तु प्रत्ययतइत्येव भवतीति मन्यन्ते । अपरे तु प्रतिशब्दोपसृ- ष्टस्यायतेः प्रयोगमेव नेच्छन्ति । दुस्- निस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाल्ल- त्वेन नैव भवितव्यम् । निरयाणम् । दुरयाणम् ॥
६६६ ॥ काशिका ॥ ८ ॥ २ ॥ संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हतवान् । इह श्रेयान् भूयानिति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते । जश्त्वे तु नाप्राप्ते तदारभ्यतइति तस्य बाधकं भवति । यशः पय इति । दध्यत्र मध्वत्रेत्यत्र तु यणादेशस्य बहिरङ्गतयास्यासिद्धत्वात्संयोगा- न्तलोपो न भवति । पदस्येति किम् । गोमन्तौ गोमन्त इति ॥ रात्सस्य ॥ २४ ॥ संयोगान्तपदस्य यो रेफस्तस्मादुत्तरस्यान्तस्य सकारस्य लोपो भवति । गोभिर्त्ताः । प्रत्यङ्गमत्साः । तरतेः त्सरतेश्च लुङि सिचश्छान्दसत्वादीड- भावो बहुलं छन्दसीति वचनाद्दीर्घे सति रूपमेतत् । मातुः पितुरिति । ऋत उदिति उत्वे कृते रपरत्वे च सति रात्सस्येति सलोपः । सिद्धे सत्यारम्भो [L1
॥ काशिका ॥ ८ ॥ २ ॥ ७६७
अमंस्त । अमंस्थाः । झलीति किम् । अभित्साताम् । अभित्सत । अयमपि सिच एव लोपस्तेनेह न भवति, सोमसुत् स्तोता । दृषत् स्थानमिति ॥ ह्रस्वादङ्गात् ॥ २७ ॥ ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः । अकृत । अकृथाः । अहृत । अहृथाः । ह्रस्वादिति किम् । अच्योष्ट । अप्लोष्ट । अङ्गादिति किम् । अलाविष्टाम् । अलाविषुः । झलीत्येव । अकृषाताम् । अकृषत । अयमपि सिच एव लोपस्तेनेह न भवति । द्विष्ठरां द्विष्ठमामिति सुजन्ताद् द्विशब्दात्त- रप्तमपौ अद्रव्यप्रकर्षे आतिशायिकः आमु प्रत्ययः ॥ इट ईटि ॥ २८ ॥ इट उत्तरस्य सकारस्य लोपो भवति ईटि परतः । अदावीत् । असे- वीत् । अकोषीत् । अमोषीत् । इट इति किम् । अकार्षीत् । अहार्षीत् । ईटीति किम् । अलाविष्टाम् । अलाविषुः ॥ स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ पदस्यान्ते यः संयोगः झलि परतो वा संयोगस्तदाद्योः सकारककारयो- र्लोपो भवति । लस्जेः । लग्नः । लग्नवान् । साधुलक् । ककारस्य । तष्टेः, तष्ट । तष्टवान् । काष्ठतट् ॥ झलि सङीति वक्तव्यम् ॥ * ॥ किमिदं सङीति । सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत् । काष्ठशक्स्थातेति थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति । तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह । काष्ठशगेव नास्ति कुतो ऽयं काष्ठशक् तिष्ठेदिति । वाक्यर्थे, वाक्यर्थमिति । अत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादि- लोपो न भवति । स्कोरिति किम् । भर्त्ता । वर्षते । संयोगाद्योरिति किम् । पयःशक् । अन्ते चेति किम् । तक्षिता । तक्षकः ॥ चोः कुः ॥ ३० ॥ चवर्गस्य कवर्गादेशो भवति झलि परतः पदान्ते च । पक्ता । पक्तुम् । पक्तव्यम् । ओदनपक् । वक्ता । वक्तुम् । वक्तव्यम् । वाक् । कुञ्चेत्यत्र सहोति वचनाद् अकारस्य चकारे झलि कुत्वं न भवति । युजिक्रुञ्चां चेति निपात- नाद्वा । नकारोपधो वा धातुरयं रेफरहितश्च कुञ्चकौटिल्याल्पीभावयोरिति पठ्यते । नकारलोपे हि निकुञ्चिरिति दृश्यते । युजिक्रुञ्चां चेति तस्यैव रेफो- धिको नकारस्य लोपाभावश्चेति निपात्यते । तत्रानुस्वारस्य परसवर्णस्य चासि- द्धत्वात् अकार एव नास्तीति कुत्वं न भविष्यति ॥ हो ढः ॥ ३१ ॥
७६८ ॥ काशिका ॥ ८ । २ ॥ हकारस्य ढकारादेशो भवति झलि परतः पदान्ते च । सोढा । सोढुम् । सोढव्यम् । तुराषाट् । वोढा । वोढुम् । वोढव्यम् । प्रष्ठवाट् । दित्यवाट् ॥ दादेर्धातोर्घः ॥ ३२ ॥ दकारादेर्धातोर्हकारस्य घकारादेशो भवति झलि परतः पदान्ते च । दग्धा । दग्धुम् । दग्धव्यम् । काष्ठधक् । दोग्धा । दोग्धुम् । दोग्धव्यम् । गोधुक् । दादेरिति किम् । लेढा । लेढुम् । लेढव्यम् । गुडलिट् । धातोरिति दादिसमानाधिकरणमेतच्च, किं तर्हि तद्विशेषणमवयवषष्ठ्यन्तं धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्येति । किमेवं कृतं भवति । अधोगित्यत्रापि घकारः । सिद्धो भवति । कथं दोग्धा दोग्धुमिति, व्यपदेशिवद्भावात् । अथ [L1
॥ काशिका ॥ ८ ॥ २ ॥ ७६९
सम्राट् । स्वराट् । विराट् । राजभ्राजेः पदान्तार्थं ग्रहणं झलादिराभ्यामिटा पर्यवपद्यते । के चित्तु राष्ट्रिरिति क्विबन्तमिच्छन्ति । छकारान्तानाम् । प्रच्छ । प्रष्टा । प्रष्टुम् । प्रष्टव्यम् । शब्दप्राट् । छोः शूडनुनासिके चेत्यत्र क्ङितीत्य- नुवर्त्तते इति छग्रहणमिह क्रियते । शकारान्तानाम् । लिश्र् । लेष्टा । लेष्टुम् । लेष्टव्यम् । लिट् । विश्र् । वेष्टा । वेष्टुम् । वेष्टव्यम् । विट् ॥ एकाचो बशो भष् भषन्तस्य सध्वोः ॥ ३७ ॥ धातोरवयवो य एकाच् भषन्तः तदवयवस्य बशः स्थाने भष् आदेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च । बुध् । भोत्स्यन्ते । अभु- ध्वम् । अर्थभुत् । गुह् । निघोक्ष्यते । न्यघुक्षम् । पर्णघुट् । दुह् । धोक्ष्यते । अधुग्ध्वम् । गोधुक् । अगर्धोः । गृधेर्यङ्लुगन्तस्य लङि सिपि लघूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोरवयवस्यैकाचो बशः स्थाने भभावस्ततो धकारस्य जश्त्वं दश्चेति रुत्वं रो रीति पूर्वरफस्य लोपः ढ्रलोपे पूर्वस्य दीर्घोऽण इति दीर्घत्वम् । गर्दभयतेरप्रत्ययः । गर्द्धृपे । एकाच इति किम् । दामलिह- मिच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः । दामलिट् । असति ह्येकाच्ग्र- हणे धातोरित्येतद्बशो विशेषणं स्यात् । बश इति किम् । क्रुध् । क्रोत्स्यति । भषन्तस्येति किम् । दास्यति । सध्वोरिति किम् । बोढा । बोढुम् । बोढु- व्यम् । धकारस्य वकारोपसृष्टस्य ग्रहणं किम् । दार्दाद्वि । दध धारणेत्येतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिीरिति धिभावे सत्येतद्भवति । यत्र चत्वारो बशः स्थानिनो भषादेशाश्चत्वार एव । तत्र संख्यातानुदेशे प्राप्ते डकारस्य स्थानिनो ऽभावाद् ढकारादेशो न भवति । आन्तर्यतो व्यवस्था विज्ञास्यते ॥ दधस्तथोश्च ॥ ३८ ॥ दध इति दधातिः कृतद्विर्वचनो निर्दिश्यते । तस्य भषन्तस्य बशः स्थाने भष् आदेशो भवति तकारथकारयोः परतश्चकारात् सध्वोश्च परतः । धत्तः । धत्थः । धत्से । धत्स्व । धद्ध्वम् । वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति । अभ्यासजश्त्वस्य चासिद्धत्वम् । तयोरिति किम् । आनन्तर्यात्सध्वो- रेव विज्ञायेत । चकारस्तयोरनुवृत्त्यर्थः । भषन्तस्येत्येव । दधाति ॥ झलां जशोऽन्ते ॥ ३९ ॥ झलां जश आदेशा भवन्ति पदस्यान्ते वर्त्तमानानाम् । वागत्र । श्वलिलत्र । अग्निचिदत्र । त्रिष्टुबत्र । अन्तग्रहणं झलीत्येतस्य निवृत्त्यर्थम् । वस्ता । वस्तव्यम् ॥ भषस्तथोर्धो ऽधः ॥ ४० ॥ भष उत्तरयोस्तकारथकारयोः स्थाने धकार आदेशो भवति । दधातिं वर्ज-
०९० ॥ काशिका ॥ ८ ॥ २ ॥ घित्वा । लब्धा । लब्धुम् । लब्धव्यम् । अलब्ध । अलब्धाः । दुह । दोग्धा । दोग्धुम् । दोग्धव्यम् । अदुग्ध । अदुग्धाः । लिह । लेढा । लेढुम् । लेढव्यम् । अलीढ । अलीढाः । बुध् । बोद्धा । बोद्धुम् । बोद्धव्यम् । अबुद्ध । अबुद्धा । अध इति किम् । धत्तः । धत्थः ॥ षढोः कः सि ॥ ४१ ॥ षकारढकारयोः ककारादेशो भवति सकारे परतः । षकारस्य । विष् । विवक्ष्यति । अविक्षत् । विवक्षति । ढकारस्य । लिह । लेक्ष्यति । अलेक्ष्यत् । लिलिक्षति । सीति किम् । पिनष्टि । लेढि ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४२ ॥ रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति पूर्वस्य च दकारस्य । रेफान्तातत्तावत् । आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । निगीर्णम् । अवगूर्णम् । दकारात् । भिन्नः । भिन्नवान् । छिन्नः । छिन्नवान् । रदाभ्यामिति किम् । कृतः । कृतवान् । र इत्यत्र रश्रुतिसामान्यं नोपादीयते किं तर्हि व्यञ्ज- नमात्रम् । रेफसामान्यनिर्देशेपि सति रेफात्परा याऽज्भक्तिस्तद्व्यवधानात्त्वं न भवति । निष्ठेति किम् । कर्त्ता । हर्त्ता । त इति किम् । चरितम् । मुदितम् । पूर्वस्येति किम् । परस्य मा भूत् । भिन्नवद्ग्राम् । भिन्नवद्भिः । इह कृतस्यापत्यं कार्तिरिरिति वृद्वेर्बहिरङ्गलक्षणाया असिद्धत्वात्तस्ये कर्त्तव्ये रेंफस्यासिद्धत्वम् ॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ संयोगादिर्यो धातुराकारान्तो यण्वान् तस्मादुत्तरस्य निष्ठातकारस्य नका- रादेशो भवति । प्रद्राणः । प्रद्राणवान् । म्लानः । म्लानवान् । संयोगादेरिति किम् । यातः । यातवान् । आत इति किम् । च्युतः । च्युतवान् । प्लुतः । प्लुतवान् । धातो- रिति किम् । निर्यातः । निर्वातः । यण्वत इति किम् । स्नातः । स्नातवान् ॥ ल्वादिभ्यः ॥ ४४ ॥ लूँञ् छेदने इत्येतत्प्रभृति वृ वरणे इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते । तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति । लूनः । लूनवान् । धूनः । धूनवान् । जीनः । जीनवान् ॥ ऋकारल्वादिभ्यः क्तिवि- ष्ठावद्भवतीति वक्तव्यम् ॥ * ॥ कीर्णिः । गीर्णिः । शीर्णिः । लूनिः । पूनिः ॥ दुग्वोर्दीर्घश्चेति वक्तव्यम् ॥ * ॥ दु, आदूनः । गु, विगूनः ॥ पूञो विनाशइति वक्तव्यम् ॥ * ॥ पुना यवाः । विनष्टा इत्यर्थः । विनाशइति किम् । पूतं धान्यम् ॥ सिनोतेर्योसकर्मकर्त्तृकस्येति वक्तव्यम् ॥ * ॥ सिनो वासः स्वयमेव । वासकर्मकर्तृकस्येति किम् । सिता पाशेन सूकरी । वासोपि यदा कर्मैव भवति न कर्म्मकर्त्ता तदा न भवति । सितो वासो देवदत्तेनेति ॥
॥ काशिका ॥ ८ ॥ २ ॥ ७०१ ओदितश्च ॥ ४५ ॥ ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी । लग्नः । लग्नवान् । ओविजी । उद्विग्नः । उद्विग्नवान् । ओप्यायी वृद्धौ । आपीनः । आपीनवान् । स्वादय ओदितः । षूङ् । सूनः । सूनवान् । दूङ् । दूनः । दूनवान् । दीङ् । दीनः । दीनवान् । डीङ् । डीनः । डीनवान् । धीङ् । धीनः । धीनवान् । मीङ् । मीनः । मीनवान् । रीङ् । रीणः । रीण- वान् । लीङ् । लीनः । लीनवान् । व्रीङ् । व्रीणः । व्रीणवान् ॥ क्षियो दीर्घात् ॥ ४६ ॥ क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । क्षीणाः केशाः । क्षीणो जाल्मः । क्षीणस्तपस्वी । क्षियो निष्ठायामण्यदर्थे वा क्रोशदे- न्ययोरिति दीर्घत्वं भवति । दीर्घादिति किम् । क्षित्तमसि मामेतेष्ठाः । क्षित्तमिति क्तप्रत्ययो भावे । भावश्च ण्यदर्थ इति दीर्घाभावः । ह्रस्वान्त- स्यापि धात्वनुकरणस्य दृष्ट इयङा निर्देशः । क्षियो निष्ठायामण्यदर्थेत्यत्र दीर्घग्रहणं क्रियते विपराभ्यां जेरित्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यवि- वक्षितत्वाद् जिरूपसामान्यानुकरणं द्रष्टव्यम् ॥ श्यो ऽस्पर्शे ॥ ४७ ॥ श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति । शीनं घृतम् । शीनं मेदः । शीना वसा । अस्पर्शइति किम् । शीतं वर्तते । शीतो वायुः । शीतमुकमित्यत्र गुणभूतोपि स्पर्शो नत्वप्रतिषेधस्य संप्रसारणस्य च निमित्तं भवति । गुणे च स्पर्शप्रतिषेधोयं न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव ॥ अञ्चो ऽनपादाने ॥ ४८ ॥ अञ्चतेरुत्तरपदस्य निष्ठातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति । समञ्चौ शकुनेः पादौ । तस्मात्पशवो न्यञ्चाः । अनपादानइति किम् । उदक्तमुदकं कूपात् । व्यक्तमित्येतदङ्गे रूपम् ॥ दिवो ऽविजिगीषायाम् ॥ ४९ ॥ दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे । प्रद्यूनः । परिद्यूनः । अविजिगीषायामिति किम् । द्यूतं वर्तते । विजिगीषया हि तत्राक्षपातनादि क्रियते ॥ निर्वाणो ऽवाते ॥ ५० ॥ निर्वाण इति निस्पूर्वाद्वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते ।
७७२ ॥ काशिका ॥ ८ ॥ २ ॥ न चेद्वाताधिकरणो वात्यर्थो भवति । निर्वाणोऽग्निः । निर्वाणः प्रदीपः । निर्वाणो भिक्षुः । अवात इति किम् । निर्वातो वातः । निर्वातं वातेन । निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणे वात्यर्थो वातस्तु तस्य करणमिति भवत्येव नत्वम् ॥ शुषः कः ॥ ५१ ॥ शुषेर्द्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति । शुष्कः । शुष्कवान् ॥ पचो वः ॥ ५२ ॥ पचेर्द्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति । पक्वः । पक्ववान् ॥ क्षायो मः ॥ ५३ ॥ क्षैधातोरुत्तरस्य निष्ठातकारस्य मकारादेशो भवति । क्षामः । क्षामवान् ॥ प्रस्त्योऽन्यतरस्याम् ॥ ५४ ॥ प्रपूर्वात् स्त्यायतेरुत्तरस्य निष्ठातकारस्यान्यतरस्यां मकारादेशो भवति । प्रस्तोमः । प्रस्तोमवान् । प्रस्तीतः । प्रस्तीतवान् । यदा मत्वं नास्ति तदा संयो- गादेरातो धातोर्र्यङ्वन इत्यस्य पूर्वत्रासिद्धत्वात् संप्रसारणं प्रथमं क्रियते । तत्र कृते निमित्तव्याघातान्नत्वं न भवति ॥ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ५५ ॥ फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते न चेदुपसर्गादुत्तरा भवन्ति । फुल्ल इति जिफला विशरणइत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य लकारो निपा- त्यते । उत्वमिड्भावश्च सिद्ध एव ॥ क्तवत्वन्तस्याप्येतल्लत्वमिष्यते ॥ फुल्लः । फुल्लवान् इति । क्षीबकृशोल्लाघा इति क्षीबकृशिभ्यामुत्पूर्वाच्च लाघेः क्तप्रत्ययस्य तलोप इडागमाभावश्च निपात्यते । कृते वा दृटि इच्छब्दलोपः । क्षीबः । कृशः । उल्लाघः । अनुपसर्गादिति किम् । प्रफुल्लाः सुमनसः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । लाघेरदन्त उपसर्गेः प्रतिषिध्यते ॥ उत्फुल्लसंफुल्लयोरिति वक्तव्य- म् ॥ * ॥ उत्फुल्लः । संफुल्लः । परिकृश इत्यत्र यः परिशब्दः स क्रियान्तरयो- गात्कृशं प्रत्यनुपसर्ग एव । परिगतः कृशः । परिकृश इति ॥ नुदविदोन्दत्राघ्राह्रीभ्यो ऽन्यतरस्याम् ॥ ५६ ॥ नुद विद उन्द् त्रा घ्रा ह्री इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् । नुद । नुन्नः । नुत्तः । विद । विन्नः । वित्तः । उन्द् । समुन्नः । समुत्तः । त्रा । त्राणः । त्रातः । घ्रा । घ्राणः । घ्रातः । ह्री । ह्रीणः । ह्रीतः । ह्री इत्येतस्मादप्राप्तं नत्वमितरेषां नित्यं प्राप्तं विकल्प्यते ॥ विद्विचारणार्थस्य विदेरिह ग्रहणमिष्यते ॥ एवमुक्तम् ॥
॥ काशिका ॥ ८ ॥ २ ॥ ७७३ वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । वित्तेर्वेत्तश्च वित्तश्च भोगे विन्नश्च विन्दतेः ॥ इति ॥ न ध्याख्यापृमूर्च्छिमदाम् ॥ ५७ ॥ ध्या ख्या पृ मूर्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति । ध्यातः । ध्यातवान् । ख्यातः । ख्यातवान् । पूर्तः । पूर्तवान् । मूर्त्तः । मूर्त्त- वान् । मत्तः । मत्तवान् । रदाभ्यां संयोगादिरिति च प्राप्तः प्रतिषिध्यते ॥ वित्तं भोगप्रत्यययोः ॥ ५८ ॥ वित्त इति विदेर्लाभार्थादुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये चाभिधेये । वित्तमस्य बहु । धनमस्य बह्वित्यर्थः । धनं हि भुज्यतइति भोगोऽभिधीयते । प्रत्यये । वित्तौयं मनुष्यः । प्रतीत इत्यर्थः । प्रतीयतइति प्रत्ययः । भोगप्रत्यययोरिति किम् । विन्नः ॥ भित्तं शकलम् ॥ ५९ ॥ भित्तमिति निपात्यते शकलं चेत्तद्भवति । भित्तं तिष्ठति । भित्तं प्रप- तति । शकलपर्यायोयम् । अत्र भिदिः क्रिया शब्दव्युत्पत्तेरेव निमित्तम् । भिदि- क्रियाविवक्षायां हि शकलविषये भिन्नमित्येव भवति ॥ ऋणाधमर्ण्ये ॥ ६० ॥ ऋणमिति ऋदित्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते अधमर्ण्यविषये । अधम ऋणे अधमर्णः । एतस्मादेव निपातनात्सप्तम्यन्तेनोत्तरप- देन समासः । तद्भाव आधमर्ण्यम् । यद्येवमुत्तमर्णे इति न सिध्यति । नैष दोषः । कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम् । तेन उत्तमर्णे इत्यपि हि भवति । ऋणं ददाति । ऋणं धारयति । आधमर्ण्ये इति किम् । ऋतं वक्ष्यामि नानृतम् ॥ नसत्तनिषत्तानृत्तप्रतूर्त्तसूर्तगूर्त्तानि छन्दसि ॥ ६१ ॥ नसत्त निषत्त अनृत्त प्रतूर्त्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपा- त्यन्ते । नसत्तनिषत्तेति सदेर्नङ्पूर्वाच्चिण्वाच्च नत्वाभावो निपात्यते । नसत्त- मञ्जसा । नसत्तमिति भाषायाम् । निषत्तः । निषण्ण इति भाषायाम् । अनू- त्तमित्युन्देर्नङ्पूर्वस्य निपातनम् । अनृत्तमा ते मघवन् । अनुन्नमिति भाषा- याम् । प्रतूर्त्तमिति त्वरतेः तूर्वि इत्येतस्य वा निपातनम् । प्रतूर्त्तं वाजिनम् । प्रतूर्णमिति भाषायाम् । सूर्तमिति सृदित्येतस्य उत्वं निपात्यते । सूर्ता गावः । सृता गाव इति भाषायाम् । गूर्त्तमिति गूरी इत्येतस्य नत्वाभावो निपात्यते । गूर्त्तो अमृतस्य । गूर्णमिति भाषायाम् ॥
७७४ ॥ काशिका ॥ ८ ॥ २ ॥ क्विन्प्रत्ययस्य कुः ॥ ६२ ॥ पदस्येति वर्त्तते । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते । क्विन्प्रत्ययो यस्माद्धातोः स क्विन्प्रत्ययः । तस्य पदस्यालोन्त्यस्य कवर्गादेशो भवति । स्पृशो ऽनुदके क्विन् । घृतस्पृक् । हलस्पृक् । मन्त्रस्पृक् । क्विनः कुरिति वक्तव्ये प्रत्य- यग्रहणं कृतं बहुव्रीहिविज्ञानार्थं, क्विन्प्रत्ययो यस्माद्विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात् । मा नो ऽस्राक् । मा नो ऽद्राक् । सृजिदृशिभ्यां हि क्विन्विहितः तयोर्लुङि कुत्वमेतत् । माङ्योगेपि छान्दसत्वादडागमः ईडपि न भवति । बहुलं छन्दसीति । तथा दृग्भ्यां दृग्भिरिति । क्विबन्तस्यापि दृशेः कुत्वं भवति । एवं च सति रज्जुसद्भ्यामित्यत्रापि कुत्वं प्राप्नोति । अथ तु नेष्यते । ततस्तत्प्रतिविधातव्यमिति ॥ नशोर्वा ॥ ६३ ॥ पदस्येति वर्त्तते । नशः पदस्य वा कवर्गादेशो भवति । सा वै जीवन- गाहुतिः । सा वै जीवनडाहुतिः । नशेरयं संपदादित्वाद् भावे क्विप् । जीवस्य नाशो जीवनक् । जीवनट् । षत्वे प्राप्ते कुत्वविकल्पः ॥ मो नो धातोः ॥ ६४ ॥ मकारान्तस्य धातोः पदस्य नकारादेशो भवति । प्रशान् । प्रतान् । प्रदान् । शमितामिदमादीनां क्विप् । अनुनासिकस्य क्विझलोः क्ङितीति दीर्घत्व- म् * । नत्वस्यासिद्धत्वाच्चलोपो न भवति । म इति किम् । भित् । कित् । धातोरिति किम् । इदम् । किम् । पदस्येत्येव प्रतामौ । प्रतामः ॥ म्वोश्च ॥ ६५ ॥ मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति । अगन्म तमसः पारम् । अगन्व । गमेर्लङि बहुलं छन्दसीति शपो लुक् । जगन्वान् । वि- भाषा गमहनजनविदविशामिति क्वसाविडागमस्याभावः । अपदान्तार्थ आरम्भः ॥ ससजुषो रुः ॥ ६६ ॥ सकारान्तस्य पदस्य सजुष् इत्येतस्य च रुर्भवति । सकारान्तस्य । अग्निरत्र । वायुरत्र । सजुषः । सजूर्ऋषिभिः । सजूर्द्देवेभिः । जुषेः क्विपि सपूर्वस्य रूपमेतत् ॥ अवयाः श्वेतवाः पुरोडाश्च ॥ ६७ ॥ अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते । अवपूर्वस्य यजेः श्वेतपूर्वस्य वहेः पुरस्पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो क्विन् । अव यज इति
- शमितादीनामित्यारभ्य दीर्घत्वमित्यन्तः पाठः पुस्तकान्तरे नास्ति ।
॥ काशिका ॥ ८ । २ ॥ ७४२ ख्वनि कृते श्वेतवहादीनां ह्रस्वइत्येति ह्रस्वत्वे निपातनान्येतानि। किमर्थं तर्हि निपातनं यावता पूर्वेणैव रुः सिद्धः। दीर्घत्वमप्यत्वसन्तस्य चाधातोरिति। संबुद्धौ दीर्घार्थमेते निपात्यन्ते। अत्वसन्तस्य चाधातोरित्यत्र हि असंबुद्धाविति वर्तते। हे अवयाः। हे श्वेतवाः। हे पुरोडाः। चकारोनुक्तसमुच्चयार्थः। हे उक्थशाः॥ अहन् ॥ ६८ ॥ अहन्नित्येतस्य पदस्य रुर्भवति। अहोभ्याम्। अहोभिः। नलोपमकृत्वा निर्देशो ज्ञापकः नलोपाभावो यथा स्यादिति। दीर्घाहा निदाघः। हे दीर्घाहोनेति। अहन्नित्यत्र तु लाक्षणिकत्वादहन्शब्दस्य रुर्न भवति॥ अह्नो हविधौ रूपरात्रिरथन्तरेषूपसंख्यानं कर्तव्यम् ॥ * ॥ अहो रूपम्। अहोरात्रः। अहो रथन्तरम्। रोसुपीत्यस्यापवादो रुत्वमुपसंख्यायते। अपर आह। सामा- न्येन रेफादौ रुत्वं भवति। अहो रम्यम्। अहो रवानीति॥ रोसुपि ॥ ६९ ॥ अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः। अहर्भुदाति। अहर्भुङ्क्ते। असुपीति किम्। अहोभ्याम्। अहोभिः। ननु चात्रापि प्रत्ययलक्षणेन सुबस्ति। अहर्भुदाति। अहर्भुङ्क्तेति। नैतदस्ति। उक्तमेतत्। अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति नायमहःशब्दः सुप्परतो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव। यथा हे दीर्घाहोत्र दीर्घाह निदाघ इति। अत्र हि हल्ङ्याबिति लोपेन प्रत्ययस्य निवृत्तिः॥ अम्रऊधर्वरित्युभयथा छन्दसि ॥ ७० ॥ अम्वस् ऊधस् अवस् इत्येतेषां छन्दसि विषये उभयथा भवति। रुर्वा रेफो वा। अम्वस्। अम्व् एव। अम्वरेव। ऊधस्। ऊधरेव। ऊध एव। अवस्। अवरेव। अव एव। यदा रुत्वं तदा भोभगोअघोअपूर्वस्य योऽशीति यकारः॥ छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसंख्यानं कर्तव्यम् ॥ * ॥ प्रचेता राजन्। प्रचेतो राजन्॥ अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम् ॥ * ॥ अहर्पतिः। अहःपतिः। गीर्पतिः। गीःपतिः। धूर्पतिः। धूःपतिः। विसर्ज- नीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते॥ भुवश्चमहाव्याहृतेः ॥ ७१ ॥ भुवस् इत्येतस्य महाव्याहृतेश्छन्दसि विषये उभयथा भवति। रुर्वा रेफो वा। भुवरित्यन्तरिक्षम्। भुव इत्यन्तरिक्षम्। महाव्याहृतेरिति किम्। भुवो विश्वेषु भुवनेषु यज्ञियः*। भुवरित्येतदव्ययमन्तरिक्षवाचि महाव्याहृतिः॥
- भुवो मध्यम्। भुव इदम्। पुस्तकान्तरे इतदधिकम्।
७७६ ॥ काशिका ॥ ८ ॥ २ ॥ वसुस्रंसुध्वंस्वनडुहां दः ॥ ७२ ॥ ससजुषोरित्यतः स इति वर्त्तते। तेन संभवाद्व्यभिचाराच्च वसुरेव विशे- ष्यते। न स्रंसुध्वंसू व्यभिचाराभावात्, संभवाच्चानडुह्शब्दः। वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु ध्वंसु अनडुह् इत्येतेषां च दकारादेशो भवति। वसु। विदु- द्भ्याम्। विदुद्भिः। पपिवद्भ्याम्। पपिवद्भिः। स्रंसु। उखास्रद्भ्याम्। उखास्रद्भिः। ध्वंसु। पर्णध्वद्भ्याम्। पर्णध्वद्भिः। अनडुह्। अनडुद्भ्याम्। अनडुद्भिः। स इत्येव। विद्वान्। पपिवान्। नकारस्य न भवति। रुत्वे नाप्राप्ते इदमरभ्यत इति तद्वाध्यते। संयोगान्तलोपस्तु नैवमिति तेनैतदेव दत्वं बाध्यते। अनडुहोऽपि
॥ काशिका ॥ ८ ॥ २ ॥ ४०७ उपधायां च ॥ ७८ ॥ हलीत्यनुवर्त्तते । धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दीर्घो भवति । हूर्च्छा । मूर्च्छिता । मूर्च्छा । मूर्च्छिता । ऊर्वी । ऊर्विता । धूर्वी । धूर्विता । हलीत्येव । चिरि, जिरि । चिरिणोति । जिरिणोति । इह कस्मान्न भवति । री गतौ । रियतुः । रियुः । वी गत्यादिषु । विव्यतुः । विव्युरिति । यणादेशस्य स्थानिवत्त्वाद् असिद्धत्वाच्च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः । चतुरित्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य धातोरुपधाभूतो रेफो न भवति । प्रतिदीव्नेत्यत्र तु हलि चेति दीर्घत्वम् । दीर्घविधौ लोपा- जादेशस्य स्थानिवद्भावप्रतिषेधात् । असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत्तु नाश्रीयित- व्यम् । उणादयो
भवितव्यम् । अदद्ध्यङ् । अदद्ध्यञ्चौ । अदद्ध्यञ्च इति । दादिति किम् । अलोन्त्यस्य मा भूत् । अमुया । अमुयोः ॥ एत ईद्बहुवचने ॥ ८१ ॥ अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति दकारस्य च मकारः बहुवचने बहूनामर्थानामुक्तौ । अमी । अमीभिः । अमीभ्यः । अमीषाम् । अमीषु । बहुवचनइत्यर्थनिर्देशोऽयं, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे ऽमी इत्यत्र न स्यात् ॥ वाक्यस्य टेः प्लुत उदात्तः ॥ ८२ ॥ अधिकारोयम् । वाक्यस्य टेरिति प्लुत इति च उदात्त इति च एतत्त्रय- मप्यधिकृतं वेदितव्यमापादपरिसमाप्ते, र्यदित ऊर्ध्वमनुक्रमिष्यामो वाक्यस्य टेः प्लुत उदात्त इत्येवं तद्वेदितव्यम् । वक्ष्यति । प्रत्यभिवादेऽशूद्रे । अभिवादये देव- दत्तोऽहं, भो आयुष्मानेधि देवदत्त ३ । पदाधिकारोनुवर्त्ततएव । वाक्यग्रहणम- ऽनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् । टिग्रहणं व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यात् । अग्निचि ३ दिति ॥ प्रत्यभिवादे ऽशूद्रे ॥ ८३ ॥ प्रत्यभिवादो नाम यदत्राभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते तत्राशूद्रवि- षये यद्वाक्यं वर्त्तते तस्य टेः प्लुत उदात्तो भवति । अभिवादये देवदत्तोऽहं, भो आयुष्मानेधि देवदत्त ३ । अशूद्रइति किम् । अभिवादये तुषजकोऽहं, भो आयुष्मानेधि तुषजक ॥ स्त्रियामपि प्रतिषेधो वक्तव्यः ॥ * ॥ अभिवादये गार्ग्यहं, भो आयुष्मती भव गार्गि । असूयकेऽपि के चित् प्रतिषेधमिच्छन्ति । अभिवादये स्थाल्यहं भोः । आयुष्मानेधि स्थालिन् । यावच्च तस्यासूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम् । तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवाद एव नास्ति कुतः प्लुतः तथा चोक्तम्, असूयकस्त्वं जाल्म न त्वं प्रत्यभिवादन- मर्हसि । भिद्धास्व वृषल स्थालिचिरिति ॥ अभिवादवाक्ये यत् संकीर्त्तितं नाम गोत्रं वा तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुत इष्यते ॥ इह न भवति । देवदत्त कुशल्यसि । देवदत्त आयुष्मानेधीति ॥ भोराजन्यविशां चेति वक्तव्यम् ॥ * ॥ भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भोः ३ । आयुष्मानेधि देवदत्त भोः । राजन्य । अभिवादये इन्द्रवर्म्मोऽहं भोः । आयुष्मा- नेधीन्द्रवर्म्म ३ न् । आयुष्मानेधीन्द्रवर्म्मन् । विश् । अभिवादये इन्द्रपालितोऽहं भोः । आयुष्मानेधीन्द्रपालित ३ । आयुष्मानेधीन्द्रपालित ॥ दूराद्धूते च ॥ ८४ ॥
॥ काशिका ॥ ८ । २ ॥ ७७२ दूराद्धूते यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति स चोदात्तः । आह्वानं हूतं शब्देन सम्बोधनम् । आगच्छ भो माणवक देवदत्त ३ । आगच्छ भो माणवक यज्ञदत्त ३ । दूरं यद्यप्यपेक्षाभेदादनवस्थितं तथापि हूतापेक्षं यत्तदा- क्षीयते इति यत्र प्राकृतात्प्रयत्नाच्छब्दविशेषे आश्रीयमाणे शब्दः श्रूयते तद्दूरम् । हूतग्रहणं च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम् । तेन यत्राप्याह्वानं नास्ति तत्रापि प्लुतिर्भवति । सक्तून्पिब देवदत्त ३ । पलायस्व देवदत्त ३ इति ॥ अस्याश्च प्लुतेरेकश्रुत्या समावेश इष्यते ॥ दूरादिति किम् । आगच्छ भो माण- वक देवदत्त ॥ दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्रायं प्लुत रिष्यते ॥ तेनेह न भवति । देवदत्त आगच्छ * ॥ हैहेप्रयोगे हैहयोः ॥ ८५ ॥
७८० ॥ काशिका ॥ ८ ॥ २ ॥ यज्ञकर्म्मणीति वर्त्तते । यज्ञकर्म्मणि टेः प्रणव आदेशो भवति । क एष प्रणवो नाम पादस्य वार्थर्चस्य वान्त्यमक्षरमुपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणवमित्याचक्षते । अपां रेतांसि जिन्व- तो३म् । देवान् जिगाति सुम्नयो३म् । टिग्रहणं सर्वादेशार्थम् * । ओकारः सर्वा- देशो यथा स्यात् । व्यञ्जनान्ते चान्त्यस्य मा भूदिति । यज्ञकर्म्मणीत्येव । अपां रेतांसि जिन्वति ॥ याज्यान्तः ॥ ९० ॥ याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्रास्तेषामन्त्यो यष्टिः स प्लवते यज्ञकर्मणि । स्तोमैर्विधेमाग्नये३ । जिह्वामग्ने चकृषे हव्यवाहम ३ । अन्त्यग्रहणं किम् । याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपाश्च यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति । सर्वान्त्यस्यैवेष्यते तदर्थमन्त्यग्रहणम् ॥ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ९१ ॥ ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्येतेषामादेः प्लुतो भवति यज्ञकर्म्मणि । अग्नये ऽनुब्रू३हि । प्रेष्य । अग्नये गोमयान्प्रे३ष्य । श्रौषट् । अस्तु श्रौ३षट् । वौषट् । सोमस्याग्ने वीही३वौ३षट् । आवह । अग्निमा३वह । आवह देवान्यज- मानायेत्येवमादावयं प्लुतो न भवति । सर्वे विधयश्छन्दसि विकल्प्यन्तइति ॥ अग्नीत्प्रेषणे परस्य च ॥ ९२ ॥ अग्नीधः प्रेषणमग्नीत्प्रेषणम् । तत्रादेः प्लुतो भवति परस्य च । ओ३श्रा- वय । ओ३श्रावय ॥ अत्रैवायं प्लुत इष्यते ॥ तेनेह न भवति । अग्नीदग्नीन्वि- हर बर्हिस्तृणीहीति । तदर्थं के चिद्वक्ष्यमाणं विभाषेत्यभिसंबध्नन्ति । सा च व्यवस्थितविभाषेति । अपर आह । सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेय इति । इह तु उद्धर३उद्धर । अभिहर३ । अभिहरेति । छान्दसः प्लुत- व्यत्ययः । यज्ञकर्म्मणीत्येव । ओ श्रावय ॥ विभाषा पृष्टप्रतिवचने हेः ॥ ९३ ॥ पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति । अकार्षीः कटं देवदत्त । अकार्षी हि३ । अकार्षी हि । अलावीः केदारं देवदत्त । अलाविषं हि३ । अलाविषं हि । पृष्टप्रतिवचनइति किम् । कटं करिष्यति हि । हेरिति किम् । करोमि ननु ॥ निगृह्यानुयोगे च ॥ ९४ ॥ स्वमतात्प्रच्यावनं निग्रहः । अनुयोगस्तस्य मतस्याविष्करणम् । तत्र निगृह्यानुयोगे यद्वाक्यं वर्त्तते तस्य टेः प्लुतो भवति विभाषा । अनित्यः शब्द
- हेरिति वर्त्तमाने इत्याधिकं पुस्तकान्तरे ।
इति केन चित्प्रतिज्ञातं तमुपालिप्सुरुपपत्तिभिर्निगृह्य साध्यसूयमनुयुङ्क्ते । अनित्यः शब्द इत्यात्थ ३ । अनित्यः शब्द इत्यात्थ । अद्य श्राद्धमित्यात्थ३ । अद्य श्राद्धमित्यात्थ । अद्यामावास्येत्यात्थ३ । अद्यामावास्येत्यात्थ । अद्य अमावास्येत्येवं वादी युक्त्या प्रत्याय्य स्वमतादेवमनुयुज्यते ॥ आम्रेडितं भर्त्सने ॥ ९५ ॥ वाक्यादेरामन्त्रितस्यैत भर्त्सने द्विर्वचनमुक्तं तस्याम्रेडितं प्लवते । चौर- चौर ३, वृषलवृषल ३, दस्योदस्यो ३, घातयिष्यामि त्वा बन्धयिष्यामि त्वा ॥ भर्त्सने पर्यायेणेति वक्तव्यम् ॥ * ॥ चौर ३ चौर । चौरचौर ३ । तदर्थमाम्रे- डितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति ॥ अङ्गयुक्तं तिङाकाङ्क्षम् ॥ ९६ ॥ अङ्गेत्यनेन युक्तं तिङन्तमाकाङ्क्षतं भर्त्सने प्लवते । अङ्ग कूज ३ । अङ्ग व्याहर ३ । इदानीं ज्ञास्यसि जाल्म । तिङिति किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षमिति किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सनइत्येव । अङ्गाधीष्व ओदनं ते दास्यामि ॥ विचार्यमाणानाम् ॥ ९७ ॥ प्रमाणेन वस्तूपरीक्षणं विचारः । तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति । होतव्यं दीक्षितस्य गृहा३इ । होतव्यं न होतव्यमिति विचा- र्यते । तिष्ठेद्यूपा ३ इ । अनुप्रहरेद्यूपा ३ इ । यूपे तिष्ठेद्यूपे अनुप्रहरेदिति विचार्यते ॥ पूर्वं तु भाषायाम् ॥ ९८ ॥ भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३ । रज्जुर्नु । लोष्टो नु ३ । कपोतो नु * । प्रयोगायत्तं पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयो- गश्छन्दसि विज्ञायते ॥ प्रतिश्रवणे च ॥ ९९ ॥ प्रतिश्रवणमभ्युपगमः प्रतिज्ञानम् । श्रवणाभिमुख्यं च तत्राविशेषात्स- र्वस्य ग्रहणम् । प्रतिश्रवणे यद्वाक्यं वर्त्तते तस्य टेः प्लुतो भवति । गां देहि भोः, अहं ते ददामि ३ । नित्यः शब्दो भवितुमर्हति । देवदत्त भोः किमात्थ ३ ॥ अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ १०० ॥ अनुदात्तः प्लुतो भवति प्रश्नान्ते अभिपूजिते च † । अगम३ः पूर्वा३म्
- स्थाणुर्नु३ । पुरुषो नु३ । इत्याधिकं पुस्तकान्तरे । † नानेन प्लुतो विधीयते किं तु दूराद्धूतादिषु विहितस्यानन्त्यस्यापि प्रश्नाख्यानयो- रिति स्वरितप्लुतस्यानुदात्तत्वं गुणमात्रं विधीयते इत्याधिकं पुस्तकान्तरे ।
७८२ ॥ काशिका ॥ ८ ॥ २ ॥ शामाइन् अग्निभूत ३ इ । पटा ३ उ । अग्निभूते पटो इत्येतयोः प्रश्नान्ते वर्त- मानयोरनुदात्तः प्लुतो भवति । अगम इत्येवमादीनां तु अनन्त्यस्यापि प्रश्नाख्या- नयोरिति स्वरितः प्लुतो भवति । अभिपूजिते । शोभनः खल्वसि माणवक ३ । चिदिति चोपमार्थे प्रयुज्यमाने ॥ १०१ ॥ अनुदात्तमिति वर्तते । चिदित्येतस्मिन्निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति । प्लुतोऽप्यत्र विधीयते न गुणमात्रम् । अग्निचिद्भाया ३ त् । राजचिद्भायात् ३ । अग्निरिव भायात् । राजेव भायादित्यर्थः । उपमार्थेति किम् । कथं चिदाहुः । प्रयुज्यमानइति किम् । अग्निर्मााणवको भायात् ॥ उपरिस्विदासीदिति च ॥ १०२ ॥ अनुदात्तमिति वर्तते । उपरिस्विदासीत्येतस्य टेरनुदात्तः प्लुतो भवति । अधः स्विदासी ३ त् । उपरि स्विदासी ३ त् । अधः स्विदासीदित्यत्र विचा- र्यमाणानामित्युदात्तः प्लुतः । उपरिस्विदासीदित्यत्र तु अनेनानुदात्तः ॥ स्वरितमाम्रेडितेसूयासंतिकोपकुत्सनेषु ॥ १०३ ॥ स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायां संमतौ कोपे कुत्सने च गम्यमाने । वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेष्विति द्विर्व- चनमुक्तं तत्रायं प्लुतविधिः । असूयायां तावत् । माणवक ३ माणवक । अभिरू- पक ३ अभिरूपक रिक्तं तत्राभिरूप्यम् । संमतौ । माणवक ३ माणवक अभि- रूपक ३ अभिरूपक शोभनः खल्वसि । कोपे । माणवक ३ माणवक अविनीत- क ३ अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक ३ शाक्तीक याष्टी- क ३ याष्टीक रिक्ता ते शक्तिः ॥ असूयादिषु वावचनं कर्तव्यम् ॥ * ॥ माण- वक माणवकेत्येवमाद्यपि यथा स्यात् ॥ क्रियाशीः प्रैषेषु तिङाकाङ्क्षम् ॥ १०४ ॥ स्वरित इति वर्तते । क्रिया चाचारभेदः । आशीः प्रार्थनाविशेषः । [L
॥ काशिका ॥ ८ । २ ॥ ७८३ अनन्त्यस्यापि प्रश्नाख्यानयोः ॥ १०५ ॥ पदस्येति वर्तते स्वरितमिति च । अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च । आगम ३: ३ पूर्वा ३ न्यामा ३ न् । अग्निभूत ३ इ । पट ३ उ । सर्वेषामेव पदानामेष स्वरितः प्लुतः । अन्त्यस्य 'अनुदात्तं प्रश्ना- न्ताभिपूजितयोरिति' । अनुदात्तोऽपि पक्षे भवति । आख्याने । आगम ३: पूर्वा ३- न्यामा ३ न्भोः ३ ॥ प्लुतावैच इदुतौ ॥ १०६ ॥ दूराद्धूतादिषु प्लुतो विहितः तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ । ऐ ३ तिकायन । औ ३ पगव । अत्र यदैवर्णौवर्णयोरवर्णस्य च समवि- भागस्तदा इदुतौ द्विमात्रत्वेन प्लुतौ क्रियेते । प्लुताविति हि क्रियानिमित्तोऽयं व्यपदेशः इदुतौ प्लवेते वृद्धिं गच्छत इत्यर्थः । तावती च स प्रतिर्भवति । यया तावैचौ द्विमात्रौ संपद्येते । यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रा इवर्णोवर्णयोस्तदा तावर्धतृतीयमात्रौ क्रियेते इति । भाष्ये तूक्तमिष्यते चतुर्मात्रः प्लुत इति । तत्कथं, समप्रविभागपक्षे इदुतोरनेन द्विमात्रः प्लुतो विधीयते ॥ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्द्धस्यादुत्तरस्येदुतौ ॥ १०७ ॥ एचो ऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्यार्द्धस्याकार आदेशो भवति च स प्लुतः, उत्तरस्येकारोकारौवादेशौ भवतः । विषयपरिगणनं कर्त्तव्यम् ॥ प्रश्नान्ताभि- पूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम् ॥ * ॥ प्रश्नान्ते । अग- म३: पूर्वा३न् यामा३न् अग्निभूता३इ । पटा३उ । अभिपूजिते । भद्रं करोषि माणवक३ अग्निभूता३इ । पट३उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह३इ । प्रत्यभिवादे । आयुष्मान्नेधि अग्निभूता३इ । पट३उ । याज्यान्ते । उक्षानाय वशानाय सोमपृष्ठाय वेधसे । स्तोमैर्विधेमानाय३इ । सोयमाकारः प्लुतो यथा- विषयमुदात्तो ऽनुदात्तः स्वरितो वेदितव्यः । इदुतौ पुनरुदात्तावेवं भवतः । परिगणनं किम् । विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा । आगच्छ भो माणवक विष्णुभूते । परिगणने च सत्यदूराद्धूतइति न वक्तव्यम् । पदान्तग्रहणं तु कर्त्त- व्यम् । इह मा भूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्येति किम् । शोभने खलु स्याःखट्वे३ ॥ चामन्त्रिते छन्दसि प्लुतविकारोयं वक्तव्यः ॥ * ॥ अग्न३,२ पत्नीव३ः ॥ तयोर्खावचि संहितायाम् ॥ १०८ ॥ तयोरिवुतौर्यकारवकारादेशौ भवतो ऽचि संहितायां विषये । संहि- तायामित्येतच्चाधिकृतमिति उत्तरमाध्यायपरिसमाप्तेर्यद्वक्ष्यामः संहितायामि-
७८४ ॥ काशिका ॥ ८ ॥ ३ ॥ स्त्येवं तद्वेदितव्यम् । अग्ना३वाशा । पटा३वाशा । अग्ना३यिन्द्रम् । पटा३वुद- कम् । अचीति किम् । अग्ना३इ । पटा३उ । संहितायामिति किम् । अग्ना- ३इ इन्द्रम् । पटा३उ उदकम् । इदुतोरासिद्धत्वादिको यणचीति न प्राप्नोती- त्ययमारम्भः । अथापि कथं चित्तयोः सिद्धत्वं स्यादेवमपि सवर्णदीर्घत्वनिवृ- त्त्यर्थं शाकलनिवृत्त्यर्थं च वक्तव्यमेतत् । अथापि तन्निवृत्त्यर्थं यन्नान्तरमस्ति तथापि यणस्वरनिवृत्त्यर्थमिदमारभ्यते । यणादेशस्यासिद्धत्वाद् उदात्तस्वरित- योर्यणः स्वरितोऽनुदात्तस्येत्येष स्वरो न भवति ॥ किं तु यण भवतीह न सिद्धं य्वात्रिदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥ ऋक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् । तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ॥ ॥ इति काशिकायां वृत्तौ अष्टमाध्यायस्य द्वितीयः पादः ॥ ॥ अथ अष्टमाध्यायस्य तृतीयः पादः ॥ मतुवसो रु संबुद्धौ छन्दसि ॥ १ ॥ संहितायामिति वर्तते । मत्वन्तस्य वस्वन्तस्य च पदस्य रुदित्ययमा- देशो भवति सम्बुद्धौ परतः छन्दसि विषये । मत्वन्तस्य तावत् । इन्द्र मरुत्व इह पाहि सोमम् । हरिवो मेदिनं त्वा । मरुतोऽस्य सन्ति, हरयोऽस्य सन्ति,- इति मतुप् । सुपुमोर्हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुर्भव- ति । वस्वन्तस्य खल्वपि । मीढ्वस्तोकाय तनयाय । इन्द्र साह्वः । क्वसोर्नै- पातनं दाश्वान् साह्वानिति । मतुवशोरिति किम् । ब्रह्मन्स्तोश्यामः । संबु- द्धाविति किम् । य एवं विद्वानग्निमाधत्ते । छन्दसीति किम् । हे गोमन् । हे यवमन् ॥ वन उपसंख्यानं कर्तव्यम् ॥ * ॥ यस्त्वायन्तं वसुना प्रातरित्वः । इणः प्रातः पूर्वस्य छन्दसि कनिप् ॥ विभाषा भवद्भगवदघवतामोच्चा- वस्य ॥ * ॥ छन्दसि भाषायां च भवद् भगवद् अघवद् इत्येतेषां विभाषा वक्तव्यो ऽवशब्दस्य च ओकारादेशः । समान्येन छन्दसि भाषायां चेदं वच- नम् । भवत् । हे भोः । हे भवन् । भगवद् । हे भगोः । हे भगवन् । अघ- वत् । हे अघोः । हे अघवन् । निपातनविज्ञानाद्वा सिद्धम् । अथ वा भोइ- त्येवमादयो निपाता द्रष्टव्याः । असंबुद्धावपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ । भो देवदत्तयज्ञदत्तविष्णुमित्राः । तथा स्त्रियामपि च